यानि यानीह कर्माणि यैर्यैः स्वच्छन्दजन्मभिः
॥ अथ चतुर्थोऽध्यायः ॥
राजोवाच—
यानि यानीह कर्माणि यैर्यैः स्वच्छन्दजन्मभिः ।
चक्रे करोति कर्ता वा हरिस्तानि ब्रुवन्तु नः ॥ १ ॥
पदरत्नावली
स्वच्छन्दजन्मभिः स्वेच्छावतारैः । कर्ता करिष्यति ॥ १ ॥
श्रीनिवासतीर्थीया
यानि यानि कानि कानीत्यर्थः । यैर्यैः कैः कैः ॥ १ ॥
प्रमेयचन्द्रिका
स्वच्छन्दजन्मभिः । कर्ता करिष्यति ॥ १ ॥
द्रुमिल उवाच—
यो वा अनन्तस्य गुणाननन्ताननुक्रमिष्येत् स तु बालबुद्धिः ।
रजांसि भूमेर्गणयेत् कथञ्चित् कालेन नैवाखिलसत्वधाम्नः ॥ २ ॥
पदरत्नावली
द्रुमिलो भगवद्गुणानामनन्तत्वात् प्रश्नो दुष्परिहर इति भावेनाह– यो वा इति ॥ २ ॥
श्रीनिवासतीर्थीया
अनुक्रमिष्येद्वक्ष्यामीत्युपक्रमं करिष्येत् ॥ २ ॥
दुर्घटभावदीपिका
यश्चित्ज्ञाता मुख्यामुख्ययोर्मुख्ये संप्रत्यय इति न्यायान्महाज्ञानी । सुतपसोऽपि भूमे रजांसि अनन्तत्वान् महताऽपि कालेन नैव गणयेदित्येतद्वै प्रसिद्धम् । बालबुद्धिभि-रस्मदादिभिरखिलशक्तिधाम्नोऽनन्तस्य विष्णोरनन्तान् भूरजेभ्योऽतिशयेनानन्तान् गुणान्कथमनुक्रमिष्येदनु-क्रमेत् । गणयेन्न कथमपीति । एतेन योऽनन्तान्गुणान्गणयितुमिच्छेत्स बालबुद्धिरित्युक्त्यैवानन्तगुणानां गणनं कर्तुमशक्यमित्यर्थस्य प्राप्तत्वात् । अनन्तगुणान्नैव गणयेदिति कथनं व्यर्थम् । भूरजसामनन्तत्वेन सर्वथा गणनासम्भवात् । भूरजांसि महाकालेन कथञ्चिद्गणयेदिति कथनमयुक्तमिति दूषणं परास्तम् । प्रतीतार्थस्यानङ्गीकारात् ॥ २ ॥
प्रमेयचन्द्रिका
भगवद्गुणकर्मणामानन्त्यान्न वक्तुं तानि शक्यन्ते । यथाशक्ति ब्रवीमीत्युच्यते ॥ यो वा अनन्तस्येति ॥ अनुक्रमिष्येत् । उपक्रम्य वक्तुमिच्छेत् । बालबुद्धित्व-विवरणम् ॥ रजांसीति ॥ बहुकाले वाऽनन्तकालेनापि नैवं गणयेदिति भावः ॥ २ ॥
भूतैर्यदा पञ्चभिरात्मसृष्टैः पुरं विराजं विरचय्य तस्मिन् ।
स्वांशेन विष्टः पुरुषाभिधानमवाप नारायण आदिदेवः ॥ ३ ॥
तात्पर्यम्
‘विष्णोस्तु पुरुषाख्यानि त्रीणि रूपाण्यतो विदुः । प्रथमं महतः स्रष्टृ द्वितीयं त्वण्डसंस्थितम् । तृतीयं देहिनां देहे तानि ज्ञात्वा विमुच्यत’ इति माहात्म्ये
॥ ३ ॥
पदरत्नावली
नन्वेवं चेल्लोके प्रश्नप्रतिवचने गुरुशिष्यभावौ च न स्त इति दोषपरिहाराय यथाशक्ति प्रवक्ष्यामीत्यभिसन्धायाह– भूतैरिति । भूतैरित्युपलक्षणम् । महदहङ्कारौ पञ्चभूतानि च यदा ससर्ज तदा पुरुषाभिधानमवाप । यदा च महदादिचतुर्विंशतितत्त्वैर् विराजं ब्रह्माण्डाख्यं पुरं विरचय्य स्वांशेन तस्मिन् प्रविष्टस्तदा (पुनः) पुरुषाभिधानमवाप । यदा चात्मसृष्टैः पृथिव्यादिपञ्चभूतैर् ब्रह्माण्डान्तःपुरं, जातावेकवचनं, पुराणि शरीराणि विरचय्य स्वांशेन तस्मिन् विष्टस्तदा (पुनः) पुरुषाभिधानमवाप । ‘‘विष्णोस्तु पुरुषाख्यानि त्रीणि रूपाण्यथो विदुः । प्रथमं महतः स्रष्टृ द्वितीयं त्वण्डसंस्थितम् । तृतीयं देहिनां देहे तानि ज्ञात्वा विमुच्यते’’ इति पुरुषरूपविष्णुज्ञानस्य मुक्तिहेतुत्वोक्तेः साक्षात् सच्चिदानन्दानि पुरुषरूपाणि विष्णोरभिन्नानीति ज्ञातव्यम् । नरः पुरुषः, तेन सृष्टं नारम्, तस्याश्रयो नारायणः । नरसृष्टत्वान्नारं ब्रह्माण्डं तदाश्रयोऽपि । नरस्य विद्यमानं नारं शरीरं तदाश्रयोऽपि संसारिव्यावृत्त्यर्थमादिदेव इति ॥ ३ ॥
श्रीनिवासतीर्थीया
भूतैरिति श्लोकं व्याचष्टे ॥ विष्णोस्त्विति । महतः स्रष्टा वासुदेवः प्रथमं पुरुषरूपम् । नन्वत्र गुणसृष्टिरादौ वा अथवा वासुदेवान्महत्तत्त्वसृष्टिः । नाद्यः । उत्पादका-भावात् । न द्वितीयः । उपादानाभावादिति । तत्रादौ वासुदेवो गुणत्रयं सृष्ट्वा तदुपादानीकृत्य महत्तत्त्वं ससर्जेति ज्ञेयम् । ननु महत्तत्त्वस्यानिरुद्धादुत्पत्त्युक्तेः कथं वासुदेवादुत्पत्तिरिति चेन्न । आदौ वासुदेवेन महत्तत्त्वं तदभिमानी ब्रह्मा च सूक्ष्मरूपेणोत्पन्नः पश्चादनिरुद्धेन स्थूलतयोत्पन्न इति ज्ञेयम् । यथोक्तम् । ततो महत्तत्त्वतनुर्विरिञ्चः स्थूलात्मनैवाजनि वाक् च देवीति । अत्रैव षष्ठाध्यायतात्पर्ये च स्पष्टमेतत् । एवं वासुदेवस्य पुरुषस्याद्यावतारत्वे सिद्धेऽपि वासुदेवापेक्षयाऽप्यादौ पुरुषनामकं रूपमस्तीत्युच्यते यत्र यत्र तत्र शून्यनामकमेव यावत्प्रदेशे जगत्सृष्टव्यमस्ति तावत्प्रदेशे विद्यमानतमःपानावस्थाविशिष्टं पुरुषनाम्नोच्यते न तु सः स्वतन्त्रावतार इति ध्येयम् । अत्रैवं योजना । आदिदेवो नारायणः प्रलयाब्धिशायी स्वच्छन्दनामकतमःपानेन वासुदेवः सन् सूक्ष्मरूपेण गुणत्रयं तस्माद्भूतैः । विभक्तिव्यत्यासः । उपलक्षणं च । भूतानि महदादीनि ससर्ज तदा पुरुषाभिधानमेवापेति द्वितीये तृतीये तु स्पष्टैका ॥ ३ ॥
प्रमेयचन्द्रिका
