०३ तृतीयोऽध्यायः

परस्य विष्णोरीशस्य मायिनामपि मोहिनीम्

॥ अथ तृतीयोऽध्यायः ॥

राजोवाच—

परस्य विष्णोरीशस्य मायिनामपि मोहिनीम् ।

मायां वेदितुमिच्छामो भगवन्तो ब्रुवन्तु नः ॥ १ ॥

पदरत्नावली

परस्य पूर्णस्य मायिनां ज्ञानिनां मोहिनी मायां सृष्ट्यादिषु प्रवर्तमानामिच्छाशक्तिं जडप्रकृतिवैभवं च ॥ १ ॥

प्रमेयचन्द्रिका

परस्य पूर्णस्य पृपालनपूरणयोरिति धातोः । सर्वविलक्षणस्येति वा । मायिनां ज्ञानिनां मोहिनीं वैचित्र्यजनकाम् । मुह् वैचित्र्य इति धातोः । दुर्ज्ञेयामिति यावत् । मायां माहात्म्यम् । सृष्ट्यादिप्रवर्तनेच्छामिति वा । विष्णोरधीनां प्रकृतिमिति वा ॥ १ ॥

नानुतृप्ये जुषन् युष्मद्वचो हरिकथामृतम् ।

संसारतापनिष्टप्तो मर्त्यस्तत्तापभेषजम् ॥ २ ॥

पदरत्नावली

तत्र तत्र भागवते मायाविषयप्रश्नपरिहारावनेकशः कृतावित्यत्राश्रद्धेयमिदं नेति भावेनाह नानुतृप्य इति । हरेः कथामृतं यस्मिन् तत् तथा, तद् भेषजं संसारतापशान्तिकरमौषधम्

॥ २ ॥

प्रमेयचन्द्रिका

उक्तं भगवन्माहात्म्यमित्यत उक्तम् ॥ नानुतृप्य इति ॥ हरिकथाख्यममृतं यस्मिंस्तद्युष्मद्वचः । निष्टप्तं नितरां तप्तम् ॥ २ ॥

अन्तरिक्ष उवाच—

एभिर्भूतानि भूतात्मा महाभूतैर्महाभुज ।

ससर्जोच्चावचान्यादौ स्वयमात्मप्रसिद्धये ॥ ३ ॥

तात्पर्यम्

आत्मप्रसिद्धये भूतानां भगवज्ज्ञानार्थम् ॥ ३ ॥

पदरत्नावली

परिहारमवेक्ष्य प्रश्नः सङ्गच्छत इत्यतः परिहारोऽपि मायाद्वैविध्यविषय एवेति भावेनोपोद्धातं रचयति एभिरित्यादिना । अत्रायं भावः । आदौ स्वयं परमात्मा स्वेच्छोद्बोधितया प्रकृत्या महदहङ्कारादिक्रमेण चतुर्विंशतितत्वानि सृष्ट्वा पुनस्तैस्समेतैः स्तुतस् तान्यनुप्रविश्य संयोज्य तदुपादानत्वेन ब्रह्माण्डमत्पाद्य अन्तस् तैः सह प्रविश्य ब्रह्मादिपृथिव्यन्तानां तत्वानां रूपान्तराणि सृष्ट्वा एतैर्महानभूत्, पञ्चभिरुच्चावचानि शरीराणि ससर्ज । त्रिविधान् जीवान् त्रिविधैः शरीरैः संयोजयामास । किं प्रयोजनमुद्दिश्येत्यत उक्तम्– आत्मप्रसिद्धय इति । आत्मनो हरेः प्रसिद्धिः ख्यातिः प्रतीतिः, ज्ञानमिति यावत्, तदर्थम् । परमात्मतत्वज्ञानायेत्यर्थः ॥ ३ ॥

श्रीनिवासतीर्थीया

भूतानां योग्यानाम् । तथा च परमेश्वरी सृष्टिर्योग्यानां स्वगुणज्ञानार्थेत्युक्तं भवति । यथोक्तम् । व्यक्तिरुक्तगुणानां हि पुरुषापेक्षया नृणामिति । सृष्ट्या स्थूलदेहप्राप्तौ योग्या भगवन्तं जानन्ति इति भावः ॥ ३ ॥

प्रमेयचन्द्रिका

अत्रादौ भगवतो विश्वसर्जनरूपां शक्तिं मायां तदधीनां महदादिविकारवतीम् । जडप्रकृतिरूपां च संग्रहेण निरूपयन्ति ॥ एभिरिति ॥ बुद्धिसन्निहितैः । प्रकृतेर्महदहङ्कारद्वारा समुत्पन्नैः। पञ्चभिर्भूतैर्नीचोच्चभावापन्नानि भूतानि देवादिप्रजाः स्वयं साक्षात् ससर्ज । कुत आत्मप्रसिद्धये । अत्र एतत्पदं जीवस्य प्रसिध्द्यर्थमिति भानाद्विवक्षितार्थमाह ॥ आत्मप्रसिद्ध्ये इति ॥ आत्मशब्दमुख्यार्थस्य हरेः प्रकर्षेण सिद्धिर्ज्ञानम् । प्राणिनां सिध्यर्थं ससर्जेत्यन्वय इति भावः ॥ ३ ॥

एवं सृष्ट्वा स भूतानि स्थविष्ठैः पञ्चधातुभिः ।

एकधा दशधाऽऽत्मानं विभजन् जुषते गुणान् ॥ ४ ॥

गुणैर्गुणान् स भुञ्जान आत्मप्रद्योतितैः प्रभुः ।

मन्यमान इदं सृष्टमात्मानमिह सज्जते ॥ ५ ॥

कर्माणि कर्मभिः कुर्वन् सनिमित्तानि देहभृत् ।

तत्तत्कर्मफलं गृह्णन् भ्रमतीह सुखेतरम् ॥ ६ ॥

तात्पर्यम्

एवं गुणान्भुञ्जानो भगवान् । तं सृष्टं मन्यमानो जीव इह सज्जते । ‘शरीरे दोषहानेन गुणभोक्तारमीश्वरम् । शरीरस्थतया जीवं मन्यमानः पतत्यधः । तत्सृष्टा हि सदा जीवा देहादेर्जनिमत्त्वतः । नित्यानन्दैकदेहोऽसौ विष्णुस्तत्क्वैकताऽनयोरि’ति च ॥ ५,६ ॥

पदरत्नावली

जीवकलया ब्रह्मैव भोगायतने शरीरे स्थित्वा कर्मफलं भुङ्क्त इत्यद्वैतमतं प्रत्याह एवं सृष्ट्वेति । स परमात्मा उक्तविधया स्थविष्ठैः पुनः सृष्ट्या स्थूलभावं प्राप्तैः पञ्चधातुभिर् महाभूतैस् तत्तददृष्टानुसारेण जीवेन सह तान्यनुप्रविश्य आत्मनं स्वमेकधा मनोनियन्तृरूपेण दशधा दशेन्द्रिय-विनियामकरूपेण विभजन् विभक्तं कुर्वन् गुणान् विषयसारानन्दानेव जुषत इत्यन्वयः । विभजन्नित्यनेन जीवात्मनामल्पशक्तित्वेन स्वात्मनो भिन्नत्वमवशत्वेन कर्मफलभोक्तृत्वं स्वस्य पूर्णशक्तित्वेन स्वातन्त्र्यं च ध्वनयति ॥ नन्विन्द्रियाणामशुभेषु विषयेष्वपि प्रवृत्तेस् तत्स्थस्याशुभभोगोपि प्रसज्येत, अतः कथं गुणानेव जुषत इत्यत्राह– गुणैरिति । यो गुणानेव जुषत इति प्रस्तुतः स परमात्मा आत्मना प्रद्योतितैर् विषयाभिमुखत्वेन प्रेरितैर् गुणैर् इन्द्रियैर् गुणान् भुञ्जानो वर्तते इत्यन्वयः । लडर्थवाचिशानचा शुभमेव भुंक्ते कदापि नाशुभमिति ध्वनयति । नाशुभं स हरिः पिबेदिति स्मृतेः । एकस्मिन्नेव भोगायतने स्थितयोरनयोरेकस्य हरेर्गुणैकभोक्तृत्वे को हेतुरित्यत्राहप्रभुरिति । समर्थेऽधिपतौ प्रभुरिति वचनात् सामर्थ्यमाधिपत्यं च निमित्तमित्यर्थः । स्वतन्त्रास्वतन्त्रयोःप्रमितभेदानङ्गीकारे बाधकमाह– मन्यमान इति । इदमित्यव्ययम्, आत्मा वा इदमिति श्रुतेः । सर्वाधिकत्वेन वर्तमानं तं परमात्मानम् इदं सृष्टं देहयोगेनोत्पन्नं जीवाख्यं वस्त्विति मन्यमानो जीव इह संसारे सज्जते, मृतः परत्र तमसि सज्जन इत्यन्वयः । ‘‘शरीरे दोषहानेन गुणभोक्तारमीश्वरम् । शरीरस्थतया जीवं मन्यमानः पतत्यधः । तत्सृष्टा हि सदा जीवा देहादेर्जनिमत्त्वतः । नित्यानन्दैकदेहोऽसौ विष्णुस्तत् क्वैकताऽनयोः’’ इत्यनेन प्रमितोऽयमर्थः ॥ एतदेव विवृणोति कर्माणीति । सनिमित्तानि पूर्वकर्मप्रयत्नसंस्काराख्यबीजसहितानि कर्मभिर्व्यापारैः कर्मेन्द्रियैर्वा कुर्वन् सुखेतरं दुःखं प्रति भ्रमतीत्यन्वयः ॥ ४–६ ॥

श्रीनिवासतीर्थीया

एकधा दशधा विभजन् गुणान् जुषत इत्युक्तो जीव इति प्रतीतिं पराकर्तुं गुणैरित्युत्तरार्ध इत्याशयेन तं व्याचष्टे ॥ एवमिति । पूर्वोक्तैवंशब्दोऽत्रानुवर्तत इत्याशयेनैवमित्युक्तम् । आत्मप्रद्योतितैर्गुणैरिन्द्रियैर्गुणान् शुभान् भुञ्जानः स प्रभुर्भगवानेव न जीव इत्यर्थः । एतादृशं भगवन्तं जीवाभेदेन ज्ञातुः फलकथनाय प्रवृत्तं मन्यमान इत्यर्धं व्याचष्टे ॥ तमिति । तमित्यध्याहारः । तथा च तं पूर्वार्धे गुणभोक्तृत्वेन प्रस्तुतं भगवन्तम् । सृष्टं देहाधियोगेनोत्पन्नमात्मानं स्वात्मानं जीवम् । तदभेदेनेति यावत् । मन्यमान इहान्धन्तमसि सज्जते पतति । कुत इत्यत इत्युक्तम् ॥ इदं सृष्टमिति । इदं जीवजातं यतः कारणात्सृष्टं स तु नित्यानन्दैकदेह इत्यर्थः । इदं तमिति तात्पर्यपाठे तच्छब्दस्यापेक्षितत्वादिदमित्यनूद्य तमिति व्याख्यातमव्ययानामनेकार्थत्वादिति ध्येयम् । दोषहानेनेत्युक्त्या गुणानित्येतत्सावधारणमित्युक्तं भवति । जीवं जीवाभिन्नम् । जीवाभेदेन भ्रमे शरीरस्थतयेति निमित्तमित्युक्तं भवति । तत्सृष्टेत्युक्त्याऽऽत्मानमिति जात्यैकवचनमित्युक्तं भवति । ततश्च पूर्वमुक्तमेवं सृष्टानि भूतानि प्रविष्ट इति भ्रान्तौ निमित्तकथनपरमित्युक्तम् ॥ किं स्वरूपेणोत्पन्ना इत्यतो नेत्युच्यते ॥ देहादेरिति ॥ ४–६ ॥

दुर्घटभावदीपिका

तं गुणभोक्तृत्वेन पूर्वप्रकृतमात्मानं परमात्मानं सृष्टं भगवतो देहोत्पत्त्या सृष्टम् । दुःखभोक्तारमिति यावत् । आत्मानमित्यस्यावृत्तिः । आत्मानं जीवम् आत्मानं जीवाभिन्नं मन्यमानो जीव इह संसारे सज्जते । इदं जीवेश्वराभेदज्ञानिप्राप्यत्वेन प्रमितं तमः प्राप्नोतीति । एतेन परमेश्वरस्य गुणाभोक्तृत्वेन प्रकृतत्वं वक्तुं तमिति वक्तव्यम् । तन्नास्तीति न्यूनतेति शङ्का-नवकाशः । तमित्यस्य शेषमित्यङ्गीकारात् । एतेन इदमित्यनन्वितमिति दूषणं परास्तम् । तमः प्राप्नोतीत्यनयोः शेषेणान्वयस्योक्तत्वात् । ता. अर्थः ॥ तं गुणभोक्तारं परमात्मानं सृष्टं भगवत्सृष्टजीवाभिन्नं जीव इह संसारे सज्जते । उपलक्षणमेतत् । तमः प्राप्नोतीत्यपि द्रष्टव्यम् । उक्तार्थे प्रमाणमाह ॥ शरीरे इति । शरीरे दोषहानेन चिदानन्दशरीरेण शरीरस्थतया जीवशरीरस्थतया गुणभोक्तारमीश्वरं परमेश्वरं जीवं जीवाभिन्नं मन्यमानो जीवोऽधः पतति । ननु जीवेश्वरैक्यस्य मिथ्यात्वे जीवेश्वरैक्यज्ञानिनां तमः स्यात् । जीवेश्वरैक्यं सत्यं किं न स्यादित्यतो जीवेश्वरैक्ये शरीरे दोषहानेनेत्यनेन सूचितं स्पष्टयति ॥ तत्सृष्टा हीति । हि यस्माज्जीवा देहादेः । आदिशब्दे-नेन्द्रियादेर्ग्रहणम् । देहेन्द्रियादेर्जनिमत्त्वतस्तत्सृष्टाः परमेश्वरसृष्टाः । दुःखभोक्तार इति यावत् । असौ विष्णुर्नित्यानन्दैकदेहस्तत्तस्मादनयोर्जीवेशयोरेकता क्वेति । एतेन शरीरे दोषहानेनेत्येतद-नन्वितमिति दूषणस्यानवकाशः । चिदानन्दादशरीरेणेत्यस्य शेषं कृत्वाऽन्वयस्योक्तत्वात् ॥ स देहभृत्कर्मभिः पूर्वकर्मभिनिर्मितान्युत्तरकर्मणां निमित्तानि कर्माणि कुर्वन्निति । एतेन सनिमित्तानीत्ये-तद्व्यर्थमिति दूषणं परास्तम् । सनिमित्तानीत्यत्र पदद्वयमङ्गीकृत्य स देहभृदुत्तरकर्मणां निमित्तानीत्यर्थस्योक्तत्वात् ॥ ५,६ ॥

प्रमेयचन्द्रिका

भूतानि ससर्जेत्युक्तम् । तत्सृष्ट्वा तदनुप्रविश्य सर्वशुभं भुंक्त इति मायापदोक्तमाहात्म्यमुच्यते । एवं सृष्ट्वेति ॥ स्थविष्टैरतिस्थूलैर्धातुभिर्भूतैर् एकधैव स्थितं स्वात्मानम् । दशधेत्युपलक्षणम् । शतधा सहस्रधा अनन्तधा विभजन् तानि भूतानि अनुविश्येत्यपि ग्राह्यम् । गुणान् विषयान् जुषते । जुषी प्रीतिसेवनयोः । भुङ्ते इत्यर्थः ॥

जीवे शरीरानुप्रवेशेन विषयभोगे अशुभभोगोऽप्यापद्यते । तत्रानुविष्टस्य जीवस्याशुभभोग-दर्शनादित्यत उच्यते ॥ गुणैरिति ॥ अत्रेश्वरो गुणैरिन्द्रियैर्विषयान्भुञ्जानः सन्नात्मानमेवेदमस्मिन् देहे सृष्टं जीवं मन्यमान इह संसारे सज्जत इतीश्वरस्यैव भ्रान्त्या संसार इत्यन्यथाभानात्पूर्वार्धोत्तरार्धौ भिन्नवाक्यतया योजयति ॥ एवं गुणानिति ॥ तथा च स प्रभुर्भगवानात्मप्रद्योतितैः प्रकाशितैः स्वात्मना तेजोरूपतया अप्राकृतैरर्थविषयीकारितया ज्ञानजनकतया च कृतैर् गुणैरप्रधानैर्जीवेन्द्रियैश् छुरितैर् इन्द्रियैः स्वकैरिति च ग्राह्यम् । गुणान् शुभान्विषयानेव भुञ्जानो वर्तते । प्रभुत्वादिन्द्रिय-स्वामित्वाच्चेति पूर्वार्धार्थः । आत्मानमीश्वरमिदमस्मिन् देहे सृष्टं जीवं मन्यमान ईश्वर एव जीवभावमापद्यते जायते दुःखादींश्चानुभवतीति जानमान इति यावत् । इह बुद्धिसन्निहिते अन्धेतमसि सज्जत इत्युत्तरार्धः । अत्रार्थे प्रमाणमाह ॥ शरीर इति ॥ गुणैर्जीवेन्द्रियैर् इत्यस्यार्थः शरीर इति । गुणानेव भुञ्जान इत्यस्यार्थः दोषहानेन गुणभोक्तारमिति । आत्मानमित्यस्येश्वरमिति । इदं सृष्टं मन्यमान इत्यस्य शरीरस्थतया जीवं मन्यमान इति व्याख्यातम् । इह सज्जत इत्यस्य पतत्यध इति । विरुद्धधर्माधिकिरणत्वाज्जीवैक्यमत्यन्तायुक्तमित्याशयेनाह ॥ तत्सृष्टा इति ॥ नित्यस्य जीवस्य कथं सृष्टृत्वमित्यत उक्तम् ॥ देहादेरिति ॥ देहोत्पत्तिनिमित्तकविकारस्य चैतन्येऽपि भावादिति भावः । क्वेत्याक्षेपः । सर्वथा न घटत इत्यर्थः । भगवद्भिन्नस्य जीवस्यैव जननादि-रित्युक्तार्थविवरणं क्रियते ॥ कर्माणीति ॥ कर्मभिः कर्मेन्द्रियैः पूर्वकर्मभिर्निमित्तैरिति वा । सनिमित्तानि पूर्वकर्मप्रयत्नं च संस्कारञ्चाप्यपेक्ष्येत्युक्तनिमित्तसहितानि कर्माणि कुर्वन् । एतत्कर्मफलं जननमरणनरकादिरूपं गृह्णन् संसारे परिभ्रमति । तत्र च ईश्वरोऽहमित्यादिभ्रमयुक्तो भवति । ततश्च सुखेतरं दुःखमनुभवतीत्यर्थः ॥ ४–६ ॥

इत्थं कर्मगतीर्गच्छन् बह्वभद्रावहः पुमान् ।

आभूतसंप्लवात् स्वर्गप्रलयावश्नुतेऽवशः ॥ ७ ॥

धातूपप्लव आसन्ने व्यक्तं द्रव्यगुणात्मकम् ।

अनादिनिधनः कालो ह्यव्यक्ताय विकर्षति ॥ ८ ॥

शतवर्षमनावृष्टिर्भविष्यत्युल्बणा भुवि ।

तत्कालोपचितोष्णार्को लोकांस्त्रीन् प्रतपिष्यति ॥ ९ ॥

पातालतलमारभ्य सङ्कर्षणमुखानलः ।

दहन्नूर्ध्वशिखो विष्वग्वर्धते वायुनेरितः ॥ १० ॥

संवर्तको मेघगणो वर्षति स्म शतं समाः ।

धाराभिर्हस्तिहस्ताभिर्लीयते सलिले विराट् ॥ ११ ॥

ततो विराजमुत्सृज्य वैराजः पुरुषो नृप ।

अव्यक्तं विशते सूक्ष्मं निरिन्धन इवानलः ॥ १२ ॥

तात्पर्यम्

‘आभूतसम्प्लवाज्जन्म जीवेशत्वं विजानतः । ततः पतत्यधो यस्मा-दुत्थानं नैव तु क्वचिदि’ति च । ‘कालाख्यः कलनाद्विष्णुर्व्यक्तमव्यक्तगं नयन्नि’ति च

॥ ८ ॥

पदरत्नावली

जीवपरयोरभेदर्शिनः पुंसः कदा नु तमः प्रवेश इत्यतः प्रलयपर्यन्तावेव देहयोगवियोगलक्षणजन्ममृत्यू ततः परं तमः प्रवेश इत्याशयेनाह– इत्थमिति । कर्मगतीः कर्मनिमित्तयोनिलक्षणफलानि । बहूनि अभद्राणि पापानि आवहत्यात्मन्यधत्त इति बह्वभद्रावहः । आभूतसम्प्लवाज् जगत्प्रलयपर्यन्तं सर्गप्रलयौ जन्ममरणे । योगिवत् स्वच्छन्दतया अस्य स्यातां किमित्यत उक्तम् अवश इति । ‘‘आभूतसम्प्लवाज्जन्म जीवेशत्वं विजानतः । ततः पतत्यधो यस्मादुत्थानं नैव कुत्रचित्’’ इति वचनादवशः पश्चादन्धेतमसि पततीत्यर्थः ॥ एवमीश्वरमायानियता-दव्यक्तात् सृष्टिं समासतोऽभिधाय प्रलयं सङ्क्षिप्याह धातूपप्लव इति । धातूनां पृथिव्यादिपञ्चभूता-नामुपप्लवे प्रलये द्रव्यगुणात्मकं पञ्चभूतशब्दादिगुणमयं व्यक्तं ब्रह्माण्डम् अनादिनिधनः कालो विष्णुर् अव्यक्ताय मूलप्रकृतये विकर्षति प्रकृत्यवशेषं कर्तुमिच्छतीत्यर्थः । ‘‘कालख्यः कलनाद् विष्णु-र्व्यक्तमव्यक्तगं नयन्’’ इति वचनाद् विष्णुरेव कालशब्देनोक्तः । विकर्षतीत्यनेन कालशब्दोऽपि निरुक्तः ॥ सङ्क्षिप्योक्तं प्रलयमादितो वक्ति शतवर्षमिति । तत्कालेन तेन प्रलयकालेन उपचितः संवर्धित उष्णो गुणो यस्य स तथा स चासावर्कश्च तत्कालोपचितोष्णार्कः ॥ विराट् ब्रह्माण्डम् ॥ सलिले विलीनं ब्रह्माण्डमृत्सृज्य वैराजो ब्रह्माण्डान्तर्वर्ती पुरुषो ब्रह्मा अव्यक्तं परमात्मानं विशते । अव्यक्तशब्दार्थं स्पष्टीकुर्वन् तं विशिनष्टि सूक्ष्ममिति । यद्वा निरिन्धनोऽनलः सूक्ष्मं व्याप्तमग्निमिवेति

॥ ७–१२ ॥

श्रीनिवासतीर्थीया

आभूतेति प्रमाणेन मुक्तियोग्यानां सर्वेषां प्रलये ब्रह्मणा सहैव मुक्तिव-त्सर्वेषां तमोयोग्यानां प्रलये कलिना सहैव तमःप्राप्तिरूपमुक्तिरिति प्रतीयते । न चैतत्कलिपरमेव । विजानतः पततीत्येकवचनश्रवणादिति वाच्यम् । तथात्वे कलिना सहैव गन्तॄणामपि केषाञ्चिच्छनैस्तमो जगामेति वाक्यानुसारेण शनैस्तमस उच्यमानत्वात्तेषामाभूतसंप्लवादित्युक्तफलाभावापत्तेः । किञ्च तात्पर्यनिर्णये ‘‘समन्त्रिभिर्मन्त्रिपुत्रैः समेतो जगाम कृष्णावज्ञयाऽन्धन्तमश्चे’’त्यादिवाक्येन ‘‘मृत्वा स चोरुतम एव जगाम पापो विष्णुद्विडेव हि शनैरनिवृत्ति चोग्र’’मित्यादिवाक्यस्य परस्परविरोधा-पत्तेः ॥ तमोधातूपप्लव इत्यत्र कालस्यानादिनिधनत्वमयुक्तम् । ‘‘सर्वे निमिषा जज्ञिर’’ इति श्रुतिविरोधादित्यत आह ॥ कालाख्य इति । कलनात्संहारात् । व्यक्तं द्रव्यनामकम् । पञ्चभूता-द्यभिमानिपरमेतत् । अव्यक्तगमव्यक्तमयं प्रविष्टं नयन्कुर्वन् । प्रवेशो नाम सामीप्यम् । मुमुक्षुणा प्रकृतौ लयाभावात्तत्र लयस्य संसारापादकत्वात् । तस्माद्भगवत्पादैर्यत्र तमो जगामेति कथ्यते तत्र तमोगत एव । यत्र गमिष्यतीत्युच्यते तत्रोत्तरत्र गमिष्यतीत्येव वक्तव्यम् । न तु जगामेत्यस्य ग्रामं विहाय प्रयाणं गते पुंसि काशीं गत इतिवदयं तन्मार्गे पतित इति न कल्प्यम् । तथात्वे जगामेत्यस्योपमर्दापत्तेः । तर्ह्येतद्वाक्यं कथं योज्यमिति चेत्कलिपरमिति वदामः ॥ ७,८ ॥

प्रमेयचन्द्रिका

कर्मफलं गृह्णन्नित्युक्तं विवृण्वन् जीवेशाभेदज्ञानिनः कियत्पर्यन्तं संसारे अवस्थितिः कदा वा तमःप्रवेश इत्यत उच्यते ॥ इत्थमिति ॥ कर्मगतीः कर्मगम्यफलानि अभद्रं मिथ्याज्ञानदुष्कर्मादिकमासम्यग्वहति बह्वभद्रावहः । आभूतसंप्लवशब्दवाच्यप्रलयपर्यन्तम् उत्पत्तिविनाशौ प्राप्नोति । ननु एतत्सर्वसाधारणम् । प्रलयपर्यन्तमेव सर्वेषां जननमरणम् । न प्रलयकाले । तस्य चैक्यज्ञानिफलत्वेन विशिष्यकथनमयुक्तमित्यतोऽवश इति पदसूचिततात्पर्यं प्रमाणेनाह । आभूतसंप्लवाद् इति । भूतसंप्लवो महाप्रलयः । प्रलयानन्तरमवशस्तमो यातीति मूलाभिप्रायो न तु प्रलयावसाने पुनर्जन्म प्राप्नोति । अतो न साधारणत्वमिति भावः ॥

