०६ षष्ठोऽध्यायः

अथ ब्रह्मात्मजैर्दैवैः प्रजेशैरावृतोऽभ्यगात्

॥ अथ षष्ठोऽध्यायः ॥

बादरायणिरुवाच—

अथ ब्रह्मात्मजैर्दैवैः प्रजेशैरावृतोऽभ्यगात् ।

भवश्च भूतभव्येशो ययौ भूतगणैर्वृतः ॥ १ ॥

पदरत्नावली

स्वाभीष्टस्वलोकप्राप्तये भक्तमुख्यब्रह्मादिप्रार्थनासुधार्द्रीकृतचित्तस्य हरेस्तदभ्यनुज्ञानं स्वकुलसंहरणोपक्रमश्च समृद्धभक्तिसमुद्रमग्नोद्धवोपसत्तिप्रकारश्चास्मिन्नध्याये कथ्यते । तत्र प्रथमं ब्रह्मादिप्रार्थनाप्रकारः प्रारभ्यते अथेत्यादिना । आत्मजैर् आत्मनो मनसो जातैः सनकादिभिः । सङ्क्षिप्योक्तं विवृणोति भवश्चेत्यादिना ॥ १ ॥

प्रमेयचन्द्रिका

भवस्यापि ब्रह्मपुत्रत्वेऽपीतरापेक्षयोत्तमत्वज्ञापनाय पृथगुक्तिः । तद्व्यञ्जनायोक्तम् ॥ भूतभव्येति ॥ १ ॥

इन्द्रो मरुद्भिर्भगवानादित्यो वसवोऽश्विनौ ।

ऋभवोऽङ्गिरसो रुद्रा विश्वे साध्याश्च देवताः ॥ २ ॥

गन्धर्वाप्सरसो नागाः सिद्धचारणगुह्यकाः ।

ऋषयः पितरश्चैव सविद्याधरकिन्नराः ॥ ३ ॥

पदरत्नावली

ऋभवो नाम केचन देवाः । अङ्गिरसः बृहस्पत्यादयः । रुद्राः प्रधानादन्ये

॥ २ ॥

श्रीनिवासतीर्थीया

ऋभव इति ॥ अत्र यद्यप्येको ऋभुर्विभ्राजकश्चापरौ तथाऽपि छत्रिन्यायेनेतरयोर्ऋभुशब्द इति ध्येयम् । यथोक्तम् । ऋभवो विष्ट्यक्रतेति व्याख्यानावसरे ऋग्भाष्यटीकायाम् ऋभूविभ्वावाज इति । सुधन्वन आङ्गिरसस्य त्रयः पुत्रा रथकारा बभूवुर् इति वक्षति इति । विश्वे विश्वेदेवता ॥ २,३ ॥

प्रमेयचन्द्रिका

अङ्गिरस इति ॥ देवविशेषाः ॥ २ ॥

द्वारकामुपसंजग्मुः सर्वे कृष्णदिदृक्षवः ।

वपुषा येन भगवान् नरलोकमनोरमः ।

यशो वितन्वन् लोकेषु सर्वलोकमलापहम् ॥ ४ ॥

तस्यां विभ्राजमानायां समृद्धायां महर्षिभिः ।

व्यचक्षतावितृप्ताक्षाः कृष्णमद्भुतदर्शनम् ॥ ५ ॥

स्वर्गोद्यानोद्भवैर्माल्यैश्छादयन्तो यदूत्तमम् ।

गीर्भिश्चित्रपदार्थाभिस्तुष्टुवुर्जगदीश्वरम् ॥ ६ ॥

पदरत्नावली

दिदृक्षुत्वे हेतुमाह– वपुषेति । सर्वलोकमलापहं यशो लोकेषु वितन्वन् । भगवान् नरलोकमनोरम इति येन (करणेन) तस्मादिति शेषः ॥ या स्वयं कारिता तस्यामासीनम् ॥ माल्यैः पुष्पैः ॥ ४–६ ॥

श्रीनिवासतीर्थीया

वितन्वन्स्थितो यस्तं कृष्णमित्यन्वयः ॥ ४–६ ॥

दुर्घटभावदीपिका

भगवान्नारायणो येन वपुषा वपुरेकदेशे कृष्णकेशेन नरलोकमनोरमो ज्ञानिलोकानामपि मनोरमः सन् द्वारकायामास्ते । तद्रूपकृष्णदिदृक्षवो द्वारकामुपसञ्जग्मुरिति पूर्वेणान्वय इति । एतेन तच्छब्दाभावाद्येनेत्येतदनन्वितमिति दूषणमपास्तम् । तद्रूपेति समस्तपदा-ध्याहारेणान्वयस्योक्तत्वात् ॥ ४ ॥

देवा ऊचुः—

नताः स्म ते नाथ पदारविन्दं बुद्धीन्द्रियप्राणमनोवचोभिः ।

यच्चिन्त्यतेऽन्तर्हृदि भावयुक्तैर्मुमुक्षुभिः कर्ममयोरुपाशात् ॥ ७ ॥

पदरत्नावली

यत्पादारविन्दमन्तर्हृदि बुद्धीन्द्रियप्राणमनोवचोभिमानिदेवैश्चिन्त्यते । बुद्धीन्द्रियाणि ज्ञानेन्द्रियाणि, बुद्धिश्चेन्द्रियाणि चेति वा ॥ ७ ॥

श्रीनिवासतीर्थीया

बुद्धीन्द्रियप्राणमनोवचोभिर्नताः स्मेति वा चिन्त्यत इति वा सम्बन्धः । तत्र बुद्धीन्द्रियप्राणमनोभिश्चिन्त्यते वचसा । धातूनामनेकार्थत्वाच्चिन्त्यते स्तूयते इति विवेकः । भावो भक्तिः ॥ ७ ॥

प्रमेयचन्द्रिका

नताः स्मेत्यत्र यत इति श्रवणात्तस्येति ग्राह्यम् ॥ बुद्धीन्द्रियेति ॥ बुध्द्याद्यभिमानिभिर्देवैरित्यर्थः । भावयुक्तैर्भक्तियुक्तैः । भावो भक्तिः स्वभावश्चेत्युक्तेः ॥ ७ ॥

त्वं मायया त्रिगुणयाऽऽत्मनि दुर्विभाव्यं

व्यक्तं सृजस्यवसि लुम्पसि तद्गुणस्थः ।

नैतैर्भवानजित कर्मभिरज्यते वै

यः स्वे सुखेऽव्यवहितेऽभिरतोऽनवद्यः ॥ ८ ॥

पदरत्नावली

ब्रह्मादिदेवैश्चिन्त्यत्वे ततोऽप्युत्कृष्टगुणेन भाव्यम् । तत् किमस्य निर्गुणस्या-स्तीत्यत्राह त्वमित्यादिना । मायया त्वदिच्छया नियतया त्रिगुणया प्रकृत्या । आत्मनि आत्मा-धारत्वेन । व्यक्तं ब्रह्माण्डम् । अचेतनस्य पुरुषसम्बन्धित्वेन प्रवृत्तिदर्शनादिच्छामात्रेण प्रकृत्या सृष्ट्यादिकं कथमुपपद्यत इत्यत उक्तं तद्गुणस्थ इति । प्रकृतिगुणेषु स्थित्वा स्वनियतैर्गुणैः । ननु गुणसम्बन्धाज्जीववत् पुण्यपापलक्षणकर्मबद्धता स्यादेवेति तत्राह– नैतैरिति । एतैर्गुणैर्निमित्तैः । अनेन दुःखानुभवोऽपि नास्तीत्युक्तं भवति । अत्र हेतुगर्भविशेषणमाह– य इति । यः प्रकाशरूपः । या प्रापण इति धातोर्यात्यवगच्छति सर्वमिति सर्वज्ञ इत्यर्थः । अत एवाव्यवहिते स्वरूप-सुखेऽभिरतः । अत एवानवद्यः दुःखादिनिमित्तदोषाभावात् ॥ ८ ॥

श्रीनिवासतीर्थीया

दुर्विभाव्यं केनापि भावयितुं कर्तुमशक्यम् । व्यक्तं ब्रह्माण्डम् । आत्मन्यात्माधारत्वेन । तथा हि । बहिरावरणोदके भगवान्कूर्मरूपेण बृहदण्डवोढेत्युच्यते । तद्गुणस्थो मायाकार्यपदार्थस्थितोऽपि तत्कर्मभिर्नाज्यते सम्बन्धलिप्तो न भवति । अहंमानयुक्तो न भवति । अव्यवहिते सदाऽनुभूयमाने ॥ ८ ॥

प्रमेयचन्द्रिका

मायया प्रकृत्या व्यक्तं ब्रह्माण्डमुद्दिष्टम् ॥ तद्गुणस्थ इति ॥ तस्याः प्रकृतेर् गुणादिषु सत्वादिषु तदपेक्षया अप्रधानेषु चोपादानशक्त्यादिप्रदत्वेन स्थित इत्यर्थः । तद्गुण-स्थत्वोक्त्या हरेरपि बन्धो न शङ्कनीय इत्युच्यते ॥ नैतैरिति ॥ कर्मभिः स्वक्रियाविशेषैर् एतैर्गुणैः । यद्वा एतैर्गुणैर्नाज्यते न बध्यसे । सृष्ट्यादिकर्मभिश्च बध्यसे । श्रमादिप्राप्तिरूपबन्धनं प्राप्नोषि । तत्र हेतुः स्वे स्वरूपभूते अव्यवहिते नित्यव्यक्ते सुखे अभिरतो ऽनवद्यो निर्दोषश्च यः स भगवानित्यन्वयः ॥ ८ ॥

शुद्धिर्नृणां न तु तथेड्य दुराशयानां

विद्याश्रुताध्ययनदानतपःक्रियाभिः ।

सत्वात्मनामृषभ ते यशसि प्रवृद्ध

सच्छ्रद्धया श्रवणसंभृतया यथा स्यात् ॥ ९ ॥

पदरत्नावली

तव कीर्तिश्रवणपूर्णसच्छ्रद्धया संसारिणामपि सात्विकानां गुणनिमित्त-पापादिलेपाभावेनात्यन्तिकी शुद्धिर्भवति किमु तवेति भावेनाह– शुद्धिरिति । हे ईड्य दुराशयानां नॄणां तथा विद्यादिभिः शुद्धिर्न स्याद् यथा सत्वात्मनां पुंसां ते तव यशसि प्रवृद्धसच्छ्रद्धया शुद्धिः स्यादित्यन्वयः । अनेन त्रयोपि गुणा अशुद्धिहेतव उत नेति शङ्का परास्ता । सत्वगुणस्य भगव-त्कथारतिहेतुत्वात् शुद्धिकरत्वेन ज्ञानजनकत्वेन मोक्षहेतुत्वात् ॥ ९ ॥

श्रीनिवासतीर्थीया

दुष्टविषयेष्वाशयानां दुराशयानाम् । सत्त्वात्मनां साधुगुणत्वात् सत्त्वो भगवांस्तत्रत्यान्तःकरणानाम् । यशसि श्रुते सति ॥ ९ ॥

प्रमेयचन्द्रिका

तव कीर्तिश्रवणादिमन्तोऽप्यतिशुद्धाः किमुवाच्यं त्वं निर्दोष इत्याशयेनोच्यते ॥ शुद्धिरिति ॥ हे ईड्य दुराशयानां नृणां विद्या ज्ञानं श्रुतं श्रवणम् अध्ययनं वेदपाठः । एत-दादिभिस्तथा शुद्धिर्न स्यात् । यथा सात्विकमनसां ते तव यशोविषये प्रवृत्तया सच्छास्त्रश्रवणेन संप्राप्तया सच्छ्रद्धया शुद्धिः स्यात्तथेति पूर्वेणान्वयः । एवंविधस्य ते अनुग्रहेणास्माकं शुद्धिः क्षेमश्च स्यादिति प्रार्थयन्ति ॥ ९ ॥

स्यान्नस्तवाङ्घ्रिरशुभाशयधूमकेतुः

क्षेमाय यो मुनिभिरार्द्रहृदोह्यमानः ।

यः सात्त्वतैः समविभूतिभिरार्द्रहृद्भि

र्व्यूह्यार्चितः सवनशः समविक्रमैश्च१ ॥ १० ॥

तात्पर्यम्

यः प्रकाशरूपः ॥ १० ॥

पदरत्नावली

अस्तु नित्यनिर्दुःखानन्दः सृष्ट्यादिकर्ता च, ततः किं युष्माकमिति तत्राहुः– स्यान्न इति । यो मुनिभिः क्षेमाय आर्द्रहृदोह्यमानः यश्च सवनशस् त्रिकाले आत्मविद्भिः स्वरूपविज्ञानविद्भिः सात्विकैः पुरुषैः समविभूतिभिः समविक्रमैर्वासुदेवादिभिर्व्यूह्यार्चितस् तव सोंऽघ्रिरशुभाशयधूमकेतुः स्यादित्यन्वयः ॥ १० ॥

श्रीनिवासतीर्थीया

अशुभेति । अमङ्गलान्तःकरणस्य धूमकेतुरग्निभूतोऽङ्घ्रिर्नः क्षेमाय स्यादित्यन्वयः । सात्त्वतैः पञ्चरात्रोक्तप्रकारेणानुष्ठातृभिः । सवनशः प्रत्यहम् ॥ १० ॥

दुर्घटभावदीपिका

यः प्रकाशरूपो योऽङ्घ्रिः समविभूतिभिः समैश्वरैरात्मविद्भिरात्मज्ञानविद्भिः समविक्रमैः सात्विकैर्ब्रह्मादिभिः सवनशः सर्वदा व्यूह विशेषेण हृदि चिन्तयित्वाऽर्चितः पूजित इति ब्रह्मादीनां समविभूतिभिरित्यादिनोक्तमैश्वर्यादिना भगवत्साम्यं किञ्चित्साम्यमिति ज्ञातव्यम् । अन्येषां हरिसाम्यं तु किञ्चित्साम्यमुदीरितम् । सम्यक् साम्यं तु मत्स्यादेरिति शास्त्रविनिर्णय इति वचनात् ॥ १० ॥

