यदात्थ मां महाभाग तच्चिकीर्षितमेव मे
॥ अथ सप्तमोऽध्यायः ॥
श्रीभगवानुवाच—
यदात्थ मां महाभाग तच्चिकीर्षितमेव मे ।
ब्रह्मा भवो लोकपालाः सर्वे मामभिकाङ्क्षिणः१ ॥ १ ॥
मया निष्पादितं ह्यत्र देवकार्यमशेषतः ।
यदर्थमवतीर्णोऽहमंशेन ब्रह्मणाऽर्थितः ॥ २ ॥
पदरत्नावली
भगवान् यद्ववधूतसंवादकथनव्याजेनोद्धवाय स्वतत्वमुपदिशत्यध्यायत्रयेण । तत्रादावुद्धवोक्तं स्वाभीष्टमिति वदन् ब्रह्मादीनां स्वलोकगमनाभिलाषं देवकार्यकरणेनावतारप्रयोजनं स्वयात्रानन्तरं द्वारवत्याः समुद्रे मज्जनं लोकस्य पापबुद्धित्वेनामङ्गलत्वं कलिग्रस्तलोकादुद्धवस्य निर्याणप्रेरणं स्वस्मिन् मनः प्रविश्य महीपर्यटननियोगमित्यादि वक्ति यदात्थ मामित्यादिना । संहृत्यैतत् कुलमित्यादि यदात्थ । मां स्वलोकगतं कर्तुमभिकाङ्क्षिणः । अभिकाङ्क्षिता इति पाठे कर्तरिक्तः ॥ १,२ ॥
श्रीनिवासतीर्थीया
यदात्थेति । संहृत्यैतत्कुलं नूनं लोकं सन्त्यक्ष्यते भवानित्यन्तेनेत्यर्थः । मां भुवं त्यक्त्वा परलोकं गतम् ॥ १,२ ॥
दुर्घटभावदीपिका
अहं ब्रह्मणाऽर्थितः सन् यदर्थं यद्देवकार्यार्थमत्र भूमाववतीर्णः प्रादुर्भूतस्तद्देवकार्यमशेषतो विष्णोरंशेन मया निष्षादितमित्येतद्धि प्रसिद्धमिति । एतेन कृष्णस्य विष्ण्वंशत्वरूपत्वेन विष्ण्वंशविशिष्टत्वाभावात् । अंशेनावतीर्ण इति कथनमयुक्तमिति दूषणं पराकृतम् । अंशेनेत्यस्यावतीर्ण इत्यनेनान्वय इत्यनङ्गीकारात् ॥ २ ॥
प्रमेयचन्द्रिका
मूले ब्रह्मादयः सर्वे स्वलोकगतं मां कर्त्तुमभिकांक्षिण इत्यर्थः ॥ १ ॥
कुलं वै शापनिर्दग्धं नयत्यन्योन्यविग्रहात् ।
समुद्रः सप्तमे ह्येनां पुरीं च प्लावयिष्यति ॥ ३ ॥
पदरत्नावली
स्वर्गारोहणानन्तरं सप्तमे दिवसे ॥ ३ ॥
श्रीनिवासतीर्थीया
सप्तमेऽहनि स्वर्गारोहणानन्तरं सप्तमदिवसे ॥ ३ ॥
प्रमेयचन्द्रिका
स्वर्गारोहणानन्तरं सप्तमे दिवसे ॥ ३ ॥
यर्ह्येवायं मया त्यक्तो लोकोऽयं नष्टमङ्गलः ।
भविष्यत्यचिरात् साधो कलिनाऽपि निराकृतः ॥ ४ ॥
न वस्तव्यं त्वयैवेह मया त्यक्ते महीतले ।
जनोऽधर्मरुचिर्भद्र भविष्यति कलौ युगे ॥ ५ ॥
त्वं तु सर्वं परित्यज्य स्नेहं स्वजनबन्धनम् ।
मय्यावेश्य मनः सम्यक् समदृग् विचरस्व गाम् ॥ ६ ॥
पदरत्नावली
यर्हि यदा ॥ अधर्मरुचिरिति पदच्छेदः । समदृक् विधिरहितप्रीतिद्वेषहीनः
॥ ४–६ ॥
श्रीनिवासतीर्थीया
यर्हि यदा । तदेति शेषः । निराकृतो दूषितः ॥ ४–६ ॥
यदिदं मनसा वाचा चक्षुर्भ्यां श्रवणादिभिः ।
नश्वरं गृह्यमाणं च विद्धि मायां मनोमयीम् ॥ ७ ॥
तात्पर्यम्
विद्धि मायां मनोमयीम् । मन्मनःप्रधानप्रकृतिनिर्मिताम् । ‘प्रकृतिः सा परा मह्यं रोदसी लोकधारिणी । ऋता सत्याऽमराऽजय्या लोकानामात्मसञ्ज्ञिते’ति मोक्षधर्मेषु ॥ ७ ॥
पदरत्नावली
क्षितिसञ्चरणे इत्थम्भावविशेषमुपदिशति यदिदमिति । मनआदि-सर्वेन्द्रियैर्गृह्यमाणं यदिदं विश्वं तदिदं नश्वरं क्षणभङ्गुरं विद्धि । नन्विदमनिर्वाच्यं तर्हीति तत्राह विद्धीति । विद्धीत्युभयत्र सम्बध्यते । मनोमयी मायां च मन्मनःप्रधानप्रकृतिनिर्मितं विद्धि । मे बुद्धिं प्रधानीकृत्य प्रकृत्या रचितत्वान्नानिर्वाच्यं विद्धि (इति) । मृद्घट इतिवन्मायामयमिति प्रयोगो युज्यते । अचेतनप्रकृतेः कार्यात्मकत्वमस्तु चेतनायाः कथमितीयमाशङ्का ‘‘प्रकृतिः सा परा मह्यं रोदसी लोकधारिणी । ऋता सत्याऽमराऽजय्या लोकानामात्मसंज्ञिता’’ इत्यनेन परिहर्तव्या । प्राधान्यापेक्षयोपपद्यत इत्यर्थः ॥ ७ ॥
श्रीनिवासतीर्थीया
यदिदमिति श्लोके विद्धीति पदेन जगतो मिथ्यात्वमुच्यत इति प्रतीति-मपाकर्तुमनूद्य व्याचष्टे ॥ विद्धीति ॥ प्रकृतेरस्वातन्त्र्यं वक्तुं मन्मनःप्रधानकेत्युक्तम् । मदित्यस्य योग्यतया सम्बन्धः । तथा च प्रकृतिनिर्मितत्वात्तदात्मकत्वप्रयोगो युक्त इति भावः । जगन्निर्मात्र्यां प्रकृतौ जगदभेदेन व्यवहारः प्रामाणिक इत्याह ॥ प्रकृतिरिति ॥ मह्यं ममाधीना । अत एव परा । अस्वतन्त्रा चेति शेषः । तथा च या परा प्रकृतिः रोदस्यादिशब्दवाच्या सा लोकानां लोकैरात्मसंज्ञिता जगदात्मकत्वेन व्यवह्रीयत इत्यर्थः । यद्वा । लोकानामिति षष्ठ्या अलुक् संज्ञितेति च तदस्य संजातं तारकादिभ्य इतजिति इतच्प्रत्ययान्तम् । तथा च या प्रकृती रोदसी-त्यादिशब्दवाच्या सा तस्या लोकानामात्मत्वेन लोकात्मकेन संज्ञा पुराणे संजातेत्यर्थः ॥ ७ ॥
प्रमेयचन्द्रिका
सर्वस्य नश्वरताज्ञानमावश्यकमेवेत्याशयेन प्रवृत्ते यदिदमिति श्लोके मन-आदिभिर्ग्राह्यस्य सर्वस्यापि पदार्थजातस्यानिर्वाच्याविद्याविकल्पितत्वमुच्यत इत्यन्यथाप्रतीतेरनूद्य व्याचष्टे ॥ विद्धि मायामिति ॥ समभिव्याहारबलेन मदिति लाभान्मयटः प्राधान्यार्थकत्वान्मायाशब्दस्य प्रकृतिवाचकत्वात्कार्यकारणयोरभेदोपचाराच्च मन्मनःप्रधानप्रकृतिनिर्मितामित्युक्तम् । मायाशब्दानुसारेण निर्मितामिति स्त्रीलिङ्गप्रयोगः। निर्मितमिति पाठे तु विश्वमित्यस्य विशेषणत्वज्ञापनाय नपुंसकनिर्देशः । प्रकृतेर्भगवदधीनत्वं कथमित्यतस्तदभिमानिचित्प्रकृतेरपि भगवदधीनत्वं किमुत तदधीनजडप्रकृते-रित्याशयेन श्रियो भगवदधीनत्वे प्रमाणमाह ॥ प्रकृतिरिति ॥ सा परा प्रकृतिः श्रीर्मह्यं मम मदधीनेति यावत् । श्रीः परा प्रकृतिः प्रोक्तेत्युक्तेः । तस्या माहात्म्यमाह ॥ रोदसीति ॥ द्यावापृथिवीनियामिका । तन्नाम्नी । अत एव सर्वलोकधारिणी । ऋता यथार्थज्ञानरूपा । सत्या तत्पूर्वककृतिरूपा । ऋतं यथार्थविज्ञानं सत्यं तपूर्विका कृतिरित्युक्तेः । लोकानामात्मसंज्ञिता स्वामित्वात्तन्नियामिकत्वादिना आत्मनाम्नीमित्यर्थः । एतेन मनोमयीमित्यस्य मदधीनचित्प्रकृति-निर्मितामित्यर्थ इत्युक्तं भवति ॥ ७ ॥
पुंसोऽयुक्तस्य नानार्थे भ्रमः स गुणदोषकृत् ।
कर्माकर्मविकर्मेति गुणदोषधियो भिदा ॥ ८ ॥
तात्पर्यम् — ‘स्वर्गाद्याश्च गुणाः सर्वे दोषाः सर्वे तथैव च । आत्मनः कर्तृता-भ्रान्त्या जायन्ते नात्र संशयः । परमात्मानमेवैकं कर्तारं वेत्ति यः पुमान् । स मुच्यतेऽ-स्मात् संसारात्परमात्मानमेति चे’ति भारते ॥ इदं मया क्रियत, इदं मया न क्रियत, इदं विपरीतं क्रियत इति बुद्धिभेदो रजस्तमोगुणनिमित्तो भ्रमः । सर्वं हि परमेश्वरः करोति
॥ ८ ॥
पदरत्नावली
एवं प्राधान्यज्ञानपूर्वकं भक्त्या मयि मनो युञ्जानस्य योगिनोऽनर्थोपशमो नान्यस्येत्याह– पुंस इति । यद्वा जगतो मदधीनत्वं विद्धीत्युक्तम् । तत् कुत इत्याशङ्क्यान्यथाज्ञाने बाधकमाह– पुंस इति । अयुक्तस्य मयि मनोयोगरहितस्य पुंसो मत्प्रेरितप्रकृतिरचिते नानाविधेऽर्थे यो भ्रमो मामन्तरेण स्वकर्तृत्वज्ञानं स गुणदोषकृत् स्वर्गनरककृत् । अनेन तद्भोज्यसुख-दुःखात्मकोऽपारः संसारो लक्ष्यत इति ज्ञातव्यम् । तदुक्तम्– ‘‘स्वर्गाद्याश्च गुणाः सर्वे दोषाः सर्वे तथैव च । आत्मनः कर्तृताभ्रान्त्या जायन्ते नात्र संशयः । परमात्मानमेवैकं कर्तारं वेत्ति यः पुमान् । समुच्यतेऽस्मात् संसारात् परमात्मनमेति च’’ इति । भ्रमस्य निमित्तमाह– कर्मेति । सर्वं हि परमेश्वरः करोतीतीश्वराधीनक्रियायाम् इदं मया क्रियते इदं मया न क्रियते इदं विपरीतं क्रियत इति कर्माकर्मविकर्मेति भिदाबुद्धिभ्रमो गुणाभ्यां रजस्तमोभ्यां दोषधियो दोषबुद्धे; पुरुषस्य भवतीति यत् तस्माद् भ्रमस्य मूलकारणं रजस्तमसोः शक्तिं विज्ञाय तौ परिहृत्य विषयादाहृत्य मय्येव स्थापनेन युक्तेन्द्रियजयो युक्तचित्तस्त्वम् इदं जगद् आत्मनि विरिञ्चे ईक्षस्व । कार्यकारणात्मके जगति विततं विस्तृतशक्तिमात्मानं विरिञ्चिम् अधीश्वरे मयि ईक्षस्व मदाधारं पश्येत्यन्वयः । तदुक्तम्– ‘‘आत्मशब्दोदितो ब्रह्मा परमात्माभिधो ह्ययम् । सर्वं ब्रह्मणि वीक्षेत मयि ब्रह्माणमेव च’’ इति
॥ ८–९ ॥
श्रीनिवासतीर्थीया
पुंस इति श्लोके अयुक्तस्य मयि मनोयोगरहितस्य पुंसो नानार्थे नानाविधपदार्थे यो भ्रमः स्वस्य कर्तृत्वारोपः स गुणदोषकृदित्युक्तम् । तत्र गुणदोषशब्दार्थ-मन्यथाप्रतीतिनिरासायाह ॥ स्वर्गाद्या इति ॥ कर्तृताभ्रान्त्या काम्यकर्मसु दुष्कर्मसु च पुंसो भ्रमो गुणदोषकृश्चेद्भ्रमशून्यस्य किं फलमित्यतो मूलाभिप्रेतमाह ॥ परमात्मानमिति ॥ नानार्थे भ्रम इत्युक्तं भ्रमं विवृण्वन्नेतादृशभ्रमे किं कारणमित्याशङ्कायां भ्रमे च कारणं वक्तुं कर्मेत्यर्धः प्रवृत्तः । तत्र कर्माकर्मविकर्मेति भिदेति नानार्थभ्रमविवरणपरं वाक्यं व्याचष्टे ॥ इदमित्यादिना ॥ अहं करोम्यहं न करोम्यहं विपरीतं करोमीति स्वात्मकर्तृत्वस्य भिदा बुद्धिभेदो भ्रम इत्यर्थः । भ्रमकारणं वक्तुं प्रवृत्तं गुणदोषधिय इत्येतत्तात्पर्यतो व्याचष्टे ॥ रज इति ॥ भ्रम इत्यनन्तरम् इति भाव इति शेषः । अत्र रजस्तमोगुणनिमित्तकदोषयुक्तबुद्धिनिमित्तक इति वक्तव्ये रजस्तमोगुणनिमित्त इति यद्वचनं तत्तयोरेव मूलकारणत्वज्ञापनायेति द्रष्टव्यम् । कुत इत्यत आह ॥ सर्वमिति । यतः सर्वमीश्वरः करोत्यतो जीवानां कर्तृताबुद्धिर्भ्रम इत्यर्थः । तथा च कर्माकर्मविकर्मेति भिदा बुद्धिभेदो नाम भ्रमो गुणदोषधियो रजोगुणतमोगुणनिमित्तकदोषयुक्तबुद्धिरूपेन्द्रियस्य सकाशाद्भवतीति मूलं योज्यम् ॥ ८ ॥
प्रमेयचन्द्रिका
न केवलं देहगेहादेर्नश्वरत्वज्ञानमात्रमावश्यकम् । किं तु स्वस्या-स्वातन्त्र्येश्वरस्वातन्त्र्यानुसन्धानरूपो मनोयोगोऽप्यावश्यक इत्याशयेन मनोयोगरहितस्यानर्थो अभिधीयते ॥ पुंसो अयुक्तस्येति ॥ अयुक्तस्य भगवत्स्वातन्त्र्यादौ मनोयोगरहितस्य नानार्थे विषये यः स्वस्य स्वातन्त्र्यादिरूपो भ्रमः स गुणदोषकृत इत्यर्थः । अत्र सर्वस्य मिथ्यात्वान्नानार्थे भेदविशिष्टे पदार्थजाते यो अस्तित्वप्रत्ययः स भ्रम इति प्रतीयते । गुणदोषपदं पुण्यपापमात्रपरमिति च भातीत्यतः प्रमाणेन व्याचष्टे ॥ स्वर्गाद्या इति ॥ गुणशब्दः स्वर्गादिशुभवचनः । दोषशब्दो नरकाद्यशेषपर इत्यनेनोक्तं भवति । चशब्दावन्योन्यसमुच्चये । एवशब्दस्य भ्रान्त्यैवेति सम्बन्धः । यथा दोषाः स्वस्य कर्तृत्वभ्रम-जनकास्तथा गुणा अपीति योज्यम् । स्वस्य स्वातन्त्र्येण कर्तृताबुद्धिर्भ्रमश्चेत्कस्तर्हि स्वतन्त्रकर्त्तेत्यत आह ॥ परमात्मानमिति ॥ एतेन स्वातन्त्र्येण कर्तृताभ्रमः भगवति समर्पणादिरूपेति कर्तव्यत्व-सहितविहितकाम्यकर्मयुतश्चेत्स्वर्गादिगुणकृत् । अन्यथा नरकाद्यशुभकृदिति मूलयोजना सूचिता भवति ।
नानार्थे भ्रमस्य सहेतुकं विवरणं क्रियते ॥ कर्मेति मूलेन ॥ अत्र कर्माकर्मविकर्मभिदा भेदज्ञानं गुणदोषधियो भवन्तीति भाति । गुणदोषेति च प्रकृतत्वात्स्वर्गादिवचन इति च प्रतीयत इत्यतो यथावद्व्याचष्टे ॥ इदमिति ॥ अत्र मूले करोतीति कर्मेति कर्तृव्युत्पत्या कर्मशब्दः कर्मकर्तृपर इत्यभिप्रेत्य तल्लब्धार्थकथनम् ॥ इदं मया क्रियत इत्यादि ॥ धियोभिधेत्यस्य प्रतिपदं बुद्धिभेद इति । गुणदोषधियो भिदेति चतुर्थपादस्यार्थः । रजस्तमोगुणनिमित्तो बुद्धिभेदो भ्रम इति । एतेन नात्र पूर्वार्ध ईषद्गुणदोषपदाभ्यां स्वर्गादयः शुभनरकादयो दोषाश्चोच्यन्ते । किंतु गुणशब्देन रजस्तमश्चोच्यते । दोषशब्देन तन्निमित्तकाज्ञानादिदोषा उच्यन्त इत्युक्तं भवति । तथा चाहं कर्ता विपरीतकर्त्तेत्येवंरूपो भ्रमः गुणादोषधियो भिदा । गुणाभ्यां सत्वरजस्तमोलक्षणाभ्यां दोषा यस्याः सा गुणदोषा । सा च सा धीश्च तस्या भिदा अन्यथाकारः भ्रमरजस्तमोभ्यां कलुषितबुद्धेः कर्तृत्वादिप्रकारकभ्रमो भवतीति मूलार्थः सूचितः । नन्वहं कर्त्तेत्यादिप्रतीतेर्भ्रमत्वं कुत इत्यत आह ॥ सर्वं हीति ॥ हि यस्मात्सर्वं परमेश्वरः कर्त्तेति न तु जीवः । अत इदं मयेत्यादिभिर्भ्रम इति पूर्वेण सम्बन्धः । अथवा मूले कर्मेति भावव्युत्पत्तिरेवास्तु इदं मम कर्म इदं ममाकर्म । इदं मे विपरीतं कर्मेति स्वस्य कर्मादि-स्वातन्त्र्यप्रत्ययो रजस्तमोनिमित्तकदोषकलुषिततया भ्रम इत्यर्थः । तदभिप्रायस्तात्पर्ये इदं मयेत्यादि
॥ ८ ॥
तस्माद् युक्तेन्द्रियग्रामो युक्तचित्त इदं जगत् ।
आत्मनीक्षस्व विततमात्मानं मय्यधीश्वरे ॥ ९ ॥
तात्पर्यम्
‘आत्मशब्दोदितो ब्रह्मा परमात्माऽभिधो ह्यहम् । सर्वं ब्रह्मणि वीक्षेत मयि ब्रह्माणमेव चे’ति कालसंहितायाम् ॥ ९ ॥
श्रीनिवासतीर्थीया
युक्तेन्द्रियग्रामो जितेन्द्रियसमुदायः । युक्तचित्तो मय्येव नियुक्तान्तःकरण इत्यर्थः । मय्यधीश्वरे इत्यस्य तात्पर्यकथनम् ॥ परमात्माऽभिधो ह्यहमिति ॥ ९ ॥
प्रमेयचन्द्रिका
तस्मादिति श्लोके योगयुक्तचित्तस् त्वम् इदं जगदात्मनि त्वयीक्षस्व । आत्मानं जीवं त्वामीक्षस्वेत्यन्यथाप्रतीतिवारणायाभिप्रेतमर्थं प्रमाणेनाह ॥ आत्मशब्दोदित इति ॥ भगवद्वाक्यमेतत् । तथा चेदं सर्वं जगदात्मनि चतुर्मुखे ईक्षस्व । तं चात्मानमधीश्वरे मयि ईक्षस्वेति मूलार्थ इति भावः ॥ ९ ॥
ज्ञानविज्ञानसंयुक्त आत्मभूतः शरीरिणाम् ।
आत्मानुभवतुष्टात्मा नान्तरायैर्विहन्यते ॥ १० ॥
तात्पर्यम्
‘आत्मभूत आत्मवद्भूतः । आत्मौपम्येन सर्वत्र समं पश्यति योऽर्जुने’ति वचनात् ॥ १० ॥
पदरत्नावली
बलवत्प्रतिबन्धके सत्यन्तरायैरुक्तवीक्षणप्रकारो विहतः स्यादित्यत्राह– ज्ञानेति । शरीरिणामात्मभूत आत्मवद् भूतः । आत्मौपम्येन सर्वत्र समं पश्यति योऽर्जुनेति वचनाद् आत्मौपम्येन सर्वाणि भूतानि पश्यन्नित्यर्थः । आत्मनो परमात्मनोऽनुभवेनैव तुष्ट आत्मा मनो यस्य स तथा । अनेन तदिधिगम उत्तरपूर्वाघयोरश्लेशविनाशौ तद्व्यपदेशादिति सूत्रार्थो दर्शित इति ॥ १० ॥
श्रीनिवासतीर्थीया
आत्मवद्भूत इति ॥ तथा चानेनात्मभूतः शरीराणामित्यस्य शरीरिणः सर्वात्मनात्मौपम्येन पश्यन्निति तात्पर्यमुक्तं भवति । अत एवोत्तरप्रमाणमपि सङ्गच्छत इति ध्येयम्
॥ १० ॥
प्रमेयचन्द्रिका
एवं ज्ञानिनो मध्ये बलवत्प्रतिबन्धकविघ्नप्राप्तौ कथमित्यत उच्यते ॥ ज्ञानेति ॥ अत्रात्मभूत इत्येतच्छरीरिणां स्वरूपभूत इत्यन्यथाभानादनूद्य व्याचष्टे ॥ आत्मभूत इति ॥ आत्मवदुद्भूतः स्ववद्भाववानित्यर्थः । उक्तमर्थं गीतारूढं करोति ॥ आत्मौपम्येनेति ॥ सुखं वा यदि वा दुःखं स योगी परमो मत इति उत्तरार्धेन य इत्यस्य सममित्यस्य वा अन्वयो द्रष्टव्यः ॥ मूले आत्मानुभवेत्यस्य परमात्मनोऽपरोक्षानुभवेन तुष्टो अलम्बुधिमानात्मा मनो यस्य स तथोक्तः
॥ १० ॥
दोषबुद्ध्योभयातीतो निषेधान्न निवर्तते ।
गुणबुद्ध्या च विहितं न करोति यथाऽर्भकः ॥ ११ ॥
सर्वभूतसुहृच्छान्तो ज्ञानविज्ञाननिश्चलः ।
पश्यन् मदात्मकं विश्वं न विपद्येत वै पुनः ॥ १२ ॥
तात्पर्यम्
‘कर्तृत्वमात्मनो यस्माज्ज्ञाननिष्ठो न मन्यते । अतोऽकुर्वन्नपि सदा दोषबुध्द्या न निन्दितम् । गुणबुध्द्या न विहितं किन्त्वीशप्रेरितोऽस्म्यहम् । स एव च मयि स्थित्वा निन्द्यानिन्द्ये करोत्यजः । न मे दोषो न च गुणः कर्तृत्वाभावतः स्फुटम् । स्वतन्त्रत्वान्न चेशस्य येऽज्ञास्तेषु भवेदपि । इति मत्वा निवर्तेत निन्द्यात्कुर्याद्गुणानपी’ति बोद्धव्ये ॥ ‘अनित्या मे गुणा न स्युर्दोषा नैव कथञ्चन । इति मत्वा शुभं कुर्या-न्निवर्तेदशुभादपि । ज्ञानी त्वकर्तृतामानादीशकर्तृत्वनिश्चयात् । किन्तु पूर्णगुणायैव न तु दोषापनुत्तये । न चाल्पगुणसिध्द्यर्थं बालवत्कृतनिश्चय’ इति वैशारद्ये ॥ ‘वैलक्षण्या-द्धरेर्भिन्नं तत्तन्त्रत्वात्तदात्मकम् । इति विश्वं प्रपश्यन्ति ज्ञाननिष्ठा हरेः प्रिया’ इति सार्वज्ञ्ये ॥ ११,१२ ॥
पदरत्नावली