॥ पुरं विराजमिति ॥ विशेषेण राजत इति विराजं महत्तत्वं प्रकृत्या विरचय्याथ विराजं ब्रह्माण्डाख्यं पञ्चभूतोपलक्षितमहदहङ्कारादींश्च विरचय्य तत्र महत्तत्वब्रह्माण्ड-पुरुषदेहेषु स्वरूपभूतांशेन प्रविष्टः सन् पुरुषाभिधानमवापेत्युक्तमवतारविशेषं प्रमाणेन प्रकटयति ॥ विष्णोस्त्विति ॥ ३ ॥
यत्काय एष भुवनत्रयसन्निवेशो
यस्येन्द्रियैस्तनुभृतामुभयेन्द्रियाणि ।
ज्ञानांशकेन विशतो बलमोज ईहा
सत्त्वादिभिः स्थितिलयोद्भव आदिकर्ता ॥ ४ ॥
तात्पर्यम्
यत्काये ॥ ४ ॥
पदरत्नावली
एतदेव विवृणोति यत्काय इति । भुवनत्रयसन्निवेशो यस्य काये शरीरे, भगवच्छरीराधारत्वेन वर्तत इत्यर्थः । तनुभृतामुभयेन्द्रियाणि ज्ञानकर्मोत्पादकानीन्द्रियाणि यस्य हरेर् इन्द्रियैः प्रेरितानि वर्तन्ते । अनेन शरीरान्तःस्थत्वमुक्तम् । कथं प्रेरकत्वमित्य उक्तं ज्ञानांशकेनेति । ज्ञानस्वरूपेणान्तःशरीरं विशतो न केवलं श्रवणादीनीन्द्रियाणि प्रेरितानि, अपि तु बलादीन्यपीत्याह बलमिति । सत्वादिभिर्गुणैः स्थितिश्च लयश्च उद्भवश्च यस्मात् स तथा । अत आदिकर्तेत्युच्यते
॥ ४ ॥
श्रीनिवासतीर्थीया
बलमोज ईहा जगतो यस्मात् । भवन्तीति शेषः । स्थितिलयोद्भव-स्तत्कर्ताऽत एवादिकर्ता ॥ ४ ॥
प्रमेयचन्द्रिका
तत्राण्डस्थितरूपस्य प्राणिदेहगतरूपस्य च प्रतिपादनं क्रियते ॥ यत्काय इति ॥ श्लोकगताद्यपादत्रयेण तत्र भुवनत्रयस्य साक्षाद्विकारित्वप्रतीतिं वारयितुं काय इति सप्तम्यतं पदमित्याह ॥ यत्काय इति ॥ यस्य सच्चिदानन्दशरीरस्य पुरुषाख्यकाये भुवनत्रयसंस्थानमाश्रितम् । वर्तत इत्युक्तं भवति । एतेनाण्डे स्थितरूपमुक्तम् । यस्येन्द्रियैरिति प्राणिदेहगतरूपमुच्यते । यस्य प्राणिदेहगतस्य हरेरिन्द्रियैस्तनुभृतां ज्ञानकर्मेन्द्रियाणि नियतानि । ज्ञानाख्यगुणात्मकस्वांशेन देहं विशतो हरेः प्रेरणाद्देहिनां बलं तेजोऽवष्टंभकशक्तिरिह चेष्टा च प्रवर्तते । तदेतदपि पुरुषरूपमिति भावः । अवतारान्तराण्युच्यन्ते ॥ सत्वादिभिरिति ॥ सत्वरजस्तमोगुणैःस्थितिलयोद्भवे विषये आदिकर्तेत्यर्थः ॥ ४ ॥
आदावभूच्छतधृती रजसाऽस्य सर्गे
विष्णुः स्थितौ क्रतुपतिर्द्विजधर्मसेतुः ।
रुद्रोऽप्ययाय तमसा पुरुषः स आद्य
इत्युद्भवस्थितिलयाः सततं प्रजासु ॥ ५ ॥
तात्पर्यम्
‘ब्रह्मणिस्थोऽसृजद्विष्णुः स्थित्वा रुद्रे त्वभक्षयत् । पृथक्स्थित्वा जगत्पाति तद्ब्रह्माद्याह्वयो हरिरि’ति ब्राह्मे ॥ रजसा तमसा च ब्रह्मरुद्रदेहसृष्टेः ॥ रागक्रोधकारणत्वाच्च ॥ ५ ॥
पदरत्नावली
एतदेव विवृणोति आदाविति । अस्य जगतः सर्गे, तादर्थ्ये सप्तमी, सृष्ट्यर्थं रजसा गुणेन तं ब्रह्माणं सृष्ट्वा आदावग्रे तदन्तर्यामित्वेन नाम्ना शतधृतिः शातानन्दो ब्रह्मेत्यभूत् । अस्य स्थितौ नाम्ना विष्णुरभूत् । स्थित्यै हेतुत्वं व्यनक्ति क्रतुपतिरिति । क्रतवो द्विजधर्माश्च निमित्तानि एतैर्जगत् स्थापयतीत्यर्थः । सत्वेनेति ग्राह्यम् । तमसा गुणेनास्याप्ययाय तं रुद्रं सृष्ट्वा तदन्तर्यामित्वेन नाम्ना रुद्रोऽभूत् । अतः स आद्यः पुरुषाकारेणैतत्साधनान् नाम्ना पुरुषोऽभूदिति भावः । उपसंहरति इतीति । सततमिति वीप्सोपलक्षणम् । कालं कालं प्रजासूद्भवस्थितिलया इत्येवं प्रकारेण हरेर्वर्तते नान्यस्मादिति निश्चितम् । तदुक्तम्– ‘‘ब्रह्मणिस्थोऽसृजद् विष्णुः स्थित्वा रुद्रे त्वभक्षयत् । पृथक् स्थित्वा जगत् पाति तद् ब्रह्माद्याह्वयो हरिः’’ इति । अत इयं कल्पना क्लिष्टेति न मन्तव्यम् ॥ ५ ॥
श्रीनिवासतीर्थीया
आदाविति श्लोके रजसा तमसेत्यस्य प्रकारद्वयेन भावमाह ॥ रजसेति । तथा स च आद्यः पुरुषो रजसा रजोगुणेन ब्रह्मणा जगत्सृक्ष्य इति जगत्सृष्टिविषये रागमुत्पाद्य ब्रह्मनामको भूत्वा सृजति । तथा तमसा तमोगुणेनाप्ययाय रुद्रस्य क्रोधमुत्पाद्य तन्नामको भूत्वा संहरतीति योज्यम् ॥ ५ ॥
प्रमेयचन्द्रिका
एतद्विवरणं क्रियते ॥ आदाविति ॥ आद्यः पुरुषो हरादावस्य सर्गार्थं रजसा हिरण्यगर्भं सृष्ट्वा तस्मिन् शतधृतिनामा शतधृत्यन्तर्गतोऽभूत् । स्थित्यर्थं क्रतोर्ज्ञानस्य च पतिर्द्विजानां च धर्माणां च सेतुरिव सेतुराश्रयो विष्णुरभूत् । तमोगुणेनाप्ययाय संहाराय रुद्रं तन्नामा शिवान्तर्याम्यभूत् । इत्येवं त्रिरूपेण हरिणानुसवनं तत्काले प्रजासूद्भवादयो भवन्तीत्यर्थः ।
अत्र प्रसिद्धविरिञ्चशिवयोरेव साक्षाद्भगवदवतारत्वं भातीत्यतः प्रमाणेनाह ॥ ब्रह्मणीति ॥ कुत एवं कल्प्यते । प्रसिद्धब्रह्मरुद्रयोरेव विष्ण्ववतारत्वं किं न स्यादित्यत आह ॥ रजसा तमसा च ब्रह्मरुद्रदेहसृष्टेरिति ॥ चैतन्यसृष्ट्यभावाद्देहेत्युक्तम् । अत्र शतधृती रजसेति रुद्रोप्ययायेति रजोगुणेन ब्रह्मणस्तमोगुणेन रुद्रस्य सृष्टिरुच्यते । यदि ब्रह्मरुद्रौ साक्षाद्विष्ण्ववतारभूतौ तर्हि रजस्तमः-कृतदेहसृष्टिमन्तौ न स्याताम् । अतो रजसा तमसा च ब्रह्मरुद्रदेहसृट्यन्यथानुपपत्या आवेशावतारत्व-मेवेति वक्तव्यमिति भावः । एतद्ज्ञापनाय मूले विष्णुः स्थितावित्यत्र सत्वे चेति नोक्तम् । राजस-तामसदेहविशिष्टस्तद्ब्रह्मरुद्रान्तर्यामित्वमेवात्राभिप्रेतमित्यत्र युक्त्यन्तरमाह ॥ रागक्रोधकारणत्वाच्चेति ॥ अत्र रजसा शतधृतिस् तमसा रुद्र इति ब्रह्मरुद्रयो राजसतामसत्वमुच्यते । रजोगुणतमोगुणयो रागक्रोधकारणत्वं रजोरागात्मकं विद्धीत्यादावुच्यते । यदाऽत्र शतधृतिरुद्रयोर्विष्ण्ववतारत्वं तर्हि हरेरपि साक्षात्क्रोधकारणत्वं स्यात् । न चैतद्युक्तम् । भगवदवतारस्य धर्मस्थापनार्थत्वस्य ‘‘धर्मसंस्थापनाय च । यदा यदा हि धर्मस्य ग्लानिः । ज्ञानकार्ये जनार्दन’’ इत्यादौ प्रमितत्वात् । अतस्तदन्यथानु-पपत्याऽपि अत्रावेशावतारत्वं ज्ञायत इति भावः । अथवा मूले रजसा सृष्ट्यर्थम् । तमसाप्ययायेति सम्बन्धः । अत्र रजस्तमसोः कथं सर्गाप्ययहेतुत्वमित्यत आह ॥ रजसा तमसा च ब्रह्म-रुद्रदेहसृष्टेरिति ॥ अत्र ताभ्यां च सृष्टिसंहारकारणाद्रजस्तमसोः सर्गाप्ययहेतुत्वं युज्यत इति योज्यम् । प्रकारान्तरेण सृष्टिलययोर्हेतुत्वमुपपादयति ॥ रागक्रोधकारणत्वाच्चेति ॥ रजस्तमसोरिति शेषः । रागस्य सृष्टिहेतुत्वं क्रोधस्य च संहारहेतुत्वं प्रसिद्धमेवेति रजसा सर्गस्तमसा अप्यय इत्येतदुपपद्यत इति भावः ॥ ५ ॥
धर्मस्य दक्षदुहितर्यजनि स्वमूर्त्या
नारायणो नर इति स्वतपःप्रभावः ।
नैष्कर्म्यलक्षणमुवाच चचार योगं
योऽद्यापि चास्त ऋषिवर्यनिषेविताङ्घ्रिः ॥ ६ ॥
तात्पर्यम्
स्वविषयज्ञानरूपः प्रभावरूपश्च ॥ ६ ॥
पदरत्नावली
हरी रूपान्तरैरपि जगत्स्थितिं करोतीत्याशयेन माहात्म्यप्रकटनपूर्वकं तान्याह धर्मस्येत्यादिना । धर्मस्य सकाशात् । तप आलोचन इति धातोरालोचनं निश्चयज्ञानम् । स्वमात्मानं तपति जानातीति स्वतपाः । स्वरूपभूतः प्रभावो यस्य सः स्वप्रभावः । स्वविषयज्ञानरूपश्चासौ स्वरूपभूतप्रभावरूपश्चेति स्वतपःप्रभावः । स्वशब्दः पदद्वयेन सम्बध्यते । अवतारप्रयोजनमाह– नैष्कर्म्येति । नैष्कर्म्यलक्षणं योगं मुक्तिसाधनं ज्ञानमवदत् । स्वयं च जनशिक्षार्थं योगमुपासनालक्षणं ध्यानं चचार । कृतावतारप्रयोजनोऽपि लोकानुग्रहकातरो भूमावेकत्राश्रमविशेष आस्त इत्याह अद्यापीति । ऋषिवर्यैर् ज्ञानिश्रेष्ठैर्ब्रह्मादिभिर्निषेविताङ्घ्रिः ॥ ६ ॥
श्रीनिवासतीर्थीया
स्वतपःप्रभाव इत्यत्र स्वकृततपःसामर्थ्योपेतो न तु स्वाभाविकं स्वसामर्थ्यमित्युच्यते इत्येतदनूद्य व्याचष्टे ॥ स्वेति । स्वशब्देन स्वविषयेति तपःशब्देन ज्ञानेति नारायणः स्वतप इति सामानाधिकरण्येन तद्रूपत्वं लब्धम् । अनेन स्वतपः प्रभाव इति भिन्नपदावित्यर्थः ॥ ६ ॥
प्रमेयचन्द्रिका
धर्मस्य प्रजेश्वरस्य सकाशात् । अत्र स्वतपःप्रभाव इत्यत्र स्वकृततपसा प्राप्तसामर्थ्य इति प्रतीतिनिरासायाह ॥ स्वविषयेति ॥ यस्य ज्ञानमयमिति श्रुतेः । स्वतपः स्वविषयज्ञानम् । ज्ञानज्ञानिनोरभेदाद्ज्ञानरूप इत्युक्तम् । एवं प्रभावरूप इत्यपि । नैष्कर्म्यं मोक्षस्तल्लक्षयति ज्ञापयति प्रापयतीति लक्षणं मुक्तिसाधनं ज्ञानमुवाच । सज्जनशिक्षार्थं योग्यं ज्ञानं चचार आस्ते बदर्यामिति शेषः ॥ ६ ॥
इन्द्रोऽपि नाक्यसुखमेष जिघृक्षतीति
कामं न्ययुङ्क्त सगणं च स बदर्युपाख्यम् ।
गत्वाऽप्सरोगणवसन्तसुमन्दवातैः
स्त्रीप्रेक्षणेषुभिरविध्यदतन्महिज्ञः ॥ ७ ॥
तात्पर्यम्
‘ज्ञानरूपानपि सुरान्विना प्राणं क्वचित्परे । आविशन्ति ह्यतस्तेषा-मज्ञानादि न तु स्वत’ इति देवतत्त्वे । ‘अथैनमेवमाप्नोद्योऽयं मध्यमः प्राणः । एवमेता देवताः पाप्मना विद्धास् तं हासुरा ऋत्वा विदध्वंसुर्यथाऽश्मानमाखणमृत्वा विध्वंसेतैवं हैव विध्वंसमाना विष्वञ्चो विनेशुः’ ॥ ‘सा वा एषा देवतैतासां देवतानां पाप्मानं मृत्यु-मपहत्याथैनां मृत्युमत्यवहत सा यदा मृत्युमत्यमुच्यत सोऽग्निरभवदि’त्यादिश्रुतिश्च ॥७॥
पदरत्नावली
श्रीनारायणं प्राणं च विनाऽन्यान् सुरानपि परे ज्ञानप्रतिबन्धिनः कामादय आविशन्ति किमुतान्यानिति भावेनेन्द्रस्याज्ञानं हरेर्महिम्न्रोऽप्रतिहतत्वं च प्रकटयितुं वक्ति इन्द्रोपीति । एष नारायणो नाख्यसुखं नाके विद्यमानं सुखमैश्वर्यलक्षणं जिघृक्षति गृहीतुमिच्छतीति निरूप्य कामं मदनं न्ययुङ्क्त आज्ञापितवान् । बदरीत्युपपदा आख्या यस्य तमाश्रमं बदरिकाश्रमं प्रति गत्वा नारायणस्य तपोविघ्नं कुर्विति कामं न्ययुङ्क्त । स कामो बदर्युपाख्यं गत्वेति वा । अप्सरोगणादिभिर्वातैः सहितैः स्त्रीणां प्रेक्षणेषुभिर् नयनेक्षणशरैरविध्यत् । अमुं भगवन्तमिति शेषः । तस्य परमात्मनो माहात्म्यं न जानातीत्यतन्महिज्ञः । ‘‘ज्ञानरूपानपि सुरान् विना प्राणं क्वचित् परे । आविशन्ति ततस्तेषामज्ञानादि न तु स्वतः’’, ‘‘अथैनमेव नाप्नोद् योयं मध्यमः प्राणः’’, ‘‘एवमेता देवताः पाप्मना विद्धाः’’ इत्यादिश्रुतिस्मृतिभ्योऽयमर्थः सिद्धः । स कामो बदर्युपाख्यं बदरीत्युपपदाश्रमे-त्याख्या यस्य स तथा तं बदरिकाश्रमम् अप्सरोगणादिभिः सह गत्वा स्त्रीणां प्रेक्षणेषुभिर्नयनलक्षणशरैर् अविध्यत्, अमुं भगवन्तमिति शेषः । तस्य हरेर्महिं माहात्म्यं न जानतीत्यतन्महिज्ञः । उप-लक्षणमेतत् । इन्द्रादिरप्येवम् । अनेन मुख्यप्राणोऽपि भगवदनुग्रहादसुरकृतपीडाया अविषयः किमुत हरिरसुराविष्टकामादिपीडाया इति न्यायो दर्शितः । ‘‘तं हासुरा ऋत्वा विदध्वसुर्यथाऽश्मानमाखणमृत्वा विध्वंसेतैवं हैव विध्वंसमाना विष्वञ्चो विनेशुः’’ इति श्रुतेः ॥ ७ ॥
