०२ द्वितीयोऽध्यायः

गोविन्दभुजगुप्तायां द्वारकायां कुरूद्वह

॥ अथ द्वितीयोऽध्यायः ॥

श्रीशुक उवाच—

गोविन्दभुजगुप्तायां द्वारकायां कुरूद्वह ।

अवात्सीन्नारदोऽभीक्ष्णं कृष्णोपासनलालसः ॥ १ ॥

पदरत्नावली

अतः कतिपयैरध्यायैर्वसुदेवनारसंवादच्छलेन हरेस्तत्वं तदवाप्तिसाधनं तत्राधिकारिलक्षणं चेत्यादि निरूपयति । तत्र यादृच्छिकस्य नारदस्यान्तःपुरवासिना वसुदेवेन सह सङ्गमः कथं सञ्जाघटीति शङ्कां परिहर्तुमाह– गोविन्देति । वनवासिनो नारदस्य जनसङ्कुल-पुरनिवासहेतुः (उच्यते) कृष्णेति ॥ १ ॥

को नु राजन्निन्द्रियवान् मुकुन्दचरणाम्बुजम् ।

न भजेत् सर्वतो मृत्युरुपास्यममरोत्तमैः ॥ २ ॥

पदरत्नावली

श्रोत्रादीन्द्रियशक्तिमतः पुंसोऽपि हरिश्रवणादिश्रद्धातिशयो जायते किं पुनः सम्यग्विज्ञातत्वस्य नारदस्येति भावेनाह– को न्विति । सर्वतो मृत्युर्मरणं यस्य स तथा

॥ २ ॥

तमेकदा तु देवर्षिं वसुदेवो गृहागतम् ।

अर्चितं सुखमासीनमभिवन्द्येदमब्रवीत् ॥ ३ ॥

पदरत्नावली

अस्तूक्तम् । प्रकृते किम् ? अत्राह– तमेकदेति ॥ ३ ॥

वसुदेव उवाच—

भगवन् भवतो यात्रा स्वस्तये सर्वदेहिनाम् ।

कृपणानां यथा पित्रोरुत्तमश्लोकवर्त्मनः ॥ ४ ॥

पदरत्नावली

स्तुत्या सन्तोषोद्रेकात् श्रोतव्यार्थकथनबुध्द्युल्लासो भवतीत्याशयेन नारदं स्तौति– भगवन्नित्यादिना । स्वस्तय इति चिरायेत्यादिप्रयोगवत् । यात्रा सञ्चरणम् । पित्रोर्यात्रा शिशूनाम् । उत्तमश्लोको हरिः स एव वर्त्म यस्य स तथा । यद्वा उत्तमो हरिस्तस्य श्लोक इव श्लोको येषां ते तथा महान्तस्तेषां वर्त्म यस्य स तथा, महन्मार्गानुवर्तीत्यर्थः, तस्य ॥ ४ ॥

भूतानां देवचरितं दुःखाय च सुखाय च ।

सुखायैव हि साधूनां त्वादृशामच्युतात्मनाम् ॥ ५ ॥

पदरत्नावली

ननु सर्वभूतसुहृत्वे सात्विकत्वं प्रयोजकं तद् देवानामप्यस्ति, अतः किं विशेषतः स्तूयत इति तत्राह– भूतानामिति । भूतानि त्रिविधानि सात्विकतामसमिश्राणीति । तत्र देवानां चरितं सात्विकभूतानां सुखायैव । आत्मभजने बुद्धिमुत्पाद्य सुखलक्षणफलदानम् । तामसानां तु दुःखाय । तद्विपरीतलक्षणबुद्धिमुत्पाद्य दुःखलक्षणफलदानम् । राजसानां तु सुखदुःखलक्षणमिश्रफलाय । मिश्रकर्मबुद्धिमुत्पाद्य सुखादिमिश्रफलदानम् । इदं चशब्दगृहीतम् । द्वितीयश्चशब्दः समुच्चयार्थः । भवादृशानां चरितं न तथेत्याह– सुखायेति । एवशब्देन दुःखं व्यावर्तयति । अच्युतात्मनामित्यनेन व्यापारान्तरं निवारयति । हिशब्देन तेषां तदस्तीति सूचयति

॥ ५ ॥

भजन्ति ये यथा देवान् देवा अपि तथैव तान् ।

छायेव कर्मसचिवाः साधवो दीनवत्सलाः ॥ ६ ॥

श्रीमदानन्दतीर्थभगवत्पादाचार्यविरचितः श्रीमद्भागवततात्पर्यनिर्णयः

तात्पर्यम्

‘आत्मनो भजने बुद्धिमुत्पाद्य फलदाः सुराः । उत्तमानां जनानां तु निकृष्टानां विपर्ययः । शुभाशुभफलानां तु कर्मणां विबुधाः सदा । प्रवर्तका यथायोग्य-मृषयः करुणाः सदा । सुखमिच्छन्ति भूतानां प्रायो दुःखासहा नृणाम् । तथापि तेभ्यः प्रवरा देवा एव हरेः प्रिया’ इत्युद्दामसंहितायाम् ॥ ६ ॥

पदरत्नावली

देवानामात्मभजने बुद्धिमुत्पाद्यानुत्पाद्य च सुखादिफलदातृत्वमस्तीत्युक्तम् । तत् स्पष्टयति– भजन्तीति । ये पुरुषा यथा येन प्रकारेण देवान् भजन्ति ते देवा अपि तथा कृतकर्मानुसारेण तान् पुरुषान् भजन्ति फलदानेन सन्नद्धा भवन्ति । न च देवेषु वैषम्यादिक-माशङ्कनीयमित्येतन्निदर्शनेन दर्शयति छायेति । कर्मसचिवाश् छायावत् पुरुषकृतकर्माधीनाः, छाया यथा पुरुषानुपकृता तथेत्यर्थः । भवादृशा न तथेत्याह– साधव इति ‘आत्मनो भजने बुद्धिमुत्पाद्य फलदाः सुराः । उत्तमानां जनानां च निकृष्टानां विपर्ययः । शुभाशुभफलानां तु कर्मणां विबुधाः सदा । प्रवर्तका यथायोग्यमृषयः करुणाः सदा । सुखमिच्छन्ति भूतानां प्रायो दुःखासहा नृणाम् । तथापि तेभ्यः प्रवरा देवा एव हरेः प्रियाः’ इत्येतदस्मिन्नर्थे प्रमाणम् ॥ ६ ॥

श्रीनिवासतीर्थीया

नृणामित्यनन्तरं यद्यपीति शेषः । देवास्तत्कर्मानुसारेण फलप्रदा इति विषमाः । नारदाद्या ऋषयः सदा नृणां सुखमेवेच्छन्तीति सर्वत्र समा इति यद्यप्युच्यते । तेन च देवापेक्षया नारदादिऋषीणामेवोत्तमत्वं मूले प्रतीयते । तथाऽपि तत्तथा न मन्तव्यमित्याह ॥ तथाऽपीत्यादिना । तथा च सुखायैवेत्यादिना वसुदेवेन स्वगृहं प्राप्तनारदप्रशंसैव क्रियत इत्यर्थः । अर्थवादत्वान्न स्वार्थे नारदादिऋषीणां देवोत्तमत्वरूपे तात्पर्यं मन्तव्यमिति मूलाभिप्राय उक्तो भवति । एवमेव दर्शनादेव साधव इत्यादावपि ज्ञेयम् ॥ ६ ॥

ताम्रपर्णी आनन्दतीर्थाचार्यविरचिता

तात्पर्यप्रमेयचन्द्रिका

महालक्ष्मीमुखाम्भोजराजहंसाय विष्णवे ।

श्रीमदानन्दतीर्थार्यमानसावासिने नमः ॥ १ ॥

शर्वादिसर्वगीर्वाणसेव्यदिन्दुपदाम्बुजान् ।

श्रीमदानन्दतीर्थार्यवर्यान् वन्दामहे वयम् ॥

विजध्वजार्यवर्यांश्च नत्वा सर्वगुरूनपि ।

एकादशस्य तात्पर्यगूढवाक्यार्थ उच्यते ॥

क्वाहं सुमन्दधिषणः कलुषी क्व चैत

च्छास्त्रं शिवादिविबुधैरधिगम्यमञ्जः ।

वैय्यात्यमद्भुतमिदं यदहं प्रवृत्त

स्तत्क्षाम्यतां बुधवरैरपराधजातम् ॥

भूतानां देवचरितमिति श्लोकद्वये देवानां भूतेभ्यः सुखदुःखोभयदातृत्वं स्वभजनानुसारेण फलप्रदातृत्वात्सोपाधिकप्रवृत्तिश्चेति । ऋषीणां सुखैकदातृत्वं निरुपाधिककारुण्यमिति च प्रतीयते । न चैतद्युक्तं देवानां परमदयालुत्वाभावप्रसक्त्या ऋषिभ्यो नीचतापातादित्यतस्तदभिप्रायमाह भगवान् भाष्यकारः ॥ आत्मन इति । उक्तं भवति ॥ भूतपदोक्तजनास्तावदुत्तममध्यमनिकृष्टभेदेन त्रिविधाः । तत्र देवास्तत्तद्योग्यतां पूर्वकर्माणि चानुसृत्य आत्मनो भगवतस्तत्परिवारतया स्वात्मनश्च स्वात्म-ज्ञानभजने बुद्धिमुत्पाद्य शुभफलदा एव भवेयुः । निकृष्टानामभजने बुद्धिमुत्पाद्य तत्तद्योग्यतानु-सारेणाशुभमेव दद्युः । तथा मध्यमानां मिश्रं दद्युरिति ग्राह्यम् । कुत एतद् देवानां शुभाशुभ-कर्मयोग्यताज्ञानादिप्रवर्तने भगवदाज्ञायामधिकृतत्वात् । तथा च देवा ऋषिभ्योऽधिकदयालवस् तथाऽप्यशेषसज्जगत्प्रवृत्तये भगवता दत्ताधिकारत्वेन योग्यताकर्मादिकं विमृश्य तदनुसारेणैव फलदा भवन्ति । अत एवोक्तं मूले ‘‘छायेव कर्मसचिवा’’ इति । यथा या पुरुषदेहाद्यनुसारिप्रवृत्तिमती तथा देवाः कर्माद्यनुसारिप्रवृत्तिमन्तः । ऋषयस्तु केवलं कारुण्यवशात्कर्मादिकमविमृश्यैव दुःखासहा भवन्ति । एवं च विमृश्य दयां कुर्वन्तो देवा एव ऋषिभ्यः प्रवराः । अत एव हरेः प्रियाश्चेति

॥ ५,६ ॥

ब्रह्मंस्तथापि पृच्छामो धर्मान् भागवतांस्तव ।

यान् श्रुत्वा श्रद्धया मर्त्यो मुच्यते सर्वतोभयात् ॥ ७ ॥

पदरत्नावली

ननु साधुभ्यो देवानामुत्तमत्वेऽभीष्टार्थप्रश्नस्तान् प्रति स्यात्, यथावत्प्रश्न-परिहारवक्तृत्वसामर्थ्यादिति तत्राह– ब्रह्मन्निति । यद्यपि देवाः प्रशस्ता निश्चितार्थास्तथापि मानुषत्वेनास्मद्दृष्ट्यगोचरत्वाद् युष्माकं तन्निश्चितार्थज्ञानसामर्थ्यात् तत्सन्निधानपात्रत्वाच्च वयं तु तव त्वां धर्मान् पृच्छाम इत्यन्वयः । ननु किमत्र हिंसालक्षणो (किमत्राहिंसालक्षणो?) धर्मः किमुत न्यायाचाराद्यन्यतम इत्यत्राह– भागवतानिति । अवश्यवक्तव्यत्वे तल्लक्षणमाह– यानिति । अनेन यद्धर्मश्रवणमपि सर्वभयमोचकं किमुत तदनुष्ठानमिति दर्शितम् ॥ ७ ॥

प्रमेयचन्द्रिका

मूले तथापीत्यस्य यद्यपि दीनवत्सलस् त्वम् अपृष्टोऽपि भागवतधर्मान्वदिष्यसि तथाप्यादरादित्यर्थः। तव सकाशान् मुच्यते यस्य त्वामित्यर्थः । ‘‘सप्तसु प्रथमे’’त्युक्तेरिति वा

॥ ७ ॥

अहं किल पुराऽनन्तं प्रजार्थे भुवि मुक्तिदम् ।

अपूजयं न मोक्षाय मोहितो देवमायया ॥ ८ ॥

पदरत्नावली

भवता भगवद्विषयधर्माचरणं कृतं किमधुना तद्विषयप्रश्न इति तत्राह– अहमिति

॥ ८ ॥

प्रमेयचन्द्रिका

त्वत्पूजाप्रसन्नो हरिः किल पुत्रतयाऽवतीर्णः । एवंविधस्त्वं किमर्थं मां पृच्छसीत्यत उच्यते ॥ अहं किलेति ॥ ८ ॥

यथा विचित्रव्यसनाद् भवेऽस्मिन् विश्वतोभयात् ।

मुच्येम ह्यञ्जसैवाद्धा तथा नः शाधि सुव्रत ॥ ९ ॥

पदरत्नावली

नन्वपुत्रस्य जीवत्पुत्रमुखदर्शनाल्लोकावाप्तिः श्रूयते, अतः कथं प्रजार्थ इति निन्दाध्वनिरिति तत्राह– यथेति । अस्मिन् भवे जन्मनि विचित्रव्यसनान् नानाक्लेशाद् विश्वतोभयाच्च यथाऽञ्जसा क्षिप्रं मुञ्चेमहि तथा पुनरद्धा प्रत्यक्षं शाधीत्यन्वयः । ‘अद्धा प्रत्यक्षसत्ययोः’ इति यादवः । अनेन वसुदेवस्य पुत्रीभूतश्रीकृष्णमुखेन्दुदर्शनादनेकव्यसनाकुलात् संसारान्मुक्तेर्निश्चितत्वेऽपि विशेषप्रश्नो लोकहितायेति ज्ञातव्यम् ॥ ९ ॥

श्रीशुक उवाद—

राजन्नेवं कृतप्रश्नो वसुदेवेन धीमता ।

प्रीतस्तमाह देवर्षिर्हरेः संस्मारितो गुणैः ॥ १० ॥

पदरत्नावली

वसुदेवेन पृष्टो नारदः किञ्चित्तगुणोऽभूदिति राज्ञो हार्दं चोद्यं परिहरति– राजन्निति । हरेर्गुणैः संस्मारितः, हरिरिति शेषः ॥ १० ॥

दुर्घटभावदीपिका

हे राजन् । धीमता वसुदेवेनैवं कृतप्रश्नः प्रीतो देवर्षिर्गुणैः सहितस्य हरेः संस्मारितः संस्मरणं प्राप्तः सन् तं वसुदेवमाहेति । एतेन देवर्षिर्हरेः संस्मरणं प्राप्त इति वक्तव्यम् । देवर्षिर्हरेः संस्मारित इति कथनमनुपपन्नमिति दूषणमपास्तम् । सम्पूर्वकात्स्मरण-वाचकस्मारशब्दात्स्मारः सञ्जातोऽस्येत्यर्थे तदस्य सञ्जातं तारकादिभ्य इतजित्यनेन सूत्रेण तल् प्रत्यये संस्मारित इति रूपं निष्पन्नमित्यङ्गीकृत्य संस्मारित इत्यस्य संस्मरणं प्राप्त इत्यर्थस्योक्तत्वात् । एतेनैव गुणानां संस्मरणमिति वक्तव्यम् । गुणैः संस्मारित इति कथनमयुक्त इति दूषणस्यानवकाशः । गुणैरित्यतः परं सहितस्येत्यस्य शेषेण गुणैः सहितस्य हरेः संस्मारित इत्यर्थस्योक्तत्वात् ॥१०॥

प्रमेयचन्द्रिका

हरेरिति ॥ हरेर्गुणैः स्मरणं प्रापितः हरिगुणविषयकस्मरणं प्रापित इति यावत् ॥ १० ॥

नारद उवाच—

सम्यगेतद् व्यवसितं भवता सात्वतर्षभ ।

यत् पृच्छसे भागवतान् धर्मांस्त्वं विश्वभावनान् ॥ ११ ॥

पदरत्नावली

बुद्धिविकासाय प्रष्टारं स्तौति– सम्यगिति । विश्वस्याभीष्टस्य भावनमुत्पादनं येभ्यस्ते तथा तान् ॥ ११ ॥

दुर्घटभावदीपिका

हे सात्वतर्षभ । त्वं यद्यस्मात्कारणाद्भवता कृतमेतद्व्यवसितं भागवता धर्माः प्रष्टव्या इत्येष व्यवसायः सम्यक् समीचीन इति । एतेन भागवतधर्माणां विश्वोत्पादकत्वाभावाद् विश्वभावानानित्ययुक्तमिति चोद्यस्यानवकाशः । विश्वशब्देनैतद्भागवतधर्मानुष्ठातृविश्वप्राणिमङ्गलानां गृहीतत्वात् ॥ ११ ॥