एवंविधज्ञानिनः कर्मकरणप्रकारं श्लोकद्वयेनाह– दोषबुद्ध्येति । यः शान्तः क्रोधरहितः ज्ञानविज्ञानाभ्यां वैष्णवसिद्धान्ते निश्चलः पर्वतवत् स्थिरो विश्वं मदात्मकं मम सर्व-स्वातन्त्र्यान्मदधीनं पश्यन्, अत एव ममाधिष्ठानत्वेन सर्वभूतसुहृद् विश्वेषां भूतानां निरुपाधिक-प्रीतिकृत्, अत एवोभयातीत ऐहिकामुष्मिकविषयविरक्तो निषिद्धाचरणाद् दोषः स्यादिति दोषबुद्ध्या तद्दोषानुत्पत्तये निषेधान् निषेधवचनान् न निवर्तते । विहितकरणात् सुखादिगुणो भवतीति गुणबुद्ध्या विहितं न करोति । किं तर्हि । यथा अर्भकः फलानुसन्धानरहितः क्रीडालक्षणं कार्यं करोति तथा । किन्तु स्वतन्त्रकर्ता नारायण एव मयि स्थित्वा विहितकरणे प्रेरयति निषिद्धान्निवर्तयति तद्भक्तिरेव मम तत्फलमिति निरूप्य कर्म करोति । स पुनर्न विपद्येत संसारलक्षणां विपदं नाप्नोतीत्यन्वयः । ‘‘कर्तृत्वमात्मनो यस्माज्ज्ञाननिष्ठो न मन्यते । अतोऽकुर्वन्नपि सदा दोषबुद्ध्या न निन्दितम् । गुणबुद्ध्या न विहितं किन्त्वीशप्रेरितोऽस्म्यहम् । स एव च मयि स्थित्वा निन्द्यानिन्द्ये करोत्यजः । न मे दोषो न च गुणः कर्तृत्वाभावतः स्फुटम् । स्वतन्त्रत्वान्न चेशस्य येऽज्ञास्तेषु भवेदपि । इति मत्वा निवर्तेत निन्द्यात् कुर्याद् गुणानपि’’ सति वाक्यसिद्धोऽयमर्थः । ये अज्ञास्तेषु अज्ञेषु दोषो गुणश्च भवेदित्यर्थः । अनित्या मे गुणा न स्युर्दोषा नैव कथञ्चन । इति मत्वा शुभं कुर्यान्निवर्तेदशुभादपि । ज्ञानी त्वकर्तृतामानादीशकर्तृत्वनिश्चयात् । किन्तु पूर्णगुणायैव नतु दोषापनुत्तये । न चाल्पगुणसिद्ध्यर्थं बालवत् कृतनिश्चयः’’ इत्येतदप्युक्तार्थे मानम् । ‘‘वैलक्षण्याद् हरेर्भिन्नं तत्तन्त्रत्वात् तदात्माकम् । इति विश्वं प्रपश्यन्ति ज्ञाननिष्ठा हरेः प्रियाः’’ इत्येतद् ज्ञानार्थिना विश्वमेवं द्रष्टव्यमित्यस्मिन्नर्थे मानम् ॥ ११–१२ ॥
श्रीनिवासतीर्थीया
अकुर्वन्स्वात्मनः कर्तृत्वाद्यभिमानशून्यो ज्ञानी । न निन्दितं त्यजेदिति शेषः । न विहितं कुर्यादिति शेषः । करोति कारयति । न मे दोषो निन्द्यकरणे नाशुचित्वा-सम्भाष्यत्वादिरूप एको दोषो न । न च गुणः सर्गादिरूपः । एवमव्याख्याने आनन्दह्रासाभि-वृद्धिरूपदोषगुणयोः सद्भावादयुक्तमेतत्स्यादिति ध्येयम् । यथाऽऽर्भक इत्ययं व्यतिरेकदृष्टान्त इति वक्तुं श्लोकं प्रमाणान्तरेण व्याचष्टे ॥ अनित्या इति ॥ गुणाः स्वर्गाद्याः । न स्युरित्यत्रानित्या इति हेतुगर्भम् । दोषाः शुभाकरणनिमित्तप्रत्यवायाः । अनित्या इत्यस्मात्पूर्वं ज्ञानी त्विति योज्यम् । वैशारद्यग्रन्थे पूर्वमज्ञानिस्थितेरुक्तत्वात्ज्ञानी त्विति युज्यते । शुभं विहितम् । अशुभान्निषिद्धात् । यदि स्वर्गाद्यपेक्षा नास्ति विहिताकरणनिमित्तकप्रत्यवायपरिहारापेक्षा च नास्ति तर्हि शुभकरणं कस्मादिति पृच्छति ॥ किं त्विति ॥ उत्तरयति ॥ पूर्णेति ॥ योग्यानन्दाभिव्यक्त्यर्थमिति यावत् । एवकारव्यावर्त्यकथनम् ॥ न चाल्पगुणेति ॥ स्वर्गादीत्यर्थः । अनेन विधिनिषेधोभयातीतोऽ-परोक्षज्ञानी विहितं करोति । परं गुणबुद्ध्याऽनित्या गुणा मे स्युरिति बुद्ध्या न करोति । किं त्वीश्वरप्रेरितः स एव मयि स्थित्वा निन्द्यानिन्द्ये कारयतीत्यनुसन्धाय पूर्णगुणायैवेति मूलार्थ उक्तो भवति । अशुभान्निवर्तेतेत्युक्तम् । अशुभान्निवर्तनं किं निमित्तम् । अशुभकरणजनितदोषापनुत्तय इत्याशङ्कायां नेत्याह ॥ न त्विति ॥ अशुभान्निवर्तेदिति सम्बन्धः । अनेनोभयातीतो निषेधा-न्निवर्तते । परं दोषबुद्ध्या अनिवर्तनेऽशुचित्वादिरूपो दोषो भविष्यतीति बुद्ध्या न निवर्तते । उत्तराघस्याश्लेषात् । किन्तु मौक्तानन्दानभिव्यक्तिभियेति मूलं योजितं भवति । बालवत्कृतनिश्चय इत्यनेन यथाऽर्भक इति विवृतम् । व्यतिरेके चायं दृष्टान्तः । तथा चार्भको बालोऽज्ञानी गुणबुद्ध्याऽल्पगुणः स्वर्गादिर्मेऽस्त्विति कृतनिश्चयो यथा विहितं करोति । यथा वा निषेधादनिवर्तने दोषो भविष्यतीति कृतनिश्चयो निषेधान्निवर्तते तथाऽयं नेति मूलं योज्यमित्युक्तं भवति ॥ बालवैलक्षण्यत्वे हेतुरकर्तृतामानादीशकर्तृत्वनिश्चयादिति । स्वस्मिन्कर्तृत्वाज्ञानादित्यर्थः । ज्ञानविज्ञानाभ्यां वैष्णवसिद्धान्ते निश्चलः स्थिरः। न विपद्येतेत्यस्य संसारलक्षणानां विपदं नाप्नोतीत्यर्थः
॥ ११,१२ ॥
प्रमेयचन्द्रिका
प्रकृतापरोक्षज्ञानिनः कर्माचरणप्रकारो अभिधीयते ॥ दोषबुध्येति श्लोकद्वयेन ॥ अत्र निषिद्धकरणे दोषो मे स्यादिति बुध्या निषिध्य निवर्तते । विहितकरणे गुणो मे स्यादिति बुध्या विहितं न करोति बालवदित्युच्यते । तदयुक्तम् । अपरोक्षज्ञानिनो बालकस्येव बुद्धिमांद्यायोयागात् । अहमप्रियादपोह्य इति निषिद्धस्य भगवदप्रियत्वरूपदोषबुध्या निवर्तनस्य मां विधत्त इति भगवत्प्रीतिलक्षणबुध्या विहितकरणस्य चावश्यकत्वादित्यतः प्रमाणेन तदभिप्रायमाह ॥ कर्तृत्वमिति ॥ यस्माद्ज्ञाननिष्टोऽपरोक्षज्ञानी स्वात्मनः क्रियास्वातन्त्र्यरूपं कर्तृत्वं न मन्यत इत्यनेन मूले उभयातीतः रजस्तमोभ्यामतीतोऽत एव कर्तृत्वभ्रमरहित इत्युक्तं भवति । अतः स्वस्य क्रियास्वातन्त्र्यरूपकर्तृत्वाभिमानाभावाद्विहितं कर्म निषिद्धत्यागं च कुर्वन्नपि नरकाद्यनर्थरूपदोषबुध्या निंदितं न त्यजतीति शेषः । स्वर्गादिगुणो भवतीति बुध्या विहितं न करोतीति शेषः ।
ननु दोषबुध्द्याद्यभावे त्यागादिकमनुपपन्नम् । हेत्वभावादिति शङ्कते ॥ किं त्विति ॥ समाधत्ते ॥ ईशेति ॥ श्रुत्यादिरूपया ईशाज्ञया प्रेरितोऽहमिति बुध्या त्यजति करोतीति शेषः । न केवलं श्रुत्यादिरूपस्वाज्ञया प्रेरकत्वमात्रं किं तु सेवयैव । मयि स्थित्वा च करोतीत्याह ॥ स एवेति ॥ निन्द्यमनिंद्यं च करोतीति योज्यम् । ईश्वराज्ञाप्रेरित एव करोतीत्यनुपपन्नम् । तेन च स्वस्य प्रयोजनानुसन्धानाभावे करणायोगात् । इश एव मयि स्थित्वा करोतीति चायुक्तः । अहं करिष्य इतीच्छापूर्वककर्तृत्वस्यानुभवसिद्धत्वादित्यतः स्यादेव प्रयोजनानुसन्धानेन करणं कर्तृत्वानुभवश्चाज्ञानां न तु ज्ञानिनामिति सोपपत्तिकमाह ॥ न मे दोष इति ॥ क्रियास्वातन्त्र्यं हि कर्तृत्वं न च स्वातन्त्र्यं जीवस्यास्ति । अतो न कर्तृत्वम् । यः कर्त्ता तस्यैव कर्मनिमित्तगुणदोषौ । अतः स्फुटं कर्तृत्वाभावतो न मे दोषो न च गुण इत्यर्थः । तर्हीश्वरस्यैव स्वतन्त्रत्वेन कर्तृत्वात्तस्यैव नरकादिदोषः स्वर्गादिगुणश्च स्यादित्यत उक्तम् ॥ स्वतन्त्रत्वादिति ॥ न हि कर्तुमकर्तुमन्याथाकर्त्तुं च समर्थस्येश्वरस्य दोषादिर्युज्यत इति भावः । तर्हि गुणदोषौ कर्मणा स्यातामिति वार्तोच्छेद इत्यत उक्तम् ॥ ये अज्ञा इति ॥
न ज्ञानिनो नापीश्वरस्य कर्मणा गुणदोषौ । अपि तर्हि य एवं जीवस्य कर्तृत्वाभावमीश्वर-स्वातन्त्र्यादिकं न जानन्ति । तेषु बन्धकगुणदोषश्च भवेद् इत्येवं ज्ञानी मत्वा गुणप्राप्तौ दोषत्यागे चेच्छां हित्वा केवलमीश्वरस्यैव कर्तृत्वं ज्ञात्वा भगवत्प्रीत्यर्थमेव निन्द्यात्कर्मणो निवर्तेत । गुणान्विहाय न काम्यं कुर्यादित्यर्थः । ज्ञानिनो न गुणकांक्षया विहितकरणं किन्तु केवलमीश्वरप्रीत्यर्थमेवेऽति यदुक्तं तदुत्तमाधिकारिविवक्षया । एकान्तानामितरापेक्षाभावात् । तदितरज्ञानी तु स्वस्य गुणकांक्षा-सद्भावेपि ऐहिकामुष्मिकोभयकामनातीतो ऽनित्यासारगुणो मे भवेदिति बुध्या विहितं करोति । निषेधाच्च न निवर्तत इति मूलार्थ इत्याशयेन प्रमाणान्तरं पठति ॥ अनित्या इति ॥ माना-न्निश्चयादिति ल्यब्लोपनिमित्ता पञ्चमी । ततश्चायमर्थः । ज्ञानी तु विशेषतः कर्तृत्वाभिमानं परित्यज्य ईशस्य स्वातन्त्र्येण कर्तृत्वं निश्चित्य मे अनित्यगुणा न स्युर् दोषाः कथं च नैव स्युरिति मत्वा शुभं कुर्यादशुभाच्च निवर्तेत् । गुणेषु मध्ये अनित्यगुणार्थं विहितं न कुर्यात् । आनन्दातिशयरूप-नित्यगुणार्थं तु कुर्यादितिवद्दोषेन विभागः । किं दोषाः सर्वथा वर्ज्या इति भावेन कथं च कयापि विधया नैवेत्युक्तम् । गुणालाभे शुभकरणादिकं व्यर्थमिति शङ्कते ॥ किं त्विति ॥ समाधत्ते ॥ पूर्णेति ॥ आनन्दोद्रेकलक्षणपूर्णगुणार्थमेवेत्यर्थः । एवकारव्यवच्छेद्यं द्वेधा दर्शयति ॥ न त्विति ॥ नरकादिदोषापनुत्तये नेत्यर्थः । स्वर्गाद्यल्पफलसिध्द्यर्थं च नेत्यर्थः । तत्र दृष्टान्तो ॥ बालवदिति ॥ प्रयोजनानुद्देशमात्रे दृष्टान्तः । प्रकृते किम्? आनन्दोद्रकातिरिक्तप्रयोजनानुद्देशोऽत्र विवक्षित इति ज्ञेयम् । मदात्मकं विश्वमित्येतदन्यथाप्रतीतिवारणाय प्रमाणेन व्याचष्टे ॥ वैलक्षण्यादिति ॥ अत्यन्तविरुद्धधर्माधिकरणत्वात् । यदधीना यस्य सत्ता तत्तदित्येव भण्यत इत्युक्तेर्मदात्मकमित्यस्य मत्स्वामिकमित्यर्थः ॥ ११,१२ ॥
श्रीशुक उवाच—
इत्यादिष्टो भगवता महाभागवतो नृप ।
उद्धवः प्रणिपत्याह तत्वजिज्ञासुरच्युतम् ॥ १३ ॥
उद्धव उवाच—
योगेश योगविन्यास योगात्मन् योगसम्भव ।
निःश्रेयसाय मे प्रोक्तस्त्यागः संन्यासलक्षणः ॥ १४ ॥
तात्पर्यम्
योगो देवादिषु तेन न्यस्त इति योगविन्यासः । ‘ज्ञानं तु योगशब्दोक्तं युज्यतेऽनेन यत्सुखम् । क्वचिद्योग उपायः स्यात्क्वचिच्चित्तनिरोधनमि’ति दत्तात्रेययोगे ॥ अत्र ज्ञानमुपायश्च ॥ १४ ॥
पदरत्नावली
उद्भवः स्वाभिलषितं विज्ञापयिष्यन् प्रकरणानुगुणस्तुत्या भगवन्तमभिमुखीकुर्वन् उक्तमर्थमनुवदति योगेशेति । योगस्य यमनियमादेरीश । योगस्य ज्ञानस्य विशेषेण न्यासो देवादिषु येन स तथा, तस्य सम्बोधनं योगविन्यासेति । योगात्मन् ज्ञानस्वरूप । योगसम्भव उपायजनक । ‘‘ज्ञानं तु योगशब्दोक्तं युज्यतेऽनेन यत् सुखम् । क्वचिद् योग उपायः स्यात् क्वचिच्चित्तनिरोधनम्’’ इति । त्यागं दानाद् व्यावर्तयति संन्यासलक्षण इति । सर्वदुष्टसङ्गपरित्यागलक्षण इत्यर्थः
॥ १३–१४ ॥
श्रीनिवासतीर्थीया
योगेशेति श्लोके योगविन्यासेत्यस्य तात्पर्यमाह ॥ योग इति ॥ देवादिष्वित्यस्य योग्यतया सम्बन्धः । अनेन योगस्य विशेषेण न्यासो येनासौ तथोक्त इति विग्रहोऽवसेय इत्युक्तं भवति । कोऽयं योगशब्दार्थ इत्यत आह ॥ ज्ञानं त्विति ॥ किं रूढ्या न किन्तु करणव्युत्पत्त्येत्याह ॥ युज्यत इति ॥ यद्यस्मादनेन ज्ञानेन सुखमनेन पुंसां युज्यते सम्बद्ध्यते तस्मादित्यर्थः । उपायः सामान्यतः साधनमात्रमित्यर्थः । चित्तनिरोधनं ध्यानम् । अस्त्वेवं योगशब्दार्थः । प्रकृते कोऽर्थो विवक्षित इत्यत आह ॥ अत्रेति ॥ उपायस्तदितरभक्त्यादि-रूपश्चात्र श्लोके यथासम्भवं योगशब्दार्थत्वेन व्याख्येयमित्यर्थः । तथा चेह योगेश ज्ञानोपाययोरीश । योगविन्यास योगस्य ज्ञानस्योपायस्य च देवादिषु विशेषेण न्यासो येनासौ तथोक्तस्तस्य संबुद्धिर्योगविन्यास । योगात्मन् ज्ञानस्वरूप । योगसम्भव ज्ञानोपाययोरुत्पादकेति मूलं योजनीयमिति सूचितं भवति । त्यागो दानं न भवतीत्याह ॥ संन्यासेति ॥ काम्यकर्मन्यासादिरूपः ॥१४॥
प्रमेयचन्द्रिका
योगेश योगाधिपतेः । योगविन्यासेत्येतदप्रतीतेर्व्याचष्टे ॥ योग इति ॥ योगो विन्यस्यते स्थाप्यते अनेनेति योगाविन्यासः । कुत्रेत्यत उक्तम् ॥ देवादिष्विति ॥ मोक्ष-योग्येष्विति भावः । योगो नाम क इत्यत आह ॥ ज्ञानमिति ॥ योगशब्दस्यैवमुभयार्थत्वे कोऽत्रार्थो विवक्षित इत्यत आह ॥ अत्रेति ॥ मूले योगात्मन्नित्यस्य योगमादत्ते स्वीकरोति । अदिर्भुङ्क्त इत्यर्थे । आङ्पूर्वाद्दाञ् दाने । अद भक्षणे इत्यस्य डप्रत्यये निष्पन्नत्वादात्मशब्दस्य । योगस्य सम्भव उत्पत्तिर्यस्मात्स योगसम्भवः ॥ सन्यासलक्षण इति ॥ कामनासन्यासस्त्याग इत्यर्थः
॥ १४ ॥
त्यागोऽयं दुष्करो भूमन् कामानां विषयात्मभिः ।
सुतरां त्वयि सर्वात्मन्नभक्तैरिति मे मतिः ॥ १५ ॥
पदरत्नावली
ततः किमत्राह– त्याग इति । कामानामयं त्यागः सुतरां त्वय्यभक्तैर् दुष्करः
॥ १५ ॥
श्रीनिवासतीर्थीया
त्वद्भक्तैरप्यस्मदादिभिः कामानां त्यागो दुष्करः किल । त्वयि सुतरामभक्तैर्दुष्करमिति किमु वाच्यमित्याह ॥ त्याग इति ॥ १५ ॥
प्रमेयचन्द्रिका
त्यागोऽयमिति ॥ विषयात्मभिरयं कामानात्यागो दुष्कर इत्यर्थः
॥ १५ ॥
सोऽहं ममाहमिति मूढमतिर्विगाढ
स्त्वन्मायया विरचितात्मनि सानुबन्धे ।
तत्त्वञ्जसा निगदितं भवता यथाऽहं
संसाधयामि भगवन्ननुशाधि भृत्यम् ॥ १६ ॥
पदरत्नावली
विषयात्मभिर्दुष्करत्वेऽपि तव किमित्यतः स्वेनापि दुष्करत्वमभिप्रेत्य स्वस्य विषयात्मतां वदन् स्वाभिलषितं विज्ञापयति सोऽहमिति । यस्त्वयाऽनुशिष्टः सोहं सानुबन्धे पुत्रकलत्राद्यनुबन्धसहिते त्वन्मायया त्वदिच्छया प्रकृत्या च विरचिते निर्मिते आत्मनि देहे ममाहमिति मूढमतिर् विगाढो मग्नोऽस्मि । अतो भवता निगदितं तत्प्रमेयं यथाऽहमञ्जसा झटिति, द्राग् झटित्यञ्जसाह्नायेत्यभिधानम्, संसाधयामि तथा भृत्यं मामनुशाधि ॥ १६ ॥
श्रीनिवासतीर्थीया
ननु भक्तानां त्यागः कुतोऽशक्य इत्यत आह ॥ सोऽहमिति ॥ त्वन्मायया विरचितात्मनि त्वदिच्छया सृष्टत्वेन त्वदधीनदेहे रूढमतिर्निरूढज्ञानः । अहङ्कारममकारमग्न इत्यर्थः । अत एवात्मनि विगाढः विशेषेण तत्रैव मग्नः । विलुप्तभगवत्स्वातन्त्र्यज्ञानो भगवता निगदितं, तत्त्यागकारणं तु विशेषेण यथा संसाधयामि तथा मामनुशाधि ॥ १६ ॥
प्रमेयचन्द्रिका
त्यागस्योक्तं दुष्करत्वमुपपादयन् त्यागोपायविषये प्रश्नःक्रियते ॥ सोऽहमिति ॥ अहं मदादिः सर्वोप्यधिकारीश्वरस्य ममाहमिति रूढमतित्वोक्तेस्तात्पर्यमात्मनोऽवमतां ब्रूयुरुत्तममपीति पूर्वाध्यायान्ते निरूपितम् । सानुबन्धे कलत्रापत्याद्यनुबन्धसहिते । त्वन्मायया त्वदिच्छया त्वदधीनप्रकृत्या च विरचितेनात्मनि देहे ममेमे कलत्रादय इति । अहं स्थूलः कृश इति मूढमतिः । अत एव विगाढः । तत्रैव दार्ढ्योपेतोऽहं भवता निगदितत्यागाख्यं साधनं यथा संसाधयामि तथा भृत्यं मामनुशाधीत्यर्थः ॥ १६ ॥
सत्यस्य ते स्वदृश आत्मन आत्मनोऽन्यं
वक्तारमीश विबुधेष्वपि नानुचक्षे ।
सर्वे विमोहितधियस्तव माययेमे
ब्रह्मादयस्तनुभृतो बहिरर्थभावाः ॥ १७ ॥
तात्पर्यम्
अभगवत्स्वरूपत्वात्तनुभृत्त्वम् । बहिरर्थापेक्षयैव च तेषां मोहः । परमसुखसाधनादन्योऽर्थो बहिरर्थः । ‘अशरीरः सदा विष्णुः पूर्णानन्दत्वतः सदा । इच्छा च क्रीडयैवास्य न फलाय यतो विभोः । अतो बाह्यार्थकामोऽपि निष्काम इति कथ्यते । ब्रह्मा निरभिमान(नि)त्वाच्छरीर्यप्यशरीरवान् । नित्यानन्दोपयोग्यन्यकामस्योज्खितितः सदा । बहिरर्थविनिर्मुक्तस्तथापि तनुधारणात् । अमूढो मूढ इतिवदुच्यते च सरस्वती । रुद्राद्यास्तन्वभीमानाद्बहिरर्थयुजस्तथा । सर्वेषां ब्रह्मपदवीयोग्यानां पूर्वमेव तु । अभावस्त्वपरोक्षस्य मोहो ज्ञानस्य भण्यते । ब्रह्मणस्त्वंशरूपेषु भारत्या ज्ञानवर्जनम् । ब्रह्मगायत्रिभावे तु नांशावतरणं क्वचित् । शतजन्मसु पूर्वं तु ज्ञानोदय उदीर्यते । आपरोक्ष्येण पारोक्ष्यात्पूर्णज्ञानं सदैव तु । शतजन्मगतायाश्च आपरोक्षोज्खितिर्भवेत् । क्वचित्क्वचित्सरस्वत्यामंशावतरणेष्विति’ शक्तिविवेके ॥ ‘‘अशरीरो वायुरभ्रं विद्यु-त्स्तनयित्नुरशरीराणि वा एतानी’ति च श्रुतिः । ‘श्रुतिभिस्तनितत्वात्तु स्तनयित्नुर्हरिः स्मृतः । अभ्रं भूतानि भरणाच्छ्रीर्वायुर्भरतः स्मृतः । विद्युत्तु भारती प्रोक्ता एत एवाशरीरिणः । व्यत्यासेनापि नाम स्यादेतेषां महतां सदे’त्युभयनिरुक्ते ॥ १७ ॥
पदरत्नावली
