सुखमैन्द्रियकं राजन् स्वर्गे नरक एव च
॥ अथ अष्टमोऽध्यायः ॥
ब्राह्मण उवाच—
सुखमैन्द्रियकं राजन् स्वर्गे नरक एव च ।
देहिनां यद् यथा दुःखं तस्मान्नेच्छेत तद् बुधः ॥ १ ॥
पदरत्नावली
न कर्तुमीहसे किञ्चिदिति यदुराजप्रश्नं परिहरन् एतत्संसारसुखं यथा दुःखशिरस्कत्वेन नाकांक्ष्यं न साध्यं च तथा स्वर्गसुखामित्याह– सुखमिति । यथा ऐन्द्रियकं दुःखं पतननिश्चयात् स्वर्गे नरके चास्ति तथा श्रोत्रादीन्द्रियविषयशब्दादिसुखमस्त्येवेति यत् तस्माद् बुधो दुःखशिरस्कं सुखं नेच्छेत, कुत एव तत्साधने प्रवर्तत इत्यन्वयः । अनेनैहिकसुखाय न प्रवर्तनीयमिति किं वक्तव्यमित्युक्तं भवति ॥ १ ॥
श्रीनिवासतीर्थीया
अजगराच्छिक्षिताम् बुद्धिं वक्तुमाह ॥ सुखमिति ॥ कर्मानुसारेण लभ्यमस्ति दुःखवदिति । यद्यस्मात्तस्मात्सुखं नेच्छेत । इच्छाजनकेष्टसाधनताज्ञानजनकं विषयेन्द्रिय-सन्निकर्षादिकं न सम्पाद्यमित्यर्थः । यद्वा । इच्छाजन्यप्रयत्नो लक्षणीयः । तथा च न प्रयतेतेत्यर्थः । तेन विषयसौन्दर्यासौन्दर्याभ्यामिच्छातदभावयोः स्वत एवोत्पत्तेर्नेच्छेतेतीच्छाभावविधिर्न सम्भवतीति शङ्कानवकाशः ॥ १ ॥
प्रमेयचन्द्रिका
न कर्त्तुमीहसे किञ्चिदिति प्रकृतस्य प्रश्नोत्तरत्वेनाजगराच्छिक्षितं सोपोद्घात-मुच्यते ॥ सुखमैन्द्रियकमिति ॥ इन्द्रियैर्विषयभोगे सति भवेदैन्द्रियकम् । तत्स्वर्ग इव नरकेऽप्यस्ति । नारक्यां निवृत्तौ सत्यामित्युक्तेस्तदुपपादनम् ॥ यथेति ॥ यथा स्वर्गेऽपि भाविपात-निमित्तं दुःखमयत्नेऽप्यस्ति तथेप्यर्थः । परंतु स्वर्गे दुःखमल्पम् । नरके तु सुखमल्पम् इति विशेषः । तथा च दुःखवद्यत्नसाध्यत्वाद्वैषयिकसुखस्य न तदर्थं प्रयतितव्यमिति भावः ॥ १ ॥
ग्रासं विसृष्टं दिष्टेन महान्तं स्तोकमेव च ।
यदृच्छयैवापतितं ग्रसेदजगरोऽक्रियः ॥ २ ॥
पदरत्नावली
तर्हि देहयात्रा कथङ्कारं वर्तेतेत्यतोऽजगरादुपात्तबुद्धिमाह– ग्रासमिति । दिष्टेन दैवेन । दैवं दिष्टं भागधेयमित्यभिधानम् । ग्रासस्तु कवलार्धक इति च । विसृष्टं दत्तं यदृच्छयैवोपनतमतर्कितत्वेनोपपन्नम्, अक्रियो यत्नरहितः, अजगरो यथा ग्रसेत्, तथा मुनिरिति शेषः ॥ २ ॥
श्रीनिवासतीर्थीया
दिष्टेन जीवानामदृष्टं निमित्तीकृत्य जातया यदृच्छया । अजगर इति लुप्तोपमा ॥ २ ॥
प्रमेयचन्द्रिका
तर्हि देहयात्रा कथमित्यतो अजगराच्छिक्षितबुद्धिरुच्यते ॥ ग्रासमिति ॥ दिष्टेनदिष्टनियामकेन हरिणा । अजगरो अक्रिय इति लुप्तोपमा ॥ २ ॥
शयीताहानि भूरीणि निराहारोऽनुपक्रमः ।
यदि नोपनमेद् ग्रासो महाहिरिव दिष्टभुक् ॥ ३ ॥
पदरत्नावली
ननु यदृच्छयापि ग्रासालाभे किं कुर्यात्, तत्राह– शयीतेति । अनुपक्रमः क्रियारम्भरहितः । यदि यदृच्छयापि ग्रासो नोपनमेत् तर्हि महाहिरिव बहून्यहानि शयीत । तत्र निमित्तं दिष्टभुगिति । यदृच्छाप्राप्तभोजनत्वादित्यर्थः ॥ ३ ॥
श्रीनिवासतीर्थीया
अनुपक्रमः कर्मारम्भशून्यः । दिष्टभुगदृष्टनियामकभगवद्दत्तभोगीत्यर्थः
॥ ३ ॥
प्रमेयचन्द्रिका
ग्रासाभावदशायाम् अजगराच्छिक्षितमुच्यत ॥ शयीतेति ॥ तूष्णीं तिष्ठेदित्यर्थः । अजगरवच्छयनरूपं तपः कुर्यादिति वा ॥ ३ ॥
ओजः सहोबलयुतं बिभ्रद् देहमकर्मकम् ।
शयानो वीतनिद्रश्च नेहेतेन्द्रियवानपि ॥ ४ ॥
पदरत्नावली
ननु तर्ह्यन्नबलस्य देहस्यान्नाभावे पतनं स्यादित्याशङ्क्य सत्यं बहिर्मुखस्यैतन्न योगारूढस्य । तस्य भगवद्गुणगणध्यानलक्षणामृतपानपूर्णबलवद्देहेत्वादिति भावेनाह– ओज इति । ओजः पराभवशक्तिः सहः निष्ठुरवचनादिसहनशक्तिः, बलं भारवहनशक्तिर् ओजःसहोबलैर्युतम्, अकर्मकम् अन्नाद्यर्थं क्रियाहीनं देहं बिभ्रत् । करचणादीन्द्रियशक्तिमानपि योगारूढः शरीरयात्रार्थं नेहेत न चेष्टेत । कीदृशः । शयानः सर्वप्रवृत्तिशून्यः । तर्हि निद्रालुः स्यादत्राह– वीतनिद्र इति । निद्रानिरासव्यापारसद्भावादित्याह– बिभ्रदिति । अत्र भरणेन ध्यानं लक्षयति । ओजःसहोबलात्मना ब्रह्मणा युक्तं देहं बिभ्रद् ध्यायन् । अन्यत्र तादृशादृष्टनिर्मितम् । ईशशक्ते-रचिन्त्यत्वादित्यर्थः । अत एवाकर्मकं निश्चेष्टमुद्देश्यरहितं वा ॥ ४ ॥
श्रीनिवासतीर्थीया
इन्द्रियवानपि कर्मादिकरणे इन्द्रियशक्तिमानपि । नेहेत शरीरयात्रार्थं न चेष्टेत । तर्हि निद्रालुः स्यादित्यत उक्तम् ॥ वीतनिद्र इति ॥ कुत इत्यतो निद्रानिरासक-व्यापारसत्वादित्याह ॥ ओज इत्यादि ॥ अवष्ठम्भशक्तिरोजः । सहनशक्तिः सहः बलं शारीरम् । ओजःसहोबलरूपवाय्वन्तर्गतं भगवता युक्तदेहं बिभ्रत् । अत्र भरणेन ध्यानं लक्ष्यते । अत एवाकर्मकं देहयात्रायै कर्मशून्यम् ॥ ४ ॥
प्रमेयचन्द्रिका
नात्राहाराभावेन शक्तिह्रासाच्छयनमित्याशयेन उच्यते ॥ ओज इति ॥ ओजादिगुणयुक्तो ऽक्लिष्टकारित्वात् । अकर्मकं भगवन्तं मनसेति शेषः। बिभ्रद् ध्यायन्निति यावत् । तथा च तत्प्रभावादजगरादिभिर्युतम् अकर्मकं वृथाचेष्टादिरहितं बिभ्रद् ओजआदिमद्धरिध्यानप्रभावैधितेन्द्रिये पुष्टिमानपि तपोरूपतयैव शयानो वीतनिद्रोऽपगतालस्यादिः । नेहेत देहधारणाद्यर्थमीहेत प्रवृत्तिं कुर्यादित्यर्थः ॥ ४ ॥
मुनिः प्रसन्नगम्भीरो दुर्विगाह्यो दुरत्ययः ।
अनन्तपारो ह्यक्षोभ्यः स्तिमितोद इवार्णवः ॥ ५ ॥
समृद्धकामो हीनो वा नारायणपरो मुनिः ।
नोत्सर्पेत न शुष्येत सरिद्भिरिव सागरः ॥ ६ ॥
पदरत्नावली
समुद्राच्छिक्षितां मतिमाह– मुनिरिति । अनन्तपारो ऽन्तपाररहितबुद्धिः । अनन्तेन पारः पूर्तिस्तृप्तिलक्षणा बुद्धिर्यस्येति वा । पारं तीरान्तरं प्रोक्तं पारः पूर्तिस्तथा पुमानित्यभि-धानम् । अन्यत्रानिश्चिततीरान्तरः । स्तिमितोदो निश्चलजलः । गम्भीरोऽनाविष्कृतनिजाशयः । तुष्टात्मा प्रसन्नश्चासौ गम्भीरश्च । दुर्विगाह्योऽविज्ञेयमहात्म्यः, अन्यत्र प्रवेष्टुमशक्यः । दुरत्ययो ऽनुल्लङ्घ्यः, एकत्र तेजस्वित्वादन्यत्रातिविस्तृतत्वात् । भवेदिति शेषः ॥ समृद्धकामः समृद्धाभीष्टार्थः नोत्सर्पेत उत्सिक्तो न भवेत् । हीनो वा, द्रव्यैरिति शेषः, न शुष्येत । यथा प्रावृषि समुद्रः समृद्धजलाभिर् ग्रीष्मे शुष्कजलाभिः सरिद्भिः । तत्र हेतुर् नारायणपर इति ॥ ५,६ ॥
श्रीनिवासतीर्थीया
सिन्धोः शिक्षितमाह ॥ मुनिरिति ॥ मुनिरर्णव इव । भवेदिति शेषः । पारं तीरान्तरं प्रोक्तं पारः पूर्तिस्तथा पुमानित्यभिधानाद् अनन्तेन प्रसन्नेन पूर्तिस्तृप्तिर्यस्या-सावनन्तपारो ज्ञानी । समुद्रस्त्वनिश्चिततीरान्तरः स्तिमितोदा निश्चलजलः समुद्रः । ज्ञानी त्वकृतसर्वकर्मा । उदशब्दस्य कर्मत्वात् । अक्षोभ्यो विषयैः क्षोभितुमशक्यो ज्ञानी नोत्सर्पेतोत्सेक-मभिवृद्धिं नाप्नुयात् । सरिद्भिः प्रावृषि समृद्धजलाभिर्ग्रीष्मे शुष्कजलाभिः ॥ ५,६ ॥
प्रमेयचन्द्रिका
समुद्राच्छिक्षितमुच्यते ॥ मुनिरिति ॥ मौनी । अर्णवस्यात्र स्तिमितो-दत्वोक्त्या घोषाभावसूचनान्मौनित्वे दृष्टान्तत्वं युज्यत इति ज्ञेयम् । प्रसन्नः कालुष्यादिरहितः । गम्भीरो अगाधः । दुर्विगाह्यो दुर्ज्ञेयः । दुरत्ययः दुरतिक्रमः । अनन्तपारः नाशपरिमितिरहितबुद्धिः ॥ अनन्तेन हरिणा । पारः पूर्त्तिर्यस्येति वा । पारं तीरान्तरं प्रोक्तं परः पूर्त्तिस्तथा पुमानिति अभिधानात् ॥ सरिद्भिरिवेति ॥ समृद्धजलाभिः सरिद्भिर् नोत्सर्पति । वारिधिर्हीनजलाभिर्न शुष्यति । यथा तथेत्यर्थः ॥ ६ ॥
