०९ नवमोऽध्यायः

परिग्रहोऽयं दुःखाय यद्यत् प्रियतमं नृणाम्

॥ अथ नवमोऽध्यायः ॥

ब्राह्मण उवाच—

परिग्रहोऽयं दुःखाय यद्यत् प्रियतमं नृणाम् ।

अन्ततः सुखमाप्नोति तद् विद्वान् यस्त्वकिञ्चिनः ॥ १ ॥

पदरत्नावली

तिरश्चीनात् कुरराख्यखगात् किं विशिष्टं ज्ञानं शिक्षितमत्राह– परिग्रह इति । नृणां प्रियतमं यद्यद् वित्तं तस्य परिग्रहस् तस्य वित्तस्यान्ततो नाशाद् दुःखाय भवति । ततः किं फलितमत्राह– तदिति । तत् तस्माद् यो विद्वान् सोऽकिञ्चनो भवेत् । त्यक्तपरिग्रहो भवेत् । स सुखमाप्नोति ॥ १ ॥

श्रीनिवासतीर्थीया

कुरराच्छिक्षितां बुद्धिमाह ॥ परिग्रह इति ॥ प्रियतमं धनादि । तस्मात्परिग्रहो न कार्य इति शेषः । तदनन्तरं किमित्यत आह ॥ अन्तत इति ॥ पश्चा-त्तत्त्यागानन्तरमित्यर्थः । तत्तस्माद्विद्वान्यः स आदावेवाकिञ्चनो भवेदित्यर्थः ॥ १ ॥

प्रमेयचन्द्रिका

कुरराच्छिक्षितमुच्यते ॥ परिग्रह इति श्लोकद्वयेन ॥ यद्यत्प्रियतमं तस्य परिग्रह इति सम्बन्धः । तद्विद्वान् परिग्रहस्य दुष्टसाधनत्वं विद्वान् यस्त्वकिञ्चनः परित्यक्तपरिग्रहः । त्यागकाले किञ्चिद्दुःखेऽप्यन्ततः सुखमाप्नोतीत्यर्थः ॥ १,२ ॥

सामिषं कुररं जघ्नुर्बलिनो ये निरामिषाः ।

तदामिषं परित्यज्य स सुखं समविन्दत ॥ २ ॥

पदरत्नावली

इममर्थं चित्तीकरोति सामिषमिति । परिग्रहो न कर्तव्य इति कुरराच्छिक्षित-मिति भावः ॥ २ ॥

श्रीनिवासतीर्थीया

अन्ततः सुखमित्यत्र कुररदृष्टान्तमाह ॥ सामिषमिति । आमिषं मांसम् ॥ २ ॥

न मे मानावमानौ स्तो न चिन्ता गेहपुत्रिणाम् ।

आत्मक्रीड आत्मरतो विचरामीह बालवत् ॥ ३ ॥

द्वावेव चिन्तया मुक्तौ परमानन्द आप्लुतौ ।

यो विमूढो जडो बालो यो गुणेभ्यः परं गतः ॥ ४ ॥

पदरत्नावली

अर्भकाच्छिक्षितमाह– न म इति । इह पुत्रवतां या वित्तैषणादिचिन्ता सापि मम नास्ति ॥ ननु तर्हि कीदृशस्य चिन्ता नस्तीत्यत्राह– द्वाविति । विमूढः सर्वथा ज्ञानशून्यः जडः जडसदृशः । गुणेभ्यः सत्वादिभ्यः परं तल्लेपरहितं विलक्षणमीश्वरं गतः ज्ञातः परमात्मगुणामृतमनुभवन्नित्यर्थः ॥ ३,४ ॥

श्रीनिवासतीर्थीया

अर्भकाच्छिक्षितां बुद्धिमाह ॥ न म इति ॥ या चिन्ता सा मे नेत्यर्थः । तत्र हेतुरात्मेत्यादि ॥ ३,४ ॥

प्रमेयचन्द्रिका

अर्भकाच्छिक्षितमुच्यते ॥ न म इति श्लोकद्वयेन ॥ ३,४ ॥

क्वचित् कुमारी त्वात्मानं वृण्वानान्२ गृहमागतान् ।

स्वयं तानर्हयामास क्वापि यातेषु बन्धुषु ॥ ५ ॥

तेषामभ्यवहारार्थं शालीन् दृषदि पार्थिव ।

अवघ्नन्त्याः प्रकोष्ठस्थाश्चक्रुः शङ्खाः स्वनं महत् ॥ ६ ॥

पदरत्नावली

कुमार्याः शिक्षितज्ञानमाह– क्वचिदिति । वृण्वानान् वरणेच्छून् । अर्हण-मभ्यागतपूजनम् ॥ अभ्यवहारार्थम् अभ्यवहारो भोजनम् । शालीन् व्रीहीन् । दृषदि व्रीहिकुट्टन-पाषाणे । शालयः कलमाद्याश्च षष्ठिकाद्याश्च पुंस्यपीत्यमरः शङ्खा वलयानि । यथा महत्परिमाणं भवति तथा स्वनं चक्रुरिति क्रियाविशेषणम् ॥ ५,६ ॥

श्रीनिवासतीर्थीया

एकाकितया चारित्वं कुमार्याः शिक्षितमिति वक्तुमाह ॥ काचिदिति ॥ अर्हणमभ्यागतपूजनम् । दृषदि व्रीहिकुट्टनपाषाणे । स्वनं ध्वनिम् । महन्महान्तम् । क्रियाविशेषण-मव्ययं वा ॥ ५,६ ॥

प्रमेयचन्द्रिका

कुमार्या शिक्षितमुच्यते ॥ क्वचिदिति ॥ काचिदिदिभिः षडि्भः श्लोकैः ॥ वृणानान्वरयितुमागतान् । अर्हयामास । आतिथ्यादिना अपूजयत् ॥ ५ ॥

सा तं जुगुप्सितं मत्वा महती व्रीडिता ततः ।

बभञ्जैकैकशः शङ्खान् द्वौ द्वौ पाण्योरशेषयत् ॥ ७ ॥

पदरत्नावली

बुद्ध्या महती कुमारी, महती विवाहोत्सवे वर्तमाना, तद्योग्येत्यर्थः । अभ्यागतसमये व्रीहिताडनं दारिद्य्रसूचकमिति व्रीडिता लज्जिता स्वदेहस्यातिकृशत्वसूचकत्वेन च । तत् स्वनकरणं जुगुप्सितं मत्वा ॥ ७ ॥

श्रीनिवासतीर्थीया

व्रीडिता । एतेऽतिदरिद्रा यतोऽस्मदागमनानन्तरमिदानीं व्रीहीन्कण्ड-यन्तीति वदिष्यन्ति । इदं च जुगुप्सितमिति मत्वा लज्जाऽस्याः सञ्जातेत्यर्थः ॥ ७ ॥

प्रमेयचन्द्रिका

महती विवाहोत्सवयोग्या प्राप्तयौवनेति वा । व्रीडिता कन्यार्थागमनसमये स्वयमेव कलमकुट्टनं दारिद्य्रसूचकमिति व्रीडा भवति ॥ ७ ॥

उभयोरप्यभूद् घोषो अवघ्नन्त्याः स्म शङ्खयोः ।

तत्राप्येकं निरभिनदेकस्मान्न भवेद् ध्वनिः ॥ ८ ॥

पदरत्नावली

घोषो अवघ्नन्त्या इत्यसन्धिकरणेनाभ्यागतैः शङ्खस्वनो न श्रुत इति सूच्यते । असन्धिश्च विवक्षावशात् क्रियत इति वैयाकरणैरुक्तत्वाच्च । निरभिनन् निरभिदत् ॥ ८ ॥

श्रीनिवासतीर्थीया

घोषो अवघ्नन्त्या इति प्रकृतिभावकरणेनाभ्यागतैः शङ्खस्वनो न श्रुत इति सूच्यते ॥ ८ ॥

अन्वशिक्षमिमं तस्या उपदेशमरिन्दम ।

लोकाननुचरन्नेताल्लोकतत्वविवित्सया ॥ ९ ॥

पदरत्नावली

इदं कथं सम्भाव्यत इत्यत्राह– लोकानिति ॥ ९ ॥

श्रीनिवासतीर्थीया

ननु सा कुत्र, त्वं कुत्र स्थितः । तस्या इदं त्वं कथमन्वशिक्ष इत्यत आह ॥ लोकानिति ॥ ९ ॥

प्रमेयचन्द्रिका

कथमिदं त्वया ज्ञातमित्यत उक्तम् ॥ लोकानिति ॥ तद्दर्शनेन मम शिक्षा भवेदिति कारणेनाहं लोकतत्वज्ञानेच्छया लोकाननुचरं तेनेदं शिक्षितमित्यर्थः ॥ ९ ॥

वासो बहूनां कलहो भवेद् वार्ता द्वयोरपि ।

एक एव चरेत् तस्मात् कुमार्या इव कङ्कणः ॥ १० ॥

तात्पर्यम्

‘असज्जनैस्तु संवासो न कर्तव्यः कथञ्चन । यावद्यावच्च बहुभिः सज्जनैः स तु मुक्तिद’ इति षाड्गुण्ये ॥ १० ॥

पदरत्नावली

एकाकित्वस्य विपक्षे बाधकमाह– वास इति । अत्र दुर्जनैः सह वासो निषिध्यते न तु सद्भिस् तस्य विहितत्वात् । ‘‘असज्जनैस्तु संवासो न कर्तव्यः कथञ्चन । यावद्यावच्च बहुभिः सज्जनैः स तु मुक्तिदः’’ इति वचनात् ॥ १० ॥

श्रीनिवासतीर्थीया

वासो बहूनां कलह इति श्लोके सज्जनसंवासोऽपि न कार्य इति प्रतीयतेऽतस्तात्पर्यमाह ॥ असज्जनैस्त्विति ॥ बहुभिरिति द्वयोरप्युपलक्षणमिति । यावद् यावद् यावान् यावान् । तथा चैवं मूलं योज्यम् । एकस्य सज्जनस्य बहुभिरसज्जनैर्वासो यदि तदा सः कलहकारी । यदि चैकः सज्जनोऽपरस्त्वसज्जन एवमुभयोः सज्जनासज्जनयोर्वासस्तर्हि स वासो वार्ता चटगोष्ठीकारी यस्मात्तस्माद्दुर्जनसङ्गतिं विहाय सज्जन एक एव चरेदित्यर्थः । सज्जनैर्बहुभिः संवासो यः स मुक्तिद एवेत्याशयः ॥ १० ॥