तव मत्स्वरूपोपदेष्टा मत्तोऽन्यः किं न स्यादत्राह– सत्यस्येति । ते तव स्वरूपस्य वक्तारमात्मनस् त्वत्तोऽन्यं पुरुषं नानुचक्षे न पश्यामि । कीदृशस्य । सत्यस्य साधुज्ञानादि-गुणस्य । यद्वा सत्त्वं यापयति प्रापयतीति सत्यस्तस्य जगत्सृष्ट्यादिकर्तुः । अत्र हेतुमाह– स्वदृश इति । स्वदृशः स्वयं प्रकाशमानस्य । यद्वा स्वत एव स्वपरगताशेषविशेषद्रष्टुः । आत्मनः सर्व-व्यापिनः । एतेन सत्यं ज्ञानमनन्तं ब्रह्मेति श्रुत्युक्तलक्षणस्येत्युक्तं भवति । मनुष्येष्वभावेपि देवेषु स्यादत उक्तं विबुधेष्विति । उक्तं विशिनष्टि सर्व इति । ब्रह्मा आदिः कारणं येषां रुद्रादीनां ते तथोक्ताः । ते तव माययेच्छया विमोहितधियः । कुतः । तत्राह– तनुभृत इति । शरीराभि-मानिनः । अत एव बहिरर्थभावा मोक्षतदुपयोगिभ्योऽन्यत्रापि कामनायुक्ताः ।
अस्य श्लोकस्यार्थः ‘‘अशरीरः सदा विष्णुः पूर्णानन्दत्वतः सदा । इच्छा च क्रीडयैवास्य न फलाय यतो विभोः । अतो बाह्यार्थकामोऽपि निष्काम इति कथ्यते । ब्रह्मा निरभिमानित्वाच्छरीर्यप्यशरीरवान् । नित्यानन्दोपयोग्यन्यकामस्योज्झितितः सदा । बहिरर्थविनिर्मुक्त-स्तथापि तनुधारणात् । अमूढो मूढ इतिवदुच्यते च सरस्वती । रुद्राद्यास्तन्वभीमानाद् बहिरर्थ-युजस्तथा । सर्वेषां ब्रह्मपदवीयोग्यानां पूर्वमेव तु । अभावस्त्वपरोक्षस्य मोहो ज्ञानस्य भण्यते । ब्रह्मणस्त्वंशरूपेषु भारत्या ज्ञानवर्जनम् । ब्रह्मगायत्रिभावे तु नांशावतरणं क्वचित् । शतजन्मसु पूर्वं तु ज्ञानोदय उदीर्यते । अपरोक्षेण पारोक्ष्यात् पूर्णज्ञानं सदैव तु । शतजन्मगतायाश्च आपरोक्ष्योज्झितिर्भवेत् । क्वचित् क्वचित् सरस्वत्या अंशावतरणेष्विति’’ इति शक्तिविवेकग्रन्थादवगत इति । अशरीरो वायुरभ्रं विद्युत् स्तनयित्नुरशरीराणि वा एतानीति श्रुतिरत्र मानम् । ‘‘श्रुतिभिः स्तनितत्वात्तु स्तनयित्नुर्हरिः स्मृतः । अभ्रं भूताभिभरणाच्छ्रीर्वायुर्भरतः स्मृतः । विद्युत्त भारती प्रोक्ता एत एव शरीरिणः । व्यत्यासेनापि नाम स्यादेतेषां महतां सदा’’ इत्यनेन श्रुत्युक्ता एत एवेति विज्ञायते ॥ १७ ॥
श्रीनिवासतीर्थीया
तव मत्स्वरूपोपदेष्टा मत्तोऽन्योऽपि किं न स्यादित्यत आह ॥ सत्यस्येति ॥ अत्र श्लोके ब्रह्मादीनां तनुभृत्त्वं कुतो मोहश्च केन ज्ञेयः कश्च बहिरर्थ इत्यपेक्षायां तनुभृत्त्वादिकं तावत्स्ववाक्येन विवृणोति ॥ अभगवदित्यादिना ॥ पूर्णानन्दत्वादि-साधुगुणवत्त्वरूपभगवत्स्वरूपभिन्नत्वाद्ब्रह्मादीनां तनुभृत्त्वमित्यर्थः । तेन सत्यस्येत्येतत्पूर्णानन्दत्वादि-साधुगुणस्येति व्याख्येयमिति सूचितं भवति । तेषां ब्रह्मादीनां बहिरर्थेषु वनितादिष्वपेक्षाया विद्यमानत्वात् । बहिरर्थापेक्षया बहिरर्थेष्विच्छारूपकार्येण मोहो मोहकारणमनुमेयमित्यर्थः । तेनात्मन इत्यस्य पूर्णकामस्येत्यर्थ इति सूचितम् । कोऽयं बहिरर्थो यदपेक्षारूपकार्येण मोहोऽनुमेय इत्यत आह ॥ परमेति ॥ मौक्तं सुखं परमसुखम् ॥ तथा चेत्थं मूलयोजना ॥ सत्त्यादिरूपस्य ते स्वरूपस्य वक्तारमात्मनस्त्वत्तोऽन्यं विबुधेष्वपि नानुचक्षे न पश्यामि ।
ननु ब्रह्मादयो वक्तारः किं न स्युरित्यत उच्यते ॥ सर्व इति ॥ सर्वे ब्रह्मादयः सर्वेऽपि भगवत्स्वरूपभिन्नत्वात्तनुभृतो भौतिकदेहधारिणस्त्वं तु नैतादृशः किं नाम सत्यः पूर्णानन्दत्वादि-साधुगुणयुक्तः । तथा तव मायया विमोहितधियस्त्वं तु स्वदृक् सर्वदा प्रकाशमानज्ञानत्वेन न मोहवान् । तथा मोहसद्भावादेव बहिरर्थभावा इच्छावन्तो बाह्यार्थकामत्वेऽनाप्तपूर्णकामास्त्वं त्वात्माऽ-वाप्तसमस्तकाम इति त्वमेव वक्ता नेतर इत्यर्थ इति । रमाया अपि भगवत्कोटौ निवेशो मन्तव्यः । अस्मिन्नर्थे तावत्प्रमाणमाह ॥ अशरीर इत्यारभ्य कथ्यत इत्यन्तेन ॥ अशरीरो भौतिकादिशरीररहितः । कुत इत्यत उक्तम् ॥ पूर्णेति ॥ पूर्णानन्दरूपदेहवत्त्वादित्यर्थः । अनेन सत्यस्येत्येतद्धेतुगर्भमित्युक्तं भवति । ननु भगवतः पूर्णानन्दत्वे जीववत्क्वचिद्बाह्यार्थकामार्थो दृश्यते स न स्यादित्यत आह ॥ इच्छा चेति ॥ अस्य पूर्णानन्दत्वेनावाप्तसमस्तकामस्यापि इच्छा बाह्यार्थेषु फलायेतरवत्पूर्वाप्राप्तफलाय । अनेनात्मन इत्यस्य तात्पर्यमुक्तं भवति ।
नन्वेवं फलव्याख्यानमयुक्तम् । ब्रह्मणोऽशरीरतायाः प्रमाणसिद्धत्वात्तनुभृत्वोक्तिरयुक्ता । अनाद्यनन्तकालेषु सम्यग्ज्ञानिनो विमोहितधीत्वस्य चायोगात् । न भारती मेऽङ्ग मृषोपलक्ष्यत इत्यादिप्रमाणाद्बहिरर्थभावत्वं चायुक्तमित्याशङ्कायां प्रमाणशेषेणाशरीरत्वादिवाक्यस्य गतिमाह ॥ ब्रह्मेति ॥ अस्यैवं योजना । ब्रह्मा निरभिमानत्वादशरीरवानपि तनुधारणाद् देहधारित्वमात्रेण शरीरीतिवदुच्यते व्यपदिश्यते । वस्तुतः शरीरी नैव । तथा नित्यानन्दोपयोगिनस्तत्साधनादन्यो योऽयमर्थस्तद्विषयक-कामस्योझ्झितितो राहित्याद्बहिरर्थविनिर्मुक्तोऽपि तथा बहिरर्थभाव इतिवदुच्यते व्यपदिश्यते । तत्र वस्तुतः स नैव । तथाऽमूढोऽपि मूढ इतिवदुच्यते व्यपदिश्यते । अत्र वस्तुतो मूढो नैव । तथा सरस्वती च ब्रह्मवदेव शरीरित्वबहिरर्थभावत्वमूढत्वादिव्यपदेशमात्रवती । वस्तुतः साऽपि न तादृशीति भावः । तथा च ब्रह्मा आदिः कारणं येषां रुद्रादीनां ते ब्रह्मादयो रुद्रादय इति व्याख्येयमित्याशयः ।
रुद्रादौ तु नानुपपत्तिरित्याह ॥ रुद्राद्या इति ॥ तन्वभीमानात्तनुभृत इत्युच्यन्त इति शेषः । यतो बहिरर्थकामनायुजोऽतो बहिरर्थभावा इत्युच्यन्ते । तथा वाशब्दान्मूढा इत्युच्यन्त इत्यपि ग्राह्यमिति योज्यम् । ब्रह्मादय इत्यत्र ब्रह्मणो ग्रहणेऽपि तनुभृत्त्वबहिरर्थभावत्वयोरसम्भवेऽपि विमोहितधीत्वं वैवक्षिकं सम्भवत्येवेत्याशयेनाह ॥ सर्वेषामिति ॥ पूर्वमेवानादिकालत एवापरोक्षस्य ज्ञानस्येत्यन्वयः । अनेन सरस्वत्यपि व्याख्याता । वायौ विशेषमाह ॥ ब्रह्मणस्त्विति ॥ वायो-रित्यर्थः । अंशरूपेषु भीमादिषु वायौ मूलरूपे यावती ज्ञानाभिव्यक्तिस्तावत्यंशरूपेषु न । तथा पूर्वपूर्वरूपेषु यावती तावत्युत्तररूपेष्वपि नेति ध्येयम् । भारत्या अंशरूपेष्विन्द्रसेन्यादिरूपेषु मूलरूपवन्नेत्यर्थः ।
प्रसङ्गादुच्यते ॥ ब्रह्मेति ॥ वायोर्ब्रह्मभावो भारत्या गायत्रीभाव इत्यर्थः ॥ सर्वेषामिति ॥ अपरोक्षज्ञानाभावो ब्रह्मपदयोग्यानामुक्तस्तदुत्पत्तिः कदेत्यत आह ॥ शतेति ॥ शतजन्मसु मध्ये यस्मिन् ब्रह्मकल्पेऽपरोक्षज्ञानमुत्पन्नं तदारभ्य शतब्रह्मकल्पानन्तरं ब्रह्मपदप्राप्त्युक्तेर्मध्ये यत्पूर्वजन्म तत्रैवेत्यर्थः। आपरोक्ष्येण ज्ञानोदय इत्यन्वयः । आपरोक्ष्येणेत्यस्य कृत्यमाह । पारोक्ष्याद्वैदिकेश्वर-विषयकं ज्ञानं सदाऽनादिकाले पूर्णमस्त्येवेति । एवं सरस्वत्या अपि शतजन्मसु मध्ये पूर्वमुत्पन्नस्यापरोक्षज्ञानस्य कदाऽप्युख्खितिर्नास्ति । सर्वदाऽभिव्यक्तमेवास्तीति प्रमाणप्रसिद्धम् । एवं सरस्वत्या अपीति सिद्धे तत्र विशेषमाह ॥ शतेति ॥ शतजन्मगतायाश्च सरस्वत्या भारती-भावात्पूर्वं विद्यमानायाः क्वचित्क्वचिदवस्थाविशेषे आपरोक्ष्यस्योख्खितिर्भवेत् । तथा भारत्या अंशावतारेण गणनेष्वपि क्वचित्क्वचिदापरोक्ष्योख्खितिर्भवेदिति योज्यमित्याहुः । ब्रह्मणो न तनुभृत्त्व-मित्युक्तम् । तत्र श्रुतिं पठित्वा तां श्रुतिं प्रमाणेन व्याचष्टे ॥ अशरीर इत्यादिना ॥ अपोऽ-म्नामभ्यश्च पूर्वेभ्य इति काठकभाष्ये भूतानामम्नामकत्वोक्तेर्भूतानि बिभर्तीत्यभ्रमित्यर्थः । वायुभारती-शब्दाभ्यां ब्रह्मसरस्वत्यौ व्याख्याते ॥ १७ ॥
प्रमेयचन्द्रिका
त्वया ब्रह्मादिष्वन्यतमः प्रष्टव्यः । मामेव किमर्थं पृच्छसीत्यत उच्यते ॥ सत्यस्येति श्लोकद्वयेन ॥ सत्यस्योत्तमानंदज्ञानस्वरूपस्य अत एव स्वदृशः यावत्स्वस्वरूप-ज्ञानिनः । तत्र हेतुस्ते गुणस्य । ते स्वरूपस्य वक्तारम् आत्मनस्त्वत्तोऽन्यं विबुधेष्वपि नानुचक्षे पश्यामि । ब्रह्मादीनां सर्वज्ञानां भावादित्यत उक्तम् ॥ सर्व इति ॥ तस्मात्सर्वेषामेवंभूतत्वादनवद्यं विमोहितधीत्वादिदोषरहितम् । अनन्तपारं विनाशपरिमितिभ्यां रहितम् । अन्तो विनाश उद्दिष्टः पारः परिमितिः स्थितिरित्युक्तेः । स्वपरगताखिलविशेषज्ञानिनम् । ईशेभ्यो ब्रह्मरुद्रश्रीशिवादिभ्यो वरम् । अखण्डविकुण्ठधिष्ण्यम् । अखण्डमेकप्रकारं स्वगतभेदरहितम् । विकुण्ठमप्रतिबद्धम् । धिष्ण्य-मवस्थानम् । स्वरूपमिति यावत् । यस्य तम् । नरसखं नारायणं त्वां तत्वोपदेशाय शरणं प्रपद्ये । नरानुजनारायणस्य सर्वोपदेष्टृत्वप्रसिद्धेस्तं शरणं व्रजेदिति न वाच्यम् । स एव त्वमित्याशयेन नारायणं त्वामित्युक्तमिति ज्ञेयम् ।
अत्र ब्रह्मादयस्तनुभृत इति ब्रह्मणस्तनुभृत्वं कथमुच्यते । अशरीरो वायुरिति श्रुतेः । विमोहित-धीत्वं बाह्यार्थे कामत्वं चायुक्तम् । अनादिकालतः सर्वदोषहीनत्वात् । न कर्हिचिन्मे मनसो मृषागतिर् न मे हृषीकाणि पतन्त्यसत्पथ इति ब्रह्मणा स्वस्य मोहकाभावोक्तेरित्याशङ्कां परिहरति ॥ भगवत्स्वरूपत्वादित्यादिना ॥ भगवान्नारायणः भगवती श्रीः । नित्यमुक्तत्वादीशकोटिप्रवेशाच्च । तथा चाभगवत्स्वरूपत्वात् । तत्स्वरूपाभावात् । अनीश्वरत्वात् । जीवत्वादिति यावत् । अथवा अभगवत्स्वरूपत्वाद्ब्रह्मादिदेहानामैश्वर्यादिगुणस्वरूपत्वाभावाद्ब्रह्मादीनां तनुभृत्वमुपपद्यत इति शेषः । अमुक्तदेहत्वाज्जडदेहत्वाच्च तनुभृत्वमिति भावः । अत्र विमोहितधीत्वमुपपादयति ॥ बहिरर्थापेक्षयैव तेषां मोक्ष इति ॥ मूलगतभावपदार्थापेक्षयेति ।
अत्र ब्रह्मवायुतत्पत्नीनां मोहो ज्ञानाभावमात्रं तदन्येषां मोहो विपरीतज्ञानं च विवक्षितम् । क्वचिदित्यल्पासुरावेशस्य तेषु सत्वादिति ज्ञेयम् । अनेन बहिरर्थकाममोक्षयोर्हेतुहेतुमद्भाव इति सूचितं भवति । कोऽसौ बहिरर्थ इत्यत आह ॥ परमेति ॥ सुखसाधनं भगवान् तदन्योऽर्थो बहिरर्थः । एतच्च एकान्तभक्तापेक्षया । तदितरापेक्षया तु परमसुखरूपमोक्षसाधनं यद्ज्ञानभक्त्यादि तदन्योऽर्थो बहिरर्थ इति ध्येयम् । एतदुभयमुपपादयिष्यते । अत्र यावच्छङ्कापरिहारस्य स्फुटमप्रतीतेः प्रमाणेन तद्दर्शयति ॥ अशरीर इति ॥ सदा पूर्णानन्दत्वतः नित्यपूर्णानन्दमात्रशरीरत्वात्सदा अशरीरो विष्णुः । बहिरर्थकामाभावमप्युपपादयति ॥ इच्छा चेति ॥ यद्यपि सोऽकामयतेत्यादौ प्रभोहरेर्जग-त्सृष्टिरूपबाह्यार्थकामो वर्तते । तथापि यतः सेच्छा आनन्दोद्रेकनिमित्तकस्वभावभूतक्रीडयैव भवति । न त्वप्राप्तभोगप्राप्तये । अतो बाह्यार्थकामोऽपि निष्काम इति श्रुत्यादौ कथ्यते । अतो बहिरर्थकामाभावो हरेर्युक्तमिति भावः । मोहाभावस्तु नित्यव्यक्तनिरपेक्षनिरवधिकत्वस्वपरगताखिल-विशेषविषयकज्ञानवतो हरेः प्रसिद्ध एवेति नोक्तः ।
अत्र विष्णोस्तनुभृत्वाद्यभावोक्तिरभगवत्स्वरूपत्वात्तनुभृत्वात्तनुभृत्वमित्यत्र सूचितं भगवच्छब्दोक्तै-श्वर्यादिगुणस्वरूपत्वम् । तथा तदन्येषां तनुभृत्वविमोहितधीत्वादिना निमित्तेन उपदेशाय शरणागत्य-योग्यत्वोक्त्या लब्धम् । विष्णोस्तदभावाच्छरणागतिविषयत्वमिति च । यन्मूले अनवद्यादि-पदसूचितमतनुभृत्वादिकं तदुपपादयितुमिति ज्ञेयम् ।
चतुर्मुखे अशरीरत्वश्रुतिविरोधं तावत्परिहरति ॥ ब्रह्मेति ॥ निरभिमानित्वादिति ॥ बन्धकाभिमानरहितत्वादित्यर्थः । यद्यपि विरिञ्चस्य महत्तत्वादिसर्वाभिमानित्वात्परमात्मदत्त-स्वाम्यरूपाभिमानः स्वशरीरे अस्त्येव । तथाप्यस्मदादिवद्बन्धकाभिमानाभावे मोन शरीरानुग्रहोपपत्ति-निमित्तकविकाराप्रसक्तेः । सतोऽपि देहस्याकिञ्चित्करत्वादशरीरत्वश्रुतिरुपपद्यत इति भावः ॥
ब्रह्मणो बहिरर्थाभावाङ्गीकारे निष्कामत्वश्रुतिविरोधं परिहरति ॥ नित्यानन्देति ॥ नित्यानन्दो हरिस् तदुपयोगी तत्प्रीत्युपयोगी यः कामः पारमेष्ट्यादिस्वाधिकारकामस्य हर्याराधनोपयोगि-भक्तिदेहादिकामस्य मुक्तावभावविवक्षया बहिरर्थकामो नास्ति । तस्य वक्ष्यमाणवैवक्षिकमोहस्य च हेतुहेतुमद्भावश्च युज्यत इति ज्ञेयम् । अथ मोहसद्भावं तदभावं चोपपादयति ॥ तथापीति ॥ मोहप्रयोजकयोर् बन्धकतन्वभिमानबाह्यार्थकामयोरभावेऽपि तनुधारणात् । चिद्देहातिरिक्तजडदेहसम्बन्धस्य सत्वादीशलक्ष्मीवैलक्षण्येनेषत् संसारित्वाभासस्य विद्यमानत्वादमूढोऽप्ययं मूढवदुच्यते । इतिशब्द-स्योत्तरवाक्ये अन्वयः ।
ब्रह्मण्युक्तप्रकारकतनुभृत्वादिकं सरस्वत्यामप्यतिदिशति ॥ इतिवदुच्यते च सरस्वतीति ॥ इति च ब्रह्मणो यथा तनुभृत्वादिकं प्रकारविशिष्टस्तथोच्यत इत्यर्थः । तदन्येषां तनुभृत्वादिक-मुपपादयति ॥ रुद्राद्या इति ॥ अर्थयुजस्तथेत्यनेन विमोहितधिय इत्येतत्समुच्चीयते । तन्वभी-मानादित्यनेन बहिरर्थकामं प्रति देहाभिमानस्य प्रयोजकत्वम् । तस्य च मोहं प्रति कारणत्वं सूचितं भवति । यद्यप्यविकारौ ब्रह्मरुद्रौ । देहगेहादिसम्भव इति रुद्रस्य देहोत्पत्यादिनिमित्तकविकाराभावः सिद्धः । तेन च देहाभिमानाभावोऽप्यर्थतः सिद्धः । तथापि रुद्रादेः कादाचित्कात्यल्पासुरावेश-सद्भावाद्बन्धकाभिमानोऽपि तदा अस्तीत्यविरोधः । प्राङ्मूढवदिति ब्रह्मणो मोहयुक्तपुरुषोपमोक्ता । तां व्यनक्ति ॥ सर्वेषामिति ॥ तुशब्दो विशेषद्योतनार्थः । स च रुद्रादिभ्यो विशेषः पारोक्ष्या-त्पूर्णमित्यत्र वक्ष्यते । पूर्वमित्यनादित इत्यर्थः । तथा च स्वयोग्ययावद्गुणादिविशिष्टसर्वव्याप्त-परब्रह्मसाक्षात्कारस्यानादितोऽप्यभावादसावपरोक्षोऽस्य ज्ञानस्याभावो मोहो भण्यते । एवं च शतपूर्व-कल्पात्पूर्वकालीनयोग्यापरोक्षज्ञानाभावाभिप्रायेण मूढवदित्युक्तिरुपपद्यत इति भावः । प्रकारान्तरेणापि मोहमुपपादयति ॥ भारत्यास्त्विति ॥ तुशब्दो विशेषद्योतकः । तं चानुपदं दर्शयिष्यति । भारती-शब्दो सरस्वतीपरः । तथा च ब्रह्मणो भूमाववतीर्णांशरूपेषु ज्ञानवर्जनं क्वचित्प्राप्तापरोक्षज्ञानस्य तिरोभावलक्षणमोहो भण्यत इति योजना ।
अत्रांशरूपेष्वित्युक्त्या प्रसक्तां ब्रह्मणो वाण्याश्च भूमाववतारशङ्कां वारयति ॥ ब्रह्मगायत्रीति ॥ तथा च पूर्वं वायुर्भूत्वा वायुस्थावस्थायाम् । अंशिरूपेषु हनुमदादिरूपेषु कृष्णाकाल्यादिरूपेषु चेत्युक्तं भवति । ब्रह्मपदयोग्यानामनादितः योग्यरूपापरोक्षभाव उक्तः । कदा तर्हि तस्य योग्यापरोक्षोत्पाद इत्यत आह ॥ शतजन्मस्विति ॥ विरिञ्चस्य ब्रह्मत्वेन सह पूर्वशतजन्मसु ज्ञानोदयः श्रुत्यादौ उदीर्यत इत्यर्थः । ब्रह्मत्वमारभ्यातीतशतमे कल्पे योग्यापरोक्षज्ञानोदयः । तदुपरि प्रतिकल्पीय-जन्मस्वंशावतरणं विना अतिरोहिततया प्राप्तापरोक्षज्ञानस्य सत्वात्पुनर्विशेषेष्वापरोक्ष्याधिक्यलाभाच्च शतजन्मसु ज्ञानोदय इत्युक्तम् । तदुक्तं क्रमेण वर्धमानमिति । तर्हि नित्यपूर्णज्ञानत्वोक्तिविरोध इत्यत उक्तम् ॥ पारोक्ष्यादिति ॥ सदैव पूर्णत्वोक्तिः परोक्षज्ञानमपेक्ष्येति भावः । तुशब्दो विशेषद्योतकः । स च विशेषो ज्ञातार्थेष्वेव विशेषविषये वृध्यतिशय इति ज्ञेयम् । सरस्वत्या ब्रह्मात्यन्तसाम्यप्रतीतिवारणाय प्राक् तुशब्दसूचितं किंचिद्विशेषमाह ॥ शतजन्मेति ॥ सरस्वत्या ब्रह्मणा सह शतकालात्पूर्वमेवापरोक्षे जाते तदारभ्य शतजन्मगता अप्यंशिरूपेष्वेव क्वचिदपरोक्ष-ज्ञानाच्छादनं भवेत् । तथा अंशावतरणेष्वपि भवेदित्यर्थः । एतेन ब्रह्मणोंऽशरूपेषु भारत्याश्च ज्ञानवर्जनमिति पूर्ववाक्यं योज्यमिति भवति ।
