भगवन्तं हरिं प्रायो न भजन्त्यात्मवित्तमाः
॥ अथ पञ्चमोऽध्यायः ॥
राजोवाच—
भगवन्तं हरिं प्रायो न भजन्त्यात्मवित्तमाः ।
तेषामशान्तकामानां का निष्ठाऽविजितात्मनाम् ॥ १ ॥
पदरत्नावली
श्रुतभगवद्भक्तलोकविशेषो राजा भगवद्विमुखानां कस्मिन् स्थाने स्थितिरिति पृच्छति भगवन्तमिति । हे आत्मवित्तमाः । न भजन्ति श्रौतैर्यज्ञादिकर्मभिरिति शेषः । निष्ठा स्थितिः, स्वरूपमिति यावत् ॥ १ ॥
श्रीनिवासतीर्थीया
न भजन्तीत्युपलक्षणम् । न अवजानन्ति चेत्यपि द्रष्टव्यम् । हे ब्रह्मवित्तमाः ॥ १ ॥
प्रमेयचन्द्रिका
भगवद्विमुखानां कस्मिन्स्थाने स्थितिरिति राजा पृच्छति ॥ भगवन्तमिति ॥ का निष्टा स्थितिरिति यावत् । तत्र स्वजनकत्वादिना परमोपकारकमात्मस्वामिनं भगवन्तम् । तव जानतां मध्ये लोक एव स्थानमित्युच्यते ॥ १ ॥
चमस उवाच—
मुखबाहूरुपादेभ्यः पुरुषस्याश्रमैः सह ।
चत्वारो जज्ञिरे वर्णा गुणैर्विप्रादयः पृथक् ॥ २ ॥
पदरत्नावली
हरेः पितृत्वेनात्यन्तोपकर्तृत्वात् तदभजनादिद्वेषोऽधःपातहेतुरिति तदभक्तानां तमस्येव निष्ठेति वक्तुं भगवदवयवेभ्यो वर्णाश्रमाणामुत्पत्तिप्रकारमाह– मुखेति । शामादिगुणैः ॥२॥
प्रमेयचन्द्रिका
मुखेति ॥ गुणैरित्यस्य शमोदमस्तपःशौचमित्यादिना तद्वर्ण-सम्बन्धितयोक्तैर्गुणैरित्यर्थः ॥ २ ॥
य एषां पुरुषं साक्षादात्मप्रभवमीश्वरम् ।
न भजन्त्यवजानन्ति स्थानभ्रष्टाः पतन्त्यधः ॥ ३ ॥
पदरत्नावली
एषाम् उत्पन्नानां मध्ये । आत्मप्रभवं स्वोत्पादकं पितरमित्यर्थः । पितुर्हरेः स्थानाद् वैकुण्ठादिलक्षणाद् भ्रष्टाः ॥ ३ ॥
प्रमेयचन्द्रिका
एवं मुखादिभ्य उत्पन्नानां मध्ये येनात्मप्रभवं स्वपितरं न भजन्ति । प्रत्युत न जानन्ति । ते ब्राह्मणादिजन्मभिः प्राप्यतया सम्भावितोर्ध्वलोकरूपस्थानाद् भ्रष्टा अधःपतन्तीत्यर्थः
॥ ३ ॥
दूरे हरिकथाः केचिद् दूरे चाच्युतकीर्तनाः ।
स्त्रियः शूद्रादयश्चैव तेऽनुकम्प्या भवादृशाम् ॥ ४ ॥
पदरत्नावली
श्रुत्याद्यर्थविचारानधिकृतत्वेन दूरीकृतहरिकथाश्रवणकीर्तनादिसाधनानां स्त्रीशूद्रादीनां श्रेयःसाधनमाह– दूर इति । भवादृशानामनुकम्पाविषयत्वेन हरिकथाश्रवणाद्यधिकारिणः स्युरिति भावः । अच्युतस्य कीर्तनं येषामस्ति ते अच्युतकीर्तनाः, ते च दूरे ॥ ४ ॥
प्रमेयचन्द्रिका
तत्र वेदानधिकारिणां स्त्रीशूद्रादीनां वेदेन हरिभजनायोगेऽपि महदनुकंपया तन्त्रज्ञानादिना कथंचिन्मोक्षसम्भवाद्वेदाधिकारिणां भगवदभजने कथंचिदपि नोद्धारः । प्रत्युतारूढ-च्युतिन्यायेनाधःपात एवेत्याशयेनोच्यते ॥ दूर इति ॥ ४ ॥
विप्रो राजन्यवैश्यौ च हरेः प्राप्ताः पदान्तिकम् ।
श्रौतेन जन्मना वाऽपि मुह्यन्त्याम्नायवादिनः ॥ ५ ॥
कर्मण्यकोविदाः स्तब्धा मूर्खाः पण्डितमानिनः ।
वदन्ति चाटुकान् मूढा यया माध्व्या गिरोत्सुकाः ॥ ६ ॥
पदरत्नावली
विप्रादीनां हरिभक्त्यभावे श्रुतिविचारो न मोक्षहेतुरित्याह– विप्र इति । विप्रादयः श्रौतेन श्रुतिविचारयोग्येन जन्मना हेतुना हरेः पदान्तिकं प्राप्ता हरिपदसमीपप्राप्तियोग्या यद्यपि अथापि आम्नायेन सह वादो विवादो येषामस्तीति आम्नायवादिनः हरिभक्तिलक्षणमुख्यार्था-परिज्ञानान् मुह्यन्ति तत्वं न जानन्तीत्यतो जन्मादिकमप्रयोजकं किन्तु हरिभक्तिरेवेत्यर्थः ॥ ननु वेदोक्तकर्मणा तत्त्वज्ञानोत्पत्तेः कथं तेषां मोहः, कर्मणा ज्ञानमातनोतीति श्रुतेः, इत्याशङ्क्य आम्नायवादित्वेन सम्यक्तदुदितकर्मतत्वापरिज्ञानादिदोषग्रह– ग्रस्तत्वादित्याह कर्मणीति । अकोविदत्वे हेतुः स्तब्धा इति । तत्र (हेतुः) मूर्खा इति । मूढत्वे अन्यतः श्रोतुं शक्यमित्यतः पण्डितमानिन इति । अतो मूढाः । यया माध्व्या स्वर्गादिमधुरवादिन्या गिरा सद्यो मधूनि गिरतीव स्थितया वाचा उत्सुका जिह्वारसं स्रवन्तस् तथावादकान् स्वर्गादिविषयवचनविशेषान् वदन्ति ॥ ५,६ ॥
श्रीनिवासतीर्थीया
यद्यपि विप्रादयः श्रौतेन श्रुतिविचारयोगेन जन्मना हरेः पदान्तिकं प्राप्ताः प्राप्तियोग्यास्तथाऽपि मुह्यन्ति । कुतः । यत आम्नायवादिनो वेदेन मुखतः प्रतीयमानार्थे कर्मादावेव रताः ॥ चाटुकान् वाचालान् । स्वर्गादिमधुयुक्तया गिरा, उत्सुका अत्यन्तं तुष्टाः स्वयं मूर्खाश्चेदन्यस्मात्पण्डितात्कुतो नशृृण्वन्तीत्यत उक्तम् ॥ पण्डितमानिन इति ॥ ५,६ ॥
दुर्घटभावदीपिका
कर्मण्यकोविदाः कामनां परित्यज्य कर्म कर्तव्यमिति ज्ञानशून्याः । सदुपदेशेन ज्ञानं किं न स्यादित्यत आह ॥ स्तब्धा इति । स्तब्धा अनम्राः । तत्रापि हेतुमाह ॥ मूर्खा इति । मूर्खाः कर्मविषयकभ्रमविशिष्टा अपि पण्डितमानिनः कर्मविषयकप्रमाऽस्माकमस्तीति भ्रमविशिष्टाः । तत्रापि कारणमाह ॥ वदन्तीति । मूढा अन्ये मूढा यथा काम्यकर्मण्युत्सुका भवेयुस्तथा माध्व्या गिरा मधुरया गिरा वादकान्काम्यं कर्म कर्तव्यमित्यापाततः प्रतिपादकान् ज्योतिष्टोमेन स्वर्गकामो यजेतेत्यादिवेदानुदाहृत्य काम्यं कर्म कर्तव्यमिति वदन्ति । अतस्तेषां कर्मविषयकप्रमाऽस्माकमस्तीति भ्रम इति । एतेन मूढा इत्येतन्मूर्खा इत्यनेन पुनरुक्तमिति दूषणं परास्तम् । मूर्खा इत्यनेन शिष्याणां ग्रहणं मूढा इत्यनेन गुरूणां ग्रहणमिति स्वीकरणात् ॥६॥
प्रमेयचन्द्रिका
आम्नायवादिनः वेदोपात्तार्थ एव रताः । वादो विषयकत्वं च मुखतो वचनं स्मृतमित्युक्तेः । न ते मुह्यन्ति । न च कर्मणा तेषां ज्ञानम् । कर्मविषये अकुशलात् । न च गुरूपदेशात् । अविनीतत्वात् । सत्कर्मबहिष्कृतत्वरूपमूर्खत्वात् । पण्डितमानित्वाच्च । अत एव मूढाः। यया माध्व्या आतपःस्वर्णादिसुखरूपमधुश्राविण्या गिरा विषयसुखेषूत्सुका अभवन् । त्रय्या वाचा स्वर्गकाम इत्यादिवचनविशेषान्वदन्ति । अतो मुह्यन्तीत्युपपद्यत इत्युच्यते ॥ कर्मणीति
॥ ५,६ ॥
रजसा घोरसंकल्पाः कामुका अभिमन्यवः ।
दाम्भिका मानिनः पापा विहसन्त्यच्युतप्रियान् ॥ ७ ॥
पदरत्नावली
किञ्चात इत्यत आह– रजसेति । तत्र जनितेन रजसा रागेण घोरो निष्ठुरः पश्वालम्भनादिलक्षणः सङ्कल्पो येषां ते तथा । कामुका विषयलोलुपाः । तद्विघ्नकर्तॄन् अभिमन्यवो ऽभितो मन्युरेव प्रधानो येषां ते तथा । एवंविधाः पापा अच्युतप्रियान् विहसन्ति पृथक्पृथग् दोषानुक्त्वा हसन्तीत्यर्थः ॥ ७ ॥
प्रमेयचन्द्रिका
न केवलं तेषां मोहः किन्त्वच्युतप्रियावज्ञां च कुर्वन्तीत्युच्यते ॥ राजसा इति ॥ अभितो मन्युः कोपो येषां ते अभिमन्यवः ॥ ७ ॥
वदन्ति तेऽन्योन्यमुपासितश्रियो गृहेषु मैथुन्यपरेषु चाशिषः ।
यजन्त्यसृष्टान्नविधानदक्षिणा वृत्त्यै परं घ्नन्ति पशूनतद्विदः ॥ ८ ॥
तात्पर्यम्
‘ये तु विष्णुमवज्ञाय श्रियमेव ह्युपासते । उपेक्ष्य वा हरिं ते तु भूत्वा याज्याः पतन्त्यध’ इति प्रवृत्तिसंहितायाम् ॥ ८ ॥
पदरत्नावली
एतदेव विवृणोति वदन्तीति । गृहेषु स्थित्वा अन्योन्यमाशिषो वाक्यप्रबन्धान् निजगुणोत्कर्षलक्षणान् वदन्ति । तत्र हेतुरुपासितश्रिय इति । किञ्चासृष्टान्नविधानदक्षिणा अदत्तान्नविध्युक्तदक्षिणाः परं केवलं वृत्त्यै जीवनोपायार्थं पशूनजादीन् घ्नन्ति नत्वालम्भते । कुतः । अतद्विदस् तत्वज्ञानशून्याः ॥ ८ ॥