प्रमेयचन्द्रिका

तेनापि शिक्षितं दर्शयति ॥ वास इति ॥ अत्रैक एव चरेदिति केनापि सङ्गो न कार्य इति प्रतीतिवारणाय सज्जनसंगोऽवश्यं कार्य इति प्रमाणेनाह भगवानाचार्यः ॥ असज्जनैरिति ॥ तुरेवार्थे । तथा चैक एवेत्यवधारणमसज्जनसङ्गनिरासपरमेवेति भावः । तत्रापि सत्सङ्गतिसम्भवे फलाधिक्यमित्याह ॥ यावदिति ॥ स तु स एव सत्सङ्ग एव तु अतिशयेन मुक्तिद इत्यर्थः ॥ १० ॥

मन एकत्र संयुज्याज्जितश्वासो जितासनः ।

वैराग्याभ्यासयोगेन ध्रियमाणमतन्द्रितः ॥ ११ ॥

पदरत्नावली

इषुकाराच्छिक्षितबुद्धिप्रकारमाह– मन इत्यादिना । एकत्र परमात्मनि

॥ ११ ॥

श्रीनिवासतीर्थीया

शरकृतः शिक्षितां बुद्धिं वक्तुमाह ॥ मन इत्यादिना ॥ ननु चञ्चलं हि मनः कृष्ण प्रमाथि बलवद्दृढम् । तस्याहं निग्रहं मन्ये वायोरिव सुदुष्करमिति भगवद्वचनमिति चेत्सत्यम् । असंशयं महाबाहो मनो दुर्निग्रहं चलमिति । तथाऽप्यभ्यासेनैव कौन्तेय वैराग्येण निगृह्यत इत्याह ॥ वैराग्येति ॥ ११ ॥

यस्मिन् मनो लब्धपदं यदेतच्छनैः शनैर्मुञ्चति कर्मरेणून् ।

सत्वेन वृद्धेन रजस्तमश्च विधूय निर्वाणमुपैत्यनिन्धनम् ॥ १२ ॥

तदेवमात्मन्यवरुद्धचित्तो न वेद किञ्चिद् बहिरन्तरं वा ।

यथेषुकारो नृपतिं व्रजन्तमिषौ गतात्मा न ददर्श पार्श्वे ॥ १३ ॥

तात्पर्यम्

‘बाह्यं मनो विलीनं स्यान्मुक्तौ चिन्मात्रकं मनः । तेनैवानुभवेत्सर्वं स्वात्माभिन्नेन मुक्तिद’ इति मुक्तितत्त्वे ॥

पदरत्नावली

ब्रह्मणि मनोयोजनेन किं फलं येनावश्यं कर्तव्यं स्यादित्यत्राह यस्मिन्नति । यन्मनो दुष्कर्मरेणून् मुञ्चति तद् बाह्यमचिन्मनः निर्वाणं नाशमुपैति । कथमिति । अनिन्धनं ज्योतिरिवेति लुप्तोपमा । ‘‘बाह्यं मनो विलीनं स्यान्मुक्तौ चिन्मात्रकं मनः । तेनैवानुभवेत् सर्वं स्वात्माभिन्नेन मुक्तिगम्’’ इति वचनाद् बाह्यमेव नश्यति न चिन्मात्रं तन्नाशे विषयानुभवोक्ति-र्विरुध्येतेति ॥ अचिन्मनोनाशानन्तरं चिन्मनसा ध्यानप्रकरमाह– तदेवमिति ॥ १२,१३ ॥

श्रीनिवासतीर्थीया

एकत्र कस्मिन्नित्यत आह ॥ यस्मिन्निति ॥ एतन्मनो लब्धपदम् अचाञ्चल्येन स्थितं भवतीति यावत् । तस्मिन्नेकत्र हरावित्यन्वयः । निर्वाणं नाशम् । अनिन्धनं काष्टरहितं ज्योतिरिवेति लुप्तोपमा । तद्वद्बाह्यान्तःकरणं नाशमुपैति । चिन्मात्रमनसा मुक्तौ भोगाननुभवतीति भोगाभावो न शङ्क्यः । अत्र तात्पर्यम् ॥ बाह्यं मन इति ॥ १२,१३ ॥

दुर्घटभावदीपिका

तत्तस्माद्भगवत्यन्तःकरणस्थापनस्य मोक्षहेतुत्वात् । बहिर्बहिःस्थित-मन्तरमन्तःस्थितं वा । किञ्चिदपि यथा स्वयं न वेद जानीयात् । एवं तथा भगवत्यवरुद्धचित्तो भवेत् । अत्र दृष्टान्तमाह ॥ यथेति । यथेषुकारः पार्श्वे व्रजन्तं राजानं स्वयं यथा न ददर्श न जानीयात् । तथेषौ गतात्मा इषुस्थितान्तःकरणो जातस्तथेति । अयं भावः । इषुकारो बाह्यराजादिदर्शनविरोध्यन्तःकरणस्थापनम् इषौ कृतवांस्तथा ज्ञानी बाह्यान्तरज्ञानविरोध्यन्तःकरणस्थापनं भगवति कुर्यादिति ॥ १३ ॥

प्रमेयचन्द्रिका

शरकृता शिक्षितं वक्तुमुपोद्घातपरे यस्मिन्निति श्लोके अनिन्धनानलव-न्निर्वाणपदोक्तविनाशो मनसो ज्ञानस्य च श्रूयते । तदयुक्तम् । मुक्तस्य मननाद्यभावे दर्शनादिभोगा-योगादित्यतो मनो द्विविधं मनोऽन्तःकरणरूपं चिन्मात्रं चेति । तत्राद्यस्य नाशेऽपि चिन्मात्रेण भवति भोगादिरित्याशयेन प्रमाणमाह ॥ बाह्यमिति ॥ मूले यस्मिन्नात्मनि हरौ लब्धव्यवस्थानं मनो दुष्कर्मरेणून्मुञ्चति । सत्वगुणं वर्धयतीति ग्राह्यम् । सत्वेन वृद्धेन रजस्तमश्च विधूय अनिन्धनो वह्निर्यथा निर्वाणं नाशमुपैति । तथा तस्मात्तस्मिन्नात्मनि परमेश्वरे व्यवस्थितचित्तो संप्रज्ञातसमाधिमान्न वेदेत्यादियोजना ॥ १२,१३ ॥

एकचार्यनिकेतः स्यादप्रमत्तो गुहाशयः ।

अलक्षमाण आचारैर्मुनिरेकोऽल्पतोषणः ॥ १४ ॥

पदरत्नावली

अनिकेतनत्वेन एकत्वेन च सञ्चरणं दुःखहेतुकर्मानारम्भश्च सर्पाच्छिक्षितमित्याह एकचारीति । अत्रैकचारित्वादिकं विधेयं न तु विशेषणम् । गुहायां हृत्कमलमध्ये गूढायां परदेवतायामशयोऽन्तःकरणं यस्य स तथा, निरन्तरं भगवदुपासनापर इत्यर्थः । अल्पेनाशनादिना तोषणं तृप्तिर्यस्य स तथा ॥ १४ ॥

श्रीनिवासतीर्थीया

आचारैः स्वकर्तव्यैरयमेतादृश इत्यज्ञायमानः ॥ १४ ॥

दुर्घटभावदीपिका

एक इत्यस्यावासस्थानेऽसहाय इत्यर्थः । एतेनैक इत्येतदेकचारीत्यनेन पुनरुक्तमिति दूषणस्यानवकाशः । एकचारीत्यनेन सञ्चरणकालेऽसहायत्वमुच्यते । एक इत्यनेन गृहाद्यावासस्थानेऽसहायत्वमुच्यत इत्यभ्युपगमात् ॥ १४ ॥

प्रमेयचन्द्रिका

सर्पाच्छिक्षितमुच्यते एकचारीति श्लोकद्वयेन ॥ अनिकेतो गृहरहितः । गुहा गृहरहितं ब्रह्म तत्राशयोऽन्तःकरणं यस्य सः गुहाशयः । निकेताभावे शयनं गुहादाविति । आचारैः सदाचारैः संचरणैर्वा ॥ १४ ॥

गृहारम्भो हि दुःखाय विफलश्चाध्रुवात्मनः ।

सर्पः परकृतं वेश्म प्रविश्य सुखमेधते ॥ १५ ॥

पदरत्नावली

अध्रुवात्मनो ऽनित्यदेहस्य जीवस्य । अत्र लुप्तोपमामाह– सर्प इति । अनेन निवासोपायोपि दर्शित इति ॥ १५ ॥

श्रीनिवासतीर्थीया

परकृतं वेश्मेत्यनेनानिकेतः स्यादित्युक्तौ तर्हि कुत्र निवसेदिति शङ्कायां निवासोपायः प्रदर्शित इत्यवधेयम् ॥ १५ ॥

प्रमेयचन्द्रिका

सर्प इति लुप्तोपमा । एतेन निवासोपयोगोऽन्योऽपि दर्शितो भवति

॥ १५ ॥

एको नारायणो देवः पूर्वसृष्टं स्वमायया ।

संहृत्य कालकलया कल्पान्त इदमीश्वरः ॥ १६ ॥

एक एवाद्वितीयोऽभूदात्माधारोऽखिलाश्रयः ।

कालेनात्मानुभावेन साम्यं नीतासु शक्तिषु ॥ १७ ॥

सत्वादिष्वादिपुरुषः प्रधानपुरुषेश्वरः ।

परावराणां परम आस्ते कैवल्यसंज्ञितः ॥ १८ ॥

तात्पर्यम्

‘कालप्रकृतिजीवादौ लयेऽसत्यप्रवर्तनात् । तन्निमित्तस्य कार्यस्य विष्णुरेक इतीर्यते । स हि कालादिकं सर्वं वर्तयत्यमितद्युतिरि’ति तत्त्वलये ॥ ‘‘प्रकृतिश्च गुणाश्चैव शक्यत्वाच्छक्तयः स्मृताः । विष्णोः स्वरूपभूता तु शकनाच्छक्तिरुच्यत’ इति शक्तिविवेके ॥ १८ ॥