प्रमेयचन्द्रिका

॥ स्यादिति ॥ अत्र य इति पदत्रयं वर्तते । तत्र मुनिभिर् यः क्षेमाय भक्त्याऽऽर्द्रहृदा ऊह्यमानः यश्च परमात्मविद्भिः सात्वतैः सत्वं तु शोभनत्वं स्यात्तद्युक्ताः सात्वता मता इति वचनाच्छतगुणयुक्तैः पुरुषैः सवनशस् त्रिकालमर्चितः । कथंभूतः समविभूतिभिः पूर्णमद इत्युक्तरीत्या सममाहात्म्योपेतैः रूपैः पञ्चात्मकः स भगवान् द्विषडात्मकोऽभूत्पञ्चद्वयीशत सहस्रपरोऽमितश्चेत्यादिप्रकारेण व्यूह्य स्थितः सन्नर्चितस्तवाङ्घ्रिः स नो अशुभाशयभस्मीकरणे धूमकेतुः स्यादिति हि योजना । तत्र यच्छब्दद्वयस्यैवान्वयो दृश्यते । न तृतीयस्येत्यत आह ॥ यः प्रकाशरूप इति ॥ नायं यच्छब्दः किंत्वकारान्तः प्रकाशवाची यशब्दोऽतो अङ्घ्रिरित्यस्य विशेषणम् । तया अन्वित इति भावः ॥ १० ॥

यश्चिन्त्यते प्रयतपाणिभिरध्वराग्नौ

त्रय्या निरुक्तविधिना स्वहविर्गृहीत्वा ।

अध्यात्मयोग उत योगिभिरात्ममाया

जिज्ञासुभिः परमभागवतैः परीष्टः ॥ ११ ॥

पदरत्नावली

पुनरप्यङ्घ्रिं विशेषयन्ति यश्चिन्त्यत इति । त्रय्या वेदत्रयेण निरुक्तविधिना स्वहविर्गृहीत्वा प्रयतपाणिभिर्याजकैर् अध्वराग्नौ विचिन्त्यते । उताप्यर्थविकल्पयोरित्यभिधानम् । यश्चाध्यात्मयोगे उत परमात्मध्यानेऽपि आत्ममायाजिज्ञासुभिर् योगिभिः परमभागवतैः परीष्टः सम्यक् पूजितः ॥ ११ ॥

श्रीनिवासतीर्थीया

प्रयतपाणिभिर्हविर्दाने एवोद्युक्तपाणिभिः । त्रय्या वेदेन नितरामुक्तो यो विधिस्तेन । परीष्टः परितः समन्तादिष्टः पूजितः । यज देवपूजेति धातोः कर्मणि क्तप्रत्यये यकारस्य इकाररूपे संप्रसारणे जाते इष्ट इति रूपम् ॥ ११ ॥

प्रमेयचन्द्रिका

पुनश्चाङ्घ्रिस्तूयते ॥ यश्चिन्त्यत इति ॥ त्रयी श्रुतिर्नित्यवाक्च वेदोऽनुवचनं तथा इत्युक्तेस्त्रय्या वेदेन यथावदुक्तेन विधिना स्वस्मै हविर्गृहीत्वा स्थितैः प्रयतपाणिभिर्याजिभिरध्वराग्नौ यश्चिन्त्यते । यश्चात्मनो महात्मजिज्ञासुभिः परमभागवतैर्योगिभिरात्मध्यानयोगेन ब्रह्मध्यानयोगेन परिसम्यगिष्टः पूजितः सोङ्घ्रिरशुभाशयधूमकेतुः स्यादिति उत्तरेणान्वयः ॥ ११ ॥

पर्युष्टया पतितया वनमालयेयं

संस्पर्धिनी भगवती प्रतिपक्षवच्छ्रीः ।

यः सुप्रणीतममुयाऽर्हणमाददानो

भूयात् सदाऽङ्घ्रिरशुभाशयधूमकेतुः ॥ १२ ॥

तात्पर्यम्

‘अस्पर्धिनी स्पर्धिनीव श्रीरास्ते वनमालया । न हि स्पर्धादयो दोषाः संविद्रूपां स्पृशन्ति तामि’ति वामने ॥ १२ ॥

पदरत्नावली

किञ्च येयं श्रीर्भगवती पर्युष्टया वर्जितम्लानभावया नित्योत्फल्लया अंसद्वये पतितया वनमालया सह प्रतिपक्षवत् संस्पर्धिनी अस्पर्धिनी स्पर्धावतीव तिष्ठतीत्यर्थः । ‘‘अस्पर्धिनी स्पर्धतीव श्रीरास्ते वनमालया । नहि स्पर्धादयो दोषाः संविद्रूपां स्पृशन्ति ताम्’’ इति वचनात् । यश्चामुया श्रिया सुप्रणीतमर्हणमर्चनमाददान आस्ते । यद्वा अवयविनो धर्म आदानादिरवयवस्य कथं युज्यत इत्यत्राह– य इति । यः प्रकाशरूपः । पूर्वत्र यच्छब्दरूपः, अत्र तु अकारान्त इति । अनेन लोकविलक्षणत्वेन हरेरवयवस्य पादस्यावयविवत् स्वातन्त्र्येणादानादिधर्मो युक्त इति ज्ञातव्यम् ॥ १२ ॥

श्रीनिवासतीर्थीया

भगवती श्रीः पर्युष्टया । उपप्लुष दाहे भावे क्तः परिगतदाहवत्या । अम्लानयेति यावत् । पतितयांऽसद्वये स्थितया वनमालया प्रतिपक्षवत्संस्पर्धिनीवास्ते । अमुयेत्यन्वयः। वक्षःस्थलस्य मत्स्थानत्वादत्र वनमालया कस्मात्स्थीयत इति स्पर्धा जायते किलोत्प्रेक्षा । यद्वा । श्रीर्निर्माल्यविसर्जनं कृत्वा समीचीनार्हणेन यदा पूजयामास तदोत्प्रेक्षते । इयं श्रीर्वनमालया संस्पर्धिनीव । कुतः पर्युष्टयाऽपतितया । हेतुगर्भमिदं विशेषणद्वयम् । लोके पर्युषितस्य निर्माल्य-स्याधःपातेन भाव्यम् । एषा वनमाला पर्युष्टा, न निर्माल्यभूता । अम्लानेति यावत् । अथाऽप्यं-सद्वयादपतिताऽत एनां विसर्जयिष्यामीति तया संस्पर्धिनी या श्रीरमुया तां वनमालां विसृज्य सुप्रणीतमर्हणं पूजामाददान इत्यर्थः । वस्तुतस्तु पर्युष्टयाऽम्लानयांऽसद्वये पतितया वनमालयाऽस्पर्धिनी स्पर्धिनीव श्रीरास्ते । कुत इत्यतस्तत्र हेतुरुच्यते ॥ य इत्यादि ॥ यस्मात्कारणाद्योऽङ्घ्रिरमुया वनमालया करणेन सुप्रणीतं भगवत्कृतमर्हणं भक्तकृतपूजामाददानः स्वीकुर्वन्नास्ते । भक्ता वनमालया भगवत्पूजां कुर्वन्ति यदा तदा तां दृष्ट्वा मयि स्थिते सति वनमालया भक्तकृतपूजां गृण्हातीति बुद्ध्या वनमालायां तस्याः स्पर्धेति भावः ॥ १२ ॥

दुर्घटभावदीपिका

यस्याङ्घ्रेः पर्युष्टया परिवर्जितम्लानभावया पतितयांऽसयोः पतितया वनमालयेयं भगवती श्रीः प्रतिपक्षवत्संस्पर्धिनीवास्ते । यश्चाङ्घ्रिरमुया श्रिया सुप्रणीतं सम्यक्कृतमर्हणं पूजनं सदाऽऽददान आस्ते । सोऽङ्घ्रिरशुभाशयधूमकेतुरशुभान्तःकरणस्याग्निवद्दाहको भूयादिति । एतेन पर्युष्टयेति पूर्वार्धोऽनन्वित इति दूषणं परिहृतम् । य इत्यस्यार्थवशाद्यस्येति विपरिणाममङ्गीकृत्या-न्वयस्योक्तत्वात् ॥ १२ ॥

प्रमेयचन्द्रिका

पुनश्चाङ्घ्रिस्तूयते ॥ पर्युष्टयेति ॥ येयं श्रीवत्सगता श्रीः पर्युष्टया वर्जित-म्लानभावया । अंसद्वये पतितया वनमालया सह प्रतिपक्षवत्प्रतिपक्षिणीव आस्ते । अमुया श्रिया सुप्रणीतमर्हणं पूजनमाददानः स्वीकुर्वाणः सोऽङ्घ्रिः सदा अशुभाशयधूमकेतुः स्यादित्यर्थः । अत्र श्रीदेव्याः स्पर्धारूपदोषाभावादाह ॥ अस्पर्धिनीति ॥ संविद्रूपां नित्यव्यक्तोद्रिक्तविज्ञान-मात्ररूपामित्यर्थः । वनमाला श्रीवत्से विलोलतयाऽस्ति तेन स्पर्धोपचर्यत इति भावः ॥१२॥

केतुस्त्रिविक्रमसतस्त्रिपतत्पताको

यस्ते भयाभयकरोऽसुरदेवचम्वोः ।

स्वर्गाय साधुषु खलेष्वितराय भूम्नः

पादः पुनातु भगवन् जगतामघं नः ॥ १३ ॥

पदरत्नावली

पुनस्तमङ्घ्रिं स्तुवन्तः प्रार्थयन्ते केतुरिति । हे भगवन् भूम्नस् ते पादो नोऽस्माकं जगतां चाघं पुनातु । यस्त्रिविक्रमसतस् त्रयो विक्रमा एव सन्ति प्रशस्तकर्माणि यस्य स तथा तस्य । प्रशस्ते कर्मणि तथेत्यादेः । ते तव केतुर्ध्वजस् त्रयो वेदा एव पतन्त्यश्चलन्त्यः पताका यस्य स तथा । यश्चासुरदेवचम्वोर् भयाभयकरः । किञ्च यः साधुषु स्वर्गाय सुखाय खलेष्वितराय दुःखाय भवतीति ॥ १३ ॥

श्रीनिवासतीर्थीया

त्रिविक्रमसतस्त्रिविक्रमावतारभूतस्य भगवतः केतुर्ध्वजस्त्रयो लोका एव चलत्पताकस्थानीया यस्य स तथा । स्वर्गायेतराय । भवतीति शेषः ॥ १३ ॥

प्रमेयचन्द्रिका

हे भगवन् केतुरिति । त्रिविक्रमसतः । त्रयो विक्रमाः पादविक्षेपा एव सन्ति प्रशस्तकर्मणि यस्य सस् त्रिविक्रमसन् तस्य । भूम्नस् ते पादः केतुर्ध्वजस्थानीयस् त्रिपतत्पताकः । त्रयो वेदाः पतन्त्यश्चलन्त्यः पताका यस्य स तथा । पताक इव तत्कीर्तिः प्रख्या प्रकाश इति यावत् । जगतां नो ऽन्यत्स्पष्टम् ॥ १३ ॥

नस्योतगाव इव यस्य वशे भवन्ति

देवाश्च यस्तनुभृदायुषि रज्यमानाः ।

कालस्य ते प्रकृतिपूरुषयोः परस्य

शं नस्तनोतु चरणः पुरुषोत्तमस्य ॥ १४ ॥

तात्पर्यम्

तनुभृदायुषि सम्बद्धो ऽश्चेति तनुभृदायुषि रज्यमानाः । ‘ब्रह्मणा संपरित्यक्तो मृत इत्युच्यते नर’ इति भारते ॥ १४ ॥

पदरत्नावली

सुखदुःखयोः कारणत्वेन हरेः स्वातन्त्र्यं प्रत्यक्षमिति भावेनाह– नस्योतगाव इति । सुखदुःखयोर्नियन्तार इन्द्रियाभिमानिदेवाश्च यस्य पादस्य वशे वर्तन्ते । नसि नासिकायामोतगावः स्वामिन इव । यश्च तनुभृतां शरीरिणमायुषि शतवर्षलक्षणे रज्यमानः सम्बद्ध्यमानः । तावत्कालं स्थित्वा अश्च शश्वद् दुःख्यमित्यभिमानशून्यश्चेति तनुभृदायुषि रज्यमानाः । पुरुषोत्तमस्य ते चरणः शं नस् तनोत्वित्यन्वयः । ब्रह्मणा सम्परित्यक्तो मृत इत्युच्यते नर इत्यनेन श्रीहरिसम्बन्धो देहिनां विज्ञायते । तदभिमानशून्यत्वे हेतुमाह– प्रकृतीति । अत्रापि हेतुमाह– कालस्येति । कालप्रेरकस्य तस्य सकाशात् परस्य वा ॥ १४ ॥

श्रीनिवासतीर्थीया

नसि पदादयः पृथक् शब्दा इत्युक्तेर्नस्शब्दस्यैव सप्तमीयम् । अत्र श्लोके रज्यमाना इत्येतद्यदि देवा इत्यस्य विशेषणम् । तर्हि यश्चेत्यनन्वितं स्यात् । यदि यो रज्यमानाश्चेति विशेषणविशेष्यभावेन योजना तदा विशेषणविशेष्यभावानुपपत्तिः । बहुवचनान्त-त्वात्तस्येत्यतो योजयति ॥ तनुभृदिति । तनुभृतामायुष्यदातेति यावत् । अः अकारवाच्यः । अ इति ब्रह्मेति श्रुतेः । रज्यमान अ इति स्थिते अकः सवर्णदीर्घे सोमपा इतिवद् रज्यमाना रज्यमानौ रज्यमाना इति रज्यमानश्चासौ अश्च रज्यमाना इति विग्रहः । आकारान्तपुल्लिङ्गशब्दस्य प्रथमैकवचनमेव । तेन चशब्दसम्बन्ध इति नानुपपत्तिरिति ध्येयम् । तनुभृदायुषि सम्बन्द्धत्वेन जीवनदातृत्वमुक्तम् । तद्व्यतिरेकमुखेनोपपादयति ॥ ब्रह्मणेति । तथा च ब्रह्मणा सम्बद्ध एव जीवत इत्युच्यत इति । तनुभृदायुषि सम्बद्धत्वमर्थादुक्तमेवेति ध्येयम् । अत्र यद्यप्यवयविनो ब्रह्मण एव तनुभृदायुषि सम्बन्धत्वमुक्तम् । मूले तु यश्चरणस्तनुभृदायुषि रज्यमाना इति चरणरूपावयवस्यैवोच्यते । तथाऽप्यवयवावयविनोरभेदाद्ब्रह्मपुच्छमित्यादिवद्युक्तमिति ध्येयम् ॥१४॥