दृष्ट्वा स्त्रियं देवमायां तद्भावैरजितेन्द्रियः ।
प्रलोभितः पतन्त्यन्धे तमस्यग्नौ पतङ्गवत् ॥ ७ ॥
तात्पर्यम्
‘महतां वनिताकामः पतत्यन्धे तमस्यलम् । अन्यत्र निरयं याति दुःखवान्स्याद्विपर्यय’ इति धर्मसंहितायाम् ॥ ‘मोहकारणभूतां तु मायेत्याहुर्मनीषिणः । अविद्यमानं मेत्युक्तं तज्ज्ञापयति यत्स्वयम् । कुत्रचिज्ज्ञानरूपं सल्लाभरूपं च भण्यते । मयं प्राचुर्यमुद्दिष्टं माया स्यात्प्रचुरेत्यपी’ति तन्त्रनिरुक्ते ॥ ‘स्वतन्त्रं परमार्थाख्यं स्वतन्त्रैका हरेर्मतिः । सैव माया समुद्दिष्टा मुख्यतस्तत्स्वरूपिका । मतिमन्मतिभेदोऽपि न विष्णोः क्वचिदिष्यते । पारमार्थ्येन नास्त्येव तदन्यत्तद्वशं यतः । अनाद्यनन्तकालेषु विद्यमानमपि ध्रुवम् । अतो मायामयं प्राहुः सर्वं तद्वशगं यत’ इति मायावैभवे ॥ ‘स्वाधीनं सदिति प्रोक्तं पराधीनमसत्स्मृतम् । अविद्यमानमेतस्माज्जगदाहुर्विपश्चितः । अनाद्यनन्तकालेषु विद्यमानमपि ध्रुवम् । अस्वातन्त्र्यात्तु नास्त्येवेत्येवं वाच्यं जगत्सदा । सदा वृत्तेर्विद्यमानमिति ब्रूयाद्यदि क्वचित् । तथापि नाशवद्धीदं प्रवाहाद्ध्यस्य नित्यता । अतो निवर्त्यमित्याहुः प्रपञ्चो ह्यस्ति यद्यपि । विष्णोरिच्छावशत्वाच्च मायामात्रमिति स्फुटम् । परमार्थं त्वेकमेव स्वातन्त्र्याद्विष्णुमव्ययम् । यदि कल्पयतीदं स स एव विनिवर्तयेत् । विष्णुस्तस्मात्तद्वशत्वान्नास्तीति द्वैतमुच्यते । स्वातन्त्र्येण हरौ ज्ञाते पराधीनत्वनिश्चयात् । इत्याहुरुपदेष्टार आचार्यास्तत्त्ववेदिनः । यथैव राजन्विज्ञाते (राजनि ज्ञाते) नान्योऽस्तीति स्फुटं वचः । स्वातन्त्र्यात्पारतन्त्र्याच्च तद्भृत्यादिषु सत्स्वपि । यथैकच्छत्रवांश्चैव एकवीर इतीव च । तथैव सर्वप्राधान्यादद्वितीयो हरिः स्मृतः । एवं मुक्ता विजानन्ति सायुज्यं प्रापिता विभोः । अनन्तकालं पश्यन्तो जगदेत-च्चराचरम् । तस्यैतस्य ह्यविज्ञानात्केवलभ्रान्तिरूपकम् । जगदुक्तवा तमो यान्ति ईशित-व्येशशापत’ इति च ॥ ‘पुत्रा मे यदि विद्यन्ते मरिष्यन्त्येव ते ध्रुवम् । यदि राज्यं करोत्येष नश्यत्येतदसंशयमि’ति धृतराष्ट्रवचनात् । ‘प्रपञ्चोयदि विद्येते’त्यादि । ‘यदि-शब्दस्त्ववस्तुत्वे चास्वातन्त्र्ये च संशये । अवस्तुशब्दश्चाशक्ते ह्यल्पशक्तौ च कीर्त्यत’ इति शब्दनिर्णये ॥ ७ ॥
पदरत्नावली
शलभाच्छिक्षितां बुद्धिमाह– दृष्ट्वेति । देवस्य मायां मोहकशक्तिम् । भावैः शृङ्गरचेष्टाभिः । अत्र ‘‘महतां वनिताकामः पतत्यन्धे तमस्यलम् । अन्यत्र निरयं याति दुःखवान् स्याद् विपर्यये’’ इति वचनादधःपाते विशेषोऽस्तीति ज्ञातव्यम् । मायाशब्दस्येन्द्रजालार्थमन्तरेण मोहकारणत्वार्थः कथमित्येतच्चोद्यम् ‘‘मोहकारणभूता तु मायेत्याहुर्मनीषिणः । अविद्यमानं मेत्युक्तं तज्ज्ञापयति यत् स्वयम् । कुत्रचिज्ज्ञानरूपं सद् लाभरूपं च भण्यते । मयं प्राचुर्यमुद्दिष्टं माया स्यात् प्रचुरेत्यपि’’ इत्यनेन परिहर्तव्या । परमार्थनिष्ठस्य स्वतन्त्रशब्दस्य गुणनिष्ठत्वं कथमित्येतत् ‘‘मतिमन्मतिभेदोपि न विष्णोः क्वचिदिष्यते’’ इत्यनेन परिहृतम् । मायाया ईशेच्छावाचित्वे जगत-स्तन्मयत्वं कथमितीदमपि ‘‘पारमार्थ्येन नास्त्येव तदन्यत् तद्वशं यतः । अनाद्यनन्तकालेपि विद्यमानमपि ध्रुवम् । अतो मायामयं प्राहुः सर्वं तद्वशगत्वतः’’ इत्यमुना परिहृतम् । किञ्च विश्वस्य पराधीनत्वादसदादिशब्दवाच्यत्वं नत्वविद्यमानत्वात् । तर्हि जगन्नास्त्येवेति कथम् । अस्वतन्त्रत्वा-दित्युत्तरम् । प्रवाहरूपेण नित्यत्वात् सदातनत्वं युक्तम् । श्रौतत्वाद् विश्वस्य मिथ्यात्वं किं न स्यादिति चेन्न । हरेरिच्छाधीनत्वान्मायामात्रत्वात् । तर्हि श्रुतेः का गतिरिति चेन्न । एकस्यैव परमार्थत्वादिति (आशयेन प्रवृत्तेः) । सर्वमिदं प्रमाणसिद्धम् । ‘‘स्वाधीनं सदिति प्रोक्तं पराधीनमसत् स्मृतम् । अविद्यमानमेतस्माज्जगदाहुर्विपश्चितः । अनाद्यनन्तकालेषु विद्यमानमपि ध्रुवम् । अस्वातन्त्र्यात्तु नास्त्येवेत्येवं वाच्यं जगत् सदा । सदा वृत्तेर्विद्यमानमिति ब्रूयाद् यदि क्वचित् । तथापि नाशवद्धीदं प्रवाहाद्ध्यस्य नित्यता । अतो निवर्त्यमित्याहुः प्रपञ्चो ह्यस्ति यद्यपि । विष्णोरिच्छावशत्वाच्च मायामात्रमिति स्फुटम् । परमार्थं चैकमेव स्वातन्त्र्याद् विष्णुमव्ययम् । यदि कल्पयतीदं स स एव विनिवर्तयेत् । विष्णुस्तस्मात् तद्वशत्वान्नास्तीति द्वैतमुच्यते । स्वातन्त्र्येण हरौ ज्ञाते पराधीनत्वनिश्चयात् । इत्याहुरुपदेष्टार आचार्यास्तत्ववेदिनः । यथैव राजनि ज्ञाते नान्योस्तीति स्फुटं वचः । स्वातन्त्र्यात् पारतन्त्र्याच्च तद्भृत्यादिषु सत्स्वपि । यथैकच्छत्रवांश्चैव एकवीर इतीव च । तथैव सर्वप्राधान्यादद्वितीयो हरिः स्मृतः । एवं मुक्ता विजानन्ति सायुज्यं प्रापिता विभोः । अनन्तकालं पश्यन्तो जगदेतच्चराचरम् । तस्यैकस्य ह्यविज्ञानात् केवलं भ्रान्ति-रूपकम् । जगदुक्त्वा तमो यान्ति त्वीशितव्येशशापतः’’ इति । अनेन प्रपञ्चो यदि विद्ये-तेत्यादिश्रुतिरपि विवृता सत्यत्वार्थे । ‘‘पुत्रा मे यदि विद्यन्ते मरिष्यन्त्येव ते ध्रुवम् । यदि राज्यं करोत्येष नश्यत्येतदसंशयम्’’ इति धृतराष्ट्रवचने यथा यदिशब्दस्य विपर्यपर्यवसानेऽवस्तुत्वार्थः प्रतीयते तथाऽत्रापि । ‘‘यदि शब्दस्त्ववस्तुत्वे अस्वातन्त्र्ये च संशये । अवस्तुशब्दश्चाशक्ते ह्यल्पशक्तौ च कीर्त्यते’’ इत्यनेन यदिशब्दस्यावस्तुत्वार्थोपि ज्ञायते ॥ ७ ॥
श्रीनिवासतीर्थीया
शलभाच्छिक्षिता बुद्धिरुच्यते ॥ दृष्ट्वेति । भावो लीला क्रिया चेष्टेत्यभिधानाद् भावैःशृृङ्गारचेष्टाभिः । नन्विदमयुक्तम् । स्त्रीमात्रदर्शनस्य निषेधाभिप्राये स्वस्त्री-दर्शनस्यापि तदापत्तेः । न च परस्त्रीदर्शननिषेधपरम् । तथाऽपि तद्दर्शनमात्रेणान्धन्तमःप्राप्त्युक्त्यनु-पपत्तेरित्यतस्तत्तात्पर्यमाह ॥ महतामिति ॥ देवर्ष्यादीनामित्यर्थः । कामः कामनावान् । अन्यत्रान्यः स्वसमानानां स्वाधमानां च वनिताकाम इत्यर्थः । विपर्यये । यदि ऋष्यादिर्महात्मा स्वनीचस्य वनिताकामस्तर्हि अप्रतिष्ठादिजन्यैहिकदुःखवानेव स्यान्न पारत्रिकनरकादिदुःखवानित्यर्थः । तथा च स्वोत्तमर्ष्यादिस्त्रियं दृष्ट्वा प्रलोभितः प्रलोभं कामनाम् प्रापितः । तत्कामनावानिति यावत् । अन्धे तमसि पतति । स्वसमनीचानां स्त्रियं दृष्ट्वा तत्कामनावानन्धे तमसि निरये पतति । ऋष्यादि-र्महात्मा नीचानां स्त्रियं दृष्ट्वा तत्कामनावानन्धे तमसि नाम दुःखे पतति दुःखवान् भवतीति यावदिति मूलयोजना ।