प्रमेयचन्द्रिका

विश्वभावनान् ॥ विश्वस्य मोक्षादिभावनम् एभिस्तानित्यर्थः ॥ ११ ॥

श्रुतोऽनुपठितो ध्यात आदृतो वाऽनुमोदितः ।

सद्यः पुनाति सद्धर्मो देवविश्वद्रुहोऽपि हि ॥ १२ ॥

पदरत्नावली

एतदेव विवृणोति– श्रुत इति । देवशब्दस्य (अर्थस्य?) विश्वान्तर्गतत्वेऽपि पृथग् ग्रहणमनिवर्त्यदोषपरिहारसामर्थ्यसूचनार्थं कृतम् । एतदेवापिशब्देनासूचयत् । ‘ब्रह्महत्यासहस्रस्य पापं शाम्येत् कथञ्चन । न पुनस्त्वदवज्ञाने कल्पकोटिशतैरपि’ (इति) इममर्थं हिशब्देन सूचयति

॥ १२ ॥

त्वया परमकल्याण पुण्यश्रवणकीर्तनः ।

स्मारितो भगवानद्य देवो नारायणो मम ॥ १३ ॥

पदरत्नावली

ममाप्यनेन पुण्यवृद्धिरभूदित्याशयेनाह– त्वयेति । नित्यं स्मृतोऽपीदानी विशेषतः स्मारितो गुणकथनप्रश्नेन ॥ १३ ॥

अत्राप्युदाहरन्तीममितिहासं पुरातनम् ।

आर्षभाणां च संवादं विदेहस्य महात्मनः ॥ १४ ॥

पदरत्नावली

धीमत्त्वेन वसुदेवस्य नारदोक्तौ विस्रम्भेऽपि स्वकपोलकल्पितत्वेन न श्रद्धेयमिति मन्दाशङ्कापनोदाय तत्प्रश्नपरिहारत्वेन जनकार्षभसंवादमितिहासं वक्ति– अत्रेति ॥१४॥

प्रमेयचन्द्रिका

अत्रापि त्वत्पृष्टार्थविषये इति ॥ १४ ॥

प्रियव्रतो नाम सुतो मनोः स्वायम्भुवस्य यः ।

तस्याग्नीध्रस्ततो नाभिर्ऋषभस्तत्सुतः स्मृतः ॥ १५ ॥

पदरत्नावली

निश्चयजननायान्वयशुद्धिं कथयति– प्रियव्रत इत्यादिना ॥ १५ ॥

तमाहुर्वासुदेवांशं मोक्षधर्मविक्षया ।

अवतीर्णं सुतशतं तस्यासीद् ब्रह्मपारगम् ॥ १६ ॥

पदरत्नावली

अवतारप्रयोजमाह– मोक्षेति ॥ १६ ॥

तेषां वै भरतः श्रेष्ठो नारायणपरायणः ।

विख्यातं वर्षमेतद् यन्नाम्ना भारतमद्भुतम् ॥ १७ ॥

पदरत्नावली

यन्नाम्ना भारतमिति यस्य नाम्ना एतद् वर्षं भारतमिति विख्यातम् । अद्भुतं पुण्यसाधननिमित्तत्वेन ॥ १७ ॥

स भुक्तभोगां त्यक्त्वेमां निर्गतस्तपसा हरिम् ।

उपासीनस्तत्पदवीं लेभे वै जन्मभिस्त्रिभिः ॥ १८ ॥

पदरत्नावली

तत्पदवी तस्य हरेः पदवीम्, अयनं लोकमित्यर्थः ॥ १८ ॥

तेषां नव नवद्वीपपतयोऽस्य समन्ततः ।

कर्मतन्त्रप्रणेतार एकाशीतिर्द्विजातयः ॥ १९ ॥

पदरत्नावली

तेषां मध्ये नव अस्य भूमण्डलस्य नवद्वीपपतयोऽभवन् । तेषां मध्ये एकाशीतिसङ्ख्याता द्विजातयो बभूवुः । किङ्कर्माण इत्यत्राह– कर्मतन्त्रप्रणेतारः । कर्मकाण्डप्रणेतारः

॥ १९ ॥

पाङ्घरी श्रीनिवासाचार्यकृत

विरोधोद्धारः

श्रीमद्धनुमद्भीममध्वान्तर्गतरामकृष्णवेदव्यासात्मकलक्ष्मीहयग्रीवाय नमः ॥ तेषामिति । तच्च विजयध्वजीयव्याख्यानम् । तेषां मध्ये नवास्य भूमण्डलस्य नवद्वीपपतयोऽभवन् । तेषां मध्ये एकाशीतिसङ्ख्याता द्विजातयो बभूवुः । किं कर्माण इत्यत्राह ॥ कर्मेति । कर्मतन्त्रप्रणेतारः कर्मकाण्डप्रणेतार इति । श्रीधरीयं च व्याख्यानम् । तेषां नवसुताः । नवद्वीपपतयः नवानां ब्रह्मावर्तादिभूखण्डानां पतयः । अस्य भारतवर्षस्य । एकाशीतिसुताः कर्ममार्गप्रवर्तका ब्राह्मणा अभवन्निति । तत्राद्ये पौराणिकमतिपरीक्षार्थं नवद्वीपपदार्थालेखनात् । द्वितीये च नवानां ब्रह्मावर्तादिभूखण्डानामिति लेखनात् । शङ्कानिरासायोभयोरप्यनुपयुक्तत्वम् ।

तथाहि । पद्यस्थनवद्वीपशब्देन किं जम्बूप्लक्षादीनि गृह्यन्ते । अथवा । भारतादिनवखण्डानि । उत । ब्रह्मावर्तादिभूदेशाः । नाद्यः । तेषां सप्तत्वेन नवत्वानुपपत्तेः । आग्नीध्रेध्मजिह्मादिप्रैयव्रतानां तदधिपत्वेनोक्तेश्च । न द्वितीयः । द्वीपशब्दस्य खण्डार्थकत्वेऽनुशासनाभावात् । लक्षणयोपपत्तिरिति चेत् । एकस्य भरताधिष्ठितत्वेनाष्ठानामेवावशिष्टतया नवाधीनत्वानुपपत्तेः । न च भरतस्यापुत्रत्वं शङ्क्यम् । सुमत्यादीनां पञ्चानां पुत्रत्वोक्तेः । नापि भरतस्यात्मजः समुतिनाऽभिहितो यमुहवा केचित्पाखण्डिन ऋषभपदवीमनुवर्तमानमित्युक्त्या समुतिना राज्यत्यागान्नवाधिपतित्वोपपत्तेरिति । नाभिकिंपुरुषादीनामग्नीध्रीयाणां च तदाधिपत्त्यप्रसिद्धिबाधात् । न तृतीयः । तेषामपि द्वीपशब्दवाच्यत्वे प्रमाणाभावात् । भूप्रदेशानामनेकेषां सत्त्वेन नवत्वे नियामकाभावाच्च । किञ्च ब्रह्मावर्तादीनां नवत्वसद्भावे तन्नामानि वा तन्नामप्रतिपादकग्रन्थनाम वा टीकाकारोऽभिदधीत । तदभावात्तदभावोऽपि सिद्ध्यति ।

न च तमनु कुशावर्त इत्यादिना तन्नामोक्तेस्तद्देशानामपि वक्तुं शक्यम् । यावद्राज्ञां नामवत्त्वेन देशप्रसिद्ध्यभावात् । तात्कालिकानामस्ति प्रसिद्धिरिति चेत् । भरतपुत्रसुमत्यादीनां देशनामप्रवर्तकत्वादृष्टेः । टीकाकारेणाप्येतद्विवक्षयैवात्र ब्रह्मावर्तादीति लिखितमिति चेन्न । तथा विवक्षायां कुशावर्तादीति लिखेत् । प्रमाणवाक्ये कुशावर्तस्यादिमत्वोक्तेः । तस्मात्तथा लेखनाभावात्तथा विवक्षाभावोऽपि ज्ञायते । नापि द्वीपशब्दस्य मुख्यार्थायोगाल्लक्षणाश्रयणीयेति वाच्यम् । पूर्व लक्षणार्थमाश्रित्य द्वीपशब्देन ब्रह्मावर्तादिभूखण्डानि कल्पयित्वा तेषां च नवत्वकल्पने गौरवापत्तेः । अपि च ब्रह्मावर्ताद्यर्थकत्वस्वीकारेऽस्य समन्तत इत्यस्यासङ्गतिः । न हि ब्रह्मावर्तादीनां भरतखण्डसमंततः स्थितिर्मध्यस्थितिः । अतो नोपयोग उभयोः । तर्ह्यस्य कथं गतिरिति चेत् ।

उच्यते । तेषां भरतस्य पूर्वोक्त्या शिष्टानां नवनवतिपुत्राणां मध्ये नवनवसङ्ख्याका आर्षभारस्तमनु कुशावर्त इलावर्तो ब्रह्मावर्तो मलयः केतुर्भद्रसेन इन्द्रस्पृक् विदर्भः कीटक इति नवनवतिप्रधाना इत्युक्त्या तत्तन्नामानोऽस्य जम्बुद्वीपस्य समंततः समंतात् । परितो निखनद्भिरित्युक्तेः ॥ नवद्वीपपतयः । नवानां प्राक् प्रियव्रतकृतत्वाभावेनार्वाक् सगरात्मजैः समुद्रवेलायामन्वेषणार्थे निरवनद्भिः कृतत्वेन च नूतनानामित्यर्थः । तथा चोक्तम् । जम्बुद्वीपस्य च राजन्नुपद्वीपानष्टौ हैक उपदिशन्ति । सगरात्मजैरश्वान्वेषण इमां महीं परितो निरवनद्भिरुपकल्पितानिति । तादृशानां द्वीपानाम् । तद्यथा । स्वर्णप्रस्थश्चन्द्रशुक्ल आवर्तनोरमणको मन्दरो हरिणः पाञ्चजन्यः सिंहलो लङ्केत्युक्तनाम्नां पतयः स्वामिनः । अभवन्निति शेषः । ननु सप्तमवैवस्वतमन्वन्तरे तद्वंशीय-सगरात्मजैरुपकल्पितेषूपद्वीपेष्वाद्यस्वायम्भुवमन्वन्तरे तद्वंश्यानां राज्यप्रवृत्तावुक्तायामसम्भावना स्यादिति चेन्न । तत्कालिकानामिति दीर्घायुष्ट्वात् । अन्यथा स्वायम्भुवमन्वन्तरीयकविहर्यादिभ्यः सकाशाद्वैववस्वतपौत्रनिमेरुपदेशानुपपत्तेः । तेषां योगित्वेन कालवञ्चनशक्तिमत्त्वाच्च । नन्वस्तु कव्यादीनां तथात्वम् । कुशावर्तादीनां तु कुत इति चेत् । तेषां नवनवतिप्रधाना इत्युक्त्या कव्याद्यपेक्षयाऽपि श्रेष्ठत्वोक्त्या योगित्वस्यापि सिद्धेः । तद्वीपानां पूर्वकल्पीयसगरात्मजोपकल्पितत्वाद्वा यत्राक्रूरोऽध्यगात्पुरेत्यादिवत्सम्भावितत्वात् । वैकल्पिकपक्षे नवशब्दस्याभिनवार्थकता । अन्यथा पूर्वकल्पीयसगरात्मजैः कृतत्वेन नूतनार्थकताऽनुपपत्तेः ।

ननु च नवानामष्टाधिपत्यं कथमिति चेत् । सर्वैर्मिलित्वा राज्यकरणे का नामानुपपत्तिः । न ह्येकगृहस्यानेकैरविभक्तैः स्वामित्वं दुःशकम् । यद्वा । तेषां समन्तत इत्यावृत्त्या योज्यम् । तेषां नवानां समंततः सम् अभिन्नो योऽन्तो निर्णयस्तस्मात् । यमभेदे समीचीने सुष्टुपूजासुखेषु चेति हि यादवः । उभयोरपि दृष्टोऽन्त इत्यत्रान्तशब्दस्य तद्भाष्ये निर्णयार्थकत्वेन व्याख्यानात् । नवानामप्येकनिश्चयत्वादष्टद्वीपस्वामित्वं युज्यत इति भावः । अथवा । सममिति पृथक्पदम् । ततः भरतात् । अन्य इति शेषः । नव समं सहैव नवद्वीपपतय इत्यर्थः । अपि वा । सम् अन्तत इति च्छेदः । अस्य जम्बुद्वीपस्य । अन्ततश् चरमभागे । सम् अभेदेन । नवद्वीपपतय इत्यर्थः । इमां महीं परितो निखनद्भिरित्युक्तेः । तस्माद्द्वीपशब्दस्य समंतत इत्यादेश्च मुख्यार्थसिध्याऽयमेवार्थ उपपन्नः ।

किञ्च विजयध्वजीयव्याख्यानमपि एतमेवार्थं प्रतिपादयति । तथाहि । अस्य भूमण्डलस्येति । सन्निकर्षस्थितस्य जम्बुद्वीपरूपभूमण्डलस्येत्यर्थः । नवद्वीपपतय इति । सगरात्मजकृतत्वान्नूतन-द्वीपपतय इत्यर्थः । अपि च श्रीधरीयव्याख्यानमपि नेममर्थं विसृजति । तथाहि । नवानां ब्रह्मावर्तादिखण्डानां पतयोऽस्य भारतवर्षस्येति तदीयव्याख्यानम् । ऋगताविति धातोर्गत्यर्थानां च ज्ञानार्थत्वात् । ऋतं ज्ञानम् । आवर्तम् अवज्ञानम् । ब्रह्मणि कपिलाख्ये भगवति । आवर्तम् अवज्ञानम् । अवज्ञेति यावत् । येभ्यस्ते ब्रह्मावर्ताः सगरात्मजास्ते । आदयः कारणानि । येषां तेषाम् । भूखण्डानां खण्डितभूप्रदेशानां स्वर्णप्रस्थादीनाम् । पतय इत्यर्थः । भारतवर्षस्य जम्बुद्वीपैकदेशत्वेन तत्परितः स्थितत्वं च स्वर्णप्रस्थादीनां युज्यत एवेत्यत आन्वर्थक्यमेवेति विद्वद्भिः सन्तोष्टव्यम् ॥ १९ ॥

॥ इति श्रीपाङ्घरीश्रीनिवासाचार्यकृतायां श्रीभागवतटिप्पण्यां द्वितीयोऽध्यायः ॥ ११–२ ॥

नवाभवन् महाभागा मुनयो ह्यूर्ध्वमन्थिनः ।

श्रमणा१ वातरशना आत्मविद्याविशारदाः ॥ २० ॥

पदरत्नावली

तेषां मध्ये नवसङ्ख्याता मुनयोऽभवन् । तत्रापि विशेषमाह– ऊर्ध्वमन्थिन इति । ऊर्ध्वं मन्था रेत एषामस्तीत्यूर्ध्वमन्थिनः, ऊर्ध्वरेतसः सन्न्यासव्रतधारिण इत्यर्थः । स्पष्टमाह– श्रमणा इति । श्रमणा भिक्षवः । तत्रापि विशेषमाह– वातारशना इति । वात एव रशना कटिसूत्रं येषां ते तथा दिगम्बराः परमहंसा इत्यर्थः । आत्मविद्यायां वेदान्तशास्त्रे विशारदाः पटवः

॥ २० ॥

प्रमेयचन्द्रिका

उर्ध्वमन्थिन ऊर्ध्वरेतस्काः । श्रमिणाः परमहंसाः । वातरशना दिगम्बराः

॥ २० ॥

कविर्हरिरन्तरिक्षः प्रबुद्धः पिप्पलायनः ।

आविर्होत्रोऽथ द्रुमिलश्चमसः करभाजनः ॥ २१ ॥

पदरत्नावली

एतन्नामनिरुक्तिज्ञानादयमर्थः सिद्ध इति तन्नामान्याह– कविरित्यादिना । द्रुतं मिलं मिथो मेलनं वेदार्थानामेकीकरणं येन स तथा । चाम्यन्ति वेदात्तीर्थम् इति चमा वेदतीर्थपायिनः, तेषु सारश्चमसः । सृ गताविति धातोर्डप्रत्ययः । करे भान्तं जनयति प्रकाशयतीति करभाजनः, हस्तामलकवत् प्रतिभातवेदार्थ इत्यर्थः ॥ २१ ॥

दुर्घटभावदीपिका

त एते भगवद्रूपं विश्वमित्यादि श्लोकद्विकस्यार्थः । आविर्होत्रोऽथद्रुमिल इत्यथशब्दस्यात्मनो व्यतिरेकेणेत्यनेनान्वयमुक्त्वाऽवधारणार्थत्वं चाङ्गीकृत्यात्मनो व्यतिरेकेणैव पश्यन्त इत्यर्थो वक्तव्यः । एतेनाथशब्दो व्यर्थ इति दूषणस्यानवकाशः ॥ २१ ॥