प्रमेयचन्द्रिका

॥ नसीति ॥ नाशिकायां रज्वा प्रोतबलीवर्द इव । देवा यस्य चरा भवन्ति । यस्य तनुभृदायुषि राज्यमाना विश्वपा इतिवदाकारान्तोऽयं शब्द इति भावः । सर्वदोष-विरुद्धोरुगुणपूर्णस्वरूपत इत्यादि ऐतरेयभाष्ये अकारार्था उक्ता अत्रानुसन्धेयाः । प्राणिनामायुषि सम्बन्द्धत्वमिति भावः । तस्य कालस्य कालप्रेरकस्य कल ज्ञाने कल बन्धन इत्यादे-र्ज्ञानबन्धनसंहरणादिगुणवत्वेन कालनामकस्य प्रकृतिजीवविलक्षणस्य श्रीविरिञ्चयोरप्युत्तमस्येति वा । अत एव पुरुषोत्तमस्य ते चरणो नः सुखं तनोत्वित्यर्थः ॥ १४ ॥

अस्यासि हेतुरुदयस्थितिसंयमानां

अव्यक्तजीवमहतामपि कालमात्रः ।

सोऽयं त्रिणाभिरखिलापचये प्रवृत्तः

कालो गभीररय उत्तमपूरुषस्त्वम् ॥ १५ ॥

तात्पर्यम्

कालमात्रः कालनिर्माता ज्ञाता च । सृष्टिलयाद्यर्थम् । नित्यत्वेन च । अव्यक्तस्यापि स्रष्टृ(ष्ट)त्वात्काल एवं भूतस् तस्मादप्युत्तमस्त्वम् । ‘कालाज्जीवात्तथाऽ-व्यक्तान्महतश्चोत्तमो यतः । उत्तमः पुरुषस्तस्माद्भगवान्विष्णुरच्युत’ इति ॥ १५ ॥

पदरत्नावली

स्रष्टृत्वादिगुणपूर्णत्वाच्च काल इत्याशयेनाह– अस्येति । यद्वा पुरुषोत्तमत्वं सनिमित्तं विवृण्वन्ति अस्येति । अस्य जगत उदयादीनां हेतुरसि । प्रधानादिदमुत्पन्नमिति श्रुतेः प्रकृत्यादीनां जगद्धेतुत्वाद् इदं कथम् । अत्राह– अव्यक्तेति । अव्यक्तादीनां हेतुरसि । अतः कालः । कालनिर्मातृत्वाच्च काल इत्याह– कालमात्र इति । सर्वे निमेषा जज्ञिरे विद्युतः पुरुषादधीति श्रुतेः । हरेर्विधान्तरेण कालशब्दवाच्यत्वमाह– त्रिणाभिरिति । तिस्रश्चातुर्मास्यलक्षणा नाभयो यस्य स तथा । गभीररयो ऽतर्कितापारवेगः सोऽयं कालस्त्वम् । त्वमिति क इति तत्राह– उत्तम इति । पुरुषोत्तमशब्दवाच्यः । संहारकर्तृत्वं विशिनष्टि अखिलेति । अधुना यादवाद्यखिलजगन्निरासे प्रवृत्तः ।

यद्वा पुरुषोत्तमत्वं विवृणोति अस्येति । अनेन कथं तद् विवृतमभूदित्यत उक्तम् अव्यक्तेति । कालस्वरूपाज्ञाने अस्यायमुत्पत्तिसमय इति निश्चयो न स्यादत्रोक्तं कालेति । कालस्वरूपज्ञाता तं निर्माता च । कीदृशः कालो येन तद्विशेषज्ञानी स्यादत्राह– सोयमिति । हरिर्यं कालं विशेषतो जानाति सोऽयं काल एवं विशिष्ट इत्यन्वयः । कथमत्राह– त्रिणाभिरिति । अखिलस्य समस्तस्य प्रपञ्चस्यापचये संहारे च प्रवृत्तः । अनेन सृष्ट्यादिविशेषविशिष्टं कालं जानतीत्युक्तं भवति । अतश्च किमवसितमत्राह– उत्तमेति । एवं विधात् कालादप्युत्तमस्त्वमित्यर्थः । अनेन प्रकृतिपुरुषकाल-महत्तत्वेभ्य उत्तमत्वात् पुरुषोत्तम इत्युक्तं भवति । तदुक्तम् – ‘‘कालाज्जीवात् तथाऽव्यक्तान्मह-तश्चोत्तमो यतः । उत्तमः पुरुषस्तस्माद् भगवान् विष्णुरुच्यते’’ इति ॥ १५ ॥

श्रीनिवासतीर्थीया

कालप्रकृतिपुरुषाणां परत्वेनोक्तस्य पुरुषोत्तमस्योपपादकेऽप्यस्यासीति श्लोके कालमात्र इत्येतद्व्याचष्टे ॥ कालमात्र इति । कालशब्दोपपदान् मा निर्माणे । मानं ज्ञानं लयश्चैवेत्यभिधानात् । आभ्यां कर्तरि त्रप्रत्यय इत्युक्तं भवति । किमर्थं कालनिर्माणं ज्ञानं चेत्यत आह ॥ सृष्टिलयाद्यर्थमिति ॥ इदं मूले शेषपूरणीयमिति ज्ञेयम् । आदिपदेन स्थितिसङ्ग्रहः । तथा चास्यासीत्यादिनोक्तमव्यक्तादिप्रपञ्चस्योदयादिहेतुत्वम् । अस्यायमुत्पत्त्यादिसमय इति सृष्ट्यादिकालज्ञानाभावेन सम्भवतीत्यत उक्तम् ॥ अव्यक्तेत्यादि ॥ तथा चाव्यक्तादिजगतां सृष्टिस्थितिलयाद्यर्थं कालमात्रोऽपि तन्निर्माता तत्ज्ञाता चात उक्तं युक्तमित्यर्थः । कालमात्र इत्येतत्प्रकारान्तरेण व्याचष्टे ॥ नित्यत्वेन चेति ॥ कालमात्र इति सम्बन्धः । तथा हि । मात्रशब्दः कार्त्स्न्यवाची । तथा च कृत्स्नकालसम्बन्धी सर्वकालसम्बन्धी नित्य इत्यर्थः । अत्र मात्रशब्दस्य परनिपातो द्रष्टव्यः । तथा चास्यासीति सर्वजगदुदयादिहेतुत्वे भगवतः कथिते नैतद्युक्तम् । साङ्ख्यादिरीत्या प्रधानादिदमुत्पन्नं, जीवाद्भवन्तीत्यादिश्रुत्याऽव्यक्तादेरेव जगत्कारणत्वादित्या-शङ्कायामुच्यते ॥ अव्यक्तजीवमहतामपीति ॥ हेतुरतस्त्वं पुरुषोत्तम इति सम्बन्धः । श्रुत्यादिकं भगवद्विषयं तस्यैव सर्वनामवत्वादित्याशयः ।

ननु भगवतो नित्यत्वं स्यात्तर्ह्येव तस्य सर्वजगदुदयादिहेतुत्वं युक्तम् । प्रलये तस्य सद्भावात् । तदेव कुत इत्यत आह ॥ कालमात्र इतीति मूलं योज्यम् । नन्वाद्यव्याख्याने सृष्ट्याद्यर्थे कालनिर्माणोक्तिरयुक्ता । तस्य नित्यत्वादित्यतस्तत्रोपपत्तिमाह ॥ अव्यक्तस्यापीति ॥ कालाभि-मानिन इत्यर्थः । पुरुषाव्यक्तकालानां रमैवैकाभिमानिनीत्युक्तेः । सृष्टत्वात् । भगवत इति शेषः । सृष्ट्रत्वादिति पाठे भगवतेति शेषः । तच्च तस्मादव्यक्तमुत्पन्नमित्यादि प्रमाणसिद्धम् । काल एवम्भूतस्तदभिमन्यमानः काल एवंभूतो भगवता सृष्ट इति किमु वक्तव्यमित्यर्थः । ननु कालस्य भगवत्स्रष्टृत्वे किमायातमित्यतः काल उत्तमपुरुषस्त्वमित्यन्वयभ्रान्तिपरिहाराय मूलं योजयति ॥ तस्मादप्युत्तमस्त्वमिति ॥ तस्मादेवं कालस्य भगवत्सृष्टत्वात्तस्मात्कालादपि त्वमुत्तम इत्यर्थः । तथा चानेनाव्यक्तादिसृष्ट्यर्थं यः कालो भगवता सृष्टः सोऽयं कालस्त्रिनाभिप्रवृत्तत्वादिविशेषणोपेतः । एतादृशो यः कालस्तस्मादपि त्वमुत्तमपुरुष इत्यर्थ इति मूलयोजना सूचिता भवति । अत्र प्रमाणमाह ॥ कालादिति ॥ कालः कालचक्रम् । चक्रसाम्योपपादनाय त्रिनाभिरित्युक्तम् । तिस्रश्चातुर्मास्यलक्षणा नाभयो नाभिस्थानीया यस्यासौ तथोक्त इत्यर्थः । अपचये नाशे चक्रमपि परनाशाय प्रवृत्तं प्रसिद्धम् । गभीररयो गम्भीरवेगः ॥ १५ ॥

दुर्घटभावदीपिका

अस्य जडात्मकप्रपञ्चस्याव्यक्तजीवमहतामव्यक्तं महालक्ष्मीर्जीवा रुद्रादयः सर्वे जीवा महान्ब्रह्मैतेषामप्युदयस्थितिसंयमानामुत्पत्तिस्थितिसंहाराणां हेतुस्त्वमसि । चेतनाचेतनात्मक-प्रपञ्चस्य सृष्ट्याद्यर्थं कालमात्रः कालस्य निर्माता ज्ञाता चासि । ननु सृष्टिलयाद्यर्थं कालनिर्माणं कुतः कर्तव्यमित्यतः कालस्वरूपमाह ॥ सोऽयमिति । भगवान्यस्य कालस्य निर्माता सोऽयं कालस्त्रिनाभिस्त्रयाणां चेतनाचेतनात्मकजगदुदयस्थितिसंयमानां नाभिराश्रयः । कारणमिति यावत् । अखिलापचये । अपचयशब्दो वृद्धेरुपलक्षकः । अखिलानांचये वृद्धौ च प्रवृत्तो गभीररयो गम्भीरवेगः । अनेन कालस्य जगत्कारणत्वाज् जगन्निर्माणार्थं कालनिर्माणमित्युक्तं भवति । सर्वकारणत्वात्त्वमुत्तमपुरुषः सर्वोत्तमपुरुष इति । एतेन सोऽयं त्रिनाभिरित्युत्तरार्धोऽस्यासीति पूर्वार्धेनानन्वित इति चोद्यं प्रत्युक्तम् । यस्येत्यादेः शेषेणान्वयस्योक्तत्वात् ॥

ता.अर्थः ॥ कालमात्र इत्यनेन भगवतः कालस्वरूपत्वमुच्यत इत्यन्यथाप्रतीतिनिरासाय कालमात्र इत्यनूद्य द्वेधाऽर्थमाह ॥ कालमात्र इति । कालनिर्माणं किमर्थमित्याशङ्कापरिहारार्थं सृष्टिलयाद्यर्थमित्यस्य शेषः कर्तव्य इति इत्यभिप्रेत्य सृष्टिलयाद्यर्थमित्युक्तम् । जगतः सृष्टिलयाद्यर्थं कालस्य निर्माता ज्ञाता चेति पूर्वेणान्वयः ।

नन्वव्यक्तशब्दवाच्यमहालक्ष्म्याः स्वरूपतो देहतश्च नित्यत्वात्कथं तत्स्रष्टृत्वं भगवत इत्यत आह ॥ नित्यत्वेन चेति । विशिष्टस्येति शेषः । नित्यत्वेन विशिष्टस्याव्यक्तस्य महालक्ष्म्या अपि स्रष्टृत्वात्पराधीनविशेषावाप्तिरूपसृष्टिकर्तृत्वाद्भगवतोऽव्यक्तशब्दवाच्यमहालक्ष्मीसृष्टिकर्तृत्वोक्तिर्युक्तेति शेषः । सोऽयं त्रिनाभिरित्युत्तरार्धे कालशब्दवाच्यभगवद्रूपविशेषः प्रतिपाद्यत इति भ्रमं परिहरति ॥ काल एवं भूत इति । कालः प्रसिद्धकाल एवंभूतस्त्रिनाभित्वादिगुणविशिष्ट इति सोऽयं त्रिनाभि-रित्यत्रोच्यत इति शेषः । भगवत उत्तमपुरुषत्वे हेतुर्नोक्त इत्याशङ्कापरिहारार्थं तस्मादित्यस्य शेषः कर्तव्य इति भावेनाह ॥ तस्मादिति । अपिरवधारणे । तस्मात्कालादेः सृष्ट्यादिहेतुत्वात्त्वमेवोत्तमः सर्वोत्तमः । उक्तार्थं प्रमाणेन दृढयति ॥ कालादिति जीवादिति । जातावेकवचनमिति ॥१५॥

प्रमेयचन्द्रिका

पूर्वश्लोकोक्तप्रकृत्यादिविलक्षणत्वोपपादनपरस्य अस्यासीति श्लोके अस्य प्रमाणसिद्धस्य सर्वस्य जगतस्तथा सर्वस्यापि मूलकारणतया प्रधानानामव्यक्तजीवमहतां तदभिमानिनां वाणीशेषब्रह्मणां च सृष्टिस्थितिलयानां हेतुत्वमस्ति । कालमात्रोऽपि त्वमसीति पूर्वार्धेऽभिधीयते । तत्र कालमात्रपदं कालभेदप्रतीतिवारणाय व्याचष्टे ॥ कालमात्रः कालनिर्माता ज्ञाता चेति ॥ मा निर्माणे माङ्मान इति हि पठन्ति । नन्वत्र प्रवाहिरूपकालस्य निर्मातृत्वमुच्यते । प्रवाहस्यैव वा । नाद्यः । प्रपञ्चवाचकेन अस्येति शब्देन कालस्यापि सङ्ग्रहोपपत्तेः । पृथक्कथनायोगात् । विशिष्य कालज्ञातृत्वोक्तिरपि व्यर्था । सर्वज्ञातुः कालज्ञातृत्वस्यापि सिद्धत्वादित्याशङ्क्याद्यपक्षं तावदङ्गीकृत्य विवक्षाविशेषसमाधानमाह ॥ सृष्टिलयाद्यर्थमिति ॥ जगतः सृष्टिलयाद्यर्थं कालनिर्माता ज्ञाता चेत्युच्यत इत्यर्थः ।