पदरत्नावली

ऊर्णानाभेरुपशिक्षितमाह– एक इति । एकः केवलो निरपेक्षः नारायणो देवः स्वमायया स्वेच्छया कल्पान्ते कालकलया संहारकांशेन पूर्वसृष्टमिदं जगत् संहृत्य एकत्वसङ्ख्या-विशिष्टोऽभूत् ॥ कालादीनां तदा सत्वात् कथमिदमुपपद्यत इति तत्राह– अद्वितीय इति । एतादृशोऽन्यो नास्तीत्येवोच्यते नतु सर्वात्मना सर्वनिषेधेन । तथा सति सर्वस्य तेनैक्यमुपपन्नं स्यात् । न च तद् युक्तम् । कुतोऽत्राह– अखिलाश्रय इति । नह्यादाराधेययोरैक्यं क्वापि दृष्टचरम् । नन्वेतदृष्टान्तेन तस्याधारान्तरकल्पनं स्यादत्राह– आत्माधार इति । नन्वेतद् युक्तिविरुद्धमत्राह– ईश्वर इति । एतदेव विवृणोति कालेनेति । आत्मनः स्वस्यानुभावेन (सामर्थ्येन) तत्तत्कालोचित-सृष्ट्यादिभावसूचकेन कालेन तदन्तर्यामिणा सत्वादिगुणशब्दवाच्यासु शक्यत्वात् शक्तिषु साम्यं साम्यावस्थां नीतासु सतीषु प्रधानपुरुषयोर्ब्रह्मसरस्वत्योरीश्वर आदिपुरुषः, परावराणां कार्यकारणानां परमः, व्यापारमन्तरेणास्ते । तदा किं नामेत्यत्राह– कैवल्येति । समाधिकरहित इति । सत्वादि-गुणानां शक्तिशब्दवाच्यत्वे किं प्रमाणमित्येतच्चोद्यम् ‘‘प्रकृतिश्च गुणाश्चैव शक्यत्वाच्छक्तयः स्मृताः । विष्णोः स्वरूपभूता तु शक्तत्वाच्छक्तिरुच्यते’’ इत्यनेन परिहृतमिति ज्ञातव्यम् । काल-प्रकृत्यादिप्रवर्तनोदासीनत्वाभिप्रायेण एक इति वा पुनरुक्तम् । ‘‘कालप्रकृतिजीवादौ लये सत्यप्रवर्तनात् तन्निमित्तस्य कार्यस्य विष्णुरेक इतीर्यते । स हि कालादिकं सर्वं वर्तयत्यमितद्युतिः’’ इति वचनात्

॥ १६–१८ ॥

श्रीनिवासतीर्थीया

ऊर्णनाभिशिक्षितं भगवज्ज्ञानमाह ॥ एक इत्यादिना ॥ कालकलया संहारकांशेन ॥ एक एवेत्यत्र प्रकृत्यादेरभावः प्रतीयतेऽतस्तात्पर्यमाह ॥ कालेत्यादिना ॥ सत्यपि स्वरूपतः । ननु यथा कालादिनिमित्तककालस्यावर्तनात्कालादेरभाव एवं भगवन्निमित्तकार्यस्यापि प्रलयेऽभावात्तदभावोऽपि किं नेत्याह ॥ स हीति ॥ शक्तिषु सत्त्वादिष्विति सामानाधिकरण्येन भगवत्स्वरूपभूतशक्त्यभेदः प्रतिभाति । अतस्तात्पर्यमाह ॥ प्रकृतिश्चेति ॥ शक्यत्वादित्युक्त्या कर्मव्युत्पत्त्या सत्त्वादीनां शक्तिशब्दवाच्यत्वमुक्तं भवति । भगवत्प्रेरणारूपशक्तिविषयत्वादित्यर्थः । शकनात्प्रेरणारूपत्वात् । अनेन भावव्युत्पत्त्या भगवच्छक्तेः शक्तिशब्दवाच्यत्वमुक्तं भवति । कैवल्यसंज्ञितः समाधिकरहितः ॥ १६–१८ ॥

प्रमेयचन्द्रिका

ऊर्णनाभेः शिक्षितं सोपोद्घातमाह ॥ एक एवेत्यादिभिः षड्भिः श्लोकैः ॥ अत्र प्रलयकाले हरेरेकस्यैवावस्थानमुच्यते । तदयुक्तम् । कालप्रकृतिजीवाकाशवेदानां नित्यत्वेन तदा विद्यमानत्वादित्यत आह ॥ कालेति ॥ प्रवाहरूपः कालोऽत्र विवक्षितः । यद्यत्प्रकारक-क्रियाकारि तत्तथा वर्तते इति चेत्तदस्तीति लोको व्यवहरति । कालप्रकृत्यादिकं च जगदुदयादौ निमित्तत्वोपादानत्वादर्थकारि । न चैतदर्थक्रियाकारित्वं प्रलयेऽस्ति । अतः स्वरूपतः सदपि कालादिकमविद्यमानप्रायमेवेति नारायण एक एवासीदिति उपपन्नमिति भावः ॥ ननु लये देशकालादेः स्वकार्याक्षमत्वे कालप्रकृतिजीवादिस्वरूपस्तत्रैव न स्यात् । देशकालानपेक्षा हि न सत्ता क्वापि विद्यत इत्युक्तेरित्यत आह ॥ स हीति ॥ तदा केवलेच्छयैव सत्ता सम्पद्यत इति भावः । मूले स्वमायया स्वेच्छया । कालकलया संहारकरूपेण । अद्वितीयः स्वतन्त्रवस्त्वन्तररहितः । आत्मानुभावेन आत्मस्वरूपतोऽनुभवः सामर्थ्यं यस्य तेन कालान्तर्यामिणा । प्रधानपुरुषयोः प्रकृति-जीवाभिमानीसरस्वतीविरिञ्चयोरीश्वरः परावराणां मुक्तामुक्तानां कार्यकारणानां सकाशात्परमः । सर्वोत्तमत्वात्कैवल्यनामा । केवलेति जडामिश्रेत्यर्थः । ज्ञानानन्दसङ्घातरूपः । बाह्यान्तःकरणा-द्युपाधिरहितः । अत्र सत्वादीनां भगवच्छक्तिशब्दत्वं कथमित्यत आह ॥ प्रकृतिरिति ॥ शक्यत्वाच्छक्तिविषयत्वात् ॥ १६–१८ ॥

केवलानुभवानन्दसन्दोहो निरुपाधिकः ।

कालेनात्मानुभावेन स्वमायां त्रिगुणात्मिकाम् ॥ १९ ॥

पदरत्नावली

संहारप्रकारमुक्त्वा तस्मात् सृष्टिप्रकारमाह केवलेति । निरुपाधिको जडदेहरहितः । कालेन कालान्तर्यामिणा । आत्मनः स्वस्माद् अनुभावो जन्म व्यक्तिर् यस्य स तथा तेन ॥ १९ ॥

श्रीनिवासतीर्थीया

निरुपाधिको जडशरीररहितः ॥ १९ ॥

प्रमेयचन्द्रिका

संहारप्रकारमुक्त्वा सृष्टिप्रकार उच्यते ॥ केवलानन्देत्यादिना ॥ कालेन कालव्यञ्जकेन रूपेण ॥ १९ ॥

संक्षोभयन् सृजत्यादौ तया सूत्रमरिन्दम ।

तामाहुस्त्रिगुणां व्यक्तिं सृजतीं विश्वतोमुखम् ।

यस्मिन् प्रोतमिदं विश्वं येन संसरते पुमान् ॥ २० ॥

पदरत्नावली

सृष्ट्यभिमुखी कुर्वन् तया प्रकृत्या सूत्रं प्राणं ब्रह्माणं च सृजति । मायायाः स्वरूपमाह तामिति । विश्वतोमुखं सर्वदिक्षु यथा मुखं भवति तथा सृजतीम् । यस्मिन् प्रकृति-स्वरूपे । येन प्रधानेन । ‘‘विलीनः प्रकृतौ संसारमेति’’ इति श्रुतेः । कालेन सृष्ट्युपहितेन । नैतावता सापेक्षत्वम् । आत्मानुभावेन स्वसामर्थ्येनेति वा ॥ २० ॥

श्रीनिवासतीर्थीया

सूत्रं प्राणम् । अत्र वासुदेवादिरूपेण मायादिकं निमित्तीकृत्य जाता सर्वाऽपि सृष्टिर्द्रष्टव्या । त्रिगुणानां व्यक्तिर्यस्याः सकाशात्सा तथा । विश्वतोमुखं सर्वदिगभिमुखम् । यस्मिन्प्रकृतिस्वरूपे । येन प्रधानेन ॥ २० ॥

दुर्घटभावदीपिका

यस्मिन्यस्यां महालक्ष्म्यामिदं विश्वं प्रोतं येन यया महालक्ष्म्या पुमान्संसरते तां महालक्ष्मीं त्रिगुणव्यक्तिं सत्त्वादित्रिगुणोत्पादिकां विश्वतोमुखं नानाविधं जगत्सृजन्ती-माहुरिति । एतेन तामित्यस्य स्त्रीलिङ्गत्वात् । यस्यां ययेति वक्तव्यं यस्मिन्येनेति कथनमयुक्तमिति दूषणं परिहृतम् । लक्ष्म्याः पुंवच्छक्तिरस्तीति ज्ञापनार्थं पुल्लिङ्गप्रयोगः कृत इत्यभ्युपगमात्

॥ २० ॥

प्रमेयचन्द्रिका

सूत्रं मुख्यप्राणम् ॥ मायाशब्दोक्तप्रकृतिस्वरूपं दर्शयति ॥ यत्रेति ॥ विश्वतोमुखमिति क्रियाविशेषणम् । यस्मिन्नव्यक्ते प्रकृतावित्यर्थः ॥ २० ॥

यथोर्णनाभिर्हृदयादूर्णां सन्तत्य वक्त्रतः ।

तया१ विहृत्य भूयस्तां ग्रसत्येवं महेश्वरः ॥ २१ ॥

पदरत्नावली

अत्रोदहरति यथेति । ऊर्णां लालां वक्त्रतो मुखेन सन्तत्य विस्तृत्य । यथा यथेच्छम् ॥ २१ ॥

श्रीनिवासतीर्थीया

हृदयाद्धृदयमारभ्य वक्त्रपर्यन्तमन्तरूर्णां लालामानीय बहिस्तु वक्त्रतः सन्तत्य विस्तृत्येति योज्यम् । यथा विहृत्येति पाठे यथेत्यस्य यथेच्छमित्यर्थः ॥ २१ ॥

प्रमेयचन्द्रिका

अत्रोर्णनाभिव्यापारं दृष्टान्ततया दर्शयति ॥ यथेति ॥ ऊर्णां तन्तुं हृदयादुद्धृत्य वक्त्रतः सन्तत्य विस्तृत्य । तामूर्णाम् ॥ २१ ॥