मायाशब्दार्थभूतसंहर्तृत्वरूपं भगवन्माहात्म्यं संग्रहेणोच्यते । धातूपप्लवेत्यादिभिरष्टभिः श्लोकैः । अत्र प्रसिद्धकालार्थत्ववारणाय कालशब्दार्थं वदन् व्यक्तमव्यक्ताय विकर्षतीत्यस्यार्थं प्रमाणेनाह ॥ कालाख्य इति ॥ कलानात्संहरणात् । कल संहार इति पठन्ति । व्यक्तं ब्रह्माण्डमुद्दिष्टमव्यक्तं महदादि चेत्युक्तेर्व्यक्तं ब्रह्माण्डं कार्याकारविलोपेन महदादिद्वारा अव्यक्तं नयनप्रकृतिभावमापादय-न्नित्यर्थः ॥ तथा च धातूनां सर्वकार्याणामुपप्लवे प्रत्यासन्ने पृथिव्यादिद्रव्यशब्दादिगुणात्मकं व्यक्तं ब्रह्माण्डादिकमुत्पत्तिविनाशरहितो भगवान्प्रकृतिभावमापादयतीति मूलार्थः । तदादित उच्यते । शतेति । वैराजः विराण्णामको विरिञ्चो विष्णुर्वा अव्यक्तं व्याप्तप्रकृतिगतं हरिम् । अव्यक्तत्वोपपादनं सूक्ष्ममिति । सूक्ष्ममेवाव्यक्ततामर्हति । यथोक्तं सूक्ष्मं तु तदर्हत्वादिति ॥ ८–१२ ॥

वारिणा हृतगन्धा भूः सलिलत्वाय कल्पते ।

सलिलं तद् हृतरसं ज्योतिष्ट्वायोपकल्पते ॥ १३ ॥

तात्पर्यम्

अव्यक्तं विशतीत्युक्तवा तस्य विस्तारो वारिणा हृतगन्धेत्यादि । ‘सङ्क्षेपविस्तराभ्यां तु कथयन्ति मनीषिणः । बहुवारस्मृतेस्तस्य फलबाहुल्यकारणादि’ति शब्दनिर्णये ॥

पदरत्नावली

सङ्क्षेपविस्तराभ्यां तु कथयन्ति मनीषिणः । बहुवारस्मृतेस्तस्य फलबाहुल्य-कारणादिति वाक्यार्थं सफलं कुर्वन्नुक्तार्थं प्रपञ्चयति वारिणेति । तेन ज्योतिषा हृतरसं पीतरसम् । तमसा तमोगुणानुस्यूतेन वायुना ॥ १३ ॥

श्रीनिवासतीर्थीया

नन्वव्यक्तं विशते सूक्ष्ममित्युक्त्वाद्वारिणेत्युच्यमानो लयस्तदनन्तरभावीति प्रतीयतेऽत आह ॥ अव्यक्तं विशतीत्युक्त्वेति । अयमप्युक्तविस्तार एवेति न विरोध इति भावः । उक्तार्थे नियामकं प्रमाणमाह ॥ संक्षेपेति ॥ १३ ॥

दुर्घटभावदीपिका

न सलिले विराडित्यारभ्याव्यक्तं विशते सूक्ष्ममित्यन्तस्य विवरणं क्रियत इति द्रष्टव्यम् । एतेन वारिणा हृतगन्धा भूरित्यादिकं व्यर्थमिति दूषणस्यानवकाशः ॥ ता. अर्थः ॥ अत्र सलिले विराडित्यारभ्याव्यक्तं विशतीत्यन्तेन वाक्येन सङ्क्षेपेण लयमुक्त्वा तस्य लयस्य विस्तारो वारिणा हृतगन्धेत्यादि स्वगुणैरहमात्मनीत्यन्तं यद्वाक्यं न तत्क्रियत इति । एतेन वारिणा हृतगन्धेत्यादीति कथनमयुक्तमिति दूषणं परास्तम् । वारिणा हृतगन्धेत्यादेरव्यक्तं विशतीत्ये-तन्मात्रविवरणरूपत्वमित्यनङ्गीकारात् ॥ १३ ॥

प्रमेयचन्द्रिका

ननु वारिणेत्याद्युत्तरमूलवैय्यर्थ्यम् । सावरणब्रह्माण्डविलयस्य प्रकृत्यन्त-स्योक्तत्वादित्यत आह । अव्यक्तमिति ॥ विशत इत्यस्यार्थानुवादो विशतीति । आदौ संक्षेपत उक्त्वा पश्चाद्विस्तरेण कथनं कुत इत्यतः प्रमाणेनाह । संक्षेपेति ॥ तस्यावश्यज्ञातव्यप्रमेयस्य बहुवारस्मृतेः सकाशात्फलबाहुल्यलाभलक्षणात्कारणादित्यर्थः ॥ १३ ॥

हृतरूपं तु तमसा वायौ ज्योतिः प्रलीयते ।

हृतस्पर्शोऽवकाशेन वायुर्नभसि लीयते ॥ १४ ॥

कालात्मना हृतगुणं नभ आत्मनि लीयते ।

इन्द्रियाणि मनो बुद्धिः सह वैकारिकैर्नृप ॥ १५ ॥

प्रविशन्ति ह्यहंकारं स्वगुणैरहमात्मनि ॥ १६ ॥

तात्पर्यम्

नभ आत्मनि लीयत इत्युक्तवेन्द्रियाणीत्याद्यपि विस्ताराय ॥ आत्मनि बुद्धौ ॥ १५,१६ ॥

पदरत्नावली

अवकाशेन आकाशेन ॥ कालात्मना संहारमूर्तिना हरिणा हृतशब्दाख्यगुणं नभ आत्मनि परमात्मनि । पुनरपि विस्तारयति इन्द्रियाणीति । अत्रेदं तात्पर्यम् । नभस्तामसा-हङ्कारमाविशति । तैजसानीन्द्रियाणि मनो बुद्धिश्च वैकारिकैरिन्द्रियाभिमानिदेवैः सह वैकारिकं तैजसात्मकं चाहङ्कारं विशति । एवं त्रिविधोऽहमहङ्कारः स्वगुणैः स्वकार्यैः सह आत्मनि महत्तत्वे लीयते । तन्महत्तत्वमात्मनि व्याप्ते परमात्मनि प्रविष्टं भवति । वैराजः पुरुषः पृथिव्यादीनि स्वकृतकार्याणि व्युत्क्रमेण स्वस्वकारणेष्वबादिषु विलाप्य स्वयं च तत्कारणगतत्वेन तत्तत्कार्यप्रवर्तकस् तत्तत्कारणगतरूपेणैकीभूय मूलरूपी सन्नाकाशवदतिसूक्ष्ममव्यक्तं प्रविशतीति ॥ १४–१६ ॥

श्रीनिवासतीर्थीया

ननु नभ आत्मनि लीयत इति लयमुक्त्वा इन्द्रियाणीत्यादिलयस्योक्त-त्वादयं तदनन्तरभावी लय उच्यत इति भातीत्यत आह ॥ नभ इति ॥ १५ ॥

प्रमेयचन्द्रिका

कालात्मना संहारकेण परमात्मना । ननु नभ आत्मनि लीयत इति भूतचतुष्टयसहितस्याकाशस्य बुद्धौ लयेऽभिहिते इन्द्रियादिलयोऽपि बुद्धावेव । ‘‘बुध्यामुमायां स शिवस्त्रिरूपो मनश्च वैकारिकदेवसङ्घान् । दशेन्द्रियाण्येव च तैजसानि क्रमेण खादीन्विषयैश्च सार्ध’’- मितीन्द्रियादीनां नभसा सह बुद्धेः सकाशादुत्पत्तिश्रवणेन नभसो बुद्धौ लयोक्त्यैवाकाशेन सहोत्पन्नानामिन्द्रियादीनां बुद्धौ लयस्य प्राप्तत्वादित्यत आह ॥ नभ आत्मनि लीयते इत्यु-क्त्वेति । समानन्यायलब्धस्य बुद्धाविन्द्रियादिलयस्येन्द्रियाणीत्यनेन विस्तार एव क्रियते । अतो नेन्द्रियाणीति पौनरुक्त्यमिति भावः । एतेनेन्द्रियाणि मनसा सह वैकारिकबुद्धौ प्रविशन्ति । बुद्धिरहंकारे प्रविशतीति मूलं योज्यमित्युक्तं भवति । ननु ‘‘तस्मादहङ्कारतनुं स रुद्रं ससर्ज बुद्धिं च तदर्धदेहा’’मिति बुध्द्यहङ्कारयोरुभयोर्महत्तत्वाद्वाङ्नामकवाण्यां जातत्वोक्तेरहङ्कारे बुद्धेर्लयोक्तिरयुक्तेति चेत् । सत्यम् । महत्तत्वोत्पन्नस्यापि बुद्धेस्तैजसात्तु विकुर्वाणाद् बुद्धितत्वमभूत्सति । बुद्धिः प्राणश्च तैजस इति चोक्तेर्बुद्धितत्वस्योपचितरूपेण तैजसाहङ्कारजातत्वस्यापि भावेनाहङ्कारेऽपि लयस्योपपन्नत्वात् ।

नभ आत्मनि लीयत इत्यत्राकाशस्य परमात्मनि लय इति प्रतीतिवारणायाह ॥ आत्मनि बुद्धाविति ॥ आत्मन आकाशः सम्भूत इत्यस्याप्यहङ्कारबुद्धिद्वारा आकाशः सम्भूत इत्यर्थकत्वा-ददोष इति ज्ञेयम् । केचित्तु नभ आत्मनि लीयत इत्यत्रात्मनीत्यस्य परमात्मनीत्येवार्थमभिधाय तेनैवेन्द्रियादिलयोऽप्यर्थलब्ध इति पुनरुक्तिमांशङ्क्य तत्परिहारतया नभ इत्युक्त्वेति वाक्यमवतार्य उत्तरश्लोके स्वगुणैरहमात्मनीत्यस्यार्थ आत्मनि बुद्धावितीति तात्पर्यवाक्यमितीति वर्णयन्ति । स्वगुणैरहमात्मनीति मूलस्याहङ्कारः स्वकार्यैः स्वगतधर्मैः स्वात्मनि महत्तत्वाभिमानिनि विरिञ्चे प्रविशति । आत्मा विरिञ्चः सुमनाः सुधौतेत्युक्तेः । स च विरिञ्च आत्मनि व्याप्ते हरौ प्रविश-तीत्यर्थः । अत्र सर्वत्र तत्वानां लयस्तदभिमानिदेवानामुत्तरोत्तरदेवेषु देहलयेन प्रवेश इति ज्ञेयम्

॥ १५ ॥

एष माया भगवतः सर्गस्थित्यन्तकारिणी ।

त्रिवर्णा वर्णिताऽस्माभिः किं भूयः श्रोतुमिच्छसि ॥ १७ ॥

तात्पर्यम्

‘त्रिवर्णा वरणादुक्ता त्रिगुणानां हरेर्मतिः । गुणात्मकत्वात्प्रकृति-स्त्रिवर्णेति प्रकीर्त्यते । तत्र तु प्रकृतिस्तार्या तारिका तु हरेर्मतिः । उभयं विष्णुमायोक्तं ज्ञातव्यमुभयं तथे’ति च ॥ ‘बहूनां सहनिर्देश एकयाऽभिधयैव तु । तयैवाभिधया तेषां परामृश्यैकमुच्यते । तामेतामान्तरीं रीतिं विदुः शब्दविदो जना’ इति च ॥ १७ ॥

पदरत्नावली

उपसंहरति एषेति । भगवत एषा माया प्रकृष्टेच्छा तदधीना प्रकृतिश्चा-स्माभिर्वर्णिता । निमित्तोपादानत्वविवक्षयेति शेषः । कीदृशी । त्रिवर्णा त्रयाणां गुणानां वर्णो वरणं यया हरेर्मत्या सृष्ट्यादौ सा तथा, सत्वादित्रिगुणानां वर्णो लेपः स्वरूपत्वेन सम्बन्धो यस्याः सा तथा प्रकृतिः । तदुक्तम् – ‘‘त्रिवर्णा वरणादुक्ता त्रिगुणानां हरेर्मतिः । गुणात्मकत्वात् प्रकृति-स्त्रिवर्णेति प्रकीर्त्यते । तत्र तु प्रकृतिस्तार्या तारका तु हरेर्मतिः । उभयं विष्णुमायोक्तं ज्ञातव्यमुभयं तथा’’ इति । बहूनां प्रस्तुतत्वादेषेत्यत्र किं परामृश्यत इति सन्देहपरिहारः कथमिति चेन्न । ‘‘बहूनां सह निर्देश एकयाऽभिधयैव तु । तयैवाभिधया तेषां परामृश्यैकमुच्यते’’ इति तदुपपत्तेः

॥ १७ ॥

श्रीनिवासतीर्थीया

यथैतामैश्वरीं मायामित्युत्तरश्लोके तरन्तीति मायायास्तार्यत्वमुच्यते । तत्र तार्या प्रकृतिः केत्यतस्तात्पर्यमाह ॥ तत्र त्विति । विष्णुमायोक्तं विष्णुमायाशब्दोक्तम् । तथा तच्छब्दवाच्यत्वेन ॥ १७ ॥

प्रमेयचन्द्रिका

अन्तरिक्षेण मुनिना स्वोक्तार्थोपसंहारः क्रियते । एषेति । अत्र भगव-दिच्छाख्यमायायास्तदधीनजडप्रकृत्याख्यमायायाश्च त्रिवर्णत्वमुपपादयति ॥ त्रिवर्णेति । त्रयाणां गुणावरणा त्रिवर्णेत्यर्थः । गुणात्मकत्वादिति । लोहितशुक्लकृष्णवर्णरजःसत्वतमोलक्षणगुणात्मकत्वा-दित्यर्थः । यद्वा वर्णशब्दः स्वरूपपरः । त्रिगुणस्वरूपत्वात् त्रिवर्णेत्यर्थः । ननु मायां वेदितुमिच्छाम इत्युपक्रमवाक्ये भगवन्मतिजडप्रकृत्योरुभयोरवश्यं ज्ञेयत्वे सिद्धे तदुत्तरग्रन्थस्य द्विविधमायापरत्वं युज्यते । तत्रोभयविधमायाया अवश्यं ज्ञेयत्वमेव कुत इत्यत आह ॥ तत्रेति ॥ तार्या अधिकारि-णोत्तार्या । उत्तार्योत्तारकयोर्ज्ञाने सत्येव तत्तरणसम्भवादिति भावः । यथैतामैश्वरीमित्युद्धवप्रश्नवाक्ये प्रकृतमायायास्तार्यत्वमुच्यते । तत्र भगवन्मतिप्रकृतिरूपमायाद्वयस्य प्रकृतत्वादुभयोरपि तार्यत्वं भाति । तदयुक्तम् । भगवन्मतेः सर्वथा तार्यत्वासम्भवादित्यत आह । बहूनामिति । बहूनां पृथग्विधाना-मर्थानां सह एकवारोक्तयैव निर्देशे प्रतिपादनेऽपि तयैवाभिधया तेषामर्थानां मध्ये एकार्थं परामृश्य तस्य धर्मान्तरमुच्यत इत्यर्थः । न चैतदलौकिकमिति वाच्यमित्याह । तामेतामिति । आन्तरीं रहस्यां सूक्ष्मां रीतिमित्यर्थः । अत एवोक्तं शब्दतत्वविद इति ॥ १७ ॥

राजोवाच—

यथैतामैश्वरीं मायां दुस्तरामकृतात्मभिः ।

तरन्त्यञ्जः स्थूलधियो महर्ष इदमुच्यताम् ॥ १८ ॥

पदरत्नावली

श्रुतमायाविभवो राजा मायाशब्दवाच्यबन्धकशक्तिजयोपायं पृच्छति यथेति । ईश्वरस्येयमैश्वरी तां मायां बन्धकशक्तिमञ्जस् तरसा तरन्ति एनं जीवं न संसारयामीत्यनुग्रहोन्मुखी कारयन्ति अन्यस्य नितरां लङ्घनमेव कुर्वन्तीत्यर्थः ॥ १८ ॥

दुर्घटभावदीपिका

हे महर्षयः स्थूलधियोऽकृतात्मभिरशिक्षितबुद्धिभिर्दुस्तरामैश्वरीमेतां यथा यादृशेन साधनेनांजस्तरन्तीति तादृशमिदं प्रमाणप्रमितं साधनं भवद्भिरुच्यतामिति । एतेनेदमित्येतद-नन्वितमिति दूषणं निरस्तम् । तादृशमित्यस्य शेषेणान्वयस्योक्तत्वात् ॥ १८ ॥

प्रमेयचन्द्रिका

तथा प्रकृते भगवन्मतिप्रकृत्योरुभयोर्युगपन्मायाशब्दार्थतया प्रसक्तत्वेऽप्युद्धवेन प्रकृतिमात्रं परामृश्य तत्तरणोपायः पृच्छ्यत इति भावः । यथा येन साधनेन तरन्ति तदिदमुच्यतामिति मूलार्थः ॥ १८ ॥

प्रबुद्ध उवाच—

कर्माण्यारभमाणानां दुःखहत्यै सुखाय च ।

पश्येत् पाकविपर्यासं मिथुनीचारिणां नृणाम् ॥ १९ ॥

नित्यार्तिदेन वित्तेन दुर्लभभेनात्ममृत्युना ।

गृहापत्याप्तपशुभिः का प्रीतिः साधितैश्चलैः ॥ २० ॥

एवं लोकं परं विद्यान्नश्वरं कर्मनिर्मितम् ।

अतुल्यातिशयध्वंसाद् यथा मण्डलवर्तिनाम् ॥ २१ ॥

तस्माद् गुरुं प्रपद्येत जिज्ञासुः श्रेय उत्तमम् ।

शा(श)ब्दे परे च निष्णातं ब्रह्मण्युपशमाश्रयम् ॥ २२ ॥

तत्र भागवतान् धर्मान् शिक्षेद् गुर्वात्मदैवतः ।

अमाययाऽनुवृत्त्या च तुष्येदात्माऽऽत्मदो हरिः ॥ २३ ॥

तात्पर्यम्

मण्डलवर्तिनः युद्धरङ्गस्थाः ॥ देवाः सजाया मुच्यन्ते मानुषा उभयात्मकाः । विजाया एव योगेशा तेषां या यैव योग्यता । तथा तथैव मुच्यन्ते नान्यथा तु कथञ्चने’ति संदृश्ये ॥

पदरत्नावली

मायासन्तरणेच्छोः प्रथमसाधनं विरक्तिरिति ज्ञापयन् प्रबुद्धः प्रश्नं प्ररिहर्तु-मुपक्रमते कर्माणीति । पाकविपर्यासो नाम कर्मफलवैपरीत्यम् । दुःखानिवृत्तिं सुखानवाप्तिं च । मिथुनीचारिणां स्त्रीपुंसाम् ॥ वित्तादिसमृद्ध्या सुखोन्नतिः स्यादित्यत्राह– नित्येति ॥ अनित्य-फलत्वात् स्वर्गादयो हेया इत्याह– एवमिति । अतुल्यातिशयैर्देवैर् ध्वंसादधःपातनात् । मण्डलवर्तिना युद्धरङ्गे वर्तमानानां यथा प्रध्वंसः ॥ इहामुत्र विरक्तेन पुरुषेन किं कार्यम् । अत्राह– तस्मादिति ॥ गुरुकुले किमनुष्ठेयमत्राह– तत्रेति । गुरुश्च आत्मा च दैवतं च यस्य स तथा । आत्मा विष्णुः । मिथुनीचारिणामित्यनेनामिथुनानामेव श्रेयो मोक्षो न मिथुनानामित्याक्षेपः ‘‘देवाः सजाया मुच्यन्ते मानुषा उभयात्मकाः । विजाया एव योगेशास्तेषां या यैव योग्यता । तथा तथैव मुच्यन्ते नान्यथा तु कथञ्चन’’ इति वचनेन परिहृत इति । हरिगुरुप्रसादसाधनमाह अमाययेति ॥ १९–२३ ॥

श्रीनिवासतीर्थीया

मूले स्त्रीपुंभावेन चरणरूपमिथुनीचरणस्य निषिद्धत्वं प्रतीयते तत्तथैव न मन्तव्यम् । मिथुनीचारिणामपि मोक्षोक्तेरतोऽयोग्यदुष्टस्त्रीपुंविषयमित्याशयेनाह ॥ देवा इत्यादि । मानुषा उभयात्मकाः । सजाया विजायाश्च । एषां योग्यता या या यादृशी यादृशी वर्तते तथा तेन तेन प्रकारेण मुच्यन्त इत्यर्थः । मनुष्योत्तमाः स्वरूपेण गृहस्थाश्रमचतुष्टयोपेता अपि सन्ति । तत्र ये गृहस्था वानप्रस्थाश्च ते सजाया मुच्यन्ते । ब्रह्मचारिणो यतयश्च विजाया मुच्यन्त इत्यर्थः । योगेशाः सनकाद्या या या यथा यथा ॥ मूले वित्तेन साधितैः संपादितैर्गृहादिभिरित्यन्वयः ॥ मूले एवमित्यस्येहलोकवदित्यर्थः । मूले अतुल्यातिशयशब्दोऽसदृशसामर्थ्योपेतत्वयोगेन नियम्यवर्गे समाभ्यधिकशून्यत्वयोगेन वा देवतावाची । मूले तस्मादित्यस्य मोक्षेतरपुरुषार्थस्य नश्वरत्वादित्यर्थः ॥ मूले उपशमाश्रयमित्येतद्भगवन्निष्ठबुद्धेराश्रयं तद्वन्तमित्यर्थकं तद्गुरुविशेषणम् ॥ मूले गुरौ विद्यमानम् आत्मनः स्वस्य दैवतं तत्ज्ञानं यस्य । अगम्यत्वाद्धरिस्तस्मिन्नाविष्टो मुक्तिदो भवेदित्यनुसन्धानवान् । अमाययाऽनुवृत्त्या सेवया धर्मान् शिक्षेत् । गुरोः सकाशाच्छिक्षां प्राप्नुयादित्यर्थः ॥ १९–२३ ॥

दुर्घटभावदीपिका

मिथुनीचारिणामित्यस्य मिथुनीभूय चारिणामित्यर्थः । एतेन मिथुनीभूय चारिणामिति वक्तव्यम् । मिथुनीचारिणामिति कथनमयुक्तमिति दूषणं परास्तम् । मिथुनीत्यतः परं समस्तस्य भूयेत्यस्य शेषेण मिथुनीभूयचारिणामित्यर्थस्योक्तत्वात् ॥ १९ ॥

प्रमेयचन्द्रिका

वैराग्यमादौ साधनमित्युच्यते । कर्माणीति । पाकविपर्यासं पाकस्य फलपर्यवसानस्य विपर्यासं वैपरीत्यं दुःखप्राप्तिं सुखनाशं चेत्यर्थः ॥ अत्र मण्डलवर्तिनामित्यस्य भूमण्डलवर्तिनामित्यर्थस्य प्रकृतानुपयोगादाह ॥ मण्डलवर्तिन इति । तथा च मण्डलं युद्धरङ्गः । तत्र वर्तमानानां योद्धॄणाम् अतुल्यसेचनाद्यतिशयवद्भिः प्रबलैर्ध्वंसो यथा तथा अतुल्यातिशयैर्देवैः कर्मसाध्यपरलोकस्य ध्वंसात्तन्नश्वरं विद्यादिति मूलार्थः ॥ ननु मिथुनीचारिणां पाकविपर्यासमिति सजायानामनर्थो भवतीत्युक्तम् । तदयुक्तम् । देवादीनां सभार्याणामेव मोक्षस्य प्रमितत्वादित्यत आह । देवाः सजाया इति । उभयात्मका इति । केचित्सभार्याः केचिद्विजाया इत्यर्थः । तेषामधिकारिणां या या यद्यत्प्रकारकप्रकृतिर्योग्यता । तथा तथैवेत्यर्थः । तथा च मिथुनीचारिणामित्येतद्योगेशादिविषयमिति भावः । मूले शब्दे पर इति शब्दे ब्रह्मणि वेदे परे ब्रह्मणि हरौ च निष्णातं निरतम् । उपशमाश्रयम् । शमः प्रियादिबुध्द्युक्त इत्युक्तेः । विषयेषु प्रियत्वादिबुध्यभाव उपशमस्तदाश्रयम् ॥ गुर्वात्मदैवतः । गुर्वधिष्टाने आत्मनः दैवतं परब्रह्म यस्य स इत्यर्थः । अमायया इच्छारहितया । गुर्वनुवृत्या शिक्षितैर्यैर्भागवतैर्धर्मैरित्यर्थः ॥ १९–२३ ॥

सर्वतो मनसोऽसङ्गमादौ सङ्गं च साधुषु ।

दयां मैत्रीं प्रश्रयं च भूतेष्वद्धा यथोचितम् ॥ २४ ॥

तात्पर्यम्

सन्तस्तु त्रिविधाः प्रोक्ता उत्तमा मध्यमाधमाः । उत्तमा देवतास्तत्र ऋष्याद्या मध्यमा मताः । अधमा मानुषोत्कृष्टास्ते चापि त्रिविधा मताः । तत्राधमेषु येषां तु सङ्गो विघ्नाय वै भवेत् । तेषामुत्तमसङ्गस्य तेषां सङ्गं परित्यजेत् । आदौ तु तेषामपि च सङ्ग उत्तमसङ्गतेः । साधनत्वान्नतु त्याज्यो यदि त्यक्तुं न शक्यते । तदा ते तथा नेया यथा विघ्नो न वै भवेत् ॥ तदुच्चसङ्गतेः क्वापि तदा दोषो न जायते । प्रयोजनाय तेषां तु सङ्गः सर्वात्मनेष्यते । सर्वथा चैव देवेषु सङ्गो मुनिगणेषु च । भाव्यो हि तं विना नैव पुरुषार्थः क्वचिद्भवेत् । विशेषतः स्वोत्तमेषु विना सङ्गं न मुच्यते । स्वनीचेषु तु देवेषु विना सङ्गं न पूर्यते । तस्मात्सत्सूत्तमेष्वेषु सङ्गः कार्यो विशेषतः । अनाद्यनन्तकालेषु न च हाप्यः कथञ्चन । सतां तदुत्तमेशेशे किमु विष्णौ परात्पर’ इति गारुडे ॥ ‘‘बह्वपेक्षो हि जिज्ञासुरतो देहादिवृत्तये । किञ्चित्सत्स्वपि सङ्गी स्यादशक्ये सति वर्तने । कृतकृत्यस्त्यजेत्सङ्गं सदा गुरुसुरादिषु । सङ्गी स्यान्न हि तत्सङ्गं विना तु सुखभाग्भवेत् । तस्मादनाद्यनन्तैव सक्तिर्गुरुसुरादिषु । अन्यत्र कृत्यापेक्षा स्यादिति सङ्गविनिर्णय’ इति भविष्यत्पर्वणि ॥ २४ ॥