अयमाशयः । कालो हि जगदुदयादिनिमित्तकारणमिति सिद्धम् । तच्च क्षणलवादिभावमापन्नस्यैव भवेत् । तथा च लयसमये कालजननेऽपि न क्षणादिभावः । ततश्च जगत्सृष्टिलयाद्यर्थनिमित्त-कारणतोपयोगिक्षणलवनिमेषमासवर्षाख्यपराधीनविशेषलाभरूपनिर्माणमेवेति विवक्षितम् । न तु सूक्षसूक्ष्मतरादिकालावयवनिर्माणमात्रम् । तस्य जगत्सृष्ट्यादावनुपयुक्तत्वात् । ततश्च पृथगुक्तिर्युक्ता ।

तथा विशिष्यज्ञातृत्वेन पृथगुक्तिरपि युज्यते । तथाहि । सर्वे निमेषा जज्ञिरे कला मुहूर्त्ता इत्यादिना जगतः सृष्टिलयाद्यर्थं निमित्तकारणनिमिषादिभावेन कालावयवजनिः श्रूयते । तत्रेतरजनिं प्रतीव कालजनिं प्रत्यपि स काल एव निमित्तकारणम् । उपादानं च स्वयमेव । अन्यस्य दुर्निरूप-त्वात् । कालस्यकालगत्वेन न विरोधोऽस्ति कश्चनेति वैशेषिकपरीक्षानुव्याख्याने तत्सुधायां च स्पष्टमेतत् । तथा च तस्यैव कार्यकारणभावादिकमीश्वराचिन्त्यशक्त्यैव निर्वाह्यम् । किञ्चापर्यवसिति- श्चाणोर्दृश्यते साक्षिणा द्वयोरित्युक्तेः परमाणुकालेऽप्यपर्यवसितसूक्ष्मसूक्ष्मतरावयवोत्पत्तिविलयादि भवति । अत एव तद्ज्ञानं च नान्यसाधारणमत एव कालस्य दुर्बोधत्वाद्विशिष्याशेषविशेष-सहितकालज्ञातृत्वोक्तिर्युज्यत इति ।

विशिष्यकालनिर्माणाद्युक्तेः प्रयोजनान्तरमाह ॥ नित्यत्वेन चेति ॥ कालोत्पत्तेर्नित्यत्वेन निमित्तेन च कालनिर्माता ज्ञाता चेति उच्यत इति योजना । इदमुक्तं भवति । कालावयवनिर्मातृ-त्वाद्येवोच्यते । न च पृथगुक्तिर्व्यर्था । तथाहि । सर्वजगत्सृष्टिरादिकाल एव न सर्वदा । सूक्ष्मादि-रूपकालावयवसृष्टिस्तु सदातनी । तथा च कालप्रवाह्युत्पत्तेर्नित्यत्वेन तादृशविशेषज्ञापनाय विशिष्यकालनिर्मातृत्वोक्तिर्युक्ता । तथा कालोत्पत्तेर्नित्यत्वेन च विशिष्यकालज्ञातृत्वोक्तिर्युक्ता । किञ्च पूर्वक्षणसद्भावकाल एवोत्तरक्षणोत्पत्तिरुत नाशानन्तरम् । नाद्यः । तत्सत्ताकाल एवोत्तरसत्ता-सम्पादनमेव खलूत्पत्तिः । तथा च पूर्वक्षणावस्थानकाल एवोत्तरकालसत्वसम्पादने कालद्वयस्य यौगपद्यापत्तेर्न पूर्वोत्तरभावयोगः । एकेनैव कालेन निमित्तत्वाद्युत्पत्तेरपरस्य वैय्यर्थ्यं च । द्वितीये नाशस्यापि कालगत्वेन तदा कालाभावे तदयोगात् । अतो अचिन्त्यशक्त्या तन्निर्वहितुरीश्वरस्य विशिष्य तद्ज्ञातृत्वोक्तिरिति । प्रवाहरूपकालनिर्मातृत्वमिति द्वितीयपक्षोऽप्यस्तु । न च तस्य नित्यत्वे निर्माणासम्भव इत्युक्तमिति वाच्यम् । नित्यस्य नित्यतादाता नित्यं नित्यात्मना यतः । नियामयतीत्यादिवचनान्नित्यस्यापि कालप्रवाहस्य नित्यसत्तासम्पादनरूपनित्यनिर्माणस्योपपत्ते-रित्याशयेनाह ॥ नित्यत्वेन चेति ॥ नित्यत्वेन प्रकारेण च कालनिर्मातेत्यर्थः ।

जगत्कारणाव्यक्तादिभिः सहानुक्तवा पृथगुक्तौ हेत्वन्तरमाह ॥ अव्यक्तस्यापीति ॥ हन्ता रामशर इत्यादिवत्करणे कर्तृत्वोपचारेण तत्सष्टृत्वादित्युक्तम् । अव्यक्तस्यापि निमित्तकारणत्वात्कालस्य तत्सृष्टेः पृथगुक्तिर्युक्तेति भावः । यदर्थं जगदुदयहेतुत्वमुक्तं तद्भगवतः सर्वोत्तमत्वं कालस्वरूप-निरूपणपूर्वकं कैमुत्येनोच्यते ॥ सोऽयमित्युत्तरार्धेन ॥ तत्र त्रिनाभित्वादिविशेषणविशिष्टः कालस्त्वेवमेवेति हरेः कालाभेदप्रतीतिवारणाय वाक्यभेदेन कैमुत्यं दर्शयन्व्याचष्टे ॥ काल एवम्भूतस् तस्मादप्युत्तमस्त्वमिति ॥ तत्र काल एवम्भूत इत्यंशेन गभीररय इत्यन्तमेकवाक्यमिति, तस्मादप्युत्तमस्त्वमित्यनेन तस्मादित्यध्याहारप्रदर्शनपूर्वकमुत्तमपूरुष इत्येतदपरं वाक्यमिति सूचितं भवति । अतो नात्र कालाभेदो हरेरुच्यत इति भावः ।

तथा चायं मूलार्थः । त्रिनाभिस् त्रिचातुर्मास्यात्मकनाभित्रयोपेतः । अभिमानिविवक्षया तु त्रयाणां सत्वादिगुणानां त्रिविधजीवानां वेदानां वा नाभिरिव नाभिराश्रयः । अखिलस्याव्यक्तजीवादेस्तदभि-मानिवाय्वादेश्च विश्वस्य च रचनार्थे प्रवृत्तः । गभीररयो ऽगाधवेगः । अभिमानिविवक्षायान्तु अनवगाह्यवेगादिगुणकः कालो अत एव सर्वोत्तम इति यावत् । तस्मादेवंभूतादपि कालात् त्वमुत्तमः पूर्णषड्गुणविग्रह इति ॥

सुधीन्द्रतीर्थीये तु कालमात्र इति कार्यव्यवच्छेदयोरयोगात्तात्पर्यम् ॥ कालेति ॥ कालं निर्मिमीत इति कालमात्र इत्यर्थः । ननु तर्ह्युक्तजीवमहतामिति षष्ट्यनन्वय इत्यत आह ॥ ज्ञातेति ॥ चकारान्मातेत्यर्थः । ततश्च कलयतीति कालः । निर्मिमीत इति मात्रो ऽव्यक्तजीवमहतां निर्माता चेति षष्ट्यन्वयश्चावृत्या सिध्द्यति । नन्वव्यक्तादिज्ञातृत्वोक्तिर्व्यर्थेत्यत आह ॥ सृष्टीति ॥ अव्यक्ता-दीनां सृष्टिलयपालनाय ज्ञातृत्वोक्तिः । नन्वव्यक्तस्यानादित्वे हरेः कथं तत्स्रष्टृत्वमित्यत आह ॥ अव्यक्तस्येति ॥ कर्मणि षष्टी । अव्यक्तस्यापि कार्यरूपेण सृज्यत्वादिति भावः । सोऽयं काल उत्तमपूरुष इति सामानाधिकरण्यानुपपत्तिरित्यतो योजयति । कालनिर्माणस्य प्रयोजनानुक्तेश्चाह ॥ कालनिर्मातृत्वात्तस्मात्कालादपीति ॥

प्रकाशिकायान्तु कालाभेदप्रतीतिनिरासायाह ॥ कालमात्र इति ॥ ननु कालस्य जन्यत्वं कथमिति चेत् । उच्यते । किमयमाक्षेपः कालजनेर्व्यर्थत्वात् । अथवा कालनित्यत्वे बाधकाभावादुत तन्नित्यत्वे सधकाभावाद्वा । अथानित्यत्वे बाधकसद्भावाद्वा । नाद्य इत्याह । सृष्टिलयाद्यर्थं काल एवंभूतो निर्निमित्त इति शेषः । कर्त्तुरीश्वरस्य सत्वे स्थितिकाले सृष्टिलयौ स्यातामित्याशङ्क्य भगवदधीनस्य सृष्ट्यादिकालस्याभावान्न कार्यप्रसक्तिरिति वक्तव्यत्वान्न कालजनेर्वैय्यर्थ्यमिति । कालस्य नित्यत्वेऽप्यौपाधिकभेद इत्यत उक्तम् । उपाधिभेदाद्भेदस्योपाधिखण्डे दूषितत्वात् । द्वितीयं दूषयति ॥ नित्यत्वेन चेति ॥ नित्यत्वसाधकं प्रमाणं चेत्यर्थः । चकारादनित्यत्वे सर्वे निमेषा इति प्रमाणं समुच्चिनोति । एतेन तृतीयोऽपि निरस्तः । न चापि चतुर्थस्तदभावादित्यादि । स्वव्याख्यान-दार्ढ्याय प्रमाणमाह ॥ कालादिति ॥ कालाभिमानिनी श्रीः । जीवाभिमानिनौ विरिंचशेषौ । अव्यक्तं सरस्वती । महान् ब्रह्मा ॥ १५ ॥

त्वत्तः प्रधानमधिकृत्य पुमान् स्ववीर्यं

धत्ते महान्तमिव गर्भममोघवीर्यः ।

सोऽयं त्वयाऽनुगत आत्मन आण्डकोशं

हैमं ससर्ज बहिरावरणैरुपेतम् ॥ १६ ॥

तात्पर्यम्

‘नारायणाख्यः परमः शेते लक्ष्म्यान्वितो लये । स एव पुरुषाख्यं तु द्वितीयं रूपमात्मनः । कृत्वा रमायां पुरुषनामानं तु चतुर्मुखम् । प्रधानाख्यां च गायत्रीं ससर्ज पुरुषात्मकः। चतुर्मुखः स पुरुषो महत्तत्त्वाभिधं पुनः । प्रधाननाम्नयां गायत्र्यां ससर्जात्मानमेव तु । श्रद्धाभिधां च गायत्रीं ताभ्यां शेषोऽन्वजायते’त्यादि सृष्टिविक्षेपे

॥ १६ ॥

पदरत्नावली

व्यक्तं सृजस्यस्यासि हेतुरिति श्लोकद्वयेन कथितं सर्जनं विवृणोति त्वत्त इति । त्वत्तो ब्रह्माण्डं जगदुत्पद्यत इति यदुक्तं तत् प्रधानमधिकृत्य प्रधानशब्दवाच्यान् रमादीनधिकरणं कृत्वा वर्तते । तथा हि । महाप्रलये लक्ष्म्या सह रममाणान्नारायणाख्यात् त्वत्तोऽवतीर्णः पुमान् पुरुषनामा अमोघवीर्यो भवान् प्रधानाभिमानित्वात्तन्नाम््नयां रमायां महान्तमिव स्थितं स्ववीर्यं धत्ते पुरुषनामानं चतुर्मुखं प्रधानाख्यां गायत्री च सृष्टवानित्येकोऽर्थः । स पुमांश्चतुर्मुखो महान्तमिव गर्भं महत्तत्वाभिधमात्मानं श्रद्धाभिधां गायत्री च प्रधाननाम््नयां गायत्र्यां धत्ते सृष्टवा-नित्यपरः । ताभ्यां महत्तत्वाख्यश्रद्धाख्याभ्यां शेषोऽहङ्कारापरनामा जात इत्यन्योऽर्थः । ‘‘नारायणाख्यः परमः शेते लक्ष्म्यान्विते लये । स एव पुरुषाख्यं तु द्वितीयं रूपमात्मनः । कृत्वा रमायां पुरुषनामानं तु चतुर्मुखम् । प्रधानाख्यां च गायत्री ससर्ज पुरुषात्मकः । चतुर्मुखः स पुरुषो महत्तत्वाभिधं पुनः । प्रधाननाम््नयां गायत्र्यां ससर्जात्मानमेव तु । श्रद्धाभिधां च गायत्री ताभ्यां शेषोऽन्वजायत’’ इत्यादिवाक्यात् सकृदुक्तवाक्यस्यान्वयभेदो युज्यते । सोऽयं महत्तत्वाख्यो ब्रह्मा यो नारायणादभिव्यक्तः पुरुषनामा स तेन त्वयाऽनुगतः प्रविष्टः श्रद्धाख्यगायत्री सृष्ट्वा अहङ्कारादितत्वैः सह आत्मनः परमात्मनः प्रवेशसामर्थ्यादुत्पादनसमर्थैर्बहिर्नवभिरावणैरुपेतं हैमम् आण्डकोशं ससर्जेत्यन्वयः । ब्रह्मण आण्डकोशसृष्ट्यङ्गीकारे व्यक्तं सृजसीत्यस्य विरोधपरिहारार्थं त्वयानुगत इत्युक्तम् ॥ १६ ॥