यत्र यत्र मनो देही धारयेत् सकलं धिया ।

स्नेहाद् द्वेषाद् भयाद् वापि याति तत्तत्सरूपताम् ॥ २२ ॥

कीटः पेशस्करं१ ध्यायन् कुड्यां तेन प्रवेशितः ।

याति तत्साम्यतां राजन् पूर्वरूपमसंत्यजन् ॥ २३ ॥

तात्पर्यम्

‘भयादपि हरिं भक्त्या चिन्तयंस्तत्स्वरूपताम् । पेशस्कारिवदायाति द्विषन् द्वेषसरूपताम् । सुखरूपस्य हि द्वेषो दुःखरूप इतीर्यते । तस्माद्दुःखं सदा याति द्वेषवान्पुरुषोत्तमे । नृसिंहद्वेषतो दुःखं रक्षोरूपेण रावणः । अगाच्च रामविद्वेषाच्छिशुपा-लस्तथैव च । ततो भक्त्या परं यातो द्वेषरूपस्त्वधोगतिम् । तस्मात्सर्वगुणोद्रेकि-विद्वेषात्सर्वदोषवान् । भवेदिति सरूपत्वं द्वेषादेः पुरुषस्य ही’ति भागवततन्त्रे ॥ ‘तं यथा यथोपासते तदेव भवति’ । ‘तं भूतिरिति देवा उपासाञ्चक्रिरे ते बभूवुस्तस्मा-द्धाप्येतर्हि सुप्तो भूर्भूरित्येव प्रश्वसित्यभूरित्यसुरास्ते ह पराबभूवुरि’त्यादि च ॥

‘सत्यप्यत्यल्पविद्वेषे भोजनं दास्यतीति तु । स्नेहबाहुल्यतः कीटः पेशस्कारिसमो भवेत् । द्वेषे सर्वात्मना नष्टे स्नेहे चैव विवर्धति । सरूपता तदैव स्यात्कीटस्यैवं हरेरपि । अत्यल्पोऽपि हरेर्द्वेषः स्नेहस्यानुदयङ्करः । सोऽयं विशेषो नान्यस्य फलदाता च केशवः । न हि पेशस्कृतः किञ्चित्फलदातृत्वमिष्यते । स्वातन्त्र्याद्विद्विषां चैव केशवो न सुखप्रद’ इति स्वातन्त्र्यविवेके ॥ २२,२३ ॥

पदरत्नावली

पेशस्कृतः शिक्षितां बुद्धिमाह– यत्रेति । देही यत्र यत्र स्नेहसङि्क्लन्नया धिया मनो धारयेत् तत्तत्सरूपतां तस्य सदृशरूपतां याति । अत्रेदं तात्पर्यम् । स्निग्धया धिया ध्यायति चेत् स्निग्धरूपं सुखं याति, द्वेषधिया चिन्तयति चेद् द्विष्टरूपं दुःखं यातीत्यादि योज्यम् । तदुक्तम् ‘‘भयादपि हरिं भक्त्या चिन्तयंस्तत्सरूपताम् । पेशस्कारिवदायाति द्विषन् द्वेषसरूपताम्’’ इति । द्विष अप्रीताविति धातोः सुखरूपस्यापि हरेर्द्वेषस्य दुःखरूपत्वात् तत्सरूपतां यातीति युक्तम् । ‘‘सुखरूपस्य विद्वेषो दुःखरूप इतीर्यते । तस्माद् दुःखं सदा याति द्वेषवान् पुरुषोत्तमे’’ इति च । रावणादीनां रामादिद्वेषान्निर्दुःखानन्दभगवत्स्वरूपप्राप्त्युक्त्या सुखावाप्तिरिति श्रुतेः का गतिरिति चेदुच्यते । तत्र रक्षोरूपादीनां द्वेषाद् दुःखावाप्तिः, जयादीनामेव तत्स्वरूपप्रवेशेन सुखावगतिः । ‘‘नृसिंहद्वेषतो दुःखं रक्षोरूपेण रावणः । अगाच्च रामविद्वेषाच्छिशुपालस्तथैव च । ततो भक्त्या परं यातो द्वेषरूपात् तमोगतिः’’ इति । ‘‘तस्मात् सर्वगुणोद्रेकिविद्वेषः सर्वदोषवान् । भवेदिति सरूपत्वं द्वेषादेः पुरुषस्य हि’’ इति मानात् । यथोपासनं फलानवाप्तौ श्रुतिव्याकोपश्च स्यात् । तं यथा यथोपासते तदेव भवतीति, तं भूतिरिति देवा उपासाञ्चक्रिरे ते बभूवुस्तस्माद्धाप्येतर्हि सुप्तो भूर्भूरित्येव प्रश्वसित्यभूतिरित्यसुरास्ते पराबभूवुरित्यादिश्रुतेः ॥

अत्रोदाहरति कीट इति । ननु भवदिष्टार्थे विषममुदाहरणम् । द्वेषात् तत्समताप्राप्त्यवगमात् । उच्यते । मह्यं भोजनं दास्यतीति स्नेहस्य बाहुल्येन क्रमेणाल्पस्य द्वेषस्य सर्वात्मना निवर्तनेन स्नेहस्य प्रवर्धनेन च तत्समतावाप्तिरिति ‘‘सत्यप्यत्यल्पविद्वेषे भोजनं दास्यतीति तु । स्नेहबाहुल्यतः कीटः पेशस्कारिसमो भवेत् । द्वेषे सर्वात्मना नष्टे स्नेहे चैव विवर्धति । सरूपता तदैव स्यात् कीटस्यैवं हरेरपि’’ इति । किञ्च हरेः फलदातृत्वविशेषात् पेशस्कृतस्तदभावादल्पद्वेषोपि हरेः प्रसादाजनक इत्यनयोर्न सर्वसाम्यम् । लोके च तथा दर्शनात् । ‘‘अत्यल्पोपि हरेर्द्वेषः स्नेहस्यानु-दयङ्करः । सोऽयं विशेषो नान्यस्य फलदाता च केशवः । न हि पेशस्कृतः किञ्चित् फलदातृत्व-मिष्यते । स्वातन्त्र्याद् विद्विषां चैव केशवो न सुखप्रदः’’ इति वचनात् ॥ २२,२३ ॥

श्रीनिवासतीर्थीया

पेशस्कृच्छिक्षितां यथाकथञ्चिद्धरौ मनोनिवेशनं कार्यमिति बुद्धिमाह ॥ यत्रेति । सकलं सवृत्तिकम् । कीटो कुड््यस्थो गृहविशेषः कीटः । अत्र श्लोके स्नेहाद्द्वेषान्मनोधारणं स्निग्धद्विष्टसरूपवद्भयान्मनोधारणे भयविषयसरूपत्वम् भवतीत्युच्यत इति भाति । तदयुक्तम् । स्नेहद्वेषवद्भयस्य सविषयकत्वाभावादिति चेत् । सत्यम् । भयं मनोनिवेशने न स्वतन्त्रसाधनत्वे-नोच्यते । किं नाम भयात्स्नेहादिति भयस्य स्नेहविशेषणत्वमङ्गीकृत्य भययुक्तस्नेहस्यैव साधनत्वम् । भयात्कंस इत्यत्रापि भययुक्तात्स्नेहादित्येवार्थः । कंसशब्देन भृगोर्विवक्षितत्वात् । मनुष्याद्याः सर्वेऽपि भययुक्तभक्ता एव । श्रुतिस्मृती ममैवाज्ञे इति विध्याद्यतिक्रमे भगवदाज्ञोल्लङ्घनमिति भयसद्भावादित्यादि हृदि कृत्वा भयात्स्नेहाद् द्वेषादित्युभयं पेशस्कारिदृष्टान्तं च सम्यग्विवृणोति ॥ भयादपीत्यादिना ॥ भयाद्युक्तया भक्त्येत्यन्वयः । किमु केवलभक्त्येत्यपिशब्दार्थः । को द्वेषः, किं च तत्सादृश्यमित्यत आह ॥ सुखरूपस्येति ॥ हरेरित्यर्थः ॥ दुःखरूप इति ॥ भावना द्वेष इतीर्यते हि यस्मात्तस्मा-त्पुरुषोत्तमे सदा द्वेषवान् दुःखरूपत्वभावनावान् दुःखं यातीत्यर्थः । इदं प्रकृतत्वादेवोक्तम् । वस्तुतस्तु यादृशं वस्तुस्वरूपं तदपेक्षयाऽन्यथाकारभावेनैव द्वेष इति सर्वत्रापि द्वेषशब्दार्थोऽयमेव । तादृशभावनया च भावनाविषयाऽन्यथाकारं स्वयमपि यातीति प्रकृते विवक्षितम् । अत्र दृष्टान्तमाह ॥ नृसिंहेति ॥ हिरण्यकशिपुर्मरणसमये वस्तुतः सच्चिदानन्दरूपं श्रीनृसिंहं दृष्ट्वा किमिदं लोकविलक्षणं प्रतीयते । तस्मादिदं भूतं राक्षसरूपमित्यन्यथाकारं भाव्य स्वयमपि रक्षोरूपी रावणो भूत्वा तेन रक्षोरूपेण दुःखमगात् । तत्रापि मरणसमये सच्चिदानन्दरूपं श्रीरामं दृष्ट्वा तस्मिन् रामे विद्वेषात्कश्चिद्राज-पुत्रोऽयमित्यन्यथाकारभावनया स्वयमपि शिशुपालसंज्ञकस्तथैव राजपुत्र एव जातस् ततस्तस्मिन् जन्मनि द्वेषेण कृष्णं बहुधा विनिन्द्य । अथो द्वेषरूपे तदानीं गते सति यदा भक्त्याऽभिवृद्धो जातस्तदा परं यात इत्यर्थः । तस्मात्सर्वगुणोद्रेकिणो विष्णोर्विद्वेषात्सर्वदोषोद्रिक्त भावनया स्वयमपि सर्वदोषवान्भवेत् । हि यस्मादिति तस्माद्द्वेषादेः सकाशात्पुरुषस्य सरूपत्वं भवतीत्युच्यत इत्यर्थ इति योज्यम् । अत्र श्रुतिमप्याह ॥ तमिति ॥ तमेव तत्सदृश एव । ये तं यथोपासते तेषां तदेवोपासनासदृशमेव फलं भवतीति वा । एतदेवोदाहरणभेदेन श्रुत्यैवाह ॥ तं भूतिरिति । बभूवुर्भूतिमन्तो जाताः । सुप्तः सुप्तजीवस्थो वायुः ॥