ननु ब्रह्मणो शरीरत्वमेव कुतः । येन वैवक्षिकं तनुभृत्वमङ्गीकार्यमित्यतो शरीरत्वे प्रमाणमाह ॥ अशरीर इति ॥ एतान्यभ्रादीनि । वैशब्दः प्रसिद्धिद्योतकः । अभ्रादिशब्दानां प्रकृतोपयुक्तार्था-प्रतीतेः प्राधान्यक्रमेणार्थं प्रमाणेनाह ॥ श्रुतिभिरिति ॥ स्तनितत्वात्प्रतिपादितत्वात् । अपो बिभर्त्तीत्यर्थः । अप्शब्दो भूतान्तरोपलक्षक इत्याशयेनोक्तम् ॥ भूतानि भरणादिति ॥ भरतस्य वायोरियं भार्येत्यर्थे अण्प्रत्यये भारतीति रूपः । रतत्वाद्भात्मके विष्णावथवापि जगद्भृतेः । भरतो वायुरुद्दिष्टो भारती च सरस्वतीत्युक्तेरिति भावः । एत एवान्ये रुद्रादय इत्यर्थः । क्वचिदन्यथोक्ते-र्गतिमाह ॥ व्यत्यासेनापीति ॥ स्तन इत्यादिशब्दानां वाय्वादिपरत्वेनापीत्यर्थः । अत्र वायोरशरीरत्वेन तदुत्तरपदस्थब्रह्मणोऽशरीरत्वं कैमुत्यन्यायेन लभ्यत इति ज्ञेयम् ॥ १७ ॥
तस्माद् भवन्तमनवद्यमनन्तपारं
सर्वज्ञमीश्वरमखण्डविकुण्ठधिष्ण्यम् ।
निर्वेदधीरहरहर्वृजिनाभितप्तो
नारायणं नरसखं शरणं प्रपद्ये ॥ १८ ॥
तात्पर्यम्
‘विष्णोर्वायोरनन्तस्य त्रिभिरंशैर्नरः स्मृतः । सेन्द्रैश्चतुर्भिः पार्थस्तु द्वाभ्यां तु बललक्ष्मणावि’त्यंशविवेके ॥ १८ ॥
पदरत्नावली
यस्माद् भगवतोऽन्यो वक्ता नास्ति तस्मादहं नारायणं शरणं प्रपद्ये, मम ज्ञानोपदेशायेति शेषः । भवन्तं पूज्यम् । अनवद्यत्वं पूज्यत्वे हेतुः । अनवद्यत्वे हेतुरनन्तपारत्वं यद्यनन्तपारत्वं तर्हि स्वस्याज्ञानं प्राप्तमत उक्तं सर्वज्ञमिति । बलवत्प्रतिबन्धकत्वेन क्वचिज् ज्ञानमलब्धं स्यादत उक्तम् ईश्वरमिति । देशप्रभुवदीश्वरस्यापि स्थानच्युतिः स्यादत्राह अखण्डेति । अखण्डमविच्छिन्नमविकुण्ठमविनाशि च धिष्ण्यं स्थानं यस्य स तथा । नञ् उभयत्र सम्बध्यते । शरणप्राप्तौ हेतुमाह– निर्वेदेति । कुतो निर्वेद इत्यत्राह– वृजिनेति । एवं विशिष्टोपि नारायणोऽन्यः किं न स्यादित्यत्राह– नरसखमिति । एतद् विशेषणं हरेरिति कुत इतीयमाशङ्का ‘‘विष्णो-र्वायोरनन्तस्य त्रिभिरंशैर्नरः स्मृतः । सेन्द्रैश्चतुर्भिः पार्थस्तु द्वाभ्यां तु बललक्ष्मणौ’’ इत्यनेन परिहर्तव्या
॥ १८ ॥
श्रीनिवासतीर्थीया
तस्माद्भवतोऽन्यस्य वक्तुरभावात् प्रपद्ये । मम ज्ञानोपदेशाय । नरशब्दस्य मनुष्यपरतां वारयितुं तदर्थमाह ॥ विष्णोरिति ॥ नरो नरदेहस्तत्रांशैरित्युक्तावप्यनन्तस्य कर्मनिर्मित इतरयोरावेश इति बोध्यम् । पार्थदेहः सेन्द्रैस्त्रिभिरंशैः । तदेव विव्रियते ॥ चतुर्भिरिति । तत्रेन्द्रकर्मनिर्मितो विष्ण्वादित्रयाणामावेशयुक्तः पार्थो यद्यपि नरान्तर्निविष्टविष्णुभिन्नमूल-रूपभगवदावेशोक्त्या चतुर्णामावेश उक्तस्तथाऽपि स विष्णुशब्देनैव सङ्गृह्यत इति ज्ञेयम् । तदर्थं सेन्द्रादिभिर्विष्ण्वादिभिश्चतुर्भिः पञ्चभिरिति यावदिति वा व्याख्येयमित्याहुः । बललक्ष्मणाख्यौ देहौ द्वाभ्यां विष्णुशेषाख्यांशद्वयाभ्यां युक्तौ स्मृतौ । तत्र शेषकर्मनिर्मितौ विष्ण्वावेशयुक्ताविति विवेकः । एवं च प्रकृते नारायणो नरश्चैव हरिः कृष्णस्तथैव च । चत्वारो धर्मतनया इत्युक्तनरस्य नरसखत्व-मित्यत्र नरशब्देन ग्रहणे तत्सखत्वस्य कृष्णेऽदर्शनादर्जुन एव तद्दर्शनात्स एवात्र ग्राह्य इत्याशयः
॥ १८ ॥
दुर्घटभावदीपिका
नरसखमित्यस्य हरिवाय्वंशाभ्यां युक्तः शेषांशो नरस्तस्य सखायमित्यर्थः ॥ ता.अर्थः ॥ त्रिभिरंशैर्युक्तो देहो नर इति स्मृतः । ज्ञानिनस्त्रयाणामंशानां मध्ये एकमंशं विष्णोरंशमाहुः । अन्यमंशं वायोरंशमाहुः । अपरमंशमनन्तस्य शेषस्यांशमाहुः । सेन्द्रैर् इद्रांश-सहितैश्चतुर्भिर्विष्णुवाय्वनन्तरांशयुक्तो देहस्तु देह एव पार्थ इति स्मृतः । द्वाभ्यां विष्णुशेषाभ्यां युक्तौ देहौ तु देहावेव बललक्ष्मणाविति स्मृताविति । एतेन विष्णोरित्यादि कथनमनन्वितमिति दूषणं परास्तम् । ज्ञानिन इत्यादेः शेषेणान्वयस्योक्तत्वात् ॥ १८ ॥
प्रमेयचन्द्रिका
नरसखमित्युक्तं मूले । को ऽसौ नरो नामेत्यत आह ॥ विष्णोरिति ॥ इत्येतेषामंशैस्त्रिभिर्युतो यः स नरः स्मृत इति योज्यम् । नरोनन्तस्तत्र विष्णुवाय्वोरावेशः । अनन्तो नरनामाऽत्र तस्मिंस्तु नरनामवान् । विशेषेण स्वयं विष्णुर्निविशन्तीति द्वितीयतात्पर्योक्तेः । पार्थ इन्द्रांश इति प्रसिद्धम् । तत्र विष्णुवायुशेषाणामावेश इति ज्ञेयम् । द्वाभ्यां विष्णुशेषाभ्याम् । तत्र शेषांशे बलभद्रे लक्ष्मणे च सङ्कर्षणावेश इति ज्ञेयम् ॥ १८ ॥
श्री भगवानुवाच—
प्रायेण मनुजा लोके लोकतत्वविचक्षणाः ।
समुद्धरन्ति ह्यात्मानमात्मनैवाशुभाशयात् ॥ १९ ॥
तात्पर्यम्
लोके तत्त्वे च विचक्षणाः । ‘पारोक्ष्येणैव तत्त्वं तु लोकं चापि विदन्ति ये । तेऽपि सत्स्नेहनिर्मुक्तास्तमो यान्ति विनिश्चयात् । आपरोक्ष्यान्न च ज्ञानं तेषामुत्पद्यते क्वचिदि’ति षाड्गुण्ये ॥ १९ ॥
पदरत्नावली
लोकतत्वविचक्षणस्योद्धवस्य पुनस्तत्वज्ञानप्रश्नः किमर्थ इत्याशङ्क्य परोक्षलोकतत्वज्ञानस्य सत्स्नेहमन्तरेणोत्पन्नस्य पुरुषार्थसाधनत्वं न स्यात् प्रत्युतानर्थहेतुत्वं च, अपरोक्षज्ञानानुत्पादादित्याशयेनाह– प्रायेणेति । अस्येयमक्षरयोजना । प्रायेण बहुलं लोके ये मनुजा लोके तत्वे च विचक्षणाः सत्स्नेहनिर्मुक्तपरोक्षज्ञाननिपुणास् ते आत्मनैव प्रयत्नेनैव अशुभाशयात्, ल्यब्लोपे पञ्चमी, पापफलदुःखबहुलं तमः प्राप्यात्मानं समुद्धरन्ति निर्मूलयन्ति हि यस्मात् तस्मात् सत्स्नेहयुक्ता लोकतत्वपरोक्षज्ञानविद्याविशारदा आत्मनैव सात्विकमनसैव आविर्भूतापरोक्षज्ञानेनैव अशुभाशयात् पापकारणात् संसारादात्मानं समुद्धरन्ति उन्नयन्ति पन्नगं कूपादिवेति । अनेन भगवद्भक्त्युत्पन्नं ज्ञानं पुरुषार्थोपयोगीति ज्ञानसमुद्रमग्नस्यापि मम श्रेयसे भगवदपरोक्षज्ञानोत्पत्तिप्रकारो वक्तव्य इति तत्प्रश्नः सार्थक इति । यत्नेऽर्केऽग्नौ मनस्यात्मेत्यभिधानादात्मशब्दो यत्नादौ वर्तत इति सिद्धम् । ‘‘पारोक्ष्येणैव तत्वं तु लोकं चापि वदन्ति ये । तेऽपि सत्स्नेहनिर्मुक्तास्तमो यान्ति विनिश्चयात् । आपरोक्ष्यं न च ज्ञानं तेषामुत्पद्यते क्वचित् । ‘‘इति वचानदुक्तोऽर्थभेदः सिद्ध इति सन्तोष्टव्यम् ॥ १९ ॥
श्रीनिवासतीर्थीया
अनुशाधि भृत्यमित्युक्तम् । तत्र किं मदनुशासनेन । प्रधानत्वान्मन एवोद्धारहेतुभूतमिति तदेव गुरुरित्याह ॥ प्रायेणेत्यादि । ननु लोके विषये तत्त्वविचक्षणा-श्चेत्कथमात्मानं समुद्धरन्तीति युज्यते व्याहतेरित्यतो व्याचष्टे ॥ लोके तत्त्वे चेति ॥ अपरतत्त्वे परतत्त्वे चेत्यर्थः । लोके तत्त्वे च विचक्षणाः सर्वेऽप्यात्मानं समुद्धरन्त्येवातः प्रायेणेति कस्मादित्यतः प्रायेणेत्यस्य व्यावर्त्यं प्रमाणेनैव दर्शयति ॥ पारोक्ष्येणेति ॥ सत्स्नेहो सत्सु गुर्वादिषु स्नेहो भक्तिः । तथा च परापरतत्त्वविचक्षणा अपि सत्स्नेहयुक्ताश्चेदात्मानमशुभानामाशयात् । जलाशय इत्यादि-प्रयोगदर्शनात्स्थानभूतात्संसारादात्मना मनसैव समुद्धरन्ति । ये तु वयं परापरतत्त्वं सम्यक् पुस्तकनिरीक्षणेनैव जानीमोऽतः किं गुरुभिरिति मन्वानाः सत्स्नेहं त्यक्त्वा लोकतत्त्वविलक्षणाश्चेन्न समुद्धरन्तीति प्रायेणेत्यस्यार्थ उक्तो भवति ॥ १९ ॥
प्रमेयचन्द्रिका
एवमुद्धवेन कामत्यागोपायेऽत्यादरेण पृष्टे परापरतत्वविमर्शपूर्वकं स्वमनोनिग्रह एव तदुपाय इत्याशयेन भगवतोच्यते ॥ प्रायेणेति ॥ लोके सज्जनसमूहे । लोके अपरतत्वे च । लोके लौकिकेऽर्थे तत्वे परापरतत्वविषय इति वा विचक्षणाः । अत्रापरतत्वज्ञानं सर्वोत्तमत्व-सर्वस्रष्टृत्वादिरूपपरतत्वज्ञानोपयोगितया लौकिकार्थज्ञानं च तस्यानित्यासारतानिश्चयपरे इतरत्र वैराग्येण भगवति भक्त्यतिशयोत्पादायेत्यवगन्तव्यम् । जना आत्मनैव तत्वविमर्शानुगृहीतेन मनसा कामादिकं त्यक्त्वा स्वात्मानं नरकादशुभाकरात्संसारात्समुत्तरंतीति मूलार्थः । अतो लोकस्य यत्तत्वं तस्मिन्विचक्षण इति भ्रांतिं वारयितुं द्वन्द्वात्परं सप्तमीसमास इत्याह ॥ लोके तत्वे चेति ॥ लोकतत्वज्ञा इत्यनुक्त्वा विचक्षणा इत्युक्तेः प्रयोजनमाह ॥ पारोक्ष्येणेति ॥ एवेति ॥ न तु सप्तम्या अनुभवारूढतात्पर्यावसानेनेत्यर्थः । तुशब्दस्तत्वज्ञानस्य लोकसाधारण्यरूपविशेषद्योतनार्थः । तत्वं च लोकमपीत्यन्योन्यसमुच्चये चशब्दौ । नोभयोः साधारण्यं द्योत्यते । सत्सु केशवश्रीब्रह्मादिषु स्नेहः । सत्स्नेहो भक्तिः ।
ननु परोक्षज्ञानपरिपाके अपरोक्षज्ञानवश्यम्भावाद्येषां ज्ञानं समुत्पन्नं तेषां मोक्षो विनिश्चित इत्युक्तेः कथं तमःप्राप्तिरित्यत उक्तम् ॥ आपरोक्ष्यादिति ॥ तथा च लोकवार्त्तातुल्यतया प्राप्तशास्त्र-श्रवणादिना जाततत्वज्ञानस्यात एवात्र सम्यगनुभवारूढस्य भक्त्याद्यनापादकत्वात् । प्रत्युत ततो भूय इव ते तमो य उ विद्यायां रता अप्राप्तत्यागिनः प्राप्तनिष्ठाहीनोऽतिदुःखभागित्युक्तन्यायेन दृढमिथ्याज्ञानपर्यवसानाद्युज्यते तमःप्राप्तिः । अत एवंविधतत्वज्ञानस्यानर्थापादकत्वात्तद्वारणाय विचक्षणा इत्युक्तमिति भावः । अथवा त्रये लोके तत्वे च विचक्षणा लौकिकार्थवत्वावगाहमात्रे कुशला न तु तत्त्वे नियुक्ताः । अत एव स्नेहनिर्मुक्ता लोके स्थिता जना यत्नेऽर्के मन आत्मेत्यभिधानादात्मनैव स्वात्मानम् अशुभाशयात् । ल्यब्लोपनिमित्ता पञ्चमी । अशुभाशयं तमः प्राप्य समुद्धरन्ति शुभलेशादप्युद्धरन्ति दुःखैकमग्ना भवन्तीत्यर्थमभिप्रेत्य प्रमाणमुदाहरति ॥ पारोक्ष्येणैवेति ॥ १९ ॥
आत्मनो गुरुरात्मैव पुरुषस्य विशेषतः ।
यत् प्रत्यक्षानुमानाभ्यां श्रेयोऽसावनुविन्दते ॥ २० ॥
पदरत्नावली
आत्मनैवेत्येवकारेण श्रेयःसम्पत्तौ सात्विकमनसः प्राधान्यमुक्तम् । तदेव प्रतिपादयति आत्मन इति । आत्मनो जीवराशेः श्रेयःसम्पादने गुरुरुपेदेष्टा आत्मैव मन एव । मनसा वा अग्रे सङ्कल्पयत्यथ वाचा व्याहरतीति श्रुतेः । अत सातत्यगमन इति धातोर्निष्पन्नेनात्म-शब्देन शरीर्येव लक्ष्यते, तस्यैव गमनसम्भवात् । तत्रापि विशेषतः पुरुषार्थलक्षणश्रेयःसम्पत्तौ पुरुषस्य मनुष्यशरीरं प्राप्तस्य आत्मन आत्मैव गुरुरिति सम्बध्यते । कुत एतदत्राह– यदिति । असौ पुरुषो मानुषशरीरं प्राप्तो जीवः प्रत्यक्षानुमानाभ्यां श्रेयः पुरुषार्थं विन्दत इति यदत इति मनःपूर्वकं चक्षुषा कृष्यादिना व्रीह्यादिसम्पल्लक्षणश्रेयःप्राप्तिदर्शनेन यागादिसाधनसामाग््रया स्वर्गादि श्रेयः प्राप्यत इत्यनुमीयत इति ॥ २० ॥
श्रीनिवासतीर्थीया
आत्मनैवेत्येतद्विव्रीयते ॥ आत्मन इति ॥ पुरुषस्यात्मनः पुरुषदेहं प्राप्तस्य जीवस्य गुरुर्न पश्वादेः । विशेषतो गुरुत्वं तु तत्ज्ञानसाधनत्वादित्याह ॥ यदिति ॥ यद्येन मनसाऽनुगृहीतः पुरुषः कृष्यादिसाधनेन व्रीह्यादिलक्षणं श्रेयः प्रत्यक्षतो जानाति । पश्चाद्दृष्टान्तेन प्रेक्षावत्प्रवृत्तित्वेन हेतुना यागादिप्रवृत्तेरपि स्वर्गादिफलत्वमनुमानेन जानातीत्यर्थः ॥ २० ॥
प्रमेयचन्द्रिका
मनसैव स्वोद्धार इत्युक्तमुपपाद्यते ॥ आत्मन इति ॥ आत्मनो मन एवात्मनः स्वस्य गुरुः । पुरुषस्येति ॥ पौरुषवतो विवेकिन इति यावत् । मन एव गुरुरिति कुत इत्यत उक्तम् ॥ यदिति ॥ यस्मान्मनसा ततैरिन्द्रियलक्षणप्रत्यक्षेण तथा मनसाऽनुसंहितव्याप्ति-पक्षधर्मतादिमदनुमानेन असौ पुरुषः श्रेयः पुरुषार्थं लभते । मन एव गुरुरिति चोक्तमित्यर्थः
॥ २० ॥
पुरुषत्वे च मां धीराः सांख्ययोगविशारदाः ।
आविस्तारं प्रपश्यन्ति सर्वशक्त्युपबृंहितम् ॥ २१ ॥
पदरत्नावली
एतदेव विशदयति– पुरुषत्व इति । पुरुषत्वे मनुष्यशरीरप्राप्तौ सत्यां साङ्ख्ययोगविशारदाः साङ्ख्ययोगयोर् भगवत्प्रीतिजनकज्ञानकर्मणोर् विशारदाः, भगवत्प्रीत्यैव भगवदर्पण–बुद्ध्याऽनुष्ठीयमानसाधना इत्यर्थः । धीरा धियि रममाणाः । सर्वशक्त्युपबृंहितं मामाविस्तारं स्वबुद्ध्यनुसारेण यथायोग्यं विश्वरूपपर्यन्तं प्रपश्यन्ति । यद्वा आ सन्तापः, आ संसारसन्तापं वि विविधं तारयतीत्याविस्तारस्तम् । आस्तु सन्तापकोपयोरिति यादवः । नित्याविर्भूतनैर्मल्यं वा । यत्र विष्णुर्गुणाधिक्यं दर्शयेद् वस्तु तद् वरमिति पुरुषदेह एव पश्वादिदेहेभ्यः स्वसन्निधानाति-शयेन बुद्धिवैशद्यसम्भवादिति भावः ॥ २१ ॥
श्रीनिवासतीर्थीया
पुरुषत्वे पुरुषदेहप्राप्तौ सत्याम् । साङ्ख्यं ज्ञानं योगः कर्मयोग आविस्तारमतिशयेनाविः प्रकटमाविस्तारम् । अतिशयितप्राकट्येनापरोक्ष्येणेत्यर्थः । पुरुषत्वे वाविस्तरात्मेति श्रुतेरिति भावः ॥ २१ ॥
प्रमेयचन्द्रिका
एतदेव विवृणोति ॥ पुरुषत्व इति ॥ मानुषदेहप्राप्तौ साङ्ख्ययोगविशारदा ज्ञानशास्त्रे ध्यानादियोगशास्त्रे च कुशलाः । अत एव धीषु रता ज्ञानिनः । सर्वशक्त्युपबृंहितम् आविस्तारं स्वस्वज्ञानयोग्यगुणविस्तारसहितं मां पश्यन्तीत्यर्थः ॥ २१ ॥
एकद्वित्रिचतुष्पादो बहुपादस्तथाऽपदः ।
बह्व्यः सन्ति पुरः सृष्टास्तासां मे पौरुषी प्रिया ॥ २२ ॥
अत्र मां मार्गयन्त्यद्धा युक्ता हेतुभिरीश्वरम् ।
गृह्यमाणैरात्मलिङ्गैः स्वबाह्य मनुमानतः ॥ २३ ॥
पदरत्नावली
बह्वीष्वासु पूर्षु का पूस्तव प्रेष्ठेति तत्राह– तासामिति ॥ तत्र कारणमाह अत्र– मामिति । अत्र पुरुषशरीरे मनोयोगयुक्ता योगिनः स्वतो बाह्यमीश्वरं मामद्धा प्रत्यक्षीकर्तुं मार्गयन्ति विचार्य ज्ञातुं यतन्ते । कैः । हेतुभिः सद्युक्तिभिः । अनुमानतः विनिर्दोषपञ्चावयव-लक्षणवाक्यात्मकैः । किं प्रमाणकैः । चक्षुरादिना गृह्यमाणै रूपादिभिरात्मनः परमात्मनो लिङ्गैर् गमकैर्ज्ञापकैः । जीवस्य दर्शनादिस्वातन्त्र्याभावेन तत्कर्ता अन्य ईश्वरोऽप्यस्तीत्यनुमीयत इति
॥ २२,२३ ॥
श्रीनिवासतीर्थीया
पौरुषी पूः ॥ प्रियत्वमेवाह ॥ अत्रेति ॥ अत्र पौरुषे देहे योगयुक्ता हेतुभिर्ज्ञानोपदेशकारणैर्गुर्वादिभिः । तदुपदेशेनेति यावत् । केवलानुमानतोऽग्राह्यमीश्वरं मामात्मनो मम ज्ञापकैर्गृह्यमाणैश्चक्षुरादिना गृह्यमाणै रूपादिज्ञानलक्षणकार्यैर्मागयन्त्यन्वेषणं विचारं कुर्वन्ति । जीवेच्छया रूपादिपदार्थज्ञानाजननात्तत्कर्ता स्वतन्त्रोऽस्ति कश्चित्स एव भगवानित्यागमानुगृहीतानुमानेन जानन्तीति भावः ॥ २२,२३ ॥
दुर्घटभावदीपिका
युक्ता भगवति मनोयोगयुक्ताः । अत्र पुरुषदेहे देहे । हेतुभिः प्रकृत्यादिकारणैः स्वेन गृह्यमाणैः रूपादिभिरात्मलिङ्गैः स्वात्मासाधारणधर्मैश्च । अनुमानतोऽनुमानैः । स्वबाह्यम् । स्वेत्युपलक्षणम् । स्वस्मादन्यस्माच्च भिन्नमीश्वरं स्वतन्त्रम् । मामद्धा मार्गयन्तीति । अयं भावः । प्रकृत्यादिर्भिजगदुत्पत्त्यादिकार्याणि भवन्ति । यस्य च रूपादिज्ञानं भवति स्वात्मन्य-साधारणधर्माश्च भवन्ति प्रकृत्यादीनां स्वस्य च स्वतः प्रवृत्तेरयोगात् । सर्वभिन्नः स्वतन्त्रो नारायणोऽङ्गीकर्तव्य इति निर्णयं कुर्वन्तीति ॥ २३ ॥
प्रमेयचन्द्रिका
मनुष्यदेह एव सम्यज्ञानं पुरुषत्वे वाविस्तरात्मा स हि ज्ञानेन संपन्नतम इत्याद्युक्तेरित्यभिप्रेत्योच्यते श्लोकद्वयेन । एकेति पाछब्दोयम् । एकपात्पक्षी त्रिपात्पक्षिविशेषः । युक्ता मनोयोगयुक्ता योगिनः । अष्टपाद्रुरुर्बहुपात्सर्पः । अत्र पुरुषशरीरे अनुमानतः केवलमनुमानतो अग्राह्यम् । ईश्वरं मां गृह्यमाणैः पक्षलिङ्गव्याप्त्यादिग्राहकश्रुतिस्मृतिप्रत्यक्षानुकूलैरिति यावत् । आत्मलिंगैः परमात्मावगमकैर्हेतुभिर्मागयन्ति विचार्य ज्ञातुं यतन्त इत्यर्थः ॥ २२,२३ ॥
अत्राप्युदाहरन्तीममितिहासं पुरातनम् ।
अवधूतस्य संवादं यदोरमिततेजसः ॥ २४ ॥
अवधूतं द्विजं कञ्चिच्चरन्तमकुतोभयम् ।
कविं निरीक्ष्य निपुणं यदुः पप्रच्छ धर्मवित् ॥ २५ ॥
पदरत्नावली