त एते भगवद्रूपं विश्वं सदसदात्मकम् ।

आत्मनो व्यतिरेकेण पश्यन्तो व्यचरन् महीम् ॥ २२ ॥

पदरत्नावली

आत्मविद्यावैशारद्यं चात्मभेदज्ञानेनेति भावेनाह– त एत इति । ये मुनित्वेनोक्तास्त एते मही व्यचरन्नित्यन्वयः । किंविशिष्टाः ? विश्वं पूर्णं सदसदात्मकं कार्यकारण-व्यापिभगवद्रूपम् आत्मनो जीवाद् व्यतिरेकेकण वैलक्षण्येन पश्यन्त इति । यद्वा सदसदात्मकं भगवद्रूपं भगवतो मूर्तिं प्रतिमास्थानीयं विश्वं प्रपञ्चमात्मनो हरेर्व्यतिरेकेण पश्यन्त इति । यद्वा विश्वमन्तः प्रविश्य वर्तमानं सदसदात्मकं बहिश्च जगद् व्याप्य वर्तमानं भगवद्रूपं ब्रह्मसञ्ज्ञमात्मनोऽन्तर्यामिणो हरेरव्यतिरेकेणाभेदेन पश्यन्तः । ‘अन्तर्बहिश्च तत्सर्वं व्याप्य नारायणः स्थितः’ इति श्रुत्यर्थरसमनु-भवन्त इत्यर्थः । विश्वस्य परमात्मनोऽभेददर्शनं सदसदात्मकमिति विशेषणेन विरुद्धम् । अनङ्गी-कारात् । जहदजहल्लक्षणाप्यप्रामाणिकीत्युपेक्षणीयं तन्मतमिति ॥ २२ ॥

प्रमेयचन्द्रिका

भगवद्रूपं प्रतिमाम् । सदसदात्मकं मूर्तामूर्तात्मकम् । आत्मनो व्यतिरेकेण परमात्मनोंऽशव्यतिरिक्ततया । तदधीनतया इत्यर्थः ॥ २२ ॥

अव्याहतेष्टगतयः सुरसिद्धसाध्य

गन्धर्वयक्षनरकिन्नरनागलोकान् ।

मुक्ताश्चरन्ति मुनिचारणभूतनाथ

विद्याधरद्विजगवां भुवनानि कामम् ॥ २३ ॥

पदरत्नावली

महीसञ्चरणं चारकाणाप्यमस्ति किं विशेषमाहात्म्यमेषाम् ? अत्राह– अव्याहतेति । मुक्ता जीवन्मुक्ताः । मुनिचारणादीनां भुवनानि लोकांश्चेति । सुरसिद्धादीनां लोकांश्चरन्तीति किं कर्मवशात् ? नेत्याह– काममिति । बलवता प्रतिषेधे कामतोऽपि सञ्चरणं दुश्शकं स्यादित्यत उक्तम्– अव्याहतेति ॥ २३ ॥

प्रमेयचन्द्रिका

मुक्तास्तत्तत्कृतसङ्गविनिर्मुक्ताः ॥ २३ ॥

त एकदा निमेः सत्रमुपजग्मुर्यदृच्छया ।

वितायमानमृषिभिराञ्जनाभा महात्मनः ॥ २४ ॥

पदरत्नावली

किमनेन प्रकृत इति तत्राह– त एकदेति । अञ्जनाभस्य हरेः पुत्रा आञ्जनाभाः ॥ २४ ॥

प्रमेयचन्द्रिका

अञ्जनाभो ऋषभो भगवान् तत्पुत्राः ॥ २४ ॥

तान् दृष्ट्वा सूर्यसङ्काशान् महाभगवतान् नृप ।

यजमानोऽग्नयो विप्राः सर्व एवोपतस्थिरे ॥ २५ ॥

पदरत्नावली

इदमुपगमनं न द्वेषजनकं निमित्ताभावात्, किन्तु सम्प्रीतिजनकं तल्लक्षणदर्शनादित्याह– तानिति । उपतस्थिरे साञ्जलिपुटा उत्थायासेवन्त ॥ २५ ॥

विदेहस्तानभिप्रेत्य नारायणपरायणान् ।

प्रीतः सम्पूजयाञ्चक्र आसनस्थान् यथार्हतः ॥ २६ ॥

पदरत्नावली

तत्र विदेहेनेतरेभ्यः किं विशेषेण सेवितम् ? अत्राह– विदेह इति । अभिप्रेत्य सम्यग् ज्ञात्वा ॥ २६ ॥

दुर्घटभावदीपिका

आसनस्थानित्यस्य स्वदत्तासनानित्यर्थः ॥ २६ ॥

प्रमेयचन्द्रिका

अभिप्रेत्य ज्ञात्वा ॥ २६ ॥

तान् रोचमानान् स्वरुचा ब्रह्मपुत्रोपमान् नव ।

पप्रच्छ परमप्रीतः प्रश्रयावनतो नृपः ॥ २७ ॥

पदरत्नावली

ब्रह्मपुत्रोपमान् सनकादितुल्यान् । तान् स्तुवन् पप्रच्छ, अभीष्टमिति शेषः

॥ २७ ॥

विदेह उवाच—

मन्ये भगवतः साक्षात् पार्षदान् वो मधुद्विषः ।

विष्णोर्भूतानि लोकानां पावनाय चरन्ति हि ॥ २८ ॥

पदरत्नावली

स्तुतिप्रकारः कथ्यते– मन्य इत्यादिना ॥ २८ ॥

दुर्लभो मानुषो देहो देहिनां क्षणभङ्गुरः ।

तत्रापि दुर्लभं मन्ये वैकुण्ठप्रियदर्शनम् ॥ २९ ॥

अत आत्यन्तिकं क्षेमं पृच्छामो भवतोऽनघाः ।

संसारेऽस्मिन् क्षणार्धोऽपि सत्सङ्गः शेवधिर्नृणाम् ॥ ३० ॥

पदरत्नावली

किमभीष्टमप्राक्षीत् ? अत्राह– अत इति । यतो वैकुण्ठप्रियदर्शनं दुर्लभमतः करतलप्राप्तरत्नत्वाद् भवतो येन निःश्रेयो नः स्यात् तदात्यन्तिकं क्षेमं मङ्गलसाधनमिति मोक्षसाधनं पृच्छाम इत्यर्थः । कार्येण कारणमुपलक्ष्यत इति न्यायोपपत्तेर् न केवलं प्रश्नप्रतिवचनाभ्यां तत्परिहारलक्षणं प्रयोजनं लक्ष्यते अपि तु तयोश्चिरकालापेक्षितत्वेन प्रष्टृप्रवक्तृपुरुषयोश्च तावत्कालं स्थित्यपेक्षितत्वेन लब्धेन तत्सङ्गेन सुखनिधिलक्षणं प्रयोजनं चेत्यभिप्रेत्य तत्सङ्गं स्तौति– संसार इति । शेवधिः सुखनिधिः ॥ २९,३० ॥

दुर्घटभावदीपिका

अत इत्यस्य वैकुण्ठप्रियकर्तृकोपदेशस्य दुर्लभत्वादित्यर्थः । एतेन वैकुण्ठप्रियदर्शनस्य दुर्लभत्वाद्भवतां दर्शनं पुनः पुनः कार्यमिति वक्तव्यम् । वैकुण्ठप्रियदर्शनस्य दुर्लभत्वाद्भवतः पृच्छाम इति कथनमयुक्तमिति दूषणं प्रत्युक्तम् । अत इत्यस्य वैकुण्ठप्रियदर्शनस्य दुर्लभत्वादित्यर्थमनङ्गीकृत्य वैकुण्ठप्रियदर्शनमित्यतपरं वैकुण्ठप्रियोपदेशो दुर्लभ इति किमु वक्तव्यमित्यस्य शेषेण वैकुण्ठप्रियोपदेशस्य दुर्लभत्वादित्यर्थं स्वीकृत्य वैकुण्ठप्रियोपदेशस्य दुर्लभत्वाद्भवतः पृच्छाम इत्यर्थ उच्यत इत्यभ्युपगमात् ॥ २९ ॥

प्रमेयचन्द्रिका

आत्यन्तिकं क्षेममुद्दिश्य शेवधिः शे सुखे विषये विधिः सुखसाधने अतिशयोपायभूत इत्यर्थः ॥ २९,३० ॥

धर्मान् भागवतान् ब्रूत यदि नः श्रुतये क्षमम् ।

यैः प्रसन्नः प्रपन्नाय दास्यत्यात्मानमप्यजः ॥ ३१ ॥

पदरत्नावली

प्रधानसाधने साधानान्यपि वक्तव्यानीत्याह– धर्मानिति । श्रुतये श्रवणाय क्षमं योग्यम् । ‘कल्याणी ऋक् दक्षसञ्ज्ञा योग्या युक्ता हिता क्षमा’ इति यादवः ॥ ३१ ॥

प्रमेयचन्द्रिका

यैर् भगवत्प्रीतिजनकैर्धर्मैः प्रपन्नाय धर्मानुष्टानपूर्वकं शरणागताय ॥३१॥

नारद उवाच—

एवं ते निमिना पृष्टा वसुदेव महत्तमाः ।

प्रतिपूज्याब्रुवन् प्रीत्या ससदस्यर्त्विजं नृपम् ॥ ३२ ॥

कविरुवाच—

मन्येऽकुतश्चिद्भयमच्युतस्य पादाम्बुजोपासनमत्र नित्यम् ।

उद्विग्नबुद्धेरसदात्मभावाद् विश्वात्मना यत्र निवर्तते भीः ॥ ३३ ॥

पदरत्नावली

अब्रुवन्निति बहुवचनाद् यद् भयमुत्पन्नं तदल्पबुद्धेरेकस्य बहुभिर्विचक्षणै-र्युगपदुच्यमानवचनार्थावधारणं दुःशकमिति निवारयति– कविरिति । अत्र संसारे । असत्यमङ्गले देहादावहमित्यात्मभावादुद्विग्नबुद्धेः पुरुषस्य नित्यमच्युतस्य हेयोपादेयांशरहितस्य हरेः श्रीपाद-पद्मोपासनमकुतश्चिद्भयं न कुतश्चिद् भयं यस्मात् तत् तथा तदहं मन्य इति मम राद्धान्त इत्यर्थः । विशिनष्टि– विश्वात्मनेति । यत्र यस्मिन्नुपासाने कृते विश्वात्मना सर्वात्मना संसारभीतिर्निवर्तते तदेवानुष्ठेयं पुरुषेणेति ॥ ३२,३३ ॥

दुर्घटभावदीपिका

यत्र यस्मात्कारणादसदात्मभावादमङ्गलोऽहमित्यभिमानात् । उद्विग्नबुद्धेः प्राणिनो भीरच्युतस्य पादाम्बुजोपासनमकुतश्चिद्भयं न विद्यते कुतोऽपि भयं यस्मात्तदकुतश्चिद्भयं सर्वभयपरिहारकं मन्य इति । एतेन विश्वात्मना यत्र निवर्तते भीरित्येतदनन्वितमिति दूषणं निरस्तम् । इत्येतदित्यादेः शेषेणान्वयस्योक्तत्वात् ॥ ३३ ॥

प्रमेयचन्द्रिका

मन्य इति ॥ अत्र संसृताववस्थिताय । असति अभद्रे देहगेहा-दावात्मीयताभावनात्तन्निमित्तादुद्विग्नबुद्धेर्विश्वात्मना सर्वस्वामित्वपूर्णत्वादिप्रकारेण । अच्युतस्य नित्यं पदाम्बुजोपासनमकुतश्चिद्भयं मन्ये । यत्र यस्मिन्भजने क्रियमाणे भीतिर्निवर्तत इत्यर्थः ॥३२,३३॥

ये वै भगवता प्रोक्ता उपाया ह्यात्मलब्धये ।

अञ्जः पुंसामविदुषां विद्धि भागवतान् हि तान् ॥ ३४ ॥

पदरत्नावली

हरेरङ्घ्रिनिषेवणमेव मुख्यो भागवतो धर्म इति मनसि निधाय तदङ्गत्वेनोच्यमाना योगा अपि भागवतधर्मा इत्याह– ये वा इति । आत्मलब्धये परमात्मज्ञानाय । भागवतान्, धर्मानिति शेषः ॥ ३४ ॥

प्रमेयचन्द्रिका

आत्मलब्धये परमात्मज्ञानाय स्वरूपलाभायेति वा ॥ ३४ ॥

यानास्थाय नरो राजन् न प्रमाद्येत कर्हिचित् ।

धावन्नुन्मील्य वा नेत्रे न स्खलेन्न पतेदिह ॥ ३५ ॥

पदरत्नावली

न प्रमाद्येत अनवधानवान्न भवति । प्रमादोऽनवधानतेत्यभिधानात् । आत्मानात्मविवेकज्ञानवान् स्यादित्यर्थः । कथमिवेत्यस्मिन्नर्थे लुप्तोपमामाह धावन्निति । यथा नेत्रे उन्मील्य धावन्निह शर्करावति स्थले न स्खलेन्न पतेत् तथा भागवतधर्मरथाधिरूढः ॥ ३५ ॥

प्रमेयचन्द्रिका

धावन्निति । वाशब्दोऽत्र विकल्पे उपमायां च । वाविकल्पोपमानयोरित्युक्तेः । इहेति बुद्धिसन्निहितस्य परामर्शः । तथा चेह निम्नोन्नतादिवैषम्यरहिते वालुकास्तृते स्थले । नेत्रे उन्मील्य वाशब्दान्निमील्यवा धावन्पुरुषः यथा न स्खलेन्न पतेत्तथा यान् भागवतान् धर्मान् समास्थाय न प्रमाद्येत कर्हिचिद्भगवद्विस्मरणे तदाज्ञारूपश्रुत्याद्युल्लंघनात्मप्रमादं न प्राप्नुयात् । तान् भागवतान् विद्धि इति पूर्वेण अन्वयः ॥ ३५ ॥

कायेन वाचा मनसेन्द्रियैर्वा बुध्द्याऽऽत्मना वाऽनुसृतः स्वभावम् ।

करोति यद्यत् सकलं परस्मै नारायणायेति समर्पयेत् तत् ॥ ३६ ॥

पदरत्नावली

भगवत्कथितोपायविधिः कीदृश इति तत्राह– कायेनेति । स्वभावं योग्यता-मनुसृतोऽनुगतः । मनसा सङ्कल्पाद्यधिकरणेन । बुध्द्या निश्चयज्ञानाधिकरणेन । आत्मना मत्या मननलक्षणज्ञानाधिकरणेन, अहं हरिमर्चयामीत्यादिलक्षणेनाहङ्कारेण वा । कायादिना यदर्चनादिकं करोति सर्वक्रियासु स्वस्यास्वतन्त्र्यज्ञानेन तत् सर्वं परस्मै नारायणायास्त्विति समर्पयेत् । सोऽयमात्म-प्रसादजनकत्वेन तज्ज्ञानोपाय इति भावः ॥ ३६ ॥

प्रमेयचन्द्रिका

कायेनेति । कायादिना पुरुषः स्वभावं योग्यतामनुसृतः सन् स्वस्वयोग्यतानुसारेणेति यावत् । यद्यत्करोति तत्तत्सकलं नारायणाय नारायणप्रीतये तत्पूजार्थं च ॥ तृतीयार्थे चतुर्थी । नारायणेन कृतमित्यादिप्रकारेण समर्पयेत् । तदुक्तम् ॥ नाहं कर्ता हरिः कर्ता तत्पूजा कर्म चाखिलमित्यादौ ॥ ३६ ॥

भयं द्वितीयाभिनिवेशतः स्यादीशादपेतस्य विपर्ययोऽस्मृतिः ।

यन्माययाऽतो बुध आभजेत् तं भक्त्यैकयेशं गुरुदेवतात्मा ॥ ३७ ॥

पदरत्नावली

विपक्षे बाधकतर्कमुद्भाव्य विपर्ययेऽवसानमाह– भयमिति । अस्मृतिरज्ञानं विपर्ययोऽन्यथाज्ञानम् एते ईशादपेतस्य ईशानुग्रहरहितस्य प्रकृतिबद्धस्य पुंसो यस्य हरेर्माययेच्छया स्तः । ताभ्यामज्ञानविपरीतज्ञानाभ्यां द्वितीयाभिनिवेशतः द्वितीये देहगेहादौ अहं ममेत्यभिनिवेशनाद् दुरभिमानः स्यात् । तस्माद् भयं संसारलक्षणं स्यादिति यस्मात्, अतो गुरौ परमात्मदेवतायां च आत्मा मनो यस्य स तथा, तस्मात् तज्ज्ञानवान् यथायोग्यं गुरुपरमपूरुषयोर्भक्तिं कुर्वाणो बुधस्तं हरिमाभजेत् सर्वसमर्पणपूर्वकमुपसीतेत्यर्थः ॥ ३७ ॥

प्रमेयचन्द्रिका

सर्वेषां देहे अस्वातन्त्र्यज्ञानमावश्यकम् । तदभावेऽनर्थो भवतीत्युच्यते भयमिति । ईशादपेतस्य ईशरहितस्य । स्वस्वातन्त्र्यादिविदुषः । द्वितीये भगवदन्यस्मिन् स्वाधीन इति वा । देहगेहादावहं ममेत्यभिनिवेशतः । नरकादिभयं विपर्ययो मिथ्याज्ञानम् । अस्मृतिर्ज्ञानाभावो ज्ञातार्थस्य विस्मरणं वा । यन्मायया यदिच्छया । यदधीनप्रकृत्या वा स्यात्तं स्वस्वातन्त्र्यज्ञाने भयप्रदम् । ईशं हरिं बुधो ज्ञानी अतो भयादिनिवृत्यर्थम् । गुरुदेवतात्मा सन् गुरौ देवतायामात्मा मनो यस्य गुरौ देवताऽस्तीति मनो यस्येति वा । सन् एकया अनन्यया भक्त्या आ सम्यग्भजेदित्यर्थः