ननु वस्तुस्वरूपापेक्षयाऽन्यथाकारभावनाया एव द्वेषत्वात्तद्विषयान्यथाकाररूपं यातीत्युक्तमयुक्तम् । कीटः पेशस्कृति द्वेषं करोति । अयं मम निर्बन्धकर्ता हीन इत्याद्यन्यथाकारं भावयति । न हि स्वयं हीनत्वाद्यन्यथाकारवान् भवति । किं नामान्यथाकारोपेतपेशस्कृत्स्वरूप एवातो व्यभिचार इत्यत आह ॥ सत्यप्यत्यल्पेति ॥ पेशस्कारिसमः साम्यं प्राप्तुमारब्धः किञ्चित्साम्यं प्राप्नोतीत्येव न तु समग्रमित्यर्थः । विवर्धति सति सरूपतां समग्रसाम्यमित्यर्थः । तथा च यथास्थितध्येयसारूप्यं यत्तद्भक्तयैकसाध्यम् । न तु द्वेषेणातो न कुत्राप्यतिप्रसङ्गः । कीटस्य तु यथास्थितपेशस्कारि-रूपध्येयसादृश्यं स्नेहमात्रसाध्यम् । यथैवं हरेरपि सरूपता । यथावस्थितहरिरूपध्येयहरिसरूपत्वं सर्वात्मना द्वेषनाशे स्नेहाभिवृद्धौ च सत्यमेव भवति । यथा दृष्टं शिशुपाल इत्याशयः । पेश-स्कार्यपेक्षया हरौ विशेषः कथ्यते ॥ अत्यल्पोऽपीति ॥ अत्र हरौ । किञ्चित्फलेति ॥ स्व-सारूप्यलक्षणमित्यर्थः । सारूप्यस्य स्नेहस्वभावादेव जायमानत्वादिति भावः ॥ स्वातन्त्र्यादिति । फलदाने ईश्वरस्यैव स्वातन्त्र्यादित्यर्थः ॥ २२,२३ ॥

प्रमेयचन्द्रिका

पेशस्कृता शिक्षितमुच्यते श्लोकद्वयेन । अत्र स्नेहादिद्वेषभयाभ्यामपि हरिसामीप्यम् । तस्य भावस्तत्तामित्यर्थः । द्विषंश्चेद्वेषसारूप्यं याति । द्वेषसारूप्यं नाम किमित्यत आह ॥ सुखरूपस्येति ॥ ईर्यते । द्विषामप्रीतिताविधातु व्याख्यानात्सुखरूपे हरौ द्वेषो नाम तस्य रूपत्वादप्रीतिरेव । सा च तस्य दुःखरूपताभावनायां पर्यवस्यति । तं यथा यथोपासत इति न्यायेन द्वेषसारूप्यं दुःखप्राप्तिरेवेति भावेनाह ॥ तस्मादिति ॥ द्वेषस्य दुःखसाधनतां निदर्शनेन दर्शयति ॥ नृसिंह इति ॥ रावणः पूर्वदेहे नृसिंहद्वेषतो हेतोर्दुःखमगात् । शिशुपालोऽपि रावणत्वावस्थायां रामविद्वेषात्तथैव रावणवदेव दुःखमगात् । ततः शिशुपालत्वे देहत्यागकाले प्राप्तया भक्त्या परं हरिं यातः । उपसंहरति ॥ तस्मादिति ॥ तस्मात्तथा तथा भावनायास्तत्सदृश-फलापादकत्वात्सर्वगुणोद्रेकवति हरावप्रीतिस्तद्विरोध्यनुसन्धानात्स्वयमपि सर्वदोषवान्भवेदित्येतदेव पुरुषस्य द्वेषादिस्वरूपत्वं द्वेषात्तत्सरूपतां यातीत्यत्रोच्यते । न तु द्वेषेण मोक्ष इति भावः ॥

दुःखादिरूपत्वेन भगवच्चिन्तने दुःखादिकं भवतीत्यत्र प्रमाणमाह ॥ तं यथेति ॥ तदेव तथैव भवति । भूरित्युपासां भूतिकारणोऽस्माकमित्युपासाम् । ते बभूवुः । भूतिमन्त इति शेषः । भूतिकारणत्वेनोपासनं देवाः कुर्वन्तीत्येतद्विशेषनिष्ठतया दर्शयति ॥ तस्मादिति ॥ सुप्तः सुप्तजीवगतो वायुर् भूर्भूरिति स्वयं भूतिरूपोऽस्माकं च भूतिप्रापक इत्युपास्तिं कुर्वन् प्रश्वसिति पश्चात्समुत्थापयति । देवा इत्यस्य व्यावर्त्यमाह ॥ अभूरिति ॥ अभूतिकारणोऽस्माकमित्यसुरा उपासां चक्रुः । अतस्ते पराबभूवुरभूतिमन्तो बभूवुरित्यर्थः ॥

ननु कीटः पेशस्कृतमित्यत्र पेशस्कारिणो द्वेषवतोऽपि कीटस्य पेशस्कार्यत्यन्तसमतस्तद्दृष्टान्तेन हरिद्वेषिणोऽपि तत्सारूप्यं फलमिति वक्तव्यम् । तत्कथं हरिद्वेषिणो दुःखमुच्यत इत्यत आह ॥ सत्यपीति ॥ तुशब्दो दोषाल्पत्वाविशेषद्योतकः । कीटस्य स्वाभिमुखीकरणाय मध्ये मध्ये ताडनान्निमित्तकाल्पद्वेषे सत्यपि स्वस्यान्नं दास्यतीति कीटस्य पेशस्कारिणि स्नेहबाहुल्यादेव कीटः पेशस्कारिसमो भवेत् । अतः स्नेह एव सारूप्यप्रापको न द्वेष इति नोक्तदोष इति भावः ॥ तथापि द्वेषस्यापि कीटेऽभावात्तस्यापि सारूप्यहेतुत्वं ब्रूम इत्यत आह ॥ द्वेषे सर्वात्मनेति ॥ द्वेषे नष्टे स्नेहे च विवर्धति एवेत्युक्तसप्तम्येव स्पुटत्वाय । तदैवेति परामृश्यत इत्यदोषः । एवं हरेरपि सारूप्यं शिशुपालादेः केवलस्नेहाभिवृध्यैवेत्यर्थः ।

तत्र विशेषमाह ॥ अत्यल्प इति ॥ कीटस्य स्नेहद्वेषसमाहारोऽस्ति न तु द्वेषसद्भावदशायां स्नेहाभावः । तत्र द्वेषस्यात्यन्तिकनाशे स्नेहवृद्धौ च ताभ्यां पेशस्कारिसाम्यम् । नैवं हरौ । किं-त्वल्पोऽपि विद्वेषः स्नेहस्यानुदयहेतुरिति न द्वेषस्नेहयोरेककालत्वम् । यत्र विशेषो हरावेव नान्यत्र पेशस्कारिणः कीटस्य स्नेहद्वेषसमाहारसद्भावादिति भावः ॥ स विशेषः । न च वाच्यं शिशुपाला-दावपि हरौ स्नेहद्वेषसमाहारः प्रमित इति । तत्र स्नेह एवानादिसिद्धः स्वरूपभूतः । न तु द्वेषः स्वाभाविकः । द्वेषस्त्वौपाधिको बाह्यः । तस्यासुरावेशनिमित्तकत्वात् । अत एकजातीयोभय-समानकालो न शिशुपालादावस्ति ॥ अथ प्रबलासुरावेश अंशावेशेनात्यन्तिकस्वरूपतिरस्कारयुतेषु हिरण्यकशिपुरावणादिषु न सर्वथा स्नेहप्रसक्तिरिति । एवं वैषम्ये निमित्तमाह ॥ फलदातेति ॥ चो यस्मात् केशवः फलदाता न तु पेशस्कृतः फलदातृत्वमिष्यते ॥ अत उक्तविशेषो युज्यते । न हि फलदाता द्वेषिणे फलं दद्यादिति भावः । अथवा हरौ पेशस्कृदपेक्षयाऽन्यत्वविशेषोऽस्ति । केशवः स्नेहफलदातेति फलमत उपपत्तेरित्यादौ प्रसिद्धः ॥ न हि पेशस्कृतः कीटकृत-फलदातृत्वमङ्गीक्रियते । तथा चैवं पेशस्कारिवैलक्षण्याच्च न सर्वथा भगवद्वेषस्य फलदत्वम् । किञ्च केशवो द्वेषिणे फलदाता न भवति । तत्र स्वतन्त्रत्वात् । यः सुखदाने स्वतन्त्रः नासौ हरिर्द्वेषिणे सुखप्रदः । यथा राजादिरित्यभिप्रेत्याह ॥ स्वातन्त्र्यादिति ॥ तथा च द्वेषस्य सर्वथा सारूप्यप्रदत्वमिति भावः ।

मूले सकलं मनो ऽन्यत्रानभिनिवेशेन पुष्कलं मनो धारयेदित्यर्थः ॥ धिया अर्थनिश्चयेन । निश्चयात्मिका बुद्धिरित्युक्तेः ॥ एवंविधमतिलाभे पेशस्कारीत्युच्यते कीट इति ॥ २२,२३ ॥

एवं गुरुभ्य एतेभ्य एषा मे शिक्षिता मतिः ।

स्वात्मोपशिक्षितां बुद्धिं शृणु मे वदतः प्रभो ॥ २४ ॥

पदरत्नावली

उपसंहरति एवमिति । स्वदेहाच्छिक्षितमतिमाह– स्वात्मेति ॥ २४ ॥

श्रीनिवासतीर्थीया

मूलार्थस्तु ॥ स्वात्मेति । स्वदेह इत्यर्थः । वदतो मे सकाशात्

॥ २४ ॥

प्रमेयचन्द्रिका

स्वदेहादपि शिक्षितमस्तीत्युच्यते ॥ स्वात्मेति ॥ २४ ॥

देहो गुरुर्मम विरक्तिविवेकहेतु

र्बिभ्रत् स्म सत्वनिधनं सततात्युदर्कम् ।

तत्वान्यनेन विमृशामि यथा तथापि

पारक्यमित्यवसितो विचराम्यसङ्गः ॥ २५ ॥

तात्पर्यम्

सत्त्वनिधनः सत्वं निधीयतेऽस्मिन्परमेश्वर इति । ‘सततमतिशयेनोच्चैर (अरंकरूपः) र्करूप’ इति सततात्युदर्को भगवान् ॥ २५ ॥