पदरत्नावली

भागवतान् धर्मानाह– सर्वत इति । शिक्षेदित्यनुवर्तते । साधव एकविधा उत बहुविधा येषु सङ्गः कर्तव्य इति विधीयत इत्यस्यानेकविधा इत्युत्तरम् । तर्हि कतिविधा इत्यस्य त्रिविधा इति । तत्रापि विशेषो बहुलः । स एष ग्रन्थान्तरे विस्तृतः । ‘‘सन्तस्तु त्रिविधाः प्रोक्ता उत्तमा मध्यमाधमाः । उत्तमा देवतास्तत्र ऋष्याद्या मध्यमा मताः । अधमा मानुषोत्कृष्टास्ते चापि त्रिविधा मताः । तत्राधमेषु येषां तु सङ्गो विघ्नाय वैभवेत् । तेषामुत्तमसङ्गस्य तेषां सङ्गं परित्यजेत् । आदौ तु तेषामपि च सङ्ग उत्तमसङ्गतेः । साधनत्वान्न तु त्याज्यो यदि त्यक्तुं न शक्यते । तदा तेऽपि तथा नेया यथा विघ्नो नवै भवेत् । तदुच्चसङ्गतेः क्वापि तदा दोषो न जायते । प्रयोजनाय तेषां तु सङ्गः सर्वात्मनेष्यते । सर्वथा चैव देवेषु सङ्गो मुनिगणेषु च । भाव्यो हि तं विना नैव पुरुषार्थः क्वचिद् भवेत् । विशेषतः स्वोत्तममेषु विना सङ्गं न मुच्यते । स्वनीचेषु तु देवेषु विना सङ्गं न पूर्यते । तस्माद् सत्सूत्तमेष्वेषु सङ्गः कार्यो विशेषतः । अनाद्यनन्तकालेषु न च हाप्यः कथञ्चन । सतां सदुत्तमेशेशे किमु विष्णौ परायणे’’ इति । किञ्च ज्ञानोत्पात्तावन्तरङ्गं सत्सेवैव यामन्तरेण विवक्षितार्थज्ञानसिद्धिर्न स्यात् । अतो दुर्बलेनापि सा कार्या । तदुक्तम्– ‘‘बह्वपेक्षो हि जिज्ञासुरतो देहादिवृत्तये । किञ्चित्सत्स्वपि सङ्गी स्यादशक्ये सति वर्तने । कृतकृत्यस्त्यजेत् सङ्गं सदा गुरुसुरादिषु । सङ्गी स्यान्नहि तत्सङ्गं विना तु सुखभाग् भवेत् । तस्मादनाद्यनन्तैव भक्तिर्गुरुसुरादिषु । अन्यत्र कृत्यापेक्षा स्यादिति सङ्गविनिर्णयः’’ इति ॥२४॥

श्रीनिवासतीर्थीया

मूले साधुषु सङ्गं शिक्षेदित्युक्तम् । तत्र साधुष्वित्युक्तबहुवचनाभिप्रायमाह ॥ सन्तस्त्वित्यादिना । ते मानुषोत्कृष्टास्त्रिविधा मताः । चतुर्गुणोपासका मनुष्योत्तमोत्तमाः । द्वित्रिगुणोपासका मनुष्योत्तमेषु मध्यमाः । आत्मत्वमात्रोपासका मनुष्योत्तमेष्वधमा इति विवेको द्रष्टव्यः । श्रवणादि विना नैव क्षणं तिष्ठेदित्युक्तत्वेन मनुष्योत्तमेषूत्तमगुर्वलाभे मनुष्योत्तमेष्वधमगुरुं संपाद्यापि श्रवणं यदा करोति गुणे त्वन्यायकल्पनेति न्यायेन प्रधानलोपस्याकर्तव्यत्वात् । तदोत्तमगुरुप्राप्तौ कथमित्यत आह ॥ तत्रेत्यादिना । विघ्नायोत्तमगुरुसङ्गस्य । यदि विघ्नमाचरतीति यावत् ॥ साधनत्वादिति । मूर्खस्यादावेवोत्तमसमीपेऽध्ययनासम्भवादधमसमीपे आदावधीतं चेदुत्तमगुरुसमीपेऽध्ययनाधिकारः संपद्यत इत्यर्थः । उपसंहरति ॥ प्रयोजनायेति । तस्मादिति शेषः । तेषामधममानुषोत्कृष्टानां सङ्गः । प्रयोजनायोक्तरीत्योत्तमसङ्गतिरूपप्रयोजनाय सर्वात्मनेष्यत इत्यर्थः । ननु देवादिरूपोत्तमसङ्गस्य मानुषोत्कृष्टोत्तमसङ्गसाम्यं किं ? नेत्याह ॥ सर्वथेति । सर्वथाभाव्यत्वमेवोपपादयति ॥ तं विनैवेति । देवतेतरेषां स्थितिमुक्त्वा देवानां विशेषमाह ॥ विशेषत इति । देवेषु तत्त्वाभिमानिषु मध्ये इन्द्रादिर्देवः स्वोत्तमेषु ब्रह्मादिषु सङ्गं विना सङ्गाभावे तदनुग्रहाभावेन ज्ञानाभावप्राप्त्या न मुच्यते लिङ्गभङ्गरूपमोक्षवान्न भवति । स्वापेक्षया नीचेषु सर्वेष्वपि सङ्गं विना न पूर्यते यावदानन्दपूर्णो न भवति ॥

अयं भावः ॥ योग्यायोग्यसर्वप्राणिनियमनादिकं भगवदाज्ञया कुर्वद्भिराधिकारिकैर्देवैर्महत्पुण्य-मवाप्यते । हर्याज्ञाकरणादेव पुण्यमेभिरवाप्यत इत्युक्तेः । अपरोक्षज्ञानोत्तरकालं कृतकर्मणां चानन्दपूर्तिरेव फलमिति प्रसिद्धम् । अतः स्वनीचेष्वेतान्पुण्यपापादौ प्रेरयिष्यामः । एते च मत्प्रेर्या इत्येवंरूपासक्त्यभावे तत्प्रेरणाकरणे योग्यानन्दपूर्तिनैव भवतीति । एवमुक्तप्रमेयमुक्त्वेदानीमादौ सङ्गं च साधुष्विति मूलाभिप्रायमाह ॥ तस्मादिति । साधुष्विति मूलोक्तपदप्रतीकग्रहणम् ॥ सत्स्विति । तद्व्याख्याति ॥ उत्तमेष्विति । अधिकारिणां स्वापेक्षयोत्तमेषु सङ्गः कार्यः । एषु देवादिषु च विशेषतः सङ्गः कार्यः । न तु स्वापेक्षयाऽधमेष्वित्यर्थः । सतां सद्भिर्न च हाप्य इत्यन्वयः । ननु तस्मात्सत्स्वित्यनेन स्वापेक्षयाऽधमेषु सङ्गो न कार्य इत्युक्तम् । तत्र विशेषमाह ॥ बह्विति । देहादिवृत्तयेऽन्नवस्त्रादिबहुपदार्थापेक्षावान् यतोऽतो देहादिवर्तनेऽशक्ये सति । देहादिवृत्तये किञ्चित्सत्सु स्वापेक्षयाऽधमसत्स्वपि सङ्गी स्यादिति योज्यम् । कृतकृत्यः संपादितदेहादिवर्तनोपयुक्त-द्रव्यादिप्रयोजनवान् । नन्वनेनैव न्यायेन स्वोत्तमात्ज्ञानादिरूपकृत्यलाभे तत्त्यागोऽपि किं कर्तव्यः? नेत्याह ॥ सदेति । कृतकृत्योऽपीत्यनुवर्तते । कुत इत्यत आह ॥ न हीति । सत्सुखं मौक्ति-कम् । अन्यत्र स्वाधमेषु । कृत्यापेक्षासक्तिरिति वर्तते । मूले भूतेष्वित्यस्य स्वाधमेषु सत्सु स्वसमेषु सत्सु स्वोत्तमेषु सत्स्वित्यर्थः ॥ २४ ॥

प्रमेयचन्द्रिका

भागवतधर्मा उच्यन्ते ॥ सर्वतो मनसोऽसङ्गमित्यादिना ॥ अत्रादाविति विशेषणबलात्पश्चात्साधुसङ्गं परित्यजेदिति भाति । तदयुक्तम् । सत्सङ्गः शेवधिर्नृणामित्या-द्युक्तेरित्यतस्तदभिप्रायव्यवस्थां प्रमाणेन दर्शयति ॥ सन्तस्त्वित्यादिना । ऋष्याद्या इत्यादिपदेन पितृगन्धर्वादीनां ग्रहणम् । ते च मानुषोत्तमा अपि उत्तममध्यमाधमभेदेन त्रिविधा इत्यर्थः । चशब्द एवार्थे । तत्राधमेष्विति तत्र साधुषु मध्ये अधमेषु त्रिविधमनुष्येष्वपि येषामधमानां सङ्गस्तेषामुत्तम-सङ्गस्य विघ्नाय वै यदि भवेत् । अव्ययानामनेकार्थत्वात् । तर्हि तेषामधमानां सङ्गं परित्यजेदित्यर्थः । ननु वृथा लवणं जग्ध्वा पनीयान्वेषणवदिदमापन्नम् । आदावधमसङ्गं संपाद्य पश्चात्तत्याग इति । आदावेव तदुत्तमसङ्गस्य युक्तत्वादित्यत आह ॥ आदौ त्विति ॥ ननु यद्युत्तमसङ्गसाधनत्वे-नादावधमसङ्गः क्रियते । तर्हि तत्सङ्गस्य पश्चात्त्यक्तुमशक्यत्वेन कथं कार्यमित्यत आह ॥ यदीति ॥ तर्हि तदुच्चसङ्गतेर्विघ्नाय क्वापि यथा न भवेत्तथा ते प्राक् सङ्गता अधमा अपि नेया अनुकूलनीया एव । तदा एवंकरणे उत्तमसङ्गत्यागे वैदिकलाभसम्भवादधमसङ्गतिनिमित्तको वैदिकहानिरूपो दोषः क्वापि न जायत इत्यर्थः ।

नन्वेवं सर्वप्रयत्नेनोत्तमसङ्गस्य संपादनीयत्वं कुत इत्यत आह ॥ प्रयोजनायेति ॥ सत्कर्मज्ञान-भक्त्याद्यतिशयलाभारूपप्रयोजनाय तेषामुत्तमानां सङ्गः सर्वात्मना स्वीक्रियते । अथवा आदावधमसङ्गस्य संपाद्यत्वमेव कुत इत्यत उत्तमसङ्गसाधनत्वादित्युक्तं विवृणोति ॥ प्रयोजनायेति ॥ अन्नपानादिना देहधारणे सत्येवोत्तमसङ्गत्या भगवदाराधनं लभ्यते । तच्च कलत्रापत्यमित्रपश्वादि-सङ्गत्यैव भवत्यतो देहधारणप्रयोजनायाधमसङ्गोऽपेक्षित इति भावः । त्रिविधमनुष्योत्तमविषये व्यवस्थैवमुक्ता, नेयं व्यवस्था देवर्ष्यादिरूपोत्तमध्यमविषय इति भावेन तदुपपादयति ॥ सर्वथेति ॥ हीत्यत्र प्रमाणप्रसिद्धिं द्योतयति । सर्वथेत्यस्य विवरणम् ॥ तं विनेति ॥ देवर्षिषु मध्ये क्वचिदपि सङ्गस्य तदुत्तमसङ्गविरोधित्वं नास्ति । तेषां काममत्सरादिदोषवर्जितत्वात् । मनुष्यादीनां स्वयोग्यज्ञानादिपूर्तेर्नीचदेवतासङ्गतिमात्रेण सम्भवाच्चेति हिशब्दाभिप्रायः । स्वोत्तमसत्सङ्गः सर्वापेक्षितः । मोक्षो ज्ञानं च क्रमशो मुक्तिगो भोग एव च । उत्तरेषां प्रसादेन नीचानां नान्यथा भवेदित्याद्युक्ते-रित्याशयेनाह ॥ विशेषत इति ॥ अथवा देवर्ष्यादीनां स्वस्वापेक्षयोत्तमसङ्गमो आवश्यक इत्याह ॥ विशेषत इति ॥

तत्र देवानां स्वनीचसङ्गोऽप्यावश्यकः । तेषां सकलजगन्नियमनादावधिकृतत्वेन स्वाधमानां ज्ञानादिनियमनोपदेशादिना मुक्तावानन्दवृद्धेर्भावादित्याह ॥ स्वनीचेष्विति ॥ नीचेषूपदेशनियम-नाद्यर्थकसङ्गं विना देवेष्वानंदादिकं न पूर्यत इत्यर्थः । निगमयति ॥ तस्मादिति ॥ तथा च मनुष्योत्तमेषु स्वाधमसाधुसङ्गविषयमादौ सङ्गं च साधुष्विति वाक्यमिति नोक्तदोष इति भावः । आदावधमसङ्गस्य कर्तव्यतां पश्चात्याज्यतां च निमित्तकथनपूर्वकं प्रमाणेनोपपादयति ॥ बह्वपेक्ष इति ॥ हि यस्माज्जिज्ञासुरपक्वमनस्कत्वाद्बह्वपेक्षायुक्तस्तस्माद्देहादिवृध्यर्थं यत्किञ्चित्सुखं विहाय देहादिवर्तने अशक्ये सति देहादिवृत्तये किञ्चित्सत्स्वपि कलत्रापत्यधनिकादिषु सङ्गी स्यात् । तेषु वर्तने श्रवणादिसाधनसंपादनाय अशक्ये सति कृतकृत्यः किञ्चित्सङ्गतः । प्राप्तप्रयोजनः सत्संगं त्यजेत् । नैवं स्वोत्तमसङ्गो वर्जनीय इत्याह ॥ सदेति ॥ तत्कुत इत्यत आह ॥ न हीति ॥ गुरुसुराद्यनुग्रहं विना ज्ञानभक्त्यादेर्मोक्षस्य चानुदयादिति भावः । उपसंहरति ॥ तस्मादिति ॥ अन्यत्र गुर्वादेरन्यत्र । यावन्मात्रं देहधारणादिप्रयोजनं तावन्मात्रापेक्षा स्यादित्यर्थः ॥ मूले दयां मैत्रीमिति समेषु स्वात्मवत्स्नेहो मैत्री । सत्स्वन्यत्र स्वाधमेषु स्नेहो दया । प्रश्रयं विनयम् । स्वोत्तमादिषु । तदेतदुक्तम् ॥ यथोचितमिति ॥ शिक्षेदिति सर्वत्रान्वयः ॥ २४ ॥

शौचं तपस्तितिक्षां च मौनं स्वाध्यायमार्जवम् ।

ब्रह्मचर्यमहिंसां च समत्वं द्वन्द्वसंज्ञयोः ॥ २५ ॥

सर्वत्रात्मेश्वरान्वीक्षां कैवल्यमनिकेत१ताम् ।

विविक्तचीरवसनं सन्तोषं येन केनचित् ॥ २६ ॥

पदरत्नावली

सर्वत्र देशकालादिष्वात्मनः स्वामिन ईश्वरस्यान्वीक्षां माहात्म्यानुकूल-निरीक्षणम् । कैवल्यमेकान्तित्वं प्रकृतिप्राकृतादिमिश्रराहित्यं च । चीरवसनं वल्कलम् । सन्तोषमलम्बुद्धिम् ॥ २५–२६ ॥

श्रीनिवासतीर्थीया

आर्जवं सन्मार्गे मनोवाक्कायकर्मणामवैपरीत्यम् । अनिकेततां भगवदाश्रयत्वम् । विविक्तं विविक्तदेशसेवित्वमित्यर्थो द्रष्टव्यः ॥ २५,२६ ॥

दुर्घटभावदीपिका

विविक्तमित्यस्य शुद्धदेशमित्यर्थः । एतेन कैवल्यमेकान्तिकत्वं शिक्षयेदित्यनेन जनरहितदेशं शिक्षेदित्यर्थस्य प्राप्तत्वात् । विविक्तमित्येतत्पुनरुक्तमिति दूषणमपहृतम् । विविक्तमित्यस्य जनरहितदेशमित्यर्थ इत्यनङ्गीकारात् ॥ २६ ॥

प्रमेयचन्द्रिका

तितिक्षां महाविरोधकर्तुस्तत्सहनं तितिक्षणमित्यर्थः । द्वन्द्वसंज्ञयोर् विरुद्धतया द्वन्द्वनामवतोः सुखदुःखवतोः शीतोष्णयोरित्यादिकयोः प्राप्तयोरपि समचित्तत्वमित्यर्थः ॥ सर्वत्रेति ॥ सर्वपदार्थेष्वप्यात्मनां जीवानामीश्वरस्यान्वीक्षां सर्वेश्वरस्तत्तदाकारसंयुक्ततया सर्वत्र वर्तत इति ज्ञानमिति यावत् । कैवल्यमेकान्तित्वम् । अनिकेतनं भगवद्व्यतिरेकेणाश्रयाभावम् । स्वस्य गृहाद्यभावं वा । विविक्तं विविक्तदेशसेवित्वम् । येन केनचित्सन्तोषं यथा लब्धेनालंबुद्धिम् ॥ २५,२६ ॥

श्रद्धां भागवते शास्त्रेऽनिन्दामन्यत्र चापि हि ।

मनोवाक्काय१दण्डं च सत्यं शमदमावपि ॥ २७ ॥

तात्पर्यम्

श्रद्धा भागवते तन्त्रे वेदे भारतपञ्चमे । विष्णोरव्यवधानेन वक्ततृत्वा-त्सर्वथा भवेत् । कलाविद्यास्वनिन्दा च व्यवधानेन केशवे । प्रवेशाद्यतिभिः कार्या ह्यन्यथा नरकं व्रजेत् । श्रद्धाद्बाऽ(शृृदात्वा)(श्रन्नामा)स्तिक्यबुद्धिः स्यात्सा चैव द्विविधा मता । अत्रोक्तमस्तीत्येकाऽत्र ममात्रास्ति प्रयोजनम् । इत्यन्या तत्र पूर्वा तु यतेः कार्या कलास्वपि । द्वितीया न तु कर्तव्या पञ्चरात्रविरोधिषु । सदैव निन्दा सर्वैश्च ब्रह्मादि-स्थावरान्तकैः । सम्यक्वार्या तद्विना च तमो यान्ति विनिश्चयात् । कुर्वन्त्येव सुरास्तत्र तदन्येषां तमो भवेत् । पञ्चरात्रं च वेदाश्च मूलरामायणं तथा । पुराणं भागवतं चैव भारतं च न भिद्यते । एतेष्वपि यथा विष्णोराधिक्यप्रतिपादनम् । तद्भक्तानां च क्रमशः स एवार्थो न न चापरः । अन्यथा दृश्यमानं तु मोहायैव विनिर्दिशेत् । तस्मा-त्सर्वेषुशास्त्रेषु विष्णोराधिक्यमेवतु । क्रमेण च तदीयानां प्रतिपाद्यं न चापरमि’ति ब्रह्माण्डे । ‘अन्धन्तमः प्रविशन्ति येऽविद्यामुपासते । ततो भूय इव ते तमो य उ विद्याया रता’ इति च । ‘गृहिणोऽप्यल्पबोधस्य न कलासु प्रयोजनम् । आवर्तये-द्वेदतन्त्रं मुख्योक्तो हरिरत्र ही’ति हरिवंशेषु ॥ २७ ॥

पदरत्नावली

भागवतशास्त्रे वेदादितन्त्रे । तदुक्तम् – ‘‘श्रद्धा भागवते तन्त्रे वेदे भारतपञ्चमे । विष्णोरव्ययवधानेन वक्तृत्वात् सर्वतो भवेत्’’ इति । अन्यत्र ज्योतिःशास्त्रादिषु अनिन्दां निन्दाराहित्यम् । यतीनामिति शेषः । तदुक्तम् – ‘‘कलाविद्यास्वनिन्दा च व्यवधानेन केशवे । प्रवेशाद् यतिभिः कार्या अन्यथा निरयं व्रजेत्’’ इत्यादिना । श्रद् दधातीति श्रद्धा सर्वसाधारण-चेतनगुणः । श्रद्धा आस्तिक्यबुद्धिः, सा द्विविधा, अत्रोक्तमस्तीत्येका ममात्र प्रयोजनमस्तीत्यन्या । तत्र प्रथमा यतेरपि कलासु कार्या, न द्वितीया । प्रयोजनाभावात् । उभयमपि पञ्चरात्रादिशास्त्रेषु कार्यम् । तद्विरोधिषु शास्त्रेषु सर्वैरविशेषेण सदा निन्दा कार्या । तदभावे तम एव परायणम् । अतः सुरा एव तन्निन्दनं कुर्वन्ति । सदा विज्ञाततात्पर्यार्थत्वात् । तदुक्तं – ‘‘श्रद्धात्वास्तिक्यबुद्धिः स्यात्’’ इत्यादि ‘‘प्रतिपाद्यं न चापरम्’’ इत्यन्तेन । किञ्च भगवच्छास्त्रविरोधिशास्त्राभ्यासेन अन्धन्तमोऽपि श्रूयते अन्धन्तमः प्रविशन्तीत्यादिश्रुतौ । न केवलं यतेः कलाभ्यः प्रयोजनाभावः किञ्चाल्पज्ञस्य गृहिणोपीतीममर्थं हिशब्देन ध्वनयति गृहिणोप्यल्पमेधस्येत्यादिवाक्यात् ॥ २७ ॥

श्रीनिवासतीर्थीया

भागवते शास्त्रे श्रद्धां शिक्षेदित्युक्तम् । तत्र श्रद्धा नाम केत्यत आह ॥ श्रद्धाह्वेति । श्रद्धेत्याहूयत इति श्रद्धाह्वा । श्रद्धाशब्दवाच्येत्यर्थः । तत्र पूर्वा त्वित्यनेनान्यत्र ज्योतिःशास्त्रादिरूपकलाविद्यासु श्रद्धामित्यपि योजना सूचिता । अन्यत्रानिन्दामिति पदविभागेन व्याख्यायान्यत्र निन्दामित्यपि पदविभागमङ्गीकृत्य व्याचष्टे ॥ पञ्चरात्रेति । ननु स्थावराणां कथं निन्दाकर्तृत्वमिति चेन्न । कल्पतरुप्रभृतीनामत्र स्थावरशब्दग्रहणात् । तमो निरयादि । ननु यदि ब्रह्मादिदेवैः कदाचिन्निंदा न क्रियते तदा तेषामपि तमः स्यात् । अस्त्विति चेन्न । देवानां निरयो नास्ति तमश्चापि कथंचनेत्युक्तिविरोधादिति चेत्तत्राह ॥ सुरा निन्दां कुर्वन्त्येवेति । तत्र पञ्चरात्रविरोधिषु । ननु पञ्चरात्रविरोधिषु निन्दा कार्येत्युक्तम् । तत्र यदि पञ्चरात्रविरोधो वेदादीनां स्यात्तदा तत्रापि निन्दा कार्येति प्रतीतिवारणायाह ॥ पञ्चरात्रं चेति । न भिद्यते नैव विरुद्व्यते । एकार्थप्रतिपादकत्वादित्यर्थः । भेदशब्दस्य विरुद्धार्थताया मित्रभेद इत्यादौ दर्शनादिति ध्येयम् । एतेषु ग्रन्थेषु विष्णोराधिक्यप्रतिपादनं तद्भक्तानां च क्रमश आधिक्यप्रतिपादनं यत्कृतं तद्यथा यथावद्यथार्थमेव यस्मात्तस्मात्स एवार्थ इति योज्यम् । उपसंहरति ॥ तस्मादिति । तदीयानामा-धिक्यमिति वर्तते । भगवच्छास्त्रविरोधिशास्त्रे निन्दा कार्येत्यत्र श्रुतिं चाह ॥ अन्धन्तम इति । तत्र पूर्वा तु यतेः कार्येत्युक्त्या विशेषविधिः शेषनिषेधं गमयतीति न्यायेन पूर्वा गृहस्थेन न कार्येति प्राप्तम् । तथा यतेर्द्वितीया न कर्तव्येत्युक्त्या गृहस्थेन सा कर्तव्येति प्राप्नोतीत्यत आह ॥ गृहिणोऽ-पीति । तथा च यतिवद्द्वितीया न तु कर्तव्या पूर्वा तु कार्यैवेत्यर्थः । प्रयोजनाभावेऽल्पबोधस्येति हेतुः । अनेन बहुबोधस्य विद्वद्व्यवहारगोचरत्वादिरूपप्रयोजनसद्भावेन तदभ्यासमभ्युपैति । अल्पबोधेन द्वितीया श्रद्धा कुत्र कार्येत्यत आह ॥ आवर्तयेदिति । ममात्रास्ति प्रयोजनमिति बुद्ध्येति शेषः । वेदतन्त्रमिति द्वन्द्वैकवद्भावः । तत्र पञ्चरात्रं कुत इत्यत आह ॥ मुख्योक्त इति । हि यस्मादत्र वेदतन्त्रे हरिरेव मुख्यतया प्राधान्येनोक्तस्तस्मात्तमेवावर्तयेदित्यर्थः ॥ २७ ॥

प्रमेयचन्द्रिका

अत्र भागवतेशास्त्रे भारतादिग्रन्थे श्रद्धाम् । अन्यत्र वेदे अनिन्दामिति । भागवतेशास्त्रे वेदभारतादौ श्रद्धामन्यत्र बौद्धपाशुपतादिसमयान्तरे अनिन्दामिति वा प्रतीतेस्तां वारयन् श्रद्धास्वरूपविवरणपूर्वकम् अधिकारिविशेषनिष्ठतया व्यवस्थां दर्शयति ॥ श्रद्धा भागवते तन्त्र इत्यादिना ॥ भागवते तन्त्र इत्यस्य विवरणम् ॥ वेदे भारतपञ्चम इति ॥ उपलक्षणतया पञ्चरात्रादिकं ग्राह्यम् । यद्वा भागवते भगवत्सम्बन्धिनि तन्त्रे पञ्चरात्रादिग्रन्थजाते । भारतस्य सर्वोत्तमशास्त्रत्वज्ञापनाय पृथग्ग्रहणम् । वेद इत्येकवचनमर्थैक्यविवक्षया । अत्र सर्वत्र श्रद्धा कार्या भवेत् । तत्र हेतुरव्यवधानेन साक्षादेव वाक्यमर्यादयैव विष्णोर्माहात्म्यस्य वक्तृत्वात् प्रतिपाद-कत्वादिति । अनिन्दाविषयं दर्शयति ॥ कलाविद्यास्विति ॥ गन्धर्वस्त्रीलक्षणादिविद्यासु व्यवधानेन रागगानादिरीतिप्रदर्शनद्वारा अन्ततःपर्यवसानरूपव्यवधानेन केशवे प्रवेशात्केशवविषयकत्वात्केवल-मनिन्दैव कार्या । न तु भारतादाविव श्रद्धा । अन्यथा निन्दने अतिश्रद्धायां च नरकं व्रजेदित्यर्थः। तर्हि कलाविद्यास्वपीषच्छ्रद्धा कार्येति प्राप्तम् । तत्कथमित्यतः श्रद्धास्वरूपं तद्विभागं च दर्शयन्नाह ॥ श्रन्नामेति ॥ अत्र विद्यायामुक्तं प्रमेयमस्ति । यथार्थमेवेत्येके । एतद्विद्योक्तप्रमेयाधिगत्या मम प्रयोजनमस्तीत्येवंप्रकारिका अन्येत्यर्थः । यतेरकलास्वपि पूर्वा कार्या । गान्धर्वकोकादिकलाविद्यानां प्रामाणिकत्वाद्यथावस्तु तथा ज्ञानस्यावश्यकत्वादिति भावः । द्वितीया ममात्र प्रयोजनमस्तीति द्वितीया नैव कर्तव्या । रागभेदगानप्रकारस्त्रीसङ्गादिप्रकारविशेषादिज्ञानेन यतेः प्रयोजनाभावात्तेन भगवन्माहात्म्य-पर्यवसानस्यासर्वज्ञैर्ज्ञातुमशक्यत्वाच्चेति भावः । कुत एवं कल्प्यते । अनिन्देत्यस्य पाशुपतादिनिन्दापि कार्येत्यर्थः किं न स्यादित्यत आह ॥ पञ्चरात्रेति ॥ पाषण्डादिष्वित्यर्थः । अत्र वेदपञ्चरात्रयो-रैक्याभिप्रायेण पञ्चरात्रग्रहणम् । मुक्तियोग्यानामपि तदनिन्दनसम्भवात्तमो यान्तीति कथमित्यत आह ॥ कुर्वन्त्येवेति ॥ सुरा मुक्तियोग्या नियमेन तन्निन्दां कुर्वन्ति । नित्यसंसारिणो न तन्निन्दां कुर्वन्ति । किंतूपेक्षका इति ग्राह्यम् । तथा ये तदनिन्दकास्तेषां तमोयोग्यानां तमो भवेदित्यर्थः ।