श्रीनिवासतीर्थीया
उपासितश्रिय इति । श्रिय उपासकानां निन्दा न युक्ता । श्रियं वसाना अमृतत्वमायन्निति तदुपासकानां मोक्षोक्तेरित्यत आह ॥ ये त्विति । एवेति स्वातन्त्र्येणैवेति सूचयति । ते भूमौ याज्या याजका भूत्वाऽधः पतन्तीत्यर्थः ॥ ८ ॥
प्रमेयचन्द्रिका
एतद्विवरणं क्रियते ॥ वदन्तीति ॥ उपासिता श्रीर्लक्ष्मीर् एभिस्तैरैश्वर्यमन्त इति यावत् । स्वमैथुन्यप्रधानेषु गृहेषु । आशिष आशाख्यान्विषयान् प्रत्यन्योन्यं मनोरथवार्तां वदन्ति । आशामात्रमेव तेषाम् । कृतस्य कर्मणो विहितातिक्रमेण फलानापादकत्वात् । प्रत्युत जीवनोपायरूपहिंसात्वेन प्रत्यवसायहेतुत्वाच्चेत्यर्थः । अत्र श्रिय उपासकानां निन्दा प्रतीयते तदयुक्तम् । श्रियं वसाना अमृतत्वमायन्नित्यादिविरोधादित्यत आह ॥ ये त्विति ॥ विष्ण्ववज्ञानादिनिमित्तमेव तेषां निन्दितत्वं न तु श्रिय उपासनानिमित्तमिति भावः । याज्या अविहितयज्ञादिकारिणः । मूले अतद्विदस् तत्प्रसिद्धं ब्रह्म तदनभिज्ञाः । कर्मविधानानभिज्ञा इति वा ॥ ८ ॥
श्रिया विभूत्याऽभिजनेन विद्यया
त्यागेन रूपेण बलेन कर्मणा ।
जातस्मयेनान्धधियः सहेश्वरान्
सतोऽवमन्यन्ति हरिप्रियान् खलाः ॥ ९ ॥
पदरत्नावली
श्रिया शरीरकान्त्या । विभूत्या अणिमाद्यैश्वर्येण । श्रीविभूत्यादिना जातस्मयेन समृद्धमदेन अवमन्यन्ति अवजानन्ति ॥ ९ ॥
प्रमेयचन्द्रिका
न केवलमज्ञाः किन्तु विष्णुभक्तावमानिनश्चेति सनिमित्तमुच्यन्ते ॥ श्रियेति ॥ श्रिया शरीरकान्त्या सहेश्वरानित्युक्तेः ॥ ९ ॥
सर्वेषु शश्वत् तनुभृत्स्ववस्थितं
यथा स्वमात्मानमभीष्टमीश्वरम् ।
वेदोपगीतं च न शृण्वतेऽबुधा
मनोरथानां प्रवदन्ति वार्तया ॥ १० ॥
पदरत्नावली
हरिप्रियावज्ञानमेव हर्यवज्ञानं तथापीदमधिकमिति भावेनाह– सर्वेष्विति । हरेः शशविषाणवदसिद्धस्यावज्ञा कथङ्कारं सङ्गच्छत इत्यतो वा तदवज्ञानप्रकारमाह– सर्वेष्विति । तत्र हेतुमाह अबुधा इति । हर्यवज्ञानेऽपि श्रीसेवाया विष्णुसेवात्वात् तद्वतां कथमधःपातः स्यादितीयमाङ्का ‘‘ये तु विष्णुमवज्ञाय श्रियमेव ह्युपासते । उपेक्ष्य वा हरिं ते तु भूत्वा याज्याः पतन्त्यधः’’ इत्यनेन परिहर्तव्या । राजप्रीत्यभावे प्रकृतिवर्गप्रीत्या किं प्रयोजनमभीष्टफलानुदयात् । हृदयङ्गमजनप्रीत्यभावे परिवृढदृढप्रीतिरपि नोदेति, तत्साधकाभावात् । एवं प्रकृते विष्णुप्रीत्यभावे लक्ष्यादिप्रीतिरप्यभीष्टफलदा न स्यात् । लक्ष्म्यादिप्रीत्यभावे विष्णुप्रीतिरप्यभीष्टवर्षिणी न स्यात् । अतो यथायोग्यं विष्णुप्रीतेरनुकूला अन्यप्रीतिरिति शास्त्रगुरूपदेशेन तत्तद्विष्णुजनभक्तिः कर्तव्येत्यत इयमेव विधेया नान्या । तस्याश्चोदनाभावेऽपि निम्नजलस्यन्दनवत् स्वतः प्रवृत्तेः ॥ १० ॥
दुर्घटभावदीपिका
मनोरथानां प्रवदन्ति वार्तयेत्यस्य मनोरथानां मनोरथविषयाणां व्यवायादीनां वार्तया वार्तां प्रवदन्ति प्रकर्षेण वदन्तीत्यर्थः । एतेन वार्तां प्रवदन्तीति वक्तव्यं वार्तया प्रवदन्तीति कथनमयोग्यमिति चोद्यं प्रत्युक्तम् । वार्तयेति तृतीया वार्तामिति द्वितीयादेश इत्यभ्युपगमात्
॥ १० ॥
प्रमेयचन्द्रिका
ईश्वरावज्ञानविवरणं क्रियते ॥ सर्वेष्विति ॥ स्वं ज्ञेयमात्मानम् अभि सम्यगिष्टम् उपकारकमिति यावत् । यथा यथावन् न शृण्वते हरिमाहात्म्यम् । श्रुत्या न जानन्तीति यावत् । किंतु मनोरथानामैहिकामुष्मिकविषयाणां वार्तया तत्प्रतिपादकवार्तात्वेन वेदं प्रवदन्तीत्यर्थः
॥ १० ॥
लोके व्यवायामिषमद्यसेवा नित्यास्तु जन्तोर्न हि तत्र चोदना ।
व्यवस्थितिस्तेषु विहाय यज्ञान् सुराग्रहैरासुरवृत्तिरिष्टा ॥ ११ ॥
धनं हि धर्मैकफलं यतोऽस्य ज्ञानं सविज्ञानमनुप्रशान्तिः ।
गृहेषु युञ्जन्ति कलेवरस्य मृत्युं न पश्यन्ति दुरन्तवीर्यम् ॥ १२ ॥
यद् घ्राणभक्षो विहितः सुरायास्तथा पशोरालभनं न हिंसा ।
एवं व्यवायः प्रजया न रत्यै इमं विशुद्धं न विदुः स्वधर्मम् ॥ १३ ॥
तात्पर्यम्
‘व्यवायामिषमद्यानि हरेः पूजार्थमेव तु । वामदेव्यो नाम यज्ञो व्यवायो हरिपूजनम् । पितृयज्ञो देवयज्ञो मांसेन हरिपूजनम् । व्यवाययज्ञे मद्यं तु सोमात्मकतयेष्यते । क्षत्रियादेर्न विप्राणां विप्रो दोषेण लिप्यते । अरागतः प्रवृत्तिः स्याद्रागो दोषस्य कारणम् ॥ घ्राणभक्षोऽथवा यज्ञे दैवे सर्वस्य चेष्यते । पैष्टमद्यस्य माध्व्यादि क्षत्रियस्य न दुष्यति । दैवे रत्यैव च प्रीतिर्विष्णोः पुत्रात्तु मानुषे । तस्मा-द्विहितमात्रेषु रागं मुक्तवा यथाविधि । समाहितो हरिं स्मृत्वा वर्तन् याजी हरेर्भवेदि’ति क्रियाविधाने । यज्ञान्विहाय न चोदना ॥ ‘यज्ञेष्वाल(भ)म्भनं प्रोक्तं देवतोद्देशतः पशोः । हिंसानाम तदन्यत्र तस्मात्तां नाचरेद्वुधः । यतो यज्ञे मृता ऊर्ध्वं यान्ति दैवे च पैतृके । अतो लाभादालभनं स्वर्गस्य न तु मारणमि’ति च ॥ ११–१३ ॥
पदरत्नावली
एवं कुर्वाणा असुरप्रकृतयो न देवप्रकृतयः, तेषां वर्षायुतायुतकालेनापि प्रवृत्त्यदर्शनात्, उक्तनिदर्शनसाम्याच्चेत्याह– लोक इति । लोके जन्तोर् जन्ममृतिमतः प्राणिनो व्यवायादिसेवा नित्याः सदातनाः सन्ति । तुशब्दो द्रव्यसद्भावसूचकः । तत्र मद्यादिसेवायां वामदेव्यादियज्ञान् विहाय चोदना विधिर्नहि तेषामस्ति । तदुक्तम् – ‘‘व्यवायामिषमद्यानि हरेः पूजार्थमेव तु । वामदेव्यो नाम यज्ञो व्यवायो हरिपूजनम् । पितृयज्ञो देवयज्ञो मांसेन हरिपूजनम् । व्यवाययज्ञे मद्यं तु सोमत्मकतयेष्यते । क्षत्रियादेर्न विप्राणां विप्रो दोषेण लिप्यते । अरागतः प्रवृत्तिः स्याद् रागो दोषस्य कारणम् । घ्राणभक्षोऽथवा यज्ञे दैवे सर्वस्य चेष्यते । पैष्टमद्यस्य माध्व्यादि क्षत्रियस्य न दुष्यति । दैवे रत्यैव च प्रीतिर्विष्णोः पुत्रात्तु मानुषे । तस्माद् विहितमात्रेषु रागं मुक्त्वा यथाविधि । समाहितो हरिं स्मृत्वा वर्तन् याजी हरेर्भवेत्’’ इति । विधिर्नास्ति चेत् किमिति तत्रास्थीयत इति तत्राह– व्यवस्थितिरिति । यज्ञान् विहाय तेषु व्यवायादिषु स्थितिः । सुरैव गृहं शरणं येषां ते तथा हरिविमुखाः, तैरिष्टा । ततः किम् । तत्राह– आसुरेति । निषिद्धक्रियात्वादसुरजनस्य वृत्तिर्जीविका । न सुरां पिबेदिति श्रुतेः ॥
एतदेव विवृणोति धनमिति । यतो यस्माद् धर्माद् अस्य सविज्ञानं ज्ञानमुत्पद्यते । अनु ज्ञानोत्पत्तेरनन्तरं प्रशान्तिः प्रकृष्टा मुक्तिर्भवति । यो धर्मश्च धनाद् भवति तादृक् धर्मैकफलं धनं ये कलेवरस्यार्थे गृहेषु कलत्रादिषु युञ्जन्ति प्रयुञ्जते । कामस्यापि पुरुषार्थत्वात् तदर्थमर्थप्रयोगो युक्त इति तत्राह– मृत्युमिति । अनेन कामलक्षणपुरुषार्थस्य क्षणभङ्गुरत्वमुक्तम् । अत ईदृशी प्रवृत्तिरासुरीत्यर्थः । धनं पुष्टिलक्षणमोक्षहेतुरिति एवंविधधनस्यान्यविषयत्वं कुर्वतामासुरी प्रवृत्तिरिति किमु वक्तव्यमितीममर्थं हिशब्देन सूचयति ॥