॥ ३७ ॥

अविद्यमानोऽप्यवभाति हि द्वयो

ध्यातुर्धिया स्वप्नमनोरथो यथा ।

तत्कर्म सङ्कल्पविकल्पकं मनो

बुधो निदध्यादभयं ततः स्यात् ॥ ३८ ॥

तात्पर्यम्

आत्मनो देहगेहादि द्वयशब्देन भण्यते । अविद्यमानं जीवस्य प्रतिभाति तदीयवत् । जाग्रद्वत्तु यथा स्वप्नः प्रतिभाति मनोरथः । विद्यमानवदेवैतद्देहादीशवशे स्थितम् । विभाति स्ववशत्वेन सैषा संसृतिरुच्यते । तस्मात्तद्विषयं त्यक्तवा मनो विष्णौ निवेशयेदि’ति हरिवंशेषु ॥

पदरत्नावली

एतदेव सोदाहरणं विवृणोति– अविद्यमान इति । धिया ध्यातुः, विषयानिति शेषः । ध्यायतो विषयानस्येति स्मृतेः । पुंस ईशाधीनत्वेन स्वस्याविद्यमानोऽपि द्वयो देहगेहादि स्वकीयत्वेनावभाति हि यस्मात् । कथमिव ? यथा स्वप्नयुतमनोरथः स्वप्ने जाग्रत्त्वेन निधिमुत्खाय कोशमापाद्य प्रकृतिवर्गमाबध्य राज्यं करिष्यामीति मनोरथः सत्त्वेन प्रतीयते तथा देहादावीशाधीने स्वाधीनताबुद्धिः संसारः, तस्मात् तादृशसंसारनिवृत्तये तत्कर्म तद् देहादि कर्म विषयो यस्य तत् तथा तत् सङ्कल्पविकल्पवृत्तियुक्तं मनः श्रीनारायणे निदध्यात् । ततो हरिप्रसादादभयं संसारनिवृत्तिलक्षणो मोक्षः स्यादित्यन्वयः । सर्वसमर्पणलक्षणोपासनाभावे ब्रह्मज्ञानं न स्यात् तदभावे संसारनिवृत्तिर्न स्यादतस्तदर्थं सर्वसमर्पणलक्षणमुपासनं कर्तव्यमिति भावः । ‘आत्मनो देहगेहादि द्वयशब्देन भण्यते । अविद्यमानं जीवस्य प्रतिभाति तदीयवत् । जाग्रद्वत् तु यथा स्वप्नः प्रतिभाति मनोरथः । विद्यमानवदेवैवं देहादीशवशे स्थितम् । विभाति स्ववशत्वेन सैषा संसृतिरुच्यते । तस्मात् तद्विषयं त्यक्त्वा मनो विष्णौ निवेशयेत्’ इत्येतन्मानसिद्धमेतदर्थजातम् । नन्वत्र देहादेरसत्वाभिप्रायेण स्वप्नदृष्टान्तः किं न स्यादिति चेन्न । उदाहृतस्मृतिविरोधात् । तस्मात् स्वातन्त्र्यस्यैव निषेधः क्रियत इति । द्वयशब्देन भेदमनूद्य तन्निषेधः क्रियत इत्यर्थोऽप्युक्तप्रमाणविरुद्ध इत्युक्तमनाकुलमिति ॥३८॥

श्रीनिवासतीर्थीया

जीवस्य तत्स्वरूपस्य । स्वप्नो वासनामयपदार्थात्मको जाग्रद्दृष्टपदार्थाभेदेनाविद्यमानोऽपि जाग्रद्दृष्टपदार्थाभेदेन प्रतिभाति । मनोरथस्तत्र तत्र प्रतीयमानो वासनात्मकः पदार्थसार्थः स्थायिबाह्यपदार्थाभेदेनाविद्यमानोऽपि तथा तथा प्रतीयते । सैषा देहादेः स्ववशत्वेन प्रतीतिरेव । तद्विषयं देहादेः स्ववशत्वविषयकम् ॥ ३८ ॥

प्रमेयचन्द्रिका

ननु देहादिविषये सर्वथा जीवस्य स्वातन्त्र्याभावे तत्स्वान्त्र्यप्रतीतिः कथम् इत्यतो भ्रमेणेति सहेतुकं सदृष्टान्तमुपपादयन् भगवत्स्वातन्त्र्ये मनोभिनिवेशः कार्य इत्युच्यते । अविद्यमान इति । अत्र द्वयोर् भेदादिप्रपञ्चो विद्यमानो मिथ्येत्यन्यथाभानात्स्वप्नमनोरथ इति एकवचनेन स्वप्ने यो मनोरथः स इति च भानाद्यथावत्प्रमाणेन व्याचष्टे ॥ आत्मन इति ॥ अत्र द्वयमिति द्वितीयं वस्तूच्यते । तच्च सन्निहितत्वात्स्वीयदेहगेहकलत्रादिकं विवक्षितम् । तच्च जीवस्याविद्यमानं जीवस्य स्वातन्त्र्यविषयसम्बन्धेनाविद्यमानम् । तथापि तदीयवत् तत्स्वातन्त्र्यविषयमिव भ्रान्त्या प्रतिभाति । तथा स्वप्नः स्वप्नावस्था जाग्रद्वज् जाग्रदवस्थेव तत्काले प्रतिभाति । यद्वा स्वप्नः स्वाप्नोऽर्थो जाग्रत्यनुभूतबाह्यपदार्थवत् तादात्म्येन प्रतिभाति । यथा वा मनोरथोऽर्थो बाह्यरूपेण प्रतिभाति । एवं देहगेहादिकमीशवशे स्थिते केवलं स्ववशत्वेन भ्रमन्ति जनाः । सैषा भ्रमन्तीति यत्सैषा संसृतिः संसृतिहेतुरित्युच्यते शास्त्रेषु । एतेन पूर्वार्धो विवृतो भवति । उत्तरार्धतात्पर्यमाह ॥ तस्मादिति ॥ यस्माद्देहादिस्वातन्त्र्यज्ञानं भ्रमस् तस्मान्मनस् तद्विषयं स्वस्वातन्त्र्यादिविषयं त्यत्क्वा तत्र च मनोभिनिवेशमकृत्वा मनो विष्णोः स्वातन्त्र्ये निवेशयेदित्यर्थः ॥

ततश्चायं मूलार्थः ॥ द्वयोभिन्नोऽपि देहगेहादिः स्वाधीनतया अविद्यमानोऽपि ध्यातुर् अहं कर्ता भोक्ता स्थूलोऽहमित्यादि चिन्तयितुरात्माधीनतया प्रतिभाति । यथा अविद्यमानं च स्वप्नजाग्रत्वं प्रतिभाति । यथा वा बाह्यार्थतादात्म्येनाविद्यमानोऽपि मनोरथो यथा प्रतिभाति तथेति । यद् एवं स्वातन्त्र्यादिकमविद्यमानम् । तत् तस्माद्बुधो ज्ञानी इदं करिष्यामीति सङ्कल्पकम् । इदं मदीयम् इदम् अन्यदीयम् अहं कर्ता भोक्ता इत्यादिरूपेण विविधतया कल्पकं मनस्तत्कर्म । कर्मशब्दोऽत्र विषयपरः । देहादिस्वातन्त्र्यविषयं त्यक्त्वाऽस्वातन्त्र्यविषयं कृत्वेति यावत् । निदध्याद्धराविति शेषः ॥ ३८ ॥

शृण्वन् सुभद्राणि रथाङ्गपाणेर्जन्मानि कर्माणि च यानि लोके ।

गीतानि नामानि तदर्थकानि गायन् विलज्जो विचरेदसङ्गः ॥ ३९ ॥

पदरत्नावली

अयमपि भागवतो धर्म इत्याह– शृण्वन्निति । एवमात्मज्ञानोत्पादनसमर्थ-भगवदुपासनाङ्गभूतसर्व– समर्पणाख्यभागवतधर्ममनुतिष्ठतो देहाद्यभिमानविधुरस्य भगवदेक-स्वातन्त्र्यज्ञानिनो निरन्तरं हरौ मनो नियुञ्जमानस्येयं प्रवृत्तिरित्यतो वाऽऽह– शृण्वन्निति । तदर्थकानि जन्मकर्मविषयाणि ॥ ३९ ॥

दुर्घटभावदीपिका

लोके गीतानि गायन्नित्यस्य लोकोपकारार्थं ज्ञानिभिः कृतानि गीतानि गायन्नित्यर्थः । एतेन लोक इत्येतद्व्यर्थ इति दूषणस्यानवकाशः । अज्ञानकृतगीतानां न कर्तव्यमिति ज्ञापयितुं लोक इति तादर्थ्यसप्तमी । लोकशब्दो लोकोपकारपर इति स्वीकृत्य ज्ञानिभिः कृतानीत्यस्य शेषं च कृत्वा लोकोपकारार्थं ज्ञानिभिः कृतानि गीतानि गायन्नित्यर्थं वक्तुं लोक इत्युक्त इत्यभ्युपगमात्

॥ ३९ ॥

प्रमेयचन्द्रिका

भगवति मनोनिवेशसाधनान्युच्यन्ते । शृण्वन्निति ॥ ३९ ॥

एवं व्रतश्च प्रियनामकीर्त्या जातानुरागो द्रुतचित्त उच्चैः ।

हसत्यथो रोदिति रौति गायत्युन्मादवन्नृत्यति लोकबाह्यः ॥ ४० ॥

खं वायुमग्निं सलिलं महीं च ज्योतींषि सत्वानि दिशो द्रुमादीन् ।

सरित् समुद्रांश्च हरेः शरीरं यत् किञ्च भूतं प्रणमेदनन्यम् ॥ ४१ ॥

तात्पर्यम्

केचिदुन्मादवद्भक्ता बाह्यलिङ्गप्रदर्शकाः । केचिदान्तरभक्ताः स्युः केचि-च्चैवोभयात्मकाः । मुखप्रसादाद्दार्ढ्याच्च भक्तिर्ज्ञेया न चान्यतः ॥ इति वाराहे ॥

सर्वं हरेर्वशत्वेन शरीरं तस्य भण्यते । अनन्याधिपतित्वाच्च तदनन्यमुदीर्यते । न चाप्यभेदो जगता विष्णोः पूर्णगुणस्य तु ॥ इति हरिवंशेषु ॥ ४०,४१ ॥

पदरत्नावली

एवं श्रवणाद्याचरतोऽपरोक्षज्ञानजननी भक्तिः स्यादित्याह– एवंव्रत इति । प्रियस्य हरेर्नामकीर्त्या जातानुरागः संवर्धितभक्त्युद्रेकः । अनेन भक्त्युद्रेकोऽनुमन्तव्य इति भावेनाह– हसतीति । लोकबाह्य इत्यनेन भक्तबाहुविध्यं दर्शयति । कश्चिल्लोकबाह्यो लोकविलक्षणः, कश्चिल्लोकवद् बाह्यलिङ्गप्रदर्शकः, कश्चिल्लोवद् बाह्यवच्चोभयलक्षणोपेतश्च । तदुक्तम् ‘केचिदुन्मादवद्भक्ता बाह्यलिङ्गप्रदर्शकाः । केचिदान्तरभक्ताः स्युः केचिच्चैवोभयात्मकाः । मुखप्रसादाद् दार्ढ्याच्च भक्तिर्ज्ञेया न चान्यतः’ इति । हसनादिलक्षणमुन्मादादावतिव्याप्तमित्यत उक्तम्– मुखप्रसादादिति । नन्वयमर्थो मुखेन नोक्त इत्यत उक्तम्– अथो इति । अथोशब्दोऽप्यर्थः । हसनादेरतिव्याप्तत्वान्मुख-प्रसादाद्यपेक्षितमित्यर्थः । विकल्पार्थो वा । स च लोकबाह्य इत्यनेन स्पष्टीकृत इति ॥ इदानीमेवं-विधोपासकस्य हरेरुपासनार्थमधिष्ठानविशेषमाह– खं वायुमित्यादिना । खादीनां यानि यानि शब्दप्रवृत्तिनिमित्तानि तानि सर्वाणि हरेरधीनत्वेन तदेकनिष्ठगुणावेदकानि । उपासकानां च तत्तद् योग्यतावशात् तत्तदधिष्ठानबाहुल्यं चोपयुज्यते । हरेरावसस्थानत्वादेषु तदुपासनाविधानमिति भावेनाह– हरेरिति । यत् किञ्च भूतमुत्पन्नं तत् सर्वं हरेः शरीरं विषयभोगायतनत्वादावासस्थानम् । ‘‘यः पृथिव्यां तिष्ठन् पृथिव्या अन्तरः’’ इत्यादिश्रुतेः । प्रकर्षेण मनस्तन्नतं कुर्यात् । किं तदभेदेन ? नेत्याह– अनन्यमिति । अन्यः स्वामी यस्य न विद्यते सोऽनन्यः, तम् । ब्रह्मपरिणामत्वेन सर्वस्य तच्छरीरत्वात् तदभेदेनोपासनोच्यते इति चेन्न । ‘‘सर्वं हरेर्वशत्वेन शरीरं तस्य भण्यते’’ इत्यादि– विरोधात् ॥ ४०,४१ ॥

श्रीनिवासतीर्थीया

तत्सर्वं जगत् ॥ ४०,४१ ॥

प्रमेयचन्द्रिका

तत्फलमुच्यते ॥ एवमिति ॥ जातानुरागः जातः स्नेहो भगवतीति शेषः ॥ भक्तचिह्नान्युच्यन्ते । द्रुतचित्त इति ॥ भगवद्विषये तीव्रचित्तः सन् द्रवीभूतचित्तः सन्निति वा । अज्ञहसनरोदनादिकं भक्तिज्ञापकमित्युच्यते । तर्हि हसनादिरहिता न विष्णुभक्ता इति प्राप्तमित्यत आह । केचिदुन्मादवदिति । अर्शआद्यजन्तत्वेनोन्मादयुक्तपुरुषवद्रोदनहसनादियुक्तत्वेन बाह्यलिङ्गानि भक्त्यनुमापकानि । तत्प्रदर्शका इत्यर्थः । आन्तरभक्ता इति । बाह्यलिङ्गानि विना मनस्येव भक्तियुक्ताः । एतच्च मूले अथो इत्यस्य अन्यथेत्यर्थमभिप्रेत्य तदभिप्रायकथनमिति ज्ञेयम् । तर्ह्यान्तरभक्तानां भक्तिरस्तीति कथं ज्ञातव्यमित्यत आह ॥ मुखेति ॥ यद्वा न हासादिकं भक्त्यनुमापकम् । तस्योन्मत्तेऽपि सत्वेन व्यभिचरित्वादित्यत आह ॥ मुखेति । अन्यतः केवलहासादिकमात्रादित्यर्थः । अन्यथेति पाठेऽप्ययमेवार्थः । भगवदुपासनार्थमधिष्टानाभिधानपरे खं वायुमिति श्लोके शरीरपदस्य भोगायतनार्थत्वप्रतीतिम् अनन्य इत्यस्य हर्यभिन्नभ्रान्तिं च वारयितुं प्रमाणं पठति । सर्वमिति । भगवद्वशत्वसादृश्याच्छरीरशब्द इति भावः ॥ ४०,४१ ॥

भक्तिः परे स्वेऽनुभवो विरक्तिरन्यत्र चैष त्रिक एककालः ।

प्रपद्यमानस्य यथाऽश्नतः स्युस्तुष्टिः पुष्टिः क्षुदपायोऽनुघासम् ॥ ४२ ॥

पदरत्नावली

एवं खाद्यधिष्ठानेषु सन्निहितस्य हरेस्ततो भिन्नत्वेन तत्स्वामित्वेन चोपासना भक्त्यादिपुष्टिं करोति नान्यथेति सोदाहरणमाह– भक्तिरिति । खादिषु स्थितं हरिं प्रपद्यमान-स्योपासीनस्य तथा परे परमात्मनि भक्तिः स्वे स्वस्मिन् अनुभावोऽस्वातन्त्र्यज्ञानम् अन्यत्र संसारे विरक्तिरित्येष त्रिकस् त्रित्वसङ्ख्यां प्राप्त एककालः, स्यादिति शेषः । यथा बुभुक्षोरश्नतः पुंसोऽनुघासं प्रतिकवलं क्षुदपायः पुष्टिरुदरपूर्तिलक्षणा तुष्टिरलम्बुद्धिरित्येतत् त्रयं स्यात् ॥ ४२ ॥

प्रमेयचन्द्रिका

मूले भगवन्तं प्रपद्यमानस्य भक्तिर्भवतीति प्राग्जातानुराग इत्यनेनोक्तम् । तदैव सम्यग्भगवद्ज्ञानवैराग्यं च भवतीत्युच्यते ॥ भक्तिरिति ॥ स्वे स्वतन्त्रे परे ब्रह्मणि भक्तिस्तद्विषये स्वस्मिन्ननुभवो ऽन्यत्र विषयेषु विरक्तिरित्येष त्रिक एकः कालो यस्य स एककाल-भावीत्यर्थः । अनुघासं प्रतिकवलम् ॥ ४२ ॥