पदरत्नावली

देहो मम गुरुरित्यवैहीत्यन्वयः । कुतोऽत्राह– विरक्तीति । सत्वं बलज्ञान-समाहारो निधीयतेऽस्मिन् परमेश्वर इति सत्वनिधनस् तम्, सततमतिशयेनोच्चैर्ज्ञानसुखस्वरूप उदर्कः भगवान् तं बिभ्रद् देहः । विरक्तिविवेकहेतुत्वात् सत्वनिधनस्य सततात्युदर्कस्य हरेरधिष्ठानत्वाच्च यथावत् तत्वविचारसाधनत्वाच्च गुरुत्वमित्यर्थः । तर्हि हेयत्वं कुत इति तत्राह– तथापीति । पारक्यं परकीयं मातृपित्रादेरधीन इत्यवसितो निश्चितः ॥ २५ ॥

श्रीनिवासतीर्थीया

आदौ विवेको नित्यानित्यवस्तुनोः । पश्चाद्विरक्तिः । भगवत्सन्निधान-पात्रस्यैव गुरुत्वं दृष्टम् । देहस्तु तादृश इत्याह ॥ बिभ्रदिति ॥ अत्रत्यसत्वनिधनपदमनूद्य व्याचष्टे ॥ सत्त्वेति ॥ सत्त्वं प्राणिसमूहो बलज्ञानसमाहारो वा । अरमलमिति वा ज्ञानरूप इति वाऽर्थः ॥ तत्वान्यनेनेति ॥ तत्त्वज्ञानहेतुत्वाच्च देहस्य गुरुत्वमित्युच्यते । यथा यथावत् । नन्वेतादृश-देहेऽसङ्गता तव कस्मादित्यत आह ॥ तथाऽपीति ॥ यद्यप्येवं गुरुरित्यर्थः । पारक्यं परकीयं कर्माधीनम् । ततश्च कर्माधीनत्वेन परौपाधिकं न मम स्वरूपानुबन्धीत्यर्थः ॥ २५ ॥

प्रमेयचन्द्रिका

देहस्य गुरुत्वोपपादनाय विरक्तीत्यादि ॥ विवेको देहादिविविक्तत्वेन ज्ञानम् । सत्वनिधनादिरूपं परं ब्रह्म बिभ्रद् दधत् । अनेन देहेश्वरादितत्वावेदकवेदादिशास्त्रतो विमृशामि । तथापि एवमुपकारित्वेऽपि शरीरं पारक्यं परकीयं परो हरिस्तदधीनमित्यवसितः । कर्तरि क्तः । निश्चयवानिति यावत् । सर्वत्रासंगस्सन्चरामीत्यर्थः ॥

अत्र सर्वनिधनं सतताद्युदर्कमिति पदयोरप्रतीतेरर्थमाह ॥ सत्वनिधनमिति ॥ बलज्ञानसमाहार-रूपं शोभनत्वरूपं वा सत्वं निधीयतेऽस्मिन्निति सत्वनिधनमित्यर्थः । एतच्च हरेर्विशेषणमिति ज्ञापयितुमस्मिन्निति । स्वोक्तस्यार्थ उक्तः ॥ परमेश्वर इति ॥ सततं सर्वशः । अतीत्यस्यार्थोऽति-शयेनेति । उदित्यस्यार्थ उच्चैरिति । अलं केवलं करूपः सुखरूपः । क इत्यानन्द उद्दिष्ट इत्युक्तेः । अत्र सतताद्युदर्कशब्दैर्भगवदानन्दस्य निरवधिकोत्कर्ष उक्तो भवति । यच्चाधिकं वदेत्किं विज्ञेयोऽर्थस्तत्र चाधिकं द्वितीयतात्पर्योक्तेः । इदमपि हरेर्विशेषणमिति ज्ञापयितुं भगवानित्युक्तम् ॥ २५ ॥

जायात्मजार्थपशुभृत्यगृहाप्तवर्गान्

पुष्णाति १यः प्रियचिकीर्षया वितन्वन् ।

सोऽन्ते सुकृच्छ्रमवरुद्धमनाः स्वदेहं

सृष्ट्वा स्वबीजमवसीदति वृक्षधर्मा ॥ २६ ॥

**तात्पर्यम् **

बीजार्थमारोपहणादिकं कुर्वन्निति ॥ २६ ॥

पदरत्नावली

यो हरिणा करुणया मनुष्यजन्म प्रापितोऽनेन देहेन प्रेष्ठं (परमात्मानं) विना (विषयानेव) सेवते तस्यायं (देहः) वृक्षबीजमिव संसारपरम्परारम्भकबीजमित्यनर्थहेतुरित्याह– जायेत्यादिना । जायादीनां प्रियचिकीर्षया कर्माणि वितन्वद् यो जायादीन् पुष्णाति स वृक्षधर्मा वृक्षसमानो ऽन्ते सुकृच्छ्राज्जायादीनां पोषण एवावरुद्धमनाः स्वस्य बीजमिव स्थितं स्वदेहं सृष्ट्वा अवसीदति नित्यक्लेशवान् भवतीत्यन्वयः । यथैको वृक्षो बीजेन बीजान्तरपरम्परारम्भणहेतुस्तथायं देहोपि असज्जायादिपोषणलक्षणबीजान्तरैर्देहान्तरपरम्पराकारणमित्यर्थः ॥ २६ ॥

श्रीनिवासतीर्थीया

अन्यथा विपक्षे बाधकतर्कमाह ॥ जायेत्यादि ॥ यत्प्रियचिकीर्षया, येषां जायादीनां प्रियं कर्तुमिच्छया वितन्वन् । कर्माणीति शेषः । सु कृच्छ्रं यथा भवति तथा । स्वबीजेत्यत्र तात्पर्यं बीजार्थमारोपणादिकं कुर्वन्निति । तथा च स्वबीजमुद्दिश्य स्वसन्तानार्थं स्वदेहं सृष्ट्वाऽऽरोपणादिकं कुर्वन्योषिति गर्भाधानादिकं कुर्वन्नित्यर्थः । स्वसन्तानमुत्पाद्य नश्यतीत्याशयः । अत एव वृक्षसमानधर्मा । वृक्षोऽप्युत्तरत्र बीजार्थं स्वाश्रितपक्षिसिक्तबीजद्वाराऽऽरोपणं प्राप्नोति । तथा चोत्पन्नो बहुकालमभिवृद्धः स्वसन्तानमुत्पाद्य पततीति यावत् । तात्पर्ये कुर्वन्निति दार्ष्टान्तिका-पेक्षयोक्तम् । दृष्टान्ते तु प्राप्नुवन्नित्यर्थः ॥ २६ ॥

दुर्घटभावदीपिका

यः प्रियचिकीर्षतया स्वप्रियस्य चिकीर्षा यस्य प्रियचिकीर्षस्तस्य भावः प्रियचिकीर्षता तया प्रियचिकीर्षतया । स्वप्रियचिकीर्षतयेति यावत् । जायात्मजार्थपशुभृत्यगृहाप्त-वर्गान्सुकृच्छ्रमतिक्लेशसाधनपापं यथा भवति तथा वितन्वन्संपादयन्पुष्णाति सोऽन्तेऽन्तकालेऽवरुद्धमना जायादिनिरुद्धमना वृक्षधर्मा स्वबीजं स्वदेहान्तरप्राप्तिकारणं स्वदेहं स्वेन स्वतन्त्रेण परमेश्वरेण सृष्टं देहं दृष्ट्वा । सृजधातुरारोपणादेर्लक्षकः । अवरुद्धमना अभिमत्या चावसीदति दुःखी भवतीति । वृक्षधर्मेत्यनेन वृक्षो यथा बीजान्तरोत्पादकं बीजं सृजति तथा जीवो देहान्तरलक्षण बीजान्तरोत्पादकं देहलक्षणं दुःखी सृजतीत्युक्तं भवति । एतेनार्थादेरचतेनत्वेन प्रीतेरयोगात्प्रियचिकीर्षतयेत्यनुपपन्नमिति दूषणं निरस्तम् । प्रियचिकीर्षतयेत्यस्य जायादिप्रियचिकीर्षतयेत्यर्थ इत्यनभ्युपगमात् । एतेनैव जीवानां मरणकाले भगवत्सृष्टदेहारोपणमिव न तु देहसर्जनमतो देहं सृष्ट्वेति कथनमयुक्तमिति चोद्यं निरस्तम् । सृष्ट्वेत्यस्य सर्जनं कृत्वेत्यर्थ इत्यनङ्गीकारात् । एतेनैव स्वबीजं देहमित्यनेनैव स्वदेहस्य प्राप्तत्वात् स्वदेहमित्यत्र स्वेत्येतद्व्यर्थमिति चोद्यं प्रत्युक्तम् । स्वदेहमित्यस्य स्वस्य देहमित्यनङ्गीकारात् ॥ ता.अर्थः ॥ बीजार्थं देहान्तरलक्षणबीजप्राप्तिरर्थो यस्य देहस्य तं बीजार्थम् । देहान्तरलक्षण-बीजोत्पादकमिति यावत् । अनेन स्वबीजमित्यस्यार्थ उक्तो भवति । सृष्ट्वेत्यस्य तात्पर्यार्थमाह ॥ आरोपणादिकमिति । आदिशब्देनाभिमानो गृह्यत इति ॥ २६ ॥

॥ इति श्रीसत्याभिनवतीर्थविरचितायां श्रीभागवतटिप्पण्यां नवमोऽध्यायः ॥ ११–९ ॥

प्रमेयचन्द्रिका

स्वदेह एव स्नेहो न कार्यः । किं पुनर्जायादिषु तत्तोषादिकर्मणो वृक्षबीजस्य वृक्षान्तरपरंपरारम्भकत्ववत्संसारपरम्परारम्भकत्वादित्येवं प्रतिपादके जायात्मजार्थेति श्लोके ‘‘बीजार्थ-मारोहणादिकं कुर्वन्’’ इति तात्पर्यवाक्यम् ॥

तदेतदेवं दीपिकाकारा व्याचक्षते ॥ अत्र पुरुषस्य वृक्षसाधर्म्यमुच्यते । तज्जायादिदोष-लक्षणधर्ममादाय नोपपद्यते । वृक्षस्य तदसम्भवात् । अतः साधर्म्यं विवृणोति ॥ बीजार्थमिति ॥ वृक्षबीजजन्मप्रादुर्भावे च इति धातोरारोहणमुत्पत्तिः । आदिपदेनाभिवृध्यादिकं गृह्यते । यथा वृक्षः स्वोत्पत्यभिवृध्यादिकं वृक्षान्तरारम्भकबीजार्थमेव करोति एवमेवार्थ इति ॥