व्यवायादीनां यज्ञेषु विहितत्वमर्थादुक्तम् । तद्विधानप्रकारमाह– यद् घ्राणेति । अयमर्थः । सुराया घ्राणभक्ष इति यः स विप्रादीनां दैवयज्ञविशेषे विवक्षितः । तथा यत् पशोरालभनं तदेव यज्ञे विहितम्, पशुमालभेतेति । हिंसा न विहिता । न हिंस्यात् सर्वा भूतानीति च । तथा घ्राणभक्षादिकं विहितमेवं व्यवायः पितृयज्ञे प्रजया सन्तत्यर्थं विहितो रत्यै इन्द्रियभोगार्थं न । अत्रापि व्यवायाख्यपितृयज्ञे क्षत्रियस्य घ्राणभक्षमन्तरेण सुरा विहिता । व्यवाययज्ञे मद्यं त्वित्यादि चोक्तं (पूर्वश्लोके) किमत्र मथितम् । अत्राह– इमामिति । धर्मस्वरूपाज्ञानमेव भ्रान्तिकारण-मित्यर्थः । ‘‘यज्ञेष्वालभनं प्रोक्तं देवतोद्देशतः पशोः । हिंसा नाम तदन्यत्र तस्मात्तां नाचरेद् बुधः । यतो यज्ञे मृता ऊर्ध्वं यान्ति दैवे च पैतृके । अतो लाभादालभनं स्वर्गस्य न तु मारणम्’’ इति वचनाद् यज्ञे पशोरालभनं न हिंसेत्युक्तम् ॥ ११–१३ ॥
श्रीनिवासतीर्थीया
लोके व्यवायादिसेवा नित्या नित्यं क्रियन्ते । तथाऽपि यज्ञान्विहाय यज्ञत्वानुसन्धानं विना तत्र व्यवायादौ चोदनाकर्तव्यताविधिर्न किंतु यज्ञ एव ते कार्याः । अतस्तेषु व्यवायादिषु यज्ञं विनाऽन्यदा रागाद्व्यवस्थितिः । सुराग्रहैः सुरापाने आग्रहवद्भिः । सुरागृहैरिति पाठे सुरैव गृहं शरणं रक्षकमिति बुद्धिमद्भिः पापिभिः क्रियमाणा आसुरवृत्तितयेष्टेति श्लोकार्थः । तत्र को यज्ञः कुत्र च यज्ञे व्यवायादिकं कृतं न दोषावहमित्यतस्तद्दर्शयति ॥ व्यवायेत्यादिना । सोमात्मकतया पानकर्तुर्मदकारित्वसाम्यादित्यर्थः । अरागत इन्द्रियप्रीत्यर्थमेव मयेदं क्रियत इति रागं विना मया इति विहितत्वादेव क्रियत इति बुद्ध्या तत्र प्रवृत्तिः कार्या स्यादित्यर्थः ॥ यद्घ्राणभक्षो विहित इत्यस्य तात्पर्यकथनम् ॥ घ्राणेति । देवानुद्दिश्य क्रियमाणः कश्चन यज्ञः सुराहविष्क एवास्ति । तत्र यज्ञावशिष्टसुराया भक्षणं कर्तव्यम् । तत्र सुरासुरपर्यायं मद्यमप्यनेकविधम् । पिष्टकृतं पुष्परसापरपर्यायमधुकृतं चेति । तत्र दैवयज्ञे सर्वस्य विप्रादेः पैष्टमद्यस्य घ्राणभक्ष आघ्राणनं कर्तव्यतया विहितम् । पैष्टमद्येन होमं कृत्वाऽवशिष्टस्याघ्राणमेव कार्यमित्यर्थः । सुराद्रव्यके तस्मिन्दैवे यज्ञे क्षत्रियस्य माध्व्यादि मध्वादिनिर्मितं मद्यं तु हुतशेषं पीतं चेन्न दुष्यति । दोषावहं नेत्यर्थः । माध्व्यादिमद्याघ्राणनमपि विप्रस्य नेति द्रष्टव्यम् ।
तदेवं विशदयति ॥ यथाविधीत्यादि । हरेर्याजीति सम्बन्धः । आलभनशब्दार्थमाह ॥ यत इति । मृताः पशवः ॥ तथा चायमर्थः ॥ ते मूर्खा इमं विशुद्धं धर्मं न विदुः । कोऽसौ विशुद्धधर्म इत्यत आह ॥ यदिति । यस्मात्कारणाद्दैवयज्ञविशेषे विप्रादेः सर्वस्य सुरायाः पैष्टमद्यस्याघ्राणनमेव विहितम् । तथा यस्मादग्निषोमीयं पशुमालभेतेति श्रुतौ पशोर् आ सम्यगूर्ध्वं स्वर्गादिलभनं प्रापणमेव विहितं न हिंसा । तथा चाग्नीषोमीयमृत्विक् स्वर्गं प्रापयीतेत्यर्थः । पश्वादीनां स्वर्गप्रापणं च हर्यनुसन्धानपूर्वकं सम्यघ्घननमेव नान्यथेति ज्ञेयम् । तथा च सिद्धान्तेऽय-मुत्सर्गापवादन्यायो न भवति । यद्यालम्भनशब्देन हिंसोक्ता स्यात्तदैवायं न्यायः स्यान्न चैवम् । किं नामान्यार्थत्वादालम्भनशब्दस्य । अतो भिन्नविषयत्वेनोभयोरपि विशेषविधित्वमेवेति संप्रदायः । एवं यस्माद्व्यवायो देवकर्तृको मानुषकर्तृकश्चेति द्विविधः । तत्र दैवे व्यवाये रत्या केवलं विष्णोः प्रीतिः । तत्र मानुषो व्यवायः प्रजया । तृतीया चतुर्थ्यर्थे सा च तादर्थ्ये प्रजार्थमेव । पुत्रार्थमेव विहितो न रत्यै । रागेण केवलमिन्द्रियप्रीत्यर्थमेव न भवतीत्यत इमं विशुद्धं स्वधर्मं मूर्खा न विद्युरिति हेतोरधः पतन्तीति ॥ ११–१३ ॥
दुर्घटभावदीपिका
व्यवायः प्रजयेत्यस्य प्रजया प्रजालक्षणफलार्थं व्यवायो विहित इत्यर्थः । एतेन प्रजायेति चतुर्थीप्रयोगः कर्तव्यः । प्रजया इति तृतीयाप्रयोगोऽनुपपन्न इति चोद्यं परास्तम् । हेताविति सूत्रेऽध्ययनेन वसतीत्यत्राध्ययनेनेति तृतीयासिद्ध्यर्थं हेतुशब्देन फलस्यापि विवक्षितत्वेन तृतीयाप्रयोग उपपन्न इत्यभ्युपगमात् ॥ १३ ॥
प्रमेयचन्द्रिका
गृहेषु मैथुन्यपरेषु पशून्घ्नन्तीत्यादौ व्यवायादेरकर्तव्यत्वं सूचितम् । तर्हि गृहस्थाश्रमस्वीकारायोग इत्यत उच्यते ॥ अत्र लोके जनैर्व्यवायामिषमद्यदोषो वा । नित्या नियताः । रागादिना स्वत एव सिद्धा इति यावत् । सतीति शेषः । तत्र तु व्यवायादौ चोदनाविधिर्नास्ति यज्ञरूपत्वं विहायेति शेषः । तर्हि केवलव्यवायादिषु कुतो जनाः प्रवर्तन्त इत्यत उक्तम् ॥ व्यवस्थितिरिति ॥ तेषु व्यवायादिषु यज्ञान्विहाय यज्ञरूपतां विहायेति यावत् । व्यवस्थिति-रासुरवृत्तिः। अतः सुरा गृह्यते येभिस्तैः सुराग्रहैर्मद्यपायिभिरिष्टा इच्छिता । असुरस्वभावदुष्टावा तत्र प्रवर्तन्ते न तु सन्तः। तथा केवलव्यवायादेरेव निषिद्धत्वेन यज्ञरूपस्यानिषिद्धत्वाद्युक्तं गार्हस्थ्यमिति भावः ।
अत्र पूर्वार्धे व्यवायादौ चोदना नेत्युच्यते । तदयुक्तमिवाभाति । तावेव संरभावहै । सह रेतो दधावहै । अथास्या उरू विहापयति । तस्यामर्थं निष्टाय मुखेन मुखं सन्धायेत्यादिश्रुतौ । ऋतुस्नातां तु यो नारीं सन्निधौ नोपगच्छति । घोरायां भ्रूणहत्यायां युज्यते नात्र संशयः । ऋतुकालपरित्यागी रौरवं नरकं व्रजेदित्यादिस्मृतौ अग्नीषोमीयं पशुमालभेतेत्यादौ च व्यवायामिषादेरावश्यकत्वोक्तेरित्यत आह ॥ व्यवायामिषमद्यानीत्यादिना ॥ इति क्रियाविधानाख्यग्रन्थे उक्तत्वाद्यज्ञान्विहाये-त्यत्रोत्तरार्धगतं पदद्वयमत्र पूर्वार्धे संयोज्यम् । ततश्च यज्ञान्विहाय यज्ञत्वानुसन्धानं विना केवलमातुरत्वादिना प्रवृत्तव्यवायचोदना नास्ति । यज्ञरूपतत्तद्विषयस्त्वस्ति विधिः । अतो न श्रुत्यादिविरोध इति भावः । पूजार्थमित्यतःपरं स्वीकार्याणीति शेषः । मूलगततुशब्दानुसारेण तत्रापि तुशब्दः विशेषद्योतकः । स च रागपूर्वकत्वतदभावरूपविशेषद्योतकः । तत्र व्यवायस्य हरिपूजात्मकत्वमुपपादयति ॥ वामदेव्य इति ॥ यज्ञत्वप्रकारो बृहद्भाष्ये स्पष्टः । आमिषस्य पूजोपयुक्तत्वं दर्शयति ॥ पितृयज्ञ इति ॥ मांसेन भोज्यरूपेण पित्रंतर्यामिहरिपूजनं पितृयज्ञः । आहुतिरूपेण तेन देवांतर्यामिहरिपूजनं यज्ञ इत्यर्थः । मद्यस्य पूजोपयुक्तत्वं दर्शयति ॥ व्यवायेति ॥ अरागत इत्यनेन क्षत्रियादेरपि रागपूर्वप्रवृत्तौ दोष एवेति सूचयति । विप्राणां च क्वचिन्मद्यं पूजासाधनमित्याशयेन ॥ यद्ध्व्राणभक्ष इति ॥ वक्ष्यमाणग्रन्थाभिप्रायमाह ॥ घ्राणेति ॥ अथवेति पक्षान्तरद्योतकः । पिष्टविकाररूपमद्यस्य दैवे यज्ञे घ्राणभक्षः सर्वस्य विप्रादेरिष्यत इत्यर्थः । व्यवाययज्ञव्यावर्तये दैव इत्युक्तम् । पैष्टपदव्यावर्त्यमाह ॥ माध्व्यादीति ॥ मधुकिण्वादि-विकारमद्यमित्यर्थः । विप्रस्य तु दुष्यतीति ग्राह्यम् । व्यवाययज्ञे कंचिद्विशेषमाह ॥ दैव इति ॥ दैवकर्त्तुर्व्यवाययज्ञे रत्यैव विष्णोः प्रीतिर्न तु तत्रापि जनिपर्यन्तं धावनमित्येवशब्दः । तद्भोगोऽप्यतीव हरितोषणमित्युक्तेः । मानुषव्यवाययज्ञे तु पुत्रजनेरेव हरेः प्रीतिर्न रतिमात्रेणेति तुशब्दार्थः । निगमयति ॥ तस्मादिति ॥ विहितमात्रेषु ऋतुकालीनव्यवायादिषु रागं मुक्त्वा बृहद्भाष्याद्युक्तविधिमनतिक्रम्य समाहितस् तत्कृतविक्षेपरहितः सन् हरिं यज्ञभोक्तृत्वप्रवर्तकत्वपूज्यत्वादिप्रकारेण स्मृत्वा व्यवायमद्यादिषु प्रवर्तमानः पुरुषो याज्ञीयकर्त्ता भवेदित्यर्थः ॥