इत्यच्युताङ्घ्रिं भजतोऽनु प्रीत्त्या भक्तिर्विरक्तिर्भगवत्प्रबोधः ।

भवन्ति वै भागवतस्य राजन् ततः परां शान्तिमुपैति साक्षात् ॥ ४३ ॥

पदरत्नावली

पूर्वोक्तार्थमनूद्य तत्फलमाह– इतीति । प्रीत्या भजतो ऽनु अनन्तरं भगवत्प्रबोधः भगवदपरोक्षज्ञानमनन्तरं पूर्वस्मादधिका संसारविरक्तिरनन्तरमधिका भक्तिरित्येतानि साधनानि भागवतस्य भवन्तीति यस्मात् ततोऽनन्तरं साक्षात् तुर्यावस्थालक्षणां परामुत्तमां शान्तिं स्वयोग्यां मुक्तिमुपैतीत्यन्वयः । अत्र पूर्वाधिक्यविवक्षया प्रबोधादीनां हेतुमद्भावकथनं न विरुद्धमिति ज्ञातव्यम् ॥ ४३ ॥

प्रमेयचन्द्रिका

उक्तानुवादपूर्वकं फलकथनपरे इतीति श्लोके प्रीत्या मनःप्रसादपूर्वकम् अनु योग्यातानुसारेण भक्तिरित्यादि योजना । अनुवृत्येति पाठे सेवयेत्यर्थः । परामुत्तमां शान्तिं मोक्षं, मोक्षः शान्तिः शरमित्युक्तेः । साक्षादित्यस्याव्यवधानेन शीघ्रमित्यर्थः । अथवा शस्य सुखस्यान्तिः पूर्त्तिर् यस्यासौ शान्तिर् विष्णुस्तं साक्षादुपैतीत्यर्थः ॥ ४३ ॥

राजोवाच—

अथ भागवतं ब्रूत यद्धर्मो यादृशो नृणाम् ।

यथा चरति यद् ब्रूते यैर्लिङ्गैर्भगवत्प्रियः ॥ ४४ ॥

पदरत्नावली

भगवत्सम्बन्धी भागवत इति सामान्यतो ज्ञातभागवतोऽपि विशेषविवक्षया लोकोपकाराय पृच्छति– अथेति । अथ प्राप्तावसरः, पृच्छामीति शेषः । किं तत्राह– भागवत-मिति । भागवतमुत्तममध्यमाधमसञ्ज्ञम् । यद्धर्मः किं धर्मः । यादृशः कीदृशः । यथा कथम्

॥ ४४ ॥

प्रमेयचन्द्रिका

यद्धर्मः यत्प्रकारकधर्मवान् यादृशः स्वयं च यत्प्रकारकः । नृणां मध्य इति शेषः । यथा चरति कर्म करोति । यद्ब्रूते वदति । यैर्लिङ्गैर् ज्ञापकैर्ज्ञातव्यः ॥ ४४ ॥

हरिरुवाच—

सर्वभूतेषु यः पश्येद् भगवद्भावमात्मनः ।

भूतानि भगवत्यात्मन्नेष भागवतोत्तमः ॥ ४५ ॥

ईश्वरे तदधीनेषु बालिशेषु द्विषत्सु च ।

प्रेममैत्रीकृपोपेक्षा यः करोति स मध्यमः ॥ ४६ ॥

अर्चायामेव हरये पूजां यः श्रद्धयेहते ।

न तद्भक्तेषु चान्येषु स भक्तः प्राकृतः स्मृतः ॥ ४७ ॥

तात्पर्यम्

पूर्णत्वादात्मशब्दोक्तः कश्चित्सर्वनरोत्तमः । स च नारायणो नान्यः स च सर्वेषु संस्थितः । तद्वशा इतरे सर्वे श्रीब्रह्मेशपुरःसराः । स एव तु स्वभक्तेषु स्थित्वाऽनुग्रहकारकः । १अज्ञेष्वज्ञानयन्ता च द्विषत्सु द्वेषकारकः । तत्प्रेरितास्तदन्ये तु प्रियद्वेषादिकारिणः । अतस्तत्प्रेरणादेव प्रेमाद्या मम जज्ञिरे । इति पश्यति यो बुध्द्या स तु भागवतोत्तमः ॥ सर्वाधिकं पृथग्विष्णुं क्षीरसागरवासिनम् । ज्ञात्वा तत्र प्रेमयुक्त-स्तद्भक्तेषु च मैत्रयुक् । कृपावांश्च तदज्ञेषु तद्द्वेषीणामुपेक्षकः । तद्वशत्वं न जानाति सर्वस्य जगतोऽपि तु । तमाहुर्मध्यमं भक्तमर्चायामेव संस्थितम् । विष्णुं ज्ञात्वा तदन्यत्र नैव जानाति यः पुमान् । तारतम्यं च तद्भक्तेर्न जानाति कथञ्चन । अवजानंश्च तद्भक्तानात्मनो भक्तिदर्पितः । उपेक्षकोऽपि वा तेषु न स्मरेदथवापि तान् । मानुषेषु यथा कश्चित्किञ्चिदुच्चः प्रदृश्यते । एवमेवोच्चतां विष्णोरल्पां पश्यति चान्यतः । ते तु भक्ताधमाः प्रोक्ताः स्वर्गादिफलभागिनः । तैर्विघि्नता अधो यान्ति तद्भक्तानामुपेक्षकाः । कुर्युर्विष्णावपि द्वेषं देवा देवावमानिनः । पूजिता विष्णुभक्तिं च नावज्ञेयास्ततः सुराः । उपेक्षकेषु देवानां भक्तिनाशं स्वयं हरिः । करोति तेन विभ्रष्टाः संसरन्ति पुनःपुनः । अधो वा यान्ति विद्वेषात्पूज्या देवास्ततः सदा । यस्तान्द्वेष्टि स तं द्वेष्टि यस्ताननु स चानु तम् । ऐकात्म्यमागतं विद्धि देवैस्तद्भक्तिपूरितैः । उपेक्षकस्तु देवानां यदैव निरयोपगः । तदा तु किमु वक्तव्यमुपेक्षायां जनार्दने । विष्णोरुपेक्षकं सर्वे विद्विष-न्त्यधिकं सुराः । पतत्यवश्यं तमसि हरिणा तैश्च पातितः । भुङ्क्ते स्वर्गफलं नित्यं निरयं नैव गच्छति । विष्णोस्तु मध्यमो भक्तो जायते मानुषेषु च । अस्मरन्देवता यस्तु भजते पुरुषोत्तमम् । योग्यः संस्मरते देवानयोग्यो द्वेष्टि केशवम् । यस्तूत्तमो भागवतः स मुक्तिं परमां व्रजेत् । विष्णुना सर्वदेवैश्च मोदते स ह नित्यदा’ इति च ॥ ४५–४७ ॥

पदरत्नावली

तत्र प्रथमं प्रश्नं परिहरति– सर्वभूतेष्विति । सर्वभूतेषु स्थितस्यात्मनः पूर्णस्य हरेः । भगवान् सर्वगुणपूर्णस् तस्य भावो भगवद्भावः । सर्वगुणपूर्णताम् आत्मन् आत्मनि भूतानि च पश्येत् पश्यति । सर्वभूतेष्वात्मनः स्वस्य भगवद्भावं ब्रह्मत्वं पश्यन् भागवतोत्तम इत्यर्थस्य ‘‘पूर्णत्वादात्मशब्दोक्तः कश्चित् सर्वनरोत्तमः’’ इति वाक्यविरुद्धत्वादनादर्तव्यत्वम् ॥ मध्यमभागवतमाह– ईश्वर इति । ईश्वरे प्रेम तदधीनेषु सत्सु मैत्री बालिशेष्वज्ञेषु कृपां द्विषत्सूपेक्षाम् । चशब्दात् सर्वस्य जगतस्तद्वशत्वं न जानाति ॥ अधमभागवतमाह– अर्चायामिति । एवशब्देन अर्चाया अन्यत्रस्थितविष्णुज्ञानं तत्पूजां च व्यावर्तयति । तद्भक्तेषु न केवलं पूजां नेहते अपितु तारतम्यं न जानाति । अन्येषूपेक्षकेषु शत्रुषु द्वेषप्रकारं च न जानाति ॥ ४५–४७ ॥

श्रीनिवासतीर्थीया

आत्मनः स्वस्येति प्रतीतिनिरासाय तत्तात्पर्यमाह ॥ पूर्णत्वा-दित्यादिना । भगवद्भावं भगवत्त्वम् । पश्येदित्यस्य तात्पर्यकथनम् ॥ स चेति । सर्वभूतेष्वित्यस्य तात्पर्यकथनम् ॥ स चेति । तथा च सर्वभूतेषु स्थितस्यात्मनो भगवद्भावमिति योजनोक्ता भवति । भूतानीत्यस्य तात्पर्यमाह ॥ तद्वशा इति । तथा च भूतानि श्रीब्रह्मपुरःसराणि भगवत्यात्मनि तदाधारत्वेन तद्वशत्वेन पश्येदिति योजनोक्ता भवति । उत्तरश्लोकोक्तस्येश्वरादौ प्रेमादिकर्तृत्वरूपमध्यम-भक्तलक्षणस्योत्तमभक्तेऽतिव्याप्तिपरिहारायोत्तमभक्तेनेश्वरे प्रेमकरणेऽनुसन्धानप्रकारमाह ॥ स एव त्वित्यादिना । स एव श्रीब्रह्माद्युत्तमो भगवानेव । तत्प्रेरितास्तेन भगवता प्रेरिताः । तदन्ये श्रीब्रह्माद्याः । प्रियद्वेषादीति ॥ भक्तेष्वभक्तेषु चेत्यर्थः । तत्प्रेरणाद्भगवत्प्रेरणात् । प्रेमाद्या मम । श्रीब्रह्मादिषु । भागवतोत्तमशब्देन तत्त्वाभिमानिनो ग्राह्याः ॥

ईश्वर इत्यादिना मध्यमभक्तलक्षणमुक्तम् । तत्रेश्वरशब्देन कुत्रत्यो भगवान्विवक्षित इत्यत आह ॥ सर्वाधिकमिति । प्रेममैत्र्यादीनामीश्वर इत्यादिना क्रमेण सम्बन्ध इत्याशयेनाह ॥ तत्र प्रेमेति । भगवतीत्यर्थः । तदज्ञेषु भगवदज्ञानिषु । तद्वेषिणां भगवद्वेषिणाम् । नन्वीश्वरादौ प्रेमादियुक्तत्व-रूपमध्यमभक्तलक्षणस्योत्तमभक्तेष्वपि सत्वादतिव्याप्तिरित्यतो यथा नातिव्याप्तिस्तथा मूलाभिप्रेतां विवक्षामाह ॥ तद्वशत्वमिति । सर्वस्येश्वरादौ जातस्य प्रेमादेः । तद्वशत्वं भगवत्प्रेरणाजातत्वेन भगवदधीनत्वमित्यर्थः । न केवलं सर्वस्य प्रेमादेरेव तद्वशत्वं न जानातीति, किं नामेत्यत आह ॥ जगतोऽपीति । तद्वशत्वं न जानातीति सम्बन्धः । सर्वस्य जगत इति सामानाधिकरण्येऽपि-शब्दास्वारस्यम् । मध्यमभक्तमृष्यादिकम् । ‘‘मध्यमा ऋषिगन्धर्वा’’ इत्युक्तेरिति ध्येयम् । ननु ऋष्यादिष्वपरोक्षज्ञानिषु तद्वशत्वाज्ञानरूपलक्षणाभावादसम्भव इति चेन्न । अनपरोक्षदशायां सत्वेनोपलक्षणया कादाचित्कस्य तटस्थलक्षणत्वाभ्युपगमात् । न हि केनापि देवदत्तगृहलक्षणस्य काकनिलयत्वस्य काकाभावदशायामसम्भवः शङ्क्यत इति भावः ॥ अन्येष्वित्यस्यार्थः ॥ तदन्यत्रेति । भगवद्भक्तेष्वित्यर्थः । नैव जानाति । विष्णुमिति वर्तते । पुमानित्यनन्तरं स मनुष्यरूपाधमभक्त इति शेषः । इदमधमभक्तानां सामान्यलक्षणम् । अत्राधमभक्तास्त्रिविधाः । अधमाधमा, अधममध्यमा, अधमोत्तमाश्चेति । तत्राद्यं लक्षयति ॥ तारतम्यं चेति । तद्भक्ते-स्तद्भक्तिमतः ॥ अवजानंश्चेति । अवज्ञां कुर्वन् । द्वेष्टीति यावत् । तद्भक्तान्हरिभक्तान् । तत्र निमित्तम् ॥ आत्मन इति । यः सोऽधमभक्तेषु अधम इति शेषः ।

द्वितीयं लक्षयति ॥ उपेक्षकोऽपि वेति । हरिभक्तेषूपेक्षको यः सोऽधमभक्तेषु मध्यम इति शेषः । तृतीयं लक्षयति ॥ न स्मरेदिति । तान्हरिभक्तान् । यः सोऽधमभक्तेषु उत्तम इति शेषः । अर्चायामेव संस्थितं विष्णुं ज्ञात्वेत्युक्तम् । तत्रार्चायां विष्णुज्ञानप्रकारमाह ॥ मानुषेष्विति । उक्तरीत्या त्रयाणामपि भक्ताधमानां फलमाह ॥ स्वर्गादीति । एतदेव विव्रीयते ॥ तैरित्यादिना । तत्राधमभक्तेष्वेतद्भक्तानामुपेक्षका मध्यमास्ते देवैः स्वोपेक्षितैरर्चास्थितभगवत्पूजायां विघि्नताः सन्तोऽधो यान्ति स्वर्गं न गच्छन्ति निरयं गच्छन्तीत्यर्थः । अधमभक्तेष्वधमस्य कृत्यमाह ॥ कुर्युरिति । देवावमानिनो देवावज्ञाकर्तुः पुंसोऽर्चायामुपास्ये विष्णावपि विद्वेषं देवाः कुर्युः कारयेयुरित्यर्थः । ग्रन्थकृत्प्रसङ्गादाह ॥ पूजिता इत्यादि । तैर्विघि्नता इति देवानामेव विघ्नकर्तृत्वमुक्तम् । तत्परिहरन्नधो यान्तीत्युक्तम् उपलक्षणमित्याह ॥ उपेक्षकेष्वित्यादिना । तेन हरिणा । कुर्युर्विष्णावपि द्वेषमित्युक्तम् । तत्र फलानुक्तेराह ॥ अधो वेति । वाशब्द एवार्थे । अध एव यान्तीत्यर्थः । ग्रन्थकृदाह ॥ पूज्या इति । तान्देवान् । तं हरिम् । ऐकात्म्यमेकमनस्कत्वम् । तस्मिन्हरावित्यर्थः । अधो यान्ति । तद्भाक्तानामुपेक्षका इत्युक्तं विवृण्वन् कैमुत्यन्यायसिद्धमन्यमर्थमप्याह ॥ उपेक्षकस्त्वित्यादिना पततीत्यन्तेन । वक्तव्यम् । निरयोपग इति शेषः । सर्वे सुरा अधिकं यथा स्यात्तथा विद्विषन्तीत्यन्वयः । तैः सुरैः । अत्राधमभक्तेषु ये उत्तमा न स्मरेदित्यनेनोक्तास्ते स्वर्गादिभागिन इत्यपि द्रष्टव्यम् । ऋष्यादिरूपमध्यमभक्तानां फलानुक्तेराह ॥ भुङ्क्त इति । नित्यं नियमेनेत्यर्थः । मानुषेषु ज्ञानिभूतमनुष्यकुलेषु ।

‘‘प्राप्य पुण्यकृतां लोकानुषित्वा शाश्वतीः समाः ।

शुचीनां श्रीमतां गेहे योगभ्रष्टोऽभिजायते ।

अथवा योगिनामेव कुले भवति धीमताम् ॥’’ इति ।

गीतोक्तेरिति भावः । भक्ताधमेषूत्तमो यस्तत्र विभागं वक्तुमाह ॥ अस्मरन्निति । यो देवता अस्मरन् अर्चायां पुरुषोत्तमं भजते स मोक्षयोग्यः किं करोतीत्यत आह ॥ योग्य इति । पूर्वं सङ्गत्यभावेन देवान् अस्मरन् । स योग्यश्चेत्सत्सङ्गत्या तदुपदेशेन देवान्हरिभक्तत्वेन स्मरते । स स्वर्गं गच्छति । क्रमान्मोक्षं च गच्छतीत्यर्थः । योग्यत्वे सतीति विशेषणं देयम् । अयोग्यः किं करोतीत्यत आह ॥ अयोग्य इति । स्वरूपेणायोग्यः सत्सङ्गतिवशादर्चायां हरिं स्मरन्नभूत् स कालान्तरे केशवं द्वेष्टि पश्चादन्धतमोभाग्भवतीत्यर्थः । तस्याधमाधमेष्वन्तर्भाव इत्याशयः । उत्तमभक्तानां फलमाह ॥ यस्त्विति । उत्तमभक्तत्वज्ञापनायैव मुक्तेः परमत्वरूपविशेषणमुक्तम् । सायुज्यादिभेदेन चतुर्विधमित्यर्थः । तथा च परममुक्तिभाजस्तु तत्त्वाभिमानिनो देवा एवेति त एवोत्तमा भागवता इति ज्ञेयम् ।