श्रीनिवासतीर्थीया

त्वत्त इति श्लोकं व्याख्याति ॥ नारायणेति ॥ द्वितीयरूपं वासुदेवाख्यं रमायां मायासंज्ञायां पुन्नामके ब्रह्मणि यौगिकचतुर्मुखशब्दवाच्यतायोगाद्ब्रह्माण्डान्त-रुत्पन्नस्यैव तथात्वाच्चतुर्मुखशब्दो रूढ इति बोद्धव्यम् । ब्रह्माणमित्यर्थः । एवमुत्तरत्र । पुरुषात्मकः पुरुषशब्दवाच्यवासुदेवस्वरूपी प्रद्युम्नः । स वासुदेवः स्वात्मानं चक्रे संकर्षणादिकमित्यैतरेयभाष्योक्तेः । प्रधानाख्यां गायत्रीं रमायां कृतिनाम्नयां ससर्जेति व्याख्येयम् । अन्यथा पुरुषनामको वासुदेव एव प्रधानाख्यां गायत्रीं ससर्जेत्यर्थाङ्गीकारे प्रद्युम्नतश्चाथ कृतौ स्त्रियौ द्वे प्रजज्ञतुर्यमले तत्र पूर्वा प्रधानसंज्ञा प्रकृतिर्जनित्रीति तात्पर्यनिर्णयविरोधः स्यादिति ज्ञेयम् । महत्तत्त्वाभिधमात्मानमिति सम्बन्धः । तथा च प्रधाननाम्नयामुत्पन्नो महत्तत्त्वाभिमानित्वात्तन्नामेति ध्येयम् । श्रद्धाभिधां च गायत्रीं प्रधान-नाम्नयां गायत्र्यां पुन्नामको ब्रह्मा ससर्जेत्यन्वयः । ताभ्यां महत्तत्त्वश्रद्धाभ्याम् । नन्वत्र पुनस्तात्पर्य-निर्णयविरोधः । तत्र हि प्रद्युम्नतश्चाथ कृतौ स्त्रियौ द्वे प्रजज्ञतुर्यमले तत्र पूर्वा प्रधानसंज्ञा प्रकृति-र्जनित्री । श्रद्धा द्वितीयाऽथ तयोश्च योगो बभूव पुंसैव च सूत्रनामा । हेरर्नियोगादथ संप्रसूतौ शेषः सुपर्णश्च तयोः सहैवेति प्रद्युम्नसृष्टश्रद्धादेव्यां संकर्षणसृष्टसूत्रनामकवायुना गरुडोत्पत्त्युक्तेः । प्रद्युम्नसृष्टप्रधानाख्यगायत्र्यां पुन्नामकब्रह्मणा शेषोत्पत्त्युक्तेः । अत्र तु पुनः प्रद्युम्नसृष्टप्रधाननामकगायत्र्यां पुन्नामब्रह्मभार्यायां स्वसृष्टमहत्तत्त्वाभिधाद्रूपात्तस्यामेव स्वसृष्टश्रद्धाभिधगायत्र्यां शेषोत्पत्तेरिति चेत् । सत्यम् । आवापोद्वापतः शाखा यत आहुः परं पदमिति न्यायेनैतत्सृष्टेस्तात्पर्यनिर्णयेऽनुक्तेः । न ह्यनुक्तिर्दोष इत्याहुः ॥ १६ ॥

प्रमेयचन्द्रिका

मूले सर्वजगज्जनकविरिञ्चादिस्रष्टा त्वमित्यर्थप्रतिपादनपरे त्वत्त इति श्लोके पुंसो महत्तत्वजनकत्वादिकमुच्यते । कोऽयं पुरुष इत्यत आह ॥ नारायणाख्य इति ॥ पुरुषाख्यं वासुदेवरूपं कृत्वा तेन रूपेण मायाख्यायां रमायाम् । स पुरुषः पुरुषनामा चतुर्मुखः । प्रधाननाम्नयां सरस्वत्यां पुनर्महत्तत्वाभिधं स्वात्मानं श्रद्धाख्यां गायत्रीं च ससर्ज । पुनरित्युक्तिस्तु वासुदेवान्मायायां महत्तत्वमादौ जातम् । ततः पुनर्महत्तत्वं प्रविश्य तं जगदंकुरं स्वस्मादित्यभिप्रेत्येति ज्ञेयम् । ताभ्यां महत्तत्वश्रद्धाभ्यां शेषोऽहन्तत्वमानी ।

तदयं मूलार्थः । त्वत्तो मूलरूपान् नारायणादभिव्यक्तः पुरुषनामा वासुदेवः । प्रधानं मायानाम्नीं मूलप्रकृतिमधिकृत्य स्ववीर्यं धत्ते । तदा पुमान्नाम ब्रह्मा जातः । प्रधानाख्या वाणी च जातेति ग्राह्यम् । तदनन्तरं पुरुषाख्यो विरिञ्चस्त्वत्तस् त्वत्प्रेरणया प्रधानं सरस्वतीमधिकृत्य महान्तं महत्तत्वाभिमानिनं स्वात्मानमेव गर्भमिव धत्ते । ससर्जेति यावत् । जन्यजनकभेदाभावादिवशब्दः । सोऽयं विरिञ्चो महान् त्वया अनुगतः प्रविष्टः प्रेरित इति वा । बहिरावरणैरुपेतं हेमाण्डकोशं स्वात्मनः सकाशात्ससर्जेति ॥ १६ ॥

तत् तस्थुषश्च जगतश्च भवानधीशो

यन्माययोत्थगुणविक्रिययोपनीतान् ।

अर्थान् जुषन्नपि हृषीकपते न लिप्तो

येऽन्ये स्वतः परिहृतानपि बिभ्यति स्म ॥ १७ ॥

तात्पर्यम्

येऽन्ये ज्ञानिनः स्वतः परिहृतान्विषयान् बिभ्यति ॥ १७ ॥

पदरत्नावली

ननु तव सहकारिकारणत्वं मुख्यकारणत्वं चतुर्मुखस्य, अतः स्वामित्वं च तस्येति तत्राह– तत् तस्थुष इति । यद्वा ननु सदा देवदत्तवद् विषयान् सेवमानस्य कथमीश्वरत्वमित्यत आह– तदिति । यतो यदनुप्रवेशमन्तरेण एषां तत्वानां सर्जनशक्तिर्नास्ति तदनुप्रवेशे च साऽस्ति तस्माद् भवान् तस्थुषां जगतश्चाधिक ईशः । नन्वेतदधीशत्वं कथं ज्ञायत इति तत्राह– यदिति । मायया इच्छयोत्थगुणविक्रियया सम्बद्धप्रकृतिगुणविकारेणोपनीतान् प्राप्तानर्थान् विषयान् तदिन्द्रियेषु स्थित्वा जुषन्नपि न लिप्त इति यत् तेनाधीश इति ज्ञायते । हृषीकपत इति सम्बुद्ध्या इन्द्रियस्वामित्वस्य जीवस्य सत्वेऽपि तदनियतत्वदर्शनादीशनियतत्वदर्शनाच्च हरेरिन्द्रियेशत्वं मुख्यमिति ज्ञायते । ननु योगिष्वनेकान्तोऽर्थालेपहेतुरत्राह– येन्य इति । येऽन्ये योगिनः सनकादयः । परिहृतानिति द्वितीया पञ्चम्यर्थे । स्वतो भवतः प्रसादात् परिहृतेभ्यो विषयेभ्यो बिभ्यति स्म । अनर्थं स्मृत्वेति शेषः भीत्रार्थानां भयहेतुरित्यतः पञ्चमी । अनेन विषयालेपनं योगिनां यत् तद् भगवत्प्रसादात् सादि च । भगवतस्तु स्वतः, नान्यनियतं नित्यं चेत्युक्तं भवति ॥ १७ ॥

श्रीनिवासतीर्थीया

तस्थुषः स्थावरस्य । जगतो जङ्गमस्य । येऽन्ये इत्युक्ताः कर्तारस्ते क इत्यतस्तान्दर्शयति ॥ येऽन्ये ज्ञानिन इति । अन्ये भगवद्व्यतिरिक्ताः । स्वतः स्वतन्त्राद्भगवतः प्रसादाद्विषयान्प्रति परिहृता अपि ते विषया अस्मद्बन्धनाय पुनर्न प्राप्स्यन्ति किलेत्येवं भययुक्ता भवन्ति ज्ञानिनः । त्वं तु तान् जुषन्नपि । जुषि प्रीतिसेवनयोः । सेवमानोऽपि न लिप्यत इत्याशयः

॥ १७ ॥

प्रमेयचन्द्रिका

तदनेन सर्वोत्तमत्वं लब्धमिति दर्शयन् सर्वत्र स्थितस्याप्यसङ्गत्वं प्रदृश्यते ॥ तत्तस्थुष इति ॥ तत्तस्मात्सर्वस्रष्टृत्वादेर्निमित्तात्स्थावरजंगमात्मकप्रपञ्चस्य भवानधीशस् त्वदिच्छ-योत्पन्नगुणविकारेणोपनीतान् प्राप्तानर्थान् जुषन् भुञ्जन् न लिप्तः । ननु श्रोत्रादीन्द्रियाण्यधिष्टाय विषयानुपसेवते । हरेर्लेपाभावो न युक्त इत्यत उक्तम् ॥ हृषीकपत इति ॥ न हि स्वाधीनेन्द्रियाणां लेपापादकत्वं युक्तमिति भावः । अत्र ये अन्य इति चतुर्थपादमप्रतीतेर्व्याचष्टे ॥ येऽन्य इति ॥ अत्र ये अन्य इति ज्ञानिनो विवक्षिताः । प्रकरणात् । स्वतः स्वातन्त्र्यात्स्व इति प्रोक्त इत्युक्तेः स्वो हरिस्तस्मात्तदनुग्रहात्परिहृतानर्थानित्यनुवर्तत इत्याशयेन विषयानित्युक्तम् । प्रति बिभ्यतीति मूलार्थ इति भावः । एतेन विषयकृतलेपाभावो न हरावद्भुतः ज्ञानिनामपि लेपाभावादिति न च वाच्यम् । भगवदनुग्रहाद्दूरनिरस्तलेपानामपि योगिनां विषयेभ्यो लेपनिमित्तकभीतिरस्ति । अतः सर्वदेहेषु सर्वेन्द्रियाण्यधिष्टाय अशेषविषयभोगं कुर्वतो हरेः स्वत एव लेपाभावो अद्भुत इति महिमात्वेनोक्ति-र्युज्यत इत्युक्तं भवति । अत्र भीत्रार्थानां भयहेतुरिति पञ्चम्या आवश्यकत्वात्परिहृतानिति द्वितीयात् पञ्चम्यर्थे ज्ञेयेति ॥ १७ ॥

स्मायावलोकलवदर्शितभावहारि

भ्रूमण्डलप्रहितसौरतमन्त्रशौण्डैः ।

पत्न््नयस्तु षोडशसहस्रमनङ्गबाणै

र्यस्येन्द्रियं विमथितुं कुहकैर्न शेकुः ॥ १८ ॥

पदरत्नावली

विषयालेपो नाम तदजितत्वमित्याह– स्मायेति । स्मायो मन्दहासस् तेन सहितोऽवलोकस् तस्य लवेन सह दर्शितो भावः शृङ्गारचेष्टा तया हारि मनोहरं भूमण्डलं तेन सह प्रहितः प्रयुक्तः सौरतः सुरते विद्यमानो मन्त्रस् तेन शौण्डैर्निशितैरनङ्गस्य बाणायमानैः करणैर् आलिङ्गनादिलक्षणैः साधनैः । विमथितुं विलोडयितुं जेतुमित्यर्थः ॥ १८ ॥

श्रीनिवासतीर्थीया

जुषन्नपि न लिप्त इत्युभयमप्युपपादयति ॥ स्मायेति ॥ स्मयो मन्दहासः स एव स्मायस्तेन सहितो योऽवलोकस्तस्य लवेन सह दर्शितो यो भावःशृृङ्गारचेष्टा तया हारि मनोहरं यद्भ्रूमण्डलं तेन प्रहितः प्रयुक्तो यः सुरते विद्यमानो मन्त्रो विचारस्तेन शौण्डैर्निशितैः करणैरालिङ्गनादिलक्षणकर्तव्यैर्विमथितुम् । मन्थ विलोडने । विलोडयितुम् । जेतुमिति यावत् । न शेकुरित्यनेन लिप्तस्येतरेणार्थान् जुषन्नपीत्यस्य चोपपादनं कृतमिति ध्येयम् ॥ १८ ॥

प्रमेयचन्द्रिका

लेपाभावविवरणं क्रियते ॥ स्मायेति ॥ स्मायो मन्दहासस्तेन महितो अवलोकस्तस्य लवलेशेन दर्शितो भवतः शृङ्गारचेष्टाविशेषः । कामोद्रेकरूपो धर्मो वा । तेन हारि मनोहरं भ्रूमण्डलं तेन सह प्रहितः प्रयुक्तः सुरतसम्बन्धिनी मन्त्रः वचनप्रतिवचनरूपः । तेन शौण्डैर्निशितैरनंगस्य बाणायमानैरालिङ्गनादिभिः साधनैर् यस्येन्द्रियं मनो विमथितुं विलोडयितु• जेतुं न शेकुरित्यर्थः ॥ १८ ॥

बिभ्रत् तवामृतकथोदवहास्त्रिलोक्याः१

पादावनेजसरितः शमलानि हन्तुम् ।

आनुश्रवं श्रुतिभिरङ्घ्रिजमङ्गसङ्गै

स्तीर्थद्वयं शुचिषदस्तदुपस्पृशन्ति ॥ १९ ॥

तात्पर्यम्

सर्वं बिभ्रतस्तव ॥ १९ ॥

पदरत्नावली

यद्ययं भगवान् विषयलम्पटत्वेन स्त्रीजितस् तर्हि तत्कथानदीस्नानं पापनाशनं न स्यात्, न च तथा, अतो निःसङ्गत्वेन स्त्रीजितो नैवेति तर्कं गर्भीकृत्य स्तुवन्ति बिभ्रदिति । सप्तसु प्रथमेति सूत्राद् बिभ्रदिति प्रथमा षष्ठ्यर्थे । त्रिलोक्या यदनन्यसाध्यं तत् सर्वं बिभ्रतस्तव अमृतकथोदवहा अमृतकथालक्षणा नद्यः पादावनेजसरितश्चेति यत् तीर्थद्वयं तद् उपस्पृशन्ति स्नानादियोग्यं कुर्वन्ति । अत्र किं प्रमाणमत्राह– आनुश्रवमिति । श्रुतिप्रसिद्धमित्यर्थः । सम्यक् स्रवन्ति सरितोऽनधेनान्तर्हृदा मनसा पूयमाना इत्यादेः । कुतोऽभूदित्यत उक्तम् अङ्घ्रिजमिति । अन्यत्तु प्रसिद्धम् । अघिलघिगत्यर्थाविति धातुपाठः । कैः करणैः श्रुतिभिः श्रवणैरङ्गसङ्गैश्च । किं फलमुद्दिश्य । शमलानि मलानि हर्तुम् । मलं विष्ठाघयोर्नस्त्रीति यादवः । शुचावग्नौ सीदति निषीदति तिष्ठतीति शुचिषत् तस्य । चन्द्रार्कमण्डलस्थस्य वा ॥ १९ ॥