ननु कुत एवं कल्प्यते । भगवतः शास्त्रे पञ्चरात्रादौ श्रद्धाम् अन्यत्र वेदादावनिन्दामित्यर्थः किं न स्यादित्यत आह ॥ पञ्चरात्रमिति ॥ ननु पञ्चरात्रवेदादिषु कथं श्रद्धा कार्या । तत्र क्वचिद्धरहिरण्यगर्भादेराधिक्यप्रतिपादनात् । देवतातारतम्यव्यत्ययस्यापि दर्शनादित्यत आह ॥ एतेष्विति ॥ एतेषु विष्णोराधिक्यप्रतिपादनं यथा लभ्यते तद्भक्तानां ब्रह्मादीनां क्रमेणाधिक्य-प्रतिपादनं यथा लभ्यते स एवार्थस्तथैवार्थो ग्राह्यः ॥ अपरस्तद्विरुद्धो अर्थो न ग्राह्यः । तत्र शिवादीनामप्युत्तमताप्रतिपादनदर्शनात्कथं श्रुत्याद्युक्तार्थत्याग इत्याह ॥ अन्यथेति ॥ मोहायैव मोहार्थमेवेति विनिर्दिशेत् प्रतिपादयेत् । न च वैष्णवेषु तथा तच्चैष मोह इत्युक्तमिति भाष्ये स्पष्टमेतत् ।

उपसंहरति ॥ तस्मादिति ॥ अन्यविद्यास्वनिन्दामित्यत्र दुःशास्त्रनिन्दापि न कार्यैवेत्येवार्थः किं न स्यादित्यतस्तदनिन्दायास्तमः प्रापकत्वश्रवणादित्याशयेनात्र श्रुतिं पठति ॥ अन्धन्तम इति ॥ ये अविद्यामविद्याविषयभूतमर्थमुपासते ते अन्धंतमः प्रविशन्ति, ये विद्यां विद्यायामेव रताः । सम्यग्विद्यां ज्ञात्वाऽप्ययुक्ततां न मन्यमाना मिथ्याज्ञानाभिनिवेशेन तदनिन्दका इति यावत् । ततो भूय इति मिथ्याज्ञानिप्राप्यतमसो अधिकमेव तमो यान्ति मिथ्याज्ञानिमात्रात् सम्यग्विद्यां ज्ञात्वाऽपि तत्रास्वारस्यान्मिथ्याज्ञान एव दार्ढ्येन तदनिन्दकानामन्धन्तमो युक्तमिति भावः । तदुक्तं बृहद्भाष्ये । अप्राप्तत्यागिनः प्राप्तनिष्ठाहीनो अतिदुःखभागिति । कलाविद्याप्रवेशो यतिभिर्न कार्य इत्युक्तम् । तत्र गृहस्थैर्मनुष्योत्तमैस्तत्प्रवेश आवश्यकः किमित्यत आह ॥ गृहिणोऽपीति ॥ हरिप्रसाद एव मोक्षादिप्रयोजनहेतुः । प्रसादश्चोत्कर्षज्ञानसाध्यः । उत्कर्षज्ञानं च न कलाविद्यास्वल्पबोधानां भवति । किंतु वेदतन्त्रादिभ्य एव । तत्र हि माहात्म्यस्य मुख्यत उक्तत्वादिति भावः । मूले मनोवाक्कर्मदण्डं निग्रहम् ।

कर्मनिग्रहो विहितकर्माकरणम् । पापकर्मणि प्रसक्तप्रायश्चित्ताचरणं वा । कायदण्डमिति क्वचित्पाठः । अभगवद्विषयमनआदीन्द्रियप्रवृत्तिनिवारणमिति निष्कृष्टो अर्थः ॥ २७ ॥

श्रवणं कीर्तनं ध्यानं हरेरद्भुतकर्मणः ।

जन्मकर्मगुणानां च तदर्थेऽखिलचेष्टितम् ॥ २८ ॥

पदरत्नावली

हरेर्जन्मादीनां श्रवणम् । तदर्थे श्रवणार्थे अखिलचेष्टितमखिलव्यपारः । तदर्थे भक्तिजननार्थे हरेरखिलचेष्टितमिति वा ॥ २८ ॥

श्रीनिवासतीर्थीया

मूले हरेर्जन्मकर्मगुणानां श्रवणमित्यन्वयः । अखिलचेष्टितं, तदर्थे हरेराराधनार्थे । कर्मणा मनसा वाचा या चेष्टा मम नित्यशः । केशवाराधने सा स्याज्जन्मजन्मान्तरे-ष्वपीत्यनुसन्धानं शिक्षेदित्यर्थः ॥ २८ ॥

प्रमेयचन्द्रिका

अद्भुतकर्मणो हरेर् जन्मकर्मगुणानां श्रवणमित्यादि योजना । तदर्थे श्रवणाद्यर्थे अखिलचेष्टितं पर्यवसाययेत् । यद्वा अखिलचेष्टितं तदर्थे हरेरर्थे कुर्यात् ॥ २८ ॥

इष्टं दत्तं तपो जप्तं पूर्तं यच्चात्मनः प्रियम् ।

दारान् सुतान् गृहान् प्राणान् परस्मै सन्निवेदयेत् ॥ २९ ॥

पदरत्नावली

यदात्मनः प्रियं यद् देहादिकं च तत्सर्वं परमात्मने निवेदयेत् ॥ २९ ॥

प्रमेयचन्द्रिका

तद्विवरणं क्रियते ॥ इष्टमिति ॥ इष्टं यजनम् । पूर्तमन्नदानतटाकादि-निर्माणादिकम् । एतदन्यच्चात्मनः प्रियम् । देहवित्तादिकम् । प्राणान् इन्द्रियाणि ॥ २९ ॥

एवं कृष्णात्मनाथेषु मनुष्येषु च सौहृदम् ।

परिचर्यां चोभयत्र महत्सु नृषु साधुषु ॥ ३० ॥

तात्पर्यम्

कृष्णात्मनाथेषु मनुष्येष्वपि सौहृदं किमु देवेषु महत्सु देवादिषु ॥ ३० ॥

पदरत्नावली

कृष्णात्मैव नाथो येषां ते तथा । मानुषेष्वपि सौहृदं शिक्षेत् किमु देवादिषु । उभयत्र भगवति भागवतेषु च । महत्सु ब्रह्मादिदेवेषु च परिचर्याम् । न चैतावता पूर्यते । साधुषु नृषु स्वोत्तमेष्वित्यर्थः ॥ ३० ॥

श्रीनिवासतीर्थीया

एवमिति श्लोके मनुष्येष्वित्युक्त्या देवेषु सौहृदं नापेक्षितमिति भातीत्यतस्तत्कैमुत्यसिद्धमित्याह ॥ कृष्णेति । कृष्ण एवात्मनां नाथो येषां ते तथोक्तास्तेषु सौहृदमित्यस्य शिक्षेदित्यनेनान्वयः । उभयत्रेत्युक्तस्यैव विवरणपरे महत्सु नृषु साधुष्वित्यत्र महत्स्वित्यस्यार्थमाह ॥ महत्सु देवादिष्विति । तथा च साधुषु नृषु स्वापेक्षयोत्तमेषु मनुष्योत्तमेषु महत्सु देवादिषु ऋषिषु चेत्युभयत्र परिचर्यां शिक्षेदित्यर्थ उक्तो भवति ॥ ३० ॥

प्रमेयचन्द्रिका

शिक्षणीयमन्यच्चास्तीति उच्यते ॥ एवमिति ॥ एवं सर्वसमर्पणादिवत्सौहृदं शिक्षयेदिति योज्यम् । अत्र समुच्चायकचशब्दबलान्महत्सु नृष्विति उत्तरार्धोक्त्या च कृष्णात्मनाथेषु महत्सु मनुष्येषु च सौहृदं शिक्षेदिति भाति । मनुष्याणां कृष्णात्मनाथत्वाभावे तेषु सौहृदस्यायुक्तत्वा-त्कथमिदमुपपन्नम् । किञ्च महत्सु मनुष्येषु चेति सहोक्त्या उभयत्र साम्येन सौहृदकारणं प्रतीयते । तच्चानुपपन्नम् । उत्तमतरतमभावेनैव स्नेहस्य कर्तव्यत्वादित्यतो व्याचष्टे ॥ कृष्णात्मनाथेष्विति ॥ अत्र मूले चशब्दः कैमुत्यद्योतको ऽपिशब्दार्थः । असन्मनुष्यव्यावृत्तये मनुष्येष्वित्यस्य विशेषणं कृष्णात्मनाथेष्विति पदम् । कृष्ण एवात्मनाथो येषां ते तथोक्ताः । बुध्द्या विशेषः । अथवा कृष्णे आत्मा मनो येषां ते इति वा । कृष्ण एवात्मा स्वामी एषामिति वा कृष्णात्मानः देवादयः, त एव नाथा येषां मनुष्योत्तमानां त कृष्णात्मनाथाः । तेष्वधमाधिकारिष्वपि सौहृदं कार्यं किमु देवादिषूत्तमेषु सौहृदं कार्यमिति कैमुत्यन्यायेनैव पूर्वार्धे मनुष्येषु चेत्युक्तम् । न तु कृष्णात्म-नाथेष्वित्युक्तस्य मनुष्येत्यनेन सह समुच्चयाय चशब्द इति भावः । द्वितीयार्धे महत्स्वित्यस्य नृष्वित्येतद्विशेषणताभानात्तथात्वे चोभयत्रेत्यनुपपत्तेराह ॥ महत्सु देवादिष्विति ॥ तथा च मूले उभयत्रेत्यस्य विवरणं महत्सु देवादिषु साधुषु नृषु चेतीत्युक्तं भवति ॥ ३० ॥

परस्परानुकथनं पावनं भगवद्यशः ।

मिथो रतिर्मिथस्तुष्टिर्निवृत्तिर्मिथ आत्मनः ॥ ३१ ॥

पदरत्नावली

भगवद्यश उद्दिश्य परस्परानुकथनम् । रतिः सुखम् । तदाधिक्यं तुष्टिः । अन्यत्र निवृत्तिश्च ॥ ३१ ॥

श्रीनिवासतीर्थीया

मूले रत्यादिशब्दैः सुखविशेषा उच्यन्ते ॥ ३१ ॥

दुर्घटभावदीपिका

पावनं भगवद्यश उद्दिश्य परस्परानुकथनं कुर्यात् । भगवति प्रीतिर्यथा स्यात्तथा मिथः परस्परं प्रवृत्तिं कुर्यात् । तुष्ठिर्यथा स्यात्तथा प्रवृत्तिं कुर्यात् । आत्मनोऽन्तःकरणविषये निवृत्तिर्यथा स्यात्तथा मिथः प्रवृत्तिं कुर्यादिति । एतेन मिथो रतिरित्यादिकमनन्वितमिति दूषणं निरस्तम् । भगवतीत्यादेः शेषेणान्वयस्योक्तत्वात् ॥ ३१ ॥

प्रमेयचन्द्रिका

मूले परस्परेति भगवदुद्दिश्य परस्परानुकथनम् । मिथः वैष्णवानाम-न्योन्यमनुकथनेन रतिः क्रीडा । तुष्टिरलम्बुद्धिः । आत्मनो मनसो निवृत्तिः सुखम् ॥ ३१ ॥

स्मरन्तः स्मारयन्तश्च मिथोऽघौघहरं हरिम् ।

भक्ताः सञ्जातया भक्त्या बिभ्रत्युत्पुलकां तनुम् ॥ ३२ ॥

पदरत्नावली

रत्यादीनां परिपाकमाह– स्मरन्त इति । उत्पलकामुद्गतपुलकाम् ॥३२॥

श्रीनिवासतीर्थीया

मूले उत्पुलका इत्यस्योद्गतरोमोञ्चा इत्यर्थः ॥ ३२ ॥

प्रमेयचन्द्रिका

मिथः सुखादिप्राप्तौ निमित्तमुच्यते ॥ स्मरन्त इति ॥ भक्तिज्ञापक-मुच्यते ॥ भक्त्येति ॥ ३२ ॥

क्वचिद् रुदन्त्यच्युतचिन्तया क्वचि

द्धसन्ति नन्दन्ति वदन्त्यलौकिकाः ।

नृत्यन्ति गायन्त्यनुशीलयन्त्यजं

भवन्ति तूष्णीं परमेत्य निर्वृताः ॥ ३३ ॥

इति भागवतान् धर्मान् शिक्षन् भक्त्या तदुत्थया ।

नारायणपरो मायामञ्जस्तरति दुस्तराम् ॥ ३४ ॥

पदरत्नावली

भागवतानां प्रवृत्तिप्रकारमाह– क्वचिदिति । परं भगवन्तं मनसा शरणमेत्य निर्वृताः ॥ उपसंहरति इतीति । तदुत्थया भागवतधर्माभ्यासोद्रेकोत्थया ॥ ३३,३४ ॥

श्रीनिवासतीर्थीया

मूलेऽनुशीलयन्तीत्यस्य मैत्र्यादितत्स्वभानुकरणं कुर्वन्तीत्यर्थः । अनुशीलयन्ति भगवत्स्वभावानुकूलस्वभावं कुर्वन्तीत्यर्थः । मूले परं मनसा एत्य निर्वृताः सन्तस्तूष्णीं भजन्तीत्यर्थः ॥ ३३,३४ ॥

प्रमेयचन्द्रिका

चिन्तया ध्यानेन व्यक्तभक्त्येति यावत् । केचिदुन्मादवद्भक्ता इत्युक्त-तात्पर्यमेतत् । लौकिकान् प्राकृतपुरुषान् । अजं भगवन्तमनुशीलयंति तदनुसारिस्वभावयुक्ता भवन्ति । न त्वनुकुर्वंतीति । अत्रैव सप्तविंशाध्याये अभिनयन्निति मूलस्याभितो नयन् । सर्वेषां प्रकाशयन् मत्कथाः प्रकाशयन्नित्यभिनयशब्दार्थ इत्याचार्यैरनुकुर्वन्निति प्रतीतिनिवारणाय व्याकरिष्यते । अनुकरणस्यापराधरूपत्वाच्चेति । परं भगवन्तं मनसा एत्य तदेकनिष्टया निर्वृता भवन्ति । तदुत्थया भागवतक्षिक्षासमुत्पन्नया भक्त्या । मायां बन्धकं प्रकृतिम् ॥ ३३,३४ ॥

राजोवाच—

नारायणाभिधानस्य ब्रह्मणः परमात्मनः ।

निष्ठामर्हथ नो वक्तुं यूयं हि ब्रह्मवित्तमाः ॥ ३५ ॥

पदरत्नावली

ब्रह्मवित्तमा हि यस्मात् तस्माद् यूयं ब्रह्मणो निष्ठां ब्रह्मादिजीवराशेरुत्कर्षं वक्तुमर्हथ । निष्ठोत्कर्षे व्यवस्थायां नाशेऽन्ते व्रतयाञ्चयोरिति यादवः ॥ ३५ ॥

श्रीनिवासतीर्थीया

निष्ठामित्यस्योत्कर्षमित्यर्थः ॥ ३५ ॥

प्रमेयचन्द्रिका

नारायणाभिधानस्येत्यनेन ब्रह्मशब्दश्च विष्णावेवेति सूचयति । निष्टामुत्कर्षम् । माहात्म्यव्यवस्थितिमिति वा । सैव निष्टोच्यते ॥ ३५ ॥

पिप्पलायन उवाच—

स्थित्युद्भवप्रलयहेतुरहेतुरस्य

यः स्वप्नजागरसुषुप्तिषु सन् बहिश्च ।

देहेन्द्रियासुहृदयानि चरन्ति येन

सञ्जीवितानि तदवैहि परं नरेन्द्र ॥ ३६ ॥

तात्पर्यम्

ओतुः स्वस्य हेतुरन्यो नास्ति । बहिः प्रलये मुक्तौ च ॥ ३६ ॥

पदरत्नावली

तदुत्कर्षोऽपि जन्मादिकारणत्वेन स्वप्नाद्यवस्थाप्रवर्तकत्वेन तदनभिभूतशक्तित्वेन मनआदीन्द्रियाभिमानिदेवाज्ञेयत्वेन जननादिराहित्येन च ज्ञातंु शक्यत इत्याशयेन प्रश्नं परिहरति स्थितीत्यादिना । योऽस्य जगतः स्थित्यादिहेतुः स्वस्य हेतुरन्यो नास्तीत्यहेतुः, स्वप्नादिषु सन् निर्दोषत्वेन स्थितः, यश्च बहिः प्रलये मुक्तौ च वर्तमानः, येन देहेन्द्रियादीनि चरन्ति वर्तन्ते, हृदयं मनः, सञ्जीवितानि यदधीनानि, हे नरेन्द्र तत् तत्त्वं परं सर्वस्मादुत्कृष्टमवैहीत्यन्वयः

॥ ३६ ॥

श्रीनिवासतीर्थीया

सञ्जीवितानीत्यस्य येन परब्रह्मणा सञ्जीवितान्युपोद्बलितानि सन्ति । चरन्ति चरगतिभक्षणयोर्जानन्तीत्यर्थः ॥ ३६ ॥

प्रमेयचन्द्रिका

स्थितीति ॥ अत्र हेतुरहेतुरिति व्याहतिरित्यतो अनूद्य व्याचष्टे ॥ ओतुरिति ॥ न विद्यते हेतुर्यस्य सो ओतुरित्यर्थः । बहिरित्यस्य विवक्षितमर्थमाह ॥ बहिः प्रलय इति ॥ तथा च यो अस्य विश्वस्य स्थित्यादिहेतुर् यश्च स्वप्नाद्यवस्थासु तैजसविश्वप्राज्ञरूपैर् नियामकतया बहिश्च प्रलये स्वोदरस्थाशेषप्रपंचे नारायणाख्यरूपेण मुक्तौ च तुरीयरूपेण नियामकतया सन् वर्तमानः येन च पुनरपरैः रूपैर्देहेन्द्रियप्राणमनांसि संजीवितानि प्रवर्तन्ते तत्परं ब्रह्मावैहीति मूलार्थः ॥ ३६ ॥

नैनं मनो विशति वागुत चक्षुरात्मा

प्राणेन्द्रियाणि च यथाऽनलमर्चिषः स्वाः ।

शब्दोऽप्यबोधकनिषेधतयाऽऽत्ममूल

मर्थोक्तमाह यदृते न निषेध्यसिद्धिः ॥ ३७ ॥

तात्पर्यम्

‘ब्रह्माद्या यं न जानन्ति करणाद्यभिमानिनः । जानन्त्यनुग्रहाच्चास्य प्रधानाग्निं यथाऽर्चिषः । अग्निपुत्रा नमस्तस्मै यमाह श्रीश्च तत्स्फुटम् । वेदरूपा परं देवं वैलक्षण्यात्समस्तशः (तः) । आनन्दो नेदृशानन्द इत्युक्ते लोकतः परम् । प्रतिभाति न चाभाति यथावद्दर्शनं विने’ति ब्रह्मतर्के । बोधकः परमेश्वरः । ईदृशानन्दो न भवतीति निषेधवचनार्थ एव न सिध्यति विलक्षणानन्दाभाव इत्यर्थतः सिद्धिः ॥ ३७ ॥

पदरत्नावली

इतोऽपि हरिः सर्वोत्कृष्टः यतोऽस्य प्रसादं विना रुद्रादिदेवैर्न ज्ञेय इत्याह– नैनमिति । विशतिरत्र ज्ञानार्थः । मनआदिशब्देन तदभिमानी लक्ष्यते । अचेतनत्वेन ज्ञानक्रियाऽसम्भवात् । तथाचायमर्थः । मनो रुद्रदिरेनं नारायणं न विशति न जानाति । वागुत सरस्वत्यादिकमपि न विशतीत्यनुवर्तते । चक्षुः सूर्यः । आत्मा ब्रह्मा वायुश्च । अन्ये प्राणा-द्यभिमानिनश्च न जानन्तीत्यर्थः । अपिशब्दात् तत्प्रसादेनैकदेशं जानन्तीति योज्यम् । तत्रोदाहरण-माह– यथेति । यथा स्वा अर्चिषः प्रधानाग्नेः पुत्रा अनलं प्रधानाग्निं तदनुग्रहमन्तरेण न विशन्ति । ननु नित्यावियोगित्वेनानन्तवेदाद्यात्मत्वाच्च श्रीर्ज्ञातुमर्हतीत्यत आह– शब्द इति । निर्दोषः शब्द आगम इति निर्दोषशब्दराश्यभिमानिनी लक्ष्मीर् बोधकादन्यदबोधकं परमेश्वरादितरल्लौकिकानन्दज्ञानादिकं यत् तस्य निषेधतया आनन्दो हरिर्नेदृशानन्दः, ज्ञानरूपो नेदृशज्ञानरूप इत्यादिनिषेधरूपेण आत्ममूलं स्वकारणम् अर्थोक्तम् अर्थतः परिशेषतः सिद्धत्वेनोक्तमाह । अर्थशब्देनात्र परिशेषप्रमाणमुच्यते । न लक्षणावृत्तिः । कथम् । अत्राह– यदृत इति । यत् सर्वविलक्षणानन्दादिकं विना निषेध्यस्यैतन्न भवतीति निषेधवचनार्थस्य लौकिकानन्दादेः सिद्धिर्न स्यात् । प्रत्यक्षादिप्रमाणसिद्धत्वात् साऽस्ति । अतः परिशेषप्रमाणसिद्ध्या प्रमितमेवेत्यर्थः । प्रतीतार्थं परित्यज्याप्रतीतार्थकल्पनायां किं प्रमाणमितीयं शङ्का ‘‘ब्रह्माद्या यं जानन्ति करणाद्यभिमानिनः । जानन्त्यनुग्रहाच्चास्य प्रधानाग्निं यथाऽर्चिषः । अग्निपुत्रा नमस्तस्मै यमाह श्रीश्च न स्फटम् । वेदरूपा परं देवं वैलक्षण्यात् समस्तशः । आनन्दो नेदृशान्द इत्युक्ते लोकतः परम् । प्रतिभाति न चाभाति यथावद् दर्शनं विना’’ इत्यनेन परिहर्तव्येति । एतस्यैवानन्दस्यान्यानि भूतानि मात्रामुपजीवन्तीति च ॥ ३७ ॥

श्रीनिवासतीर्थीया

जडग्रहणे नैनमित्यादिनिषेधायोगादाह ॥ ब्रह्माद्या इति । आदिपदे-नात्मशब्दोक्तदेहग्रहणम् । अत्र रुद्रस्य मनोभिमानित्वाद्रुद्राद्या इति वक्तव्ये आत्मशब्दोक्तदेहाभिमानो ब्रह्मणः करणाभिमानित्वं न । किं नामादिपदोक्तदेहाभिमानित्वमेव । मुख्यतो ब्रह्मणः सर्वाभिमानि-त्वाद्वेयमुक्तिः । प्राणेन्द्रियाण्यपीत्यत्रेन्द्रियपदेन मनोवाक्चक्षुर्व्यतिरिक्तेन्द्रियग्रहणम् । न जानन्तीत्युक्त्या सर्वथा ज्ञानाभावनिरासायापिशब्दार्थमाह ॥ न जानन्तीति । स्वयोग्यतानुसारेण । तथा च न जानन्तीति साकल्येन ज्ञानाभिप्रायं न मन्तव्यम् । अर्चिष इत्यनूद्याग्निपुत्रा इति व्याख्यानम् । स्वा इत्यस्य स्वीयाः पुत्रा इत्यर्थः । ननु ब्रह्मादीनां स्वतो ज्ञानाभावेऽपि वेदेन सम्यग्भगवत्स्वरूपस्य प्रतिपाद्यमानत्वात्तेन भगवत्ज्ञानोपपत्तेर्नैनमित्यादिनिषेधायोग इत्याशङ्कायां वेदाख्यशब्दोऽपि तदभि-मानिनी श्रीरपि न भगवत्स्वरूपं स्फुटं सम्यक् प्रतिपादयति किं नामापरोक्षतयैवातस्तेनापि न भगवज्ज्ञानं ब्रह्मादीनां सम्यग्भवतीति नैनमित्युक्तम् । ब्रह्माद्यज्ञेयत्वं युक्तमित्याशयेन प्रवृत्तस्य शब्दोऽपीत्यर्धस्यार्थमाह ॥ यमाहेति । शब्दोऽपीत्यत्रापि न विशतीत्येतदनुवर्तते । तस्य न जानातीत्यर्थानुपपत्तेर्न प्रतिपादयतीत्यर्थ इत्याशयेन तात्पर्यमाह । वेदरूपा वेदाभिमानिनी श्रीश्च श्रीरपि यं परं देवं स्फुटं नाह न प्रतिपादयतीति । वेदरूपेत्युक्त्या कथं श्रियः शब्दत्वमिति चोद्यं परिहृतम् । स्फुटं नाहेति शेषोक्तिः । अबोधनिषेधतयेत्यस्य व्याख्यानम् ॥ वैलक्षण्यात्समस्तश इति । तथा च निषेधशब्दोऽन्योन्याभावरूपवैलक्षण्यवाचीत्युक्तं भवति । वैलक्षण्यात्समस्तश इत्युक्त-मुपपादयति ॥ आनन्द इति । कीदृशानन्दो लौकिकानन्द इत्युक्ते इति वेदेनोक्ते सति परं विलक्षणम् । न स्फुटमित्युक्तमुपपादयति ॥ न चेति । यथावद्दर्शनमपरोक्षज्ञानं विनाऽऽनन्दो लोकविलक्षणतया आ सम्यक् स्फुटं न च नैव भातीत्यर्थः । मूलेऽयमर्थः कथं लब्ध इत्यतः स्ववाक्येनापि विवृणोति ॥ बोधक इति । न निषेध्यसिद्धिरित्यस्यार्थमाह ॥ ईदृशेति । तथा च निषेधशब्दो निषेधवचनवाची । अर्थ इति यत्प्रत्ययार्थः । यदृत इत्यस्यार्थः ॥ विलक्षणा-नन्दाभाव इति । अर्थोक्तमाह । अर्थत उक्तं सिद्धम् । आहेत्याशयेनार्थमाह ॥ इत्यर्थतः सिद्धिरिति । लोकविलक्षणानन्दस्येत्यर्थः ।