परमश्रेयःसाधनस्य धनस्यासद्व्ययेनेष्टहानेश्च केवलव्यवायादिषु निष्ठा न कार्येत्याशयेनोच्यते ॥ धनं हीति ॥ यतो धनात् । आत्मयोग्यज्ञानसहितं साधारणज्ञानं तदनन्तरं प्रकर्षेण शान्तिर्भगवन्निष्टा तदनु शान्तिर् मोक्षो भवति । हीति तुष्टोर्थे न गुरुरित्यादिप्रसिद्धिं द्योतयति । तादृशं धनं कलेवरस्य पुष्ट्याद्युपयुक्तगृहेषु युञ्जन्ति । चतुर्विधपुरुषार्थे कामोप्येकोऽतस्तदर्थमर्थनियोजनं युक्तमित्यत उक्तम् ॥ मृत्युमिति ॥ तथा च क्षणभङ्गुरत्वान्न कामो मुख्यपुरुषार्थ इति भावः ॥ व्यवायादेर्यज्ञत्वादिना विहितत्वादन्यदर्थादुक्तम् । तद्विधानप्रकारोऽभिधीयते ॥ यद्घ्राणेति ॥ अत्रालभनं न हिंसेति व्याहतम् । आलभनशब्दस्यापि हिंसार्थत्वादित्यत आह ॥ यज्ञेष्विति ॥ यज्ञेषु देवतोद्देशतः पशोर्विशसनमालभनमिति प्रोक्तम् । तस्माद्यज्ञादन्यत्र विशसनं हिंसानामकम् । तस्मादालम्भ-नत्वाभावात्तां हिंसां बुधो न हिंस्यादिति श्रुतिपरिज्ञानी नाचरेत् । विशसनत्वाविशेषेऽपि याज्ञीयस्य कुत आलभनत्वमित्यत आह ॥ यत इति ॥ दैवे पैतृक इति सम्बन्धः ॥ मूलार्थस्तु सुराया घ्राणभक्ष इति यत्स विप्रादीनां यज्ञविशेषे विहितः । याज्ञीयपशोरालभनमेव पशुमालभेतेत्यादौ विहितम् । केवलं हिंसा न विहिता । न हिंस्यादित्यादिनिषेधात् । एवं व्यवायः प्रजया निमित्ते मानुषाणां विहितः न तु रत्यै । तमिमं विशुद्धं धर्मं विदुरिति ॥ ११–१३ ॥
ये त्वनेवंविदोऽसन्तस्तथा १सदभिमानिनः ।
पशून् द्रुह्यन्ति विस्रब्धान् प्रेत्य खादन्ति ते च तान् ॥ १४ ॥
पदरत्नावली
तत्र के मारकाः, पशूनां मारकाणां किं फलमिति तत्राह येत्विति । असन्तो ऽप्रशस्तकर्माणः । ते पशवः । स्वहतपशुभिः खादनमेव यजनफलम् ॥ १४ ॥
श्रीनिवासतीर्थीया
सदभिमानिनो वयमेव सन्त इति सत्त्वाभिमानिनः । विस्रब्धान् एते मत्पालनं कुर्वन्तीति विश्वस्तान् । ते तज्जातीयाः ॥ १४ ॥
प्रमेयचन्द्रिका
प्रकृते ज्ञानिनां फलमुच्यते ॥ ये त्विति ॥ स्तब्धा अविनीताः ॥१४॥
द्विषन्तः परकायेषु स्वात्मानं हरिमीश्वरम् ।
मृतके सानुबन्धेऽस्मिन् बद्धस्नेहाः पतन्त्यधः ॥ १५ ॥
तात्पर्यम्
स्वात्मानं स्वस्मिन्नाप्तं च । ‘आप्तत्वादात्मशब्दोक्तं स्वस्मिन्नपि परेषु च । जीवादन्यं न पश्यन्ति श्रुत्वैवं विद्विषन्ति च । एतांस्त्वमासुरान्विद्धि लक्षणैः पुरुषाधमानि’ति हरिवंशेषु ॥ १५ ॥
पदरत्नावली
किञ्चाभेदज्ञानात् ततोऽप्यधिकदुःखकरो लोकः स्यादित्याह– द्विषन्त इति । स्वात्मानं स्वाधारम् । स्वस्मिन्नाप्तं च । स्वे महिम्नीति श्रुतेः । परकायेषु स्वकायेषु च सन्तं कायिनो जीवादन्यं द्विषन्तोऽसमहानाः । ‘‘आप्तत्वादात्मशब्दोक्तं स्वस्मिन्नपि परेषु च । जीवादन्यं न पश्यन्ति श्रुत्वैवं विद्विषन्ति च । एतांस्त्वमासुरान् विद्धि लक्षणैः पुरुषाधमान्’’ इति स्मृतिः प्रतीतार्थबाधिका ॥ १५ ॥
श्रीनिवासतीर्थीया
द्विषन्तः परकायेष्वित्यत्र स्वात्मानं हरिमिति हरेः स्वस्वरूपत्वं भाति । परकायेष्विति चासङ्गतं भातीत्यतो व्याचष्टे ॥ स्वात्मानमिति । यच्चाप्नोतीति स्वरूपातिरिक्तानेकार्थेषु सन्ततो भावार्थः । मन्त्रार्थत्रयाध्याहारः । आत्मशब्दस्य बुद्ध्या विवेकेनान्वयश्चेति सूचयति
॥ १५ ॥
दुर्घटभावदीपिका
द्विषन्तः परकायेष्वात्मानमाप्तं व्याप्तम् । स्वात्मानं स्वकाये व्याप्तमीश्वरं सर्वव्यापाराणां कारयितारं हरिं नारायणं द्विषन्तः । यदि विष्णुः सर्वस्य कारयिता स्यात्तर्हीदानीं कार्यविशेषमकुर्वाणं मां कारयतु कार्यविशेषं कुर्वाणं मां निवारयतु । न कारयति न निवारयति चातो विष्णुः सर्वव्यापाराणां कारयिता न भवतीति निराकुर्वन्तः । सानुबन्धे स्त्रीपुत्राद्यनुबन्धसहिते मृतके मृततुल्येऽस्मिन्देहे बद्धस्नेहा अधो नित्यनरके पतन्तीति । एतेन परकायेष्वित्येतदनन्वितमिति दूषणं परास्तम् । स्वात्मानमित्यत्र विद्यमानेनात्मानमित्यनेन विवेकेनान्वय इति स्वीकरणात् ॥ ता. अर्थः ॥ स्वात्मानमित्यनुवादः स्वस्मिन्नाप्तमिति व्याख्यानम् । स्वस्मिन्स्वकाये आप्तं व्याप्तम् । चशब्दात्परकायेष्वाप्तं च । अनेन परकायेष्वित्यस्य स्वात्मानमित्यत्र विद्यमानेनात्मानमित्यनेनान्वयः सूचितः। अत्र प्रमाणमाह ॥ आप्तत्वादिति । आत्मशब्दोक्तं नारायणमेवं श्रुत्वा नारायणः स्वपरदेहेषु स्थित्वा सर्वव्यापारान्कारयितेत्येवं श्रुत्वा विद्विषन्ति । यदि नारायणः सर्वव्यापाराणां कारयितेति निरार्कुर्वन्ति । एतान्पुरुषाधमान् लक्षणैः पूर्वोक्तैर्लक्षणैस्त्वमासुरान्विद्धि । कुतो विद्विषन्तीत्यत्र शङ्कायां तत्र हेतुमाह ॥ जीवादिति । चशब्दो यस्मादित्यर्थः । यस्माज्जीवादन्यं नारायणं न पश्यन्तीति । यदि नारायणः सर्वव्यापाराणां कारयिता तर्ह्यकुर्वाणं मां कारयतु कुर्वाणं निवारयत्विति निराकरणं नारायणस्य प्रद्वेष इत्यर्थः । मामात्मपरदेहेषु प्रद्विषन्तोऽभ्यसूयका इति गीताव्याख्यानावसरे गीताभाष्ये आचार्यैरुदाहृतत्वात् । ईश्वरो यदि सर्वस्य कारकः कारयतु माम् । ओति वादिनं ब्रूयात्सदाऽधो यास्यतीति सामवेदस्थितायाः श्रुतिवचनादवगन्तव्यः । सदाऽधो नित्यनरकम् ॥ १५ ॥
प्रमेयचन्द्रिका
न केवलं पशुकृतखादनादिनिमित्तकदुःखम् । किंतु कृतेन दुष्कर्मणा मिथ्याज्ञानिप्राप्यतमोऽपि भवतीत्युच्यते ॥ द्विषन्त इति ॥ अत्र स्वात्मानं स्वस्वरूपं हरिमित्यन्यथाप्रतीतेर्व्याचष्टे ॥ स्वात्मानमिति ॥ न केवलं परेषां कार्येष्वाप्तं किंतु स्वस्मिन्नाप्तं व्याप्तं स्थितं चेत्यर्थः । एतेन मूले परकार्येष्वित्यत्राप्यात्मानमित्येतद्बुध्द्या विविक्ततया सम्बध्यत इत्युक्तं भवति । अत्र प्रमाणमाह ॥ आप्तत्वादिति ॥ जीवादन्यमित्यनेन मूले स्वस्मा-दन्यस्माज्जीवाद्भिन्नं न जानन्ति इत्यध्याहार्यमिति सूचितं भवति । श्रुत्वैवमित्यनेन द्वा सुपर्णा भिन्नोऽचिन्त्य इत्यादिना भेदं श्रुत्वा ज्ञात्वाऽपि जीवाभेदो निर्गुणत्वमित्याद्युक्तद्वेषं कुर्वन्त इत्यर्थ इत्युक्तं भवति ॥ द्विषन्ति चेति ॥ चशब्देन सानुबन्धे मृतके कुणपसदृशे देहे बद्धस्नेहत्वस्य ग्रहणम् । आसुरानित्यधःपातोपपादनायेति ज्ञेयम् ॥ १५ ॥
ये कैवल्यमसम्प्राप्ता ये चातीताश्च मूढताम् ।
त्रैवर्गिकाभिजन्मानमात्मानं पा२तयन्ति ते ॥ १६ ॥
पदरत्नावली