देवमायेति मिथ्यात्वमुच्यत इति प्रतीतिमपाकर्तुं मायाशब्दार्थमाह ॥ मोहेति ॥ कथमस्मा-च्छब्दादयमर्थो लभ्यत इत्यत आह ॥ अविद्यमानमिति ॥ अमानोनाः प्रतिषेध इति माशब्दः प्रतिषेधवाची । तस्य च कर्मणि व्युत्पन्नस्य प्रतिषेध्यार्थकत्वादित्याशयः । तदिति । या प्रापणे प्राप्तिश्च ज्ञानं कर्तरि प्रत्ययः । तदविद्यमानं वस्तु स्वयं यापयति ज्ञापयति यद्यस्मात्तस्मान्माये-त्याहुरिति सम्बन्धः । तथा च देवमायां देवेन निर्मिताम् मायामविद्यमानार्थज्ञापिकाम् । मोहकारणभूतामिति यावत् । इति योजितम् भवति । अस्त्वेवमत्र मायाशब्दार्थः । मायाशब्दस्य भगवदिच्छावाचित्वप्रसिद्धेस्तत्र कथमर्थ इत्यत आह ॥ कुत्रचिदिति ॥ कुत्रचिन्महामायेत्य-विद्येत्यादावीश्वरेच्छा माया । मेति ज्ञानरूपं सद् भवत् । माङ् माने इति धातोः । लाभरूपं च येति भण्यते । याधात्वर्थस्य प्राप्तेर्लाभस्य चैकत्वादित्यर्थः । तथा चेश्वरेच्छायास्तु ज्ञानरूपत्वे सति लाभरूपत्वात् । मा चासौ या चेति व्युत्पत्त्या ईश्वरेच्छा मायाशब्दवाच्येत्यर्थः । प्रकारान्तरेणे-श्वरेच्छायां मायाशब्दं निर्वक्ति ॥ मयमिति ॥ प्रचुरा प्रधाना भगवदिच्छा । तथा च मयैव मायेत्यर्थः ।
ननु देवमायामित्येतत्कुत एवं व्याख्येयम् । अनिर्वाच्याविद्याकल्पितामतो मिथ्याभूतामित्येवार्थः कस्मान्न स्यात् । न च मायाकल्पितत्वमप्रामाणिकमिति वाच्यम् । आगमेषु स्पष्टमपारमार्थि-कत्वोक्तेरित्यतोऽपारमार्थिकत्वोक्तेरर्थं वक्तुं काञ्चन परिभाषामाह ॥ स्वतन्त्रमिति ॥ स्वतन्त्रा परमार्था । सैव स्वतन्त्रा हरिमतिरेव मुख्यतो माया समुद्दिष्टा मुख्यतो मायाशब्दवाच्या । ननु स्वतन्त्रैका हरिमतिरित्ययुक्तम् । तथात्वे स्वातन्त्र्यरूपभगवल्लक्षणस्य मत्यामतिव्याप्त्यापत्तेरिति चेत्तत्राह ॥ तत्स्वरूपिका हरिस्वरूपिकेति । तर्हि हरिमायेत्युक्तो भेदव्यवहारः कथमित्यत आह ॥ मतिमदिति ॥ यद्यपीति शेषः । मतिमन्मत्योरित्यर्थः । तथाऽपि विशेषबलादुपपत्तिरिति वाक्यशेषः । एवमुपयुक्तमुक्त्वा वाक्यार्थमाह ॥ पारमार्थ्येनेति ॥ स्वतन्त्रभूतहरिमत्यभेदेनेत्यर्थः । नास्त्येव जगदित्यत इति शेषः । कुतो नास्तीत्यतो विरुद्धधर्माधिकरणत्वेन भेदस्यैव सत्वादित्याह ॥ तदन्यत्तद्वशत्वत इति ॥ ननु मायामये वासनयेत्यादौ स्पष्टं मायाशब्दवाच्याविद्याकल्पितत्वोक्ते-र्देवमायामित्येतदपि तथैव व्याख्येयमित्यतस्तद्व्याख्याति ॥ अनादीति ॥ ध्रुवं निश्चयेन विद्यमानमपि सर्वं यत्तद्वशगमतो मायामयं चाहुरिति योज्यम् । मयम् प्रधानमुद्दिष्टमिति वचनान्मायेश्वरेच्छा ज्ञानरूपत्वाल्लाभरूपत्वात्प्रचुरत्वाद्वा मयं प्रधानं यस्य तदिति विग्रहेणेति भावः । अत एवात्र मायाशब्देनेश्वरेच्छा कथमुच्यत इति शङ्कापनोदायैव पूर्वं कुत्रचिदित्यादिप्रमाणशेषोदाहरणम् । अन्यथाऽसङ्गतं स्यादिति ध्येयम् । ननु जगतोऽविद्यमानो ह्यवभातीत्यादावविद्यमानतायाः स्पष्टमुक्तेस्तदेकवाक्यतयैव देवमायामित्येतदपि व्याख्येयमित्यतस्तदुक्तेरर्थमाह ॥ स्वेति ॥ सदिति प्रोक्तं विद्यमानम् इति प्रोक्तम् । असदविद्यमानं स्मृतम् । विद्यमानेऽपि पराधीने पुंस्यशक्तत्वाल्पत्व-व्यवहारादिदर्शनादिति भावः । यस्मादिति शेषः । एतस्माद्धेतोरनादीत्यादेः पूर्वोत्तराभ्यां सम्बन्धः । विद्यमानमपि जगदविद्यमानमाहुरित्यन्वयः । नन्वथापि जगन्नास्तीति स्पष्टोक्तिसद्भावाद्देवमाया-मित्येतदपि तदानुकूल्येनैव व्याख्येयमित्यतस्तदुक्तेरप्यर्थमाह ॥ अनादीति ॥ विद्यमानमपि सदिति प्रतीयमानमपि जगदस्वातन्त्र्यादेव नास्ति चेत्येवं वाच्यं विपश्चिद्भिरिति योज्यम् ।
ननु जगतो निवर्त्यः प्रपञ्चो यदि विद्येतेत्याद्युक्त्या मिथ्यात्वप्रतीतेर्देवमायेत्येतदपि तदानुकूल्येनैव व्याख्येयमित्यतस्तदुक्तेरप्यर्थमाह ॥ सदेत्यादिना ॥ यद्यपि प्रपञ्चोऽस्ति तथाऽपि निवर्त्य इत्याहुः । ननु कथं निवर्त्यमाहुः । याथातथ्यतोऽर्थान्व्यदधाच्छाश्वतीभ्यः समाभ्य इत्यादावनाद्यनन्तकालेषु नित्यत्वोक्तिविरोधादित्यत उक्तम् ॥ सदा वृत्तेरित्यादि ॥ यदि यद्यपि क्वचित्प्रदेशविशेषे इदं जगत्सदा वृत्तेः कालत्रये सत्वाद्विद्यमानं नित्यमिति ब्रूयात् । तथाऽपीदं जगत्स्वरूपेण नाशवदेव मन्तव्यम् । हीति प्रत्यक्षादिप्रमाणेन तस्य प्रमितत्वमाचष्टे । तर्हि नित्यत्वोक्तेः श्रुतेः का गतिरित्यत आह ॥ प्रवाहाद्धीति ॥ अस्य जगतो यस्मादस्य प्रवाहान्नित्यताऽतः सा श्रुतिरुपपद्यत इति शेषः । तथा च प्रवाहनित्यतामभिप्रेत्य सा श्रुतिः प्रवृत्तेत्यविरोध इत्याशयः । हीति नित्यमेव प्रवाहत इति प्रमाणप्रसिद्धमिति व्याचष्टे । ननु मायामात्रमिदं द्वैतमद्वैतं परमार्थत इति श्रुतिबलादेव माया मायारचितेष्विति तथैव व्याख्येयमित्यतस्तदर्थमाह ॥ विष्णोरित्यादिना ॥ मितं त्रातं चेत्यर्थकमात्रशब्दतात्पर्यकथनं वशत्वादितीत्याहुरित्यन्वयः । एकमेव विष्णुमाहुरित्यन्वयः । स्वातन्त्र्यात् । स्वतन्त्रपरमार्थाख्यमित्युक्तेरिति भावः । ननु विकल्पो विनिवर्तेतेति श्लोके केनचित्कल्पित इति स्पष्टं कल्पितत्वमुच्यत इत्यतस्तदनुसारेणेदमपि व्याख्येयमित्यतस्तं व्याचष्टे ॥ यदीत्यादिना ॥ केनचिदित्यस्य लोकविलक्षणेत्यर्थकस्य तात्पर्यकथनम् ॥ स विष्णुरिति ॥ नायं श्लोकस्तर्कपरः किन्तु वस्तुस्थितिकथनपर इत्याशयः । यदि यस्मात् । यद्वा । नन्वस्य जगतो विष्णुकल्पितत्वादि कुत इत्यत उक्तम् ॥ यदीति ॥ अल्पशक्तित्वादित्यर्थः । यदिशब्दस्य तदर्थतायां प्रमाणस्योच्यमानत्वादिति ध्येयम् । यावद्विकारं तु विभागो लोकवदिति । द्वैतं नास्तीत्युच्यत इति योज्यम् । तद्वशत्वान्नास्तीत्युच्यत इत्युक्तं विशदयति ॥ स्वातन्त्र्येणेति ॥ पराधीनो नास्तीति व्यवह्रियते लोक इति भावः । अनेन ज्ञाते द्वैतं न विद्यत इत्यस्यार्थ उक्तो भवति । उपदेशादयं वाद इत्यस्य तात्पर्यमाह ॥ इत्याहुरिति ॥ स्वातन्त्र्येणेत्युक्तं दृष्टान्तमुखेनो-पपादयति ॥ यथैवेत्यादिना । राज्ञः स्वातन्त्र्यादन्यस्य पारतन्त्र्यात् । औतं परमार्थत इत्यत्रोक्त-मद्वैतत्वं दृष्टान्तमुखेनोपपादयति ॥ यथैकेति ॥ यथा प्रधान्यात्कश्चिदेकच्छत्र एकवीर इति चोच्यते तथेत्यर्थः । नन्वयं भेदः सर्वोऽपि सांसारिक एव न मौक्तस्तत्र प्रमाणाभावादित्यत आह ॥ एवमिति ॥ देवमायामित्यादेः परोक्तार्थे साधकप्रमाणानि समग्व्याख्याय कल्पितत्वार्थोक्तौ बाधकं प्रमाणशेषेणाह ॥ तस्यैतस्येति ॥ एवमुक्तश्रुत्यर्थस्येत्यर्थः । जगद्भ्रान्तिकल्पितमिति श्रुत्यर्थमुक्त्वा तदनुसारेण देवमायामित्यादेरप्यर्थमुुक्त्वेत्यर्थः । ईशितव्यो ब्रह्मादिरीशो हरिस्तयोः शापतः ।
ननु प्रपञ्चो यदीति श्रुतौ योऽयं प्रपञ्चो विद्यत इव दृश्यते सोऽयं निवर्तते ज्ञानेन बाध्यत एवेति स्पष्टं मिथ्यात्वोक्तेरिदमपि तथैव व्याख्येयमित्याशङ्क्य प्रपञ्च इत्यादि धृतराष्ट्रवचन-वद्व्याख्येयमित्याह ॥ पुत्रा म इत्यादिना ॥ मे पुत्रा यदि विद्यन्ते ते भीमान्मरिष्यन्ति च । कुत इत्यत उक्तम् ॥ यदीति । अशक्तत्वादित्यर्थः । एतद्राज्यं नश्यति । कापुरुषैः कुतो नश्यतीत्यत उक्तम् ॥ यदीति ॥ राज्यकर्तुरशक्तत्वादित्यर्थः । एवं प्रपञ्चो यदि विद्यते निवर्तते चेत्यत्र यदीत्यनेनाल्पशक्तित्वरूपो यावद्विकारमित्युक्तः सौत्रो हेतुरुच्यत इति मन्तव्यम् । यदिशब्दस्योक्तार्थत्वे प्रमाणमाह ॥ यदीति ॥ यद्यदिशब्दोऽवस्तुवाची । तर्हि सिद्धं नः समीहितमित्यत आह ॥ अवस्तुशब्द इति ॥ अल्पशक्तावल्पशक्तियुते पुंसि ॥ ७ ॥