श्रीनिवासतीर्थीया
बदर्याख्यं बदरीत्युपपदं यस्याख्याया आश्रमनाम्नस्तं बदर्याश्रममित्यर्थः ।
प्रमेयचन्द्रिका
नाक्यसुखं स्वर्गैश्वर्यभवं सुखम् । जिघृक्षति गृहीतुमिच्छतीति विभ्राम्य । स कामः । बदरीत्युपपदोपेता आख्या यस्य तमाश्रममित्यर्थः । अतन्महिज्ञस् तन्महिमानभिज्ञः । नन्विन्द्रकामादयः परमभागवताः कथं भगवद्विरोधं चक्रुरित्यतो असुरावेशादित्याशयेन तत्र प्रमाणमाह ॥ ज्ञानरूपानिति ॥ अपरे असुराः । अत्र वातमारुतपदाभ्यां भूतवायुरेव विवक्षितो न तु मुख्यप्राणः । तस्यासुरावेशाभावादित्याशयेनोक्तम् ॥ विना प्राणमिति ॥ प्राणं विनेत्येतत्कुत इत्यतः प्राणस्य सर्वथा असुरावेशाभावे श्रुतिं पठति ॥ अथैनमिति ॥ ‘‘मुख्यवायुं ततोऽब्रुवन् । दैत्यास्तं वेद्धुमीप्संतो ध्वस्ता नेशुश्च सर्वत’’ इत्यादि बृहद्भाष्यानुसारेण श्रुत्यर्थोऽभिधीयते । अथ सर्वेषु देवेषु प्रवेशानन्तरं प्रस्तुतोऽसुरसमूहः । यो यं मध्यमप्राण एनं मध्यमप्राणं नाप्नोत् । अत्र प्राणः स्थूणेति विष्णोरुत्तमप्राणत्वेनेतरदेवानां मध्यमप्राणत्वे च प्रस्तुतत्वान्मध्यम इत्युक्तम् । प्राणस्यैकस्यैव नासुरावेश इतरदेवानान्तु तत्कृतपीडास्तीत्याह ॥ एवमेता इति ॥ एवं प्रागुक्तप्रकारेणासुराविष्टाः । दुर्गन्धाघ्राणहेतुत्वरूपपापाप्मना विद्ध अभूवन् । तं मुख्यप्राणं तु असुरा ऋत्वा गत्वा विदध्वंसुर्विध्वस्ता अभूवन् । तत्र दृष्टान्तो यथेति । नाखणमश्मानम् । निकषमहापाषाणम् । ऋत्वा प्राप्य लोष्टा यथा विध्वंसेत । एवमेव विध्वंसमाना विशीर्यमाणा विष्वंचो विरुद्धगतयो विनेशुः ॥
न केवलं प्राणस्य दैत्यावेशाभावेनैव हरौ रमणमितिमात्रं किंत्वितरदेवतासु प्राप्तासुरावेश-परिहारकत्वमपि । अतश्चास्य नासुरावेशशङ्केत्याशयेनाह ॥ सा वा एषेति ॥ सा प्राणाख्यदेवता एतासामितरदेवानां मृत्युरूपं पाप्मानमसुरमपहत्य अतिमृत्युमत्यमतिक्रान्तमूर्ध्वलोकं प्रत्यवहत । प्रापयामास । सा वागभिमानिनी देवता यदा मृत्युमत्यमुच्यत मृत्युरूपमसुरं तत्कृतदोषं च तत्याज तद्यदा सा देवता अग्य्रत्वादग्निनामा अभवदिति । तथा च मुख्यप्राणं विना अन्येषां देवानाम् असुरावेशसम्भवादत्र कामादीनामसुरावेशवशाद्भगवद्विरोधः प्राप्त इति भावः ॥ ७ ॥
विज्ञाय शक्रकृतमक्रममादिदेवः
प्राह प्रहस्य गतविस्मय एजमानान् ।
मा भैर्विभो मदनमारुतदेववध्वो
गृह्णीत नो बलिमशून्यमिमं कुरुध्वम् ॥ ८ ॥
इत्थं ब्रुवत्यभयदे नरदेवदेवे
सव्रीडनम्रशिरसः सघृणं तमूचुः ।
नेयं विभो त्वयि परेऽविकृतिर्विचित्रा
स्वारामधीरनिकरानतपादपद्मे ॥ ९ ॥
पदरत्नावली
अक्रममस्थाने प्रपदन्यासलक्षणमन्यायम् । इममाश्रमम् । अविकृतिर् अविकारः । स्वारामाश्च धीराश्च स्वारामधीराः, तेषां निकरः समूहः, तेनानतं पादपद्मं यस्य स तथा तस्मिन् ॥ ८–९ ॥
श्रीनिवासतीर्थीया
बलिं पूजाम् । इममाश्रममशून्यं कुरुध्वम् । अतिथिपूजादिशून्यं मा कुरुध्वमित्यर्थः । सघृणं मत्तपोविघ्नकारिण एत इति कोपमकृत्वा प्रत्युत गृण्हीत नो बलिमिति कृपां कुर्वाणम् । वैचित्र्याभावमेव कैमुत्येनोपपादयति ॥ स्वारामेति । यस्यानुग्रहाद्धीराणां मुनीनामपि विकारो न तदानतपादपद्मे त्वयि नेति किमु वक्तव्यमित्याशयः ॥ ८–९ ॥
प्रमेयचन्द्रिका
मूले एजमानान् स्वकृतापराधनिमित्तकभयेन कंपमानान् । सघृणं दयोपेतं तं नारायणं प्रति । अविकृतिर्मनोविकाराभावः । स्वे स्वतन्त्रेण हरौ रमन्त इति स्वरामाः । ते च ते धीराश्च तेषां निकरः समूहः । तेनानतं पादपद्मं यस्य तस्मिन् । अथवा वनितादिरूपे स्वस्मिन् रमत इति स्वारामः । तस्य सम्बुद्धिः । स्वारामेति पृथक्पदम् । धीषु रता धीरा ज्ञानिनः । मनोविकाराभावेन धैर्यवन्तो वा तेषां ब्रह्मादीनां निकरैरानतपादपद्मेत्यर्थः ॥ ९ ॥
त्वां सुन्वतां सुरकृता बहवोऽन्तरायाः
कस्तान् विलंघ्य व्रजतात् परमं पदं ते ।
नान्यस्य बर्हिषि बलिं ददतः स्वभागं
धत्ते पदं त्वमविता यदि विघ्नमूधर्ध्नि ॥ १० ॥
तात्पर्यम्
स्वभागं बलिं ददतो विघ्नमूर्ध्नि यदि भवान्पदं धत्ते । तर्हि नान्यस्य बलिः ॥ १० ॥
पदरत्नावली