यथाहं संसाधयामि तथा मां शाधीत्युद्धववाक्यमवधारयन् उक्तमर्थमितिहासेन संवेदयति अत्रेति । अत्र पुरुषशरीरे अहं निर्मार्गणेन सुलभ इत्येतस्मिन्नर्थे अवधूतयदुसंवाद-रूपमितिहासं पुरावृत्तमुदाहरति । अस्यैव विवरणं पुरातनमिति । अमिततेजसो ऽनल्पबलस्य । तेजो बले प्रभावेऽन्ने ज्योतिष्यर्चिषि रेतसीति च ॥ २४ ॥
श्रीनिवासतीर्थीया
अत्र प्रायेणेति श्लोकार्थे । अत्र मामिति श्लोकार्थे च । इतिहासपुरातनशब्दयोरुभयोरपि पुरावृत्तवाचित्वाद्विशिष्टपराणां शब्दानामिति न्यायेनेतिहासशब्दो वृत्तमात्रवाची । पुरातनवृत्तान्तमित्यर्थः ॥ २४,२५ ॥
प्रमेयचन्द्रिका
इतिहासं पुरावृत्तं तस्यैव विवरणम् ॥ पुरातनमिति ॥ २५ ॥
कुतो बुद्धिरियं ब्रह्मन्नकर्तुस्ते विशारदा ।
यामासाद्य भवान् लोकान् विद्वांश्चरति बालवत् ॥ २६ ॥
पदरत्नावली
कुतो गुरोः । अकर्तुर्निषिद्धाचरणरहितस्य अशनादिप्रवृत्तिशून्यस्य च
॥ २६ ॥
श्रीनिवासतीर्थीया
अकर्तुर्देहधारणोपयुक्तभोजनादिक्रियाकर्तुः । कुतः कस्माद्गुरोः सकाशाद्विद्वानपि बालवच्चरत्यज्ञवच्चरति ॥ २६ ॥
प्रमेयचन्द्रिका
अकर्त्तुर्वधकर्मरहितस्य ॥ २६ ॥
प्रायो धर्मार्थकामेषु विवित्सायां च मानवाः ।
हेतुनैव समीहन्ते आयुषो यशसः श्रियः ॥ २७ ॥
पदरत्नावली
बालवत् सञ्चरणं ज्ञानसम्पादनाय किं न स्यादित्याशङ्क्य सत्यं नायं मनुष्यधर्मः किन्तु तेषां धर्मादिष्वेव प्रवर्तनम्, आत्मतत्वविवित्सायां सत्यां चेत्याह– प्राय इति । प्रायो मानवाः परमात्मतत्वविवित्सायां सत्यां चेह धर्मादिष्वेव समीहन्ते प्रवर्तन्ते आयुरादिप्राप्तये च । हेतुना तत्प्राप्तिसाधनसामग््रयेण ॥ २७ ॥
श्रीनिवासतीर्थीया
त्वयि लोकवैलक्षण्यमाश्चर्यमित्याह ॥ प्राय इत्यादिना ॥ विवित्सायां च भगवत्तत्त्वं ज्ञास्याम इतीच्छायां सत्यामप्येवमिच्छां कुर्वाणा अप्यायुरादेर्हेतुना तत्प्राप्तिरूपप्रयोजनायैव धर्मादिष्वीहन्ते । तानाचरन्तीत्यर्थः । भगवज्ज्ञानाय धर्मादिकं न कुर्वन्तीति यावत् ॥ २७ ॥
प्रमेयचन्द्रिका
अवधूतस्येतरवैलक्षण्यं वक्तुं लोकस्थितिरुच्यते ॥ प्राय इति ॥ मानवाः परमात्मतत्वजिज्ञासायां जातायामपि हेतुना कारणविशेषेण प्रायो बहुलम् । धर्मार्थकामेषु आयुषो यशसः श्रियश्चार्थे समीहंते प्रवर्तन्त इत्यर्थः ॥ २७ ॥
त्वं तु कल्पः१ कविर्दक्षः सुभगोऽमृतभाषणः ।
न कर्तुमीहसे२ किञ्चिज्जडोन्मत्तपिशाचवत् ॥ २८ ॥
पदरत्नावली
तद्वैलक्षण्यमाह– त्वन्त्विति । शक्त्यादिसाधनसामग््रयभावादेवमवस्थानमिति तत्राह– कल्प इति कल्पः समर्थः, ऊहापोहविशारद इति यावद् । कविर्विवेकी, दक्षो कायबलवान्, सुभगः सुन्दरः । कस्यचित् कर्मणः किञ्चिन्नेहसे च । न कर्तुमिच्छसे किञ्चिदिति क्वचित् पाठः । जडोन्मत्तपिशाचवच्चरसि ॥ २८ ॥
श्रीनिवासतीर्थीया
शक्त्यभावान्नाहं समीह इति चेत्तत्राह ॥ त्वं त्विति ॥ कल्पः समर्थो, दक्षः पटुतरालस्यशून्यः । सुभगः सुखकान्तिमान् । किञ्चिदपि कर्म कर्तुं नेहसे न यत्नं करोषि
॥ २८ ॥
प्रमेयचन्द्रिका
त्वन्तु न तादृश इत्युच्यते ॥ त्वं त्विति ॥ कल्यो निवृत्तकर्मणि दक्षस्तदितरत्र । शुभैकभागीवभगः ॥ २८ ॥
जनेषु दह्यमानेषु कामलोभदवाग्निना ।
न तप्यसेऽग्निना मुक्तो गङ्गाम्भस्थ इव द्विपः ॥ २९ ॥
पदरत्नावली
स्पर्शविहीनस्य विषयभोगविहीनस्य । केवलात्मनः शरीरमात्रपरिग्रहस्य
॥ २९–३० ॥
श्रीनिवासतीर्थीया
कामलोभलक्षणदवाग्निना ॥ २९ ॥
त्वं हि नः पृच्छतां ब्रह्मन्नात्मन्यानन्दकारणम् ।
ब्रूहि स्पर्शविहीनस्य भवतः केवलात्मनः ॥ ३० ॥
**तात्पर्यम् **
केवलात्मनः शरीरमात्रपरिग्रहस्य ॥ ३० ॥
श्रीनिवासतीर्थीया
आत्मनि स्वस्मिन् । स्पर्शस्तदुपलक्षितविषयभोगः ॥ ३० ॥
दुर्घटभावदीपिका
हे ब्रह्मन् अवधूत । पृच्छतां नः केवलात्मनः केवलः स्त्रीपुत्र्यादि-परिग्रहरहित आत्मा देहो यस्य तस्य शरीरमात्रम् । अपरिग्रहस्येति यावत् । अत एव स्पर्शविहीनस्य विषयसम्बन्धरहितस्य । विषयानुभवजन्यसुखरहितस्येति यावत् । भवत आत्मन्यन्तःकरणे विद्यमानं हि त्वदनुभवप्रसिद्धं ध्यानादिरूपानन्दकारणं त्वं ब्रूहीति । अयं भावः । स्त्रीपुत्रादिपरिग्रहाभावेन विषयानुभवजन्यसुखायोगान् मनोवृत्तिध्यानादिजन्यं सुखं वक्तव्यम् । तद्ध्यानादिकं कीदृशमिति । एतेनात्मनीत्येतदनन्वितमिति दूषणं परास्तम् । विद्यमानमित्यस्य शेषेणान्वयस्योक्तत्वात् ॥३०॥
प्रमेयचन्द्रिका
स्पर्शविहीनस्य विषयभोगरहितस्य । केवलात्मन इत्याद्यप्रतीतेरनूद्यार्थमाह ॥ केवलेति ॥ केवलमात्मा शरीरं यस्य वस्त्रादिपरिग्रहान्तररहितस्येति यावत् ॥ ३० ॥
श्री भगवानुवाच—
यदुनैवं महाभागो ब्रह्मण्येन सुमेधसा ।
पृष्टः सभाजितः प्राह प्रश्रयावनतं द्विजः ॥ ३१ ॥
पदरत्नावली
ब्रह्मण्येन सुमेधसेत्युपदेशार्हतामाह । निरपेक्षस्य प्रतिवचने हेतुं सूचयति सभाजित इति ॥ ३१ ॥
ब्राह्मण उवाच—
सन्ति मे गुरवो राजन् बहवो बुद्ध्युपाश्रिताः ।
यतो बद्धिमुपादाय मुक्तोऽटामीह तान् शृणु ॥ ३२ ॥
पदरत्नावली
बुद्ध्युपाश्रिता बुद्ध्या सङ्गृहीताः । यतो येभ्यः । शिक्षावृत्तिमुपादाय । शरीराभिमानमुक्तः । तान् गुरून् ॥ ३२ ॥
श्रीनिवासतीर्थीया
कुतो बुद्धिरित्यस्योत्तरमाह ॥ सन्तीति ॥ बुद्ध्या मदीय-बुद्ध्यैवोपाश्रिताः सम्पादिताः । यतो गुरुसमुदायात् । मुक्तोऽभिमानात् ॥ ३२ ॥
प्रमेयचन्द्रिका
मूले बुध्द्युपाश्रिता इति अध्यात्मशिक्षोपयुक्तत्वेन स्वबुध्या इत्यर्थः । ज्ञानानुकूलत्वसाधर्म्याद्गुरुत्वमुपचरितमिति भावः । तदेव गुरुत्वं व्यनक्ति ॥ यत इति ॥ येभ्यो गुरुभ्यः बुद्धिं शिक्षाविशेषरूपाम् । मुक्तो अभिमानात् । तान् गुरून् ॥ ३२ ॥
पृथिवी वायुराकाश आपोऽग्निश्चन्द्रमा रविः ।
कपोतोऽजगरः सिन्धुः पतङ्गो मधुकृद् गजः ॥ ३३ ॥
मधुहा हरिणो मीनः पिङ्गला कुररोऽर्भकः ।
कुमारी शरकृत् सर्प ऊर्णनाभिः सुपेशकृत् ॥ ३४ ॥
एते मे गुरवो राजन् चतुर्विंशतिराश्रिताः ।
शिक्षावृत्तिभिरेतेषामन्वशिक्षमहं ततः ॥ ३५ ॥
यतो यदनुशिक्षामि यथा वा नाहुषात्मज ।
तत् तथा पुरुषव्याघ्र निबोध कथयामि ते ॥ ३६ ॥
पदरत्नावली
एतेषां पृथिव्यादीनां शिक्षावृत्तिभिः शिक्षाकरणीभिर् वृत्तिभिः ॥ यतो यस्मात् पृथिव्यादेर् यद् वर्तनम् अन्वशिक्षं शिक्षामि शिक्षेत् तत् तथा निबोध । बोधतिः परस्मैपदी
॥ ३३–३६ ॥
श्रीनिवासतीर्थीया
शिक्षावृत्तिभिः परशिक्षाकरणस्वभावोपेतवृत्तिभिर्वर्तनैः ॥ ३५ ॥
दुर्घटभावदीपिका
हे राजन् । यत एतेषां पृथिव्यादीनां शिक्षावृत्तिभिः शिक्षाहेतुवृत्तिभि-रहमन्वशिक्षं ततो मे मया चतुर्विंशतिरेते पृथिव्यादयो गुरव इत्याश्रिता गुरुत्वेन स्वीकृता इति । एतेन तत इत्येतद्व्यर्थमिति दूषणं परास्तम् । पृथिव्यादीनां गुरुत्वेन स्वीकारे पृथिव्यादिनिष्ठशिक्षकत्वं हेतुरिति वक्तुं तत इत्युक्तमिति स्वीकरणात् ॥ ३५ ॥
प्रमेयचन्द्रिका
शिक्षावृत्तिभिः शिक्षाप्रापकवृत्तिभिः ।
भूतैराक्रम्यमाणोऽपि धीरो दैववशानुगैः ।
तद्विदां१ न चलेन्मार्गादनुशिक्षन् क्षितेर्व्रतम् ॥ ३७ ॥
पदरत्नावली
क्षितेः शिक्षितां बुद्धिमाह– भूतैरिति । तद् दैवं विन्दन्तीति तद्विदस् तेषां दैवज्ञानां मार्गात् । तद्विद्वानिति पाठे तस्य दैवस्य वशानुगत्वं जानन् मार्गात्, सतामिति शेषः । क्षितेर्व्रतमचलत्वम् । अत एवाचलेति पृथिव्या नामान्तरम् ॥ ३७ ॥
श्रीनिवासतीर्थीया
दैववशानुगैर्दैववशात्प्राप्तैः । तद्विद्वान् । एते दैववशा न स्वतन्त्रा इति भगवद्वशत्वं विद्वान्मार्गात्सतां मार्गात्क्षमारूपाद्व्रतमचलत्वादिरूपम् । क्षित्यामिदं स्पष्टम्
॥ ३७ ॥
शश्वत् परार्थसर्वेहां परार्थैकान्तसम्भवम् ।
साधुः शिक्षेत भूमेश्च अनुशिक्षं व्रतान्तरम् ॥ ३८ ॥
तात्पर्यम्
परार्थैकान्तसम्भवम् । आत्मनो वृद्धिश्च परार्थेति । ‘सज्जनार्थेऽनुमन्येत ऐहिकीं वृद्धिमात्मनः । पारत्रिकीमैहिकीं च प्रीतये गुरुदेवयोः । देवतानां च सर्वेषां स्वोत्तमानां च सर्वश’ इति च ॥ ३८ ॥
पदरत्नावली
भूमेः शिक्षितं व्रतान्तरं बुद्धिं चाह– शश्वदिति । सर्वदा परेषां गुरुदेवादिसज्जनानामर्थे आत्मनः सर्वेहां सकलचेष्टां सम्भवं वृद्धिं च । ‘‘सज्जनार्थेऽनुमन्येत एैहिकी वृद्धिमात्मनः’’ इत्यादेरयमेवार्थ इति । शिक्षेत, नियमेनेति शेषः ॥ ३८ ॥
श्रीनिवासतीर्थीया
शश्वत्सर्वदा परेषां गुरुदेवतादिसज्जनानामर्थ एवात्मनः सकलचेष्टाम् । अत्र परार्थैकान्तसम्भवमित्येतदनूद्य तत्तात्पर्यमाह ॥ परार्थेति ॥ एकान्तशब्दो नियमवाची । तथा च परार्थे नियमनसम्भवमभिवृद्धिमित्यर्थः । तत्तात्पर्यमात्मन इत्यनेनोच्यते । भूमेरपि सस्याभिवृद्धिः परार्थेति प्रसिद्धैव । तत्र प्रमाणं सज्जनेति ॥ सामान्येनोक्तं विशदयति । न केवलमैहिकीं पारत्रिकीं परलोकहेतुभूतां ज्ञानादिरूपां वृद्धिं च । स्वस्योपदेष्टैव गुरुशब्देनोच्यते । स्वोपास्यदेवतैव देवता शब्देनोच्यत इति प्रतीतिनिरासाय विवृणोति ॥ देवतानां चेति ॥ सर्वेऽपि स्वात्मनो मुख्याः क्रमाद्गुरव ईरिता इति वचनात्स्वोत्तमा अपि गुरव इति ज्ञेयम् ॥ ३८ ॥
दुर्घटभावदीपिका
शश्वत्सर्वदा परार्थसेवेहाम् । अत्रोत्तमवाची परशब्दो गुर्वादिपरः । गुर्वाद्यर्थं सर्ववैदिकलौकिकचेष्टां परार्थैकान्तसम्भवम् । अत्र परशब्दः स्वातिरिक्तहरिभक्तजनपरः । हरिभक्तजनार्थं मुख्यतः स्वस्य विद्यमानं सर्वं लौकिकमैश्वर्यं च साधु सम्यक् शिक्षेत कुर्यादिति भूमेर्व्रतान्तर-मन्वशिक्षमिति । एतेन परार्थैकान्तसम्भवमित्येतत्परार्थसर्वेहामित्यनेन पुनरुक्तमिति दूषणं परिहृतम् । परार्थसर्वेहामित्यनेन गुर्वाद्यन्तर्गतपरमेश्वरप्रीत्यर्थं सर्वलौकिकवैदिकचेष्टाः कर्तव्या इत्युच्यन्ते । परार्थैकान्तसम्भवमित्यनेन स्वस्य विद्यमानं सर्वं लौकिकमैश्वर्यं ब्राह्मणाद्यन्तर्गतपरमेश्वरप्रीत्यर्थं ब्राह्मणादिभ्यो देवमुच्यत इत्यभ्युपगमात् ॥ ता.अर्थः ॥ परार्थैकान्तसम्भवमित्यनेनात्मनो वृद्धिः स्वस्य विद्यमानं सर्वलौकिकमैश्वर्यं परार्थे सज्जनार्थं यथा स्यात् तथा कुर्यादिच्युच्यते । परार्थसर्वेहामित्यनेन गुर्वाद्यर्थं सर्वं लौकिकं कर्म कर्तव्यमित्युच्यते । अतो न पुनरुक्तमिति शेषः । उक्तार्थे प्रमाणमाह ॥ सज्जनार्थ इति । सज्जनार्थे हरिभक्तजनार्थे आत्मनो विद्यमानां सर्वामैहिकीं वृद्धिं सुवर्णरूपां सम्पत्तिमनुमन्येत कुर्वीत । गुरुदेवयोः । अत्र देवशब्दो मुख्यामुख्यन्यायेन नारायणपरः । गुरुनारायणयोः सर्वशः सर्वासानां देवतानां लक्ष्म्यादीनां सर्वेषां स्वोत्तमानां च प्रीतये पारत्रिकीमैहिकीं च सम्पत्तिं कुर्यादिति ॥ ३८ ॥
प्रमेयचन्द्रिका
परार्थसर्वेहां परेषां गुरुदेवतादिसज्जनानामर्थे सर्वेहां सकलचेष्टाम् । अत्र परार्थैकान्तसम्भवमित्यस्यार्थाप्रतीतेरनूद्यार्थमाह ॥ परार्थेति ॥ आत्मन इति योग्यतया सम्बन्धः । सम्यग्भवत्यनेन पुरुष इति सम्भवो वृद्धिः । परार्थैकान्तं केवलसम्भवं वृद्धिं शिक्षेत इत्यर्थमभिप्रेत्य उक्तमात्मनो वृद्धिश्चेत्याह ॥ परार्थेतीति ॥ इतिशब्दस्य मूलगतेन शिक्षेत इत्यनेनान्वयः । परशब्दविवक्षितमर्थं प्रमाणेन दर्शयति ॥ सज्जनार्थ इति ॥ अत्र सज्जनपदेन मोक्षयोग्यानां ग्रहणम् । तथा चैहिकी वृद्धिः सकलमोक्षयोग्यार्थे । पारत्रिकैहिकवृद्धिद्वयं स्वोत्तमानां विष्णोश्च प्रीत्यर्थे कल्पयेदिति भावः ॥ ३८ ॥
प्राणवृत्त्यैव सन्तुष्यन् मुनिर्नैवेन्द्रियप्रियैः ।
ज्ञानं यथा न नश्येत नावकीर्येत वाङ्मनः ॥ ३९ ॥
पदरत्नावली
एवंविधज्ञानानि शिक्षमाणस्य मुनेर्वृत्तिप्राकारमाह प्राणवृत्त्येति । मुनिर्यावत् प्राणवृत्त्या शरीरयात्रया सन्तुष्येत् तावत्यैव निर्वहेत् । एवकारव्यावर्त्यमाह– नैवेति । तत्रापि ज्ञाननाशकारणानि मनोविक्षेपनिमित्तानि च द्रव्याणि न सेवेतेत्याशयेनाह– ज्ञानमिति ॥३९॥
श्रीनिवासतीर्थीया
ननु यदि परार्थैकान्तसम्भवमित्यात्मन ऐहिकी वृद्धिः परार्थ एवेत्युक्तं तथात्वे स्वदेहधारणमेव न स्यादित्यत आह ॥ प्राणवृत्त्यैवेति । देहे प्राणानां वृत्तिरवस्थानं यावत्या वृत्त्या भविष्यति तावत्यैव वृत्त्येत्यर्थः । प्राणवत्त्युपयुक्तवृत्तिभिन्ना सर्वाप्यैहिकी वृद्धिः परार्थ एवेत्याशयः । एवशब्दव्यावर्त्यं दर्शयति ॥ नैवेति ॥ इन्द्रियप्रीतिकरैर्यथेष्टैर्विषयैः प्राप्तैर्न सन्तुष्येदित्यन्वयः । प्राणवृत्त्यैव सन्तुष्येदित्युक्तम् । तत्रापि सम्यग्ज्ञाननाशकराणि मनोविक्षेपकरणानि च द्रव्याणि न सेवेतेत्याह ॥ ज्ञानमिति ॥ नावकीर्येत विक्षिप्तं न भवेत् । तथा प्राणवृत्त्येत्यन्वयः
॥ ३९ ॥
प्रमेयचन्द्रिका
मूले ननु सर्वस्यापि वृद्धेर्क्रियायाश्च परार्थत्वे स्वदेहधारणायोग इत्याशङ्क्य ज्ञानानि शिक्षयतो मुनेर्वृत्तिप्रकार उच्यते ॥ प्राणवृत्येति ॥ प्राणा यया वृत्या वर्त्तेयुस्तावन्मात्रया वृत्यैवालम्बुद्धिं प्राप्नुयात् । एवकारव्यावर्त्यमुच्यते ॥ नैवेति ॥ तत्रापि ज्ञाननाशहेतुनिमित्त-मनोविक्षेपनिमित्तानि वस्तूनि न सेवेतेत्युच्यते ॥ ज्ञानमिति ॥ यद्वा प्राणवृत्यैवेत्येतद्विवरणम् ॥ ज्ञानमिति ॥ सर्वथा अदनाभावाद् ज्ञानं लुप्यते । अन्नमयं हि सौम्यमन इत्युक्तेः । अधिकादने च मनउत्सेकेन विषयविक्षेपो जायते । नात्यश्नतस्तु योगोऽस्ति नचैकान्तमनश्नत इत्युक्तेः । अतो यथा ज्ञानं न नश्येत् तथा मनो यथा न विकीर्येत तादृश एवादनाद्युक्तप्राणवृत्यैव तुष्येदित्यर्थः
॥ ३९ ॥
विषयेष्वाविशन् योगी नानाधर्मेषु सर्वतः ।
गुणदोषान्वयेनात्मा न विषज्जेत वायुवत् ॥ ४० ॥
पार्थिवेष्विह देहेषु प्रविष्टस्तद्गुणाश्रयः ।
गुणैर्न युज्यते योगी गन्धैर्वायुरिवात्मदृक् ॥ ४१ ॥
पदरत्नावली
वायोः शिक्षिता का बुद्धिरिति तत्राह– विषयेष्विति । विषयेष्वाविशन् विषयाननुभवन् योग्यात्मा योगी जीवः गुणदोषसम्बन्धेन न विषज्जेत संसक्तो न भवेत् । गानादि-नानाधर्मेषु ॥ पार्थिवेषु पृथिवीकार्येषु प्रविष्टः । तद्गुणाश्रयः जन्मदुःखादिदेहधर्माश्रयः । गुणैर्दुःखादिभिः
॥ ४०,४१ ॥
श्रीनिवासतीर्थीया
वायोः शिक्षितबुद्धिप्रकार उच्यते ॥ विषयेष्विति । योग्यात्मा योग्यजीवः । नानाधर्मेषु शीतोष्णत्वाद्यनेकधर्मवत्सु । विषयेषु स्पर्शादिविषयेष्वाविशन् अनुभवन् । गुणदोषान्वयेन गुणदोषसम्बन्धेन । शुभाशुभविषयसम्बन्धेनासक्तो न भवेत् । तद्गुणाश्रयः । देहप्रयुक्ता-शनापिपासाजन्यदुःखाद्याश्रयो योगी । गुणैर्दुःखादिभिर्न युज्यते न सम्बद्ध्यते न लिप्यत इत्यर्थः । यथा वायुर्गन्धैः सुरभ्यसुरभिगन्धोपेतैः पुष्पावयवैः । शुद्धादिरूपपार्थिवपदार्थैः सम्बन्धोऽपि तद्गुणेन सुरभ्यादिना न लिप्यते एवमित्यर्थः ॥ ४०,४१ ॥
प्रमेयचन्द्रिका
वायोः शिक्षितमुच्यते ॥ विषयेष्विति ॥ योगी ध्यानादियोगवानात्मा जीवः । तद्गुणाश्रयः देहधर्माश्रयः । गुणैर्दुःखादिदेहधर्मैः ॥ ४०,४१ ॥
अन्तर्बहिश्च स्थिरजङ्गमेषु
ब्रह्मात्मभावेन समन्वयेन ।
व्याप्त्याऽव्यवच्छेदमसङ्गमात्मनो
मुनिर्नभोवद् विततस्य भावयेत् ॥ ४२ ॥
तात्पर्यम्
‘जीवान्तर्यामको विष्णुरात्मनामा समीरितः । तस्य तु ब्रह्मरूपत्वा-द्बहिरन्तस्तथैव च । पश्येदाकाशवद्व्याप्तिमसङ्गत्वं च नित्यश’ इति तन्त्रभागवते ॥४२॥
पदरत्नावली