प्रमेयचन्द्रिका
पतङ्गाच्छिक्षितमुच्यते ॥ दृष्ट्वेति ॥ नन्वत्र स्त्रीकामनायाः कथं तमःसाधनत्वमुच्यते । स्वस्त्रीकामस्यादोषत्वात् । परस्त्रीगमनस्योपपातकत्वस्यैव वक्ष्यमाणत्वात् । उपपातकं तद्गतिश्चेति । तस्मात् स्त्रीजितस्य तमः कथमुपपन्नमित्यत आह ॥ महतामिति ॥ अन्यत्र महद्वनिताभ्यो अन्यत्र स्वसमानां वनिताकामश्चेति यावत् । विपर्यये स्वनीचवनिताकामने यत्किञ्चिद्दुःखवान् स्यादित्यर्थः ॥
ननु देवमायां स्त्रियमिति कथं सामानाधिकरण्यम् । स्त्रियो मायात्वायोगादित्यत आह ॥ मोहेति ॥ मोहकारणत्वं कथं मायाशब्देन भण्यत इत्यत आह ॥ अविद्यमानमिति ॥ अमानो नाः प्रतिषेध इत्युक्तेः प्रतिषिध्यमानं यत् तन् मेत्युक्तम् । यन्माशब्दोक्तं तदविद्यमानं यापयति । या प्रापणे गत्यर्थानामवगत्यर्थकत्वाद्ज्ञापयति। तस्मान्मोहकारणभूता मायेत्याहुरिति संबन्धः । तथा च स्त्रियोऽपि मोहकारणरूपत्वाद्देवाधीनतया तत्सम्बन्धित्वाच्च देवमायां स्त्रियमिति युज्यत इति भावः ।
ननु उत्तरश्लोके योषिदादीनां मायारचितत्वमुच्यते । तत्र मोहकारण भूतवनितारचितत्वा-योगादविद्यारचितत्वे वक्तव्ये मायाशब्दस्याविद्यापरत्वमेव वाच्यम् । ततश्च तदनुसारेण पूर्वश्लोकेऽपि देवमायामित्यत्रापि देवसम्बन्ध्यनिर्वाच्याविद्यानिमित्तामिति लभ्यते । अतो मोहकारणभूतामिति व्याख्यानमयुक्तमित्यत आह ॥ कुत्रचिदिति ॥ माङ् मान इति धातोर्ज्ञानरूपं माया इति भण्यते । या प्रापणे प्रापणं लाभः । ततश्च तदिति भण्यते । सदिति योग्यतया सम्बध्यते । अतः सल्लाभरूप-मित्युक्तम् । अत आनन्दादिगुणजातस्य लाभस्वरूपत्वात्सत आनन्दादेर्लाभःश्रीब्रह्मादिजगतो यस्याः सा ईश्वरेच्छा मायाशब्देन कुत्रचिद्भण्यत इत्यर्थः ॥
प्रकारान्तरेणापि मायाशब्दं भगवदिच्छायां निर्वक्ति ॥ मयमिति ॥ प्राचुर्यमिह महत्वं विवक्षितम् । अनुव्याख्याने प्राचुर्यार्थाश्च मयट इत्युक्तवा महाभोक्ता महाभोग्य इति विवरणात् । तथा च माया महती एवं मायाशब्दस्य मायारचितेष्वित्यस्य भगवदिच्छानिमित्तेत्यर्थः । देवमायामित्यस्य तु देहवत्सम्बन्धिनीं मोहकारणभूतां स्त्रियमित्यर्थो मायाशब्दस्यानेकार्थत्वादुपपद्यत इति भावः ॥
ननु मायारचितेष्वित्यस्येश्वरेच्छारचितेष्विति अर्थ इति यदुक्तं तदयुक्तम् । प्रपञ्चो यदि विद्येतेति माण्डूकश्रुतौ प्रपंचो यद्यपि विद्यत इव दृश्यते । तथापि निवर्त्तेत अधिष्टानयाथात्म्यज्ञानेन निवर्त्तिष्यते । न संशयः । अतो ब्रह्मज्ञानबाध्यत्वादिदं द्वैतं भेदादिप्रपञ्चो मायामात्रमविद्याकल्पितं परमार्थतस्त्वद्वैतं भेदाभाव एवेति पूर्वमन्त्रे अभिध्याय विकल्पो विनिवर्तेत इति द्वितीयमन्त्रे विकल्पं विविधकल्पनारूपो अयं प्रपञ्चः यद्यपि केनचिदज्ञानकल्पितस्तथाऽपि निवर्त्तिष्यत इत्यनिर्वाच्यमायाकल्पितत्वस्योक्तत्वाच्च । तत्समाख्यया मायारचितेष्वित्यस्याप्यविद्याकल्पितत्वमेवार्थ इत्यवश्यं वक्तव्यत्वादित्याशङ्कावारणाय प्रपञ्चो यदीति मन्त्रद्वयं प्रमाणेन व्याख्याति ॥ स्वतन्त्रं परमार्थाख्यमित्यादिना ॥ परमार्थत इत्यत्र परमार्थ इत्येतत्स्वतन्त्रत्ववाचकमित्यर्थः । किं तत्स्वतन्त्रत्वमित्यत उक्तम् ॥ स्वतन्त्रैकेति ॥ मायामात्रमित्यत्र मायापदेनापि सा मतिरेवोच्यत इत्याह ॥ सैवेति ॥ मायाशब्दस्योक्तरीत्या अनेकार्थत्वेऽपि भगवन्मतावेव मुख्यत्वान्मुख्यस्यैव ग्राह्यत्वादिति सूचयितुं मुख्यत्वादित्युक्तम् । हरेर्मतिरेकैव स्वतन्त्रेत्ययुक्तम् । हरिस्वातन्त्रस्यापि प्रमितत्वादित्यत उक्तम् ॥ तत्स्वरूपिकेति ॥ तदेव विवृणोति ॥ मतीति ॥ मतिमन्मतिभेद इत्ययमपि विष्णौ क्वचिदपि नेष्यते । जीवोऽयं संसारदशायां भिन्नमतिरप्यस्ति । न विष्णोः क्वचिदित्यर्थः । श्रीरपि विष्ण्वन्तर्भूतेति न दोषः । तथा च हरितन्मत्योरैक्यात्स्वतन्त्रैकेति युज्यत इति भावः ॥
औतं परमार्थत इत्यस्यार्थमाह ॥ पारमार्थ्येनेति ॥ तृतीयार्थे तसिरित्याशयेनोक्तम् ॥ पारमार्थ्येनेति ॥ स्वातन्त्र्येणेत्यर्थः । औतमित्यस्यार्थः ॥ नास्त्येव तदन्यदिति ॥ एतेन मूले द्वीति भावप्रधानो निर्देशः । द्वित्वेनेतं द्वीतम् । तदेव द्वैतम् । अणः स्वार्थिकत्वात् । अदन्य-द्वस्तु द्वैतमित्यर्थः ॥ तदभावोऽद्वैतमित्युक्तं भवति । तथा चाद्वैतमित्यस्य तदन्यन्नास्तीत्यर्थो लभ्यत इति ज्ञेयम् ॥ ननु याथातथ्यतो अर्थान्व्यदधाच्छाश्वतीभ्य इति सत्यत्वादिना प्रमितत्वात्कथं नास्त्ये-वेत्युक्तिरित्यत उक्तम् ॥ तद्वशं यत इति ॥ अनाद्यन्तकाले विद्यमानं नित्यमपि ध्रुवं सत्यमपि विश्वं यतस्तद्वशं भगवद्वशं यस्मात्पारमार्थ्येन स्वातन्त्र्येण नास्त्येवेत्युच्यते औतं परमार्थत इत्यादा-विति योजना । तृतीयपादं व्याचष्टे ॥ अतो मायामयमिति ॥ यतः सर्वं जगत्तद्वशगं तदिच्छाधीनम् अतो मायामयं प्राहुः । मायामात्रमिदं विश्वं, मायामये वासनया शयान इत्यादिश्रुतिस्मृतय इत्यर्थः ।
ननु श्रुत्यादिषु तत्र तत्र विश्वमसदविद्यमानमित्याद्युक्तिदर्शनात्कथं सत्यत्वं विश्वस्योच्यत इत्यसदादिशब्दानामर्थं प्रमाणान्तरेणाह ॥ स्वाधीनमिति ॥ स्वतन्त्रमित्यर्थः । उपदेशकः पुरुषः । स्वतन्त्रः कालनित्यता इत्यादिषु स्वसम्बन्ध इत्युक्तेरिति ज्ञेयम् । सच्छब्दस्य साधुभावादिवाचकतायाः प्रमितत्वात्साधुभावादिकं च स्वातन्त्र्यमेवेति मत्वा स्वाधीनं सदिति प्रोक्तमित्युक्तम् । एतस्मात्पराधीनत्वादेव कारणादनाद्यनन्तकालेषु ध्रुवम् अबाध्यं यथा भवति तथा अविद्यमानमपि जगदविद्यमानं च प्राहुरित्यर्थः । एतस्मादेवेत्युक्तं विवृणोति ॥ अस्वातन्त्र्यादिति ॥ तुरवधारणे । सदा अस्वातन्त्र्यादेव जगन्नास्त्येवेति वचनगौरवमित्यर्थः । नन्वनाद्यनन्तं जगदेतदीदृक् प्रवर्तत इत्यादौ विश्वस्य सदावृत्तेः प्रमितत्वादीश्वरवत्सर्वमिदं विद्यमानं स्वतन्त्रमेवेति ब्रूम इत्यत आह ॥ सदा वृत्तेरिति ॥ यदीदं विद्यमानं स्वतन्त्रमिति क्वचिद्ब्रूयात्तथापि सर्वदा विद्यमानमपीदं नाशवत् । हीति श्रुत्यादिप्रसिद्धिं द्योतयति । सदा विद्यमानं नाशवदिति व्याहतमित्यत उक्तम् ॥ प्रवाहाद्धीति ॥ हि यस्मादस्य नित्यता प्रवाहमपेक्ष्यातः सदा विद्यमानमपि नाशवदिति युज्यत इत्यर्थः । सदा सत्यं जगदेतादृक् नित्यमेव प्रवाहत इत्यादिप्रसिद्धिं वा हिशब्देन द्योतयति ॥
एवं प्रपञ्चो यदीति वाक्यार्थकथनोपयुक्तं तत्प्रसक्तं चोक्त्वा इदानीं तदर्थमाह ॥ अत इति ॥ अत्र प्रपञ्चो यदि विद्येतेत्यस्यार्थः ॥ प्रपञ्चो यद्यप्यस्तीति ॥ विद् सत्तायामिति धातोर्विद्येतेत्ये-तदस्तीति व्याख्यातम् । हीति तत्सत्यत्वे प्रमाणप्रसिद्धिप्रदर्शनार्थम् । यदीति । यद्यपीति श्रवणा-त्तथापीति श्रुतावत्र च ग्राह्यम् । निवर्तेतेत्यस्याभिप्रायो निवर्त्यमित्याहुरिति । अनाद्यनंतस्य जगतः कथं निवृत्तिरित्यत उक्तम् ॥ अत इति ॥ नाशवद्धीदं प्रवाहाध्द्यस्य नित्यतेत्युक्तस्यायं परामर्शः । ततश्च यतः प्रवाहरूपेण नित्यस्यापि विश्वस्य विनाशः प्रमित अत इत्यर्थः ॥ मायामात्रमित्यस्यार्थः ॥ विष्णोरिति ॥ इतीत्यतःपरमाहुरित्येतदनुवर्तनीयम् । श्रुतौ मायामात्रमिदमित्येतावता सर्वमपीदमीश्वरेच्छाधीनमित्यर्थः ॥ औतं परमार्थत इति चतुर्थपादमाह ॥ परमार्थमिति ॥ तत्राद्वैतमित्यस्यार्थ एकमेवेति । एतेन तुशब्दसूचितो विशेषः प्रदर्शित इति । आहुरिति वर्तते । तथा चाव्ययं विष्णुमेकमेव स्वातन्त्र्यात्परमार्थमाहुरिति योजना । विकल्पो यदीति मन्त्रार्थमाह ॥ यदीति ॥ कल्पितो यदि केनचिदित्यस्यार्थः ॥ यदीदं कल्पयेद्विष्णुरिति ॥ यदि कल्पयतीदं स इति पाठान्तरम् ।