एतदेव विशदयति ये कैवल्यमिति । ये कैवल्यं यथार्थज्ञानमसम्प्राप्ता ये च मूढतां चातीताः पण्डितंमन्यास् ते त्रिवर्गसाधनयोग्यमभिजन्म यस्य स तथा तादृशमात्मानं पातयन्ति, तमसीति शेषः । यद्वा अभेदज्ञानिनां गतिमुक्त्वेदानी मिश्रज्ञानिनां स्थितिमाह य इति । केवलो हरिरिति ज्ञानरहिताः, अस्मादृशो न भवति भगवान् किन्तु ग्रामणीवत् प्रयोजक इति ज्ञानवन्तो ये ते भुक्तपुण्यफला आत्मानं स्वर्गान्मनुष्यलोकं पातयन्ति । ते तं भुक्त्वा स्वर्गलोकं विशालं क्षीणे पुण्ये मर्त्यलोकं विशन्तीति वा ॥ १६ ॥
श्रीनिवासतीर्थीया
यं कैवल्यं यथार्थज्ञानमसंप्राप्ता ये मूढतामज्ञानित्वं चातीता मध्यस्थाः केवलकर्ममार्गनिरतास्ते त्रैवर्णिकाभिजन्मानं त्रिवर्गसाधनयोग्यमभिजन्म शुद्धकुलप्रसूतिर्यस्य तं तादृशमपि आत्मानं घातयन्तीत्यर्थः ॥ १६ ॥
प्रमेयचन्द्रिका
एतद्विवरणपरे ये कैवल्यमिति श्लोके कैवल्यं केवलः सर्वोत्तमो हरिरिति ज्ञानं सम्यगप्राप्ताः प्रत्युत मूढतां मिथ्याज्ञानितां नीतास्ते धर्मार्थमोक्षरूपत्रिवर्गसाध्यब्राह्मणादि-जन्मोपेतमात्मानमधो नरके तमसि च पातयन्तीत्यर्थः ॥ १६ ॥
ये तत्रात्महनोऽशान्ता अज्ञाने ज्ञानमानिनः ।
सीदन्त्यकृतकृत्या वै कालध्वस्तमनोरथाः ॥ १७ ॥
हित्वाऽत्यायासरचितगृहापत्यसुहृच्छ्रियः ।
तमो विशन्त्यनुच्छ्वासं वासुदेवपराङ्मुखाः ॥ १८ ॥
पदरत्नावली
उभयेऽपि त्रैवर्गिका अधः पतन्तीत्युक्तम् । तत्र केषां कुत्र निपात इत्यतोऽधोनिपातं विविनक्ति ये तत्रेति । तत्रोभयेषु त्रैवर्गिकेषु ये आत्महनः परमात्मानं द्विषन्तस् ते तमो विशन्तीत्यन्वयः । सीदन्ति अवसीदन्ति दुःखैकभाजना भवन्ति । अशान्ता इत्यस्य विवरणं वासुदेवपराङ्मुखा इति । अत्यायासरचितगृहादीन् हित्वा कालात्मना भगवता ध्वस्तो ब्रह्मत्वं गमिष्यामीत्यादिमनोरथो येषां ते तथा । अनुच्छ्वासं श्वासमोक्षलक्षणसुखरहितं तमो विशन्ति
॥ १७–१८ ॥
प्रमेयचन्द्रिका
तदेतद्विविच्योच्यते ॥ ये तत्रेति श्लोकद्वयेन ॥ तत्र तेषु मध्ये ये असदुपासनया आत्महनः परमात्महन्तारः । उक्तमीशावास्यटीकायां विपरीतं भावयता आत्मयाथात्म्यं तिरस्कृतं स्यादिति । तस्माद्गौण्या वृत्या आत्महंतृत्वमिति च । अशान्ता इत्यस्य विवरणम् ॥ वासुदेवपराङ्मुखा इति ॥ अथवा शमःप्रियादिबुध्युज्ख इत्युक्तेस्तद्रहिता इत्यर्थः । मिथ्याज्ञाने सम्यज्ज्ञानत्वाभिमानिनः । अकृतं कृतमवश्यं कर्त्तव्यं हर्याराधनादि यैस्ते तथोक्ताः । कालेन हरिणा ध्वस्तास्तिरस्कृता मनोरथा येषां ते तथोक्ताः ॥ अनुच्छ्वासं श्वासविमोक्षणसुखेनापि हीनम्
॥ १७,१८ ॥
राजोवाच—
कस्मिन् काले स भगवान् किंवर्णः कीदृशो नृभिः ।
नाम्ना वा केन विधिना पूज्यते तदिहोच्यताम् ॥ १९ ॥
पदरत्नावली
मुमुक्षुभिरधोक्षज ईक्षणीय इति निरणायि । तत्र राजा पृच्छति कस्मिन्निति । तत् सर्वम् ॥ १९ ॥
श्रीनिवासतीर्थीया
कीदृशः कीदृग्लक्षणकः, किं वर्ण इत्यादौ वर्णा नामानि लक्षणानि विधिश्च किम् । सर्वयुगेष्वेकप्रकार एवोत नाना तथा पूजका नरा अपि कीदृशाः किमेकप्रकारा उतानेकप्रकारा इत्यपि द्रष्टव्यम् ॥ १९ ॥
प्रमेयचन्द्रिका
अत्र हर्याराधनाभावादधःपात इत्युक्ते तदाराधनविषये राज्ञा प्रश्नः क्रियते । कस्मिन् काले इति ॥ १९ ॥
करभाजन उवाच—
कृतं त्रेता द्वापरं च कलिरित्येषु केशवः ।
नानावर्णाभिधाकारो नानैव विधिनेज्यते ॥ २० ॥
श्रीनिवासतीर्थीया
तत्र द्वितीयपक्षमङ्गीकृत्य करभाजनः परिहरति ॥ कृतमिति । कस्मिन्काल इत्यस्य कृतमित्यर्ध उत्तरम् । द्वितीयपक्षाङ्गीकारं सूचयति ॥ नानेति । नानेत्यव्ययम् । नानाभूतैर्नृभिरिति शेषः । नानाभूतेन विधिना नानाप्रकारेणेज्यत इत्यर्थः ॥ २० ॥
कृते शुक्लश्चतुर्बाहुर्जटिलो वल्कलाम्बरः ।
कृष्णाजिनोपवीताक्षान् बिभ्रद् दण्डकमण्डलू ॥ २१ ॥
मनुष्यास्तु तदा शान्ता निर्वैराः सुहृदः समाः ।
यजन्ति तपसा देवं शमेन च दमेन च ॥ २२ ॥
पदरत्नावली
सामान्यत उक्तं विशिनष्टि कृत इति । कस्मिन् काल इत्यस्योत्तरं कृत इति । किंवर्ण इत्यस्योत्तरं शुक्ल इति । कीदृश इत्यस्योत्तरं चतुर्बाहुरित्यादि । केन नाम्नेत्यस्योत्तरं हंस इत्यादि । केन विधिनेत्यस्योत्तरं तपसेत्यादि । शान्त इत्याद्यधिकारिलक्षणम् । एवमुत्तरत्रापि
॥ २१ ॥
श्रीनिवासतीर्थीया
कृते शुक्ल इति किं वर्ण इत्यस्योत्तरम् । चतुर्बाहुरित्यारभ्य कमण्डल्वित्यन्तं कीदृश इत्यस्य, कीदृशैर्नृभिरित्यस्य मनुष्यास्त्विति श्लोक उत्तरम् । केन विधिनेत्यस्य तपसेत्यादि ॥ २१,२२ ॥
प्रमेयचन्द्रिका
सामान्येनोक्तविवरणपरे कृत इत्यादौ इज्यत इत्यनुवर्तते । शान्ता भगवन्निष्टाः । समाः शीतोष्णादिषु । शत्रुमित्रादिषु च ॥ २२ ॥
हंसः सुपर्णो वैकुण्ठो धर्मो योगेश्वरोऽमलः ।
ईश्वरः पुरुषोऽव्यक्तः परमात्मेति गीयते ॥ २३ ॥
श्रीनिवासतीर्थीया
केन नाम्नेत्यस्य हंस इति । कृते भगवानेवेन्द्रादिनामवान् । इन्द्रादिनामानि तदानीं देवानां नैव । देवतात्वेन हरिरेवेज्यः । देवास्तु हरिभक्तत्वेनैवेज्याः । वेदानां तु मूले वेदा इत्येवाख्येति द्रष्टव्यम् ॥ २३ ॥
त्रेतायां रक्तवर्णोऽसौ चतुर्बाहुस्त्रिमेखलः ।
हिरण्यकेशस्त्रय्यात्मा स्रुक्स्रुवाद्युपलक्षणः ॥ २४ ॥
पदरत्नावली
त्रिमेखलस् त्रिगुणितमेखलः ॥ २४ ॥
श्रीनिवासतीर्थीया
त्रिमेखलस्त्रिगुणितमौंजीयुक्तः । गुणो रज्जू रज्जुत्रयोपादानकमौंजीयुक्त इत्यर्थः । विद्याया ऋगादिरूपेण विभक्तत्वाच्च त्रयीनामकवेदप्रतिपाद्यस्वरूपस्त्रय्यात्मा । यज्ञोपयुक्त-स्रुगादिपदार्थधारित्वरूपतटस्थलक्षणोपेतो यज्ञादिरूपी विष्णुः ॥ २४ ॥
प्रमेयचन्द्रिका
त्रय्यात्मा वेदवेद्यः । वेदस्वामीति वा । स्रुक्स्रुवादिकमुप सम्यग्लक्षणं चिन्हं यस्य स तथा ॥ २४ ॥
तं तदा मनुजा देवं सर्वदेवमयं हरिम् ।
यजन्ति विद्यया त्रय्या धर्मिष्ठा ब्रह्मवादिनः ॥ २५ ॥
विष्णुर्यज्ञः पृश्निगर्भः सर्वदेव उरुक्रमः ।
वृषाकपिर्जयन्तश्च उरुगाय इतीर्यते ॥ २६ ॥
द्वापरे भगवान् श्यामः पीतवासा निजायुधः ।
श्रीवत्सादिभिरङ्कैश्च लक्षणैरुपलक्षितः ॥ २७ ॥
पदरत्नावली
सर्वदेवमयं सर्वदेवप्रधानम् ॥ २५ ॥
श्रीनिवासतीर्थीया
सर्वदेवतान्तर्गतत्वेन देवमयं देवताप्रधानम् । इन्द्राय स्वाहेत्यादि-मन्त्रेणेन्द्राद्यन्तर्गतहरिरधिष्ठानभूता इन्द्रादयश्चेज्या इत्यर्थः ॥ २५–२७ ॥
तं तथा पुरुषं मर्त्या महाराजोपलक्षणम् ।
यजन्ति वेदतन्त्राभ्यां परं जिज्ञासवो नृप ॥ २८ ॥
श्रीनिवासतीर्थीया
तन्त्रं पञ्चरात्रम् । परं जिज्ञासवः परमात्मज्ञानेच्छावन्तः ॥२८॥
प्रमेयचन्द्रिका
महाराजोपलक्षणमित्यस्यापि महाराजचिन्होपेतमित्यर्थः । परं हरिम् ॥२८॥
नमस्ते वासुदेवाय नमः सङ्कर्षणाय च ।
प्रद्युम्नायानिरुद्धाय तुभ्यं भगवते नमः ॥ २९ ॥
नारायणाय ऋषये पुरुषाय महात्मने ।
विश्वेश्वराय रामाय सर्वभूतात्मने नमः ॥ ३० ॥
प्रमेयचन्द्रिका
सर्वभूतात्मने सर्वस्वामिने । सर्वभूतस्वामी अन्तर्नियामकतयेति वा ॥३०॥
इति द्वापर उर्वीश स्तुवन्ति जगदीश्वरम् ।
नानातन्त्रविधानेन कलावपि यथा शृणु ॥ ३१ ॥
पदरत्नावली
कलावपि यथेज्यते तथा शृणु ॥ ३१ ॥