सुधीन्द्रस्वामिनस्तु द्वितीयान्तपदानामन्वयाभावादाह ॥ बीजार्थमिति ॥ तेन स्वबीजं प्रत्यवरुद्धमना इत्यन्वय उक्तो भवति । आरोहणादीत्यनेनारोहणं स्वोपादानम् आदिपदेन निःश्रेणी-ग्रहणम् । देहपरम्पराहेतुभूतकर्मपरंपरारूपं सोपादानादिकं कुर्वन्नित्यन्वय उक्तो भवति ॥ दृष्टान्ते तु स्कन्धो स्कन्धरूपशाखादिरूपमारोहणादिकं कुर्वन्वृक्षोऽन्तेऽवसीदति ॥

प्रकाशिकायां तु वृक्षस्य सम्बन्धात्तदारोहणरूपो धर्मो यस्य स वृक्षधर्मा । लुप्तोपमा स इत्यभिप्रेत्य तद्विवरणार्थं बीजार्थमारोहणादिकमिति वाक्यम् । यथा कश्चित्पुरुषो वृक्षाग्रगतबीजग्रहणार्थं वृक्षारोहणफलग्रहणादिकं कुर्वन् प्रमादेनावसीदति पतनाद्यनर्थं प्राप्नोति इतिशब्दस्तथेत्यर्थ इति ॥

मम त्वेवं प्रतिभाति । स्वबीजमित्यस्यान्वयो न दृश्यते । सृष्ट्वेत्यस्य स्वदेहमित्यनेनान्वितत्वात् । अतस्तस्यान्वयं दर्शयति ॥ बीजार्थमिति ॥ बीजमुद्दिश्येत्यर्थः । स्वबीजमित्येतन्न कर्मणि द्वितीया । किन्तूद्देश्यद्वितीया । ततश्च देहान्तरबीजभूतं कर्मोद्दिश्य स्वदेहं सृष्ट्वेत्यन्वय इत्यनेनोक्तं भवति । वितन्वन्नित्यस्य कर्म न प्रतीयते । तस्य विस्तारयन्नित्यर्थश्च प्रकृतानुपयुक्तः । अतः कर्माध्याहारपूर्वकं वितन्वन्नित्यस्यार्थमाह ॥ आरोहणादिकं कुर्वन्निति ॥ आरोहणादिकर्माध्याहारः । वितन्वन्नित्यस्यार्थः कुर्वन्निति । आरोहणं प्ररोहणम् । जायात्मजादिपोषणोपयोगिधनधान्यादेरुत्पादनं वर्धनं चेत्यर्थः ॥ अत्र वृक्षदृष्टान्तानुगमायारोहणपदप्रयोग इति । ततश्चायं मूलार्थः ॥ यः पुरुषो जायादीनां प्रियचिकीर्षया सु कृच्छ्रं यथा भवति तथा आरोहणादीति शेषः । जायादिपोषणोपयुक्त-धनधान्यादिगृहादेरुदयमभिवृद्धिं च वितन्वन्कुर्वन् जायादीन्पुष्णाति । स पुरुषो जायादिष्वेवावरुद्धमनाः स्वबीजमुद्दिश्य । उत्तोत्तरदेहपरम्परारम्भणे बीजभूतं कर्मोद्दिश्य स्वदेहं तदर्थतया कृत्वेति यावत् । यद्वा देहपरम्पराबीजभूतं कर्मोद्दिश्य तत्तदुत्तरदेहं जायादिपोषणाय कृतदुष्कर्मणा सृष्ट्वा अन्तेऽवसीदति । नरकाद्यनर्थं प्राप्नोति । यद्यपि जायादिपोषणरूपकर्मकरणसमये स्वस्य देहपरम्परापादककर्मरूपबीजमहं करिष्यामीत्युद्देशो नास्ति । तथापि मरणार्थं रणं याति स्वयं मुमूर्षतीत्यादिवत्फलपर्यवसानमपेक्ष्यात्र बीजार्थं देहं सृष्ट्वेत्युक्तिरुपपद्यत इति ज्ञेयम् । तत्र दृष्टान्तः ॥ वृक्षधर्मेति ॥ वृक्षस्य धर्म इव धर्मो यस्यासौ वृक्षधर्मा । यथा वृक्षान्तरोत्पादकबीजार्थमारोहणं किसलयोत्पादनम् । आदिपदेन पुष्पोद्गमनादिग्रहणं कुर्वन्नंतेऽवसीदति । शुष्यति तथेति ॥ २६ ॥

जिह्वैकतोऽमुमपकर्षति कर्हि तर्षा

शिश्नोऽन्यतस्त्वगुदरं श्रवणं कुतश्चित् ।

घ्राणोऽन्यतश्चपलदृक् क्व च कर्मशक्ति-

र्बह्व्यः सपत्न्नय इव गेहपतिं लुनन्ति ॥ २७ ॥

पदरत्नावली

अवसीदतीत्युक्तं विवृणोति जिह्वेति । अमुं संसारिणम् । कर्मशक्तिः पाण्यादिलक्षणा पूर्वादृष्टशक्तिर्वा ॥ २७ ॥

श्रीनिवासतीर्थीया

अवसीदतीत्युक्तं विशदयति ॥ जिह्वेति ॥ अमुं संसारिणम् । चपलदृक् चञ्चलचक्षुः । कर्मकरणशक्तिर्यस्याः सा तथोक्ता । कर्मेन्द्रियाणीति यावत् ॥ २७ ॥

प्रमेयचन्द्रिका

मूले जायादावतिसक्तस्य दुःखप्रकारः प्रदर्श्यते ॥ जिह्वेति ॥ कर्मशक्तिः पुण्यापुण्यलक्षणापूर्वादृष्टशक्तिः । चित्रलेखनादिरूपकर्मशक्तिर्वा ॥ २७ ॥

सृष्ट्वा पुराणि विविधान्यजयाऽऽत्मशक्त्या

वृक्षान् सरीसृपपशून् खगदंशमत्स्यान् ।

तैस्तैरतुष्टहृदयः पुरुषं विधाय

ब्रह्मावबोधधिषणं मुदमाप देवः ॥ २८ ॥

पदरत्नावली

अनेन सर्वभोगायतनेभ्यो विशिष्टज्ञानेन्दिद्रयादिमत्तया पुरुषार्थोपयोगित्वेनास्य श्रैष्ट्यादनेन रसादिविषयान् विजित्य पुरुषार्थाय साधनानुष्ठानं विधेयमन्यथाऽनर्थपरम्परा तदव-स्थैवेत्युक्तम् । तत्र सर्वस्मादस्य शरीरस्य श्रैष्ठ्यं कथमवसीयत इति तत्राह– सृष्ट्वेति । अजया प्रकृत्या । आत्मशक्त्या स्वाधीनसामर्थ्योपेतया । पुराणि शरीराणि । पुरुषं पुरुषशरीरम् । अवबोधधिषणं ज्ञानाश्रयम् ॥ २८ ॥

श्रीनिवासतीर्थीया

पुरुषदेहस्य गुरुत्वं सर्वदेहाधिकत्वाद्युक्तमित्याह ॥ सृष्ट्वेति ॥ पुरुषं पुरुषदेहम् । धिषणमाश्रयम् ॥ २८ ॥

प्रमेयचन्द्रिका

एवं विषयलौल्ये बह्वनर्थप्राप्तेर्दुर्लभं मनुष्यदेहं लब्धवता हर्याराधनेन हितेन भवितव्यमिति मानुषदेहस्य दौर्लभ्योपपादनपूर्वकं कर्मादिकमुच्यते ॥ सृष्ट्वेति श्लोकद्वयेन ॥ अजया जनिरहितया । आत्मशक्त्या स्वरूपशक्त्या । हेतुभूतया आत्मनः स्वस्य सम्बन्धिन्यपकृत्यो-पादानभूतया वा । तैस्तैर्वृक्षादिभिः सृष्टैरप्यतृप्तहृदयः मोक्षसाधनज्ञानादिसाधकत्वाभावात्तेषाम् । तत्रालम्बुद्धिरहित इत्यर्थः ॥ देवः परब्रह्मविषयकज्ञानाश्रयं पुरुषं मानुषदेहं विधाय मुदमापेत्यर्थः

॥ २८ ॥

लब्ध्वा सुदुर्लभमिदं बहुसम्भवान्ते

मानुष्यमर्थदमनित्यमपीह धीरः ।

तूर्णं यतेत न पतेदनुमृत्यु याव-

न्निःश्रेयसाय विषयः खलु सर्वतः स्यात् ॥ २९ ॥

पदरत्नावली

इदानी परमपुरुषार्थाय प्रयतनीयमित्यर्थतः सूचितं स्पष्टमाह– लब्ध्वेति । बहुसम्भवान्ते बहुजन्मावसाने । अनुमृत्यु पृष्ठतोऽनुगतान्तकम् । धीरम् अनित्यमर्थदमिदं शरीरं यावन्न पतेत् ततः पूर्वमेव निःश्रेयसाय यतेतेन्यन्वयः । शरीरयात्राप्रयत्नोपि नानुष्ठेय इत्याह– विषय इति ॥ २९ ॥

श्रीनिवासतीर्थीया

पुरुषार्थहेतुत्वादयमेव गुरुरित्याह ॥ लब्ध्वेति ॥ सम्भवो जन्म । पृष्टतोऽनुगतमृत्युं मानुष्यं सर्वतः सर्वयोनिषु ॥ २९ ॥

प्रमेयचन्द्रिका

लब्ध्वेत्यत्र तस्मादिति ग्राह्यम् ॥ अनुमृत्यु प्रतिक्षणमनुगतमरणमिदं शरीरं यावत्पतते ततःपूर्वमेव तूर्णं निःश्रेयसायैव यतेत । न तु विषयभोगार्थम् । कुतो विषयः खलु सर्वतः स्यादित्यर्थः ॥ २९ ॥

एवं सञ्जातवैराग्यो विज्ञानालोक आत्मनि ।

विचरामि महीमेतां मुक्तसङ्गोऽनहङ्कृतिः ॥ ३० ॥

पदरत्नावली

स्वनिश्चितार्थमाह– एवमिति । आत्मनि विज्ञानालोकः परमात्मविषय-विज्ञानलक्षणप्रदीपप्रकाशः ॥ ३० ॥