नन्वथ भागवतं भगवद्भक्तं ब्रूतेति पृष्टे ह्येतदुच्यते । तत्राधमभक्तानां मध्ये नित्यसंसारिणां तमोयोग्यानां च सत्वात्कथमेतद्विरुद्धमेवोच्यत इति चेन्न । भगवद्भक्तिं कुर्वतां स्वरूपे पृष्टे तत्कथ्यते । तथा च यदा नित्यसंसारिणस्तमोयोग्याश्च कदाचित्सङ्गतिवशाद्भगवद्भक्तिं कुर्वन्ति तदा तस्यामवस्थायां तेषामपि लक्ष्यत्वमेवेत्यभिप्रायात् । अयमत्र जीवविवेकः । भगवद्भक्तास्त्रिविधाः । उत्तमा मध्यमा अधमाश्चेति । तत्रोत्तमास्तत्त्वाभिमानिनो देवाः परममुक्तिभाजः । ‘‘स मुक्तिं परमां व्रजेदि’’त्युक्त-त्वात् । मध्यमा ऋषिगन्धर्वा नियमेन स्वर्गफलभोक्तारः । ज्ञानिमनुष्यकुलोत्पत्तिफलका वा । भुङ्क्ते स्वर्गफलं नित्यं जायते मानुषेषु वेत्युक्तत्वात् । न चैतेष्वपरोक्षज्ञानित्वावस्थायां तद्वशत्वं न जानातीत्युक्तसामान्यलक्षणासम्भव इति चेन्न । अनपरोक्षदशायां सत्वेनास्य काकनिलयत्ववत्तटस्थ-लक्षणत्वात् । अत एव तेषां सादियोगित्वप्रसिद्धिः । अधमा मनुष्याः । तेऽपि त्रिविधाः । अधमोत्तमा अधममध्यमा अधमाधमाश्चेति । अर्चायामेव हरिपूजाकारित्वे सति सत्सङ्गत्य-भावाद्देवतास्मरणशून्या अधमोत्तमास्ते मोक्षयोग्याः । तत्र योग्यो देवान्संस्मरते पश्चात्स्वर्गभाग्भवेत् । अयोग्यो द्वेष्टि केशवं स तु तमोभाक् । तस्य च मनुष्याधमेष्वन्तर्भाव इत्याशयः । नन्वस्यायोग्य-स्याधममध्यमत्वं मध्यमाधमत्वं स्यान्नाधमोत्तमत्वमिति चेन्न । तस्य देवतास्मरणमात्र-शून्यत्वेनाधममध्यमाधमाधमवद्देवेषूपेक्षाद्वेषयोरभावेन तस्यां दशायां तदुभयापेक्षयाऽस्योत्तमत्वादित्या-शयात् । अर्चायामेव हरिपूजका देवेषूपेक्षाकर्तारोऽधममध्यमास्ते नित्यसंसारिणः । संसरन्ति पुनः पुनरित्युक्तत्वात् । अर्चायामेव हरिपूजका देवावज्ञाकर्तारोऽधमाधमास्ते चान्धन्तमोयोग्याः । अधो वा यान्ति विद्वेषात्पतत्यवश्यं तमसीति चोक्तत्वादिति ॥ ४५–४७ ॥

प्रमेयचन्द्रिका

यद्धर्म इत्यस्योत्तरं सर्वभूतेष्विति । अत्रात्मनो जीवस्य भगवद्भावं ब्रह्मतादात्म्यम् । यः पश्येदित्यन्यथाप्रतीतिवारणाय प्रमाणेन व्याचष्टे ॥ पूर्णत्वादिति । आत्मशब्दोक्तः कश्चिदेक एव, कुतः पूर्णत्वात् । देशतः कालतो गुणतश्चाततत्वादिति यावत् । तत्सम्भावयितुमुक्तं सर्वनरोत्तम इति । सर्वनरोत्तमत्वात्सर्वत्रासम्भावितमपि पूर्णत्वं तत्रोपपद्यत इति भावः । स च न विरिञ्चादिरित्याह ॥ स चेति ॥ चशब्दोऽवधारणे । नारायण एवेति । नारायणशब्दार्थपर्यालोचने गुणा नारास्तदयनत्वान्नारायण इति नरशब्दवाच्यब्रह्मादिचेतनसमुदायो नारः । तदुत्तमतया तदयनत्वान् नारायणशब्दसमानार्थत्वादात्मशब्दस्येति भावः । स चात्मशब्दोक्तो नारायणः सर्वेषु भूतेषु संस्थितः । अनेन सर्वभूतेषु भगवद्भावं भगवतः सद्भावमवस्थानमिति मूलं व्याख्यातं भवति । भूतानि भगवति । आत्मन्नात्मनि । नारायणे इत्यभिप्रायमाह । तद्वशा इति । सर्वभूतेषु भगवतोऽवस्थानमुक्तम् । तत्र भक्तेषु स्थितस्य व्यापारमाह ॥ स एवेति ॥ अनुग्रहकारकोऽनुग्रहकर्ता । भक्तेषु स्थित्वा तेष्वनुग्रहेण तेभ्यो भक्त्यादिकं ददातीति यावत् । ‘‘तथा बालिशेषु द्विषत्सु चे’’त्यत्राभिप्रेतमभागवतेषु विद्यमानमज्ञानादिकं सर्वं भगवदधीनमित्याह ॥ अज्ञेष्विति ॥ स्थित्वेति शेषः । एतदेव विवृणोति ॥ तत्प्रेरिता इति ॥

ननु भगवदन्येषां ब्रह्मादिदेवानां कल्यादिदैत्यानां च प्रियद्वेषादिकारकत्वस्य प्रमितत्वात्कथं हरेरेव तदुक्तमित्यत आह ॥ तत्प्रेरितेति ॥ इतरेषां प्रियादिकारकत्वेऽपि स्वतोऽभावाद्धरेरेव तदित्युपपद्यत इति भावः । अस्त्वेवं भगवत एव स्वातन्त्र्येण प्रेमादिकारकत्वम् । प्रकृते किमायातमित्यत आह ॥ अत इति ॥ यतः स्वातन्त्र्येण हरिरेव प्रेमादिप्रवर्तकः प्रमित अत इत्यर्थः । एवं सर्वभूतेषु उत्तमभक्तस्वरूपपरश्लोकतात्पर्यमभिधाय मध्यमस्वरूपकथनपरे ईश्वर इति श्लोके ईश्वरादिषु प्रेमादिकर्ता मध्यम इत्युक्तम् । उत्तमभक्तैरपि ईश्वरे प्रेम्णस् तदधीनेषु मैत्र्या बालिशादिषु कृपादेः कार्यत्वादित्यत आह ॥ सर्वाधिकमिति ॥ क्षीरसागरवासिनं विष्णुं पृथक् सर्वाधिकं ज्ञात्वेत्यस्य यथा स्वपुरे एव पृथगेव स्थितो राजा स्वराज्यप्रजेभ्योऽधिको वर्तते न तु सर्वान्तर्यामितया सर्वप्रकारेण सर्वप्रवर्तकत्वादिना अधिक एवं विष्णुः श्वेतद्वीपे वर्तते । स च सर्वदेवाद्यधिकत्वेनेत्यवज्ञानवा नित्याशयः । प्रेमयुक्त इति राजादौ पालकत्वप्रयुक्तस्नेहाद्धरौ प्रेमयुक्तः न तु माहात्म्यज्ञानपूर्वकं सर्वतोऽधिकविशेषप्रेमयुक्तः । राजभृत्येष्वमात्यादिष्विव विष्णुभक्तेषु मैत्रीयुगित्यर्थः । एतच्च प्रेमादिकं माहात्म्यज्ञानपूर्वकं नेत्येतदुपपादयितुमुक्तं तद्वशत्वमिति ॥ तथा च सर्वप्रकारेण सर्वोत्तमत्व-सर्वकर्तृत्वादिमाहात्म्यज्ञानपूर्वकमात्मीयसमस्तवस्तुभ्योऽप्यधिकनिरन्तरप्रेमप्रवाहरूपभक्तेस् तथा रमाब्रह्मादिषु क्रमिकभक्तेर्भगवदज्ञेषु उपेक्षाया द्वेषिषु द्वेषस्य चाकरणात्सर्वस्य तद्वशतायाश्चाज्ञानान्नोत्तम-भक्तत्वं किन्तु त्रैविद्यमात्रा एते मध्यमभक्ता इति भावः ।

अर्चायामेवेति मूलोक्तस्याधमभक्तस्य पूर्वोक्ताभ्यां वैलक्षण्यमुपपादयति ॥ अर्चायामेव संस्थितमित्यादिना ॥ तदन्यत्र ब्राह्मणादिषु सर्वपदार्थेषु च । तद्भक्तेस्तारतम्यमिति । नरादिब्रह्मान्तेषु अधिकतराऽधिकतमा भगवद्भक्तिर्वर्तत इत्येवं भक्तेस्तरतमभावं न जानाति । किन्तु स्वस्मिन्निव सर्वभक्तेष्वेकप्रकारैव भक्तिरिति जानाति । भक्त इति पाठे भक्ते भक्तवर्ग इत्यर्थः ।

तत्र केचित्स्वेष्वेव भक्तेराधिक्यं मन्यमानास्तत्कृतदर्पतस्तद्भक्तान् देवादीन् महतोऽवजानन्ति । अत्र बहुवचनप्रयोगात्प्राङ् न जानातीत्येकवचनं जात्यभिप्रायेणेति ज्ञायते । केचिदस्मासु विष्णुभक्तिर्वर्तते किं देवैर्ममेति तेषूपेक्षका भवन्ति । अत्राप्येकवचनं बहुवचनार्थे अपरेषु तेष्वल्प-बहुमानेऽपि तान् सोपकारतया न स्मरेयुः । एते सर्वे भक्ताधमा इति पूर्वेणान्वयः ।

कथमेवंविधानां भक्तत्वं तद्भक्तौ माहात्म्यज्ञानपूर्वकत्वादिलक्षणाभावादित्यत आह ॥ मानुषेष्विति । यथा कश्चिद्विद्याधनादिमान्पुरुषः स्वसमानमनुष्येषु किञ्चिदुच्चो दृश्यते । एवमेव विष्णोरल्पादुच्चतां पश्यतीत्यर्थः । तथा च भक्तत्वमुपचरितमिति भावः । तेषां फलमाह ॥ स्वर्गादीति ॥ स्वर्गमानुष्यनिरयतमोभागिन इत्यर्थः । ननु ये केशवत्वाद्बहुमानयुक्तास्तथैव वायौ न हि ते तमोन्धम् । योग्याः प्रवेष्टुमित्युक्तेः कथमधमभक्तानां तमःप्राप्तिर् अल्पस्य केशवे बहुमानस्य भावादित्यत आह ॥ तैर्विघि्नता इत्यादिना ॥ विघि्नता विघ्नं प्रापिताः । एतदुत्तरत्र विवरिष्यति ।

उपेक्षकफलमुक्त्वा अवमंतॄणां फलमाह ॥ कुर्युरिति ॥ ये देवावमानिनस्ते विष्ण•वपि द्वेषं कुर्युः संपादयेयुः । विष्णुद्वेषिणां तमःप्राप्तिर्नियतेति भावः । यदर्थमिदमुदितं तदाह ॥ नावज्ञेयास्ततः सुरा इति ॥ प्रत्युत पूजनीया इत्युक्तम् ॥ पूजिता इति । विष्णुभक्तिञ्च कुर्युरित्यस्यानु-कर्षणार्थश्चशब्दः । मोक्षो नियत इति भावः । यदुक्तं देवतोपेक्षकास्तैर्विघि्नता अधो यान्तीति तदयुक्तम् । विष्णुभक्तेषु हरेः पक्षपातसद्भावेन देवैर्विघ्नस्य संपादयितुमशक्यत्वादित्याशङ्कायां हरिरेव स्वात्यन्तभक्ततया परमप्रेमास्पदानां देवानामुपेक्षकेषु स्वयमेव देवेषु स्थित्वा भक्तिनाशं करोतीति । अधोयान्तीत्युक्तं विवृणोति ॥ उपेक्षकेष्विति ॥ भक्तिविभ्रंशे केचित्पुनः संसारे परिवर्तन्ते । यदि ते तमोयोग्यास्तर्हि द्वेषं प्राप्य अधो यान्तीति व्यवस्थितविकल्पे वाशब्दः । एतेन कुर्यर्विष्णावपि द्वेषमित्युक्तानामपि तमो भवतीत्युक्तं भवतीति ज्ञातव्यम् । उपसंहरति ॥ पूज्या इति ॥ देवद्वेषिणां तदुपेक्षकाणाञ्च विष्णुः स्वयं किमर्थं भक्तिनाशं करोतीत्यत आह ॥ यस्तानिति ॥ तान् देवान् तं हरिम् । अनु अनुसृत्य वर्तते । ऐकात्म्यम् एकविषयमनस्कत्वम् । प्रसङ्गाद् विष्णूपेक्षादि न कार्यमिति कैमुत्येनाह ॥ उपेक्षकस्त्विति ॥ देवानां स्नेहादुद्धारः किं न स्यादित्यत आह ॥ विष्णोरिति ॥ तमसि पततीत्येतदुपपन्नमिति शेषः । मध्यमभक्तस्य पूर्वं फलं नोक्तम् । तदिदानीमाह ॥ भुंक्ते इति । भुङ्क्ते स्वर्गशेषेण मानुष्यं प्राप्नोतीति ज्ञेयम् । नित्यं नियतम् । सः स्वर्गं गत्वा पुनरागच्छति । पुनः कर्म कुरुते पुनरागच्छति । पुनरागच्छतीत्येवं नित्यमिति च । निरयं नैव गच्छति । स्वर्गशेषेणेति शेषः । विकर्मकरणे निरयप्राप्तिर्युक्तेति ज्ञेयम् । एवं देवाद्युपेक्षकावमन्तॄणां फलमुक्त्वा देवानां हरेश्चास्मर्तृणां फलमाह ॥ अस्मरन्निति ॥ कर्मकरणकाले देवतास्मरणरहिताः । अर्चायामेव हरय इत्युक्तलक्षणोपेता द्विविधाः । भक्तिपूर्वकं स्मरणयोग्यास् तदयोग्याश्चेति । तेषां द्विविधानां क्रमेण फलमाह ॥ योग्य इति ॥ संस्मरते तेन च मुक्तिं प्राप्नोति । द्वेषेण च तमः प्राप्नोतीति ज्ञेयम् । उत्तमभक्तस्य फलमिदानीमाह ॥ य इति ॥ ४५–४७ ॥

गृहीत्वापीन्द्रियैरर्थान् यो न द्वेष्टि न हृष्यति ।

विष्णोर्मायामिमां पश्यन् स वै भागवतोत्तमः ॥ ४८ ॥

तात्पर्यम्

विष्णोर्मायां विष्ण्विच्छाधीनाम् । ‘विष्णोरिच्छानुसार्यैतज्ज्ञात्वा योग्यान्न चाधिकम् । हृष्यति द्वेष्टि वा यस्तु स वै भागवतोत्तम’ इति ॥ ‘सतां वृद्धिकरो धर्मस्त्वसतां ह्रासकारकः । अयं तु निश्चितो धर्मो ह्यधर्मोऽन्यो विनिश्चितः । हर्षः सत्सु तथाऽसत्सु धर्मो धर्मविपर्ययः । तेषां वृद्धौ तथा हानौ सर्वं ज्ञेयमशेषतः । एतदर्थं च धर्माणां मर्यादा वैदिकादिका । मूलधर्मविरुद्धा तु सा न ग्राह्या कथञ्चने’ति च ॥ ४८ ॥

पदरत्नावली

यथा चरतीत्येतं प्रश्नं परिहरति– गृहीत्वेति । इमां लोकयात्रां विष्णोर्मायामिच्छाधीनां पश्यन् इन्द्रियैरर्थान् शब्दादीन् विषयान् गृहीत्वाऽपि योग्यतातिरेकेणाधिकं न द्वेष्टि न हृष्यति । अयमेव यद्धर्म इत्यस्य परिहारः । सदसत्सु यथायोग्यं हर्षद्वेषौ सदसतां वृद्धिह्रासकरो धर्मः । ‘सर्वं हरेर्वशत्वेन शरीरं तस्य भण्यते । अनन्याधिपतित्वाच्च तदनन्यमुदीर्यते । न चाप्यभेदो जगता विष्णोः पूर्णगुणस्य तु ।’ इत्येतद् हरेः शरीरं यत्किञ्च भूतं प्रणमेदनन्यमित्यत्र प्रमाणम् ।१