श्रीनिवासतीर्थीया
यथा यादृशं भगवन्तं यथा स्तुवन्ति तथाशृणु ॥ ३१ ॥
कृष्णवर्णं कलौ कृष्णं साङ्गोपाङ्गं सपार्षदम् ।
यज्ञैः संकीर्तनप्रायैर्यजन्ति हि सुमेधसः ॥ ३२ ॥
श्रीनिवासतीर्थीया
सङ्कीर्तनप्रायैर्बहुशो भगवत्सङ्कीर्तनमात्रयुक्तैः ॥ ३२ ॥
प्रमेयचन्द्रिका
तत्र क्रियाकलापः ॥ साङ्गेति ॥ अङ्गावबद्धास्त्विति उक्तरीत्या अङ्गो-पाङ्गदेवैः सहितम् । अत्र परिवारतया पूज्यत्वं विवक्षितमिति न शाखास्वित्यादि विरोधः । सङ्कीर्तनप्रायैस्तु प्रचुरैः । नामोच्चारणप्रचुरैरिति वा ॥ ३२ ॥
ध्येयं सदा परिभवघ्नमभीष्टदोहं
तीर्थास्पदं शिवविरिञ्चिनुतं शरण्यम् ।
भृत्यार्तिहं प्रणतपालभवाब्धिपोतं
वन्दामहे पुरुष ते चरणारविन्दम् ॥ ३३ ॥
श्रीनिवासतीर्थीया
कृष्णमित्युपलक्षणम् । राममपि यजन्तीत्याह ॥ ध्येयमिति । परिभवं पराभवं भक्तानां नाशयतीति वा । परितः समन्ताद्भवं संसारं घ्नन्तीति वा तथोक्तस्तम् । अभीष्टं दोग्धीत्यभीष्टदोहस्तम् । प्रणतपालश्चासौ भवाब्धिपोतश्च ॥ ३३ ॥
प्रमेयचन्द्रिका
परिभवं पराभवम् । परि सम्यग्भवं संसारं वा हन्तीति तम् । तीर्थास्पदं शास्त्रप्रतिपाद्यम् । गङ्गादितीर्थजनकं वा । हे प्रणतपाल । संसारसमुद्रोत्तरणेनावस्थानीयं त्वां प्रणतपालश्चासौ भवाब्धिपोतश्चेत्येकं पदं वा ॥ ३३ ॥
त्यक्त्वा सुदुस्त्यजसुरेप्सितराज्यलक्ष्मीं
१धर्मिष्ठ आर्यवचसा यदगादरण्यम् ।
मायामृगं दयितयेप्सितमन्वधावद्
वन्दामहे पुरुष ते चरणारविन्दम् ॥ ३४ ॥
पदरत्नावली
यच्चरणारविन्दमार्यवचसा पितृवचनेन अरण्यमगाद् यच्च दयितयेप्सितं मायामृगमन्वधावत् तच्चरणारविन्दं वन्दामह इत्यन्वयः ॥ ३४ ॥
श्रीनिवासतीर्थीया
धर्मिष्ठं यच्चरणारविन्दमित्यन्वयः । धर्मिषु सद्धर्मानुष्ठानवत्सु सन्निहिततया तिष्ठतीति धर्मिष्ठमित्यर्थः । धर्मिष्ठ आर्यवचसेति पाठे हे धर्मिष्ठेति सम्बुद्धिरिति द्रष्टव्यम् । दीर्घाभावस्तु छान्दसः । विवक्षितस्तु सन्धिरिति वचनात् ॥ ३४ ॥
प्रमेयचन्द्रिका
राज्यलक्ष्मीमयोध्याधिपत्यरूपां रमाधिपतिसंविधानेन स्वर्गादाधिक्यात्सुरे-प्सितत्वमिति ज्ञेयम् । आर्यवचसा पितृवचेनन । यच्चरणारविन्दमरण्यं प्रत्यगात् । यच्चरणारविन्दं दयितया ईप्सितं मायामृगं प्रत्यवधावत् । यच्चरणारविन्दं दयितयेप्सितं यच्च मायामृगमन्वधावदिति वा ॥ हे महापुरुष ते चरणारविन्दमिति योजना । यो भगवानरण्यमगादन्वधावच्च तस्य ते चरणारविन्दमिति वा ॥ ३४ ॥
एवं युगानुरूपोऽसौ भगवान् युगवर्तिभिः ।
मनुजैरिज्यते राजन् श्रेयसामीश्वरो हरिः ॥ ३५ ॥
तात्पर्यम्
‘ध्रुवं तयैव मुच्येत यां मूर्तिं प्रदिशेद्गुरुः । शिष्याणां योग्यताऽभिज्ञो विघ्नहानिस्तु तद्युगे । अवतीर्णहरेर्मूर्त्या तत्पूर्वयुगजेन च । नृसिंहमूर्त्या च तथा यां चान्यां प्रदिशेद्गुरुरि’ति स्वाभाव्ये ॥ ३५ ॥
पदरत्नावली
उपसंहरति एवमिति । सामान्यविधानमिदम् । विशेषविधिस्तु स्वगुरूपदेशगम्य इति शास्त्रहृदयं रहस्यत्वान्नोक्तं शास्त्रान्तरसिद्धत्वाच्चेत्यदोषः । तदुक्तम् – ‘‘ध्रुवं तयैव मुच्येत यां मूर्तिं प्रदिशेद् गुरुः । शिष्याणां योग्यताभिज्ञो विघ्नहानिस्तु तद्युगे । अवतीर्णहरेर्मूर्त्या तत्पूर्वयुगजेन च । नृसिंहमूर्त्या च तथा यां चान्यां प्रदिशेद् गुरुः’’ इति । यस्मिन् युगे स्वयमुत्पन्नस् तत्पूर्व-युगावतीर्णहरिणा गुरूपदिष्टेनाभीष्टसिद्धिर्भवति ॥ ३५ ॥
प्रमेयचन्द्रिका
अत्र सामान्यत एव कृते शुक्ल इत्याद्युक्तिः । वस्तुतस्तु योग्यताभिज्ञ-गुरुनिरूपितविशेषरूपोपासनं कार्यमित्याह ॥ ध्रुवमित्यादिना ॥ तर्हि कृते शुक्ल इत्यादिना तत्तद्युगेषु विशिष्योक्तेः का गतिरित्यत आह ॥ विघ्नहानिरिति ॥ यत्र युगे स्वयमुपासकोऽस्ति तद्युग इत्यर्थः ॥ नृसिंहेति । नात्र तद्युगेऽवतीर्णत्वापेक्षेति भावः ॥ ३५ ॥
कलिं सम्भाजयन्त्यार्या गुणज्ञाः सारभागिनः ।
तत्र सङ्कीर्तनादेव सर्वः स्वार्थोऽभिलभ्यते ॥ ३६ ॥
पदरत्नावली
कृतादेः कलेः पुण्यहेतुत्वात् तं स्तौति कलिमित्यादिना । सारभागिनः सारग्राहिणः ॥ ३६ ॥
श्रीनिवासतीर्थीया
तत्र कलियुगे ॥ ३६ ॥
प्रमेयचन्द्रिका
प्रकृतयुगचतुष्टयमध्ये कलियुगस्यातीवपुण्यहेतुत्वं प्रसङ्गादुच्यते ॥ कलिमिति
॥ ३६ ॥
न ह्यतःपरमो लाभो देहिनां भ्राम्यतामिह ।
यतो विन्देत परमां शान्तिं नश्येत संसृतिः ॥ ३७ ॥
श्रीनिवासतीर्थीया
अतस्तत्तद्युगानुसारिभगवद्भजनात् । यतो युगानुसारिभगवद्भजनात्
॥ ३७ ॥
प्रमेयचन्द्रिका
अतो हरिकीर्तनात् । देवर्ष्यादिहरिपूजाकराश्च भविष्यन्तीति योज्यम् ॥३७॥
कृतादिषु प्रजा राजन् कलाविच्छन्ति सम्भवम् ।
यत्र संकीर्तनान्नॄणां हरिर्दास्यत्यसम्भवम् ॥ ३८ ॥
कलौ तथा भविष्यन्ति नारायणपरायणाः ।
क्वचित् क्वचिन्महाराज द्रुमिलेषु च भूयशः ॥ ३९ ॥
पदरत्नावली
तथा कलौ भविष्यन्ति जायन्ते । क्वचित् क्वचिद् देशे । तथा सम्भूता नारायणपरायणाः स्युः ॥ ३९ ॥
श्रीनिवासतीर्थीया
कलौ पापिष्ठानामेव जातत्वात्तत्र सम्भवं कथमिच्छन्तीत्यत आह ॥ क्वचिदित्यादिना ॥ ३९ ॥
ताम्रपर्णी नदी यत्र कृतमाला पयस्विनी ।
कावेरी च महापुण्या प्रतीची च महानदी ॥ ४० ॥
ये पिबन्ति जलं तासां मनुजा मनुजेश्वर ।
प्रायो भक्ता भगवति वासुदेवेऽमलाशयाः ॥ ४१ ॥
पदरत्नावली
यत्र द्रुमिलेषु ताम्रपर्ण्यादिनद्यः सन्ति । प्रतीची महानदी नाम्ना वेत्रवती वराहक्षेत्रात् सह्यागिरिं भित्त्वा पश्चिमसमुद्रं स्यन्दमाना ॥ देवर्षिपितृभूताप्तनृणां पूजकाः स्युः
॥ ४०,४१ ॥
श्रीनिवासतीर्थीया
पयस्विनी वेत्रवती । प्रतीची पश्चिमसमुद्रं प्रति स्यन्दमाना ॥४०,४१॥
देवर्षिभूताप्तनृणां पितॄणां न किङ्करो नायमृणी च राजन् ।
सर्वात्मना यः शरणं शरण्यं गतो मुकुन्दं परिचर्यया च ॥ ४२ ॥
स्वपादमूलं भजतः प्रियस्य त्यक्तान्यभावस्य हरिः परेशः ।
विकर्म यच्चोत्पतितं कथञ्चिद् धुनोति सर्वं हृदि सन्निविष्टः ॥ ४३ ॥
तात्पर्यम्
‘सर्वात्मना हरेर्भक्ता देवेशा एव केवलम् । देवास्तु सर्वथाभक्ता भक्ता एवेतरे स्मृताः । हरिभक्त्याऽधिकेष्वेव किङ्करश्चाप्यृणी तथा । हरिभक्तो नेतरेषां वासुदेवव्यपाश्रयात् । द्विधैव स्वोत्तमर्णानि दातव्यानीतराणि च । दातव्येभ्यो विमुच्येत नेतरेभ्यः कथञ्चन । कथं देवानुपकृतो भक्तो (मनो) मोक्षेऽपि वर्तयेत् । बिम्बत्वा-त्तदधीनं हि स्वरूपं सर्वशो यत’ इति जीवनिर्णये ॥ ‘उदकैश्च नमस्कारैः स्तुतिभिर्मनसा तथा । यतिभिश्चापि सम्पूज्या देवा मोक्षमियासुभिः । मध्ये विष्णुमनुस्मृत्य नान्यथा तु कथञ्चने’ति समयाचारे ॥ ‘प्राधान्येन हरिर्ध्येयस्तत्सम्बन्धात्सुरादयः । ध्येया नान्यत्क्वचिध्द्यायेद्धरावनुपयोगि यदि’ति हरिसंहितायाम् ॥ ४२,४३ ॥
पदरत्नावली