श्रीनिवासतीर्थीया

बिभ्रदिति प्रथमा षष्ठ्यर्थे । सप्तसु प्रथमेति सूत्रादित्याशयेन आह ॥ सर्वमिति ॥ सर्वं जगदिति योग्यतया सम्बन्धः । तथा च सर्वं जगद्बिभ्रतः शुचिषदः शुचौ वायौ सीदतीति शुचिषत् । यथोक्तम् । हंसः शुचिषदित्यत्र काठकभाष्ये वायुस्थः शुचिषन्मत इति । तस्य शुचिषदस्तवामृतकथालक्षणोदकवाहा नद्यः पादावनेजसरितो भागीरथ्याद्याश्चेति यत्तीर्थद्वयं यच्चानुश्रवं सम्यक् स्रवन्ति सरित इत्यादि श्रुतिप्रसिद्धम् । यच्चाङ्घ्रिजं भागीरथ्यादिसरितः स्पष्ट-मङ्घ्रिजत्वम् । अङ्घ्रिर्भगवत्स्वरूपम् । तज्जत्वं कथालक्षणनद्य इति द्रष्टव्यम् । तच्छमलानि पापानि हन्तुं श्रुतिभिः श्रवणैरङ्गसङ्गैः स्नानादिभिश्च क्रमेणोपस्पृशन्ति सेवन्त इति मूलं योज्यम्

॥ १९–२२ ॥

दुर्घटभावदीपिका

शुचिषदः शुचय एव तिष्ठन्तः । सर्वदा शुद्धा इति यावत् । ज्ञानिन-स्त्रिलोक्यास्त्रिलोकस्थितप्राणिनां मलानि हन्तुं प्रवृत्ता बिभ्रत्तव बिभ्रच्चासौ त्वं च बिभ्रत्वं सर्वं बिभृत-स्तवामृतकथोदवहा अमृतायमानकथालक्षणनदीः पादावनेजगङ्गादिनदीश्चोपस्पृशन्ति । एतदेव विवृणोति ॥ आनुश्रवमिति । वेदप्रतिपादितमङ्घ्रिजं कथालक्षणतीर्थमङ्घ्रेर्व्यासादिभगवत्स्वरूपाज्जातं गङ्गादितीर्थं भगवत्पादाज्जातं तत्पूर्वोक्तगुणविशिष्टत्वेन प्रसिद्धं तीर्थद्वयं कथारूपं गङ्गादिरूपमिति तीर्थद्वयं श्रुतिभिः । श्रुतिशब्दो मनननिदिध्यासनयोरुपलक्षकः । कथारूपं तीर्थं श्रवणमनननिदिध्यासनैर्गङ्गादि-रूपतीर्थमङ्गसङ्गैः स्नानादिभिरुपस्पृशन्ति सेवन्त इति । एतेनोत्तरार्धो व्यर्थ इति दूषणमपास्तम् । आनुश्रवत्वादिकथनेनोत्तरार्धस्य विपरिणामरूपत्वमित्यङ्गीकारात् ॥ १९ ॥

प्रमेयचन्द्रिका

किञ्च यद्ययं भगवान् लौकिकवद्विषयलंपटः स्यात्तर्हि तत्कथाख्यनदीस्नानं तत्पादजगङ्गाख्यनदीस्नानमशेषाघहरं न स्यात् । भवति चाघहरम् । तस्मान्नायं स्त्रीजित इति तर्कं गर्भीकृत्य स्तुवन्ति ॥ बिभ्रदिति ॥ अत्र बिभ्रदित्यस्य कर्माप्रतीतेरन्वयाप्रतीतेश्चाह ॥ सर्वमिति ॥ सर्वं जगदेव भरणकर्मेति सूचितं भवति । सप्तसु प्रथमेति सूत्राद् बिभ्रदिति प्रथमा षष्ट्यर्थे । तवेत्यस्य चैतद्विशेषणम् । यद्वा बिभ्रत्तवेत्येकं पदम् । बिभ्रच्चासौ त्वं च बिभ्रत्वं तस्य बिभ्रत्तवेत्यभिप्रेत्यार्थकथनम् ॥ बिभ्रतस्तवेति ॥

अयं मूलार्थः । शुचौ मुख्यप्राणे निषदतीति शुचिषत् । तस्य मुख्यवाय्वन्तर्यामिणः । वायुस्थः शुचिषन्मत इति काटकभाष्योक्तेः । शुचावग्न्यर्कादौ निषीदति इति वा । सर्वं बिभ्रतस्तव अमृताय मानकथाख्योदकवहाः शास्त्राख्यो नद्यः । त्रिविक्रमदत्तात्रेयादि भगवत्पादप्रक्षालनरूपा गङ्गाकावेर्यादि-नद्यश्चेत्येतत्तीर्थद्वयम् । तीर्थशब्दस्य नदीशास्त्रोभयवाचित्वात् । कीदृशं तीर्थद्वयम् । आनुश्रवं नामैकदेशन्यायेन आनुश्रववचनम् । वेदस्तत्र श्रूयत इति । आनुश्रवं वेदप्रसिद्धिमिति यावत् । ऋग्वेदो यजुर्वेद इत्यादिवेदेषु भगवत्प्रतिपादकतया प्रसिद्धाः कथानद्यः सम्यक् स्रवंति सरितो न धेनाः । अस्मात्स्यन्दन्ते सिन्धवः सर्वरूपा इत्यादिश्रुतिप्रसिद्धत्वम् । नद्याख्यतीर्थस्य । पुनः कीदृशम् । अङ्घ्रिजम् अङ्घ्रिर्भगवत्पादाब्जम् । तस्माज्जातम् । वेदनिधिव्यञ्जनमित्युक्तेर्भगवतो व्यक्तम् । पौरुषस्य तु जातत्वमेव । अथवा अङ्घ्रिं भगवत्पादं तत्स्वरूपम् । जनयति व्यञ्जयतीति अङ्घ्रिजम् । नदीपरत्वे अङ्घ्रिजत्वं स्पष्टम् । तत्तीर्थद्वयं श्रुतिभिः श्रवणैः स्नानपानादिरूपाङ्गसङ्गैश्च क्रमेण सम्बन्धः । त्रिलोकस्था जना उपस्पृशन्ति । सेवन्त इति ॥ १९ ॥

बादरायणिरुवाच—

इत्यभिष्टूय विबुधैः सेशः सत्यधृतिर्हरिम् ।

अभ्यभाषत गोविन्दं प्रणम्याम्बरमाश्रितः ॥ २० ॥

ब्रह्मोवाच—

भूमेर्भारावतराय पुरा विज्ञापितः प्रभो ।

त्वमस्माभिरशेषात्मंस्तत् तथैवोपपादितम् ॥ २१ ॥

धर्मश्च स्थापितः सत्सु सत्यसन्धेषु१ वै त्वया ।

कीर्तिश्च दिक्षु विक्षिप्ता सर्वलोकमलापहा ॥ २२ ॥

अवतीर्य यदोर्वंशे बिभ्रद्रूपमनुत्तमम् ।

कर्माण्यु२दारवृत्तानि हितानि जगतोऽकृथाः ॥ २३ ॥

पदरत्नावली

सत्यधृतिर्ब्रह्मा ॥ २० ॥

श्रीनिवासतीर्थीया

रूपं विभ्रत्त्वमकृथा इत्यन्वयः ॥ २३ ॥

प्रमेयचन्द्रिका

अशेषात्मन् सर्वस्वामिन् । सत्वं ज्ञानम् । उद्दामवृत्तानि उद्दामतया उत्कृष्टतया गम्भीरतया वा प्रवृत्तानि ॥ २३ ॥

यानि ते चरितानीश मनुष्याः साधवः कलौ ।

शृण्वन्तः कीर्तयन्तश्च तरिष्यन्त्यञ्जसा तमः ॥ २४ ॥

यदुवंशेऽवतीर्णस्य भवतः पुरुषोत्तम ।

शरच्छतं व्यतीयाय पञ्चविंशाधिकं प्रभो ॥ २५ ॥

तात्पर्यम्

वत्सराणां शतं चैव ऋतूनां पञ्चविंशकम् । अवतीर्णस्य कृष्णस्य यदा प्रागात्तदा हरिम् । स्वस्थानगमनापेक्षी ब्रह्मा तुष्टाव सामरः ॥ ‘संवत्सरद्वयं चैव पश्चा-त्स्थित्वा जनार्दनः । अभिपेदे परं स्थानं चातुर्मास्याधिकं पुनरि’ति भविष्यत्पुराणे

॥ २५ ॥

पदरत्नावली

पञ्चविंशाधिकं पञ्चविंशत्यधिकम् । तदुक्तम् – ‘‘वत्सराणां शतं चैव ऋतूनां पञ्चविंशकम् । अवतीर्णस्य कृष्णस्य यदा प्रागात् तदा हरिम् । स्वस्थानगमनापेक्षी ब्रह्मा तुष्टाव सामरः’’ इति ॥ २५ ॥

प्रमेयचन्द्रिका

शरच्छतं व्यतीयाय । पञ्चविंशाधिकमित्यत्र पञ्चविंशद्वर्षाधिकमिति भाति । अत आह ॥ वत्सराणामिति ॥ पञ्चविंशदृत्वधिकमित्येव मूलार्थः । अन्यथोदाहृतप्रमाणविरोधादिति भावः । शतवर्षात्परं मासद्वयाधिकसंवत्सरचतुष्टयं व्यतीयायेत्यर्थः । देवप्रार्थनानन्तरं कियत्कालं भूमौ स्थितवानित्यत आह ॥ संवत्सरद्वयं चेति ॥ २५ ॥

विरोधोद्धारः— यदुवंशे इति । इयं कृष्णं प्रति ब्रह्मोक्तिः । अत्र श्रीधरव्याख्यानैकशरणाः सर्वेऽपि पञ्चविंशाधिकमिति पदस्य श्रीधरानुक्तमपि स्वकपोलकल्पितं पञ्चविंशाधिकमित्यर्थं कथयन्ति । तच्चित्रम् । तादृगर्थसिद्धौ प्रमाणाभावात् । न च शरच्छब्दस्योपवर्तमानत्वेन तादृशार्थसिद्धिरिति वाच्यम् । पञ्चमेऽहनि षष्ठे वा शाकं पचति स्वे गृहे । अनृणी चाप्रवसी च स वारिचर मोदते । इत्यत्र चतुर्धरेण अहःशब्दस्योपवर्तमानत्वेऽपि पञ्चमे षष्ठे वा दिने पक्वशाकादिभोजनेन जीवनायोगात् । तदर्थस्य बाधितत्त्वं मत्वाऽहन्येकस्मिन्दिने पञ्चमे काले सायाह्ने वा षष्ठे काले प्रदोषे वेति व्याख्यातत्वेन बाधितस्य त्यागार्हसूचितत्वात् । अत्र कथं बाधितत्वमिति चेत् । शतायुर्वै पुरुष इति श्रुत्या नृणां शतायुष्ट्वोक्तेः । अधिकार्थग्रहणे बाध एव । न च हरेरचिन्त्यशक्त्या सर्वं सुघट-मिति । स्वेच्छामात्रेण पृथ्वीभारापनोदनशक्तत्वादवतारग्रहणस्य व्यर्थत्वप्रसङ्गात् । अतो मनुष्यावतारानुसारिधर्मस्याप्यवश्यकत्वम् । तर्हि गोवर्धनोद्धरणादिकं कथं सङ्गच्छत इति चेत् । अल्पशक्तिमतोऽसम्भावितत्वेऽपि अतिशक्तस्य पुंसः सम्भावितत्वात् । एवमप्यस्त्विति चेन्न । श्रुतिसिद्धधर्मस्यान्यथाकर्तुमनुचितत्वात् । अतष्टीकाकारश्रीधरानुक्तेश्च तादृशार्थकथनमयुक्तम् । तर्हि कोऽर्थ इति चेदुच्यते ।

हे पञ्चविंश चतुर्विंशतितत्वात्मको देहो येषामस्त्तीति चतुर्विंशाजडदेहधारिणो जीवाः । तदपेक्षया विलक्षण इत्यर्थः । चिदानन्दशरीरेति यावत् । अनेन न तवोर्ध्वलोकगमनमन्यजीववद्देहं त्यक्त्वाऽपि तु तेन सहैव । तस्य ज्ञानानन्दात्मकत्वेनाभिन्नत्वादित्याशयः । तर्हि नैच्छत्प्रणेतुं वपुरत्र शेषितमिति वक्ष्यमाणस्य का गतिरिति चेत् । तत्र बलभद्रादीनामिति शेषमङ्गीकृत्य । अत्र भुवि शेषितं बलभद्रादीनां वपुः । प्रणेतुम् ऊर्ध्वलोकं नेतुम् । नैच्छदिति योजना द्रष्टव्या । अन्यथा जगतो मोहनार्थाय भगवान्पुरुषोत्तमः । दर्शयन्मानुषीं चेष्टां तथा मृतकवद्विभुः । प्रकाशयेददेहोऽपि मोहाय च दुरात्मनाम् । मायया मृतकं देवस्तदा सृष्ट्वा प्रदर्शयेत् । कुतो हि मृतकं तस्य मृत्यभावात्परात्मन इति प्रमाणविरोधात् । सप्तमस्कन्धेऽपि नरहर उपनीतः पञ्चतां पञ्चविंशेतिश्लोके पञ्चविंशेति सम्बोधनाच्च । अधिकम् अधिकृतः । कः ब्राह्मपक्षः । यस्मिंस्तत् । शरच्छतं वर्षशतम् । व्यतीयाय अत्यक्रामदित्यन्वयः । अनेनेदं ज्ञायते । ब्राह्मसौरार्यपक्षाणां मध्ये ब्राह्मस्य सौरापेक्षया द्विघटिकोनत्वात् । मासस्य षष्टिघटीसम्भवेन तत्कालस्यैवाहोरात्रत्वात् । वर्षस्य द्वादशदिनान्यूनानि यदा भवन्ति तदा शतवर्षाणां द्वादशशतदिनोनतया तावद्दिनानां चतुर्मासाधिकवर्षत्रयसिध्या तेनोन-शतवर्षाणि नामाष्टमासाधिकषण्णवतिवर्षाणि भवन्ति । तत्काले स्वस्थानगमनापेक्षया ब्रह्मप्रार्थनम् । ततश्चतुर्मासाधिकवर्षद्वयस्थितिर्भूमौ । एवं नवनवतिवर्षाणि भवन्ति । देवकीवसुदेवयोर्जठरयोरेकवर्षं स्थितिः ।

एवं मिलित्वा पूर्णे शतवर्षात्मके काले भगवन्निर्याणमिति । तदुक्तम् । वत्सराणां शतं चैव ऋतूनां पञ्चविंशकम् । अवतीर्णस्य कृष्णस्य यदाऽप्रागात्तदा हरिम् । स्वस्थानगमनापेक्षी ब्रह्मा तुष्टाव सामरः । संवत्सरद्वयं चैव पश्चात्स्थित्वा जनार्दनः । अभिपेदे परं स्थानं चतुर्मासाधिकं पुनरिति तात्पर्ये ।