२पूर्णत्वादात्मशब्दोक्तः कश्चित् सर्वनरोत्तमः । सोऽपि नारायणो नान्यः स च सर्वेषु संस्थितः । तद्वशा इतरे सर्वे श्रीब्रह्मेशपुरःसराः । स एव तु स्वभक्तेषु स्थित्वानुग्रहकारकः । तत्प्रेरितास्तदन्ये तु प्रियद्वेषादिकारिणः । अतस्तत्प्रेरणादेव प्रेमाद्या मम जज्ञिरे । इति पश्यति यो बुध्या स तु भागवतोत्तमः । सर्वाधिकं पृथग्विष्णुं क्षीरसागरवासिनम् । ज्ञात्वा तत्र प्रेमयुक्तस्तद्भक्तेषु च मैत्रयुक् । कृपावांश्च तदज्ञेषु तद्वेषीणामुपेक्षकः । तद्वशत्वं न जानाति सर्वस्य जगतोऽपि तु । तमाहुर्मध्यमं भक्तमर्चायामेव संस्थितम् । विष्णुं ज्ञात्वा तदन्यत्र नैव जानाति यः पुमान् । तारतम्यं च तद्भक्तेर्न जानाति कथञ्चन । अवजानंश्च तान् भक्तानात्मनो भक्तिदर्पतः । उपेक्षकोऽपि वा तेषु न स्मरेदथवाऽपि तान् । मानुषेषु यथा कश्चित् किञ्चदुच्चः प्रदृश्यते । एवमेवोच्चतां विष्णोरल्पां पश्यति चान्यतः । ते तु भक्ताधमाः प्रोक्ताः स्वर्गादिफलभोगिनः । तैर्विघि्नता अधो यान्ति तद्भक्ता-नामुपेक्षकाः । कुर्युर्विष्णावपि द्वेषं देवा देवावमानिनः । पूजिता विष्णुभक्तिं च नावज्ञेयास्ततः सुराः । उपेक्षकेषु देवानां भक्तिनाशं स्वयं हरिः । करोति तेन विभ्रष्टाः संसरन्ति पुनः पुनः । अधो वा यान्ति विद्वेषात् पूज्या देवास्ततः सदा । यस्तान् द्वेष्टि स तं द्वेष्टि यस्ताननु स चानु तम् । ऐकात्म्यमागतं विद्धि देवैस्तद्भक्तिपूरितैः । उपेक्षकस्तु देवानां यदैव निरयोपगः । तदा तु किमु वक्तव्यमुपेक्षायां जनार्दने । विष्णोरुपेक्षकं सर्वे विद्विषन्त्यधिकं सुराः । पतत्यवश्यं तमसि हरिणा तैश्च पातितः । भुङ्क्ते स्वर्गफलं नित्यं निरयं नैव गच्छति । विष्णोस्तु मध्यमो भक्तो जायते मानुषेषु च । अस्मरन् देवता यस्तु भजते पुरुषोत्तमम् । योग्यः संस्मरते देवानयोग्यो द्वेष्टि केशवम् । यस्तूत्तमो भागवतः स मुक्तिं परमां व्रजेत् । विष्णुना सर्वदेवैश्च मोदते स हि नित्यदा’ इति समाख्यानबलात् सिद्धोयं सर्वभूतेष्वित्यादिरुक्तार्थ इति ।

विष्णुमायां विष्ण्विच्छाधीनाम् । ‘विष्णोरिच्छानुसार्येतद् ज्ञात्वा योग्यान्न चाधिकम् । हृष्यति द्वेष्टि वा यस्तु स वै भागवतोत्तमः’ इत्येतद् गृहीत्वापीन्द्रियैरर्थानित्यर्थे मानम् । ‘सतां वृद्धिकरो धर्मस्त्वसतां ह्रासकारणः । अयं तु निश्चितो धर्मो ह्यधर्मोऽन्यो विनिश्चितः । हर्षः सत्सु तथाऽसत्सु धर्मो धर्मविपर्ययः । तेषां वृद्धौ तथा हानौ सर्वं ज्ञेयमशेषतः । एतदर्थे च धर्माणां मर्यादा वैदिकादिका । मूलधर्मविरुद्धा तु सा न ग्राह्या कथञ्चन’ इत्येतदपि गृहीत्वापीत्यत्र मानम् ॥४८॥

श्रीनिवासतीर्थीया

विष्णोर्मायामित्यत्रानिर्वचनीयाविद्यापरताप्रतीतिवारणाय व्याचष्टे ॥ विष्णोर्मायामिति । समग्रश्लोकार्थे प्रमाणं चाह ॥ विष्णोरिति । योग्याद्योग्यतापेक्षयाऽधिकं न हृष्यति । स्वगुरूनारभ्य ब्रह्मपर्यन्तेषु हर्षः कार्यस्तत्तद्योग्यतानुसारेण । न हि यावान्देवेषु हर्षः कार्यस्तावान्गुरुषु कार्यः । तथा सति वैषम्यापत्तेः । तथा कलौ यावान्विद्वेषस्तावानितरत्र न कार्यः । किंतु तत्तद्योग्यतानुसारेणेति भावः । अनेनेन्द्रियैर्गुर्वादिसज्जनरूपानर्थान् सज्जनरूपार्थान्गृहीत्वाऽपि योग्यतापेक्षयाऽधिकं न हृष्यति न द्वेष्टीति मूलं योजनीयम् । नन्वस्य श्लोकस्य सर्वथा हर्षद्वेषाभावरूपः प्रतीत एवार्थः किं न स्यादिति चेन्न । तथा सति मूलधर्मविरोधापत्तेः । कोऽसौ मूलधर्म इत्यत आह ॥ सतामित्यादिना । यः सतां वृद्धिकरोऽसतां ह्रासकारको धर्मोऽयं निश्चितो धर्मो मूलधर्मत्वेन निश्चित इत्यर्थः । अन्योऽसतां वृद्धिकरः सतां ह्रासकरोऽधर्मतया निश्चित इत्यर्थः । ततः किं प्रकृत इत्यत आह ॥ हर्ष इति । सत्सु हर्षो धर्मः । असत्सु हर्षो धर्मविपर्यय इत्यर्थः । उपसंहरति ॥ तेषामिति । अशेषतो यत्कर्तव्यं तत्सर्वं तेषां सतां वृद्धौ वृद्ध्यर्थम् । तथाऽसतां हानौ हान्यर्थमेव ज्ञेयमित्यर्थः । एतदर्थं धर्माधर्मज्ञानार्थम् । वैदिका वैदिकी स्मार्ताचेत्यर्थः । यतः । अत इति शेषः । सेति । सा मर्यादा यदि मूलधर्मविरुद्धा तर्हि नैव ग्राह्येत्यर्थः । एवं च प्रतीतार्थाङ्गीकारे मूलधर्मविरोधापत्तेर्न तत्स्वीकारो युक्त इति भावः ॥ ४८ ॥

प्रमेयचन्द्रिका

यथा चरतीत्यस्योत्तरमुच्यते ॥ गृहीत्वेति ॥ अत्र मायामित्यस्या-निर्वाच्याविद्यामित्यर्थप्रतीतेरनूद्य व्याचष्टे ॥ विष्णोर्मायामिति ॥ ‘‘महामायेति तवेच्छाऽनन्त कथ्यत’’ इत्युक्तेः ‘‘यदधीना यस्य सत्ता तत्तदित्येव भण्यत’’इति चोक्तेर् इच्छाधीनामित्युक्तम् । इन्द्रियैरर्थान्विषयान् गृहीत्वाऽपि इमां लोकयात्रां विष्णोरिच्छाधीनां पश्यन् । यो न द्वेष्टि न हृष्यतीति यदुक्तं तदयुक्तम् । सत्सु हर्षस्य असत्सु द्वेषस्य कार्यत्वादित्यतः प्रमाणेन मायाशब्दार्थं वदन्व्याचष्टे ॥ विष्णोरिति ॥ हर्षयोग्येषु हर्षः द्वेषयोग्येषु द्वेषः कार्यः योग्यतामतिक्रम्य हर्षादिर्न कार्य इति भावः । द्वेषादियोग्याः क इत्यतस्तान्वक्तुम् उत्तमभागवताचारकथनप्रस्तावे सत्सु असत्सु च हर्षद्वेषयोरकर्तव्यत्वकथनमसङ्गतमित्याशङ्कां वारयितुम् आचारशब्दोदितधर्मस्वरूपमाह ॥ सतामिति ॥ वृद्धिर् अभ्युदयः । सतां वृद्धिकरस्य असतां ह्रासकरस्य धर्मशब्दवाच्यत्वं कुत इत्यत उक्तम् ॥ अयं त्विति ॥ अयमुक्तविधो द्वेषोऽपि धर्मशब्दार्थ इति निश्चितः । हीत्यनेन ‘‘यः सतां धारको नित्यः सद्धर्म इति कीर्तितः’’ इत्यादिप्रमाणं सूचयति । अन्य एतद्विपरीतः । न केवलं सतां वृद्धिकरोऽसतां ह्रासकरो धर्मः । किं तु सतां वृद्धावसतां ह्रासे च हर्षो धर्मः । एतद्वैपरीत्ये च अधर्म इत्याह ॥ हर्ष इति ॥ तेषां सतां वृद्धौ प्राप्तायां तेषु सत्सु हर्षो धर्मः । तेषां सतां हानौ प्राप्तायां हर्षो धर्मविपर्ययः । तथा असतां हानौ हर्षो धर्मविपर्यय इत्येवं सदसद्वृद्धिह्रास-करत्वप्रकारेण सर्वं मानसिकवाचनिककर्मजातमशेषतः संकोचं विना धर्मादिस्वरूपं ज्ञेयमित्यध्याहारेण योज्यम् । ननु वेदादौ यज्ञादेर्धर्मत्वं ब्राह्मणहिंसादेरधर्मत्वं खलूच्यते । तत्किमसतां वृद्धिकरो धर्म इत्यादिरुच्यत इत्यत आह ॥ एतदर्थमिति ॥ चोऽवधारणे । सतां देवादीनां वृद्ध्यर्थमसतां दानवानां हान्यर्थमेवोक्तरूपाणां धर्माणां वैदिकी मर्यादा कृता । एतदित्युक्तम् उपपादयति ॥ मूलेति ॥ मूलः धर्मः । सद्वृद्धिरसद्ध्रासस्तद्विरुद्धा । सा विधिनिषेधात्मकवैदिकमर्यादा न ग्राह्या । तदविरुद्धैव ग्राह्येति । तथा सद्वृध्याद्यनुकूलहर्षादिरेव भागवताचार इति भावः ॥ ४८ ॥

देहेन्द्रियप्राणमनोधियां यो जन्माप्ययक्षुद्भयतर्षकृच्छै्रः ।

संसारधर्मैरविमुह्यमानः स्मृत्या हरेर्भागवतप्रधानः ॥ ४९ ॥

तात्पर्यम्

देहेन्द्रियप्राणधियां त्रिधैव त्वभिमानिनः । तत्रोत्तमा देवतास्ताः सर्वदोषविवर्जिताः । गुणैः सर्वैः सुसम्पन्ना विरिञ्चादुत्तरोत्तरम् । मध्यमा गुणदोषेता असुरा अवमा मताः । ते सर्वे दोषसंयुक्ता आचित्तादुत्तरोत्तरम् । तेभ्योऽन्यो मानुषो जीवस्ताभ्यां देवासुरावपि । जीवाभिमानिनश्चैव त्रिविधाः सम्प्रकीर्तिताः । जीव-मान्युत्तमो ब्रह्मा मध्यमः स्वयमेव तु । अधमः कलिरुद्दिष्टस्तत्र मध्यमनीचयोः । मृति-जन्मक्षुधादुःखप्रभृत्यखिलमेव तु । नोत्तमस्य तु जीवस्य देहादेश्च कथञ्चन । जन्मादि-कृतदुःखं तु देहमान्यसुरस्य ह । सुप्त्याद्यप्ययजं दुःखमसुरेन्द्रियमानिनः । क्षुन्निमित्तं तु यद्दुःखं प्राणमान्यसुरस्य तत् । भयतर्षादिजं दुःखं मनोमान्यसुरस्य च । केवलं त्वान्तरं दुःखं बुद्धिमान्यसुरस्य तत् । नीचोऽस्मीति तु यद्दुःखमहंमान्यसुरस्य तत् । अतीतादि-स्मृतेर्दुःखं चित्तमान्यसुरस्य च । जीवमान्यसुरस्य स्यात्सर्वं तत्समुदायतः । एवमेव सुखं देवेषूभयं मध्यमेषु च । असुराणामधर्मस्य वृध्या सुखमपीष्यते । देवानां नैव केनापि दुःखं प्रीतिस्तु धर्मतः । अधर्मोऽपि प्रीतये स्यादसुराणामधोगतेः । देवानां पुण्यपापाभ्यां सुखमेवोत्तरोत्तरम् । तेषां दुःखादिकं किञ्चिदसुरावेशतो भवेत् । प्राणस्य नासुरावेश आखणाश्मसमो हि सः । सम्पूर्णानुग्रहाद्विष्णोः प्राणः पूर्णगुणो मतः । असुराणां सुखाद्याश्च देवावेशादुदीरिताः । स्वतस्तु निर्गुणाः सर्वे सर्वदोषात्मका मताः । विविच्यैवं जगत्सर्वं स्वात्मानं च पृथक्स्थितम् । सर्वतश्च पृथक्सन्तं विष्णुं सर्वोत्तमोत्त-मम् । जानन्ति ये भागवतास्त उक्ता उत्तमोत्तमा’ इति ब्रह्मतर्के ॥ देहेन्द्रिययो-र्जन्माप्ययौ ॥ ४९ ॥

पदरत्नावली

कैर्लिङ्गैरित्येतत्प्रश्नं परिहरति– देहेन्द्रियप्राणधियामिति । संसारधर्मैः संसारस्वभावैर्देहादीनां जन्मादिकृच्छै्ररविमुह्यमानस्तत्तद्वस्तुतत्तत्तत्वं यथावज्जानन् यो वर्तते स भागवतप्रधान इत्यन्वयः । तत्र हेतुमाह– स्मृत्येति । देहादीनामचेतनत्वेन जन्मादिकृच्छ्रानु-भवोऽनुपपन्न इत्यतस्तात्पर्यार्थोऽन्यो युक्तो वक्तव्यः । स क इत्याशङ्का ‘देहेन्द्रियप्राणधियां त्रिधैव त्वभिमानिनः । तत्रोत्तमा देवतास्ता सर्वदोषविवर्जिताः । गुणैः सर्वैः सुसम्पन्ना विरिञ्चिादुत्तरोत्तरम् । मध्यमा गुणदोषेता अधमा असुरा मताः । ते सर्वे दोषसंयुक्ता आचित्तादुत्तरोत्तरम् । तेभ्योऽन्यो मानुषो जीवस्ताभ्यां देवासुरावपि । जीवाभिमानिनश्चैव त्रिविधाः सम्प्रकीर्तिताः । जीवमान्युत्तमो ब्रह्मा मध्यमः स्वयमेव तु । अधमः कलिरुद्दिष्टस्तत्र चोत्तमनीचयोः । मृतिजन्मक्षुधादुःख-प्रभृत्यखिलमेव तु । नोत्तमस्य तु जीवस्य देहादेश्च कथञ्चन । जन्मादिकृतदुःखं तु देहमान्यसुरस्य च । सुप्त्याद्यप्ययजं दुःखमसुरेन्द्रियमानिनः । क्षुन्निमित्तं तु यद् दुःखं प्राणमान्यसुरस्य तत् । भयतर्षादिजं दुःखं मनोमान्यसुरस्य च । केवलं चान्तरं दुःखं बुद्धिमान्यसुरस्य तत् । नीचोऽस्मीति तु यद् दुःखमहम्मान्यसुरस्य तत् । अतीतादेः स्मृतेर्दुःखं चित्तमान्यसुरस्य च । जीवमान्यसुरस्य स्यात् सर्वं तत् समुदायतः । एवमेव सुखं देवेषूभयं मध्यमेषु च । असुराणामधर्मस्य वृध्द्या सुखमपीष्यते । देवानां नैव केनापि दुःखं प्रीतिस्तु धर्मतः । अधर्मोऽपि प्रीतये स्यादसुराणां तमोगतेः । देवानां पुण्यपापाभ्यां सुखमेवोत्तरोत्तरम् । तेषां दुःखादिकं किञ्चिदसुरावेशतो भवेत् । प्राणस्य नासुरावेश आखणाश्मसमो हि सः । सम्पूर्णानुग्रहाद् विष्णोः प्राणः पूर्णगुणो मतः । असुराणां सुखाद्याश्च देवावेशादुदीरिताः । स्वतस्तु निर्गुणाः सर्वे सर्वदोषात्मका मताः । विविच्यैवं जगत् सर्वं स्वात्मानं च पृथक् स्थितम् । सर्वतश्च पृतक् सन्तं विष्णुं सर्वोत्तमोत्तमम् । जानन्ति ये भागवतास्त उक्ता उत्तमोत्तमा इत्यनेन परिहृतेति ज्ञातव्यम् ॥ ४९ ॥