तथा चानन्दवतीदृशानन्दवत्त्वाभावोऽलौकिकानन्दं विनाऽनुपपद्यमानस्तं गमयतीत्यन्यथाऽनु-पपत्त्यैवालौकिकानन्दः सिध्यति न स्फुटमित्याशयः । तथा चशब्दोऽपि वेदाभिमानिनी श्रीरपि आत्ममूलं स्वकारणीभूतं परं देवमलौकिकानन्दगुणविशिष्टतया स्फुटं नाह । किं नामाबोधकनिषेधतया । क इत्यानन्द उद्दिष्ट इत्युक्तेर् बोधरूपत्वानन्दरूपत्वाद्बोधकः परमेश्वरस्तद्भिन्नं लौकिकानन्दादिरूपं सर्वं जगदबोधकं तन्निषेधतयाऽऽनन्दादिर्भगवान्नैतादृशानन्दादिरित्येवं समस्ततो वैलक्षण्येन तत्प्रति-पादनेनार्थोक्तम् । अन्यथाऽनुपपत्त्या सिद्धमलौकिकानन्दादिरूपमर्थमाह । समस्ततो वैलक्षण्य-प्रतिपादनेनालौकिकानन्दादेः कथमर्थतः सिद्धिरित्यतस्तदुपपादयति ॥ यदृत इति । यतो भगवतो लोकविलक्षणानन्दादिकं विना निषेद्ध्यस्यानन्दवतीदृशानन्दो न भवतीति निषेधवचनार्थस्य सिद्धिरेव न भवति । आनन्दवतीदृशानन्दाभावोऽलौकिकानन्दं विनाऽऽनुपपद्यमानस्तं गमयतीत्यर्थत एव सिद्ध्यतीति । वेदेनापि भगवज्ज्ञानं देवानां दुःशकमिति भाव इति योजनोक्ता भवति । आनन्दादे-र्लोकवैलक्षण्ये तत्रानन्दादिपदव्युत्पत्तिर्विदुषां सम्भवति । विद्वांसो हि साक्षात्कृतभगवद्गुणाः पूर्वैर्विद्वद्भिर्व्युत्पादयितुं शक्यन्ते । अविदुषां तु कथं व्युत्पत्तिः । विद्वदुपदेशादिति चेन्न । अतीन्द्रिये उपदेशस्यैवायोगादिति चेत् । सत्यम् । भगवदानन्दादेर्लौकिकानन्दादिनाऽल्पत्वास्थिरत्वादिना सादृश्याभावेऽपि निरुपाधिकप्रियत्वादिरूपानुकूल्यादिना सादृश्यस्य सत्वाद्योऽस्मदानन्दादिसदृशो भगवद्गुणः स आनन्दादिशब्दवाच्य इत्युपदेशाद्व्युत्पत्तिसम्भवात् । यथा हि सौवर्णघटे बाह्यमृदुपादान-कत्वादिरूपघटसादृश्याभावेऽपि पृथुबुध्नोदराकारत्वसादृश्यमात्रेण प्रसिद्धघटविलक्षणेऽपि व्युत्पत्तिर्दृष्टा तद्वत् । यथोक्तम् । युज्यते चोपदेशतोऽन्यानन्दादिसादृश्यमानुकूल्यादिना परमिति । उक्तं च तत्त्वप्रकाशिकायां परमत इत्यधिकरणान्ते । आनन्दो नेदृशानन्द इतीममेव श्लोकं पठित्वा व्युत्पत्तिश्च सौवर्णघटे घटशब्दवद्युक्तेति ॥ ३७ ॥

दुर्घटभावदीपिका

अत्र सर्वत्र विशतिर्ज्ञानार्थः । साकल्येनेत्यादेः शेषः । मनो मनोऽभि-मानी रुद्र एनं नारायणं साकल्येन न विशति न जानाति । किं तु भगवत्प्रसादेन किञ्चिज्जानाति । एवं सर्वत्र द्रष्टव्यम् । वागुत वागाभिमानिनी सरस्वत्यप्येनं न विशति । चक्षुश्चक्षुरभिमानी सूर्य एनं न विशति । चशब्दोऽनुक्तसमुच्चये । आत्मा जीवाभिमानी ब्रह्माणं न विशति । प्राणेन्द्रियाणि कर्मेन्द्रियाभिमानिन एनं न विशन्ति । श्रोत्राद्यभिमानिनश्चैनं न विशन्ति । अत्र दृष्टान्तमाह ॥ यथेति । स्वाः स्वकीयाः । अग्निपुत्रा इति यावत् । अर्चिषोऽग्नयोऽनलं प्रधानाग्निं साकल्येन यथा न विशन्ति न जानन्ति किन्तु तत्प्रसादेन किञ्चिज्जानन्ति । शब्दोऽपि वेदादिशब्दाभिमानिनी रमाऽप्यबोधकनिषेधतया ज्ञानानन्दरूपत्वाद्बोधको नारायणस्तद्भिन्नं लक्ष्म्यादिज्ञानादिकमबोधकं तन्निषेधतयाऽऽत्ममूलं स्वकारणं ज्ञानादिरूपं नारायणमाह । नन्वनेन लक्ष्मीज्ञेयत्वमेव नारायणस्य प्राप्तं न तु लक्ष्म्यज्ञेयत्वमित्यतोऽबोधकनिषेधतयेत्युक्तं विवृणोति ॥ अर्थोक्तमिति । यद्यस्मा-त्कारणादृते लोकविलक्षणभगवदात्मकज्ञानादिकमृते निषेध्यसिद्धिः । निषेध्यस्य निषेधवचनसम्बन्धिनो ज्ञानमीशज्ञानं न भवतीत्यादि । निषेधवचनार्थस्येति यावत् । सिद्धिर्न भवति तस्मात्कारणाल्लोक-विलक्षणभगवदात्मकज्ञानादिकमङ्गीकर्तव्यमित्यर्थोक्तम् ॥ क्रियाविशेषणमेतत् । अस्पष्टं यथा भवति तथाऽऽहेति ॥ अयं भावः ॥ लक्ष्मीरपि भगवत्प्रसादेन ज्ञानमीदृशं ज्ञानं न भवतीत्यादि वचनैर्लोकज्ञानादिविलक्षणं भगवदात्मज्ञानादिकमस्तीत्येवं भगवत्ज्ञानादिकमस्पष्टमेवाह । न तु भगवदात्मकज्ञानादिकमेतादृशमिति स्पष्टमाहेति । एतेनार्थत आहेत्यनेन पूर्णत्वादर्थोक्तमित्युक्तशब्दो व्यर्थ इति दूषणं निराकृतम् । अर्थोक्तशब्दौ स्पष्टत्वार्थकावित्यङ्गीकारात् ॥ ता. अर्थः ॥ करणाद्यभिमानिनो ब्रह्माद्या यं नारायणं न जानन्ति । सर्वथा न जानन्ति किं नेत्याह ॥ जान-न्तीति । अस्य नारायणस्यानुग्रहाच्चानुग्रहादेव किञ्चिज्जानन्ति । अत्र दृष्टान्तमाह ॥ प्रधानाग्नि-मिति । तस्मै नारायणाय नमः । वेदरूपा वेदाभिमानिनी श्रीश्च यं परं देवं नारायणं स्फुटं नाह किन्तु समस्तशो वैलक्षण्याद्वैलक्षण्येन विशिष्टोऽस्तीत्यस्फुटमेवाह । तस्मै नारायणाय नम इति पूर्वेणान्वयः । यमाह श्रीश्चेत्युक्तमुपपादयति ॥ आनन्द इति । आनन्दो नेदृशानन्द इति वेदवाक्याल्लोकतो लोकानन्दात्परं विलक्षणं भगवदात्मकं सुखमस्तीत्यस्पष्टं प्रतिभाति न च नैवाभाति स्पष्टं प्रतिभाति । कुत इत्यत आह ॥ यथावदिति । साकल्येन ज्ञानाभावात् । बोधकशब्दस्यार्थाप्रतीतेराह ॥ बोधक इति । अनेन बोधो ज्ञानरूपश्च । तत्सम्बन्धित्वान्निषेध्यशब्देन निषेधवचनार्थो ग्राह्य इत्युक्तं भवति । सिद्धिर्नेत्यस्यार्थमाह ॥ न सिद्ध्यतीति । ऋत इत्यस्य तात्पर्यार्थमाह ॥ विलक्षणानन्दाभाव इति । अर्थोक्तमाहेत्यस्य तात्पर्यार्थमाह ॥ इत्यर्थतः सिद्धिरिति ॥ ३७ ॥

प्रमेयचन्द्रिका

परमिति प्रकृतस्य मनोवाचामगम्यतया सर्वोत्तमत्वस्य सर्ववैलक्षण्यस्य प्रतिपादके नैनमिति श्लोके विशतीत्यस्य प्रवेशाभावार्थत्वे प्रकृतानुपयोगाद्ज्ञानसाधनी-भूतेन्द्रियसमभिव्याहारान्न जानातीत्यर्थत्वेऽपि ज्ञानकरणत्वेन ज्ञातृत्वासम्भवाद्देहस्य प्रामाण्यं चाकरणत्वात्सर्वेषां जडत्वेन ज्ञातृत्वाप्रसक्त्या प्रतिषेधायोगाच्च । यथा अनलमर्चिषमित्युक्तदृष्टान्ता-नानुगुण्याच्च व्याचष्टे ॥ ब्रह्माद्या इति ॥ मूले आत्मशब्दस्य चित्ताभिमानिब्रह्मपरत्वमभिप्रेत्य मनोवाक्चक्षुरिन्द्रियादिशब्दानां रुद्रोमेन्द्रसूर्यादिपरत्वं चाभिप्रेत्योक्तम् ॥ ब्रह्माद्या इति ॥ कथं ब्रह्मादीनां चित्ताद्यभिधायकशब्दवाच्यत्वमित्यत उक्तम् ॥ करणाद्यभिमानिन इति ॥ चित्तमनआदीनां ज्ञानकरणत्वादत्र करणपदप्रयोगः । आदिपदेन तैजसाहंकारकार्यस्य ज्ञानशक्तिः क्रियाशक्तिर्बुद्धिः प्राणश्च तैजस इत्युक्तस्य प्राणस्य प्राणापानाद्यसूनां च सङ्ग्रहः । अभिमान्यभिमन्यमानयोरेकशब्दवाच्य-त्वादुक्तं युक्तमिति भावः । न जानातीत्यनुक्त्वा न विशतीत्युक्तिः साकल्येन प्रवेशाभावज्ञापनार्था । तेन च तदनुग्रहे प्राप्तेषद्ज्ञानमस्तीति लभ्यत इत्याशयेनोक्तम् ॥ जानन्तीति ॥ सर्वथा ज्ञानाभावे तदवबोधकशास्त्रवैय्यर्थ्यप्रसंगादिति भावः । दृष्टान्ताभिप्रायमाह ॥ प्रधानाग्निमिति ॥ अत्राग्न्यर्चिः-शब्दाभ्यामग्निदेवस्य तत्पुत्राणां च विवक्षितत्वेन जडार्थत्वाभावाद्दृष्टान्तत्वं युक्तमिति भावः ।

शब्दोऽपीत्युत्तरार्धे शब्दोऽबोधकनिषेधतया अबोधव्यावर्ततया अर्थोक्तं मुख्यार्थानुपपत्तिरूपादर्थादुक्तम् आक्षेपाल्लब्धं चिन्मात्रम् अतद्व्यावृत्तिरूपलक्षणया आह । यच्चिद्ज्ञानमृते निषेध्यानां तत्रारोपितानां सिद्धिर्ज्ञानं नेत्यन्यथाप्रतीतिं वारयन् उत्तरार्धं व्याचष्टे ॥ यमाहेति ॥ श्रीशब्दपदोक्तवेदाभिमानिनी यं परं देवं स्फुटं न्नाह । स्फुटमित्यस्य विवरणम् ॥ समस्ततो वैलक्षण्यादिति ॥ ननु वेदस्य स्फुटमप्रतिपादकत्वे कस्यापि सम्यक् ब्रह्मज्ञानासम्भवान्न मुक्तिरित्यत आह ॥ आनन्द इति ॥ आनन्दो ब्रह्मेत्यादावानन्द इत्युक्ते आनन्दशब्दस्यास्मदाद्यानन्दे लौकिके व्युत्पन्नत्वे ब्रह्मण्यपि तादृशानन्दबोधे जाते सति तन्निवृत्तये ‘‘यतो वाचो निवर्तंते अप्राप्य मनसा सह, आनन्दं ब्रह्मणो विद्वान् स एष नेति नेति’’ इत्यादिना वाक्येन पुनरीदृशानन्दो भवतीत्युक्ते अनुकूलवेदनीय-त्वादिरूपकिञ्चित्सादृश्याभासमात्रेण भगवत्सुखे आनन्दशब्दवृत्तिः ।

वस्तुतस्तु तदानन्दो लोकानन्दापेक्षया अत्यन्तविलक्षण इति सामान्याकारेणैवाधिकारिणः प्रतिभाति । स्वयोग्यतानुसारिस्पष्टप्रतिभानं चानन्दगुणसाक्षात्कारेणैवेति भावः । परमिति क्रिया-विशेषणम् । अबोधकनिषेधतयेत्यत्र बोधकप्रातिपदिकार्थमाह ॥ बोधकः परमेश्वर इति ॥ अज्ञानां ज्ञानदो विष्णुरित्याद्युक्तेरिति भावः । यदृते निषेध्यसिद्धिरित्यस्य तात्पर्यमाह ॥ ईदृशेति ॥ अर्थोक्तमित्येतदुपपादकस्य यदृत इत्यादेरभिप्रायमाह ॥ ईदृशेति ॥ आनन्दवान्न भवतीत्यनुक्त्वा ईदृशानन्दो न भवतीति ईदृशत्वविशेषविशिष्टानन्दनिषेधमहिम्ना सविशेषणे विधिनिषेधौ विशेषणमुप-संक्रामत इति न्यायेनानन्दसद्भावस्तस्य लोकानन्दसालक्षण्यमात्रं निषिध्यत इत्यस्य लब्धत्वेन विलक्षणानन्दसद्भावोऽवगम्यते । विलक्षणानन्दस्वरूपस्यैवाभावे तु ईदृशो न भवतीति निषेधवचनार्थ एव न सिध्यति । सति धर्मिणि धर्माश्चिन्त्यन्त इति न्यायेनानन्दरूपधर्मिणि सिद्धे एव ईदृशत्व-रूपधर्मनिषेधचिन्तावकाशात् । अतस्तदन्यथानुपपत्या विलक्षणानन्दो अवश्यमङ्गीकार्यमित्यतो विलक्षणानन्दसिद्धिरित्यर्थः ।

ततश्चैवं मूलयोजना । शब्दोऽपि वेदाभिमानिनी श्रीदेव्यपि बोद्धव्यो ज्ञानप्रदः । परमेश्वरस्तदा-नन्दोऽपि बोधकस्तत्स्वरूपत्वात् । तदन्यो अबोधकः । लोकानन्दस्तन्निषेधतया ईदृशानन्दो न भवतीत्येवं भगवदानन्दस्य लोकसदृशानन्दत्वनिषेधरूपेणार्थादुक्तं यथा भवति तथा । आत्ममूलम् आत्मनः स्वस्य वेदस्य मूलं जनकं तदभिमानिश्रियोऽपि मूलं मम योनिरित्युक्तेः कारणं विलक्षणानन्दरूपं भगवन्तमाह । अर्थोक्तमित्यस्य च विवरणं यदृत इति । यस्माल्लोक-विलक्षणानन्दस्वरूपसद्भावादृते निषेध्यस्य ईदृशानन्दो न भवतीत्येवंरूपनिषेधविषयस्य नेति नेतीत्यादिविशेषवचनार्थभूतस्य सिद्धिर्ज्ञानं न सम्भवति । तथा च तद्वचनस्याप्रामाण्यप्राप्त्यन्यथानुपपत्या हरेर्विलक्षणानन्दादिकमङ्गीकार्यमिति ॥ ३७ ॥

सत्त्वं रजस्तम इति त्रिवृदेकमादौ

सूत्रं महानहमिति प्रवदन्ति जीवम् ।

ज्ञानक्रियार्थफलरूपतयोरुशक्ति

ब्रह्मैव भाति सदसच्च तयोः परं यत् ॥ ३८ ॥

तात्पर्यम्

‘त्रिगुणात्मकं प्रधानं च रजः सत्वं तमस्तथा । प्राणो महानहङ्कारो जीवास्तदभिमानिनः । ज्ञानात्मकानीन्द्रियाणि तथा कर्मात्मकानि च । शब्दाद्यर्थाः सुखं दुःखमिति प्रोक्तं द्विधा फलम् । एतत्सर्वं हरे रूपमित्याहुर्ज्ञानदुर्बलाः । स एव बहुशक्ति-त्वाद्भाति चैषां तथा तथा । एवं कारणकार्याख्यं समस्तं हरिमेव तु । केचित्पश्यन्ति च व्यस्तं केचिदाहुरपण्डिताः । एवं कारणकार्येभ्यः परमानन्दरूपिणम् । अज्ञानाद्बहुधा प्राहुरेकं सन्तं सुदुर्जनाः । रूप्यत्वात्तद्वशत्वाच्च तद्रूपं चैतदीर्यते । न तु तस्य स्वरूपत्वा-न्निर्दोषानन्दरूपिणः । कथं जडाजडैक्यं स्यात्कुतः पूर्णाल्पमोदयोः । पूर्णाल्पज्ञानयोश्चैव पूर्णशक्त्यल्पशक्तयोः । निर्दुःखदुःखान्वितयोः स्वतन्त्रपरतन्त्रयोः । अतः सर्वगुणैर्युक्तं सर्वदोषविवर्जितम् । अन्याभेदेन विज्ञाय तम एव प्रपद्यते । निष्कृष्टं सर्वतो विष्णुं सर्वतश्च विलक्षणम् । ज्ञात्वा पूर्णगुणं यान्ति मुक्तिं नास्त्यत्र संशय’ इति तन्त्रभागवते ॥ ‘अहं हि जीवसञ्ज्ञो वै मयि जीवः सनातनः । मैवं त्वयाऽनुमन्तव्यं दृष्टो जीवो मयेति ह । अहं श्रेयो विधास्यामि यथाधीकारमीश्वरः’ इति मोक्षधर्मेषु ॥ ३८ ॥

पदरत्नावली

मुमुक्षुणा विद्याविद्ये ज्ञातव्ये । ‘‘विद्यां चाविद्यां च यस्तद् वेदोभयं सह । अविद्यया मृत्युं तीर्त्वा विद्ययाऽमृतमश्नुते’’ इति श्रुतेः । तत्र विद्यां निरूप्याविद्यां निरूपयति सत्वमिति । जीवं हरे रूपमिति प्रवदन्त्यज्ञा इति शेषः । केचिदादौ स्थितमेकं त्रिवृत् त्रिगुणात्मकं प्रधानमिति सङ्गिरन्ते । प्रधानादिदमुत्पन्नमिति श्रुतेः । सत्वं रजस्तम इति केचित् । सूत्रं वायुर्महान् ब्रह्मा अहं रुद्र इत्येके हरे रूपमिति वदन्ति । किं बहुना ? उरुशक्ति ब्रह्मैव ज्ञानक्रियार्थ-फलरूपतया, ज्ञानक्रियाशब्देन ज्ञानकर्मेन्द्रियाणि अर्थशब्देन शब्दादिविषयाः फलशब्देन सुखदुःखे चोच्यन्ते, एषां रूपत्वेन भातीत्यपरे । सदसत्कार्यकारणरूपत्वेनावभाति च । ननु सच्च त्यच्चाभवदिति श्रुतेः कार्यकारणादिरूपदर्शनस्याविद्यात्वं कथम् । अत्राह– तयोरिति । तयोः कार्यकारणयोः परं विलक्षणं भिन्नं ब्रह्मेति यद् यस्मात् तदात्मनां दर्शनमविद्येत्यर्थः । ‘‘त्रिगुणात्मकं प्रधानं च रजः सत्वं तमस्तथा । प्राणो महानहङ्कारो जीवास्तदभिमानिनः । ज्ञानात्मकानीन्द्रियाणि तथा कर्मात्मकानि च । शब्दाद्यर्थाः सुखं दुःखमिति प्रोक्तं द्विधा फलम् । एतत् सर्वं हरेरूपमित्याहुर्ज्ञानदुर्बलाः । स एव बहुशक्तित्वाद् भाति चैषां तथा तथा । एके कारणकार्याख्यं समस्तं हरिमेव तु । केचित् पश्यन्ति च व्यस्तं केचिदाहुरपण्डिताः । एवं कारणकार्येभ्यः परमानन्दरूपिणम् । अज्ञानाद् बहुधा प्राहुरेकं सन्तं सुदुर्जनाः । रूप्यत्वात् तद्वशत्वाच्च तद्रूपं चैतदीर्यते । न तु तस्य स्वरूपत्वा-न्निर्दोषानन्दरूपिणः । कथं जडाजडैक्यं स्यात् कुतः पूर्णाल्पमोदयोः । पूर्णाल्पज्ञानयोश्चैव पूर्णशक्त्यल्पशक्तयोः । निर्दुःखदुखान्वितयोः स्वतन्त्रपरतन्त्रयोः । अतः सर्वगुणैर्युक्तं सर्वदोषविवर्जि-तम् । अन्याभेदेन विज्ञाय तम एव प्रपद्यते । निष्कृष्टं सर्वतो विष्णुं सर्वतश्च विलक्षणम् । ज्ञात्वा पूर्णगुणं यान्ति मुक्तिं नास्त्यत्र संशयः’’ इति प्रमाणसिद्धत्वादुक्त एवार्थो नतु सदनुविद्धत्वात् सर्वस्य तद्रूपत्वमिति ॥ ३८ ॥

श्रीनिवासतीर्थीया

आत्ममूलमित्युक्तस्य भगवदाख्यजगज्जन्मादिरूपपरतत्त्वस्याबोधक-निषेधतयेति सर्ववैलक्षण्यमुक्तम् । तदयुक्तम् । तत्तद्वादिभिस्त्रिगुणात्मकप्रधानादेरेकस्यैव जगज्जन्मादि-कारणत्वेन परतत्त्वताया अङ्गीकारात् । मायिना तु ब्रह्मण एव परतत्त्वाङ्गीकारेऽपि तस्य सर्वजगद-भेदस्यैव द्वे वाव ब्रह्मणो रूपे इत्यादिश्रुत्यनुसारेणोक्तत्वान्न सर्ववैलक्षण्यं युक्तमित्याशङ्क्य भगवदितरस्यैव परतत्त्वाङ्गीकारिणो भगवतः सर्वाभेदाङ्गीकारिणश्चाज्ञानिनस्तमोयोग्या भगवानेव परतत्त्वमित्यङ्गीकृत्य तस्य विरुद्धधर्माधिकरणत्वेन जीवजडसर्वप्रपञ्चवैलक्षण्याङ्गीकारिणस्तु मुक्तिभाज इति युक्तमुक्तमबोधकनिषेधतयेतीत्याह ॥ सत्त्वमिति श्लोकेन । तमिमं दुर्गमार्थत्वाद्व्याचष्टे ॥ त्रिगुणात्मकमिति । रजःसत्त्वं तमश्चेति त्रिगुणात्मकप्रधानमित्यन्वयः । सूत्रशब्दार्थ उक्तस् तथा प्राण इति । जीवा इत्युक्त्या मूले जीवमिति समुदायैकवचनमिति ज्ञेयम् ॥ तदिति । प्रधानादीत्यर्थः । रूपं स्वरूपम् । सदसच्च ब्रह्मैव भातीति किमर्थं पृथगुच्यते । ब्रह्मैव ज्ञानादिरूपतया । उपलक्षणमेतत् । सत्त्वादिरूपतया च भातीत्यनेनैव सर्वाभेदोक्तिलाभादिति चेत् । सत्यम् । मायिनो हरेः सर्वाभेदं सङ्कोचेन प्राहुः । केचिच्च विस्तरेण । तत्र सङ्कोचेनाभेदप्रतिपादनाय प्रवृत्तं सदसच्चेति वाक्यं व्याचष्टे ॥ एवमिति । समस्तमित्यव्ययम् । समासेन सङ्कोचेन पश्यन्ति । अपरोक्षेण जानन्ति । ज्ञात्वा हरिरेव कार्यकारणाभेदेन तदाख्य इति आहुश्च ।

एवं केचिदपण्डिताः । व्यस्तम् । अव्ययमेतत् । व्यासेन विस्तरेण सत्त्वादिरूपेण ब्रह्मैव भातीत्येवमादिरूपेण पश्यन्त्यापरोक्षेण । हीनं च ब्रह्म पश्यत इति तेषामपरोक्षज्ञानसद्भावात् । अनेन मूले पश्यन्तीति पूरणीयमिति सूचितम् । ज्ञात्वा तथाऽऽहुश्चेत्यर्थः । अनेन प्रवदन्तीत्यस्यार्थ उक्तः । वस्तुतस्तु तथैव किं न स्यादित्याशङ्कापरिहाराय प्रवृत्तं तयोः परं यदिति वाक्यं व्याचष्टे ॥ एवं कारणकार्येभ्य इति । अनेन तयोरिति षष्ठी पञ्चम्यर्थ इत्युक्तं भवति । एकं सन्तं सर्वोत्तमत्वेन विद्यमानमेकमेवेत्यर्थः । नन्वेवं ब्रह्मणस्तयोः परत्वे द्वे वाव ब्रह्मणो रूपे मूर्तं चामूर्तं च सच्चासच्चेत्यादिश्रुतेः का गतिरित्यत आह ॥ रूप्यत्वादिति । तन्निरूप्यत्वात्तत्प्रेर्यत्वात् । तदपि कुतः । तद्वशत्वादेतज्जगदीर्यते द्वे वावेत्यादौ । तस्य ब्रह्मणः । ननु विरुद्धधर्माधिकरणत्वेन जडैक्या-सम्भवेऽप्यस्तु जीवैक्यमित्यतस्तस्मादेव हेतोर्नेति भावेनाह ॥ कुत इत्यादिना । अन्याभेदेनेति सत्वमित्यारभ्य सदसच्च विभातीत्यनन्तरं शेषपूरणम् । विज्ञाय, स्थित इति शेषः । तेन समानकर्तृकता । तयोः परं यदित्यनन्तरं शेषपूरणम् ॥ निष्कृष्टमिति । सर्वतः सर्वस्मादुत्तमत्त्वेन निष्कृष्टं निश्चितमित्यर्थः । ज्ञात्वा स्थितो याति ॥

ततश्चेत्थं योजना ॥ वादिन आदौ पूर्वं जगज्जन्मादिकारणतया सर्वोत्तमत्वेन स्थितमेकं परतत्त्वं सत्त्वादिरूपेण त्रिवृत्प्रधानमेवेति । प्रधानादिदमुत्पन्नमिति श्रुतिमाश्रित्य जानन्ति ज्ञात्वा प्रवदन्ति । सूत्रं वायुरेव तथेति । वायुना वै गौतम सूत्रेणेत्यादिश्रुतिमनुसृत्य ज्ञात्वा प्रवदन्ति । महानहं च तथेति तत्तच्छतिमाश्रित्य ज्ञात्वा प्रवदन्ति । तदभिमानिनं जीवं जीवाद्भवन्ति भूतानीति श्रुतिमाश्रित्य तथा प्रवदन्ति । किं बहुनोरुशक्ति बहुशक्ति ब्रह्मैव सर्वं खल्विदं ब्रह्मेति श्रुत्यनुसारेण सत्त्वादिरूपतया ज्ञानादिरूपतया ब्रह्मैव विभातीति विस्तरेण प्रवदन्ति । तथा द्वे वाव ब्रह्मण इत्यादिश्रुतिमनुसृत्य ब्रह्मैव सदसच्च कार्यकारणरूपेण भातीति समासेन ज्ञात्वा प्रवदन्ति । ते सर्वेऽपि ज्ञानदुर्बलास्तमः प्रतिपद्यन्ते ।