भवतामल्पशक्तित्वादविकारः किं न स्यादित्याशङ्क्य वयं भवन्तं प्रत्यल्पबला अन्यान् प्रति बलवन्त इति भावेनाहुस् त्वामिति । सुन्वतां यजमानानां ये अन्तरायाः कस्तान् विलङ्घ्य ते परमं पदं व्रजतात् । न कोऽपि । व्रजति चेत् को वायुरेव नान्य इत्यर्थः । ‘‘सा वा एषा१ देवतैतासां देवतानां मृत्युमपहत्याथैनां मृत्युमत्यवहत् सा यदा मृत्युमत्यमुच्यत सोग्निरभवत्’’ इति श्रुतिश्चोक्तार्थे बलवत्प्रमाणम् । नन्वेवं तर्हि वायुमन्तरेण भजतामितरेषां भगवत्प्राप्तिलक्षणमुक्तिर्न स्यादित्याशङ्क्य भगवदनुग्रहे सति काप्यापद् दुस्तरा स्यादिति भावेनाहुर् नेति । भवानविता बर्हिषि स्वभागं ददतः पुंसो यदि विघ्नमूर्ध्रि पदं धत्ते तर्हि स बलिरन्यस्य न तवैव । यदि विघ्नमूधर्ि्न पदं न दध्यात् तर्हि बलिरपि त्वत्प्रीतिजनको न स्यात् । न चायं तथा । तस्मादिति तर्केण भक्तेः प्राधान्यं तयैव विघ्ननिवृत्तिरिति दर्शितं भवति ॥ १० ॥
श्रीनिवासतीर्थीया
तान्को विलङ्घ्येति । यथा चान्तरायकरणेन चित्तविक्षेपे सति दत्तो बलिरन्यस्य दैत्यादेर्भवतीति भावः ॥ त्वां सुन्वतामित्यत्र द्वितीयार्धस्यानन्वितत्वेन भानात्स्वयं योजयति ॥ स्वेति ॥ १० ॥
दुर्घटभावदीपिका
तां सुन्वतां यजमानानां सुरकृता बहवोऽन्तराया विघ्ना व्यर्था भवन्ति । तदा यदि त्वमविता रक्षको न तर्हि तानन्तरायान्विलङ्घ्य ते परमं पदं को व्रजतान्न कोऽपि । व्यतिरेकेणोक्तमर्थमन्वयेन दृढयति ॥ नान्यस्येति । बहिर्षि स्वभागं बलिं ददतो यजमानस्य विघ्नमूधर्ि्न देवकृतविघ्नमूर्धनि भवान्यादि पदं धत्ते तर्हि नान्यस्य बलिः किंतु तवैव बलिर्भवति । यजमानस्य ते परमं पदं प्राप्नोतीति । एतेन त्वमित्यस्य युष्मच्छब्दत्वाद्विघ्नमूधर्ि्न त्वं यदि पदं धत्स इति वक्तव्यम् । धत्त इति कथनमयुक्तमिति चोद्यं निरस्तम् । त्वमित्यस्य धत्त इत्यनेनान्वयमनङ्गी-कृत्याध्याहृतस्य भवानित्यस्य धत्त इत्यनेनान्वय इत्यङ्गीकारात् । एतेनैव नेत्यस्य त्वमवितेत्यनेनान्वय इत्यङ्गीकारे यदि विघ्नमूधर्ि्न भवान्पदं धत्ते तर्हि नान्यस्य बलिरित्यर्थो न सेत्स्यतीति दूषणं प्रत्युक्तम् । नेत्यस्यावृत्तिरित्यङ्गीकारात् । एतेनैव नान्यस्य बलिरित्यनन्तरं यजमानस्य ते परमं पदं प्राप्नोतीति वक्तव्यम् । तदभावान्न्यूनतेत्याशङ्का परिहृता । यजमानस्य ते परमं पदं प्राप्नोतीत्यस्य शेष इत्यङ्गीकारात् ॥ १० ॥
प्रमेयचन्द्रिका
त्वां प्रत्येव वयं दुर्बला अन्येषां विघ्नकरणे त्वस्ति सामर्थ्यमित्युच्यते ॥ त्वामिति ॥ सुन्वतां यजमानानाम् । तर्हि हर्याराधने विघ्नप्रसक्त्या मोक्षः कस्यापि न स्यादित्यत उच्यते ॥ नान्यस्येति ॥ दुर्गमार्थत्वादुत्तरार्धं व्याचष्टे ॥ स्वभागमिति ॥ बलिमित्यस्य विशेषणम्। ददत इत्यस्य विघ्नमूर्ध्नीत्यन्वयः । यदीति भावात्तर्हीत्यध्याहारः । धत्त इति प्रथमपुरुषानुसारेण त्वमित्यस्य भवानिति प्रतिपदम् । नान्यस्येत्यत्र बलिरिति ग्राह्यमिति भावः । मूलार्थस्तु अविता स्वभक्तरक्षको भवान् बर्हिषि हरिपूजात्मकयज्ञे स्वभागं बलिं हविरादिकं ददतः पुंसो विघ्नमूधर्ि्न पदं धत्ते करोति तर्हि स बलिर्नान्यस्य किन्तु तवैवेति । अयं भावः । स्वातन्त्र्याभिमानत्यागेन भक्त्या भगवदाराधनं कर्तुः पूजां स्वयं हरिः स्वीकृत्य तद्विघ्नं परिहृत्य मुक्तिं ददाति । भगवदर्पणाद्यकरणे हरिः पूजां न गृह्णाति । किंत्वसुरा एव स्वीकुर्वन्ति । तदुक्तम् । विष्णुस्मृतिविहीना या पूजा स्यादासुरी मता । गृह्णन्ति देवता नैतामिति । तथा च भगवद्भक्त्या पूजां कर्तुर्विघ्नपरिहारेण भवेदेव मोक्ष इति ॥ १० ॥
क्षुत्तृट्त्रिकालगुणमारुत जैह्वशैश्न्या
दस्मादपारजलधेरतितीर्य केचित् ।
क्रोधस्य यान्ति विफलस्य वशे पदे गो
र्मज्जन्ति दुश्चरतपश्च वृथोत्सृजन्ति ॥ ११ ॥
पदरत्नावली
किं बहुना, कामादिजयादपि क्रोधजय एव दुःसाध्यः, तव सोपि गोष्पदतरणवत् सुशक इति विज्ञापयन्ति क्षुत्तृडिति । चत्वारो मासाः शीतकराः, चत्वार उष्णहेतवः, चत्वारो वर्षहेतव इति त्रिकालगुणाः शीतोष्णवर्षसंज्ञाः । जैह्वं जिह्वाभवं शैश्नं शिश्नभवं व्यसनम् । क्षुदादिव्यसनमयादपारजलधेरतितीर्य उत्तीर्य ये केचिदपण्डिता भवदनुग्रहरहिता विफलस्य प्रतिक्रियाकरणशक्त्यभावेन फलरहितस्य आत्मनाशादिविविधफलस्य क्रोधस्य वशं यान्ति ते गोष्पदे मज्जन्ति । दुश्चरतपश्च वृथोत्सृजन्ति ॥ ११ ॥
दुर्घटभावदीपिका
त्वत्सामर्थ्येनेति शेषः । एतेनात्र भगवन्माहात्म्यं नोक्तमिति शङ्कानवकाशः । त्वत्सामर्थ्येनेत्यस्य शेषमङ्गीकृत्य क्षुधादिरूपापारजलधितरणं क्रोधरूपगोपदोदकमज्जनं च त्वत्सामर्थ्येनैव केषाञ्चिद्भवतीत्युच्यत इत्यङ्गीकारात् । अनेन त्वां सुन्वतामिति श्लोकोक्तस्येष्टानिष्टयोर्भगवदधीनत्वमित्यर्थस्योपपादनं कृतं भवति ॥ ११ ॥
प्रमेयचन्द्रिका
कामादिजयस्य कथंचित्कर्तुं शक्यत्वेऽपि क्रोधजयः सुदुष्करः । सोऽपि ते तव दुष्कर इत्युच्यते ॥ क्षुदिति ॥ चातुर्मास्यत्रिके उत वा उष्णवर्षातपरूपास्त्रिकालगुणाः ॥११॥
इति प्रगृणतां तेषां स्त्रियोऽत्यद्भुतदर्शनाः ।
दर्शयामास १शुश्रूषां स्वार्चने कुर्वतीर्विभुः ॥ १२ ॥
पदरत्नावली
इति शब्दः प्रवृत्तिवचनः ॥ १२ ॥
श्रीनिवासतीर्थीया
स्वार्चने स्वस्यार्चनकाले । शुश्रूषां परिचर्याम् ॥ १२ ॥
प्रमेयचन्द्रिका