विकल्पो विनिवर्तेतेत्यस्यार्थः ॥ स एव विनिवर्तयेद्विष्णुरिति ॥ ज्ञाते द्वैतं न विद्यत इत्यस्यार्थः ॥ तस्मादित्यादि ॥ उपदेशादयं वाद इत्यस्य तात्पर्यमित्याहुरित्यादीति । योजना तु स विष्णुर्यद्यपीदं कल्पयति पुनः स एव निवर्तयेत् । विनाशयेत् । तस्मात्सर्वस्य तत्सृज्यत्वा-त्तद्विनाश्यत्वान्निमित्तात्तद्वशत्वान्नियामकतया स्वातन्त्र्येण हरौ ज्ञाते सति प्रपञ्चस्य पराधीनत्व-निश्चयात् । द्वैतमीश्वरादन्यद्वस्तु स्वातन्त्र्येण नास्तीत्युच्यत इति उपदेष्टार आचार्या ज्ञानप्रति-ष्ठापकाः । अत एव तत्ववेदिन आहुरिति ।
ननु वस्तुतः सत्स्वपि पदार्थेषु पराधीनत्वमात्रेण नास्तीति व्यवहारः कुत्र दृष्ट इत्यत आह ॥ यथैवेति ॥ यद्वा राजनि ज्ञाते तस्य भृत्यादिकमपेक्ष्य स्वातन्त्र्यात्सत्स्वपि भृत्यादिषु तेषां पारतन्त्र्याद्राजाधीनत्वादन्यो नास्तीति स्पष्टं यथा भवति तथा वचो वर्तते । यथा वा अमात्यादिषु राजाधीनछत्रवत्स्वपि स्वातन्त्र्याद्राजा एकच्छत्रवानित्युच्यते । यथा च वीरान्तरेषु सत्स्वपि स्वातन्त्र्याद्राजैकवीर इति व्यवह्रियते । तथैव सर्वजगदपेक्षया प्राधान्याद्धरिरद्वितीय इति स्मृतः । तदन्यन्नेत्युच्यत इति यावत् । यद्वा एकमेवाद्वितीयमित्यादावद्वितीय इत्युच्यत इत्यर्थः ।
अत्रार्थे मुक्तानां प्रत्यक्षं प्रमाणमित्याह ॥ एवमिति ॥ जीवन्मुक्तव्यावृत्तये विभोः सायुज्यं प्रापिता इत्युक्तम् । अनन्तकालं सर्वकालेऽपि प्रवाहरूपेण स्थितं जगत्पश्यंतो मुक्ता इति योज्यम् । एतेनैवं मुक्तिर्भवतीति सूचितं भवति । एतद्विपरीतज्ञानस्यानर्थसाधनत्वादेतदेव प्रामाणिकमित्याह ॥ तस्यैतस्येति ॥ ईशितव्यानां ब्रह्मादीनामीशस्य हरेश्च शापत इत्यर्थः ।
ननु श्रुतौ यदिशब्दो व्यर्थः । प्रयोजनाभावादित्यत अस्वाभावनिमित्तज्ञापनं यदिशब्द इत्याशयेन प्रयोगं दर्शयति ॥ पुत्रा इति ॥ दुर्योधनादीनां पुत्राणां विद्यमानत्वेऽपि तेषामुत्तरत्रावस्थाने आस्था-भावज्ञापनाय यदिशब्दो यथा वा सुयोधनेनेदानीं राज्यकरणेऽपि राज्यस्य स्थिरत्वे आस्थाभावज्ञापनार्थो यदिशब्दस् तथा प्रपञ्चो यदीत्यादावपि प्रपञ्चस्वातन्त्र्ये आस्थाभावज्ञापनाय यदिशब्दः सार्थक इति भावः ॥ यदिशब्द आस्थाभावप्रयोजकाशक्तत्वज्ञापक इत्यत्र प्रमाणमाह ॥ यदिशब्द इति ॥ अवस्तुत्व इत्यत्रोक्तावस्तुशब्दार्थमाह ॥ अवस्तुशब्द इति ॥
तथा चैवं मन्त्रद्वयार्थः । प्रागद्वैतः सर्वभावानां देवस्तुर्यो विभुः स्मृत इति सर्वभावानां मध्ये तुर्यो विष्णुर्देवो औतः स्वतन्त्रः द्वितीयवस्तुरहित इति भगवतः स्वातन्त्र्यं तदन्येषामस्वातन्त्र्यं चोक्तम् । तदेतद्द्वयं प्रतिपादयितुं मन्त्रद्वस्य प्रवृत्तिः । तत्र प्रपञ्च ईश्वरातिरिक्तः सर्वोपि यदि विद्येत विद्यते तस्य स्वातन्त्र्ये आस्थाभावज्ञापनाय यदिशब्दः । सो असौ निवर्तेत विनश्यत्येव न संशयः । अस्त्वेवमुत्पत्तिविनाशौ विश्वस्य । ततः किमित्यत आह ॥ उक्तं मायामात्रमिति ॥ अतो भगवत्सृज्यत्वाद्विनाश्यत्वाच्चेदं सर्वं द्वैतं मायामात्रं तद्वशमिति यावत् । अत एव परमार्थतः पारमार्थ्येन स्वातन्त्र्येणाद्वैतम् । भिन्नं वस्तु द्वैतम् । भगवदन्यद्वस्तु स्वतन्त्रत्वेन नास्तीति भावः ॥
नन्वनाद्यनन्तादिवाक्याद्भगवदन्यप्रपञ्चस्य सदातनत्वावगमात्कथं विनाशित्वमित्यतः प्रवाहरूपेण नित्यत्वेऽपि प्रवाहिणां जनिनाशोपपत्तेरस्वातन्त्र्यं युक्तमिति भावेन प्रवृत्तस्य विकल्प इति मन्त्रस्यैवं योजना । यदि क इत्यानन्द उद्दिष्ट इत्युक्तेः केनचिदानन्दरूपेण हरिणा कल्पितः सृष्टोऽयं विकल्पः विविधकल्परूपः । विविधतया स्थित इति यावत् । प्रपञ्चस्तैनैव निवर्त्तेत विनाशं प्राप्नोति । अत्र विद्वत्संमतिरुच्यते ॥ उपदेशादिति ॥ एवं जगज्जन्मादिहेतुतया स्वतन्त्रत्वेन हरौ ज्ञाते द्वैतं तदन्यज्जगदस्वातन्त्र्येण विद्यत इत्ययं वादः सतामुपदेशादनुभवारूढो भवतीति ॥ ७ ॥
योषित्सु तल्पाभरणाम्बरादिद्रव्येषु मायारचितेषु मूढः ।
प्रलोभितात्मा ह्युपभोगबुध्या पतङ्गवन्नश्यति नष्टदृष्टिः ॥ ८ ॥
पदरत्नावली
प्रागुक्तश्लोकार्थमेव विवृणोति योषित्स्विति । मायारचितेषु भगवदिच्छारचितेषु भोगसाधनेषु तल्पादिषु योषिज्जनेषु चोपभोगबुध्या विषयभोगसाधनबुध्या प्रलोभितात्मा विवशमनाः पतङ्गवन्नश्यतीत्यन्वयः ॥ ८ ॥
श्रीनिवासतीर्थीया
मूलार्थस्तु । उपभोगबुद्ध्या भोगसाधनत्वबुद्ध्या ॥ ८ ॥
स्तोकं स्तोकं ग्रसेद् ग्रासं देहो वर्तेत यावता ।
गृहाद् व्रजेत् समातिष्ठन् वृत्तिं माधुकरीं मुनिः ॥ ९ ॥
पदरत्नावली
मधुकरशिक्षितमतिमुपदिशति स्तोकमिति । माधुकरी मधुकरस्य विद्यामानां वृत्तिं समातिष्ठन् मुनिर्गृहाद् व्रजेदित्यन्वयः ॥ ९ ॥
श्रीनिवासतीर्थीया
गृहाद्गृहस्थानात् ॥ ९ ॥
प्रमेयचन्द्रिका
मूले मधुकराच्छिक्षितमुच्यते ॥ स्तोकमिति ॥ गृहाद् व्रजेद् भिक्षार्थमिति शेषः ॥ ९ ॥
अणुभ्यश्च महद्भ्यश्च शास्त्रेभ्यः कुशलो नरः ।
सर्वतः सारमादद्यात् पुष्पेभ्य इव षट्पदः ॥ १० ॥
पदरत्नावली
अत्राणुत्वमहत्वे सङ्ख्ययोच्येते न त्वर्थतः । सारं भगवज्ज्ञानजननी भक्तिम्
॥ १० ॥
श्रीनिवासतीर्थीया
अणुभ्य इत्यादि ॥ शास्त्रेभ्यः ब्रह्मसूत्रभारतादिभ्यः । अणुत्वमहत्वे सङ्ख्ययोच्येते न त्वर्थतः । सर्वतः सर्वेभ्यः । सारं मुख्यतः प्रतिपाद्यं भगवन्तं जानीयात्
॥ १० ॥
प्रमेयचन्द्रिका
॥ अणुभ्य इति ॥ अल्पाक्षरेभ्यः सूत्रादिभ्यः । महद्भ्यः पञ्चरात्रादिभ्यः
॥ १० ॥
सायन्तनं श्वस्तनं वा न सङ्गृह्णीत भिक्षितम् ।
पाणिपात्रोदरामत्रो मक्षिकेव न सङ्ग्रही ।
मक्षिका इव सङ्गृह्णन् सह तेन विनश्यति ॥ ११ ॥
पदापि युवतीं भिक्षुर्न स्पृशेद् दारवीमपि ।
स्पृशन् करीव बध्येत करिण्या अङ्गसङ्गतः ॥ १२ ॥
पदरत्नावली
भिक्षितं भिक्षया लब्धमन्नं सायन्तनं सायन्तनार्थं श्वस्तनं श्वस्तनार्थं च न सङ्गृह्णीत । कथं तर्हि भोजनम् । अत्राह– पाणीति । पाणिपात्रत्वेनोदरामत्रत्वेन वा, भुञ्जान इति शेषः । सङ्ग्रहे को दोष इत्यत्राह– मक्षिका इति । तेन धनादिना सह विनश्यति, चोरादिनेति शेषः ॥ गजात् किमुपात्तमत्राह पदेति । करिण्या अङ्गसङ्गतः स्पृशन् करीव बध्यते ॥११,१२॥
श्रीनिवासतीर्थीया
सायन्तनं सायङ्कालार्थे । श्वस्तनं श्वोऽर्थे । भिक्षितमन्नं सायङ्कालार्थे श्वोऽर्थं वा भविष्यतीति सङ्ग्रहो न कर्तव्य इत्यर्थः । उदरमेवामात्रं भोजनपात्रं यस्य स तथा ॥ तेन सङ्गृहीतवस्तुना सह ॥ ११,१२ ॥
नाधिगच्छेत् स्त्रियं प्राज्ञः कर्हिचिन्मृत्युमात्मनः ।