ननु ज्ञानदुर्बला इति कुतः । वस्तुतो ब्रह्म तथैव किं न स्यादित्यतो नेत्याह ॥ तयोरिति । सदसद्भ्याम् । उपलक्षणमेतत् । सर्वस्मात्प्रधानादेर्यद्ब्रह्म यस्मात्कारणाद्भिन्नमेव ज्ञानिनः पश्यन्ति । ज्ञात्वा च मुक्तिं यान्ति । अतो न तथा ब्रह्मेति युक्तं तस्याबोधकनिषेधतयेत्युक्तं सर्ववैलक्षण्यमिति भावः । ननु तर्हि श्रुत्यादेः का गतिरिति चेन्न । सदसतोः रूपप्रतिपादिका तावद्रूपत्वादित्यनेन व्याख्याता । सर्वासामपि श्रुतीनां नामानि सर्वाणीति न्यायेन भगवत्परत्वमेवेत्याशयेनोपलक्षणया जीवाद्भवन्तीति श्रुतिरीश्वरपरेत्याह ॥ अहं हीति । जीव एव मया जगज्जन्मादिकारणत्वेन दृष्टो ज्ञातोऽहमेव । जीवाद्भवन्तीति प्रसिद्धेरतः सर्वोत्तमत्वात्स एव सर्वश्रेयोदाता किमीश्वरेणेत्येवं त्वया नानुमन्तव्यम् । कुतः । यतस्तच्छतौ प्रतिपाद्यो जीवसंज्ञोऽहमेव हि । नामानि सर्वाणीति श्रुतेः । जीवो विनयिता साक्षीत्यादिस्मृतेश्च । अयं तु सनातनः । नादेन विधिनिषेधात्मकवेदेन सहितो बद्धः सनातनः । स एव वर्णविकारेण सनातनः । जीवो मयि मदाधारत्वेनास्तीति स नो जगज्जन्मादिकर्तृत्वेन श्रुतिपतिपाद्यः । किं त्वीश्वरोऽहमेवातोऽहमेव यथाऽधिकारं भगवदधिकार-मनतिक्रम्य श्रेयो मोक्षं विधास्यामीत्यर्थ इति योज्यम् ॥ ३८ ॥

प्रमेयचन्द्रिका

निष्टामर्हथेति प्रश्नोत्तरत्वेन भगवन्माहात्म्योत्कर्षमभिधाय एतद्विरुद्धज्ञानस्य मिथ्याज्ञानत्वेन तत्त्यागस्यावश्यकत्वात्तत्यागाय मिथ्याज्ञानिमतं प्रदृश्यते ॥ सत्वमिति ॥ तस्यार्थः । आदावित्यधिकरणसप्तमीबलात्स्थितमिति गम्यते । तथा च आदौ महाप्रलये स्थितमत एवैकं निर्विकारानन्दरूपं स्वगतभेदवर्जितं वा । जीवं सर्वजीवनहेतुं जीवाधारमिति वा ॥ हरिं मिथ्याज्ञानिनस् त्रिवृदिति गुणत्रयात्मकमूलप्रकृतिरिति । सत्वं रजस्तम इति च । तथा सूत्रं वायुरिति । महानह-मिति । महत्तत्वमहङ्कारतत्वमिति । तदभिमानिब्रह्मरुद्रादिजीवजातमिति । तथा ज्ञानेन्द्रियकर्मेन्द्रिय-शब्दाद्यर्थसुखदुःखाख्यफलरूपतया । तथा सदसत् । कार्यकारणात्मकमिति सर्वाभेदेन प्रवदन्ति उच्छ्रङ्खलं वदन्ति । एवमन्यथा कुतो वदंतीत्यत उक्तम् । उरुशक्तीति । उर्वी अतिबहुला अतिशयिता शक्तिर्यस्य तत् । अत एव तयोः सदसतोः कार्यकारणयोः परं विलक्षणं ब्रह्मैव तेषां तथा भाति । भगवतः सर्वशक्तितया सर्वान्तर्गतत्वान्मिथ्याज्ञानिस्वरूपाणां सर्वाभेदप्रतीतेस्तदन्यथा वदन्तीति भाव इति । अत्र श्लोके सत्वादिगुणत्रयमहदहङ्कारादिकमिति प्रवदन्ति । कुत आदावेकजीवत्वमापन्नमुरुशक्ति ब्रह्मैव ज्ञानक्रियाद्यात्मना यत्सदसत्तदात्मना च प्रतिभातीत्यन्यथा-भानात्तस्य च पूर्वोत्तरविरुद्धत्वाच्च सर्वप्रमाणविरुद्धत्वाच्च यथावत्प्रमाणेन व्याचष्टे ॥ त्रिगुणात्मकमित्यादिना ॥ त्रिवृदित्यस्यार्थस् त्रिगुणात्मकं प्रधानमिति । सूत्रमित्यस्यार्थः प्राण इति ।

प्रधानादिशब्दानां केवलजडार्थत्वप्रतीतिनिरासायोक्तम् ॥ जीवास्तदभिमानिन इति ॥ तत्र प्रधानाभिमानिनी प्रकृतिनाम्नी सरस्वती । सत्वादीनां तु गायत्री चैव सरस्वती । एवं त्रिरूपा प्रकृतिरभिमानिनी । महतो ब्रह्मा रुद्रो अहङ्कारस्य । ज्ञानक्रियार्थफलरूपतयेत्यस्य ज्ञानात्मका-नीत्यादि । ज्ञानमापादयन्त्यभिसम्पादयन्तीति ज्ञानात्मकानि । आप्लृ व्याप्तावित्यस्माड्डप्रत्यये निष्पन्नो अयमात्मशब्दः ॥ एवं कर्मात्मकानीत्यपि । शब्दाद्यर्था इत्यादिपदेन स्पर्शरूपादिग्रहणम् । ‘एतत्सर्वं हरेः रूपं’ इत्येतन्मूले जीवं हरिं सत्वमित्यादिप्रकारेण ज्ञानेन्द्रियादिरूपतया प्रवदन्तीत्यस्य व्याख्यानम् । उरुशक्ति ब्रह्मैवेत्यस्यार्थः स एवेति । स एव सत्वादिस्थो हरिरेव । तत्तदाकारेण तत्र स्थित्वा तत्तन्नियामकत्वादिबहुशक्तिमत्वात्तत्तद्वस्त्वात्मकतया तेषां ज्ञानदुर्बलानां भाति । अत आहुरित्यन्वयः । सदसच्चेत्यस्यार्थो ॥ एवं कारणेति ॥ विशकलिततयोक्तेः कृत्यमाह ॥ समस्तमिति ॥ जीवजडात्मकं समस्तं हरिमेव केचित्परिणामवादिनो भास्करादयः पश्यन्ति । तुशब्देन सत्योपाधिवशाद्ब्रह्मैव जीवभावमापद्यते । जडं तु ब्रह्मोपादानकमिति पश्यन्तीति विशेषं द्योतयति । केचिदपण्डिताः संकरादयस्तु मिथ्योपाधिवशाद्ब्रह्मैव जीवभावं प्राप्य संसरति । जडं तु न ब्रह्म किंतु मिथ्यैवेति । व्यस्तं विभक्तम् । जीवाख्यजगदेकदेशमेव ब्रह्मेत्याहुः । तयोः परमित्यस्य व्याख्यानम् ॥ एवमिति ॥ एकं जीवमित्यस्य व्याख्यानम् ॥ एकं सन्तमिति ॥ एकत्वेन स्वगतभेदवर्जितत्वेन केवलत्वेन निर्विकारानन्दात्मकत्वेन सन्तमित्यर्थः । ननु द्वै वाव ब्रह्मणे रूपे मूर्तं चैवामूर्तं चेत्यादिश्रुतिषु सर्वस्य भगवद्रूपत्वोक्तेः कथमेवं वादिनां दुर्जनत्वमित्यत आह ॥ रूप्यत्वादिति ॥ निरूप्यत्वात् । तज्जन्यत्वतद्दत्तप्रवर्तनीयत्वादेरिति यावत् । तज्जनकादौ तच्छब्दप्रयोगमापश्याप इतीत्यादिश्रुतिसिद्धम् ॥ तद्वशत्वादिति ॥ यदधीना यस्य सत्ता तत्तदित्येव भण्यत इत्युक्तेरिति भावः । प्रतीतमैक्यमेव किन्न स्यादित्यतो विरुद्धधर्माधिकरणत्वेनैक्यायोगादित्याह ॥ कथमिति ॥ अल्पं शक्तं भावे क्तः शक्तिर्यस्य तदल्पशक्तम् । उपसंहारव्याजेनैक्यज्ञानिनो भेदज्ञानिनश्च फलभेदमाह ॥ अत इति ॥ निष्कृष्टं पृथक्वृतम् । मूले जीवपदं भगवत्परमित्याशयेन भगवति जीवशब्दप्रयोगं दर्शयति ॥ अहमिति ॥ जीवेश्वरभेदं प्रमाणशेषेण दर्शयति ॥ मैवमिति ॥ एवमित्यस्य विवरणम् ॥ दृष्टो जीव इति ॥ मया दृष्टो अयं कृष्णो जीवः संसारीत्येवं त्वया नानुमन्तव्यमित्यर्थः । अहं हीत्यादि वचनं भगवद्वाक्यमिति ज्ञापयितुम् अहं श्रेय इति वाक्यशेषोदाहरणम् । ईश्वरो अहमित्यन्वयः ॥ ३८ ॥

नासौ जजान न मरिष्यति नैधतेऽसौ

न क्षीयते स च न विध्यति चारिणा हि ।

सर्वत्र शश्वदनपाय्युपलब्धिमात्रं

प्राणो यथेन्द्रियबलेन विकल्पितं सत् ॥ ३९ ॥

तात्पर्यम्

‘यथेन्द्रियगतः प्राणस्तेषां शक्त्या विकल्प्यते । दृष्टिदः श्रुतिदश्चेति मतिदो ज्ञानदस्तथा । इत्यादिभेदतो वाच्य एक एव महाबलः । दृष्ट्यादिशक्तिस्तस्यैव ततो नान्यस्य कस्यचित् । एवं सद्रूपकं ब्रह्म तत्तच्छक्त्या विकल्प्यते । एकमेव महाशक्ति प्राणस्यापि बलप्रदमि’ति हरिवंशेषु ॥ ३९ ॥

पदरत्नावली

किञ्च कार्याद्यभिन्नत्वे तद्वज्जन्मादिमत्वं प्रसज्यते, न च तत्तथा, तस्माद् भिन्नमेवेति युक्तिमाह– नासाविति । कालत्रयसम्बन्धित्वान्नौपचारिकोऽयं निषेधः । तथा जन्मादि-मत्पदार्थत्वेन तद्धर्मत्वं नौपचारिकं ब्रह्मण इत्यत्राह सर्वत्रेति । सर्वेषु जन्मादिमत्सु पदार्थेषु शश्वदेकविधं न विकारि अत एवानपायि विनाशरहितम् । तत्र हेतुगर्भविशेषणमुपलब्धिमात्रमिति । प्रकृत्यादिमिश्ररहितज्ञानात्मकत्वादित्यर्थः । अदृष्टत्वादसत्कल्पमिदमत्राह– इन्द्रियेति । सद् ब्रह्म इन्द्रियेषु दृश्यमानदर्शनादिबलेन विकल्पितं विविधं कल्पितं दर्शनशक्तिदं श्रवणशक्तिदं ज्ञानशक्तिद-मिति । कथमिव । यथेन्द्रियगतः प्राण इन्द्रियशक्त्या दर्शनादिशक्तिप्रदत्वेन विकल्पितः (तथा) इति । तदुक्तम् – ‘‘यथेन्द्रियगतः प्राणस्तेषां शक्त्या विकल्प्यते । दृष्टिदः श्रुतिदश्चेति मतिदो ज्ञानदस्तथा । इत्यादिभेदतो वाच्य एक एव महाबलः । दृष्ट्यादिशक्तिस्तस्यैव यतो नान्यस्य कस्यचित् । एवं सद्रूपकं ब्रह्म तत्तच्छक्त्या विकल्प्यते । एकमेव महाशक्ति प्राणस्यापि बलप्रदम्’’ इति । जीव प्राणधारण इति धातोर् हरेर्जीवशब्दवाच्यत्वं प्राणस्यापि शक्तिप्रदत्वं च युज्यते । ‘‘अहं हि जीवसंज्ञो मयि जीवः सनातनः । मैवं त्वयाऽनुमन्तव्यं दृष्टो जीवो मयेति ह’’, ‘‘अहं श्रेयो विधास्यामि यथाधीकारमीश्वरः’’ इति प्रमाणात् । दह्यमानगृहान्तरस्थितयोगिवद् ब्रह्मणोऽपि तत्तत्पदार्थस्थत्वेऽपि तत्तद्दोषलेपसम्बन्धो नास्तीति युक्तम् ॥ ३९ ॥

श्रीनिवासतीर्थीया

तेषां शक्त्येत्यनेनेन्द्रियबलेनेत्येतदिन्द्रियाणां बलेन शक्त्या तत्कार्येणेत्युक्तं भवति । दृष्टिद इन्द्रियाणां दर्शनशक्तिदः श्रुतिदः श्रवणशक्तिद इत्यादि योज्यम् । ततो मुख्यप्राणात् । अन्यस्येन्द्रियगणस्य । सदित्यनूद्य ब्रह्मेति व्याख्यातम् । तत्तच्छक्त्या तेषां पदार्थानां शक्त्या मुख्य-प्राणस्य दृष्ट्यादिशक्त्युक्त्या ब्रह्मणस्तदभावप्रतीतेराह ॥ प्राणस्यापीति । तथा चेयं मूलयोजना ॥ परत्वमेव विरुद्धधर्मोक्त्या प्रतिपादयति ॥ नासावीति । असौ भगवान्नैधते न वर्धते । न क्षीयते न ह्रसते । शश्वदनपाय्युपलब्धिमात्रमित्येकं पदम् । यस्मात्सद्ब्रह्म सर्वत्र रूपेषु शश्वदनपायिनी योपलब्धिस्तन्मात्रम् । पुनः कीदृशमित्यतः सदृष्टान्तमाह ॥ प्राण इति । यथेन्द्रियाणां बलेन रूपादिदर्शनजननशक्त्याख्यकार्येणेन्द्रियाणां तच्छक्तिप्रदो मुख्यप्राणो विविधदृष्ट्यादिप्रदरूपत्वेन कल्पितो भवत्येवं सद्ब्रह्म तत्तदग्न्यादिपदार्थस्थितदाहकत्वादिशक्तिरूपकार्येण तत्र तत्र स्थित्वा तत्तत्पदार्थगतशक्त्यादिप्रदविविधरूपत्वेन कल्प्यत इति ॥ ३९ ॥

प्रमेयचन्द्रिका

नन्वैक्यज्ञानं कुतो मिथ्याज्ञानं बाधकाभावादित्यतो जीवेश्वरयोर्विरुद्ध-धर्माधिकरणत्वम् ऐक्यबाधकमित्याशयेन भगवतो जननादिदोषराहित्यपूर्णज्ञानत्वादिमाहात्म्यमुच्यते ॥ नासौ जजानेति ॥ एतच्छ्लोकाभिप्राय एव भगवत्पादैः ‘कुतः पूर्णाल्पमोदयोः’ इत्यादिना प्रागुक्तमिति ज्ञेयम् । न क्षीयते न ह्रसति । सर्वत्र प्रपञ्चे स्थितमिति सप्तमीबलादवगम्यते । यद्वा सर्वत्र स्वपरगताखिलविशेषविषये शश्वन्निर्विकारतया अनपायिनी या उपलब्धिस्तन्मात्रम् । ज्ञानोपलक्षितसर्वगुणतन्मात्रदेहवत्वाद्धरेर्जननाद्यभावो युक्त इति हेतुत्वेनैतदुक्तिरिति ध्येयम् । तर्हि निर्विकारगुणैकरसत्वे कथं प्रकृत्याद्यनेकत्रावस्थानं सत्वं रज इत्यादावुक्तमित्यत उक्तम् ॥ प्राणो यथेति ॥ सन् नित्यसत्तोपेतं ब्रह्म । विकल्पितं विकल्पनं विविधभावः विविधस्थितिमिति यावत् ।

अत्र दृष्टान्तः प्राणो यथेत्यादि । अत्राप्रतीतेर्दृष्टान्तदार्ष्टान्तिकैरुपपादयति ॥ यथेन्द्रियगत इत्यादिना ॥ सर्वेन्द्रियेषु नियामकतया स्थितः प्राणस् तेषां शक्त्या विकल्प्यते । तदेव विवृणोति ॥ दृष्टिद इति ॥ दृष्टिर्दर्शनम् । श्रुतिः श्रवणम् । मतिर्मननम् । ज्ञानं मानसप्रतिभादिरूपम् । इत्यादिप्रकारकतत्तदिन्द्रियशक्तिप्रभेदतो महाबलः प्राण एक एव चक्षुरादिशब्दैर्वाच्यः । ननु द्रष्टुर्जीवस्य दर्शनादिकरचक्षुराद्यभिमानिसूर्यादेश्च दृष्ट्यादिशक्तिर्युक्ता । तत्कथं प्राणस्येत्यत आह ॥ दृष्ट्यादि-शक्तिरिति ॥ यतः कारणात्तस्य प्राणस्यैव दृष्ट्यादिशक्तिर्मुख्या । नान्यस्य क्वचिदपीति या ते तनूर्या वाचि प्रतिष्टिता या चक्षुषि या मनसि सन्ततेत्यादिश्रुत्यादिभिर्ज्ञायते । अतः प्राण एव दृष्ट्यादिद इति विकल्प्यत इति पूर्वेणान्वयः । सूर्यादीनामभिमानिनां तत्तजीवानां च दृष्ट्यादिशक्तिः प्राणाधीन एवेति भावः । दार्ष्टान्तिकं विवृणोति ॥ एवमिति ॥ सदित्यस्यार्थः सद्रूपकमिति । तत्तच्छक्त्या प्रकृतिसूत्रमहदहमादिशक्त्या दृष्टिश्रुत्यादिशक्त्या च । प्राणो हि सर्वशक्तिप्रद उक्त इत्यत उक्तम् ॥ प्राणस्यापीति ॥ अवान्तरत्वाभिप्रायेण तदुक्तिरिति भावः ॥ ३९ ॥

अण्डेषु पेशिषु तरुष्ववनिस्थितेषु

प्राणेन जीव उपधावति तत्र तत्र ।

छन्ने १मतीन्द्रियगुणेऽहमि च प्रसुप्ते

कूटस्थ आस यमृते तदनुस्मृतिर्न ॥ ४० ॥

तात्पर्यम्

‘पेशो जरायुरुद्दिष्टः सुवर्णं पेश उच्यते । मृदुपिण्डश्च पेशं स्यात्क्वचि-द्भद्रमपीष्यत’ इत्यभिधानम् । अवनिस्थितेषु स्वेदजेषु । भूस्वेदेन हि प्रायो जायन्ते । तदा कूटस्थे परमात्मन्यास जीवः । यं परमात्मानमृते सुप्त्यनुस्मृतिरेव न । ‘देहा-द्देहान्तरगतौ प्रविशेत्प्राणमेव तु । जीवः प्राणः परात्मानमेवं सुप्तावपि स्फुटम् । तदन्या देवताः सर्वाः प्राणस्यैव वशे स्थिताः । ईषच्च सुप्तवद्यान्ति नैव मानुषजीववत् ॥ स्वर्ग-स्थानां न तु स्वापः प्रायो देहेऽपि नाज्ञता । मृतिसुप्तिप्रबोधादेर्नियन्ता हरिरेकराट् । तमृते नैव चावस्था नावस्थावान्न च स्मृतिः । ततस्तु देवदेवेशः प्राणः प्राणेश्वरो हरिः । न हरेरीशिता त्वन्यः स हि सर्वाधिको मत’ इति हरिवंशेषु ॥ ४० ॥

पदरत्नावली

नानायोनिषु वर्तमानस्य जीवस्य देहाद्देहान्तरप्राप्तौ सुप्तौ चास्वातन्त्र्य-प्रतीतेरस्यैक्यानुपपत्त्या प्राणस्य क्षीरनीरवत् सहावस्थानेऽपि परमात्माधीनत्वाच्च हरेः सर्वोत्कृष्टत्वम-प्रतिहतमिति भावेनाह– अण्डेष्विति । जीवस्य तत्र तत्र तेषु तेषु अण्डेषु पक्ष्यादिकोशेषु, तज्जन्येष्वित्युपलक्ष्यते । पेशो जरायुस् तद्वत्सु पेशिषु जरायुजेष्वित्यर्थः । पेशो जरायुरुद्दिष्टः सुवर्णं पेश उच्यते । मृदुपिण्डश्च पेशः स्यात् क्वचिद् भद्रमपीष्यते’’ इत्यभिधानम् । तरुषु उद्भिज्जेषु । अवनिस्थितेषु स्वेदजेषु भूस्वेदेन जातमत्कुणादिशरीरेषु प्रवेक्ष्यन् पूर्वं देहं हित्वा प्राणं प्रविश्य परमात्मानं प्रविष्टेन प्राणेन परमात्मना सहोपधावति गच्छति प्रविशति । ‘‘देहाद् देहान्तरगतौ प्रविशेत् प्राणमेव तु । जीवः प्राणः परात्मानमेवं सुप्तावपि स्फुटम् । तदन्या देवताः सर्वाः प्राणस्यैव वशे स्थिताः । ईषच्च सुप्तवद् यान्ति नैव मानुषजीववत् । स्वर्गस्थानां नतु स्वापः प्रायो देहेपि नाज्ञाता । मृतिसुप्तिप्रबोधादेर्नियन्ता हरिरेकराट् । तमृते नैव चावस्था नावस्थावान् न च स्मृतिः । ततस्तु देवदेवेशः प्राणः प्राणेश्वरो हरिः । न हरेरीशिता त्वन्यः स हि सर्वाधिको मतः’’ इति (वचनम्) उक्तार्थे मानम् । मतीन्द्रियगुणे बुद्धीन्द्रियाणां गुणे शब्दादिविषयवृत्तिलक्षणव्यापारे छन्ने संवृते, मतीन्द्रियगुणे मतीन्द्रियदेवा गुणा उपसर्जनीभूता यस्य तस्मिन् प्राणे च्छन्ने भगवन्तं प्रविष्टे सति, प्राणेन सह तत्र तत्र अण्डादिशरीरेषु उपधावति । मतीन्द्रियगणे इति पाठे मत्यादिदेवसमुदाये प्राणस्य गुणभूते प्रसुप्ते ईषत्सुप्ते सति अहमि च जीवे च प्रसुप्ते सति, सुप्तावप्रकाशायामिति यावत्, जीवः प्राणेन सह भगवन्तमुपधावति । अहमि च अहङ्कारे च प्रसुप्ते सर्वेन्द्रियप्रवृत्त्युपरमे देहाभिमानाभावलक्षणायां सुप्तौ प्राणं प्रविश्य च्छन्नः प्राणेन कूटस्थे निर्विकारे हृदयस्थे परमात्मन्यास । परमात्मानं विशिनष्टि यमृत इति । यं परमात्मानमृते तदनुस्मृतिः सुप्त्यनुस्मृतिरेव न स्यात् । एतावन्तं कालं सुखमस्वाप्समिति सुखपरामर्शो न स्यादित्यर्थः । तदा परमात्माकृष्टशक्ति-त्वेनाभिमानिदेवानां ज्ञानजनकशक्त्यभावो न दोषाय । तदन्या देवताः सर्वा इत्युक्तत्वात् ॥४०॥

श्रीनिवासतीर्थीया

एवं मरणे यथा । ईषच्च सुप्तवदिति । ईषच्च सुप्तो यथा गच्छति तद्वद्यान्ति प्राणम् । तथा च जीवो यदा तत्र तत्र स्थितोऽण्डेष्वण्डजेषु । पेशिषु पेशो जरायुज-स्तद्वन्तः पेशिनः पेशस्थितदेहास्तेषु जरायुजेष्वित्यादिशरीरेषु यदा पूर्वदेहं विसृज्य याति तदा तस्मिन् देहे देहान्तः सर्वव्यापारोपरमवद्भिस्तत्त्वाभिमानिभिर्देवैः सह जीवः प्राणं प्रविश्य प्राणेन सह कूटस्थे आस । देहान्तस्थं भगवन्तमेव प्रविशतीति । एवं सुप्तावपीत्याह ॥ छन्न इति ॥ बुद्धि-तदतिरिक्तेन्द्रियगणे छन्ने स्वव्यापारादुपरते सति । अहमि च मकारान्ताहंशब्दस्य सप्तमीयम् । अहङ्कारे च प्रसुप्ते कर्तृत्वाद्यभिमानजननादिकार्यादहङ्कारतत्त्वे चोपरते सति किञ्चित्सुप्त्यादि-युक्तेन्द्रियाद्यभिमानिदेवैः सह प्राणं प्रविश्य तत्समीपं प्राप्य तद्द्वारा कूटस्थे आस । प्राज्ञं परमात्मानं प्रविशति । यं परमात्मानमृते तदनुस्मृतिः सुप्त्यवस्थाऽनुस्मृतिरवस्थावतो जीवस्य सुखविशिष्टस्यानु-स्मृतिरेतावन्तं कालं सुखमहं सुप्तोऽस्मीति च जायमाना न सम्भवति । उपलक्षणं चैतत् । अवस्थावान् जीवश्च यमृते न । तथा चैवं सर्वसत्तादिप्रदस्य जीवेन मृतिसुप्तिप्राप्यस्य तद्वैलक्षण्यं युक्तमिति भावः॥ ४० ॥

प्रमेयचन्द्रिका

एवं जीवविरुद्धधर्ममीश्वरे उपपाद्येश्वरविरुद्धधर्ममपि नानायोनिं सुप्त्याद्यवस्था-स्वस्वातन्त्र्यं च प्रतिपादयति अण्डेषु पेशिष्विति ॥ श्लोके पेशशब्दार्थमाह ॥ पेशो जरायुरिति ॥ भद्रं मङ्गलम् ॥ प्रकृते अप्रसक्तत्वादत्र जरायुः पेशः । तद्वत्सु पेशिषु जरायुजेष्वित्यर्थः । उद्भिजैक-देशवाचकतरुशब्देन उद्भिज्जानां ग्रहणम् ।