अद्भुतदर्शना अद्भुतं दर्शनं यासां विषये ताः । अद्भुतत्वेन दर्शनीया इत्यर्थः । अर्चन इति भावप्रधानो निर्देशः । तृतीयार्थे सप्तमी । पूजात्वेन शुश्रूषाः कुर्वतीः । यद्वा ऋष्यव-तारत्वान्नारायणो लोकशिक्षायै भगवदर्चनं करोति । तत्रोपयुक्तशुश्रूषाः कुर्वतीरित्यर्थः ॥ १२ ॥
ते देवानुचरा दृष्ट्वा स्त्रियः श्रीरिव रूपिणीः ।
गन्धेन मुमुहुस्तासां रूपौदार्यहृतश्रियः ॥ १३ ॥
तानाह देवदेवेशः प्रणतान् प्रहसन्निव ।
आसामेकतमां वृङ्ध्वं सुवर्णां स्वर्गभूषणाम् ॥ १४ ॥
ओमित्यादेशमादाय नत्वा तं सुरबन्दिनः ।
उर्वशीमप्सरःश्रेष्ठां पुरस्कृत्य दिवं ययुः ॥ १५ ॥
पदरत्नावली
रूपिणीः प्रशस्तरूपाः ॥ वृङ्ध्वं स्वीकुरुत ॥ सुराणां बन्दिनः बन्दिग्रहणपटवः ॥ १३–१५ ॥
प्रमेयचन्द्रिका
सुरबन्दिनः सुरानुचराः । अत्र नारायणेन प्रदर्शिताः स्त्रियो महालक्ष्मीमूर्तयः । उर्वश्येका । तत्रोर्वशीं देवेभ्यो ददाविति सम्प्रदायः ॥ १५ ॥
इन्द्रायानम्य सदसि शृण्वतां त्रिदिवौकसाम् ।
ऊचुर्नारायणबलं शक्रस्तत्रास विस्मितः ॥ १६ ॥
श्रीनिवासतीर्थीया
तत्र सभायां शक्रो विस्मित आश्चर्यबुद्धियुक्त आस । यद्वा शक्रो विगतः स्मितः सन् तत्रास त्रस्तो बभूव भीतो बभूवेत्यर्थः ॥ १६ ॥
हंसस्वरूप्यवददच्युत आत्मयोगं
दत्तः कुमार ऋषभो भगवान् पिता नः ।
विष्णुः शिवाय जगतां कलयाऽवतीर्ण
स्तेनाहृता मधुभिदा श्रुतयो हयास्ये ॥ १७ ॥
तात्पर्यम्
‘कुमारनामा तु हरिर्ब्रह्मचारिवपुः स्वयम् । सनत्कुमाराय परं प्रोवाच जगदीश्वरः’ इति स्कान्दे ॥ ‘विष्णोः सनत्कुमाराख्याच्छुश्रुवुर्ज्ञानमुत्तमम् । सनत्कुमार-प्रमुखा योगेशाः परमेश्वराः’ इति प्रकाशसंहितायाम् ॥ १७ ॥
पदरत्नावली
ये ये हरेरवातारास्ते सर्वेऽप्येवंविधमाहात्म्याम्बुधय इति ज्ञाप्यते हंसस्वरूपीति । विष्णुः कलया हंसरूप्यवतीर्णो जगतां शिवाय आत्मयोगं परमात्मज्ञानमवदत् । एवं दत्तादावप्यन्वेतव्यम् । कुमारो नाम हरे रूपान्तरं सनत्कुमारादियोगेश्वरज्ञानोपदेष्टृ । ‘‘कुमारनामा तु हरिर्ब्रह्मचारिवपुः स्वयम् । सनत्कुमाराय परं प्रोवाच जगदीश्वरः’’ इत्यनया स्मृत्या ‘‘विष्णोः सनत्कुमाराख्याच्छुश्रुवुर्ज्ञानमुत्तमम् । सनत्कुमारप्रमुखा योगेशाः परमेश्वरात्’’ इत्यनया चोक्तार्थः सिद्धः । हयास्ये हरग्रीवावतारे तेन मधुभिदा श्रुतय आहृताः ॥ १७ ॥
श्रीनिवासतीर्थीया
आहृता इति प्रतिनिधिद्वारेति द्रष्टव्यम् ॥ हंसस्वरूपीति श्लोके हंसादिरूपसहचर्येण कुमार उच्यते । तस्य सनकादिष्वेकत्वात् । तस्य च कामावतारत्वेन भगवदवतारत्वाभावात्कथं तत्साहचर्येण गणनमत आह ॥ कुमारेति ॥ १७ ॥
दुर्घटभावदीपिका
विष्णुर्मूलरूपविष्णोः कलया कलात्वेन युक्तोऽवतीर्णः प्रादुर्भूतोऽच्युतो देशतः कालतश्च गुणतो च्युतिरहितो हंसस्वरूपी विष्णुर्जगतां शिवायात्मयोगमवदत् । एवं दत्त इत्यादेरन्वयो द्रष्टव्यः । मधुभिदा तेन परमेश्वरेण हयास्ये हयग्रीवावतारेण श्रुतय आहृता इति । एतेन मूलरूपेण विष्णोः कलयेति वक्तव्यं विष्णुः कलयेति कथनमयुक्तमिति दूषणं निरस्तम् । विष्णुरित्यस्यार्थवशाद्विपरिणाममङ्गीकृत्य विष्णुरित्यस्य मूलरूपविष्णोरित्यर्थस्योक्तत्वात् । एतेनैव हंसस्वरूपपरमेश्वरस्य मूलरूपविष्णुकलारूपत्वेन कलया युक्तत्वाभावात्कलयेति तृतीयाप्रयोगोऽनुपपन्न इति दूषणं परास्तम् । कलयेति भावप्रधानो निर्देशः । युक्त इत्यस्य च शेष इत्यङ्गीकृत्य कलात्वेन युक्त इत्यर्थस्योक्तत्वात् । एतेनैव हंसरूपीत्यस्य विशेष्यं नोक्तमिति दूषणमपास्तम् । विष्णुरित्यस्यैव विशेष्यत्वमित्यभ्युपगमात् । एतेनैव हयास्येनेति वक्तव्यं हयास्य इति कथनमयुक्तमिति दूषणं परिहृतम् । विवक्षातः कारकाणि भवन्तीति वचनात् । करणस्यैवाधिकरणत्वविवक्षया सप्तमीप्रयोग इत्यभ्युपगमात् ॥ १७ ॥
प्रमेयचन्द्रिका
अवदत् । ब्रह्मणे इति शेषः ॥ आत्मयोगं तु युज्यते प्राप्यते मुक्तिरनेनेति योगो ज्ञानम् । जगतां शिवाय विष्णुः कलया अवतीर्ण इति प्रत्येकं सम्बन्धः । हयास्ये हयवदनावतारे । मधुनाम दैत्यं हत्वा तेन हयग्रीवेण श्रुतयो अधुना नीता आहृता इत्यर्थः । अत्र ब्रह्मपुत्रस्य सनत्कुमारस्य साक्षाद्भगवदवतारत्वं भाति । तद्वारणायाह ॥ कुमारनामेति ॥ स्वयं विष्णुः परं तत्वम् । अत्र विष्णुरित्यनुक्तेर् मानान्तरं पठति ॥ विष्णोरिति ॥ १७ ॥
गुप्ताऽप्यये मनुरिला ऋषभश्च मात्स्ये
क्रोडे हतो दिविज उद्धरतोऽम्भसे क्ष्माम् ।
कौर्मे धृतोऽद्रिरमृतोन्मथने स्वपृष्ठे
ग्राहात् प्रपन्नमिभराजममुञ्चदार्तम् ॥ १८ ॥
संस्तुन्वतोऽब्धिपतितांच्छ्रमणान् ऋषींश्च
शक्रं च वृत्रवधतस्तमसि प्रविष्टम् ।
देवस्त्रियोऽसुरगृहे पिहिता अनाथा
जघ्नेऽसुरेन्द्रमभयाय सतां नृसिंहे ॥ १९ ॥
तात्पर्यम्
‘सुपर्णा ऋषयो व्यासं नाथमाना ययुः सदा । ध्वान्तं निवारयास्माकं मुमुग्धीति च वादिन’ इति व्यासतन्त्रे ॥ ‘स्मरणात्तु नृसिंहस्य शक्रो मुक्तो बृहद्वधात् । हिरण्यकहृताश्चापि तथैवाप्सरसां गणा’ इति भयभञ्जने ॥ १९ ॥