बलाधिकैः स हन्येत गजैरन्यैर्गजो यथा ॥ १३ ॥
पदरत्नावली
एतदेव विवृणोति नाधिगच्छेदिति ॥ १३ ॥
श्रीनिवासतीर्थीया
स्त्रियं परकीयाम् ॥ १३ ॥
न देयं नोपभोग्यं च लुब्धैर्यद् दुःखसञ्चितम् ।
भुङ्क्ते स्वमपि तच्चान्यो मधुहे१वार्थविन्मधु ॥ १४ ॥
सुदुःखोपार्जितैर्वित्तैराशासानां गृहाशिषः ।
मधुहेवाग्रतो भुङ्क्ते यतिर्वै गृहमेधिनाम् ॥ १५ ॥
पदरत्नावली
मधुहनोपि का बुद्धिरार्जितेति तत्राह– न देयमिति । लुब्धैर्यद् दुःखेन सञ्चितं न देयं दानयोग्यं न नोपभोग्यं स्वस्योपभोगयोग्यं च न तत् स्वं वित्तम् अर्थविदन्यो भङ्क्ते । कथमिव । मधुहा मकरन्दसङ्ग्रही मधुवत् ॥ किमनेनात्मनो लब्धमत्राह– सुदुःखेति ॥ यतिर्जितेन्द्रियग्रामः ॥ १४,१५ ॥
श्रीनिवासतीर्थीया
तच्च स्वं वित्तं न देयमित्यादि । ननु मक्षिका इव सङ्गृण्हन् सह तेन विनश्यतीति मधुकृच्छिक्षितैव बुद्धिराभाति न मधुहणः शिक्षिता बुद्धिरिति चेदुच्यते । पूर्वं मक्षिका इवेति सङ्ग्रह एव न कार्य इत्युक्तम् । अधुना तु क्रियतां सङ्ग्रहस्तथाऽपि दानादिना सार्थकं कार्यमित्युच्यते मधुहदृष्टान्तेन । लुब्धसञ्चितं द्रव्यं दानोपभोगयोरनुपयुक्तमिति विद्वान् लुब्धतां परित्यज्य दानोपभोगाभ्यां सार्थकम् । कार्यमिति शेषः । तत्रायं मधुहदृष्टान्तः कथ्यते । अर्थवदिति पाठः । अर्थकृदिति च । तथा च यथा मधुहा मधु गृहीत्वा तन्मध्वर्थवत्सार्थकं करोति । अर्थकृदिति पाठे मधुहा मधु गृहीत्वाऽर्थकृद्भवति दानं करोति । अनन्तरं तद्द्रव्यादि गृहीत्वा स्वयमुपभुङ्क्ते च ।
ननु तर्हि मधुदृष्टान्त एव कस्माद्वाच्यः । कर्षकादिदृष्टान्तः कस्मान्नोच्यत इति चेदुच्यते । मक्षिका इव सङ्गृण्हन् सह तेन विनश्यतीत्येतदुपपादनस्याप्यनेन लाभात् । मक्षिकाभिरपि तन्मधु दुःखसञ्चितं स्वेन न देयं स्वस्यापि नोपभोग्यम् । यथा ता हत्वाऽन्यस्तन्मधु नयत्यतः सङ्ग्रही न स्यादिति ज्ञापनार्थत्वेनोभयाभिप्रायकत्वात् । अत एव परेण न देयमिति श्लोको मक्षिका इवेत्यतः परं पठितः । उत्तरत्र पाठेऽपि मक्षिका इवेत्येतद्विवृण्वन्मधुहवद्दानोपभोगाभ्यां सार्थकं च कार्यमित्या-हेत्यवतारितं चेति । अर्थविदिति पाठे एतत्समीपेऽर्थोऽस्तीति जानन्नन्यो भुङ्क्त इत्यन्वयः । अत एवास्वरसान्मधुहणः शिक्षितामसाधारणीं गृहस्थानां सत्वासत्वविचाररूपां यतेरवधूतस्य बुद्धिमाह ॥ सुदुःखेति ॥ दुःखेन द्रव्यार्जनं कृत्वा तेन गृहाशिषः कर्तुमिच्छां गृहस्थानां वैश्वदेवसमये गत्वाऽग्रत आदादेव तद्भोजनात्पूर्वमेव गृहान् स्वयं भुङ्क्ते । यथा मधुहाऽन्यो जनो मधुकृद्भिर्दुःखेनै-तन्मध्वार्जितमस्त्यतो मया न ग्राह्यमिति विचारमपहाय तद्गृहीत्वा भुङ्क्ते ॥ एवमिति । यथोक्तं पण्डिताचार्यैर्योगदीपिकायां यतिधर्माः कथ्यन्त इति प्रतिज्ञाय । गृहान् गत्वा गृहस्थानामविचार्य बलाबले । यतिर्भुञ्जीत नैव स्याद्दोषस्तेन मधुघ्नवदिति । अर्थविदेतत्समीपे वित्तमस्तीति जानन्नन्योऽग्रतो गृहमेधिनां भोजनात्पूर्वमयं भिक्षार्थमागतो यतिस्तदन्नं भुङ्क्ते तदीयशक्तिं न विचारयति । यथा महामधुकरेण रसपानात्पूर्वं स्वयं सङ्गृण्हाति तद्वत् ॥ १४,१५ ॥
दुर्घटभावदीपिका
यद्दुःखसञ्चितं स्वधनं तदपि लुब्धैर्देयं न भवति । उपभोग्यं च न भवति । किं त्वर्थविद्धनवित् । चोऽवधारणे । अन्यश्चान्य एव भुङ्क्ते । अत्र दृष्टान्तमाह ॥ मधु-हेवेति । मधुहा मधुमक्षिकाघाती मध्विव मधु यथा भुङ्क्त इति ॥ १४ ॥
प्रमेयचन्द्रिका
॥ न देयमिति ॥ लुब्धैर्यद्दुःखेन संपादितं तद्दानार्हम् उपभोक्तुमर्हं च न । किन्तु तच्च स्वं वित्तमन्यो अर्थविदर्थसारज्ञश्चोरो राजा वा भुङ्क्ते । तथेत्यर्थः ॥ मधुहणः शिक्षितमन्यच्चोच्यते ॥ सुदुःखेति ॥ वित्तैरन्नाद्याशिषमाशासानां गृहमेधिनां सम्बन्ध्यन्नाद्यमतो भुङ्क्ते ॥ स्वयं तत्सम्पादनायासंहितत्वाद्गृहिसंपादितमेव स्वीकुर्यादिति भावः ॥ १४,१५ ॥
ग्राम्यगीतं न शृणुयाद् यतिर्वनचरः क्वचित् ।
शिक्षेऽहं हरिणाद् बद्धान्मृगयोर्गीतमोहितात् ॥ १६ ॥
नृत्यवादित्रगीतानि जुषन् ग्राम्याणि योषिताम् ।
आसां क्रीडनकान्धः स्याद् ऋष्यशृङ्गो मुनिर्यथा ॥ १७ ॥
पदरत्नावली
हरिणाच्छ्रोत्रेन्द्रियजयो लब्ध इत्याह– ग्राम्येति । अहं वनचरो यतिर् ग्राम्याणां गीतं वचनं न शृणुयादितीममर्थं हरिणात् शिक्षे । कीदृशात् । मृगयोर्गीतमोहितत्वेन बद्धात् ॥ ग्राम्यगीतश्रवणे का हानिरिति तत्राह– नृत्येति । क्रीडनकान्धः क्रीडासाधनवदन्धः
॥ १६,१७ ॥
श्रीनिवासतीर्थीया
हरिणाच्छ्रोत्रेन्द्रियजयो लब्ध इत्याह ॥ ग्राम्येति ॥ क्रीडनकश्चा-सावन्धश्च ॥ १६,१७ ॥
प्रमेयचन्द्रिका
ऋष्यशृङ्गस्य हरिण्यां जातत्वेन हतत्वात्तस्माच्छिक्षितमुच्यते ॥ नृत्येति
॥ १७ ॥
जिह्वयाऽथ प्रमाथिन्या जनो रसविमोहितः ।
मृत्युमृच्छत्यतद्बुद्धिर्मीनस्तु बडिशैर्यथा ॥ १८ ॥
पदरत्नावली
मस्त्याज्जिह्वेन्द्रियजयप्रकारं कथयति जिह्वयेति । अतद्भुद्धिरतत्वज्ञः ॥१८॥
श्रीनिवासतीर्थीया
मत्स्याज्जिह्वेन्द्रियजयः शिक्षित इत्याह ॥ जिह्वयेति ॥ बडिशो मत्स्यवेधनमित्यमरः । मांसपिण्डैरित्यर्थः ॥ १८ ॥
प्रमेयचन्द्रिका
मृत्युं मरणं निरयादिकं च । ऋच्छति प्राप्नोति ॥ अतद्वुद्धिरनिष्टसाधनेऽपि तस्मिंस्तद्ज्ञानहीनः ॥ १८ ॥
इन्द्रियाणि जयन्त्याशु निराहारा मनीषिणः ।
वर्जयित्वा तु रसनामसौ रस्ये हि वर्धते ॥ १९ ॥
पदरत्नावली
रसजयो दुश्शक इत्युपपादयति इन्द्रियाणीति । रसनं रसनेन्द्रियम् । असौ रसना रस्ये स्वविषये वर्धते ॥ १९ ॥
श्रीनिवासतीर्थीया
सर्वथा रसनेन्द्रियजयो दुष्कर इत्याह ॥ इन्द्रियाणीति ॥ असौ रसना । रस्ये विषये ॥ १९ ॥
प्रमेयचन्द्रिका
रसनेन्द्रियप्रसङ्गात्तस्य दुर्जयत्वमुच्यते ॥ इन्द्रियाणीति ॥ १९ ॥
तावज्जितेन्द्रियो न स्याद् विजितान्येन्द्रियः पुमान् ।
न जयेद् रसनं यावज्जितं सर्वं जिते रसे ॥ २० ॥
पदरत्नावली
जिह्वेन्द्रियजय एवेन्द्रियजयो नान्य इत्याह– तावदिति । रसो रागे विषे वीर्ये इति यादवः ॥ २० ॥
श्रीनिवासतीर्थीया
ननु तर्हि जितेन्द्रियत्वं कथमित्यत आह ॥ तावदिति ॥ इन्द्रिये रसे रसेन्द्रिये ॥ २० ॥
प्रमेयचन्द्रिका
जिह्वेन्द्रियजय एव सर्वेन्द्रियजय इत्युच्यते ॥ तावदिति ॥ रसे रसनेन्द्रिये रागे वा ॥ २० ॥
पिङ्गला नाम वेश्याऽऽसीद् विदेहनगरे पुरा ।
तस्या मे शिक्षितं किञ्चिन्निबोध नृपसत्तम ॥ २१ ॥
सा स्वैरिण्येकदा कान्तं सङ्केत उपनेष्यती ।
अभूत् काले गृहद्वारि बिभ्रती रूपमुत्तमम् ॥ २२ ॥
पदरत्नावली
पिङ्गलाया वैराग्यमुपशिक्षितमिति वक्तुमुपक्रमते पिङ्गलेति ॥ सैकदा सङ्केतवित्तसमये कान्तमुपनेष्यती आत्मसमीपं प्रापयन्ती गृहद्वार्यभूदित्यन्वयः ॥ २१,२२ ॥
श्रीनिवासतीर्थीया
पिङ्गलाया वैराग्यशिक्षितमित्याह ॥ पिङ्गलेत्यध्यायशेषेण । तस्याः सकाशात् । सङ्केते स्वसङ्केतिते वित्ते प्राप्ते सत्युपनेष्यतीति स्वसमीपं प्रापयन्ती । काले सायङ्काले
॥ २२ ॥
दुर्घटभावदीपिका