ननु अण्डादीनामप्यवनिस्थितत्वादवनिस्थितेष्वित्युक्तिः पृथक्किमर्थेत्यत आह ॥ अवनिस्थिते-ष्विति ॥ नात्रावनिस्थितेष्वित्यनेन भूम्यामवस्थितपदार्थ उच्यते येनोक्तदोषः । किन्तु स्वेदजा उच्यन्त इति भावः । कथमवनिस्थितपदेन स्वेदजा लभ्यंत इत्यत आह ॥ भूस्वेदेनेति ॥ व्याघ्र-मत्कुणादय इति शेषः । क्वचिद्व्याद्य्रादेरपि व्याघ्रांतरोत्पत्तेर्भावात्प्राय इत्युक्तम् । मूले प्राणेन हरिणा । तदधीनमुख्यप्राणेन च सह तेन नीतश्चायं जीवस्तत्र तत्राण्डजजरायुजोद्भिज्यस्वेदजभेदभिन्ने-षूपधावतीत्यर्थः । एवं नानायोनिप्रवेशादस्वातन्त्र्यं जीवस्याभिधाय सुप्तावप्यस्वातन्त्र्योपपादनाय द्वितीयार्धः प्रवृत्तः । अत्र अतीन्द्रियगुणे छन्ने अहङ्कारे प्रसुप्ते जीवः कूटस्थो भगवानेवायमहङ्कारमते अतीन्द्रियगुणाद्यनुस्मृतिर्नेत्यन्यथाभानाद्यथावद्व्याचष्टे ॥ तदा कूटस्थ इति ॥ तदिति तृतीय-पदोक्तसुप्त्यवस्थापरामर्शः । मूले कूटस्थ इति सप्तम्यंतं पदमित्यभिप्रेत्योक्तम् ॥ परमात्मनीति ॥ उपधावतीत्यत्रोक्तो जीवो अत्र कर्तृतया अन्वेतीत्याशयेनोक्तम् ॥ आस जीव इति ॥ कूटस्थ-पदोपस्थापितो हरिर्यमित्यनेन परामृश्यते । तदनुस्मृतितच्छब्देन प्रकृतसुप्त्यवस्था परामृश्यत इत्याशयेनोक्तम् ॥ यं परमात्मानमृते सुप्त्यनुस्मृतिरिति ॥ पूर्वार्धगतप्राणेन सहेत्यस्याभिप्रायमाह ॥ देहादिति ॥ पूर्वदेहं त्यक्त्वा अन्यदेहप्राप्तावित्यर्थः । कूटस्थे आसेत्यत्रापि प्राणेन सहेत्यनुवर्तत इत्याशयेनोक्तम् ॥ एवं सुप्तावपीति ॥ देहाद्देहान्तरगतौ । मन आद्यभिमानिदेवतास्थितिमाह ॥ तदन्या इति ॥ प्राणेन सहैव यान्तीति भावः । सुप्तौ तु विशेषमाह ॥ ईषदिति ॥ स्वस्व-व्यापाराभिनिवेशाभावरूपोपपत्तिरेव तेषां सुप्तिरिति भावः । इन्द्रियनियामकरूपेष्विव स्वर्गस्थरूपेष्वपि देवानामीषत्सुप्तिरस्ति किमित्यतो नेति प्रसङ्गादाह ॥ स्वर्गस्थानामिति ॥ देहे सुप्तदेहिवत्सुप्ति-मीषद्यातीत्युक्तं विवृणोति ॥ प्रायो देहे अपीति ॥ सुप्तजीवस्य यथा सर्वथा बाह्यार्थाज्ञानमेवमज्ञता नास्ति । स्वनियम्यविषयमनोभिनिवेशसद्भावाभिप्रायेण प्रायेणेत्युक्तमिति ज्ञेयम् ।

प्राणस्यैव वशे स्थिता इत्यवधारणेन विष्ण्वधीनता न प्रत्येतव्येत्युक्तम् ॥ मृतिजन्मेति (सुप्तीति) ॥ आदिपदेन स्वप्नादिग्रहणम् । अवस्था जाग्रदाद्याः । अवस्था अवस्थानम् । स्वरूपसत्ता । वाशब्दः समुच्चये । उपसंहरति ॥ ततस्त्विति ॥ यस्मात्प्राणान्वयव्यतिरेकानु-विधानमितरेषां देवानां तत एवेत्यर्थः । हरिस्तु प्राणेश्वर इत्यन्वयः । सर्वेश्वरस्य प्राणस्य सेश्वरत्ववन्न हरेरपि सेश्वरत्वं मन्तव्यमित्याह ॥ न हरेरिति ॥ ततश्च मतेरिन्द्रियाणां च गुणे तत्तद्वृत्तिरूपे छन्ने अतिरोहिते । अहमि अहङ्काररूपान्तःकरणप्रभेदे च प्रसुप्ते उपरते सति तत्तदभिमानिदेवेषु चेषत्सुत्पवत्सु सुप्त्यवस्थायां जीव इत्यनुवर्तते । प्राणं प्रविश्य तद्वारा कूटस्थे निर्विकारे परमात्म-न्यास । यं परमात्मानमृते तदधीनं मुख्यप्राणं च ऋते तदनुस्मृतिः सुप्त्याद्यनुस्मृतिः । देशकाल-तमःसुप्त्यवस्थासुखज्ञानं स्वज्ञानं न सम्भवतीति । ततश्चैतावन्तं कालं सुखमहमस्वाप्समिति सुप्त्युत्थितस्यानुस्मृतिरनुसन्धानं च नेति मूलार्थः ॥ ४० ॥

यर्ह्यब्जनाभचरणेषणयोरुभक्त्या

चेतो मलानि विधमेद् गुणकर्मजानि ।

तस्मिन् विशुद्ध उपलभ्यत आत्मतत्वं

साक्षाद् यथाऽमलदृशौ सवितृप्रकाशः ॥ ४१ ॥

पदरत्नावली

इदानी सर्वोत्कृष्टत्वेन सर्वस्माद् भिन्नस्य सर्वोपकारकत्वेन प्रेष्ठस्य परमात्मतत्वस्यापरोक्ष्यं कदा नु स्यादिति सोदाहरणं तत्साधनमाह– यर्हीति । यर्हि यदा पद्मनाभ-चरणेषणया अनुदिनं प्रवृद्धयोर्व्या भक्त्या चेतसः सत्वादिगुणकर्मजातानि मलानि विधमेत् परिहरेत् तदा तस्मिन् चेतसि शुद्धे आत्मतत्वं परमात्मस्वरूपं साक्षादुपलभ्यते अपरोक्षीक्रियते । कथमिव । यथा सवितृप्रकाशोऽमलदृशौ निर्मलचक्षुषि दृश्यत इति ॥ ४१ ॥

श्रीनिवासतीर्थीया

चरणेषणया सेवया जातयोरुभक्त्या । तस्मिंश्चेतसि शुद्धे सत्यात्मतत्त्वं साक्षादुपलक्ष्यत इत्यन्वयः । अमलदृशौ समीचीने चक्षुषि सति ॥ ४१ ॥

प्रमेयचन्द्रिका

एतादृशस्य हरेरपरोक्षज्ञानं कथं कार्यं स्यादित्यत उच्यते ॥ यर्हीति ॥ अब्जनाभचरणनलिनमेव मे शरणं भूयादितीच्छया । सेवयेत्यप्याहुः । ऊरुभक्त्या च । सत्वादि-गुणैर्बन्धककर्मभिश्च जातानि कामक्रोधादिरूपमलानि यदा चेतो मनोविधमेद्दहेत् । तस्मिन्नन्तःकरणे विशुद्धे सति परमात्मतत्वं साक्षादुपलभ्यते । तत्र दृष्टान्तो । यथेति । काचकामलादिमलरहिता या दृशिस्तस्यां सत्यामेव सवितृप्रकाशः साक्षादुपलभ्यते । तथा विशुद्ध एव मनसि परमप्रकाशरूपोऽपि हरिरुपलभ्यत इत्यर्थः ॥ ४१ ॥

राजोवाच—

कर्मयोगं वदत नः पुरुषो येन संस्कृतः ।

विधूयेहाशु कर्माणि नैष्कर्म्यं विन्दते परम् ॥ ४२ ॥

पदरत्नावली

निमिर्ज्ञानयोगं श्रुत्वा कर्मयोगं पृच्छति कर्मयोगमिति । येन केन प्रकारेण । संस्कृतः शुद्धः ॥ ४२ ॥

श्रीनिवासतीर्थीया

परमुत्तमं नैष्कर्म्यं निर्गतानि कर्माणि यस्मात्सो निष्कर्मा पुमान् तत्सम्बन्धि नैष्कर्म्यम् । कर्मणा न साध्यत इति निष्कर्म निष्कर्मैव नैष्कर्म्यम् । स्वार्थे ष्यञ् इति वा । निष्कर्मणा निष्काम्यकर्मणा साध्यो मोक्षो नैष्कर्म्यमिति वा । तथा गीतागीतात् ॥४२॥

प्रमेयचन्द्रिका

अन्तःकरणशुद्धिः सर्वथा अपेक्षितेत्युक्तम् । तत्राब्जनाभचरणाराधन-रूपकर्मयोग एव हेतुरित्याशयेन प्रश्नः क्रियते ॥ कर्मयोगमिति ॥ कर्मयोगेन शुद्धान्तकरणः श्रवणाद्युपासनाजनितापरोक्षज्ञानेन पुण्यपापकर्मणीह सुहृत्सु द्विषत्सु च विधूय परमं मोक्षं लभ्यत इत्यर्थः ॥ ४२ ॥

एवं प्रश्नमृषीन् पूर्वमपृच्छं पितुरन्तिके ।

नाब्रुवन् ब्रह्मणः पुत्रास्तत्र कारणमुच्यताम् ॥ ४३ ॥

पदरत्नावली

ब्रह्मणः पुत्राः सनकादयः । कारणं परिहारावचने निमित्तम् ॥ ४३ ॥

श्रीनिवासतीर्थीया

पिर्तुमम पितुः समीपे ॥ ४३ ॥

आविर्होत्र उवाच—

कर्माकर्मविकर्मेति वेदवादो न लौकिकः ।

वेदस्य चेश्वरात्मत्वात् तत्र मुह्यन्ति सूरयः ॥ ४४ ॥

तात्पर्यम्

‘जानन्तोऽपि हि दुर्ज्ञेयः प्रश्नोऽयं ज्ञानिनामपि । इति वेदयितुं ब्रह्मपुत्रा नोचुर्निमेः पुरा’ इति तन्त्रभागवते ॥ ईश्वरात्मत्वाद् ईश्वरविषयत्वात् ॥ ४४ ॥

पदरत्नावली

आविर्होत्रः ‘‘जानन्तोऽपि हि दुर्ज्ञेयः प्रश्नोऽयं ज्ञानिनामपि । इति ज्ञापयितुं ब्रह्मपुत्रा नोचुर्निमेः पुरा’’ इति वाक्याज् ज्ञानिनामपि दुर्ज्ञेयत्वं निमित्तमित्यभिप्रेत्य तैः प्रश्नपरिहार आदौ न कृत इति सूचयन् प्रश्नं परिहरति कर्मेति । इदं कर्म प्रशस्तमिदं कर्म कर्तुमयोग्यमिदं विकर्म विरुद्धं कर्मेति वेदगतो विचारो न लौकिकः लोकविषयः, वेदबहिर्मुखजनगोचरो न भवति । किन्तु वेदविचारकुशलपुरुषविषय एवेत्यर्थः । कुतोऽत्राह– वेदस्येति । च शब्द एवार्थे । ईश्वरात्मत्वाच्च ईश्वरविषयत्वादेव । वैदिकानामपि तत्प्रसादं विना सुज्ञेयो नेति भावेनाह– तत्रेति । तत्र वेदार्थविचारे ॥ ४४ ॥

श्रीनिवासतीर्थीया

आविर्होत्रः कारणं वक्ति । कर्मेत्यनेन । इदं समीचीनं कर्म । अकर्म ममायोग्यं कर्म । विकर्म इदं विरुद्धं कर्मेति । कर्मेश्वरार्पणबुध्द्याऽनुष्ठानम् । कर्ममात्राकरणमकर्म । पूर्वोक्तकर्मविरुद्धानुष्ठानं विकर्मेति वा । वेदवादः । वादो विषयकत्वं तु मुख्यतो वचनं स्मृतमिति वचनाद् वेदेन मुख्यतः प्रतिपाद्यः । अमुख्यया वृत्त्या प्रतिपाद्यमानोऽपि लौकिको वेदविचार-शून्यबहिर्मुखजनविषयबुद्धिविषयो न । अमुख्यार्थोऽयं चेत्को मुख्यार्थ इत्यत उक्तम् ॥ वेदस्येति । अत्र वेदस्येश्वरात्मकत्वादितीश्वरस्वरूपं भातीत्यतो व्याचष्टे ॥ ईश्वरविषयत्वादिति । तेनेश्वर-माप्नोतीति ईश्वरात्मा ईश्वरविषयस्तस्य भावस्तत्वमित्यर्थः । तत्रान्तःकरणादीश्वरप्रसादं विना वेदार्थविचारे सूरयोऽपि मुह्यन्ति त्वं तु मुह्यसीति किं वक्तव्यम् । अतस्तद्दुर्ज्ञेयमिति ज्ञापयितुं त्वां प्रति नोचुरित्याशयः । तदेतदाह ॥ जानन्तोऽपीति । ब्रह्मपुत्रा इत्यन्वयः । प्रश्नः प्रष्टव्यार्थः । ज्ञानिनां ज्ञानिभिः । अपिशब्दात्त्वया दुर्ज्ञेय इति किं वाच्यमिति ज्ञायते । वेदयितुं ब्रह्मपुत्राः सनकाद्याः पुरा पूर्वं निमेर्विदेहस्य नोचुरित्यर्थः ॥ ४४ ॥

दुर्घटभावदीपिका

इदं कर्मेदमकर्मेदं विकर्मेति प्रतिपादकवेदवादो वेदवादस्यार्थो न लौकिको ज्ञानिभिरपि सुज्ञेयो न भवतीति ज्ञापयितुं ब्रह्मपुत्राः सनकाद्यास् तव प्रश्नस्योत्तरं नोचुरिति शेषः । कर्मादिकप्रतिपादकवेदवाक्यार्थस्य ज्ञानिभिरपि दुर्ज्ञेयत्वं कुत इत्यत आह ॥ वेदस्य चेति । कर्मादि-प्रतिपादकस्य वेदस्येश्वरविषयत्वस्यापि भावात् । न लौकिक इत्यनेन मूढलोकैः सुज्ञेयो न भवतीत्युच्यत इति भ्रमं वारयितुं न लौकिक इत्युक्तं विवृणोति ॥ तत्रेति । तत्र कर्मादिप्रतिपादक-वेदवाक्यार्थपरमेश्वरविषये सूरयो मुह्यन्तीति । अयं भावः । कर्मादिप्रतिपादकवेदवाक्येष्वीश्वरार्पणपूर्वकं कृतमेव कर्मेत्याद्युच्यत इतीदं प्रमेयं ज्ञानिभिरपि दुर्ज्ञेयमिति ॥ ४४ ॥

प्रमेयचन्द्रिका

अत्र तत्र मुह्यन्ति सूरय इति सनकादयो अपि मुह्यन्ति अतो मोहा-दज्ञानान्नाब्रुवन्नित्युच्यत इति भाति तां प्रतीतिं प्रमाणेन परिहरति ॥ जानन्तोऽपीति ॥ हिशब्दः सनकादीनां महासार्वज्ञ्यप्रसिद्धिद्योतकः । एतेन मूले सूरयो मुह्यन्तीत्यतःपरमिति ज्ञापयितुं ब्रह्मपुत्रा निमेः पुरा नोचुरिति वाक्यमध्याहार्यमिति सूचितं भवति । ततश्च वर्णाश्रमविहितं कर्म, विधानरहितमकर्म । निषिद्धं विकर्म इत्येतद्विषयको वेदगतो वादः । न तु लोकविद्धः। तेन वेदैकगम्यत्वेन निमित्तेन सूरयो अपि मुह्यन्तीति वेदयितुं ब्रह्मपुत्रा नोचुर्निमेः पुरेत्यर्थः । अस्तु वेदैकगम्यं कर्मादिकं तस्मादेव तेन वेदेनैव ज्ञातुं शक्यते ॥ तत्कुतो मोहप्राप्तिरित्यत उक्तम् ॥ वेदस्येति ॥ तत्रेश्वरस्वरूपत्वादित्यन्यथाभानादनूद्यार्थमाह ॥ ईश्वरात्मत्वादिति ॥ ईश्वरमादत्ते विषयीकरोतीति ईश्वरात्मा । तस्य भावस्तत्वं तस्मादित्यर्थः । तथा च सर्वे वेदा यत्पद-मामनन्तीत्याद्युक्तेरीश्वर विषयत्वात्तदविरोधेन कर्मादिज्ञानं वेदेन दुर्लभमिति भावः ॥ ४४ ॥

परोक्षवादो वेदोऽयं बालानामनुशासनम् ।

कर्ममोक्षाय कर्माणि विधत्ते ह्यगदं यथा ॥ ४५ ॥

पदरत्नावली

ननु वेदस्येश्वरविषयत्वं कथं युज्यते स्वर्गकामो यजेतेत्यादिकर्मविषयत्वप्रतीतेरत आह– परोक्षेति । परोक्षतो वादो वचनं यस्य स तथा । अयं वेदो मुख्यया वृत्त्या साक्षाद् ब्रह्म वक्ति, अमुख्यया कर्म च । किमर्थमेवं कल्प्यत इत्यत्राह– बालानामिति । अल्पज्ञानि-नामनुशासनं कुर्वन् वेदोऽन्तःकरणशुद्धये दुष्कर्ममोक्षाय च ब्रह्मार्पणबुद्ध्या तदुद्दिश्य कर्माणि विधत्ते, कुर्वन्नेवेह कर्माणि जिजीविषेत् शतं समा इत्यादिलक्षणः, हि यस्मात् तस्मादुभयथापि ब्रह्मविषयत्वमविहतं वेदस्य । एकस्योभयविषयत्वं कुत्र दृष्टमत्राह– अगदं यथेति । यथा यदेकमेव द्रव्यमपथ्यजनकं तदेवौषधीकृतमपथ्यं परिहर्तृ भवति तथेत्यर्थः । यद्वा एकं पर्पटकं चिकित्सा-भेदाज्ज्वरवातयोः परिहाराय भवति प्रकृतेऽपि तथेति ॥ ४५ ॥

श्रीनिवासतीर्थीया

ननु स्वर्गकामो यजेतेत्यादिवेदस्य कर्मविषयतयैव मुख्यतः प्रतीतेः कथमीश्वरात्मकत्वं वेदस्येत्यत आह ॥ परोक्षेति । परोक्षवचनवान् गूढतयैव भगवत्स्वरूपं वक्ति । मुख्यवृत्त्या तमेव वक्तीति यावत् । तर्हि कर्म कस्माद्विधत्त इत्यत आह ॥ बालानामिति ॥ बालानामज्ञानिनामनुशासनं शिक्षां कुर्वन् अयं वेदो दुष्कर्ममोक्षायापवर्गाय कर्माणि विधत्ते । ईश्वरार्पणबुद्ध्या कर्तव्यानीत्यभिसन्धाय । बालस्त्वेतदज्ञात्वा कर्म कुर्वाणो नरकाद्युपैति । ईश्वरार्पणबुद्ध्या कुर्वाणो मुच्यते । तत्र दृष्टान्तः । अगदं यथा । औषधादिकं वैद्यशास्त्रोक्तप्रकारेण सानुपानं सेवितं चेद्रोगमोक्षदमन्यथा मरणदं यथा तद्वदित्यर्थः ॥ ४५ ॥

प्रमेयचन्द्रिका

ननु ज्योतिष्टोमेन स्वर्गकामो यजेत सन्ध्यामुपासीतेत्यादेः कर्मविषयतया प्रतीतेः कथमीश्वरविषयत्वमुच्यत इत्यत उच्यते ॥ परोक्षवाद इति ॥ तमिन्द्रं सन्तमित्याचक्षते परोक्षेण परोक्षप्रिया इव हि देवाः प्रत्यक्षद्विष इत्यादाविव परोक्षपदं गूहितत्वपरम् । गूहितं यथा भवति तथा वदतीति परोक्षवाद इत्यर्थः । आपातत एव कर्मादिप्रतिपादकतया प्रतीयमानो वेदो गूहिततया ईश्वरं वदतीति भावः ।

ननु स्वर्गकाम इति स्वर्गो हि फलतया स्पष्टं प्रतीयते अतस्तत्साधनं कर्मैव मुख्यतयोक्तमिति वक्तव्यम् । तथा चापातत इति कथमुच्यत इत्यत उक्तम् ॥ बालानामिति ॥ मन्दानामनुशासन-मुद्दिश्येत्यर्थः । एतदुपपादयिष्यते रोचनार्थं फलश्रुतिरित्यत्र । ननु प्रतिपदसमन्वयरीत्या भवतु भगवत्परत्वं न वाक्यसमन्वयेन । वाक्यमर्यादयोपक्रमादिलिङ्गैः कर्मपरतया स्पष्टं प्रतीतेरित्यत उक्तम् ॥ कर्ममोक्षायेति ॥ यथा वैद्यशास्त्रमात्यन्तिकव्याधिमोक्षायागदमौषधं विधत्त इति व्याध्युच्छेद एव महातात्पर्योपेतं तथा बन्धककर्ममोक्षाय भगवदाराधनरूपाणि कर्माणि विधत्ते श्रुतिः । मां विधत्त इति केवलमीश्वरपूजामुद्दिश्यैव कर्मविधिरिति वक्ष्यमाणत्वात् । तथा च कर्मकाण्डस्यापि महातात्पर्यगोचरं हरिपूजनमेवेति भगवत्परत्वमेवेति भावः ।

अथवा बालानामगदमुद्दिश्यागदपदोदितरोगपरिहारमुद्दिश्य मात्रादिभिस्तव देहपुष्टिर्भविष्यति । शिखा प्रवर्तत इत्याद्यनुशासनं प्ररोचनरूपं क्रियते । तत्र शिखाभिवृध्द्यादौ न तात्पर्यं किंतु रोग-निवृत्तावेव । तथा स्वर्गकामश्रुतेर्न स्वर्गे तात्पर्यम् । किन्तु मन्दानां कर्मणा स्वर्गो भवतीति प्ररोचन-रूपानुशासनमेव । वस्तुतस्तु बन्धककर्ममोक्षायेश्वराराधनरूपाणि विधत्ते अतः परोक्षवादो वेद इति ।

एवं भगवत्पूजात्मककर्मप्रतिपादकत्वाद्वेदस्य मुख्यतो भगवद्विषयत्वमित्युक्तम् । अधुना स्वर्गादिफलकप्रवृत्तकर्मणोऽपि वेदोक्तत्वात्तस्य च बन्धककर्मणो मोक्षहेतुत्वाभावात्तत्परवेदभागस्य न ब्रह्मपरतेत्याशङ्क्य न द्विविधयज्ञकर्म प्रतिपादयति वेदः । येन प्रवृत्तकर्माभिधायकस्याब्रह्मपरता शङ्क्येत किंतु वेद एकधैव कर्माभिधत्ते तत्र वेदतात्पर्यमज्ञात्वा सर्वकर्मपूज्यं हरिमप्यविदित्वा केवलविषयकामनया करणे काम्यं सर्वथा हर्यर्पणादिराहित्ये तदेवानर्थसाधनं विकर्म भवति । यदि चेश्वरस्वातन्त्र्यानुसन्धानपुरःसरं तत्पूजात्मकं तदर्पिततया क्रियते । तदा वेदाभिप्रेतमाह । प्रेत्यसाधनं सकर्म भवति । असारं स्वर्गादिफलकथनम् अपक्वमनसा भगवत्कर्मणि क्रमेण बुद्धिमवतारयितुं गुडजिह्विकान्यायेन प्रवृत्तमित्युच्यते ॥ ४५ ॥

नाऽऽचरेद् यस्तु वेदोक्तं स्वयमज्ञोऽजितेन्द्रियः ।

विकर्मणा ह्यधर्मेण मृत्योर्मृत्युमुपैति सः ॥ ४६ ॥

वेदोक्तमेव कुर्वाणो निःसङ्गोऽर्पितमीश्वरे ।

नैष्कर्म्यां लभते सिद्धिं रोचनार्थं फलश्रुतिः ॥ ४७ ॥

तात्पर्यम्

अज्ञः सन्नाचरन् । विकर्मणा मृत्योर्मृत्युमुपैति । स एवेश्वरार्पितं कुर्वाणः सिद्धिं लभते ॥ अज्ञात्वा कुर्वतः कर्म स्खलनात्पापकारणम् । तदेवार्पयतो विष्णोर्नैव पापाय तद्भवेत् । मनोदोषविहीनस्य न तु दोषवतः क्वचित् । सत्सु केशव-पूर्वेषु क्रमशो भक्तिहीनता । असद्भक्तिस्तथा स्नेहो बहुमानमथापि वा । स्वोत्तमानां प्रियत्यागादात्मप्रियचिकीर्ष(ता)या । अधिकेष्वेव नीचोच्चभक्तिव्यत्यास एव वा । स्वोत्त-मस्यात्मनश्चैव समस्नेहोऽथवा भवेत् । कार्येषु बहुमाने वा स्वात्मनः समतापि वा । आधिक्ये किमु वक्तव्यमात्मनः शक्तिहापनम् । शक्तस्याशक्तवत्कर्म मनोदोषा इतीरिता’ इति कर्मतन्त्रे ॥ ४६ ॥

पदरत्नावली

वेदस्यापौरुषेयत्वेन विप्रलम्भादिदोषाभावादज्ञेनापि वेदोक्तं कृतं सुकर्मेत्याशङ्क्य भगवदज्ञकृतं कर्म विकर्म तत्, ज्ञानिकृतमेव सुकर्मेति विविनक्ति नाऽऽचरेदिति । स्वयं सर्व-पूजितमिदमिष्टप्रदं दैवं न जानातीत्यज्ञः, अत एवाजितेन्द्रियो विषयलम्पटो यो ना पुरुषो वेदोक्तं कर्माचरेत् करोति स मृत्योर्मृत्युमतीवदुःखमुपैति । केन कारणेनेत्यत उक्तं विकर्मणेति । वेदोक्तकर्मणो विकर्मत्वं कुत इत्यत उक्तम् अधर्मेणेति । ‘‘एष मे सर्वधर्माणां धर्मोऽधिकतमो मतः । यद् भक्त्या पुण्डरीकाक्षं स्तवैरर्चेन्नरः सदा’’ इति भीष्मोक्तेरनेवंवित्कर्मणोऽधर्मत्वात् । यद्यप्यनेवंवित्महत्पुण्यं करोति तद्धास्यान्ततः क्षीयत एवेति श्रुतिं हिशब्द आददाति ॥ अनेनेश्वरार्पणमौषधं कर्मणो नश्वर-फलरोगं विनाश्य नित्यसुखहेतुरित्युक्तं भवति । तर्हि स्वर्गे लोके न भयं किञ्चनास्तीति श्रुतिः कथं सङ्गच्छत इति तत्राह– रोचनार्थमिति । अल्पबुद्धेर्बहिर्मुखस्य योग्यस्य व्युत्पिपादायिषुर्दयालुरिव तस्मिन् बुद्ध्यवतारार्थं गुडजिह्विकान्यायमनुसन्दधानो मधुरं मक्तिफलं गर्भीकृत्य स्वर्गादिपुष्पं मधुररसमिव प्रकाश्य तदर्थे कर्म विदधानः, अधीतश्रुतवेदार्थस्य समुत्पन्नजिज्ञासस्य क्षणभङ्गुरफलत्वात् स्वर्गादौ वैराग्यमुत्पाद्य श्रीनारायणचरणारविन्दभक्तिमुत्पाद्य तदुपासनासम्भूतसंवित्सञ्जातप्रसादसुलभापवर्गे तात्पर्यपर्यवसायिनी फलश्रुतिः सङ्गता भवतीति । ‘‘अज्ञात्वा कुर्वतां कर्म स्खलनात् पापकारणम् । तदेवार्पयतो विष्णोर्नैव पापाय तद् भवेत् । मनोदोषविहीनस्य न तु दोषवतः क्वचित् । सत्सु केशवपूर्वेषु क्रमशो भक्तिहीनता । असद्भक्तिस्तथा स्नेहो बहुमानमथापि वा । स्वोत्तमानां प्रियत्यागा-दात्मप्रियचिकीर्षुता । अधिकेष्वेव नीचोच्चभक्तिर्व्यत्यास एव वा । स्वोत्तमस्यात्मनश्चैव समस्नेहोऽथवा भवेत् । कार्येषु बहुमानो वा स्वात्मनः समतापि वा । आधिक्ये किमु वक्तव्यमात्मनः शक्तिहापनम् । शक्तस्याशक्तवत् कर्म मनोदोषा इतीरिताः’’ इत्यनेनोक्ततात्पर्यार्थो बोद्धव्यः ॥ ४६,४७ ॥