अस्यार्थः । अवतीर्णस्य श्वेतद्वीपात् । भूस्थकश्यपरूपवसुदेवमनस्यारूढस्य शुक्लकृष्णकेशांशेन तन्मनस्याविष्टस्येत्यर्थः । कृष्णस्य मेघश्याममूलरूपभगवतः । ऋतूनां पञ्चविशकं द्विमासाधिक-वर्षचतुष्टयम् । यदा । वत्सराणां वर्षाणाम् । शतं प्रति अप्रागात् सङ्ख्यापूरकत्वेन न प्राप । द्विमासोनषण्णवतिवर्षात्मके काल इति यावत् । तदैव । स्वस्थानगमनापेक्षी सत्यलोकनयनेच्छुः । इदं विशेषणं न केवलं ब्रह्मणोऽपि तु पश्चाद्ब्रह्मादिप्रार्थनानन्तरम् । जनार्दनः जनवच्छतवर्षा-नधिककालेऽर्दनं गमनं यस्य सः । अथवा । अजनस्य ब्रह्माणम् अर्दनं याचनं यस्मै स तथा । अर्द गतौ याचनेति धातुः । चतुर्मासाधिकं संवत्सरद्वयं च स्थित्वा भुवि वासं कृत्वैव पुनः परं स्थानम् । अभिपेदे जगामेति ।

इदमत्राकूतम् । भगवतः शुक्लकृष्णरूपेण वसुदेवमनसि युगपत्प्रवेशेऽपि शुक्लकेशात्मकस्य हरेर्नवमासपर्यन्तं वसुदेवे स्थितिः । ततो देवक्युदरे मासत्रयम् । ततो रोहिण्युदरे सप्तमासम् । ततस्तदाविष्टशेषस्य भुवि जन्म । तच्च वैशाखबहुलाष्टम्याम् । यदा त्रिमासः स बभूव देवस्तदा-विरासीत्पुरुषोत्तम इति तात्पर्यनिर्णयगतवाक्येन रामकृष्णयोस्त्रिमासान्तरोक्तेः । देवकीगर्भबहिर्निगम-रूपावतरणापेक्षयैव । श्रावणस्यासिताष्टम्यां रोहिण्यामर्धरात्रके इत्यादिवाक्यस्यापि पश्चात्त्रि-मासान्तरसम्भवात् । तदैव शेषो हरिणोदितोऽविशद्गर्भे सुताया अपि देवकस्य । स तत्र मासत्रयमुष्य दुर्गयाऽपवाहितो रोहिणीगर्भमाशु । नियुक्तया केशवेनाथ तत्र स्थित्वा मासान्समजातः पृथिव्यामिति चोक्तिबलाद्युज्यते चायमर्थः । आश्विनकृष्णे वसुदेवेन देवक्यां दक्षाख्यषष्ठगर्भस्थापने कृते तदैव वसुदेवे रूपद्वयेन भगवत्प्रवेशः । ततः सप्तमे वैशाखे दक्षजन्म । ततो द्विमासान्ते आषाढे देवक्यां सप्तमरामगर्भस्थापनम् । ततस्त्रिमासान्ते आश्विने रामस्य रोहिणीगर्भप्रवेशः । ततः सप्तमे वैशाखे रामजन्म । रोहिण्यां रामगर्भप्रवेशकालात्सार्धमासद्वयान्ते पौषशुद्धे देवक्यां श्रीकृष्णगर्भप्रवेशः । ततः सार्धसप्तममासान्ते श्रावणकृष्णाष्टम्यां भगवत्प्रादुर्भावः । आविश्य पूर्वं वसुदेवमेव विवेश तस्मादृतुकाल एव । देवीमुवासात्र च सप्त मासान् सार्धां स्ततश्चाविरभूदजोपीत्युक्तेः । तस्माद्देवक्युदराविर्भाव-कालादष्टमासाधिकसप्तनवतिवर्षात्मके काले ब्रह्मप्रार्थनसद्भावेऽपि पञ्चविंशति ऋतूनतासिद्धद्विमासोन-षण्णवतिवर्षातीततोक्तिस्तु वसुदेवमनः प्रवेशरूपावतरणकालापेक्षयैव तात्पर्ये । तया वसुदेवमनसि सार्धचतुर्दशमासस्थितेः । देवक्युदरे च सार्धसप्तमासस्थितेस्ततो द्विमासोनषण्णवतिवर्षात्मके ब्रह्मप्रार्थनात् । एतत्सर्वं मिलित्वाऽष्टमासाधिकसप्तनवतिवर्षात्मककालस्य पूर्तिसिद्धेः ।

भागवते पूर्वोक्तकाल एव ब्रह्मप्रार्थनसद्भावेऽपि ब्राह्ममानेन द्वादशशतदिनोनतासिध्याऽष्टमासाधिक-षण्णवतिवर्षमितकालातिक्रमोक्तिस्तु रामाख्यशेषाविष्टशुक्लकेशात्मनो हरेर्देवकीगर्भप्रवेशकालापेक्षया । एतदङ्गीकारेण देवक्युदरे रामस्य त्रिमाससंस्थितेः । ततः सार्धद्विमासान्ते कृष्णस्य देवकीगर्भप्रवेशः । ततस्तत्र सार्धसप्तमासस्थितिः । तत आविर्भावस् तत्कालमारभ्याष्टमासाधिकषण्णवतिवर्षमितकाले ब्रह्मप्रार्थनम् । एतत्सर्वमेलनेऽष्टमासाधिकसप्तनवतिवर्षात्मककालस्य पूर्तिसिद्धेः । न चैकमासाधिक्यमिति वाच्यम् । तद्वर्षेऽसक्रान्तमासागमनेनैकमासाधिक्येऽपि तन्मासगणनौचित्यात् । ततश्चोभयत्रापि चतुर्मासाधिकद्विवर्षमस्मिंल्लोके संवासेन शताब्दपूर्त्या न श्रुतिविरोधगन्धोऽपीति । यत्तूपदिश्य परं ज्ञानमुद्धवायामुमाश्रमम् । बदर्याख्यं प्रापयित्वा सप्तमाब्दं शत्तोत्तरम् । प्रतीक्षन्पालयामास पार्थैः सह भुवं प्रभुरिति भारततात्पर्यनिर्णायकश्रीमदाचार्यवाक्ये सप्तोत्तरशताब्दातीततोक्तिः । सा कृष्णावतारस्य बार्हस्यत्यमानेन पूर्णशतवर्षस्थितिविवक्षासत्त्वेऽपि सावनमानेन ज्ञेया । यतो बार्हस्पत्य-मानगतशतवर्षेषु शतमासा एवाधिका भवन्ति । तेषां वर्षाणि चतुर्मासाधिकाष्टा भवन्ति । तत्र चतुर्मासाधिकसप्ततिवर्षाधिक्यकथने एकवर्षाधिक्यं भवति । तच्च देवकीवसुदेवगर्भस्थितिविवक्षयेति ज्ञेयम् । अतो न कश्चिद्विरोधः ॥ २५ ॥

॥ इति श्रीपाङ्घरीश्रीनिवासाचार्यकृतायां श्रीभागवतटिप्पण्यां षष्ठोऽध्यायः ॥ ११–६ ॥

नाधुना तेऽखिलाधार देवकार्येऽवशेषितम् ।

कुलं च विप्रशापेन नष्टप्रायमभूदिदम् ॥ २६ ॥

ततः स्वधाम परमं विशस्व यदि मन्यसे ।

सलोकं लोकपालान् नः पाहि वैकुण्ठकिङ्करान् ॥ २७ ॥

श्रीशुक उवाच—

संस्तुतो भगवानित्थं विबुधैः पद्मजादिभिः ।

प्रतिनन्द्याह तान् राजन् मायामनुज ईश्वरः ॥ २८ ॥

श्री भगवानुवाच—

अवधारितमेतन्मे यदात्थ१ विबुधेश्वराः ।

कृतं वः कार्यमखिलं भूमेर्भारोऽवतारितः ॥ २९ ॥

पदरत्नावली

अवशिष्टदेवकार्यापेक्षयापि न स्थेयमित्याह– नाधुनेति । यदुकुल-मवशिष्टमपेक्ष्यापि न स्थेयमित्याह– कुलमिति ॥ यादवानां देवत्वात् तत्स्थितौ कलेरप्रवेशात् तस्य चापेक्षितत्वात् तत्कुलसंहारार्थं किञ्चित्कालस्थित्यपेक्षायां तत् कृत्वा झटिति स्वधाम प्रवेष्टव्य-मित्याशयेनाह– ततः स्वधामेति । तदुक्तं च – ‘‘संवत्सरद्वयं चैव पश्चात् स्थित्वा जनार्दनः । अभिपेदे परं स्थानं चतुर्मासाधिकं पुनः’’ इति ॥ अवधारितं निश्चितम् ॥ २६,२७,२९ ॥

प्रमेयचन्द्रिका

अवधारितमिति मूले एतत् परलोकगमनं मया निश्चितमित्यर्थः । अत्र निमित्तमुच्यते ॥ यदर्थ इति ॥ यदर्थे इममवतारम् । तद्धर्मस्थापनरूपं कार्यमखिलं कृतम् । तत्रैकदेशविवरणम् ॥ भूमेर्भारश्चावतारित इति ॥ २९ ॥

तदिदं यादवकुलं वीर्यशौर्यश्रियोद्धतम् ।

लोकं जिघृक्षत्यूर्ध्वं मे वेलामिव महार्णवः ॥ ३० ॥

यद्यसंहृत्य दृप्तानां यदूनां विपुलं कुलम् ।

गन्तास्म्यनेन लोकोऽयमुल्बणेन विनंक्ष्यति ॥ ३१ ॥

इदानीं नाश आरब्धः कुलस्य द्विजशापतः ।

यास्यामि भवनं ब्रह्मन्नेतदन्ते तवानघ१ ॥ ३२ ॥

तात्पर्यम्

‘सतामपि कलौ प्राप्ते विकारो मनसो भवेत् । तस्माद्यदूंश्च संजह्ने नैते स्युः पापिनस्त्विति । पुनर्लोकविवृध्द्यर्थमौत्तरेयादिकान्हरिः । आविश्य रक्षामकरोज्जगतः पुरुषोत्तमः । स्वात्मनः सह यानेन पुरुषार्थोऽधिको भवेत् । इत्यनुग्रहबुध्द्या च संजह्ने स्वकुलं विभुरि’ति च ॥ ३० ॥

पदरत्नावली

तर्हि कालक्षेपे किं कारणं तत्राह– तदिदमिति । ये ऊर्ध्वं ममोर्ध्वलोक-गमनानन्तरम् । लोकं जिघृक्षति प्राप्तुमिच्छति, अन्यायेनेति शेषः ॥ अनुपसंहारे को दोष इति तत्राह– अनेनेति । उल्बणेन वीर्यशौर्यादिगुणैस्तीक्ष्णेन अनेन यादवकुलेन । सतो यदुकुलस्योल्बणत्वं युगधर्मेण भविष्यतीत्यभिप्रायेणोक्तमाचार्यैः – ‘‘सतामपि कलौ प्राप्ते विकारो मनसो भवेत् । तस्माद् यदूंश्च सञ्जह्रे नैते स्युः पापिनस्त्विति । पुनर्लोकविवृध्द्यर्थमौत्तरेयादिकान् हरिः । आविश्य रक्षामकरोज्जगतः पुरुषोत्तमः । स्वात्मनः सहयानेन पुरुषार्थोधिको भवेत् । इत्यनुग्रहबुध्द्या च सञ्जह्रे स्वकुलं विभुः ।’’ इति ॥ एतदन्ते एतस्य यदुकुलस्य संहारस्यान्ते । तव प्रीत्यै भवनं यास्यामि ॥ ३०–३२ ॥

श्रीनिवासतीर्थीया

महार्णवो दृप्तः सन् कदाचिद्वेलां तीरमतिक्रम्योर्ध्वं गच्छति । एवमौर्ध्वम् आ ऊर्ध्वं मदीयमूर्ध्वं लोकं वैकुण्ठमाजिघ्रति गृहीतुमिच्छति । यतो वीर्यादिनोद्धृतमित्यर्थः ॥ उल्बणेन वीर्यादिगुणैस्तीक्ष्णेनानेन यादवकुलेन ॥ एतदन्ते नाशान्ते तवाज्ञया तव प्रीतये वा । अत्र लोकोऽय-मुल्बणेन विनंक्ष्यन्तीत्युक्त्या एतन्निमित्तक एव संसार इति प्रतीयतेऽतो निमित्तान्तरमाह ॥ सता-मपीत्यादिना ॥ लोकविवृद्ध्यर्थं लोकानां धर्माभिवृद्ध्यर्थम् । निमित्तान्तरमप्याह । आदौ स्वस्य परन्धामगमनानन्तरमप्येते यादवा यदि भूमौ बहुकालमवस्थित्वा पश्चात्स्वमूलरूपं गमिष्यन्ति तदा विशेषपुरुषार्थो न स्यादतः स्वात्मनः स्वात्मना सह मूलरूपयानेनैतेषां यादवानामधिकः पुरुषार्थो भवेदस्त्वित्यनुग्रहबुद्ध्या स्वकुलं संजह्र इत्यन्वयः ॥ ३०–३२ ॥

प्रमेयचन्द्रिका

कालक्षेपे किं कारणमत्राह ॥ तदिदमिति ॥ मे ऊर्ध्वलोकं जिघृक्षति । प्राप्तुमिच्छति । विनंक्ष्यति । धर्मज्ञानैश्वर्यादिगुणैरुल्बणेनातिशयितेनानेन यदुकुलेनायं भूलोकः युगधर्म-प्रवृत्यभावरूपविनाशं प्राप्स्यति । यद्वा अयं यदुकुलजनो अनेन कलिना निमित्तकमनोदोषाख्येनोल्बणेन विनश्यति । तस्मादनेन यदुकुलेन सह हन्त गन्तास्मीति । ननु देवावताराणां यदूनां कथं कालकृत-मनोविकार इत्यत आह ॥ सतामपीति ॥ तर्हि धर्मवृध्यै परीक्षितादिस्थापनानुपपत्तिरित्यत आह ॥ पुनरिति ॥ कलुषवत्यात्यन्तिकधर्महान्ययोगाद्धर्मस्थापनमप्यावश्यकम् । न च परीक्षिदादेरपि मनोविकारप्राप्तिरिति वाच्यम् । विशेषभगवदावेशेन तदभावोपपत्तेरिति भावः । स्वेन सह गमन-प्रयोजनमाह ॥ स्वात्मन इति ॥ ३० ॥