पदरत्नावली
मात्स्येऽवतारे इला भूमिर्गुप्ता । अप्यये प्रलये सत्यव्रतो नाम मनुः सप्तर्षयश्च गुप्ताः । अम्भसः क्ष्मामुद्धरतो हरेः क्रोडे वराहावतारे दितिजो हिरण्याक्षो हतः । अमृतोत्पत्तये क्षीरसमुद्रमन्थने मन्दराद्रिः कौर्मे धृतः । तापसो नाम हरिरिभराजं ग्राहादमुञ्चत् ॥ व्यासावतारे संस्तुन्वतः श्रमणान् निःसङ्गान् ऋषीश्च संसाराब्धिपतितान् संसाराब्धेरमूमुचत् । ‘‘सुपर्णा ऋषयो व्यासं नाथमाना ययुः सदा । ध्वान्तं निवर्तयास्माकं मुमुग्धीति च वादिनः’’ इति वचनाद् व्यासावतारे इयं कथेति ज्ञायते । नृसिंहे नरसिंहावतारे तमसि प्रविष्टं कर्तव्यमूढमिन्द्रं वृत्तवधतो दोषादमूमुचत् । सतामभयाय असुरेन्द्रं जघ्ने । असुरगृहे पिहिता अनाथा देवस्त्रियो ऽप्सरसश्च व्यमोचयदिति । ‘‘स्मरणात्तु नृसिंहस्य शक्रो मुक्तो बृहद्वधात् । हिरण्यकहृताश्चापि तथैवाप्सरसां गणाः’’ इति वचनसिद्धेयं कथा ॥ १८,१९ ॥
श्रीनिवासतीर्थीया
संस्तुन्वत इत्यनेनोक्तमवतारमप्रतीतेराह ॥ सुपर्णा इति । अनेन सुपर्णाः सुष्टुपरमानन्दरूपाः । प्रिया मेधा येषां ते प्रियमेधा ज्ञानयोगिनो ऋषय इन्द्रं व्यासम् । नाधमाना नाथमानाः । तृतीयोऽतिशये । याच्नां कुर्वाणाः सन्तो ययुः । किं वदन्तः सन्त इत्यत आह । पूर्धिचक्षुः पूर्णज्ञानस्त्वं ध्वान्तमज्ञानमपोर्णुहि । निधया पाशा वै निधेति श्रुतेः पाशया । वयः । विशब्दस्य बहुवचनम् इय इति । पक्षिण एव संसारपाशया बद्धान्नस्मान्मुमुग्धि मुञ्चयेति वयः सुपर्णा इति श्रुत्यर्थ उक्तो द्रष्टव्यः । शक्रं च वृत्रवधतस्तमसि प्रविष्ट इत्येतदपि व्यासावतार-कृत्यमिति भाति । अतः प्रमाणेन व्याचष्टे ॥ स्मरणादिति । तेन तस्योत्तरार्धेनान्वय इति
॥ १८,१९ ॥
प्रमेयचन्द्रिका
अप्यये चाक्षुषमन्वन्तरप्रलये । मनुर्वैवस्वतः । इला भूमिः । मात्स्ये मत्स्यावतारे क्रोडे वराहावतारे । दितिजो हिरण्याक्षः । ग्राहेणार्तं प्रपन्नं गजेन्द्रं ग्रहादमुंचत् । तापसनामा हरिरिति शेषः ॥ संस्तुन्वत इति ॥ संसाराब्धौ पतितान् संस्तुन्वतः श्रमणान् सन्यासिनो अमूमुचदित्यत्रोक्तो अवतारः क इति न ज्ञायते । अत आह ॥ सुपर्ण इति ॥ सुष्टु परमानन्दरूपः । सुपर्णा इति वा । नाधमाना याचमानाः । तृतीयो अतिशय इति । नाथ नाथय नाथितमिति द्वितीयस्कन्धे प्रार्थने प्रयोगात् । ययुः शरणमिति शेषः । यांचनाप्रकारमाह ॥ ध्वान्तमिति ॥ अज्ञानान्धकारमित्यर्थः । मुमुग्धि संसाराद्वियोजय । ममु वियोग इति धातोः । एतेन वयः सुपर्णा उप सेदुरिन्द्रं प्रियमेधा ऋषयो नाधमानाः। अपध्वान्तमूर्णुहि पूर्धि चक्षु-र्मुमुग्ध्यस्मान्निधयेव बद्धान् इति मन्त्रोऽप्यत्र प्रमाणमिति सूचयति । तस्यायमर्थः । सुपर्णा इत्युक्तार्थकम् । धारणारूपत्वान्मेधा विष्णुर्विष्णुः प्रियः मेधा येषां ते प्रियमेधा हरौ प्रीतिमन्त इत्यर्थः । प्रियाज्ञाना इति वा ।
वयः । वय गतिबन्धनयोरित्यस्मात्कप्रत्यये च ज्ञानम् । तस्मान्मतुबर्थ इकारप्रत्यये निष्पन्नस्य विशब्दस्य बहुवचनम् । इति ज्ञानिन ऋषय इदम् ऐश्वर्यादिगुणं श्रीवेदव्यासं नाथमानाः संत उपसेदुः । याचनाप्रकारः । ध्वान्तमज्ञानमपोर्णुहि । विनाशय । चक्षुर्ज्ञानं पूर्धि पूरय । निधया पाशेन बद्धान् भवपाशबद्धानस्मान्मुमुग्धि वियोजय । उक्तं च निधाशब्दस्य पाशार्थमृग्वेदब्राह्मणे तृतीयपञ्चके द्वितीयाध्याये । मुमुग्ध्यस्मान्निधयेव बद्धानिति । पाशावै निधा मुमुग्ध्यस्मान्पाशादिबद्धानित्येव तदाहेति । कृतं चिदेनः प्रमुमुग्ध्यस्मदिति ऋग्भाष्ये मुमुग्धीत्यस्य वियोजयेत्यर्थोऽभिधीयत इति१ । नृसिंहावतारे वृत्रवधतस्तमसि दुःखे प्रविष्टमिन्द्रं तथा हिरण्यकशिपोर् गृहे पिहिता अनाथा दैवस्त्रियश्चामूमुचत् । अत्र वृत्रहत्यायाः कथमिन्द्रमोचकत्वं नृसिंहस्य । तदा प्रह्लादं प्रति देवेन्द्रप्रत्यक्षतो मोचकत्वश्रवणात् । देवैश्वर्याणां दैत्यगृहावासोप्ययुक्त इत्यत आह ॥ स्मरणादिति ॥ बृहद्वधाद् ब्रह्मवधात् । अप्सरोगणाश्च नृसिंहस्य स्मरणात्तेन च प्रसन्नेन हिरण्यकवधेन च मोचिता इति भावः ॥ १८,१९ ॥
देवासुरे युधि स दैत्यपतीन् सुरार्थे
हत्वाऽन्तरेषु भवनान्यदधात् कलाभिः ।
भूत्वाऽथ वामन इमामहरद् बलेः क्ष्मां
याञ्चाछलेन समदाददितेः सुतेभ्यः ॥ २० ॥
तात्पर्यम्
‘उपेन्द्ररूपी भगवान्प्रतिमन्वन्तरं प्रभुः । असुरान् हन्ति नियतं श्राद्ध-दैव्ये च वामन’ इति वामने ॥ २० ॥
पदरत्नावली
उपेन्द्ररूपी हरिर्देवासुरयुद्धे सुरार्थे दैत्यपतीन् हत्वा अन्तरेषु मन्वन्तरेषु भुवनान्यदधात् । वामनो भूत्वा याञ्चाछलेन बलेरिमां क्षमामहरत् । हृत्वा च तामदितेः सुतेभ्यः समदादित्यन्वयः । तदुक्तम् ‘‘उपेन्द्ररूपी भगवान् प्रतिमन्वन्तरं विभुः । असुरान् हन्ति नियतं श्राद्धदेवे च वामनः’’ इति ॥ २० ॥
श्रीनिवासतीर्थीया