नभसः शिक्षितमाह– अन्तरिति । मुनिर्विततस्य व्याप्तस्याकृतितः । आत्मनः परमात्मनः । नभोवदव्यवच्छेदं व्याप्तत्वमखण्डत्वमित्यर्थः । असङ्गमसङ्गत्वं च भावयेच् चिन्तयेत् । कुत्र कथमत उक्तं स्थिरजङ्गमेषु । स्थिरजङ्गमेषु चराचरात्मकेषु वस्तुषु अन्तरात्मभावेन अन्तर्यामित्वेनाणुत्वव्याप्त्या बहिर्ब्रह्मभावेन बृहत्त्वेन महत्त्वव्याप्त्या (इति) । इदं केन सिद्धमत्राह– समन्वयेनेति । उपक्रमादितात्पर्यलिङ्गयुक्तप्रमाणेन । आत्मभावेन स्वैक्येनेत्यन्यथाव्याख्यानं ‘‘जीवान्तर्यामको विष्णुरात्मनामा समीरितः । तस्य तु ब्रह्मरूपत्वाद् बहिरन्तस्तथैव च । पश्येदाकाशवद् व्याप्तिमसङ्गस्य च नित्यशः’’ इति प्रमाणविरुद्धम् । तस्मान्नाङ्गीकर्तव्यः सोऽर्थ इति ॥ ४२ ॥
श्रीनिवासतीर्थीया
नभसः शिक्षितमाह ॥ अन्तरिति ॥ इमं श्लोकं प्रमाणेन व्याचष्टे ॥ जीवेति ॥ तस्यात्मनाम्नः । उपलक्षणमेतत् । ब्रह्मणश्चात्मरूपत्वादित्यपि ग्राह्यम् । अनेन ब्रह्मात्मभावेन व्याप्त्येति विवृतं भवति । बहिरन्तर्व्याप्तिमित्यन्वयः । पश्येदिति भावयेदित्यस्यार्थः ॥ तथा चायं मूलार्थः ॥ मुनिः स्थिरजङ्गमस्यान्तर्बहिश्च विततस्यात्मनोऽव्यवच्छेदमपरिच्छेदं भावयेत्पश्येत् । ननु स्थिरजङ्गमेषु न विततत्वमन्तःस्थितस्य बहिरभावाद्बहिष्ठस्यान्तरभावादित्यत आह ॥ ब्रह्मात्मभावेन व्याप्त्येति ॥ बहिष्ठस्य ब्रह्मरूपस्यान्तः, आत्मभावेन व्याप्त्याऽन्तः-स्थितस्यात्मनो बहिर्ब्रह्मभावेन व्याप्त्या विततत्वं युक्तमित्यर्थः । अस्मिन्नर्थे प्रमाणमुच्यते ॥ समन्वयेनेति ॥ अस्मिन्नर्थे वेदानामुपक्रमादिप्रमाणशक्तितात्पर्यलक्षणसम्बन्धरूपसमन्वयेनेदं युक्तमिति शेषः । नभोवदसङ्गत्वं च भावयेदिति ॥ ४२ ॥
दुर्घटभावदीपिका
मुनिर्ब्रह्मात्मभावेन परब्रह्मस्वरूपत्वेन समन्वयेन वेदादिप्रमाणेन च सिद्ध्या न भवेत् । स्थिरजङ्गमेष्वन्तः स्थिरजङ्गमेभ्यो बहिश्च व्याप्त्या विततस्य विशिष्टस्यात्मनो जीवान्त-र्यामिण आत्मनामकस्य भगवतोऽव्यवच्छेदमभेदमसङ्गं सङ्गाभावं च भावयेदिति । एतेन ब्रह्मात्मभावेन समन्वयेनेत्येतद्व्यर्थमिति दूषणं परास्तम् । जीवान्तर्यामिणोऽणुत्वाद्व्याप्तत्वं कथमित्याशङ्कापरिहारार्थं ब्रह्मात्मभावेनेत्यादिना तदुपपादनं क्रियत इत्यङ्गीकारात् । एतेनैव व्याप्त्या विततस्येति पुनरुक्तमिति चोद्यं निरस्तम् । विशिष्टवाचकानां शब्दानां विशेषणपदसंविधाने विशेष्यमात्रपरत्वमिति न्यायमाश्रित्य विततस्येति पदस्य विशिष्टस्येत्येवार्थः । न तु व्याप्त्या विशिष्टस्येत्यर्थ इत्यभ्युपगमात् ॥ ता.अर्थः ॥ जीवान्तर्यामको जीवान्तर्नियामको विष्णुरात्मनामा समीरितः । तस्याकाशवद्बहिरन्तश्च व्याप्तिम् । असङ्गत्वमभेदं च नित्यशः सर्वदा पश्येत । जीवान्तर्नियामकविष्णोर्व्याप्तत्वादिकं कथमित्यत उक्तम् ॥ तस्य तु ब्रह्मरूपत्वात्तथैवेति । तस्य जीवान्तर्नियामकविष्णोस्तु विशेषतः परब्रह्माभिन्नत्वात्तथा श्रुत्यादिप्रमाणाच्च व्याप्त्यादिकमुपपन्नमेवेति । व्याप्तिं पश्येदित्यनेन व्याप्त्या विततस्येत्यनुवादस्य व्याप्तिं भावयेदित्यर्थे तात्पर्यमित्युक्तं भवति । एतेन तुशब्दो व्यर्थ इति दूषणं निरस्तम् । ब्रह्मरूपत्वादित्युक्ते ब्रह्माभेदमात्रं लभ्यते । अत्यन्ताभेदलाभार्थं तु इत्युक्तमित्यङ्गीकारात् । एतेनैव तथाशब्दो व्यर्थ इति दूषणं निरस्तम् । तथाशब्दस्यानुक्तसमुच्चयार्थत्वमङ्गीकृत्य श्रुत्यादि-प्रमाणाच्चेत्यर्थस्योक्तत्वात् । एतेनैवैवशब्दो व्यर्थ इति दूषणं निरस्तम् । अध्याहृतेन व्याप्त्यादिक-मुपपन्नमित्यनेनान्वयस्योक्तत्वात् । एतेनैव चशब्दद्वयं व्यर्थमिति दूषणं परास्तम् । एकश्चशब्दो न केवलं बहिः किं त्वन्तश्चेति समुच्चयार्थः । द्वितीयश्चशब्दोऽनुक्ताभेदसमुच्चयार्थ इत्यभ्युपगमात्
॥ ४२ ॥
प्रमेयचन्द्रिका
नभसः शिक्षितमुच्यते ॥ अन्तर्बहिरिति ॥ अत्र ब्रह्मात्मभावेनेति अत्र ब्रह्मण आत्मत्वेन जीवत्वेनेति प्रतीतिं प्रमाणेन वारयन् व्याचष्टे ॥ जीवान्तर्यामक इति ॥ तस्यैव विशेषद्योतकस्तुशब्दः । बहिर्ब्रह्मस्वरूपत्वात् । व्याप्तत्वादिति यावत् । अन्तर्यामिता-समुच्चयस्तथाशब्दः। आकाशवदन्तर्बहिर्व्याप्तिमसङ्गत्वं च पश्येदित्यर्थः । ततश्चैवं मूलार्थः । स्थावरजङ्गमप्रपञ्चेषु अन्तर्बहिर्ब्रह्मात्मभावेन समन्वयेन । अन्तरात्मरूपेण जीवाद्बहिर्व्याप्तरूपेण समन्वयेन सम्बन्धेन निमित्तेन व्याप्त्या सर्वत्र निच्छिद्रतयावस्थित्या व्यवच्छेदम् । अत्रास्ति नात्रास्तीति परिच्छेदाभावम् असङ्गतां तन्निमित्तकलेपाभावं च विततस्य देशकालगुणैर्व्याप्तस्य परमात्मन आकाशदृष्टान्तेन भावयेदिति ॥ ४२ ॥
तेजोऽम्ब्वन्नमयैर्भावैर्मेघाद्यैर्वायुनेरितैः ।
न स्पृश्यते नभस्तद्वत् कालसृष्टैर्गुणैः पुमान् ॥ ४३ ॥
तात्पर्यम्
‘गुणान्जीवस्य चेष्टव्यान्सिद्धान्विष्णोर्गुणांस्तथा । तत्तद्दृष्ट्या विचिन्वीत पृथगेव सुधीः सदे’ति लोकतत्त्वे ॥ ४३ ॥
पदरत्नावली
असङ्गप्रकारमाह– तेज इति । यथा नभो वायुनेरितैर् मेघाद्यैर्न स्पृश्यते तद्वत् तथा पुमान् परः पुरुषः कालसृष्टैस् तेजोम्ब्वन्नमयैर् गुणैर्विषयैर् न स्पृश्यत इत्यन्वयः
॥ ४३ ॥
श्रीनिवासतीर्थीया
असङ्गत्वप्रकारमाह ॥ तेजोऽबन्नेति ॥ वायुनेरितैर्वायुनेतस्ततः सञ्चलितैर्मेघौघैर्नभो यथा न स्पृश्यते तद्वत्पुमान्हरिः कालानुसारेण सृष्टैर्गुणैर्विषयैर्न स्पृश्यते । अत्र तात्पर्यं गुणानिति ॥ एष्टव्यान्प्रार्थनीयान्सम्पाद्यान्विष्णोर्गुणांश्च पृथगेव विचिन्वीत जानीयात् । तत्तद्दृष्ट्या तत्तद्गुणोपेतं वस्तु दृष्ट्वा । तत्तद्दृष्टान्तेनेति यावत् ॥ ४३ ॥
प्रमेयचन्द्रिका
ननु पृथिव्यादावचलत्वादिगुणदर्शनेन स्वस्मिंस्तादृशगुणशिक्षणं युक्तम् । व्याप्त्यादिगुणास्तु केवलं भगवन्निष्टाः । तत्कथं स्वात्मनि तादृग्गुणसम्पादनं युज्यते । तथात्वे तत्साम्यापत्तेरित्यत आह ॥ गुणानिति ॥ तत्तत्पृथिव्यादिकं वस्तु दृष्ट्वा जीवस्य चेष्टव्यान् सम्पाद्यान् पृथिव्यादिगतगुणेभ्यो पृथगेव स्थितान् गुणान् स्वात्मनि विचिन्वीत शिक्षित्वा सम्पादयेत् । तथा तत्तदाकाशादिकं व्याप्त्यसङ्गत्वादिगुणकं वस्तु दृष्ट्वा हरौ नित्यसिद्धानाकाशादिगुणेभ्यः पृथगेव स्थितानन्तर्बहिर्व्याप्त्यसङ्गत्वादिगुणान् हरौ विचिन्वीत ध्यायेदिति योजना । तथा आकाशादिकं दृष्ट्वा हरावपीत्थंभूतगुणा वर्तन्त इति ध्यानमेव स्वात्मनि शिक्षेति नोक्तदोष इति भावः । अथवा जीवस्याप्यचलत्वस्वच्छत्वस्निग्धत्वादिगुणत्वे जीवपरयोः को विशेष इत्यत आह ॥ गुणानिति ॥ पूर्ववद्योजना ॥ ४३ ॥
स्वच्छः प्रकृतितः स्निग्धो माधुर्यस्तीर्थवन्नृणाम् ।
मुनिः पुनात्यघान्मित्रमीक्षणस्पर्शकीर्तनैः ॥ ४४ ॥
तात्पर्यम्
‘मधुनाम सुखं विन्द्यान्माधुर्यं सुखहेतुता । सुखे रतिर्वां सम्प्रोक्ता शब्दतत्त्वविचक्षणैरि’ति शब्दनिर्णये ॥ ४४ ॥
पदरत्नावली
अद्भ्यः शिक्षितां बुद्धिमाह– स्वच्छ इति । तीर्थवद् गङ्गादिशुद्धजलवत् । प्रकृतितः स्वभावतः स्वच्छः । प्रकृतिः पञ्चभूतेषु स्वभावे मूलकारण इत्यभिधानम् । ननु जीवस्य स्वच्छुगुणत्वे जीवपरयोः को विशेष इतीयमाशङ्का स्वच्छत्वादयो गुणा हरेः स्वतः सिद्धा जीवस्येष्टव्याः स्वीकर्तव्या इति परिहर्तव्या । तदुक्तम् ‘‘गुणान् जीवस्य चेष्टव्यान् सिद्धान् विष्णोर्गुणांस्तथा । तत्तद् दृष्ट्वा विचिन्वीत पृथगेव सुधीः सदा’’ इति । माधुर्यः सुखहेतुः । ‘‘मधुनाम सुखं विद्यान्माधुर्यं सुखहेतुता । सुखे रतिर्वा सम्प्रोक्ता शब्दतत्वविचक्षणैः’’ इति वचनात् । मुनिर्मित्रं स्वाश्रितं पुनाति । ईक्षणमीक्षा ॥ ४४ ॥
श्रीनिवासतीर्थीया
अद्भ्यः शिक्षितां बुद्धिमाह ॥ स्वच्छ इति ॥ प्रकृतितः स्वभावतः स्वच्छो निर्मलः स्निग्धः स्नेहयुक्तः । इदं विशेषणद्वयं समम् । नृणां माधुर्यः सुखहेतुः । तीर्थं तु मधुररसयुक्तम् । अत्र शब्दसाम्यम् । मित्रं स्वाश्रितजनमघात्पापात्पुनाति । पुनातीत्यादि उभयोः समम् । तीर्थमीक्षयेक्षणेन पुनाति । अम्ब त्वद्दर्शनान्मुक्तिरित्याद्युक्तेः । कीर्तनेन पावकत्वं च । गङ्गा गङ्गेति यो ब्रूयाद्योजनानां शतैरपीत्यादिप्रमाणसिद्धं मन्तव्यम् ॥ ४४ ॥
प्रमेयचन्द्रिका
अद्भ्यःशिक्षितमुच्यते ॥ स्वच्छ इति ॥ मधुर इत्यस्य प्रकृतेरर्थं प्रमाणेनाह ॥ मधुनामेति ॥ मधु सुखं मधुनामसुखम् । विन्द्यादित्युक्तेः । राति ददातीति मधुर इत्यभिप्रेत्य तात्पर्यकथनम् ॥ माधुर्यं सुखहेतुतेति ॥ अर्थान्तरमाह ॥ सुखे रतिरिति ॥ मधौ सुखरूपे हरौ रतिरित्यर्थः ॥ ४४ ॥
तेजस्वी तपसा दीप्तो दुर्धर्षो दूरभाजनः ।
सर्वभक्षोऽपि युक्तात्मा नादत्ते पापमग्निवत् ॥ ४५ ॥
तात्पर्यम्
दूरत एव भजनीयः । ‘पराभवो धर्षणः स्यादवज्ञानमथापि वा । न तत्सत्सु सदा कुर्यात्सह शय्यासनं (सहासाशयनं) न चे’ति षाड्गुण्ये ॥ ४५ ॥
पदरत्नावली
अग्नेः शिक्षितां बुद्धिविशेषमाह– तेजस्वीति । तेजस्वी प्रभाववान् । अन्यत्र अर्चिष्मान् । तपसा उपवासादिना, अन्यत्र सन्तापहेतुज्वालया दीप्तः प्रकाशनशक्तिमान् । दुर्धर्षः पराभावयितुमशक्यः । ‘‘पराभावो धर्षणं स्यादवज्ञानमथापि वा । न तत् सत्सु सदा कुर्यात् सहासाशयनं न च’’ इति वचनात् । दूरभाजनो दूरान्निषेव्यः । युक्तात्मा परमात्मनि युक्तमनाः । एवंविधो ज्ञानी सर्वभक्षोपि पापं नादत्ते । अपरोक्षज्ञानिनोपि हि सर्वभक्षणं सर्वान्नानुमतिः प्राणात्यये तद्दर्शनादित्यापद्विषये । कथम् । अग्निवत् ॥ ४५ ॥
श्रीनिवासतीर्थीया
अग्निशिक्षितां बुद्धिमाह ॥ तेजस्वीति ॥ अग्निः सन्तापहेतुभूतज्वालया प्रकाशकः । ज्ञानिनि तु स्पष्टम् । सर्वभक्षो निषिद्धानिषिद्धसर्वभक्षणं कुर्वन्नपि । दूरभाजन इति पदं व्याचष्टे ॥ दूरत इति ॥ दुर्धर्ष इत्येतत्प्रमाणेन व्याख्याति ॥ पराभव इति ॥ अथापि वेति निपातसमुदायः पक्षान्तरे । अवज्ञानं धर्षणं स्यादित्यन्वयः । अनेन दुर्धर्षो दुरित्यव्ययम् । दूरीकृतार्थकम् । तथा चावज्ञातुमशक्यत्वाद्दुर्धर्ष इत्यर्थः । अग्नौ तु धर्तुमशक्यत्वाद्दुर्धर्षत्वं स्पष्टम् । तथा चात्र शब्दसाम्यम् । दूरभाजन इत्यस्यार्थमाह ॥ सहशय्येति ॥ अत्राग्निज्ञानिनोः शब्दतोऽर्थतश्च साम्यम् ॥ ४५ ॥
प्रमेयचन्द्रिका
दूरभाजन इत्यस्य विवक्षितमर्थमाह ॥ दूरत एवेति ॥ दुर्धर्षण इत्यत्र धर्षणपदस्यार्थकथनपूर्वकं ज्ञानिनो दुर्धर्षत्वमुपपादयन् दूरतः शिष्यैर्भजनीयत्वं दर्शयति ॥ पराभव इति ॥ सहासा शयनं नचेति दूरभाजनत्वप्रदर्शनम् ॥ ४५ ॥
क्वचिच्छन्नः क्वचित् स्पष्ट उपास्यः श्रेय इच्छताम् ।
भुङ्क्ते सर्वत्र दातॄणां दहन् प्रागुत्तराशुभम् ॥ ४६ ॥
स्वमायया सृष्टमिदं सदसल्लक्षणं विभुः ।
प्रविष्ट ईयते तत्तत्स्वरूपो१ऽग्निरिवैधसि ॥ ४७ ॥
तात्पर्यम्
‘जीवस्य छन्नतां शिक्षेत्प्रविष्टत्वं परात्मनः । तत्तद्गुणविडम्बं च वह्नेः सर्वमथापि वा । अल्पदारौ यथाऽल्पोऽग्निरेवमल्पशरीरगः । दृश्यते परमात्माऽपि स्थूलः स्थूलशरीरग’ इति वैभवे ॥ ४६,४७ ॥
पदरत्नावली
क्वचिच्छन्नः दुष्टजनसन्निधौ क्वचित् स्पष्टः सज्जनसमीपे । आत्मज्ञानादिलक्षणं श्रेय इच्छतां पुंसामुपास्यः दातॄणां प्रागुत्तराशुभं दहन् सर्वत्र सर्वं भुङ्क्ते । मुन्यग्न्योः सममिदम् ॥ अग्नेः शिक्षितं परमात्मज्ञानमाह स्वमाययेति । स्वमायया स्वेच्छाधीनप्रकृत्या सृष्टं सदसल्लक्षणं स्थूलसूक्ष्मरूपं जगत् प्रविष्टस् तत्तत्सरूपस् तत्तत्पदार्थानुगुणरूप ईयते । कथम् । एधसि प्रविष्ट एधोरूपोऽग्निरिव । अत्र जीवस्य छन्नत्वं परमात्मनः प्रविष्टत्वं चेति विशेषणं ज्ञातव्यम् । ‘‘जीवस्य छन्नतां शिक्षेत् प्रविष्टत्वं परात्मनः । तत्तद्गुणविडम्बं च वह्नेः सर्वमथापि च’’ इति वचनात् । अल्पदारौ यथाऽल्पोऽग्निरेवमल्पशरीरगः । दृश्यते परमात्मापि स्थूलः स्थूलशरीरगः’’ इति ॥ ४६,४७ ॥
श्रीनिवासतीर्थीया
क्वचिद्दुष्टजनसन्निधौ छन्नः सज्जनसन्निधौ स्पष्टः । अत्र शब्दसाम्यम् । श्रेय इच्छद्भिरुपास्यः । अग्नौ हि हरिमुपासते केचित् । अतः प्रतीकतयोपास्यः । ज्ञान्यपि ज्ञानादिश्रेय इच्छद्भिः सेव्यः । दातृणामग्नौ हविर्दातृणाम् । ज्ञानी त्वन्नदातॄणाम् । विभुर्हरिरिदं जगत् । क्वचिदिति स्वमाययेति श्लोकद्वयेनाग्नेः शिक्षितो गुण ईश्वरस्यैवेति प्रतीयते इत्यतोऽत्र क्वचिदित्यनेन ज्ञानिनोऽग्निदृष्टान्तेन शिक्षणीयो गुण उच्यते ॥ स्वमाययेति ॥ अग्निदृष्टान्तेन परमात्मज्ञानप्रकार इति तात्पर्यमाह ॥ जीवस्येति ॥ तत्तद्गुणविडम्बनं गुणकार्यं तत्तत्कार्ये तत्तदाकारेण वर्तनम् । वन्हेः स्थितं तद्गुणविडम्बनं च परमात्मनः शिक्षेत् । सर्वं छन्नत्वं प्रविष्टत्वं च परमात्मन एव शिक्षेदित्यर्थः । तत्तद्गुणेत्युक्तं विशदयति ॥ अल्पदाराविति ॥ दृश्यते । अल्प इत्यनुवर्तते ॥ ४६,४७ ॥
प्रमेयचन्द्रिका
छन्नयत्वादिकमिवोत्तरश्लोकोक्तं जगत्प्रविष्टत्वादिकं जीवस्येति प्रतीतिं वारयति ॥ जीवस्येति ॥ छन्नतां तिरोहितताम् । स्पष्टत्वादिकं च ग्राह्यम् । परमात्मनः प्रविष्टत्वं सदसदात्मके सर्वस्मिन्प्रपञ्चे । तद्गुणविडम्बं स्थूलसूक्ष्मप्रपञ्चगतशुभगुणसदृशगुणयुक्तत्वं वह्नेः शिक्षेत् । सर्वमथापि वेति पक्षान्तरम् । अयोग्यविषये अस्पष्टत्वादिकं श्लोकद्वयोक्तं सर्वं परमात्मन्यस्तीति वह्नेः सकाशाच्छिक्षेदित्यर्थः । तत्तद्गुणविडम्बं चेत्येतल्लेशतो विशदयति ॥ अल्पदाराविति ॥ यद्वा सरूपोऽग्निरिवैधसीत्यत्र विवक्षितमर्थमाह ॥ अल्पदाराविति ॥ मूले अग्निपक्षे शत्रूणां सम्बन्धिविरहादिकं तदीयं प्रागुत्तराशुभं भुङ्क्ते । मुनिपक्षे तु शत्रुदत्तमन्नम् । भगवत्पक्षे तु पुष्पोप-हारादीति द्रष्टव्यम् । सदसल्लक्षणं मूर्त्तामूर्त्तात्मकम् ॥ ४६,४७ ॥
विसर्गाद्याः श्मशानान्ता भावा देहस्य नात्मनः ।
कलानामिव चन्द्रस्य कालेनाव्यक्तवर्त्मना ॥ ४८ ॥
पदरत्नावली
चन्द्रमसः शिक्षितां बुद्धिमाह– विसर्गाद्या इति । विविधाः सर्गाद्या जननाद्याः श्मशानान्ता मरणान्ता देहस्यैव नात्मनो जीवस्य । चन्द्रस्य कलानां क्षयादिकं यथा न चन्द्र-स्वरूपस्य ॥ ४८ ॥
श्रीनिवासतीर्थीया
चन्द्राच्छिक्षितबुद्धिमाह ॥ विसर्गाद्या इति ॥ अव्यक्तवर्त्मना कालेन तन्नाम्ना जायमाना जननाद्या मरणान्ता भावा धर्मा नात्मनो जीवस्वरूपस्य न । कलानां चन्द्रमण्डलसम्बन्धिनीनां कलानामेव वृद्धिक्षयौ न चन्द्रस्वरूपस्य यथेत्यर्थः ॥ ४८ ॥
प्रमेयचन्द्रिका
कलानामिव चन्द्रस्य कलानां वृद्धिह्रासरूपो भावो न चन्द्रस्वरूपस्य किन्तु मण्डलस्यैव यथा तथेत्यर्थः ॥ कालेनेति ॥ अव्यक्तमार्गेण कालनियामकेन षड्गुणपूर्णत्वा-त्कालनामकेन भवन्तीत्यन्वयः ॥ ४८ ॥
कालनद्योघवेगेन भूतानां प्रभवाप्ययौ ।
नित्यावपि न दृश्येते आत्मनोऽग्नेर्यथाऽर्चिषाम् ॥ ४९ ॥
तात्पर्यम्
‘अवयव्यवयवानां च गुणानां गुणिनस्तथा । शक्तिशक्तिमतोश्चैव क्रियायास्तद्वतस्तथा । स्वरूपांशांशिनोश्चैव नित्याभेदो जनार्दने । जीवस्वरूपेषु तथा तथैव प्रकृतावपि । चिद्रूपायामतोऽनंशा अगुणा अक्रिया इति । हीना अवयवैश्चेति कथ्यन्ते तेऽत्यभेदतः । पृथग्गुणाद्यभावाच्च नित्यत्वादुभयोरपि । विष्णोरचिन्त्यशक्तेश्च सर्वं सम्भवति ध्रुवम् । क्रियादेरपि नित्यत्वं व्यक्त्यव्यक्तिविशेषणम् । भावाभावविशेषेण व्यवहारश्च तादृशः । विशे(ष्य)षस्य विशिष्टस्याप्यभेदस्तद्वदेव तु । सर्वं चाचिन्त्य-शक्तित्वाद्युज्यते परमेश्वरे । तच्छक्तयैव तु जीवेषु चिद्रूपप्रकृतावपि । भेदाभेदौ तदन्यत्र ह्युभयोरपि दर्शनात् । कार्यकारणयोश्चापि निमित्तं कारणं विने’ति ब्रह्मतर्के । ‘आत्मनि चैवं विचित्राश्च हि’ । ‘सर्वोपेता च तद्दर्शनात्’ । ‘सर्वधर्मोपपत्तेश्च’ । ‘स्वाभाविकी ज्ञानबलक्रिया च’ । ‘यत्रा सप्त ऋषीन्पर एकमाहुरि’त्यादेश्च ॥ ‘विना दोषांच्छत-मद्धाऽवगम्यं तथा स्मृतं परमे सत्यरूपम् । नैवासत्यं क्वचिदस्मिन्परेशे सर्वं युक्तं पूर्णशक्तेः सदैवे’ति च विश्वम्भरश्रुतिः । तस्मादेकस्मिन्नपि शरीरे भेदाभेदात्प्रभवाप्ययौ युज्येते । न च विरोधः । स्थूलसूक्ष्मवत् । आपेक्षिक(त्व)मत्रापि युज्यते ॥ ४९ ॥