श्रीशुक उवाच—

इत्युक्तो लोकनाथेन स्वयम्भूः प्रणिपत्य तम् ।

सह देवगणैर्देवः स्वं धाम समपद्यत ॥ ३३ ॥

अथ तस्यां महोत्पातान् द्वारवत्यां समुत्थितान् ।

विलोक्य भगवानाह यदुवृद्धान् समागतान् ॥ ३४ ॥

श्रीभगवानुवाच—

एते वै सुमहोत्पाता ह्युत्तिष्ठन्तीह सर्वतः ।

शापस्य नः कुलस्यासीद् ब्राह्मणेभ्यो दुरत्ययः ॥ ३५ ॥

न वस्तव्यमिहास्माभिर्जिजीविषुभिरार्यकाः ।

प्रभासं सुमहापुण्यं यास्यामोऽद्यैव मा चिरम् ॥ ३६ ॥

यत्र स्नात्वा दक्षशापाद् गृहीतो यक्ष्मणोडुराट् ।

विमुक्तः किल्बिषात्सद्यो भेजे भूयः कलोदयम् ॥ ३७ ॥

पदरत्नावली

यत्र प्रभासे दक्षशापादुत्पन्नाद् यक्ष्मणः किल्बिषात् प्रमुक्तोऽभूत्

॥ ३३–३७ ॥

श्रीनिवासतीर्थीया

यक्ष्मणा क्षयरोगेण । उडुराडश्विन्यादिसप्तविंशत्तारापतिश्चन्द्रः । दक्षेण चन्द्रायाश्विन्यादिसप्तविंशत्संख्याकासु स्वपुत्रीषु दत्तासु सतीषु तन्मध्ये इतरा विहाय रोहिण्यामेकस्यामेव चन्द्रे आसक्ते सति क्षयरोगी भवेति दक्षेण शापे दत्ते सति प्रभासमागत्य तत्र स्नानादि कृत्वा यक्ष्मणा मुक्तः सन् षोडशकलं भेजे इत्यस्ति कथा सोच्यते ॥ यत्र स्नात्वेत्यादिना ॥ किल्बिषा-द्यक्ष्मरूपात् ॥ ३७ ॥

वयं च तस्मिन्नाप्लुत्य तर्पयित्वा पितॄन् सुरान् ।

भोजयित्वोषिजो विप्रान् नानागुणवतान्धसा ॥ ३८ ॥

पदरत्नावली

उषिजोऽग्नीन् ॥ ३८ ॥

श्रीनिवासतीर्थीया

आप्लुत्य स्नात्वा गुणवतान्धसा स्वादुत्वमाधुर्यादिगुणयुक्तेनान्नेन ॥३८॥

दुर्घटभावदीपिका

नौभिरिवार्णवमित्यस्यार्णवं बहूदकवन्तं नदीविशेषं सेतुरूपेण बद्धाभि-र्नौभिर्यथा तरन्तीत्यर्थः । एतेन नौभिः समुद्रतरणाभावात् । अर्णवं नौभिर्यथा तरन्तीति कथन-मयुक्तमिति चोद्यं परिहृतम् । अर्णवशब्देन समुद्रस्याग्रहणात् । एतेनैव नदीतरणस्यैकया नावा जायमानत्वात् । नौभिरिति बहुवचनमनुपपन्नमिति दूषणस्यानवकाशः । सेतुरूपेण बद्धाभिरित्यस्य शेषेण सेतुरूपेण बद्धाभिर्नौभिरित्यर्थस्योक्तत्वात् ॥ ३८ ॥

तेषु दानानि पात्रेषु श्रद्धयाऽर्प्य महान्ति वै ।

वृजिनानि तरिष्यामो दानैर्नौभिरिवार्णवम् ॥ ३९ ॥

श्री शुक उवाच—

एवं भगवताऽदिष्टा यादवाः कुरुनन्दन ।

गन्तुं कृतधियस्तीर्थं स्यन्दनान् समयूयुजन् ॥ ४० ॥

श्रीनिवासतीर्थीया

तीर्थं प्रभासम् ॥ ४० ॥

तान् निरीक्ष्योद्धवो राजन् श्रुत्वा भगवतोदितम् ।

दृष्ट्वाऽनिष्टानि घोराणि नित्यं कृष्णमनुव्रतः ॥ ४१ ॥

पदरत्नावली

अरिष्टानि अशुभानि ॥ ४१ ॥

श्रीनिवासतीर्थीया

अनिष्टान्यशुभानि ॥ ४१ ॥

विविक्त उपसंगम्य जगतामीश्वरेश्वरम् ।

प्रणम्य शिरसा पादौ प्राञ्जलिस्तमभाषत ॥ ४२ ॥

श्रीनिवासतीर्थीया

विविक्ते एकान्ते ॥ ४२ ॥

उद्धव उवाच—

देवदेवेश योगेश पुण्यश्रवणकीर्तन ।

संहृत्यैतत्कुलं नूनं लोकं संत्यक्ष्यते१ भवान् ॥

विप्रशापं समर्थोऽपि प्रत्यहन्न यदीश्वरः ॥ ४३ ॥

पदरत्नावली

भवान् समर्थोपि विप्रशापं न प्रत्यहन् यत् तस्मान्नूनमिदानी लोकं सन्त्यक्ष्यते

॥ ४३ ॥

श्रीनिवासतीर्थीया

सन्त्यक्ष्यत इति पाठे लोकं पृथिवीम् । संपद्यत इति पाठे लोकं वैकुण्ठम् ॥ तत्र ज्ञापकमाह ॥ विप्रेति ॥ यद्यस्मादीश्वरः सत्यसंकल्पस्त्वं विप्रशापं नाशयितुं समर्थोऽपि न प्रत्यहन् न नाशितवान् तस्माल्लोकं संपद्यत इति ज्ञायत इत्यर्थः ॥ ४३ ॥

प्रमेयचन्द्रिका

विप्रशापमिति ॥ हे ईश्वर समर्थोपि भगवान्यस्मान्न प्रत्यहनत् । तस्माद्भगवान् लोकं संपद्यत इति योजना ॥ ४३ ॥

नाहं तवाङ्घ्रियुगलं क्षणार्धमपि केशव ।

त्यक्तुं समुत्सहे नाथ स्वधाम नय मामपि ॥ ४४ ॥

तव विक्रीडितं कृष्ण नृणां परममङ्गलम् ।

कर्णपीयूषमासाद्य त्यजत्यन्यस्पृहां जनः ॥ ४५ ॥

श्रीनिवासतीर्थीया

ननु विषये स्पृहायुक्तं त्वां कथं स्वधाम नेष्य इत्यत आह ॥ तवेत्यादिना ॥ जनो भक्तजनः ॥ ४५ ॥

शय्याटनासनस्थानस्नानक्रीडाशनादिषु ।

कथं त्वां प्रियमात्मानं वयं भक्तास्त्यजेमहि ॥ ४६ ॥

पदरत्नावली

शय्यासानादिषु त्वां सेवमाना भक्ताः प्रियम् ॥ ४६ ॥

श्रीनिवासतीर्थीया

ततः किमित्यत आह ॥ शय्येति । शय्यादिषु प्रियमस्मान्विहाय शय्यादिकमुकर्वाणमिति यावत् ॥ ४६ ॥

प्रमेयचन्द्रिका

शय्यासनेति ॥ शय्यासनादिषु प्रियं प्रेमास्पदतया सहाभ्यस्तं त्वां त्वय्यतिभक्तिभरिता वयं कथं त्यजेमहीत्यर्थः । स्थानमुत्तिष्टन्नवस्थानमित्याहुः ॥ ४६ ॥

त्वयोपभुक्तस्रग्गन्धवासोऽलङ्कारचर्चिताः ।

उच्छिष्टभोजिनो दासास्तव मायां जयेमहि ॥ ४७ ॥

पदरत्नावली

चर्चिता अलङ्कृताः । तवाधीनां मायां प्रकृतिम् ॥ ४७ ॥

श्रीनिवासतीर्थीया

चर्चिता अलङ्कृतास्तवाधीनां मायां बन्धिकां प्रकृतिम् ॥ ४७ ॥

प्रमेयचन्द्रिका

बन्धकमायावृतानां युष्माकं कथमस्माल्लोकागमनमित्यतस्तन्निवृत्ति-रस्माकमनायासेन स्यादित्युच्यते ॥ त्वयेति ॥ ४७ ॥

वाताशना महर्षयः श्रमणा ऊर्ध्वमन्थिनः ।

ब्रह्माख्यं धाम ते यान्ति शान्ताः संन्यासिनोऽमलाः ॥ ४८ ॥

वयं त्विह महायोगिन् भ्रमन्तः कर्मवर्त्मसु ।

त्वद्वार्तया तरिष्यामस्तावकैर्दुस्तरं१ तमः ॥ ४९ ॥

स्मरन्तः कीर्तयन्तस्ते कृतानि गतितानि च ।

गत्युत्स्मितेक्षणोत्केलि यन्नृलोकविडम्बनम् ॥ ५० ॥

श्री शुक उवाच—

एवं विज्ञापितो राजन् भगवान् देवकीसुतः ।

एकान्तिनं प्रियं भृत्यमुद्धवं समभाषत ॥ ५१ ॥

॥ इति श्रीमद्भागवते एकादशस्कन्धे षष्ठोऽध्यायः ॥

तात्पर्यम्

‘आत्मनोऽवमतां ब्रूयुरुत्तमा अपि सर्वशः । कदाचिदेव स्वगुणान्स्निग्धे-ष्वेव हि साधव’ इति नारदीये ॥

पदरत्नावली

श्रमणा भिक्षव ऊर्ध्वमन्थिन ऊर्ध्वरेतस्काः ॥ तावकैस् तव भक्तैः सह त्वद्वार्तया ॥ गत्युत्स्मितेक्षणोत्केलि यन्नृलोकविडम्बनं तानि तच्च स्मरन्तः । उत्पन्नतत्वज्ञानोऽप्युद्धवो भ्रमन्त इत्यात्मनोऽवमतां वक्तीति यत् तत् साधूनां स्वभावप्रदर्शनाय । ‘‘आत्मनोऽवमतां ब्रूयुरुत्तमा अपि सर्वशः । कदाचिदेव स्वगुणान् स्निग्धेष्वेव हि साधवः’’ इति वचनादुक्तं युक्तमिति ॥ एकः श्रीहरिरेव सर्वोत्तम इति भावो यस्य सः । एकान्तिनं मुख्यं प्रियमिति वा । एके मुख्यान्यकेवला इत्यभिधानम् । एकान्तिनमित्यवञ्चने हेतुः ॥ ४८–५१ ॥

॥ इति श्रीविजयध्वजतीर्थयतिविरचितायां भागवतटीकायां

पदरत्नावल्याम् एकादशस्कन्धस्य षष्ठोऽध्यायः ॥

श्रीनिवासतीर्थीया

वाताशना दिगम्बराः श्रमणा भिक्षावृत्तयः । ऊर्ध्वं मन्था रेतो येषां ते तथा ॥ तावकैस्त्वद्भक्तैः सह । अत्र भ्रमन्त इत्यात्मनोऽवमतावचनमयुक्तं बृहस्पत्यात्मन उद्धवस्योत्तमाधिकारित्वादित्यतस्तात्पर्यमाह ॥ आत्मन इति । साधवः स्निग्धेषु स्वप्रियेषु स्वगुणान् महत्वादीन् कदाचिदेव ब्रूयुरित्यर्थः । तथा चोत्तमानामयं स्वभाव इति तथोक्तमित्यदोषः ॥ ते त्वया कृतानि कर्माणि गदितान्युक्तानि वचनानि स्मरन्तः ॥ नरलोकविडम्बनं कुर्वता त्वया यद्गत्युत्स्मितमीक्षणपूर्वकमाकेलि क्रीडनं यत्तच्च स्मरन्तो वयं तमस्तरिष्याम इति सम्बन्धः

॥ ४८–५१ ॥

॥ इति श्री श्रीनिवासतीर्थविरचितायां श्रीभागवतटिप्पण्याम्

एकादशस्कन्धे षष्ठोऽध्यायः ॥

दुर्घटभावदीपिका

हे महायोगिन्कृष्ण । वयमिहानुभवसिद्धेषु कर्मवर्त्मसु कर्ममार्गेषु तु विशेषतो भ्रमन्तः सन्तो यद्दुस्तरं तर्तुमशक्यं तमो मिथ्याज्ञानं प्राप्ताः । तत्तस्मात्तावकैस्त्वद्भक्तैः सह कृतया त्वद्वार्तया तरिष्याम इति । एतेन पूर्वोत्तरार्धयोरनन्वय इति दूषणं परास्तम् । यदित्यादेः शेषेणान्वयस्योक्तत्वात् ॥ ४८ ॥

॥ इति श्रीसत्याभिनवतीर्थविरचितायां श्रीभागवतटिप्पण्यां षष्ठोऽध्यायः ॥ ११–६ ॥

प्रमेयचन्द्रिका

ऋष्यादीनां मोक्षसाधने आयासो नास्माकं देवत्वात् । किन्तु त्वत्कथा-रत्यैवेत्युच्यते ॥ वाताशना इति श्लोकत्रयेण ॥ श्रमणा यतः । अभिज्ञावृत्तयः । तावकैः सह त्वद्वार्त्तया गत्यादिरूपां केलिं यन्नृलोकविडम्बनरूपं तच्च स्मरन्तः । नन्वत्र कर्मवर्त्मसु भ्रमन्तो वयमिति कथं केवलकर्मनिष्ठतोच्यते । तेषाममरश्रेष्टानां महाज्ञानित्वादित्यत आह ॥ आत्मन इति ॥ भगवत्प्रीत्यर्थं लोकशिक्षार्थं चेति शेषः । तत्र तत्र स्वमाहात्म्यवचनं दृश्यत इत्यत आह ॥ कदाचिदेवेति ॥ कदाचित्स्वगुणवर्णनं च साधूनां स्वेषु श्रद्धातिशयसंपादनार्थं स्निग्धेषु भक्तेष्वेवेति भावः ॥ ४८–५१ ॥

॥ इति श्रीमद्विठलार्यतनूजेनानन्दतीर्थाख्येन विरचितायां श्रीमद्भागवत

एकादशस्कन्धतात्पर्यप्रमेयचन्द्रिकायां षष्टोऽध्यायः ॥