देवासुर इति श्लोके अन्तरेषु मन्वन्तरेषु दैत्यपतीन्हत्वा भुवनानि कलाभिस्तत्तन्मन्वन्तरकृतावतारैरदधादित्युक्त्वा भूत्वाऽथ वामन इमामित्युक्तत्वाद्वामनो मन्वन्तरावतारो न भवतीति तदभिप्रायमाह ॥ उपेन्द्ररूपीति । तेन वैवस्वतमन्वन्तरव्यतिरिक्तेषु कलाभिर्दैत्यान्हत्वा वैवस्वतमन्वन्तरे वामनो भूत्वा सुरेभ्यः क्ष्मां समदादिति । उपेन्द्ररूपी तन्नामकश्च । श्राद्धदैव्ये श्राद्धदेवो वैवस्वतमनुस्तत्सम्बन्धिनि वैवस्वतमन्वन्तरे वामननामा सन् असुरान्हन्तीति योज्यम्
॥ २० ॥
प्रमेयचन्द्रिका
देवासुरे युधीति । अन्तरेषु मन्वन्तरेषु देवासुरे देवासुरसम्बन्धिनि युधि सुरार्थे सु सम्यक् दैत्यपतीन् कलाभिर्हत्वा लोकान् प्रापयामासेत्युक्ताः । कलापादोक्ता अवताराः का इति न ज्ञायते अत आह ॥ उपेन्द्रेति ॥ स्वायम्भुवमन्वन्तरे यज्ञनामकावतारस्यैवेन्द्रत्वेन न तत्रोपेन्द्रावतारः । चतुर्थे तापसाख्यस्य हरेर्मनुत्वात्तेनैव कार्यप्राप्तेर्न तत्राप्युपेन्द्रः । तत्रापि हरिनामोपेन्द्र इति तु न सम्मतम् । तथा च द्वादशैवोपेन्द्रास् ते च विभुःसत्यसेनवैकुण्ठाजित-वामनऋषभशान्तधर्मसेतुसुधामयोगेश्वरबृहद्भानुनामानो ऽष्टमस्कन्धे उक्ताः । मूले मन्वन्तरेषु कलाभिरिति सामान्यतो द्वादशोपेन्द्राणामुक्तत्वेपि वर्तमानमन्वन्तरगतत्वेन विशिष्योपासनार्थं वामनावतारस्य पुनर्विशिष्योक्तिरित्याशयेनाह ॥ श्राद्धदैव्ये च वामन इति ॥ श्राद्धदेवो वैवस्वतमनुः । तस्मिन्मन्वन्तरे वामनाख्यस्योपेन्द्रत्वं च दशमे स्पष्टमुक्तम् । तयोर्वा पुनरेवाह-मदित्यामथ कश्यपात् । उपेन्द्र इति विख्यातो वामनत्वाच्च वामन इति ॥ २० ॥
निःक्षत्रियामकृत गां च त्रिः सप्तकृत्वः
रामस्तु हैहयकुलाप्ययभार्गवाग्निः ।
सोऽब्धिं बबन्ध दशवक्त्रमहन् स लङ्कां
सीतापतिर्जयति लोकमलंध्यकीर्तिः ॥ २१ ॥
पदरत्नावली
निःक्षत्रियां क्षत्रियरहिताम् । हैहयकुलाप्ययार्थमुज्ज्वलितः भार्गवाग्निर् भृगुकुलोत्थवह्निः । लङ्कामहन् हतवान् दशवक्त्रं चाहन् । लोकं जयति ॥ २१ ॥
श्रीनिवासतीर्थीया
मूले त्रियोगात् त्रिः सप्तकृत्व इत्यत्र द्वित्रिचतुर्भ्यः सुच् इत्यनेन सुच् प्रत्ययः । द्वित्रिचतुः पठन्तीत्युदाहरणम् । त्रिसप्तकृत्व इति पाठे एकपदम् । त्रिगुणितसप्तकृत्वः । त्रिः सप्तकृत्व इति भिन्नं पदम् । त्रिशब्दस्य नित्यबहुवचनत्वात्कथं त्रिरित्येकवचनमिति चेन्न । त्रेस्त्रय इति सूत्रे त्रेरिति प्रयोगात् । त्रिःसप्तकृत्व इति विग्रहः । अहन् हन हिंसागत्योः । लङ्कामहन् गतवान् दशवक्त्रमहन्हतवानित्यर्थः ॥ २१ ॥
॥ इति श्री श्रीनिवासतीर्थविरचितायां श्रीभागवतटिप्पण्याम्
एकादशस्कन्धे चतुर्थोऽध्यायः ॥
दुर्घटभावदीपिका
सोऽब्धिं बबन्धेति स इति शब्दः प्रसिद्ध्यर्थः । स लङ्कामिति पुनः स इति शब्दश्रवणात् ॥ २१ ॥
प्रमेयचन्द्रिका
हैहयेति ॥ हैहयकुलाप्ययार्थमुज्वलितो भार्गवोऽग्निः । अथवा हैहयकुलस्याप्ययो येन सः स चासौ भार्गवाख्योऽग्निश्चेत्यर्थः । अहन्नित्यत्रैकाक्षरलोपेन अहनदिति च भवति । तं दशवक्त्रम् अहनत् । जयतीत्येतद् लङ्कालोकपदाभ्यां क्रमेण सम्बध्यते । लङ्कां जयति । लोकं च जयति । अभिभावयति । यद्वा सप्तम्यर्थे द्वितीया । लोके जयत्युत्कृष्टो वर्तते
॥ २१ ॥
भूमेर्भरावतरणाय यदुष्वजन्मा
जातः करिष्यति सुरैरपि दुष्कराणि ।
वादैर्विमोहयति यज्ञकृतोऽतदर्हान्
शूद्रान् कलेः क्षितिभुजो न्यहनिष्यदन्ते ॥ २२ ॥
एवं विधानि कर्माणि जन्मानि च जगत्पतेः ।
भूरीणि भूरियशसो वर्णितानि महाभुज ॥ २३ ॥
॥ इति श्रीमद्भागवते एकादशस्कन्धे चतुर्थोऽध्यायः ॥
पदरत्नावली
बुद्धो यज्ञकृतो वादैर्विमोहयति । कल्की कलेरन्ते शूद्रान् क्षितिभुजो न्यहनिष्यत् ॥ निगमयति एवंविधानीति ॥ २२,२३ ॥
॥ इति श्रीमद्भागवतटीकायां विजयध्वजतीर्थभिक्षुकृतायां
पदरत्नावल्याम् एकादशस्कन्धस्य चतुर्थोऽध्यायः ॥
दुर्घटभावदीपिका
हे महाभुज भूरियशसो जगत्पतेरेवंविधानि पूर्वोक्तसदृशानि भूरीणि कर्माणि जन्मानि च पुराणादौ वर्णितानीति । एतेनैवंविधानीत्यनेन किं पूर्वोक्तकर्मजन्मनां ग्रहणं किंवाऽन्येषाम् । नाद्यः । एवमित्यनेन पूर्णत्वेन विधानीत्यस्य वैयर्थ्यात् । न द्वितीयः । पूर्वोक्तेभ्योऽन्येषां कर्मजन्मनां वर्णितत्वेनैवंविधानि कर्माणि जन्मानि वर्णितानीत्युक्तेरयोगादिति दूषणमपास्तम् । पुराणादावित्यस्य शेषेण पूर्वोक्तसदृशानि कर्माणि जन्मानि पुराणादौ वर्णितानीत्यर्थस्योक्तत्वात् ॥ २३ ॥
॥ इति श्रीसत्याभिनवतीर्थविरचितायां श्रीभागवतटिप्पण्यां चतुर्थोऽध्यायः ॥ ११–४ ॥
प्रमेयचन्द्रिका
सुदुष्कराणि कर्माणीति शेषः । वादैर्विमोहयति बुद्धः । क्षितिभुजः शूद्रान् । कलेरन्ते कल्की न्यहनिष्यत् ॥ २२ ॥
॥ इति श्रीमद्विठलार्यतनूजेनानन्दतीर्थाख्येन विरचितायां श्रीमद्भागवत
एकादशस्कन्धतात्पर्यप्रमेयचन्द्रिकायां चतुर्थोऽध्यायः ॥