पुरेत्यस्य विष्णुज्ञानादिना पूर्णेत्यर्थः । एतेनासीदित्यनेनैव पुरेत्यर्थस्य-लाभात् । पुरेत्येतद्व्यर्थमिति दूषणं परास्तम् । पुरशब्दः पृपालनपूरणयोरित्यस्य रूपम् । अतोऽत्र पुरशब्दः पूर्णवाची । तस्माद् अजाद्यदन्तष्टाबिति टापि पुरेति रूपं निष्पन्नम् । योग्यतया विष्णुज्ञानादिसम्बन्ध इत्यभ्युपेत्य विष्णुज्ञानादिपूर्णेत्यर्थस्योक्तत्वात् ॥ २१ ॥
प्रमेयचन्द्रिका
॥ एकदा कस्मिंश्चिद्दिने ॥ काले सायङ्काले ॥ सङ्केत एतस्माद्वित्तं देयम् इति समयबन्धे सति जारं स्वसमीपं नेष्यतीति गृहद्वार्यभूदित्यर्थः ॥ २२ ॥
मार्ग आगच्छतो वीक्ष्य पुरुषान् पुरुषर्षभ ।
तान् शुल्कदान् वित्तवतः कान्तान् मेनेऽर्थकामुका ॥ २३ ॥
आगतेष्वपयातेषु सा सङ्केतोपजीविनी ।
अथान्यो वित्तवान् कोऽपि मामुपेष्यति भूरिदः ॥ २४ ॥
एवं दुराशयध्वस्तनिद्रा द्वार्यवलम्बिनी ।
निर्गच्छन्ती प्रविशती निशीथं प्रत्यपद्यत ॥ २५ ॥
तस्या वित्ताशया शुष्यद्वक्त्राया दीनचेतसः ।
निर्वेदः परमो जज्ञे चिन्ताहेतिः सुखावहः ॥ २६ ॥
पदरत्नावली
मार्ग आगच्छतः पुरुषान् वीक्ष्य तान् पुरुषान् वित्तवतः शुल्कदान् कान्तान् मेने ॥ अस्मादन्यो भूरिदो बहुद्रव्यप्रदः स्यादिति मत्वा ॥ वित्ताशया वित्तातितृष्णया । चिन्तायाश् छेदनहेतिः शस्त्रम् ॥ २३–२६ ॥
श्रीनिवासतीर्थीया
शुल्कदान् । स्वसङ्केतितमौल्यप्रदान् । कुतस्तेऽपयाता इत्यत उक्तम् ॥ सेति ॥ यतः सा स्वसङ्केतितद्रव्यप्राप्त्युपजीवना । ते तु स्वसङ्केतितद्रव्यं न दत्तवन्त इति अपयाता इत्यर्थः । चिन्ताहेतिश्चिन्ताछेदने आयुधरूपः ॥ २३–२६ ॥
दुर्घटभावदीपिका
अथेत्यस्यागतेष्वित्यतः पूर्वं सम्बन्धः । एतेनाथेत्येतद्व्यर्थमिति दूषणं परास्तम् । अथेत्यस्यान्य इत्यनेन सम्बन्ध इत्यनङ्गीकारात् ॥ २४ ॥
प्रमेयचन्द्रिका
हेतिरायुधः ॥ २६ ॥
तथा निर्विण्णचित्ताया गीतं शृणु यथा मम ॥ २७ ॥
पदरत्नावली
यथा गीतं तथा मम सकाशात् शृणु ॥ २७ ॥
श्रीनिवासतीर्थीया
निर्विण्णचित्ताया इति करणे षष्ठी । तया यथागीतं तथा मम सकाशाच्छृण्वित्यर्थः ॥ २७ ॥
दुर्घटभावदीपिका
निर्विण्णचित्तायाः पिङ्गलाया गीतं गानं यथाऽभूत्तथा मम सकाशा-च्छृण्विति । एतेन यथेत्यतदनन्वितमिति दूषणमपास्तम् । अभूदित्यध्याहृतेनान्वयस्योक्तत्वात्
॥ २७ ॥
प्रमेयचन्द्रिका
निर्विण्णचित्तायाः सम्बन्धिनं गीतम् । तृतीयार्थे वा षष्टी ॥ २७ ॥
निर्वेद आशापाशानां पुरुषस्य यथा ह्यसिः ।
नह्यङ्ग जातनिर्वेदो देहबन्धं जिहासति ॥ २८ ॥
पदरत्नावली
श्रोतव्यत्वे हेतुमाह निर्वेद इति । यथा निशितोऽसिः पाशानां छेदने हेतुर्विहितस्तथा निर्वेदस्तृष्णालक्षणपाशानां हि यस्मात् तस्मात् । अत्रापि हेत्वन्तरमाह नहीति
॥ २८ ॥
श्रीनिवासतीर्थीया
ब्राह्मणः स्वयमाह ॥ निर्वेद इति ॥ यथा यस्मात् । असित्वं व्यतिरेकमुखेनोपपादयति ॥ न हीति ॥ ओति यदोः सम्बुद्धिः ॥ २८ ॥
प्रमेयचन्द्रिका
यथावन्मम सकाशात् श्रोतव्यत्वे हेतुरुच्यते ॥ निर्वेद इति ॥ निर्वेदस्यैवावश्यकत्वं कुत इत्यत उक्तम् ॥ न हीति ॥ ओति यदुं प्रति सम्बोधनम् ॥२८॥
पिङ्गलोवाच—
अहो मे मोहविततिं पश्यताविजितात्मनः ।
या कान्तादसतः कामं कामये येन बालिशा ॥ २९ ॥
पदरत्नावली
विततिर्विस्तारः । बालिशा येन तस्मात् ॥ २९ ॥
श्रीनिवासतीर्थीया
विततिं विस्तारम् । असतोऽमङ्गलाद्येन कारणेनाहं बालिशा मूर्खा ॥
दुर्घटभावदीपिका
याऽहमसतः कान्तात्कामं कामये तस्या अविजितात्मनोऽन्तः-करणजयरहिताया मे मोहविततिमसतः कामपूर्तिर्भविष्यतीति मिथ्याज्ञानविस्तारं पश्यत । अहो आश्चर्यम् । अनेनासतः कामो मे भूयादितीच्छालक्षणकार्येण कारणमसतः कामपूर्तिर्भविष्यतीति मिथ्याज्ञानं सिध्यतीत्युक्तं भवति । मिथ्याज्ञाने कारणमाह ॥ येनेति । येन कारणेनाहं बालिशाऽधिष्ठानयाथात्म्यज्ञानशून्याऽतो मे मोहविततिरिति । एतेन येन बालिशेत्येतदनन्वितमिति दूषणं परास्तम् । मोहविततिमित्यस्यावृत्तिमङ्गीकृत्यार्थवशान्मोहविततिरिति विपरिणामं चाङ्गीकृत्यान्वयस्योक्तत्वात् ॥ २९ ॥
॥ इति श्रीसत्याभिनवतीर्थविरचितायां श्रीभागवतटिप्पण्यामष्टमोऽध्यायः ॥ ११–८ ॥
प्रमेयचन्द्रिका
याऽहं कामं स्वेच्छया व्रजतः कान्ताद् रायो मत्वा कामये येन तेन निमित्तेनाहं बालिशा मन्दा ॥ २९ ॥
सन्तं समीपे रमणं रतिप्रदं वित्तप्रदं नित्यमिमं विहाय ।
अकामदं दुःखभयादिशोकमोहप्रदं तुच्छमहं भजेऽज्ञा ॥ ३० ॥
पदरत्नावली
कथं बालिशेत्यत्राह– सन्तमिति । नित्यमविनाशिनम् ॥ ३० ॥
श्रीनिवासतीर्थीया
तुच्छं नीचम् ॥ ३० ॥
प्रमेयचन्द्रिका
इतोऽपि बालिशेत्युच्यते ॥ सन्तमिति ॥ दुःखशोकार्त्तिशब्दा दुःखावान्तरप्रभेदपराः ॥ ३० ॥
अहो मयाऽऽत्मा परितापितो वृथा
सांकेत्यवृत्त्याऽतिविगर्ह्यवार्तया ।
स्त्रैणान् नरांश्चार्थतृषाऽनुशोच्यान्
क्रीत्वा हि वित्तं रतिमात्मनेच्छती ॥ ३१ ॥
पदरत्नावली
आत्मा मनः । अतिगर्ह्या वार्ता किं वदन्ती यस्याः सा तथा तया । सङ्केतस्य भावः साङ्केत्यं द्रव्यं तेन वृत्तिराजीविका तया । या अहं वित्तमुद्दिश्यात्मना देहेन अर्थतृषा विषयतृष्णया अनुशोच्यान् स्त्रैणान्नरान् क्रीत्वा रतिमिच्छन्ती आसम्, तयेति शेषः ॥ ३१ ॥
श्रीनिवासतीर्थीया
आत्मा देहः । परितापं प्रापितः । अतिविगर्ह्यं वार्तं वृत्तान्तं स्थितिर्यस्याः सा तथा । तस्यैव विवरणं सङ्केतसम्बन्धिद्रव्यमेव वृत्तिर्जीविका यस्याः सा तथा । इदं पदद्वयं मयेत्यस्य विशेषणम् । याऽहमिह वित्तमुद्दिश्यार्थतृषा विषयतृष्णयाऽनुशोच्यान् स्त्रैणान्नरान् । आत्मना देहेन । क्रीत्वा रतिमिच्छन्त्या सन्त्या मयेत्यन्वयः ॥ ३१ ॥
प्रमेयचन्द्रिका
आत्मा देहो मनः स्वरूपं वा ॥ अतिविगर्ह्येति ॥ अतिनिन्द्यं वचनं यस्याः सा तथोक्त्या । अतिनिन्द्यवाणिज्येनेति वा । तस्यैव विवरणं स्त्रैणाननुशोच्यान्नरानर्थतृष्णया आत्मना देहेन क्रीत्वा वित्तं रतिं चेच्छती याऽहं तया मया आत्मा वृथा तापित इति योजना ॥
यदस्थिभिर्निर्मितवंशवंश्यस्थूणं त्वचारोमनखैः पिनद्धम् ।
क्षरन्नवद्वारमगारमेतद् विण्मूत्रपूर्णं मदुपैति काऽन्या ॥ ३२ ॥
पदरत्नावली
यदर्थं ग्राम्यमाकाङ्क्षन्ते तदीदृशं हीत्याह– यदिति । त्वचारोमनखैरित्येकं पदम् । स्थूणाः स्तम्भाः । मदन्या कीदृशी एतद्देहाख्यमगारं गृहमुपैतीत्यन्वयः । वंशा दीर्घदारु-विशेषाः । वंश्या वंशप्रोतास्तिरश्चीनवेणवः । क्षरन्ति स्रवन्ति नवद्वाराणि यस्य तत् तथा । अनेनान्यकान्तानां हेयत्वमुक्तं भवति ॥ ३२ ॥
श्रीनिवासतीर्थीया
यदर्थमाकांक्षे तदीदृशमित्याह ॥ यदिति ॥ वंश्या दीर्घदारुविशेषाः । वंशा वंशप्रोतास्तिरश्चीनवेणवः । स्थूणाः स्तम्भास् त्वचारोमनखैरित्येकं पदम् । यथा वाचा निशा दिशेत्यादिवत् त्वचा इत्यपि भवति । क्षरणं स्रवणम् । अगारं पुरं देहं मदन्या का स्त्री ॥३२॥
प्रमेयचन्द्रिका
ननु वित्तरतिरूपप्रयोजनद्वयलाभाद्वृथेति कुत इत्यत उच्यते ॥ यदिति
॥ ३२ ॥
विदेहानां पुरे ह्यस्मिन् अहमैकैव मूढधीः ।
याऽन्यमिच्छन्त्यतः स्वस्मादन्यस्मात्१ कान्त२मच्युतात् ॥ ३३ ॥
पदरत्नावली
इतोपि हेया इति भावेनाह– विदेहानामिति । स्वस्मात् स्वकीयात्, स्वस्वामिन इत्यर्थः । अतो जगतः, अन्यस्माद्भिन्नादित्यर्थः । अ निषेधे पुमान् विष्णाविति यादवः । यद्वा अतोऽस्मात् सर्वमनोवृत्तिप्रेरकत्वेन प्रसिद्धात् ॥ ३३ ॥