सामान्यमुक्त्वा विशेषमाह– देवर्षीति । योऽसाधारणपरिचर्यया सर्वात्मना शरण्यं मुकुन्दं शरणं गतो भवति सोऽयं देवादीनां किङ्कर ऋणी च न भवति, स्वोत्तमान् विनोति शेषः । तेषां तु किङ्कर ऋणी च । अत्रेदं तात्पर्यम् । सर्वात्मना हरिभक्ताः, सर्वथा हरिभक्ताः, भक्ता इति त्रिविधाः । तत्र देवेशाः सर्वात्मना भक्ताः, देवाः सर्वथा भक्तास् तदितरे भक्ता इति । अत्रापि ये ये भक्त्यधिकास्ते ते अपरेषां स्वामिन उत्तमर्णाश्च स्वावरेषां किङ्करा ऋणिनश्च न स्युः । ‘‘सर्वात्मना हरेर्भक्ता देवेशा एव केवलम् । देवास्तु सर्वथा भक्ता भक्ता एवेतरे स्मृताः । हरिभक्त्यधिकेष्वेव किङ्करश्चाप्यृणी तथा । हरिभक्तो नेतरेषां वासुदेवव्यपाश्रयात् । द्विधैव स्वोत्तमर्णानि दातव्यानीतराणि च । दातव्येभ्यो विमुच्येत नेतरेभ्यः कथञ्चन । कथं देवाद्यनुपकृतो मनो मोक्षेऽपि वर्तयेत् । बिम्बत्वात् तदधीनं हि स्वरूपं सर्वशो यतः’’ इत्यादिस्मृतिश्चशब्दगृहीता ॥
एवंविधस्यापि हरिभक्तस्य पूर्वादृष्टोपनतविकर्मणा अधःपातः स्यादिति तत्राह– स्वपादमूलमिति । त्यक्तो ऽन्यः स्वतन्त्रोऽहमिति भावो येन स तथा तस्य । सर्वदा भगवदधीनोऽस्मीति भावयुक्तस्येत्यर्थः । कथञ्चिद् बलवददृष्टवशाद् यदुत्पतितं विकर्म तद् धुनोति । इतरभक्तैर्दैवा उदकादिभिरपि श्रीहरिस्मरणपूर्वकं पूज्याः, अन्यथा मोक्षो न स्यात् । तदुक्तम् – ‘‘उदकैश्च नमस्कारैः स्मृतिभिर्मनसा तथा । यतिभिश्चापि सम्पूज्या देवा मोक्षं यियासुभिः । मध्ये विष्णुमनुस्मृत्य नान्यथा तु कथञ्चन’’ इति । तत्रापि प्राधान्येन श्रीहरिध्यानं कर्तव्यं तत्सन्निधानसम्बन्धविशेषाद् देवतास्मरणम् । ‘‘प्राधान्येन हरिर्ध्येयस् तत्सम्बन्धात् सुरादयः । ध्येया नान्यत् क्वचिद् ध्यायेद् हरेरनुपयोगि यत्’’ इति विशेषवचनात् ॥ ४२,४३ ॥
श्रीनिवासतीर्थीया
पुनस्तेषां विशेषमाह ॥ देवर्षीति । अन्यथाप्रतीतिपरिहाराय प्रमाणेन श्लोकं व्याचष्टे ॥ सर्वात्मनेत्यादिना ॥ देवेशास्तत्त्वाभिमानिष्वप्युत्तमाः स्मृताः । भक्तास्त्रिविधाः स्मृता इत्यर्थः । हरिभक्तस्य स्वोत्तमोपदेशेन ज्ञानादिकं प्राप्तमस्तीति तैरुपकारस्य कृतत्वात्तेषां स्वोत्तमानां किंकरो ऋणी चायम् । अतो देवानुद्दिश्य यज्ञादिकरणे तदृणादुत्तीर्णो भवतीत्यर्थः । अत्र नीचः स्वोत्तमानां किंकरो ऋणी च । स्वाधमानां किंकरो ऋणी च नेति सामान्यमात्रं विवक्षितं ज्ञेयम् । यदि स्वयं स्वरूपेणोत्तमः कदाचित्स्वाधमसज्जनैरन्नाद्युपकारे कृते सति तदाऽयमुत्तम इतरेषां स्वाधमानां किंकरो ऋणी च न भवति । तदृणं न देयमिति यावत् । कुत इत्यत उक्तम् ॥ वासुदेवेति ॥ स किं दास्यति तत्र स्थित्वा विष्णुरेवोपकर्तेति यतोऽतः स्वाधमानामृणादाने न दोष इत्यर्थः । नैवमुत्तमानां विषय इति ध्येयम् । ऋणादाने विशेषमाह ॥ द्विधैवेति ॥ ऋणशब्देन द्रव्यमुच्यते । धनिकेन दीयमानं दातृसम्बन्धिद्रव्यमुत्तमर्णशब्दवाच्यम् । तद्द्रव्यं प्रतिगृहितृसम्बन्धि यदा जातं तदाऽधमर्णमित्युच्यते । एवं च प्रकृते स्वोत्तमर्णानि स्वस्य यान्युत्तमर्णानि दातृ-सम्बन्धिर्णानि स्वेन ऋणदातुर्दीयमानानि ऋणानि दातव्यानीतराण्यदातव्यानीति चेति द्विधैव । तत्र भक्तस्य स्वोत्तमा देवाद्या ऋणादिदातारः । अनुग्रहेण हरिभक्त्यादिजनकत्वात् । तदेतद्दातृसम्बन्धि ऋणमुत्तमर्णं किञ्चिदधमोपकारेणापि हरिभक्त्या जातत्वात्तत्सम्बन्ध्यपि ऋणमुत्तमर्णं तत्र दातव्येभ्यो देवादिषु दातव्येभ्य उत्तमर्णेभ्यस्तान्युत्तमर्णानि यज्ञादिकरणेन । देवादिषु दत्वेति यावत् । विमुच्येत मोक्षं प्राप्नुयात् । इतरेभ्यः स्वाधमेषु दातव्येभ्य उत्तमर्णेभ्यः । तान्यदत्वेति यावत् । विमुच्यत इति । तान्यदेयानीति भावः ।
ननु द्वैविध्यं कुतः । देवादिष्वप्युत्तमर्णमदातव्यमेव किं न स्यादित्यत आह ॥ कथमिति ॥ मन इति पाठे देवानुपकृतः पुमान्मोक्षे मोक्षमार्गे मनः कथं वर्तयेत्प्रवर्तयेत् । यद्वा मनो देवानुपकृत इति द्वितीयाबहुवचनम् । देवानुपकृतान्मोक्षमार्गे कथं प्रवर्तयेत् प्रवेशयेत् । आध्यात्ममिन्द्रियेषु स्थित्वा प्रेरणादिरूपोपकाराभावे मोक्षमार्गे प्रवृत्तिरेव न स्यादस्ति चेयं ततो महतो देवाद्युपकारस्य सत्वात्तदृण-मवश्यं दातव्यमेवेत्यर्थः । तदेवोपपादयति ॥ बिम्बत्वादिति । देवादीनामिति शेषः । एतेषां च प्रतिबिम्बत्वादित्यपि शेषः । प्रतिबिम्बत्वमेवोपपादयति । यतः सर्वस्य भक्तस्य स्वरूपं तदधीनं देवाद्यधीनमिति । तत्सदृशं चेति ग्राह्यम् । इदमेव च प्रतिबिम्बत्वम् । यत्तदधीनत्वे सति तत्सदृशत्वमिति भावः ॥
ननु गृहस्थानां यज्ञादिकरणेन देवादिऋणदानं शक्यते । यतीनामपि देवाद्युपकृतत्वेन तदृणित्वात्तेषां च यज्ञाद्यभावादृणदानं देवादीन्प्रति तेषां कथमित्याशङ्कायामाह ॥ उदकैरिति । दण्डोदकैः । ननु मोक्षमियासुभिर्यदि देवाः पूज्यास्तर्हि तेषां स्वातन्त्र्येण पूज्यताप्राप्त्याऽनर्थ एवेति चेत्तत्राह ॥ मध्ये इति ॥ सर्वदेवताः परिवारत्वेन ध्यात्वा तन्मध्ये विष्णुस्मृतिः कार्येत्यर्थः । यथोक्तम् । परमः पुरुषो मध्य इति । तथा च न दोष इति भावः । तथा च मूले सर्वात्मनेत्यादिना भक्तविशेषोक्तिरुपलक्षणार्था । नीचः स्वाधमस्य किङ्करो ऋणी च न भवति । स्वोत्तमानां तु किङ्करो ऋणी च भवत्येव । तद्दत्वैव विमुच्येतेत्याशयः ॥ ननु कथं मुक्तिस्तस्य युज्यते । विकर्मणः प्रतिबन्धकस्य सत्वादित्याशङ्कानिरासाय प्रवृत्ते स्वपादमूलमिति श्लोके त्यक्तान्यभावस्येत्यस्य तात्पर्यं वदन्मध्ये विष्णुमनुस्मृत्येत्युक्तमपि विशदयति ॥ प्राधान्येनेति ॥ तत्सम्बन्धाद्धरिसम्बन्धत्वेन । तत्परिवारत्वेनेति यावत् । हरौ विद्यमानस्य सर्वोत्तमत्त्वादेर्यदनुपयोगि ब्रह्मादिस्वातन्त्र्यं तन्न ध्यायेदित्यर्थः । तथा चानेन त्यक्तोऽन्यत्र ब्रह्मादिषु भावो भक्तिः स्वातन्त्र्येण येनासौ त्यक्तान्यभावस्तस्येत्यर्थ उक्तो भवति ॥ ४२,४३ ॥
प्रमेयचन्द्रिका
देवर्ष्यादिपूजा आवश्यकीत्युच्यते ॥ सर्वात्मनेति ॥ यो हरेः परिचर्यया सर्वात्मना मुकुन्दं शरणं गतः । स देवर्ष्यादीनां किङ्करो भवति । नापि ऋणीत्यर्थः । ननु देवर्ष्यादि-किङ्करत्वस्य तदीयस्य ज्ञानादिनिमित्तस्य ऋणस्य च मुक्तावप्यनपायात्कथं न किङ्करो नापि वा ऋणीत्युच्यत इत्यत आह ॥ सर्वात्मनेति ॥ देवेशा ब्रह्मादयोग्न्यन्ताः । तदन्ये सुरा देवा इत्युच्यन्ते । इतरे ऋषिगन्धर्वादयः । अस्त्वेवं भक्तत्रैविध्यं ततश्च प्रकृते किमायातमित्यत आह ॥ हरिभक्तीति ॥ स्वयं हरिभक्तोऽपि हरिभक्त्या अधिकेषु देवेशादिषु किङ्करश्च ऋण्यपि । इतरेषां स्वापेक्षया हरिभक्तया न्यूनानां न किङ्करो नापि ऋणी । तत्र निमित्तम् ॥ वासुदेवेति ॥ भक्त्याधिक्येन वासुदेवैकशरणस्य स्वाधमकिङ्करत्वादिकमयुक्तमिति भावः । मुक्तावप्युत्तम-ऋणमस्तीत्युक्तम् । तत्र विशेषमाह ॥ द्विधैवेति ॥ दातव्यानि परिहार्याणि । न परिहार्य-ऋणसद्भावः । कुत इत्यत आह ॥ कथमिति ॥ मोक्षे मनआद्यभावे भोगानुपपत्या स्वरूपमनआदेः सद्भावोऽप्युपगमनीयः । तथा च तन्नियामकदेवताऋणस्य मोक्षेपि सत्वमङ्गीकार्यमिति भावः । स्वरूपसत्तायास्तदधीनत्वाच्च ऋणपरिहार इत्याह ॥ बिम्बत्वादिति ॥ उक्तश्च बिम्बप्रतिबिम्बभावः पैङ्गिश्रुतौ । तदधीनमित्यनेन किंकरत्वस्याप्यनिवृत्तिः सूचिता । तथा च सर्वात्मना शरणं गता देवेशा एवेति भावः । तेषां देवादिकिंकरत्वादिकमिति । मूले देवेशानामेवोक्तेर्न दोषः । वस्तुतस्तु स्वस्वोद्भवऋणसद्भावाद्देवर्ष्यादिपूजार्थेति भावः । देवर्ष्यादयः सर्वथा पूज्या इत्युक्तं तर्हि यतिभिः कथं तत्पूजा कर्त्तुं शक्या । हविर्दानाद्ययोगादित्यतः प्रमाणान्तरमाह ॥ उदकैरिति ॥ देवा इत्युपलक्षणम् । ऋषिपुत्रादयोऽपि ग्राह्याः । अन्यथा तत्तदन्तर्यामितया विष्णुस्मरणमपहायेत्यर्थः । ननु देवर्ष्यादिपूजने मध्ये कथंचित्कर्मप्राप्तौ दोषः स्यादित्याशङ्कावारके स्वपादमूलमित्युत्तरश्लोके त्यक्तान्यभावस्येति हर्यन्यध्यानादिकं न कार्यमित्युच्यते तत्कथं देवर्ष्यादीनामपि पूज्यत्वमित्यत आह ॥ प्राधान्येनेति ॥ ४२,४३ ॥