पदरत्नावली
कालवेगेन प्रतिक्षणमपि देहादीनां सूक्ष्मावुत्पत्तिनाशौ स्त इति सोदाहरणमाह– कालेति । कालाख्यनद्योघवेगेन भूतानां प्राणिनामात्मनो देहस्य नित्यावपि सदातनावपि प्रभवाप्ययौ उत्पत्तिनाशौ न दृश्येते, सूक्ष्मत्वादिति शेषः । यथाग्नेरर्चिषां ज्वालानां प्रवाहविशेषः । यथा पुरूरवसो जरा अश्विभ्यामेव दृष्टेति गीतातात्पर्यवचनं तत्सद्भावे प्रमाणम् । भूतानां चेतनानामात्मनः परमात्मनः प्रभवाप्ययावित्यन्यथा व्याख्यानम् ‘‘अवयव्यवयवानां च गुणानां गुणिनस्तथा । शक्तिशक्तिमतोश्चैव क्रियायास्तद्वतस्तथा । स्वरूपांशांशिनोश्चैव नित्याभेदो जनार्दने । जीवस्वरूपेषु तथा तथैव प्रकृतावपि । चिद्रूपायामतोऽनंशा अगुणा अक्रिया अपि । हीना अवयवैश्चेति कथ्यन्ते ते त्वभेदतः । पृथग् गुणाद्यभावाच्च नित्यत्वादुभयोरपि । विष्णोरचिन्त्यशक्तेश्च सर्वं सम्भवति ध्रुवम् । क्रियादेरपि नित्यत्वं व्यक्त्यव्यक्तिविशेषणम् । भावाभावविशेषेण व्यवहाराश्च तादृशः । विशेषस्य विशिष्टस्याप्यभेदस्तद्वदेव तु । सर्वं चाचिन्त्यशक्तित्वाद् युज्यते परमेश्वरे । तच्छक्त्यैव च जीवेषु चिद्रूपप्रकृतावपि । भेदाभेदौ तदन्यत्र ह्युभयोरपि दर्शनात् । कार्यकारणयोश्चापि निमित्तं कारणं विना’’ इति प्रमाणविरुद्धत्वाज्जडस्येत्यङ्गीकर्तव्यम् । अनङ्गानां चेतनानां क्रियावत्त्वं चाचिन्त्येशशक्तिनियतत्वाद् युज्यत इत्यस्मिन्नर्थे आत्मनि चैवं विचित्राश्च हि, सर्वोपेता च तद्दर्शनात्, सर्वधर्मोपपत्तेश्च, स्वाभाविकी ज्ञानबलक्रिया च, यत्र सप्त ऋषीन् पर एकमाहुः, इत्यादिप्रमाणान्तरं च । न चेशशक्तिर्मायामयी । ‘‘विना दोषान् श्रुतमद्धाऽवगम्यं तथा स्मृतं परमे सत्यरूपे । नैवासत्यं क्वचिदस्मिन् परेशे सर्वं युक्तं पूर्णशक्तेः सदैव’’ इति श्रुतिविरोधात् ॥ ४९ ॥
श्रीनिवासतीर्थीया
देहस्यैव विसर्गाद्या भावा नात्मन इत्युक्तं विशदयति ॥ कालेति ॥ एकमेवेदं पदम् ॥ कालनद्योघवेगेनेति ॥ कालाख्यनद्या योऽयमोघः प्रवाहस्तस्य वेगेन । आत्मनो नित्यौ सदातनौ । प्रतिक्षणं जायमानावपि प्रभवाप्ययावुत्पत्तिविनाशौ भूतानां प्राणिनां न दृश्येते तैर्न ज्ञायेते । यथाऽग्नेरर्चिषां ज्वालानां प्रतिक्षणं जायमानावप्युत्पत्तिविनाशौ न दृश्येते तद्वदित्यर्थः । अत्र श्लोके आत्मनः प्रभवाप्ययौ सदातनावित्युच्येते । इमौ च सदातनौ प्रभवाप्ययौ तस्मि-न्सत्यप्यसत्वरूपखण्डितत्वमङ्गीकृत्य भेदाभेदेनोपपाद्याविति तावत्सिद्धम् । तत्रात्मशब्देन देहग्रहणे तस्य प्रभवाप्ययौ युज्येते । तत्र भेदाभेदयोः सद्भावादिति तस्मादेकस्मिन्नपीत्यादिना वक्तुं परमात्मजीवस्वरूपचित्प्रकृतीनामत्रात्मशब्देन ग्रहणेन सदातनौ प्रभवाप्ययौ न युज्येते । भेदाभेदयोर-भावात् । तत्रावयवगुणकर्मादिभिरत्यन्ताभेदाङ्गीकारेण भेदवार्ताया एवाभावेनोपपादकयोर्भेदा-भेदयोरभावादित्याशयेन परमात्मादेरवयवादिभिरत्यन्ताभेदं तावदुपपादयति ॥ अवयवीत्यादिना ॥ स्वरूपांशांशिनोर्नित्याभेदो नियमेनाभेदोऽत्यन्ताभेद इत्यर्थः । तथा गुणादिभिर्नित्याभेदः । चिद्रूपायां प्रकृतावपि तथैव नित्याभेद इत्यर्थः । ते जनार्दनाद्याः ।
अत इत्युक्तं विशदयति ॥ अत्यभेदत इत्यादिना ॥ अत्यन्ताभेदेन वस्तुद्वयाभावात् । अंशादिशून्या इत्युच्यन्त इत्यर्थः । पृथगिति भिन्नेत्यर्थः । तथा च भिन्नधर्माद्यभावादगुणा इत्याद्युक्ति-रिति भावः । तदभावे हेतुर्नित्यत्वादिति ॥ उभयोर्धर्मधर्मिणोर्नित्यत्वात् । अङ्गुलिद्वयवद्भेदेनानुप-लम्भादभेदस्तावत्सिद्धः । तस्मिन्सत्यप्यसत्वरूपखण्डितत्वयुक्त्यैव भेदो वाच्यस्तत्र तु खण्डितत्वं न सम्भवति । उभयोरपि नित्यत्वादिति भावः। अत्यन्ताभेदे गुणगुणिभावाद्ययोग इत्यत आह ॥ विष्णोरिति । सर्वं गुणगुणिभावादि । नन्वनित्यत्वात्क्रियाणां तु कथमेव स्वरूपतेति चेत्तत्राह ॥ क्रियादेरपीति ॥ नित्यं ज्ञानं क्रिया नित्येति पैंगिश्रुत्या प्रमितमिति नानुपपत्तिरित्याशयः । ननु क्रियाया नित्यत्वे सदा कस्मान्नोपलक्ष्यत इत्यत आह । व्यक्त्यव्यक्तिविशेषणं व्यक्तिशक्तिरूप-विशेषयुक्तं नित्यत्वमस्ति । ततः शक्त्यात्मना सत्वेऽपि व्यक्तेरभावान्नोपलब्धिः । ननु शक्त्यात्मना सत्वे कंसहननादिक्रिया कदाचिदेव कस्माद्व्यवह्रियत इत्यत आह ॥ भावाभावेति ॥ अस्ति नास्तीति विशेषेण व्यवहारविशेषश्च तादृशो व्यक्त्यव्यक्तिविशेषेण । तथा च व्यक्तेरभावादेव न सदा व्यवहार इति भावः । विशेषस्य शक्तिव्यक्तिरूपस्य विशेषणस्य विशिष्टस्य क्रियादेस्तद्वदेव । क्रियाक्रियावतोरिव सर्वम् अवयव्यादेरवयवादिभिर्भेदादिकम् । किञ्च जीवप्रकृत्योरप्यवयव्यवयवाभेदादि सर्वं किं स्वाचिन्त्यशक्त्या युक्तं नेत्याह ॥ तदिति ॥ ईश्वरेत्यर्थः । एवमीश्वरादौ भेदवार्ताया एवाभावात्तदन्यत्र जडे खण्डितत्वयुक्त्या प्रत्यक्षेण चोभयोर्भेदाभेदयोर्दर्शनाद्भेदाभेदौ मन्तव्यावित्यर्थः ।
कार्यकारणयोरुपादानोपादेययोः । पूर्वदेह एवोत्तरदेहात्मना विक्रियतेऽत उत्तरक्षणविशिष्टदेहं प्रति पूर्वक्षणविशिष्टदेहस्योपादानत्वाद्भेदाभेदौ प्रकृतवाच्यावित्याशयः । कार्यकारणयोरित्युक्त्या निमित्तकारणेनाप्यभेदप्राप्तावाह ॥ निमित्तमिति ॥ तथा चोपादानकारणेनैवाभेदो विवक्षित इत्याशयः । सर्वं चाचिन्त्यशक्तित्वादित्युक्तम् । तत्सद्भावे प्रमाणमाह ॥ आत्मनीति ॥ ज्ञानादिधर्मसद्भावे सर्वधर्मेति सूत्रं प्रमाणम् । तेषां भगवताऽभेदः स्वाभाविकीति श्रुतिः । एवं सति प्रकृते आत्मन इत्यत्रात्मशब्देन शरीरमेव ग्राह्यमित्याह ॥ तस्मादिति ॥ नन्वेकस्मिञ्च्छरीरे प्रभवाप्ययौ कथं युगपद्युज्येते विरोधादित्याशङ्क्य निषेधति ॥ न चेति ॥ यथैकस्मिन् शरीरे स्थौल्यं सौक्ष्म्यं चास्ति तद्वत्प्रभवाप्ययौ युज्येते । ननु कालभेदात्स्थौल्याद्यापेक्षिकं न युगपदिति चेत् । सममेतदत्रापि । एतत्कालापेक्षया प्रभव उत्तरकालापेक्षयाऽप्यय इत्याह ॥ स्थूलेत्यादि ॥ केचित्तु भेदाभेदौ विरुद्धावित्याशङ्क्य निषेधन्ति ॥ न चेति ॥ प्रत्यक्षत्वाप्रत्यक्षत्वमहत्वाणुत्वा-परपर्यायं स्थूलत्वाद्यापेक्षिकम् । प्रत्यक्षत्वतदन्यत्वे पुरुषापेक्षयाऽखिले । अणुत्वं च महत्वं च यतो वस्तुव्यपेक्षयेत्युक्तत्वादिति चेत्तत्राह ॥ आपेक्षिकमिति ॥ भेदाभेदयोरपि विशेषापेक्षयाऽविरोध इत्यर्थः । विशेषबलाद्भेदाभेदयोरविरोध इति विशेषमेव संश्रित्य विशेषो बलवान्यत इत्यन्यत्रोक्तत्वात्
॥ ४९ ॥
प्रमेयचन्द्रिका
न केवलं विसर्गादिशब्दितसृष्टिमरणादिकमेव जीवस्य किन्तु भूतानां प्राणिनां प्रतिक्षणं भाविनावुत्पत्तिविनाशावात्मनस्तत्तद्देहस्यैव । न प्रतिक्षणमुत्पत्तिविनाशादर्शनादर्शनात्तदभावः । सदातनयोरपि प्रभवाप्यययोः परमसूक्ष्मत्वेनादर्शनोपपत्तेरित्येतदुपपादयितुं प्राक् सङ्गतत्वेऽप्यग्नेः शिक्षितं प्रसङ्गादत्रोच्यते ॥ कालनद्योघवेगेनेति ॥ अत्र प्रतिक्षणभाव्युत्पत्तिविनाशोक्त्या देहस्य क्षणिकता भाति । तदयुक्तम् । स एवायं देह इति प्रत्यभिज्ञाविरोध इति चेन्न । उपभुक्तान्नादिना प्रतिक्षण-मुपचयापचययोः सत्वेन तत्तत्क्षणभाव्युपचितत्वादिरूपविशेषणभेदाद्विशिष्टाभेदेऽपि विशेष्यस्यैकत्वेन स्थायित्वाद्विशिष्टशुद्धयोश्च भेदाभेदमादायापि प्रत्यभिज्ञोपपत्तिरिति वक्तुमीश्वरप्रकृतिषूक्तन्यायसाम्येन भेदाभेदप्रसक्तौ तदभावमत्यन्ताभेदस्थलं तावद्दर्शयति ॥ अवयव्यवयवानां चेत्यादिना ॥ शक्तिरिह ज्ञानादिगतार्थविषयीकारित्वादिप्रयोजकीभूतो अग्नेः स्फोटे जनकत्वशक्तिरिवातीन्द्रियो धर्मविशेषः । न तु बलम् । तस्य गुणशब्देन गृहीतत्वात् । अंशा एव हीमे जीवा अंशी हि परमेश्वर इति । जीवानां भिन्नांशतोक्तेस्तद्व्यावृत्तये स्वरूपांशेत्युक्तम् । नित्यं नियमेनाभेदः । सर्वशो ऽभेद इति वा । अत्यन्ताभेद इति यावत् ।
ननु केवलो निर्गुणश्च, निष्कलं निष्क्रियं शान्तं, स नित्यो निरवयवो ऽचक्षुःश्रोत्रमित्यादौ विष्ण्वादीनामनंशत्वाद्युक्तेरंशाद्यभ्युपगमे तद्विरोध इत्यत उक्तम् ॥ अनंशा इति ॥ अत इत्यस्य विवरणमत्यभेदत इति ॥ प्रत्येकमितिशब्दान्वयादितिशब्दद्वयोपपत्तिः । नेह नानास्ति किञ्चनेत्यादौ भिन्नगुणाद्यभावस्य प्रमितत्वाच्चात्यन्ताभेद इत्यत आह ॥ पृथगिति ॥
तर्हि भेदाभेदौ स्यातामित्यत आह ॥ नियत्वादुभयोरपीति ॥ सति गुण्यादौ गुणादीनामपाये यावद्धर्मिभावित्वाद्भेदाभेदौ युक्तौ ॥ खण्डिते भेद ऐक्यं चेत्युक्तेः । प्रकृते गुणगुण्यादिरूपयोरुभयोरपि नित्यत्वस्य ज्ञानं नित्यं क्रिया नित्या बलं शक्तिः परात्मन इत्यादिना प्रमितत्वाद्यावद्वस्तुभावित्वे-नात्यान्ताभेदो युज्यत इति भावः । ननु गुणगुण्यादीनामैक्ये अन्यतरमात्रावशेषः । गुणगुण्यादि-शब्दयोरेकार्थत्वेन पर्यायत्वं गुणगुणिभावायोगश्च स्यात् । आनन्दं ब्रह्मण इत्यादिव्यपदेशायोगश्च भवेत् । न हि घटस्य घट इत्युक्तिर्युज्यते ॥ न च विशेषबलादुपपत्तिरैक्ये मानं शब्दतन्मात्रत्वेन भेदप्रतिनिधेर्विशेषस्य तत्र प्रवेष्टुमशक्यत्वात् । तथात्वे घटस्य घटेन सविशेषाभेदप्रसङ्ग इत्यत आह ॥ विष्णोरिति ॥ तथा चाघटितघटकाचिन्त्याद्भुतशक्तिसम्पन्नो भगवान् स्वरूपस्वभावविशेषाणां नियामकः । स्वशक्त्यैव क्वचिदत्यन्ताभिन्नानामपि विशेषमादाय तन्निमित्तीकृत्य गुणगुण्यादिनानात्वं सम्पाद्यान्यतरमात्रावशेषादिकं न्यकृत्य गुणिन एकत्वं गुणानामनेकत्वं सम्बन्धव्यपदेशादिकं पदार्थस्वरूपभूतानां विशेषैः सम्पादयतीत्याशयः । तदेतत्कृत्स्नप्रसक्तिसूत्रानुव्याख्यावैशेषिकपरीक्षायां तत्सुधायां चोपपादितं द्रष्टव्यम् ।
नन्वीश्वरक्रियाया ज्ञानादिगुणगताकारादेश्चित्प्रकृतिजीवस्वरूपगतक्रियादेश्च कादाचित्कत्वदर्शनात्कथं नित्यत्वमित्यत आह ॥ क्रियादेरपीति ॥ व्यक्तयव्यक्ती विशेषणे यस्य तत् । अव्यक्तिरिह शक्त्यात्मिकता । तथा च शक्तिविशेषितमेव क्रियाक्रियादेर्नित्यत्वम् अतः कादाचित्कत्वदर्शनं युज्यत इति भावः । नन्वेवं क्रियाया नित्यत्वे अस्तीदानीं जगत्सर्जननवनीतभक्षणादिक्रिया नास्तीदानीमिति भावाभावविशेषणव्यवहारः कथमित्यत आह ॥ भावाभावेति ॥ तादृशः व्यक्तव्यक्तिनिर्बन्ध इत्यर्थः । व्यक्तिदशायां भावव्यवहारो ऽव्यक्तिदशायामभावव्यवहर इति भावः । न च व्यक्तेरपि क्रियायाः स्वरूपत्वेन नित्यत्वात्कादाचित्कत्वं वक्तुं न शक्यते सदातनत्वेन चाव्यक्त्यसम्भवेन पुनरुक्तदोष इति वाच्यम् । व्यक्तेर्नित्यत्वेऽपि व्यक्त्यव्यक्तिसद्भावेन कादाचित्कतोपपत्तेः । न च वाच्यं व्यक्तेरपि व्यक्त्यङ्गीकारे तस्याभिव्यक्तेर्व्यक्तिरिति परम्परया अनवस्थेति । क्रियाव्यक्तिरेव व्यक्तेरभिव्यक्तिर् जनेर्जनिवदित्यङ्गीकारात् । तदुक्तं बृहद्भाष्ये । जनेर्जनिवदेवासौ ज्ञातव्यावतिरेकत इति । विशुद्धशुद्धयोरपीश्वरादावत्यन्ताभेद एवेत्याह ॥ विशेष्यस्येति ॥ शुद्धस्येत्यर्थः । विशेषस्य विशिष्टस्येति पाठेऽपि विशेषशब्दः शुद्धपरः । तद्वदेव गुणगुण्यादिवदेवाचिन्त्यशक्तिघटितविशेष-बलादुपपद्यत इत्यर्थः ।
ननु येन विशेषेण गुणगुण्यादिभावादेरत्यन्ताभेदस्थले निर्वाहः । तस्य विशेषस्य विशेषिभ्यां भेदे नेह नानेति विरोधः । अभेदे विशेषविशेषिभावायोग इति चेन्न । अभेदेऽपि विशेषबलेनैव विशेषविशेषिभावोपपत्तेः । न च विशेषपरम्परयाऽनवस्था । विशेषस्य स्वनिर्वाहकत्वात् ॥ तथाप्यनु-पपत्तिरेव । विशेषः स्वनिर्वाहक इत्यत्र निर्वाह्यनिर्वाहकयोरेकत्वाद्वाह्यवाहकभावानुपपत्तिः । तत्रपि विशेषस्वीकारे तस्यापि स्वनिर्वाहकत्वं वाच्यमिति उक्तदोषानुषङ्गः स्यात् । किञ्च क्रियादौ शक्तिव्यक्तयंगीकारेण कादाचित्कत्वोपपत्तावपि ज्ञानानन्दादीनां कादाचित्कता न युज्यते । नित्यव्यक्ता हरेर्गुणा इति नित्यव्यक्ता हरेर्मतिरित्यादिना तेषां नित्यव्यक्ततावगमात् । ज्ञानादीनां कादाचित्कत्वं च तदैक्षत स ईक्षांचक्रे, मुमोद केशवोऽधिकमित्यादौ प्रमितम् । आनन्दस्य नित्यव्यक्तत्वे विषय-भोगानुपपत्तिः । अपि च ज्ञानानन्दादिगुणनानात्वं च सर्वथाऽनुपपन्नम् । ज्ञानादीनामानन्दाद्यर्थ-क्रियाकारित्वस्य सर्वैः सर्वगुणात्मान इत्यादिषु निश्चितत्वात् । तादृशेषु च विशेषप्रवेशा-सम्भवादित्याशङ्क्य परिहरति ॥ सर्वं चेति ॥ चोऽप्यर्थे ।
अत्र वाह्यं वाहकमित्यपि पर्यायो भेदवान्वा स्यादनवस्थोभयत्र चेत्यनुव्याख्याने सुधायां च विशेषस्य स्वनिर्वाहकत्वमचिन्त्यशक्त्योपपादितम् । तथा गीताभाष्ये दीक्षतेत्यादिविरुद्धमीश्वरस्य अचिन्त्यशक्तेरिति ज्ञानस्य कादाचित्कत्वमुपपादितम् । आनन्दस्याप्यचिन्त्यशक्त्या विषय-भोगजातत्वमिवोच्यते । गीताभाष्ये आगमिष्यत्सुखं चापि तच्चास्त्येव सदापि तु । तथाप्यचिन्त्य-शक्तित्वाज्जातं सुखमितीव चेति । तथा चैतत्सर्वं चाचिन्त्यशक्तित्वात्परमेश्वरे युज्यत इति भावः । अचिन्त्यशक्त्या घटनमित्यत्रातिदिशति ॥ तच्छक्तयैवेति ॥ एवं सर्वत्रावयवावयव्यादिषु भेदा-भेदाविति भ्रमवारणायात्यन्ताभेदस्थलनियमं प्रदर्श्य भेदाभेदस्थलं दर्शयति ॥ भेदाभेदाविति ॥ तदन्यत्र विष्णुरमाजीवेभ्यो अन्यत्र जडमात्रे अवयवावयविनोर् गुणक्रियाजातिपूर्वधर्माणां भेदाभेदौ ज्ञेयौ उभयोस्तयोर्भेदाभेदयोरपि दर्शनात् । हस्तवितस्त्या अंशात्मकोऽयं पट इत्यभेदस्य एतदंशमात्रं पटो नेति भेदस्य च । तथा नीलं पटश्चलति पट इति सामानाधिकरण्येनाभेदस्य । सत्यपि पटे नैल्यादेः क्रियायाश्च भेदस्य चादर्शनादित्यर्थः । भेदाभेदवपीति च सम्बन्धः । तेनायावद्धर्मिभाविधर्माणाम् अत्यन्ताभेद इति सूचितं भवति ।
प्रसङ्गाद्भेदाभेदस्थलान्तरमाह ॥ कार्यकारणयोरिति ॥ चोऽवधारणे । भेदाभेदावेवेति सम्बन्धः । खण्डितं रूपमेवात्र विकारोऽपि विकारिण इत्युक्तेः । अत्र कारणशब्द उपादानकारणमात्रपर इत्याशयेनाह ॥ निमित्तकारणं विनेति ॥ भगवत्येव स्वाचिन्त्यशक्त्या सर्वं घटते । चित्प्रकृत्यादिषु तच्छक्तयैवेत्युक्तार्थे सूत्रं पठति ॥ आत्मनीति ॥ आत्मन्येव विचित्राश्च शक्तयः सन्ति नान्यत्र विचित्रशक्तिः पुरुषः पुराणो न चान्येषां शक्तयस्तादृशा स्युरिति श्रुतेरिति सूत्रार्थः । न केवलं विचित्रशक्तिः किन्तु सर्वशक्तयुपेता च सा विष्णाख्यदेवतेत्यर्थप्रतिपादकतया प्रकृतोपयुक्तं सूत्रं पठति ॥ सर्वोपेतेति ॥ सर्वैर्युक्ता शक्तिभिर्देवता सेति श्रुतेरित्यर्थः । गुणाः श्रुताः सुविरुद्धाश्च देव इत्यादिश्रुतेः । सर्वेषां युगपदणुत्वमहत्वादिविरुद्धधर्माणां हरावेवोपपत्तेस्तस्यैव मुख्याचिन्त्य-शक्तिरित्यत्र च सूत्रं पठति ॥ सर्वधर्मेति ॥ एवमघटिताभेदविशेषादिघटकाचिन्त्यशक्तिसद्भावे सूत्राण्युदाहृत्य भगवद्धर्माणां तदत्यन्ताभेदे श्रुतिं पठति ॥ स्वाभाविकीति ॥ अस्य शक्तिः परा सर्वोत्तमा सर्वविलक्षणा वा । सा च स्वाभाविकी विविधा श्रूयते । कथं ज्ञानं बलक्रिया चेति । श्रुतित्वाद्द्वन्द्वैकवद्भावे नपुंसकत्वाभावः । अत्र चक्षुराद्यंगानामत्यन्ताभेदेऽपि श्रुतिं पठति ॥ यत्रेति ॥ यत्र परे यस्मिन्विश्वकर्मनामके हरौ सप्तर्षीन् । ऋष ज्ञान इति धातुः । ज्ञानसाधनानि मनोबुद्धि-सहितानि पञ्चज्ञानेन्द्रियाणीति सप्तापिचैकमत्यन्ताभिन्नमाहुरित्यर्थः ।