श्रीनिवासतीर्थीया
स्वस्मात्स्वकीयात् स्वामिन इत्यर्थः । अतो अकारवाच्चाद्धररेन्यं पुरुषं काममुद्दिश्येच्छन्ती यतोऽतो मूढधीरित्यर्थः ॥ ३३ ॥
प्रमेयचन्द्रिका
॥ याऽन्यमिति ॥ आत्मदात्स्वरूपलाभप्रदादतोऽकारवाच्यादच्युतादन्यं काममुद्दिश्येच्छती या साऽहमेकैव मूढधीरित्यन्वयः ॥ ३३ ॥
सुहृत् प्रेष्ठतमो नाथ आत्मा चायं शरीरिणाम् ।
तं विक्रीयात्मनैवाहं रमेऽनेन यथा रमा ॥ ३४ ॥
तात्पर्यम्
‘भगवद्भार्यतायोग्याः काश्चिदप्सरसःस्त्रियः । रमाऽऽवेशात्कदाचि-त्स्युस्तास्वेका पिङ्गलाऽभवत् । तदन्यासां महान्दोषो भगवद्भर्तृतास्मृतावि’ति स्वाभाव्ये
॥ ३४ ॥
पदरत्नावली
योयं सुहृत्, प्रेष्ठानां प्रेष्ठः, नाथते एैश्वर्येण वर्तत इति नाथः, शरीरिणामात्मा नियन्ता च तमात्मना मनसैव विक्रीयानेनाच्युतेन सह (रमे इत्यन्वयः) इयं पिङ्गला सामान्यवेश्या न भवति किन्तु विशिष्टाप्सरस्स्वेका । अन्यथा अस्या नैतादृशी बुद्धिरुत्पद्यते । तदुक्तम् ‘‘भगवद्भार्यतायोग्याः काश्चिदप्सरसः स्त्रियः । रमावेशात् कदाचित् स्युस्तास्वेका पिङ्गला भवेत् । तदन्यासां महादोषो भगवद्भर्तृतास्मृतौ’’ इति ॥ ३४ ॥
श्रीनिवासतीर्थीया
यः सुहृदादिस्तमेवात्मना देहेन विक्रीय ॥ ३४ ॥
प्रमेयचन्द्रिका
आत्माऽन्तर्यामी । आत्मना मनसा स्वरूपेण च । अत्र रमेऽनेन हरिणेति पिङ्गलाया भगवता सम्भोगकाम उच्यते । तदयुक्तम् । वेश्यायास्तद्भोग्यत्वायोग्यत्वात् । न चाप्सरस्त्वादुपपत्तिः । उर्वश्यादीनामपि तदभावादित्यत आह ॥ भगवदिति ॥ अप्सरस्सु मध्ये काश्चिदेव कदाचिद्रमावेशाद्भगवद्भार्यतायोग्याः स्युरिति सम्बन्धः ॥ ३४ ॥
कियत् प्रियं ते व्यभजन् कान्ता१ मे कामदा नराः ।
आद्यन्तवन्तो भार्याया देवा वा कालविद्रुताः ॥ ३५ ॥
नूनं मे भगवान् प्रीतो विष्णुः केनापि कर्मणा ।
निर्वेदोऽयं दुराशाया यन्मे जातः सुखावहः ॥ ३६ ॥
पदरत्नावली
लोकसिद्धकान्तत्यागे लोकविलक्षणकान्तस्वीकारे अलम्बुद्धिगोचरकामादातृत्व-माद्यन्तवत्त्वं च निमित्तमित्याह– कियदिति । ते कामादा नरा भार्याया मे कियत् प्रियं व्यभजन् विभजेयुरित्यन्वयः । विभज्य दास्यन्तीत्यर्थः । तर्हि देवाः कान्ताः सन्तीत्यत्राह– देवा इति । कालविद्रुताः कालनिर्धूता अत एवाद्यन्तवन्त इति । अतो भगवद्भर्तृकत्वमेवाशास्यं नेतरभर्तृकत्वमिति भावः ॥ विश्वबन्धविध्वंसिनि भगवति प्रसन्ने किमसुलभमित्याह– नूनमिति । नूनमिदानीम्
॥ ३५,३६ ॥
श्रीनिवासतीर्थीया
कामान्मत्कृतान् । प्राप्ता नारी भार्याया मे देवाः पतयो भूत्वा प्रियं विभजेयुरित्यत आह ॥ देवा वेति ॥ कालविद्रुताः कालबलेन नाशिताः ॥ ३५,३६ ॥
प्रमेयचन्द्रिका
मूले लौकिकात्तत्यागे हेतुरुच्यते ॥ कियदिति ॥ आद्यन्तवन्तो जनिनाशयुक्ताः। भार्याया मे इत्यन्वयः । स्वस्वभार्यायास्तत्तत्पतयोऽपि कियत् प्रियं विभज्यादुरिति वा । न च देवा अपि मे मुख्यकान्ताः कालद्रुतत्वादिति भावः ॥ ३५ ॥
मैवं स्युर्मन्दभाग्यायाः क्लेशा निर्वेदहेतवः ।
येनानुबन्धं निर्हृत्य पुरुषः शममृच्छति ॥ ३७ ॥
पदरत्नावली
समुद्भूतप्रभूतभगवद्भक्तिसुधा पिङ्गला पुनः शब्दादिविषयनिमित्तक्लेशा मा भूवन्निति प्रार्थयते मैवमिति । येन निर्वेदेन संसारबन्धं निर्हृत्य परिहृत्य शं भगवन्निष्ठालभ्यं सच्चिदानन्दलक्षणम् अं सर्वविलक्षणं ब्रह्म प्राप्नोतीत्यन्वयः ॥ कुतो मा भूवन्नित्यतो वाह– येनेति । पुरुषोऽनुबन्धं भगवद्भक्तिं निर्हृत्य भस्म कृत्वा शमं शमलं सुखोपरमं नरकमृच्छतीति, एतस्मादिति शेषः ॥ ३७ ॥
श्रीनिवासतीर्थीया
एवं क्लेशा उत्तरत्र मे न स्युः । येन निर्वेदेनानुबन्धं संसारबन्धं निर्हृत्य परिहृत्य ॥ ३७ ॥
प्रमेयचन्द्रिका
येन निर्वेदेन । अनुबन्धं देहादावभिनिवेशम् । शमं सुखरूपं भगवन्तम्
॥ ३७ ॥
तेनोपकृतमादाय शिरसा ग्राम्यसङ्गताः ।
त्यक्त्वा दुराशाः शरणं व्रजामि तमधीश्वरम् ॥ ३८ ॥
पदरत्नावली
तन्निष्ठामाह– तेनेति । तेन हरिणा उपकृतमनुगृहीतं निर्वेदं शिरसा आदाय सादरं गृहीत्वा ग्राम्यसङ्गता दुराशास् त्यक्त्वा ॥ ३८ ॥
श्रीनिवासतीर्थीया
तेन हरिणोपकृतमनुगृहीतं हर्यनुग्रहेण प्राप्तम् । निर्वेदं शिरसाऽऽदाय
॥ ३८ ॥
प्रमेयचन्द्रिका
इतः परं स्वकर्तव्यं वक्ति ॥ तेनेति ॥ तेन हरिणा उपकृतम् अनुगृहीतम् । निर्वेदं ग्राम्यसङ्गता दुराशाः ॥ ३८ ॥
सन्तुष्टा श्रद्दधत्येतं१ यथालाभेन जीवती ।
विहराम्यमुनैवाहमात्मना रमणेन वै ॥ ३९ ॥
पदरत्नावली
एतदत्यन्तं श्रद्धधती श्रद्धधाना अमुनैवात्मना परमात्मना ॥ अस्मादन्यः क आत्मानं त्रातुम् । मुषितेक्षणं नष्टज्ञानम् ॥ आत्मनः स्वस्य गोप्ता आत्मा परमात्मैव । यदा अखिलान्निर्विद्येत तदा एतज्जगत् कालाहिना ग्रस्तं पश्येत् ॥ ३९–४१ ॥
श्रीनिवासतीर्थीया
एतं निर्वेदम् । श्रद्दधती आत्माधारहेतुरिति श्रद्दधती । आत्मना स्वामिना ॥ ३९ ॥
प्रमेयचन्द्रिका
अन्तं फलपर्यवसानम् । श्रद्दधती आत्मना विहरामि परमात्मविषयक-ध्यानादिविहारं करोमि ॥ ३९ ॥
संसारकूपे पतितं विषयैर्मुषितेक्षणम् ।
ग्रस्तं कालाहिनाऽऽत्मानं कोऽन्योऽस्मात् त्रातुमीश्वरः ॥ ४० ॥
आत्मैव ह्यात्मनो गोप्ता निर्विद्येत यदाऽखिलम् ।
अप्रमत्त इदं पश्येद् ग्रस्तं कालाहिना जगत् ॥ ४१ ॥
श्रीनिवासतीर्थीया
मुषितेक्षणं नष्टज्ञानम् । आत्मानं स्वात्मानं त्रातुमस्माद्धरेरन्योऽधीश्वरो को न कोऽपि किं त्वयमेवेत्यर्थः ॥ आत्मनः स्वस्यात्मैव परमात्मैव । कदा यदा निर्विद्येत तदाऽनन्तरं तदिदं जगत्कालाहिना ग्रस्तं पश्येत् ॥ ४०–४१ ॥
प्रमेयचन्द्रिका
आत्मैवेति ॥ यदाऽखिलाद्विषयजातान्निर्विद्येत तदैवात्मा परमात्मा आत्मनो जीवस्य गोप्तेत्यर्थः । निर्वेदोपाय उच्यते ॥ अप्रमत्त इति ॥ ४१ ॥
ब्राह्मण उवाच—
एवं व्यवसितमतिर्दुराशाः कान्ततर्षजाः ।
छित्वोपशममास्थाय शय्यामुपविवेश सा ॥ ४२ ॥
पदरत्नावली
व्यवसितमतिर् निश्चितमतिः । कान्ततर्षजाः कान्ततृष्णाजाताः ॥४२॥
श्रीनिवासतीर्थीया
तर्षस्तृष्णा । उपशमं स्वास्थ्यम् ॥ ४२ ॥
प्रमेयचन्द्रिका
उपशमं भगवन्निष्टबुद्धिम् ॥ ४२ ॥
आशा हि परमं दुःखं नैराश्यं परमं सुखम् ।
यथा सञ्छिद्य कान्ताशां सुखं सुष्वाप पिङ्गला ॥ ४३ ॥
॥ इति श्रीमद्भागवते एकादशस्कन्धे अष्टमोऽध्यायः ॥
पदरत्नावली
इममितिहासं श्रद्धापयति आशेति । यद्वा पिङ्गलातः शिक्षिततात्पर्यविषयं निष्कृष्याह आशेति ॥ ४३ ॥
॥ इति श्रीविजयध्वजतीर्थयतिविरचितायां भागवतटीकायां
पदरत्नावल्याम् एकादशस्कन्धस्य अष्टमोऽध्यायः ॥
श्रीनिवासतीर्थीया
ततः किं प्रकृत इत्यत आह ॥ आशा हीति । सुखमित्यनन्तरमित्यहमन्वशिक्षित इति शेषः । तत्र दृष्टान्तो यथेति ॥ ४३ ॥
॥ इति श्री श्रीनिवासतीर्थविरचितायां श्रीभागवतटिप्पण्याम्
एकादशस्कन्धे अष्टमोऽध्यायः ॥
प्रमेयचन्द्रिका
पिङ्गलास्थितिमभिधाय तया शिक्षितं दर्शयति ॥ आशा हीति ॥४३॥
॥ इति श्रीमद्विठलार्यतनूजेनानन्दतीर्थाख्येन विरचितायां श्रीमद्भागवत
एकादशस्कन्धतात्पर्यप्रमेयचन्द्रिकायामष्टमोऽध्यायः ॥