नारद उवाच—
धर्मान् भागवतानित्थं श्रुत्वा स मिथिलेश्वरः ।
जायन्तेयान् मुनीन् प्रीतः सोपाध्यायो ह्यपूजयत् ॥ ४४ ॥
ते चान्तर्दधिरे सिद्धाः सर्वलोकस्य पश्यतः ।
राजा धर्मानुपातिष्ठन्नवाप परमां गतिम् ॥ ४५ ॥
त्वमप्येतान् महाभाग धर्मान् भागवतान् श्रुतान् ।
आस्थितः श्रद्धया युक्तो निःसङ्गो यास्यसे परम् ॥ ४६ ॥
युवयोः खलु दम्पत्योर्यशसा पूरितं जगत् ।
पुत्रतामगमद् यद् वां भगवानीश्वरो हरिः ॥ ४७ ॥
पदरत्नावली
नारदः सिद्धेभ्यो भगवत्तत्वं विज्ञाय ततो राजा किमकरोदिति वसुदेवस्य हार्दं प्रश्नं परिहरति धर्मानिति ॥ ४४ ॥
श्रीनिवासतीर्थीया
जायन्तेयान् जयन्ती जानकी सत्या रुक्मिणीत्यादिका रमेत्युक्तेर् लक्ष्म्यावतारभूता जयन्ती ऋषभस्य पत्नी तत्पुत्रा जायन्तेयास्तान् ॥ ४४–४७ ॥
दर्शनालिङ्गनालापैः सशय्यासनभोजनैः ।
आत्मा वां पावितः कृष्णे पुत्रस्नेहं प्रकुर्वतोः ॥ ४८ ॥
पदरत्नावली
आत्मा देहः ॥ ४८ ॥
श्रीनिवासतीर्थीया
आत्मा देहः पावितः पवित्रीकृतः । पुत्रस्नेहं पुत्रत्वेन तत्प्रयुक्तं स्नेहम्
॥ ४८ ॥
वैरेण यं नृपतयः शिशुपालपौण्ड्र
साल्वादयो गतिविलासविलोकनाद्यैः ।
ध्यायन्त आकृतधियः शयनासनादौ
तत्साम्यमापुरनुरक्तधियः पुनः किम् ॥ ४९ ॥
तात्पर्यम्
‘पौण्ड्रकादिषु दैत्येषु सुरांशाः सन्ति सर्वशः । बहुमानफलं विष्णोस्ते यान्त्यादाय सद्गतिम् । विद्वेषस्य फलं यत्तु तदादायासुरास्तमः । यान्त्यतो नैव विद्वेषो विष्णोः कार्यः कथञ्चने’त्यंशविवेके ॥ ४९ ॥
पदरत्नावली
मुक्तेरन्तरङ्गसाधनं भक्तिरेवेति दर्शयितुं वैरप्रधानासुरावेशाद् वैरमिश्रभक्तानामपि भक्त्या स्वस्वयोग्यं फलं भवति किमुत नित्यानुरक्तबुद्धीनामिति कैमुत्यन्यायमाह– वैरेणेति । शिशुपालादिषु स्थिता असन्तस्तन्नामानस् तत्साम्यं द्वेषयोग्यफलं नरकादिलक्षणमापुः । तत्रस्थाः सन्तश्च तस्य हरेः साम्यं निर्दोषत्वादिलक्षणं फलमापुः । अनुरक्तधियः केवलभक्ताः किं पुनः भक्तियोग्यफलमापुरिति किं वक्तव्यम् । अतो भक्तिरेव मुख्येत्यर्थः । ‘‘पौण्ड्रकादिषु दैत्येषु सुरांशाः सन्ति सर्वशः । बहुमानफलं विष्णोस्ते यान्त्यादाय सद्गतिम् । विद्वेषस्य फलं यत्तु तदादाय-सुरास्तमः । यान्त्यतो नैव विद्वेषो विष्णोः कार्यः कथञ्चन’’ इति वचनात् प्रामाणिकोऽयमर्थः । आकृतधियः स्वबुद्धौ तदाकारवन्तः ॥ ४९ ॥
श्रीनिवासतीर्थीया
वैरयुक्तभक्त्याऽपि तं ध्यायन्तस्तमापुः । किल(?)शब्दाद्भक्त्या तमापुरिति किं वक्तव्यम् । यूयं च शुद्धभक्ता अतो भवतां तत्साम्यापत्तिरूपा मुक्तिः सिद्धैवास्तीत्याह ॥ वैरेणेति । कृष्णः कथं गतिं करोति विलासविलोकनं च कथं करोतीत्येवमाकृतधियस्तदाकारेणैव परिणतधीमन्तः । तद्विषयकबुद्ध्यैवेति यावत् । ध्यायन्त आपुरित्यर्थः । एतद्व्याचष्टे ॥ पौण्ड्रकादि-ष्विति । बहुमानफलं भक्तिजन्यं पुण्यरूपं फलम् । विद्वेषस्य फलं तज्जन्यपापरूपं फलम् ॥४९॥
॥ इति श्री श्रीनिवासतीर्थविरचितायां श्रीभागवतटिप्पण्याम्
एकादशस्कन्धे पञ्चमोऽध्यायः ॥
दुर्घटभावदीपिका
वैरेणाकृतधियो विकृतधियः शिशुपालपौण्ड्रसाल्वादयो नृपतयो गतिविलासविलोकनाद्यैः सह यं कृष्णं ध्यायन्तस्तत्साम्यं तस्य कृष्णस्य साम्यमीयुः । शयनासनादौ पुनः पुनरनुरक्तधियो ध्यायन्तस्तत्साम्यं यान्तीति किमु वक्तव्यमिति । एतेन गतिविलासविलोक-नाद्यैरित्येतदनन्वितमिति दूषणं निरस्तम् । सहेत्यध्याहृतेनान्वय इत्यभ्युपगमात् । एतेनैव पुनरित्येतद्व्यर्थमिति चोद्यम् पराकृतम् । पुनरित्यस्यावृत्तिमभ्युपेत्य शयनासनादौ पुनः पुनरनुरक्तधिय इत्यर्थस्योक्तत्वात् ॥ ४९ ॥
प्रमेयचन्द्रिका
नन्वाभ्यां कृष्णे पुत्रस्नेह एव कृतो अतः कथमुद्धार इत्यतो ॥ वैरेणेति ॥ अत्र द्वेषस्य मोक्षसाधनत्वाभावादाह ॥ पौण्ड्रकादिष्विति ॥ तथा च वैरेणेत्यस्य वैरोप-सर्जनबहुमानेनेत्यर्थः ॥ ४९ ॥
माऽपत्यबुद्धिमकृथाः कृष्णे सर्वात्मनीश्वरे ।
मायामनुष्यभावेन गूढैश्वर्ये परेऽव्यये ॥ ५० ॥
पदरत्नावली
उक्तार्थमुपसंहरन् कृष्णेऽपत्यबुद्धिं विहाय सर्वेश्वरबुद्धिरेव कर्तव्येत्याह– माऽपत्यबुद्धिमिति ॥ ५० ॥
दुर्घटभावदीपिका
मायामनुष्यभावेनेत्यस्येच्छामानुषभावप्रदर्शनेनेत्यर्थः । एतेन भगवत इच्छाया अपि मानुषभावाभावान्मायामनुष्यभावेनेत्ययुक्तमिति दूषणं परिहृतम् ॥ ५० ॥
प्रमेयचन्द्रिका
॥ मायामानुषभावेनेति ॥ मायया स्वेच्छया । मानुषस्य भाव इव भावो यस्य तेनेत्यर्थः ॥ ५० ॥
भूभारासुरराजन्यहन्तवे गुप्तये सताम् ।
अवतीर्णोऽस्य निर्वृत्त्यै यशो लोके वितन्वति ॥ ५१ ॥
पदरत्नावली
हन्तवे हन्तुम्, हन्तवा उ इति श्रुतिः ॥ ५१ ॥
दुर्घटभावदीपिका
कृष्णो भूभारासुरराजन्यहंतवे भूभारासुरराजन्यहननाय सतां गुप्तये निर्वृत्यै चावतीर्णः । अस्यावतीर्णस्य कृष्णस्य यशो ज्ञानिनो लोके वितन्वति वितन्वन्ति । अनुस्वारलोपश् छान्दस इति । एतेन सतामित्यस्य गुप्तय इत्यनेनैव निर्वृत्यै इत्यनेनान्वयसम्भवादस्येत्येतद्व्यर्थमिति दूषणं परास्तम् । ज्ञानिन इत्यस्य शेषेणास्य कृष्णस्य यशो ज्ञानिनो लोके वितन्वन्तीत्यर्थस्योक्तत्वात्
॥ ५१ ॥
॥ इति श्रीसत्याभिनवतीर्थविरचितायां श्रीभागवतटिप्पण्यां पञ्चमोऽध्यायः ॥ ११–५ ॥
प्रमेयचन्द्रिका
हन्तवे हन्तुमस्य विश्वस्य निर्वृत्यै सुखायावतीर्णः सन्यशो विस्तारयति
॥ ५१ ॥
श्रीशुक उवाच—
एतच्छ्रुत्वा महाभागो वसुदेवोऽतिविस्मितः ।
देवकी च महाभागा जहतुर्मोहमात्मनः ॥ ५२ ॥
इतिहासमिमं पुण्यं धारयेद् यः समाहितः ।
स विधूयेह शमलं ब्रह्मभूयाय कल्पते ॥ ५३ ॥
॥ इति श्रीमद्भागवते एकादशस्कन्धे पञ्चमोऽध्यायः ॥
पदरत्नावली
ब्रह्मभूयाय स्वयोग्यपूर्णानन्दत्वाय ॥ ५२–५३ ॥
॥ इति श्रीविजयध्वजतीर्थयतिविरचितायां भागवतटीकायां
पदरत्नावल्याम् एकादशस्कन्धस्य पञ्चमोऽध्यायः ॥
प्रमेयचन्द्रिका
मोहं केवलस्वपुत्रत्वभ्रमम् । ब्रह्मभावो ब्रह्मभूयम् । ब्रह्मप्राप्तय इति यावत्
॥ ५३ ॥
॥ इति श्रीमद्विठलार्यतनूजेनानन्दतीर्थाख्येन विरचितायां श्रीमद्भागवत
एकादशस्कन्धतात्पर्यप्रमेयचन्द्रिकायां पञ्चमोऽध्यायः ॥