ननु श्रुत्याद्युक्तानामवयवादीनां ज्ञानादिधर्माणां च मिथ्यात्वात्तस्य सत्यत्वमङ्गीकृत्य प्राप्तविरोधपरिहारः क्रिमिति क्रियत इत्यतस्तस्य सत्यत्वे स्फुटं श्रुतिं पटति ॥ विनेति ॥ अस्मिन्परेशे हरौ यच्छतं श्रुत्युक्तं तथा स्मृत्युक्तावयवगुणादिकं तत्सर्वमद्धा सत्यरूपमेवावगम्यं क्वचित्किञ्चिदप्यसत्यं नैव श्रुत्या उक्तस्यासत्यत्वे तदप्रामाण्यापत्तेरिति भावः । तर्हि जनितोत विष्णोरित्यादिश्रुत्युक्तं जननादिकमपि हरौ सत्यं स्यादित्यत आह ॥ दोषान्विनेति ॥ श्रुतिप्रतीतमविशेषजातमसत्यमेव । विष्णोरित्यस्य यज्ञस्येति वा यजमानस्येति चैतान्यर्थान्तरपरतया व्याख्यातत्वेनाप्रामाण्याप्रसक्तेः । दोषाणां सत्यत्वे च सकलश्रुत्यादिविरोधादीश्वरत्वव्याघाताच्चेति भावः ॥ गुणगुण्यैक्ये तथा युगपदणुत्वमहत्वादिष्वप्यस्ति युक्तिविरोधः । अतस्तदसत्यत्वमप्यङ्गीक्रियत इत्यत आह ॥ सर्वं युक्तमिति ॥ सम्पूर्णानन्दशक्तेर्हरेरन्यत्र विरुद्धमपि युक्तमेवेत्यर्थः ।
यदर्थं भेदाभेदनिरूपणं तदिदानीमाह ॥ तस्मादिति ॥ ईश्वरः प्रकृतिर्जीव जडम् इति चतुष्टयं पदार्थानां समुद्दिष्टम् । अत्राद्यत्रयेऽवयव्यवयवादीनामत्यन्ताभेदः जगन्मात्रे भेदाभेदौ यस्मात्तस्मा-देकस्मिन्नपि शरीरिभुक्तान्नादिकृतोपचयादिनिमित्तकाभेदसद्भावादभेदमादाय प्रत्यभिज्ञाया अन्यथा-सिद्धत्वाद्भेदमादाय प्रभवाप्ययौ युज्येते इत्यर्थः ॥ शरीरस्योपचये तद्विशिष्टस्य प्रभव उपचयविशिष्ट-स्याप्यय इति भावः । ननु मूले प्रभवाप्यययोः समानकालीनत्वमुच्यते । नित्याविति प्रभवस्याप्ययस्य च सदातनत्वोक्तेर् न हि प्रभवकाले अप्ययो भवति विरोधादित्यत आह ॥ न च विरोध इति ॥ उपपादयति । स्थूलसूक्ष्मत्ववदिति ॥ यथैकस्यैव घटस्य सर्षपाद्यपेक्षया स्थूलत्वं पर्वतापेक्षया सूक्ष्मत्वं चेत्यापेक्षिकमस्ति । तद्वदत्राप्यविरोध इति भावः । तत्र स्थूलत्वादेरापेक्षिकत्वादविरोधो युज्यते । प्रकृते कथमविरोध इत्यत आह ॥ आपेक्षिकत्वमिति ॥ अत्रापि युगपदेव केनचिदाया-सादिना देहस्योपचयः केनचिदन्नादिनोपचय इत्यंशभेदेनापेक्षिकत्वं विशिष्टापेक्षया प्रभवादिक-मित्यापेक्षिकत्वमत्रापि युज्यत इत्यर्थः । ततश्च नित्यावपि प्रभवाप्ययौ न दृश्येते इति यदुक्तं तदुपपन्नमिति सिद्धम् ॥ ४९ ॥
गुणैर्गुणानुपादत्ते यथाकालं विमुञ्चति ।
न तेषु सज्जते योगी गोभिर्गा इव गोपतिः ॥ ५० ॥
पदरत्नावली
सूर्यादनुशिक्षितां बुद्धिमाह– गुणैरिति । योगी यथाकालं विहितकाले गुणैरिन्द्रियैर्गुणान् शब्दादीन् विषयान् उपादत्ते विमुञ्चति च । तेषु विषयेषु न सज्जते नातिसक्तो भवति । कथमिव । गोपतिः सूर्यः गोभिः रश्मिभिर् गा इव जलानीव ॥ ५० ॥
श्रीनिवासतीर्थीया
सूर्याच्छिक्षिताम् बुद्धिमाह ॥ गुणैरिति ॥ योगी यथाकालं विहितकाले गुणैरिन्द्रियैर्गुणान् शब्दादिविषयान् उपादत्ते सेवते विमुञ्चति च । तेषु विषयेषु नातिसक्तो भवति । गोपतिः सूर्यो गोभिः रश्मिभिर्गा जलानि वसन्तकाल उपादत्ते वर्षाकाले मुञ्चति यथा तद्वदित्यर्थः
॥ ५० ॥
प्रमेयचन्द्रिका
सूर्याच्छिक्षितमुच्यते ॥ गुणैरिति ॥ विहितकाले गुणैरिन्द्रियैर्गुणान्विषयानु-पादत्ते । अविहितकाले विमुञ्चति । तथापि तेषु गुणेषु न सज्जते । गोपतिः सूर्यो गोभी रश्मिभिर् गा जलानीवेत्यर्थः ॥ ५० ॥
बुद्धिसंस्थेन भेदेन व्यक्तस्थ इव तद्गतः ।
लक्ष्यते स्थूलमतिभिरात्मा चाम्बुस्थितार्कवत् ॥ ५१ ॥
तात्पर्यम्
‘बुद्धिसंस्थस्त्वात्मभेदो व्यक्तस्थो जीव उच्यते । तेनैव सह संस्थाना-त्परात्मा स्थूलबुद्धिभिः । जीववल्लक्ष्यते विष्णुर्यथैवाम्बुस्थितार्कवत् । परमार्कः (परार्कः) पारिमाण्या(पारिमाण्डिल्या)द्वर्तुलत्वादिना तथा । अर्कस्वरूपानभिज्ञैः शिरः पादादि-वर्जितः । अचेतनश्च कल्प्येत तत्तेजोमात्रदर्शिभिः । सूर्यदेहादिभिन्नं हि तेजोमण्डलमेव तु । दृश्यते स्थूलमतिभिरेवमेव जनार्दन’ इति प्रभासके ॥ ५१ ॥
पदरत्नावली
न केवलमसङ्गत्वमेव सूर्यात् शिक्षितमपि तु जीवपरमात्मवैलक्षण्यं चेति भावेनाह बुद्धिसंस्थेनेति । तस्य जीवस्य शरीरगत आत्मा परमात्मा स्थूलमतिभिः प्रमाणज्ञनरहितैर् बुद्धिसंस्थेन भेदेन बाह्यान्तःकरणगतमिथ्याज्ञानेन व्यक्तं शरीरं तत्स्थो जीव इव सादृश्येन सुखी दुःखीति लक्ष्यते । दुःखाद्यधिकरणदेहगतत्वात् । कथम् । अम्बुस्थितार्कवत् । यथा परमार्कस्वरूपानभिज्ञैर् बिम्बभूतो जले प्रतिबिम्बितार्कवदचेतनः शिरःपादादिरहितो वर्तुलश्चेति कथ्यते तथेति । तस्मात् तयोरन्यः पिप्पलं स्वाद्वत्त्यनश्नन्नन्यो अभिचाकशीतीत्यादिश्रुतितात्पर्य-वेदिभिर्निर्मलचित्तैः सूक्ष्मेक्षणैर् जीवपरयोर्वैलक्षण्यं जानद्भिर्योगिभिर्भाव्यम् । अन्यथा असुरमते प्रवेश इति । दृष्टान्तेप्येवमेव ज्ञातव्यम् । बिम्बप्रतिबिम्बयोरिव जीवपरयोर्भेदो व्यावहारिको न तु यथार्थ इति मतं ‘‘बुद्धिसंस्थस्त्वात्मभेदो व्यक्तस्थो जीव उच्यते । तेनैव सह संस्थानात् परात्मा स्थूलबुद्धिभिः । जीववल्लक्ष्यते विष्णुर्यथैवाम्बुस्थितार्कवत् । परमार्कः पारिमाण्याद् वर्तुलत्वादिना तथा । अर्कस्वरूपानभिज्ञैः शिरःपाण्यादिवर्जितः । अचेतनश्च कल्प्येत तत्तेजोमात्रदर्शिभिः । सूर्यदेहादिभिन्नं तु तेजोमण्डलमेव तु । दृश्यते स्थूलमतिभिरेवमेव जनार्दनः’’ इति प्रमाणविरुद्धत्वादुपेक्षणीयम् ॥ ५१ ॥
श्रीनिवासतीर्थीया
यथाऽम्बुस्थितार्कप्रतिबिम्बं दृष्ट्वा तद्वदेव परमार्कोऽपि प्रादेश-परिमितत्वाचेतनत्वादिना ज्ञायते परमार्कस्वरूपानभिज्ञैरेवमात्मा परमात्मा देहगतत्वाज्जीव इव दुःखादिमत्वेन स्थूलबुद्धिभिर्मिथ्याज्ञानेन विषयीक्रियते । तस्माज्ज्ञानिना नैवं मन्तव्यमिति सूर्यदृष्टान्तेन शिक्षिता बुद्धिः कथ्यते ॥ बुद्धिसंस्थेनेति ॥ श्लोकं प्रमाणेनैव व्याचष्टे ॥ बुद्धिसंस्थस्त्विति ॥ आत्मभेदो वस्तुस्वरूपापेक्षयाऽन्यथाकारज्ञानं भेदः परमात्मविषयको भेदो मिथ्याज्ञानमात्मभेदः । स न जीवस्वरूपे सम्भवतीति बुद्धिसंस्थ इत्युक्तम् । बाह्यान्तःकरणनिष्ठ इत्यर्थः । तेनैव जीवेनैव । अनेन तद्गत इति भ्रान्तावेकदेशस्थत्वरूपं निमित्तमुच्यत इत्युक्तम् भवति । कल्प्येत ज्ञायेत । तदिति परमार्केत्यर्थः । ननु तत्तेजोमात्रदर्शित्वं कुतः मण्डलस्यैव सूर्यत्वात्तस्य च स्पष्टदर्शनादित्यत आह ॥ सूर्येति ॥ जनार्दन एवमेव स्वस्वरूपानभिज्ञैर्जीववत्कल्प्यत इत्यर्थः ॥ ५१ ॥
प्रमेयचन्द्रिका
किंच सूर्यं दृष्ट्वा बिम्बप्रतिबिम्बयोः परमात्मजीवात्मनोर्द्युस्थितार्काम्बु-स्थितार्कप्रतिबिम्बयोरिव भेदो ज्ञातव्य इत्युच्यते ॥ बुद्धिसंस्थेनेति ॥ दुर्गमार्थत्वात्प्रमाणेनैतद्व्याचष्टे ॥ बुद्धिसंस्थ इति ॥ भेदस्तु परमात्माश्रित इति भेदो अन्यथाकारः । तथा चात्मभेदः परमात्मविषयो अन्यथाकारः भ्रम इति यावत् । स तु बुद्धिसंस्थः बाह्यान्तःकरणगतः । यद्वा बुद्धिसंस्थ इत्यनु-वादेनात्मस्थ इति तद्व्याख्यानम् । आत्मा अन्तःकरणं तद्गतो अन्यथाकार इत्यर्थः । व्यक्तस्थ इति पदेन जीव उच्यते । व्यक्तं तन्निमित्तकं सुखदुःखादिकमनुभवन् तत्र तिष्टतीति व्यक्तस्थो जीव इत्यर्थः । मूले तद्गत इत्यस्य तस्मिन्व्यक्तपदोदिते देहे तेन जीवेन सह स्थित इत्यर्थमभिप्रेत्याह ॥ तेन सह संस्थानादिति ॥ आत्मेत्यस्यार्थः ॥ परात्मेति ॥ स्थूलमतिभिरित्यस्य स्थूलबुद्धि-भिरिति । व्यक्तस्थ इव लक्ष्यत इत्यस्य दुःखाज्ञानादिना जीववल्लक्ष्यत इति । अम्बुस्थितार्क-वदित्यस्य निगदव्याख्यानं यथा चार्कस्थितांबुवदिति । यथैवेत्येतद्वतेरर्थः ।
अम्बुस्थितार्कवदित्यंतं विवृणोति ॥ परार्क इत्यादिना ॥ यथा परार्कः सूर्यदेवः । अर्कस्वरूपानभिज्ञैर् मण्डलगततेजोमात्रदर्शिभिः स्थूलमतिभिः पारिमाण्डिल्यात् । पारिमाण्डल्य-मल्पपरिमाणत्वं समयपादीयानुव्याख्यायामुक्तत्वात् । तृतीयार्थे पञ्चमी । प्रादेशिकत्वरूपाल्प-परिमाणत्वेनेत्यर्थः । परमार्कः पारिमाण्यादिति पाठे अल्पेत्युपस्कर्तव्यम् । अल्पपरिमाणत्वेनेत्यर्थः । वर्तुलत्वेनादिशब्दान्मध्ये किञ्चिच्चलनवत्वग्रहणम् । शिरःपाण्यादिवर्जितत्वेनाचेतनत्वेन चांबुस्थितार्क-वत्कथ्यते । एवमेव जनार्दनो जीवेन सहावस्थानाज्जीववद्दुःखादिमत्वेन लक्ष्यत इति योजना । एतदेव विवृणोति ॥ सूर्येति ॥ अयुतयोजनपरिमितं तेजोमण्डलं तन्मध्ये रथस्तत्र शिरःपाण्यादि-मानपि सूर्यो वर्तुलत्वशिरःपाण्यादिवर्जितत्वाचेतनत्वप्रकारेण भ्रान्तौ दृश्यते एवमेव जनार्दनोऽपीति भावः ॥
मूलार्थस्तु तद्गतः जीवदेहगतः परमात्मा बुद्धिसंस्थेनान्तःकरणगतभेदेनान्यथाकारेण भ्रमेण व्यक्तस्थ इव जीव इव दुःखादिमान् लक्ष्यते । अम्बुस्थितार्कवद् यथाऽऽदित्यवदिति ॥ ५१ ॥
नातिस्नेहः प्रसङ्गो वा कर्तव्यः क्वापि केनचित् ।
कुर्वन् विन्देत सन्तापं कपोत इव दीनधीः ॥ ५२ ॥
पदरत्नावली
मुक्तिसाधनेषु प्रथमत आपाद्यं विरक्तिलक्षणं साधनमिति कपोतशिक्षितां विरक्तिमाह– नातिस्नेह इति ॥ ५२ ॥
प्रमेयचन्द्रिका
नातिस्नेह इति मूले प्रसङ्ग इत्यस्य प्रकर्षेण सङ्गः स्नेहः ॥ ५२ ॥
कपोतः कश्चनारण्ये कृतनीडो वनस्पतौ ।
कपोत्या भार्यया सार्धमुवास कतिचित् समाः ॥ ५३ ॥
कपोतौ स्नेहगुणितहृदयौ गृहधर्मिणौ ।
दृष्टिं दृष्ट्याऽङ्गमङ्गेन बुद्धिं बुद्ध्या बबन्धतुः ॥ ५४ ॥
पदरत्नावली
स्नेहगुणितहृदयावित्येतद् दर्शयति दृष्टिमित्यादिना ॥ ५३–५४ ॥
श्रीनिवासतीर्थीया
मूलार्थस्तु । कपौतौ, कपोतश्च कपोती च कपोतौ । पुमान् स्त्रियेति सूत्रात् । गुणितम् बद्धम् । स्नेहगुणितहृदयत्वमेव दर्शयति ॥ दृष्टिमित्यादिना ॥ ५४ ॥
प्रमेयचन्द्रिका
स्नेहगुणितहृदयौ स्नेहानुबद्धान्तःकरणौ ॥ ५४ ॥
शय्यासनाटनस्थानवार्ताक्रीडाशनादिषु ।
मिथुनीभूय विस्रब्धौ चेरतुर्वनराजिषु ॥ ५५ ॥
पदरत्नावली
शय्यसनादिषु मिथुनीभूय वर्तमानौ ॥ ५५ ॥
श्रीनिवासतीर्थीया
मिथुनीभूय विद्यमानौ । विस्रब्धौ विश्वस्तौ । राजिः पङ्क्तिः ॥५५॥
यद्यद् वाञ्छति सा राजन् तदर्थमनुकम्पितः ।
तं तं१ समानयत् कामं कृच्छ्रेणाप्यजितेन्द्रियः ॥ ५६ ॥
श्रीनिवासतीर्थीया
तदर्थं समानयदित्यन्वयः । कामं काम्यम् ॥ ५६ ॥
दुर्घटभावदीपिका
हे राजन् । सा कपोती यद्यद्वाञ्छति तत्तदजितेन्द्रियोऽनुकंपितः कपोत्या स्नेहयुक्तः कपोतः स्वयं च तदर्थं कपोत्यर्थं यं यं कामं वाञ्छति तं तं काममभिकृच्छ्रेणापि समानयतीति । एतेन यदित्यस्य नपुंसकलिङ्गत्वात्तदिति वक्तव्यम् । तं तं काममित्यनुपपन्नमिति दूषणं निराकृतम् । तं तमित्यत्रार्थवशात्तत्तदिति विपरिणाममङ्गीकृत्यान्वयस्योक्तत्वात् । एवं यदित्यत्र यं यमिति विपरिणामः । एतेनैव तदर्थमित्येतद्व्यर्थमिति दूषणमपास्तम् । स्वयमित्यस्याध्याहारेण स्वयं तदर्थं यं यं कामं वाञ्छतीत्यर्थस्योक्तत्वात् ॥ ५६ ॥
प्रमेयचन्द्रिका
ततस्तत्रावस्थाने इत्यर्थः ॥ ५६ ॥
कपोती प्रथमं गर्भं गृह्णती काल आगते ।
अण्डानि सुषुवे नीडे स्वपत्युः सन्निधौ सती ॥ ५७ ॥
तेषु काले व्यजायन्त रचितावयवा हरेः ।
शक्तिभिर्दुर्विभाव्याभिः कोमलाङ्गतनूरुहा ॥ ५८ ॥
प्रजाः पुपुषतुः प्रीतौ दम्पती पुत्रवत्सलौ ।
शृण्वन्तौ कूजितं तासां रुवन्तौ कलभाषितैः ॥ ५९ ॥
तासां पतत्रैः सुस्पर्शैः कूजितैर्मुखचेष्टितैः ।
प्रत्युद्गमैरदीनानां पितरौ मुदमापतुः ॥ ६० ॥
स्नेहबद्धानुहृदयावन्योन्यं विष्णुमायया ।
विमोहितौ दीनधियौ शिशून् पुपुषतुः प्रजाः ॥ ६१ ॥
श्रीनिवासतीर्थीया
तेषु अण्डेषु ॥ ५८–६१ ॥
दुर्घटभावदीपिका
दीनधियावित्यस्य दीनेषु वियोगकालेषु क्लेशापादकेषु व्यापारेषु धीरन्तःकरणं ययोस्तौ दीनधियावित्यर्थः । एतेन संयोगकाले क्लेशाभावाद्दीनधियाविति खिन्नधीत्वाभिधानमयुक्तमिति दूषणमपाकृतम् । दीनधियावित्यस्य संयोगकालेष्वित्यत्र धियावित्यर्थ इत्यनङ्गीकारात् ॥ ६१ ॥
॥ इति श्रीसत्याभिनवतीर्थविरचितायां श्रीभागवतटिप्पण्यां सप्तमोऽध्यायः ॥ ११–७ ॥
एकदा जग्मतुस्तासामशनार्थं कुटुम्बिनौ ।
परितः कानने तस्मिन्नर्थिनौ चेरतुश्चिरम् ॥ ६२ ॥
दृष्ट्वा तान् लुब्धकः कश्चिद् यदृच्छातो वनेचरः ।
जगृहे जालमातत्य चरतः स्वालयान्तिके ॥ ६३ ॥
श्रीनिवासतीर्थीया
अर्थिनावन्नसम्पादनेच्छावन्तौ ॥ ६२,६३ ॥
कपोतश्च कपोती च प्रजापोषे सदोत्सुकौ ।
गतौ पोषणमादाय स्वनीडमुपजग्मतुः ॥ ६४ ॥
कपोती स्वात्मजान् वीक्ष्य बालकान् जालसंवृतान् ।
तानभ्यधावत् क्रोशन्ती क्रोशतो भृशदुःखिता ॥ ६५ ॥
श्रीनिवासतीर्थीया
पूर्वं गतौ पश्चादुपजग्मतुः ॥ ६४,६५ ॥
साऽसकृत्स्नेहगुणिता दीनचित्ताऽजमायया ।
स्वयं चाबध्यत १शिचा बद्धान् पश्यन्त्यपस्मृतिः ॥ ६६ ॥
कपोतश्चात्मजान् बद्धानात्मनोऽप्यधिकप्रियान् ।
भार्यां चात्मसमां दीनां विललापातिदुःखितः ॥ ६७ ॥
पदरत्नावली
शिचा पक्षिग्राहिजालेन ॥ ६६ ॥
श्रीनिवासतीर्थीया
अजो हरिः । शिचा पक्षिग्राहजालेन । शिक्शब्दस्य तृतीया । ननु बद्धान्पश्यन्ति कथं स्वयमाबद्ध्यतेत्यत उक्तम् ॥ अजमाययाऽपस्मृतिरिति ॥ ६६,६७ ॥
प्रमेयचन्द्रिका
सिचा जालेन ।
अहो मे पश्यतापायमल्पपुण्यस्य दुर्मतेः ।
अतृप्तस्याकृतार्थस्य गृहास्त्रैवर्गिका हताः ॥ ६८ ॥
प्रमेयचन्द्रिका
अतृप्तस्यालम्बुद्धिरहितस्य । अकृतार्थस्य असम्पूर्णप्रयोजनस्य । त्रैवर्गिकः धर्मार्थकामाख्यत्रिवर्गसाधनः ॥ ६८ ॥
श्रीनिवासतीर्थीया
गेहो गृहाश्रमः । त्रैवर्गिको धर्मार्थकामसाधनः ॥ ६८ ॥
अनुरूपाऽनुकूला च यस्य मे पतिदेवता ।
शून्ये गृहे मां संत्यज्य पुत्रैः स्वर्याति साधुभिः ॥ ६९ ॥
प्रमेयचन्द्रिका
अनुरूपा स्वस्य रूपेव रूपोपेता ॥ ६९ ॥
सोऽहं शून्यगृहे दीनो मृतदारो मृतप्रजः ।
जिजीविषे किमर्थं वा विदुरो दुःखजीवनः ॥ ७० ॥
श्रीनिवासतीर्थीया
दुःखेन जीवनवान् दुःखजीवनः ॥ ७० ॥
तांस्तथाऽऽवृतान् १शिग्भिर्मृत्युग्रस्तान् विचेष्टतः ।
स्वयं च कृपणः शिक्षु पश्यन्नप्यबुधोऽपतत् ॥ ७१ ॥
श्रीनिवासतीर्थीया
शिग्भिर्जालैः । शिक्षु जालेषु ॥ ७१ ॥
प्रमेयचन्द्रिका
सिग्भिर् जालैकदेशभूतबन्धकपाशैः ॥ ७१ ॥
तं लब्ध्वा लुब्धकः क्रूरः कपोतं गृहमेधिनम् ।
कपोतकान् कपोतीं च सिद्धार्थः प्रययौ गृहम् ॥ ७२ ॥
एवं कुटुम्ब्यशान्तात्मा द्वन्द्वारामः पतत्रिवत् ।
पुष्णन् कुटुम्बं कृपणः सानुबन्धोऽवसीदति ॥ ७३ ॥
यः प्राप्य मानुषं लोकं मुक्तिद्वारमनावृतम् ।
गृहेषु खगवत् सक्तस्तमारूढच्युतं विदुः ॥ ७४ ॥
॥ इति श्रीमद्भागवते एकादशस्कन्धे सप्तमोऽध्यायः ॥
पदरत्नावली
आरूढाद् वृक्षाच् च्युतं पतितम् ॥ ७४ ॥
॥ इति श्रीविजयध्वजतीर्थयतिविरचितायां भागवतटीकायां
पदरत्नावल्याम् एकादशस्कन्धस्य सप्तमोऽध्यायः ॥
श्रीनिवासतीर्थीया
लोकमनावृतमपिहितद्वारम् । सक्तश्चेदारूढच्युतम् आरूढाद्वृक्षात्पतितम् । स यथा भग्नाङ्गो भवत्येवमयमप्यनर्थभागित्यर्थः ॥ ७४ ॥
॥ इति श्री श्रीनिवासतीर्थविरचितायां श्रीभागवतटिप्पण्याम्
एकादशस्कन्धे सप्तमोऽध्यायः ॥
प्रमेयचन्द्रिका
तस्मान्मनुष्यदेहवद्भिर्भगवदाराधने अवहितैर्भवितव्यम् । अन्यथा रूढिच्युति-न्यायविषयतया महाहानिः स्यादिति शिक्षयति ॥ यं प्राप्येति ॥ ७४ ॥
॥ इति श्रीमद्विठलार्यतनूजेनानन्दतीर्थाख्येन विरचितायां श्रीमद्भागवत
एकादशस्कन्धतात्पर्यप्रमेयचन्द्रिकायां सप्तमोऽध्यायः ॥