श्रीनिवासतीर्थीया

दृष्टान्तानुसारेण दार्ष्टान्तिकं विवृणोति ॥ नेति ॥ यो वेदोक्तमपि कर्म ना पुरुषः स्वयं भगवद्विषयकाज्ञानयुक्तः सन्नजितेन्द्रियः संश्च यद्याचरति सोऽधर्मेण । एष मे सर्वधर्माणामित्युक्तत्वेन भगवद्विस्मृतेरधर्मत्वेन तद्धेतुना, विकर्मणा वेदविरुद्धकर्मणा भगवत्स्मरणपूर्वकं कर्म कर्तव्यताया वेदोक्तत्वात्तदस्मरणेन करणे वेदविरुद्धम् । मृत्योरनन्तरं मृत्युं नरकमुपैतीति योज्यम् ॥

एवं यदि वेदस्य मोक्षफले पर्यवसानं तर्हि स्वर्गकाम इति फलश्रुतिरयुक्तेत्यत उक्तम् ॥ रोचनार्थमिति । यथौषधानभीप्सोर्बालस्य भिषगादौ जिह्वायां गुडं स्थाप्य पश्चात्स्वाभिमुखं तमौषधं पाययति । एवं वेदमार्गानभिज्ञं स्वमार्गे स्थापयितुं स्वर्गादिकं फलं प्रतिपाद्य तत्र प्रवृत्तं प्रति पश्चात्पुण्यजितो लोकः क्षीयत इत्यादिना तस्य फलस्य नश्वरतां प्रतिपाद्य तत्र वैराग्यं जनयित्वा मोक्षमार्गे स्थापयतीति रोचनार्थमित्यर्थः ॥ ४६,४७ ॥

प्रमेयचन्द्रिका

नाचरेदिति श्लोकद्वयेन अत्र नाचरेदिति कर्माकरणरूपमकर्मोक्त्वा विकर्मणेति तस्य विकर्मत्वोक्तिरयुक्ता । अकर्मणो विकर्मत्वायोगात्कर्माकर्मविकर्मेत्युक्तत्रैविध्यविरोधाच्चेत्यतो यथावद्व्याचष्टे ॥ अज्ञः सन्निति ॥ अज्ञ इति स्वयमज्ञ इत्यस्यार्थः । आचरन्नित्याचरेदित्यर्थः । ना पुरुषः जीवः । तेन अज्ञात्वा कृतेन मृत्योर्मरणादनन्तरं मृत्युं नरकं तमश्च उत्तरश्लोके इत्यनुवर्तत इति भावेनोक्तम् ॥ स एवेति ॥ एवेति वेदोक्तमेव कुर्वाण इत्यस्य अन्यत्स्पष्टम् । तथा च ना इत्यस्य पुरुष इत्यर्थकत्वेनाकर्मणो विकर्मत्वानुक्तेर्नोक्तदोष इति भावः ।

ततश्चायं मूलार्थः । यो ना पुरुषः स्वयमजितेन्द्रियो अज्ञश्च सन् वेदोक्तमपि कर्माचरेत्कुर्यात्स पुरुषो भगवत्पूजात्वसंकल्पसमर्पणाद्यंगसंवलनादधर्मत्वेन पर्यवसितत्वात्तेनैव विकर्मणा मृत्योर्मृत्युमुपैति । यः स्वयं सम्यज्ञानी जितेन्द्रिय इति च ग्राह्यम् । निःसंगो विषयेषु स्नेहरहितः सन् भगवदर्पितं यथा भवति तथा वेदोक्तं तदेव कर्म कुर्वाणः सन्नैष्कर्म्यमकर्मेत्युच्यते । यद्वन्मोक्षफलविवर्जनादित्युक्तेर् मोक्षरूपसिद्धिं फलं लभते । कर्मरूपवेदस्यापि मोक्षफलकत्वे स्वर्गकामश्रुतिविरोध इत्यत उक्तम् ॥ रोचनार्थमिति ॥

यथा भैषज्यरोचनमित्यत्र तद्विवरणं भविष्यतीति स्वोक्तार्थे प्रमाणमाह भगवानाचार्यः ॥ अज्ञात्वेति ॥ तदेवार्पयत इत्यत्र विशेषमाह ॥ मनोदोषविहीनस्येति ॥ अस्य तदेव कर्मार्पयत इत्यनेनान्वयः । भगवदर्पणाभाससद्भावेऽपि मनोदोषस्य सत्वे मनोदोषाभावेऽपि भगवदर्पणाभावे पात एवेति भावः । कोऽसौ मनोदोष इत्यत आह ॥ सत्स्वित्यादिना ॥ असत्सु स्नेहमात्रम् । बहुमानमात्रं वा । प्रियत्यागात् प्रियं त्यत्क्वा चिकीर्षता कर्त्तुमिच्छता । स्वापेक्षया अधिकेष्वपि मध्ये नीचेषु च भक्तिः । उच्चेषु नीचभक्तिरिति व्यत्यासम् । न तु प्रामादिकः क्वाचित्क इति व्यत्यास इत्येवशब्दार्थः । कार्येषु प्रसक्तेषु स्वोत्तमस्य स्वात्मनश्च समस्नेहसाम्येन लाभादिकार्यं भवेदिति स्नेहः। बहुमानप्रसक्तौ आत्मनो वा समभावेत्यर्थः । अथवा स्वोत्तमस्वात्मनश्च विषये समस्नेहकार्येषु प्रसक्तेषु स्वोत्तमस्य कार्येषु स्वात्मनः कार्येष्वित्युभयत्र समसत्ता चेति शेषः । समस्नेह इत्यस्यानुवृत्या सम्बोधो वा कार्यः । बहुमाने प्रसक्ते स्वात्मनः स्वोत्तमस्य समो बहुमानो वा । समताज्ञानं ब्रूतेत्यर्थः। न केवलं स्वात्मनः समताज्ञानं किन्तु स्वस्याधिक्यज्ञाने किमु वक्तव्यम् । शक्तिहापनमिति गुर्वादिस्वोत्तमानामनुकूलमिति गुर्वादिस्वोत्तमानामनुकूलनीयकार्यप्रसक्तावात्मनः स्वस्य तद्विषये शक्तिहापनशक्त्यभावोपपादनेन तदकरणमिति यावत् । कथंचित्करणेऽपि समर्थेनाप्य-शक्तवत्कर्मकरणमित्येते भावा मनोदोषा इतीरिता इत्यर्थः ॥ ४६,४७ ॥

य आशु हृदयग्रन्थिं निर्जिहीर्षुः परात्मनः ।

विधिनोपचरेद् देवं तन्त्रोक्तेन च केशवम् ॥ ४८ ॥

लब्ध्वा चाव्यग्रमाचार्यं तेन सन्दर्शितागमः ।

महापुरुषमभ्यर्चेन्मूर्त्याऽभिमतयाऽऽत्मनः ॥ ४९ ॥

तात्पर्यम्

अव्यग्रत्वेनाचार्यं लब्ध्वा । ‘परीक्ष्यैव गुरुः शिष्यं शिष्योऽपि गुरुमा-व्रजेत् । अन्यथा नरकायैव प्रायश्चित्तं गुरोस्तथेऽति च ॥ ४९ ॥

पदरत्नावली

इदानी भगवदर्चनप्रकारं कथयति य आश्विति । तन्त्रोक्तेन पञ्चरात्रोक्तेन ॥ तन्त्रोक्तसम्प्रदायमजानतः कथमर्चना घटत इति तत्राह– लब्ध्वेति । अव्यग्रमिति क्रियाविशेषणं बहुकालं परीक्ष्याचार्यं लब्ध्वेत्यर्थे वर्तते । तेनाचार्येण सन्दर्शितागमः सम्यग् दर्शितशास्त्रसम्प्रदायः ‘‘परीक्ष्यैव गुरुः शिष्यं शिष्योपि गुरुमाव्रजेत् । अन्यथा नरकायैव प्रायश्चित्तं गुरोस्तथा’’ इत्यनेनाव्यग्रत्वमुभयोरप्यपेक्षितमिति अत्र क्रियाविशेषणत्वेन प्रयुक्तमिति । अव्यग्रत्वेन आचार्यं लब्ध्वेत्यत्र (तात्पर्यवाक्ये) इत्थम्भूतलक्षणे तृतीया । कञ्चित्प्रकारं प्राप्त इत्थम्भूतः, तज्ज्ञापके तृतीया ॥ ४८,४९ ॥

श्रीनिवासतीर्थीया

तन्त्रोक्तेन पञ्चरात्रोक्तप्रकारेण । लब्ध्वेति श्लोकेऽव्यग्रमित्याचार्यविशेषणं भाति तन्न तथा किन्तु क्रियाविशेषणमित्याह ॥ अव्यग्रत्वेनेति । मूलोक्तमुपलक्षणमित्याशयेनाह ॥ परीक्ष्यैव गुरुः शिष्यमिति ॥ ४८,४९ ॥

दुर्घटभावदीपिका

शिष्यविषयेऽव्यग्रं शिष्यपरीक्षां कुर्वाणमिति यावत् । आचार्यमव्यग्रं यथा भवति तथा लब्ध्वाऽऽचार्यपरीक्षां कृत्वा । आचार्यं लब्ध्वेति यावत् । तेनाचार्येण संदर्शितागमः संदर्शितागमार्थः सन् आत्मनोऽभिमतया मूर्त्या प्रतिमया । प्रतिमायामिति यावत् । महापुरुष-मेवाभ्यर्चेदिति । एतेनाव्यग्रत्वं यथाऽऽचार्यस्योक्तं तथा शिष्यस्याप्यव्यग्रत्वं वक्तव्यम् । तन्नोक्तमिति न्यूनतेति शङ्कानवकाशः । अव्यग्रमित्यस्यावृत्तिं क्रियाविशेषणत्वं चाङ्गीकृत्य शिष्यस्याप्यव्यग्रत्वमुच्यत इत्यङ्गीकारात् । एतेनैव मूर्ताविति वक्तव्यं मूर्त्येति तृतीयाप्रयोगोऽनुपपन्न इति चोद्यं प्रत्युक्तम् । विवक्षातः कारकाणि भवन्तीति वचनादधिकरणत्वस्य करणत्वविवक्षया तृतीयाप्रयोगः कृत इत्यङ्गी-कारात् ॥ ता. अर्थः ॥ शिष्योऽव्यग्रत्वेन विशिष्टः सन् आचार्यं लब्ध्वा । अनेन यथाऽव्यग्र-मित्येतदाचार्यविशेषणमेवमव्यग्रमित्यस्यावृत्तिं क्रियाविशेषणत्वं चाङ्गीकृत्य शिष्यविशेषणमपि कर्तव्यमित्युक्तं भवति । अव्यग्रत्वं नाम किमित्याशङ्कां परिहरन् गुरुशिष्ययोरुभयोरप्यव्यग्रत्व-मपेक्षितमित्यत्र प्रमाणमाह ॥ परीक्ष्यैवेति । गुरुः शिष्यं परीक्ष्यैव शिष्यं स्वीकुर्यात् । शिष्योऽपि गुरुं परीक्ष्यैव गुरुमाव्रजेत् । अनेन परीक्षकत्वमेवाव्यग्रत्वमित्युक्तं भवति । विपक्षेबाधकमाह ॥ अन्यथेति । अन्यथा परीक्षाभावे परस्परस्वीकरणमुभयोर्नरकाय भवत्येव । गुरुणा प्रायश्चित्तं कृतं चेन्नरको न भवतीति भावेनाह ॥ प्रायश्चित्तमिति । यथा शास्त्रेणोक्तं तथा प्रायश्चित्तं गुरोः कर्तव्यमिति । एतेन परीक्ष्यैव गुरुः शिष्यम् इत्येतदनन्वितमिति दूषणं परास्तम् । स्वीकुर्यादित्यस्य शेषेणान्वयस्योक्तत्वात् ॥ ४९ ॥

प्रमेयचन्द्रिका

ब्रह्मपुत्रा एतत्प्रश्नपरिहारं किमिति नावोचन्नित्यस्य परिहारं सप्रपञ्चमभिधाय पृष्टः कर्मयोग उच्यते ॥ आश्वित्यादिना ॥ हृदयग्रन्थिमन्तःकरणाख्यबन्धम् । उपचरेत् पूजयेत् ॥ तन्त्रोक्तेन चेति ॥ चशब्दाद्वेदोक्तेन विधिनेत्यपि ग्राह्यम् । अव्यग्रमित्येतदाचार्यविशेषणमिति भ्रमं वारयति ॥ अव्यग्रत्वेनेति ॥ तथा चाव्यग्रं यथा भवति तथा लब्ध्वेति मूलार्थः । सम्यक् परीक्ष्य गुरुत्वयोग्यतां निश्चित्याचार्यं वरयेदिति भावः । अत्र प्रमाणमाह ॥ परीक्ष्यैवेति ॥ विष्णुभक्त्यादिविषये शिष्यं सम्यक्परीक्ष्यैवाव्रजेत् । अन्यथा गुरुपरीक्षाकरणे अवैष्णवस्याप्याचार्यता-प्रसक्तौ मिथ्याज्ञनप्राप्तौ तद्वरणं नरकायैव भवति न तु निःश्रेयसाय । अन्यथा शिष्यपरीक्षाकरणे अयोग्योपदेशनिमित्तकप्रत्यवायात्तत्परिहाराय गुरोरपि प्रायश्चित्तं कर्तव्यं भवतीत्यर्थः । मूले तेन गुरुणा प्रदर्शितपूजाविधिपरतन्त्रसाराद्यागमः ॥ मूर्त्येति ॥ स्वाभिमतरूपविशेषेण स्वाभिमतं कृष्णादिरूपमिति यावत् ॥ ४८,४९ ॥

शुचिः संमुख आसीनः प्राणसंयमनादिभिः ।

१पिण्डं संशोध्य संन्यासकृतरक्षोऽर्चयेद् हरिम् ॥ ५० ॥

अर्चादौ हृदये वापि यथालब्धोपचारकैः ।

द्रव्यक्षित्यात्मलिङ्गानि निष्पाद्य प्रोक्ष्य चासनम् ॥ ५१ ॥

तात्पर्यम्

‘द्रव्यलिङ्गं शिलाद्यं स्यादात्मलिङ्गं मनोमयम् । अथवा स्थण्डिले चैव विष्णोर्लिङ्गं प्रकीर्तितमि’ति च ॥ ५१ ॥

पदरत्नावली

पिण्डं शरीरम् । सम्यङ् मन्त्राक्षरन्यासेन कृतात्मरक्षः ॥ अधिकारिणां बाहुविध्यादधिष्ठानविशेषमाह अर्चादाविति । द्रव्यलिङ्गं शिलाद्यं, क्षितिलिङ्गं स्थण्डिलम्, आत्मलिङ्गं मनोलक्षणम् । ‘‘द्रव्यलिङ्गं शिलाद्यं स्यादात्मलिङ्गं मनोमयम् । अथवा स्थण्डिले चैव विष्णोर्लिङ्गं प्रकीर्तितम्’’ इत्यस्मादयमेवात्र विवक्षितोऽर्थः ॥ ५०,५१ ॥

श्रीनिवासतीर्थीया

प्रोक्ष्य संप्रोक्ष्य प्राणप्रतिष्ठां कृत्वा ॥ ५१ ॥

प्रमेयचन्द्रिका

पिण्डं देहं प्राणायामशोषणदहनाप्लवनैर्विशोध्य सन्यासकृतरक्षः सम्यक्कर-न्यासाङ्गन्यासादिकृतरक्षा येन सः, अर्चादौ प्रतिमायां जले वा केवलस्थल इत्यर्थः । उपचारकैः पूजासाधनैः । अर्चादावित्युक्तविवरणपरस्य द्रव्यक्षितीत्यस्यार्थाप्रतीतेराह ॥ द्रव्यलिङ्गमिति ॥ आदिपदेन लोहदार्वादि गृह्यते । निष्पाद्य प्रोक्ष्य प्रतिष्टां कृत्वा प्रोक्षणीयोदकेन प्रोक्षयित्वा वा

॥ ५०,५१ ॥

पाद्यादीनुपकल्प्याथ सन्निधाय समाहितः ।

हृदयादिकृतन्यासो मूलमन्त्रेण चार्चयेत् ॥ ५२ ॥

पदरत्नावली

हृदयादिकृतमन्त्रन्यासः ॥ ५२ ॥

श्रीनिवासतीर्थीया

पाद्यादीन्पाद्याद्यर्थं पात्रासादनं कृत्वेति यावत् ॥ ५२ ॥

प्रमेयचन्द्रिका

उपसङ्कल्प्य सङ्कल्पं कृत्वा । हृदयादीति । कृद्धोल्काय नमः, महोल्काय स्वाहेत्यादिमन्त्रैः । हृदयादींस्तथेत्यादिषु हृदयादिशब्दानां कृद्धोल्कादिपरत्वोक्तेः । प्रतिमायामङ्गन्यासं कृत्वेति भावः । मूलमन्त्रेण चेति । तत्तन्मन्त्रेण पुरुषसूक्तेन चेत्यर्थः ॥ ५२ ॥

साङ्गोपाङ्गां सपार्षदां तां तां मूर्तिं स्वमन्त्रतः ।

पाद्यार्ध्याचमनीयाद्यैः स्नानवासोविभूषणैः ॥ ५३ ॥

गन्धमाल्याक्षतस्रग्भिर्धूपदीपोपहारकैः ।

साङ्गं सम्पूज्य विधिवत् स्तवैःस्तुत्वा नमेद् हरिम् ॥ ५४ ॥

पदरत्नावली

साङ्गोपाङ्गामङ्गमन्त्रवाच्यमूर्तिभिः सहिताम् ॥ ५३–५४ ॥

श्रीनिवासतीर्थीया

सांगोपाङ्गां साङ्गां चक्रादिचिह्नयुक्तां केशवाद्यङ्गमूर्तियुक्तां वा सोपाङ्गां ब्रह्मादिपरिवारदेवता उपाङ्गास्तद्युक्ताम् । समन्त्रतो व्यासादितत्तन्मूर्तिमन्त्रतस्तां तां मूर्तिं हृदयादिषु कृतन्यासः स्वयमर्चयेत् ॥ ५३,५४ ॥

दुर्घटभावदीपिका

अक्षतैः पूजनमुच्यते । तदनुपपन्नम् । नाक्षतैरर्चयेद्विष्णुं न केतक्या महेश्वरमिति अक्षतपूजनस्य विरुद्धत्वादिति चेन्न । अक्षतैर्नीराजनं कर्तव्यमित्यभिप्रेत्याक्षत-पूजनमुक्तमित्यङ्गीकारात् । पञ्चाशत्तमे श्लोके सन्यासकृतरक्षोऽर्थयेद्धरिमिति पाठः वर्तते । परमेतैः ‘‘पिण्डं विशोध्य सन्न्यासी अक्षतैरर्थयेद्धरिं’’ इति पाठं स्वीकृत्य एवं व्याख्यातं स्यात् । नोचेत् श्लोकेष्वक्षतपूजनं कुत्रापि नोक्तम् । एवं पाठस्वीकारोऽपि यणाभाव्यम् । प्रकृतिभावः कथमिति विदो विचारयन्तु । आर्षप्रयोग इति वा स्यात् ॥ ५४ ॥

॥ इति श्रीसत्याभिनवतीर्थविरचितायां श्रीभागवतटिप्पण्यां तृतीयोऽध्यायः ॥ ११–३ ॥

प्रमेयचन्द्रिका

साङ्गेति ॥ अङ्गोपाङ्गदेवतासहितमित्यर्थः । तत्वमन्त्रादिदेवतासहितमिति यावत् । पीठावरणदेवतासहितमिति वा । सपार्षदां विष्वक्सेनादिपार्षदसहिताम् । स्वमन्त्रतस्त-त्तन्मूर्त्तिमन्त्रतः । माल्यपदेन मुक्तामालाद्युच्यते । स्रग्भिः पुष्पमालाभिः । उपहारो नैवेद्यम् । साङ्गमिति क्रियाविशेषणम् ॥ ५३, ५४ ॥

आत्मानं तन्मयं ध्यायन् मूर्तिं सम्पूजयेद् हरेः ।

शेषमाधाय शिरसि स्वधाम्नयुद्वास्य सत्कृतम् ॥ ५५ ॥

एवमग्न्यर्कतोयादावर्चयेद् हृदये च यः ।

यज्ञेश्वरं स्वमात्मानमचिरान्मुच्यते हि सः ॥ ५६ ॥

॥ इति श्रीमद्भागवते एकादशस्कन्धे तृतीयोऽध्यायः ॥

तात्पर्यम्

**तन्मयं तत्प्रधानम् । ‘विष्णोर्भृत्योऽहमित्येव सदा स्याद्भगवन्मयः । नैवाहं विष्णुरस्मीति विष्णुः सर्वेश्वरो ह्यज’ इति च ॥ स्वादानात्स्वात्मनो व्याप्त्या विष्णुः स्वात्मेति कथ्यते । न तु जीवस्वरूपत्वात्स हि जीवेश्वरः प्रभुरि’ति शब्दनिर्णये **

॥ ५५ ॥

पदरत्नावली

तन्मयं तत्प्रधानम् । ‘‘विष्णोर्भृत्योऽहमित्येव सदा स्याद् भगवन्मयः । नैवाहं विष्णुरस्मीति विष्णुः सर्वेश्वरो ह्यजः’’ इति वचनात् स्वामित्वमेवार्थो न तु तत्स्वरूपत्वम् । स्वमात्मानमित्युत्तरत्रैक्यविधानादत्रापि स एवार्थः किं न स्यादिति चेन्न । स्वं स्वतन्त्रमात्मानं व्याप्तमित्यर्थोपपत्तेः । ‘‘स्वादानात् स्वात्मनो व्याप्त्या विष्णुः स्वात्मेति कथ्यते । न तु जीवस्वरूपत्वात् स हि विश्वेश्वरः प्रभुः’’ इति प्रमाणोपेतत्वात् । हिशब्देनास्यार्थस्य बहुप्रमाणप्रसिद्धिं द्योतयति ॥ ५५–५६ ॥

॥ इति श्रीमद्भागवतटीकायां विजयध्वजतीर्थभिक्षुकृतायां

पदरत्नावल्याम् एकादशस्कन्धस्य तृतीयोऽध्यायः ॥

श्रीनिवासतीर्थीया

शेषं निर्माल्यम् । सत्कृतं पूजितम् । स्वधामि्न स्वहृदये उद्वास्योपसंहृत्य स्वधामि्न पेटिकादौ उद्वास्य स्थापयित्वेति वा । स्वात्मानमित्यभेदप्रतीतेः स्वं स्वतन्त्रमात्मानं व्याप्तमिति व्याख्येयमित्याह ॥ स्वातन्त्र्यादिति । आत्मनः स्वस्येत्यर्थः । स्वादानादिति पाठे तु स्वं जीवमादत्त इति स्वात्मानं जीवनियामकत्वेन स्वतन्त्रमित्येकार्थः स्वमाप्नोति व्याप्नोति स्वात्मानम् । आप्ऌ व्याप्ताविति धातोरित्यपि समग्रपदस्यार्थः । अस्मिन्पक्षे तु स्वात्मेति स्वातन्त्र्यमाप्नोतीत्यात्मा स्वश्चासावात्मा चेति विग्रहः । न चैवं चेत् स्वातन्त्र्याच्चैव व्याप्तेश्च विष्णुः स्वात्मेति कथ्यत इति स्यान्न तु स्वात्मन इति पाठ इति चेन्न । व्याप्तेरात्मेत्युक्ते आकाशादीनामप्यात्मेति नाम स्यात् । न च तदस्ति । अतो व्याप्तिरपि निरुपचरितेति स्वात्मानमित्युक्तम् । स च कर्मणि स्वमाप्नोतीति तथाऽऽकाशादीनां परमात्मव्यापकत्वाभावान् नात्मशब्दवाच्यत्वमिति । स्वरूपकथनमिति त्वगतिकागतिः ॥ ५५,५६ ॥

॥ इति श्री श्रीनिवासतीर्थविरचितायां श्रीभागवतटिप्पण्याम्

एकादशस्कन्धे तृतीयोऽध्यायः ॥

प्रमेयचन्द्रिका

आत्मानं तन्मयमित्यत्र स्वात्मानं भगवदात्मकमित्यन्यथाप्रतीतेराह ॥ तन्मयमिति ॥ तत्प्रमाणेन विवृणोति ॥ विष्णोरिति ॥ इत्येवेत्यत्र ध्यायन्नित्यर्थः । विष्णुभृत्यत्वे तदैक्याभावे च युक्तिः ॥ विष्णुः सर्वेश्वरो हीति ॥ ननु स्वमात्मानमिति जीवतादात्म्योक्तेरत्राप्यभेद एवार्थ इत्यत आह ॥ स्वादानादिति ॥ षट्सु द्वितयोक्तेः स्वस्यादानादिकर्तृत्वाद् व्यापकत्वा-त्स्वमात्मानमिति मूले उक्तमिति भावः । यद्वा स्वमात्मानमिति सामानाधिकरण्यं स्वात्मानमित्यर्थः । ततश्च स्वादानात्स्वेनाशनादिकरणात्स्वस्य सर्वत्र व्याप्त्या च विष्णुः स्वात्मेत्यर्थः । तन्मय-मित्युक्तार्थकमेवेति भावः । मूले शेषं निर्माल्यम् । स्वधामि्न हृदये सत्कृतं पूजितम् ॥ ५५ ॥

॥ इति श्रीमद्विठलार्यतनूजेनानन्दतीर्थाख्येन विरचितायां श्रीमद्भागवत

एकादशस्कन्धतात्पर्यप्रमेयचन्द्रिकायां तृतीयोऽध्यायः ॥