श्रीनिवासतीर्थीया

आत्मनि हरिविषये । यद्वा । आत्मनि सञ्जातवैराग्य इत्यन्वयः । विज्ञानालोको विज्ञानलक्षणप्रदीपप्रकाशः ॥ ३० ॥

प्रमेयचन्द्रिका

॥ विज्ञानेति ॥ आत्मनि परमात्मनि विषये विज्ञानलक्षणप्रकाशयुक्तः

॥ ३० ॥

न ह्येकस्माद् गुरोर्ज्ञानं सुस्थिरं स्यात् सुपुष्कलम् ।

ब्रह्मैतदद्वितीयं वै गीयते बहुधर्षिभिः ॥ ३१ ॥

श्री भगवानुवाच—

इत्युक्त्वा स यदुं विप्रस्तमामन्त्र्याङ्ग धीरधीः ।

वन्दितोऽभ्यर्चितो राज्ञा ययौ प्रीतो यथागतम् ॥ ३२ ॥

तात्पर्यम्

‘एकस्मात्तु गुरोर्ज्ञानं जायते नैव कस्यचित् । एकस्मादेव जायेत योग्याद्ब्रह्मपदस्य तु । स्वयं चोपदिशेज्ज्ञानं वैरिञ्चिपदयोगिनि । अनुग्रहात्तेन चापि ज्ञानं दत्वा विमुक्तिदः । ज्ञानं प्राप्य बहुभ्योऽपि नर्ते मुक्तिश्चतुर्मुखात् । ज्ञानमप्राप्य तेषां तु ज्ञानदो विष्णुरेव ही’ति गुरुविवेके ॥ ३१ ॥

पदरत्नावली

एकस्माद्गुरोः स्वार्थे सिद्धे बाहुल्यात् किं प्रयोजनं सर्वस्मादसङ्गत्वादिक एव तात्पर्यार्थ इत्यत्राह– नहीति । सुष्ठु पुष्कलं पूर्णम् । तत्र हेतुमाह– ब्रह्मेति । बहुधा गीयमानत्वा-दल्पबुद्धेर्निश्चियो न स्यादित्यर्थः । हीत्यनेन ‘‘एकस्मात्तु गुरोर्ज्ञानं जायते नैव कस्यचित् । एकस्मादेव जायेत योग्याद् ब्रह्मपदस्य तु । स्वयं तूपदिशेज्ज्ञानं वैरिञ्चिपदयोगिनः । अनुग्रहात् तेन चापि ज्ञानं दत्वा विमुक्तिदः । ज्ञानं प्राप्य बहुभ्योपि नर्ते मुक्तिश्चतुर्मुखात् । ज्ञानमप्राप्य तेषां तु ज्ञानदो विष्णुरेव हि’’ । इति वाक्योक्तविशेषं सिंहावलोकनन्यायेन सूचयति ॥ ३१–३२ ॥

श्रीनिवासतीर्थीया

नन्वेतावन्तो गुरवस्त्वया कस्मात्सम्पादिता इत्यत आह ॥ न हीति ॥ सुष्टु पुष्कलं पूर्णं सत् । तस्यैकस्य पुष्कलज्ञानोपदेशसामर्थ्याभावादित्यर्थः । यदि कश्चित्समर्थः पुष्कलमुपदिशेत्तथाऽपि सुस्थिरं तस्य श्रोतुर्न स्यादतो बहवोऽपेक्षिताः । एकस्मात्पुष्कलं कुतो न स्यादित्यत आह ॥ ब्रह्मैतदिति ॥ तथा चैकस्यैतावद्बहुप्रकारोपेतब्रह्मज्ञानासम्भवादित्यर्थः । नन्विदमयुक्तम् । एकस्मादेव ब्रह्मपदयोग्यात्ज्ञानसंभवादित्यतस्तात्पर्यमाह ॥ एकस्मात्त्विति ॥ ज्ञानं परोक्षम् । तथा चैकस्माद्गुरोः परोक्षज्ञानं सुस्थिरं न स्यादिति मूलार्थः । जायेतापरोक्षज्ञान-मित्यर्थः । नन्वनेन चतुर्मुखस्य ज्ञानदत्वमुक्तम् । तदयुक्तम् । अज्ञानां ज्ञानदो विष्णुर्ज्ञानिनां मोक्षदश्च स इति भगवत एव ज्ञानदत्वाद्युक्तेरित्यत आह ॥ स्वयं चेति ॥ अगम्यत्वाद्धरिस्तस्मि-न्नाविष्ट इत्युक्तरीत्या स्वयमेव हरिरेव विरिञ्चसम्बन्धपदयोगिनि तद्वति चतुर्मुखे स्थित्वाऽनुग्रहाद्भक्तानां ज्ञानमुपदिशेद्यतस्तेन कारणेन विष्णुर्ज्ञानं दत्वा मुक्तिद इति प्रमाणेषूच्यत इत्यर्थः । चतुर्मुखोपदेश आवश्यक इति व्यतिरेकमुखेनाह ॥ ज्ञानमिति ॥ प्राप्य स्थितानां चतुर्मुखादृत इत्युक्तं विशदयति ॥ ज्ञानमप्राप्येति ॥ चतुर्मुखात्ज्ञानमप्राप्य न मुक्तिरित्यर्थः । ननु वैरिञ्चपदयोग्यानामपि को ज्ञानद इत्यत आह ॥ तेषां त्विति ॥ वैरिञ्चपदयोग्यानामृजूनां ज्ञानदोऽनादिकालादारभ्य ज्ञानदः

॥ ३१,३२ ॥

प्रमेयचन्द्रिका

त्वयैवं बहुगुरुसंपादनं कुतः कृतमित्युच्यते ॥ न हीति ॥ सुपुष्कलं पूर्णम् । तत्र हेतुर्ब्रह्मेति ॥ बहुधा गीयमानत्वादल्पबुद्धेर्निश्चयो न स्यादिति भावः । अत्र बहुगुरूपदेशाभावे पूर्णज्ञानाभावोऽभिधीयते । तदयुक्तम् । तथा सति विरिञ्चस्यानेकगुर्वभावेन पूर्णज्ञानाभावप्रसङ्गादिति भावः । प्रमाणेन सर्वं विवेचयति ॥ एकस्मादिति ॥ उत्सर्गमुक्त्वाऽप-वादमाह ॥ एकस्मादेवेति ॥ यद्येकस्मादेव ज्ञानं जायते तर्हि ब्रह्मपदयोग्यदेवान्यस्मादित्यर्थः । रुद्रादेस्तत्पदयोग्योग्रतपनादेश्च वायोर्लातव्याद्वा एकस्मादेव ज्ञानं जायत इति प्रमितत्वादेकस्माद्गुरोर्ज्ञानं न जायत इत्येतदुत्सर्गविषयमिति भावः ॥

नन्विदमयुक्तं शुकादिरूपिणो रुद्रादेर्व्यासादिरूपाद्धरेर्ज्ञानजनिदर्शनादित्यत आह ॥ स्वयं त्विति ॥ तुशब्दोऽप्यर्थः । चोऽवधारणे । तथा च स्वयं शुकादिरूपस्य रुद्रादेर्ज्ञानमुपदिश्यापि वैरिञ्चपदयोगिनि वाय्वादावनुग्रहात्तेनापि ज्ञानं दत्वा दापयित्वैव विमुक्तिद इत्यर्थः ॥ मुख्यतो गुरुः स्वयमेव तदितरस्य ज्ञानदानं भगवदधीनमिति सूचयितुं णिचोऽन्तर्णीततया प्रयोगः । स्वातन्त्र्य-स्नेहयोरन्तर्णीतणिजिति स्मरणात् । तद्ब्रह्मपदयोग्यस्य गुरुत्वं नियतमेवेति सूचयितुमवधारणम् । तथा च व्यासादिरूपिणो हरेरुपदेशकत्वेऽपि नियतगुरुर्ब्रह्मैव । अतो युक्तमेकस्मादेवेत्यवधारणमिति भावः ॥

स्यादेवं रुद्रादेस्तर्हि तदन्येषां चतुर्मुखोपदेशः सर्वथाऽनपेक्षित इति प्राप्तम् । तदा तस्माद्गुरुर्मुख्यः सर्वेषामेव सर्वदेत्युक्तिविरोध इत्यत आह ॥ ज्ञानं प्राप्येति ॥ चतुर्मुखादृते अन्येभ्यो बहुभ्यो ज्ञानं प्राप्यापि चतुर्मुखाद्ज्ञानमप्राप्य स्थितानां तेषां मुक्तिर्नास्ति । अत उपदेशस्तु ब्रह्मणः सर्वेषामेव मुक्तये नियतोऽतो न विरोध इति भावः ॥ बहुभ्योऽपि ज्ञानप्राप्तिर्महतामपि हरिरेव तदन्तर्यामितया ज्ञानप्रद इत्याह ॥ तेषां त्विति ॥ नन्वस्तु रुद्रादीनां ब्रह्मपदयोग्या गुरवः । तेषां को नियतगुरुरित्यतो वाऽह ॥ तेषां विरिञ्चपदयोग्यानामिति ॥ गुरुदेवतयोर्भेदरूपविशेषज्ञापने तुशब्दः । रमाया हर्यन्तर्भावान्न विरोधः ॥ ३१ ॥

॥ इति श्रीमद्विठलार्यतनूजेनानन्दतीर्थाख्येन विरचितायां श्रीमद्भागवत

एकादशस्कन्धतात्पर्यप्रमेयचन्द्रिकायां नवमोऽध्यायः ॥

अवधूतवचः श्रुत्वा सर्वेषां नः स पूर्वजः ।

सर्वसङ्गविनिर्मुक्तः समचित्तो बभूव ह ॥ ३३ ॥

॥ इति श्रीमद्भागवते एकादशस्कन्धे नवमोऽध्यायः ॥

पदरत्नावली

समे ब्रह्मणि चित्तं यस्य सस् तथोक्तः ॥ ३३ ॥

॥ इति श्रीविजयध्वजतीर्थविरचितायां श्रीभागवतटीकायां

पदरत्नावल्याम् एकादशस्कन्धे नवमोऽध्यायः ॥

श्रीनिवासतीर्थीया

नोऽस्माकं ये पूर्वे तेषामपि पूर्वजः स यदुः । समे ब्रह्मणि चित्तं यस्य स तथा ॥ ३३ ॥

**॥ इति श्री श्रीनिवासतीर्थविरचितायां श्रीभागवतटिप्पण्यां **

एकादशस्कन्धे नवमोऽध्यायः ॥