श्रीनिवासतीर्थीया

ननु देहेन्द्रियप्राणमनोधियां यो जन्माप्ययक्षुद्भयतर्षजन्यैः कृच्छ्रैः संसारधर्मैरविमुह्यमान इति कथमुच्यते । देहादेर्जडत्वेन तस्य कृच्छ्रप्रसक्त्यभावादित्यतो देहादिशब्देन तदभिमानिनो दैत्या ग्राह्या इति भावेनाभिमानिविवेकं प्रमाणेनाह ॥ देहेन्द्रियेत्यादिना । मनोऽप्यत्र ग्राह्यम् । विरिञ्चादुत्तरोत्तरमित्यत्र विरिञ्चाद् आ उत्तरोत्तरमिति पदच्छेदः । विरिञ्चपर्यन्तमुत्तरोत्तरं सर्वैर् गुणैः सुसंपन्ना इत्यर्थः ॥ मध्यमा इति । मध्यमाभिमानिनः पुरंजन इत्येतेप्रसिद्धाः । आचित्ताच्चित्ताभिमानिकलिपर्यन्तम् । देहादीनामभिमान्यन्तरमाह । तेभ्योऽन्यो मानुषो जीव इति । उत्तममध्यमाधमेभ्योऽभिमानिभ्यो यस्तत्तद्देहाधिष्ठितो यो मानुषो जीवो यत्कर्मणेदं देहेन्द्रियात्मकं निर्मितं स मानुषो जीवोऽपि स्वदेहेन्द्रियप्राणमनोधियां मध्यमोऽभिमानीति ज्ञेयम् । पूर्वं सामान्येन देहेन्द्रियादीनां त्रिधैव त्वभिमानिन इत्युक्तम् । तत्र देवतादेहेऽसुरदेहे च देहादीनां गुणदोषादुत्तम-मध्यमाभिमानिनामभावाद्देवतादेहेन्द्रियादीनां देवता असुराश्चाभिमानिनः । एवमसुरदेहेन्द्रियादीनामसुरा देवाश्चाभिमानिनः । न केवलमेतावत्किं त्वित्यत आह ॥ ताभ्यां देवासुरावपीति । ताभ्या-मुत्तमाधमाभिमानिभ्यामन्यौ देवासुरौ देवताशरीरेऽसुरशरीरे चाभिमानिनौ स्त इत्यर्थः । यथेन्द्रदेहे तद्देहेन्द्रियादीनामितरे देवा असुराश्चाभिमानिनः । तथा तद्देहाधिष्ठितेन्द्रो देवोऽपि स्वदेहेन्द्रियादे-रभिमानी । एवमितरदेवतादेहे तत्तद्देवो ज्ञेयः । तथा कलिदेहे तदिन्द्रियादीनां देवा असुराश्चाभि-मानिनः । एतदुभयभिन्नः स्वयमसुरः कलिरप्यभिमानी । एवमितरासुरदेहेऽपि तत्तदसुरोऽपि तद्देहादेरभिमानी द्रष्टव्यः । जीवोऽपि देहेन्द्रियादौ ग्राह्य इत्याशयः । ननु देहाभिमानः सर्वाभिमानत्वाभावाज्जन्मादीत्यादिकमयुक्तम् । तथेन्द्रियाणां जन्मवत्त्वेनाप्ययोक्तिश्चायुक्तेत्याशङ्क्य विवेचयति ॥ देहेति । ग्राह्याविति तात्पर्यशेषः । जन्मादीत्यादिपदेनाप्यय एव ग्राह्यः । नान्यत् । इन्द्रियेत्वप्ययपदं जन्मोपलक्षकमिति भावः । जीवस्वरूपाभिमानिन आह ॥ जीवेति ॥ स्वय-मेवेति । स्वस्य स्वरूपाभिमानित्वं विशेषबलादुपपन्नम् । तत्र देहेन्द्रियप्राणमनोधियां जीवाभिमानिनां मध्ये मध्यमनीचयोरभिमानिनोरित्यर्थः । अखिलं भवतीत्यर्थः । मध्यमनीचयोरेवेति सम्बन्धः । क्षुधादुःखेति । तज्जन्यदुःखेत्यर्थः । तद्व्यावर्त्यमाह ॥ नोत्तमस्येति ॥ देहादेश्चेति । जडत्वा-दित्याशयः । जन्मादीत्यादिपदेन मरणम् ।

सुप्त्याद्यप्ययजमिति पाठे सुप्तिः स्वप्नः । आदिपदेन मनोरथोऽप्ययो मूर्छाऽसुररूपेन्द्रियमानिनस्तथा च स्वप्नमनोरथमूर्छासु यद्दुःखं तदिन्द्रियाभिमान्यसुरस्येति भावः । सुखाद्यप्ययजमिति पाठे आदिपदेन तत्साधनग्रहणम् । सुखतत्साधननाशजं दुःखमित्यर्थः । केवलं त्वान्तरं जन्माप्ययक्षुद्भयतर्षेभ्यो जन्यम् ॥ अहंमानीति । मनःप्रभेदरूपाहङ्कारस्येत्यर्थः । चित्तमपि मनःप्रभेदरूपम् । सर्वं तद्देहेन्द्रियप्राणमनोधियां जन्माप्ययक्षुद्भयतर्षजन्यं सर्वं दुःखं समुदायतः । मिलित्वेति यावत् । जीवाभिमान्यसुरस्य स्यादिति योज्यम् । उभयं सुखदुःखं च । पूर्वमसुराणां दुःखमेवोक्तं तत्तथा किं त्वित्यत आह ॥ असुराणामिति ॥ यदा लोकेऽधर्मस्याभिवृद्धिस्तदा कल्यादेरसुरस्य सुखं भवतीत्यर्थः । केनापि कारणेनाधर्मतोऽधर्मस्याभिवृध्द्या । ननु देवानां नैव केनापि दुःखमयुक्तम् । देवा अन्तःस्थित्वाऽसुरानधर्मेषु प्रेरयन्ति । तथा च तज्जनितं दुःखं तेषां स्यादेवेति चेत्तत्राह ॥ अधर्मोऽपीति । असुराणामधोगत्यर्थं देवैरसुरैः कार्यमाणोऽधर्मोऽपि भगवतः प्रीतये स्यादित्यर्थः ।

हर्याज्ञाकरणादेव पुण्यमेभिरवाप्यते ।

हरिपूजेति चोद्देशात्कथं न शुभमाप्नुयुः ॥ इत्युक्तेः ।

उपसंहरति ॥ देवानामिति । तस्मादिति शेषः । देवानां सुखमेवेत्ययुक्तम् । अधिदेव इन्द्रादीनां दुःखं दृश्यत एवेति चेत्तत्राह ॥ तेषामिति । असुरावेश इत्यस्यापवादमाह ॥ प्राणस्येति । कुतो नेत्यत आह ॥ सम्पूर्णेति । पूर्णगुणोत्तम इति पाठे पूर्णगुणत्वेन सर्वजीवोत्तम इत्यर्थः । असुराणां दुःखमेवेत्ययुक्तम् । दुर्योधनादीनां राज्यकरणादिना बहुसुखदर्शनादित्यत आह ॥ असुराणामिति । देवावेशाद्वाय्वादिदेवावेशात् । दुर्योधने स्थित्वा वायुरेव राज्यकरणादिजं सुखमनुभूतवानिति प्रमाणप्रमितम् । एवमितरेष्वपि देवावेशो द्रष्टव्यः । ननु देवावेशादिति कुतः । स्वतस्तेषामेव सुखादिकं किं न स्यादिति चेत्तत्राह ॥ स्वत इति । स्वरूपेणेत्यर्थः । एवमितरेष्वपि देवावेशः । निर्गुणाः सुखज्ञानादिशुभगुणशून्याः । अविमुह्यमान इत्यस्य तात्पर्यमाह ॥ विविच्यैवमिति ॥ स्वात्मानं स्वस्वरूपं पृथक् स्थितं दुःखाद्यस्पृष्टत्वेनेश्वरभिन्नत्वेन वा स्थितं विविच्येत्यर्थः । स्मृत्या हरेरित्यस्य तात्पर्यमाह ॥ सर्वतश्चेति ॥ अस्मिन् श्लोके जन्माप्ययक्षुद्भय-तर्षाणां पञ्चानां देहादिभिः पञ्चभिः क्रमेण सम्बन्ध इति प्रतीतिनिरासाय स्ववाक्येन विवृणोति । देहेन्द्रिययोर्जन्माप्ययाविति । क्षुधादीनां देहादौ जडेऽसम्भवाज्जन्माप्ययोः सम्भवादिति भावः । इन्द्रिय-शब्देन मनोबुद्ध्योरपि संग्रहः । ‘‘मनोबुद्धी तु द्वादशे’’ति तयोरपीन्द्रियोक्तेः । प्राणः श्वासादिरप्यत्र ग्राह्यः । तथा देहादिपञ्चानामपि जन्माप्ययौ स्त इत्युक्तं भवति । अत्र यद्यपि देहादिशब्देनाभिमानिनां गृहीतत्वादेवं न व्याख्येयमेव । तथाऽपि देहादिशब्देन जडग्रहणेऽपि क्षुधादेरसम्भवेऽपि जन्माप्ययौ तावत्सम्भवत एवेति नानुपपत्तिरिति द्योतयितुमेवं व्याख्यातमिति मन्तव्यम् ॥

ततश्चायं श्लोकार्थः ॥ यो हरेः स्मृत्या ब्रह्मादिसर्वापेक्षयोत्कृष्टस्तद्भिन्नः सर्वप्रेरकोऽस्तीति तत्स्मृत्या देहेन्द्रियप्राणमनोधियां यौ जन्माप्ययौ तज्जन्यकृच्छ्रैस्तथा क्षुद्भयतर्षजन्यकृच्छ्रैः संसार-धर्मैरविमुह्यमान एतत्सर्वं दुःखं ममैवेति मोहशून्यः किन्तु हरिप्रेरिता देहाद्यभिमानिनोऽसुराः सन्ति तेषामेवेदं सर्वं दुःखादीत्यादिज्ञायमाना ये ते भागवतप्रधाना इति ॥ ४९ ॥

प्रमेयचन्द्रिका

मूले कैर्लिङ्गैरित्यस्योत्तरमुच्यते देहेन्द्रियेति ॥ संसरतीति संसारो जीवः । तस्य धर्मैर्जन्मादिकृच्छ्राणां जीवस्य स्वाभाविकधर्मत्वाभावात्सोपाधिकास्ते धर्मा इति ज्ञापयितुं संसार इति यौगिकप्रयोग इति ज्ञेयम् । अथवा संसाररूपैर्धर्मैरित्यर्थः । तथा जीवसम्बन्धिनां देहेन्द्रियप्राणमनोधियाम् । क्रमेण प्राप्तैर्जन्माप्ययक्षुद्भयतर्षेभ्यो जातैः कृच्छ्रैर्दुःखैरविमुह्यमान उद्विग्नतया भगवद्वैमुख्यं प्राप्नुवान्न वर्तते । कथं हरेः स्मृत्या सर्वस्वामितया भगवत्स्मरणेन स्मरणनिमित्त-काभिमानत्यागेनेति च ग्राह्यम् । स भागवतप्रधान इति योजना । अत्रैवं विवेकः । देहस्य जन्मना जायमानं यद्दुःखम् उपलक्षणतया तन्नाशेन इत्यपि ग्राह्यम् । इन्द्रियाणाम् अपि अप्ययेन अप्ययो नाम सुप्त्यादौ उपरतिः सुप्त्यादिभङ्गो वा तेन तव दुःखम् । प्राणो नाम अहङ्कारकार्यविशेषः । तस्य क्षुधा जातं दुःखं मनसो भयतर्षाभ्यां जायमानः कृच्छ्रस् तर्षः कामक्रोधोद्भवो वेगातिशयः । धियो बुद्धेः केवलमान्तरः । कृच्छ उपलक्षणमेतत् । अहङ्कारस्य नीचोऽस्मीति जायमानं दुःखं चित्तस्यातीतादिस्मृत्या जायमानं दुःखमित्येतैः कृच्छ्रैरविमुह्यमान इति । जन्मादिभिर्निमित्तैर्देहेन्द्रियादीनां दुःखेषु जातेषु तत् सन्निधानतः स्वस्मिन्नपि जातैस्तैः कृच्छ्रैरविमुह्यमान इति निष्कृष्टोऽर्थः ।

ननु देहेन्द्रियप्राणाधियां जडत्वान्न तेषां दुःखं युज्यते । न च देहाद्यभिमानिविवक्षयां तदुक्तिरिति वाच्यम् । देहाद्यभिमानिनां देवानां तदुत्पत्यादिनिमित्तकदुःखस्य वक्तुमयुक्तत्वात् । तदुक्त-मनुव्याख्याने । ‘‘उपासनाधर्मफलं यतो देहान्तरस्थिति’’रित्यादौ । तत्कथमुच्यते देहादीनां कृच्छैरविमुह्यमान इतीत्याशङ्कां प्रमाणेन परिहरति ॥ देहेन्द्रियेत्यादिना ॥ त्रिधेति ॥ उत्तमाधम-मध्यमभेदेनेति शेषः । नीचदेवतामारभ्य विरिञ्चाद्विरिञ्चपर्यन्तमुत्तरोत्तरमतिशयेन सर्वदोषैर्विशेषेण वर्जिताः । सर्वैर् गुणैः सम्यक् सम्पन्ना इत्यर्थः । एतच्च विशेषेण उत्तमाभिमानिनां जन्मादिकृतदुःखा-भावोपपादनार्थम् । मध्यमाः स्वस्वदेहाद्यभिमानिनस् तत्तद्देहिनो जीवाः । प्रकाशिकायां तु पुरञ्जनभार्याभृत्याद्या मध्यमाभिमानिनस् तेषां गुणदोषोभयवत्वादित्युक्तम् । अत्राहुः । पुरञ्जनादीनां मानुषत्वावस्थायां तद्देहनिमित्तकगुणदोषवत्वेऽपि तेषामुपासनाजनितभगवदनुग्रहलब्धजीवबुद्ध्याद्यभिमानि-रूपेषु कुत्रापि गुणदोषोक्त्याभावाच् चतुर्थस्कन्धे परमवैष्णवत्वस्य निर्णीतत्वेन नित्यसंसारित्वस्य अभावाच्च नाभिमानित्वदशायां गुणदोषोभयवत्वमिति । ते असुरा आचित्ताच् चित्ताभिमानिकलिपर्यन्तम् उत्तरोत्तरमतिशयेन दोषसंयुक्ता इत्यर्थः । एवं जडानां देहेन्द्रियादीनां तदुत्तमाभिमानिनां देवानां च देहादिजन्मादिनिमित्तकदुःखासम्भवान्मध्यमाभिमानिपरतया देहादिशब्दान्व्याख्याय अविमुह्यमान इति मूलपदस्यार्थं विविच्यैव जगत्सर्वमिति स्पष्टमवदिष्यन् ।

त्रिविधानामभिमानिनां तदभिमन्यमानजडानां चान्योन्यमन्यत्वं तावद्विविच्याह ॥ तेभ्य इति ॥ तेभ्यो देवासुरजडेभ्यो मध्यमाभिमानित्वेन उक्तो मानुषो मनुष्यदेहवान् जीवो भिन्नः । एकवचनं जात्यभिप्रायेण । ताभ्यां मानुषजीवजडाभ्याम् । उत्तमाधमाभिमानित्वेनोक्तौ देवासुरावन्यौ । द्विवचनं जातिविवक्षया । अथवा तेभ्यो देवासुरेभ्यो मानुषो जीवोऽन्यः । ताभ्यां देवासुरावपीत्येतद्वाक्यं ताभ्यां मानुषजीवासुराभ्यां देवो भिन्नः । ताभ्यां देवमानुषाभ्याम् असुरो भिन्न इति प्रत्येकं योज्यम् ।

केचित्तु तेभ्यस्त्रिविधाभिमानिभ्योऽन्यो मानुषो जीवः मानुषजीवाभिमानी पुरञ्जनो देहेन्द्रिय-प्राणधियामभिमानी । ताभ्यां मध्यमाभिमानित्वेनोक्ततत्तज्जीवपुरञ्जनाभ्यां देवासुरावन्याविति व्याचक्षते । देवासुरा अपीति क्वचित्पाठः ।

मूले संसारधर्मैरित्यनेन देहाद्यभिमानिनां प्राप्यमाणजन्मादिकृतकृच्छ्ररूपा धर्माः संसारिणो जीवस्यापि धर्माः । तस्य मध्यमाभिमानित्वादित्युक्तम् । तत्र जीवस्य भवद्दुःखं जीवाभिमानिनामपि भवति । तदपि नोत्तमाभिमानिन इति वक्तुं वस्तुतो जीवाभिमानिनो निरूपयति ॥ जीवाभिमानि-नश्चेति ॥ ब्रह्मेत्युपलक्षणम् । जीवाभिमानी शेषस्येत्युक्तेः शेषोऽपि जीवानामुत्तमाभिमानी । मानुषाणां तु जीवानामभिमानी पुरञ्जन इत्युक्तेः सोऽपि केषाञ्चित्किञ्चिदुत्तमाभिमानी । न च पुरञ्जनो मध्यमाभिमानी । तर्हि दुःखप्राप्तेस् तदयोग्यत्वस्य चोपपादितत्वात् । मध्यमः स्वयमेवेति मध्यमो जीवाभिमानी स्वयं तत्तज्जीव एव । न च स्वयमेव स्वस्याभिमानीति न युक्तमिति वाच्यम् । अहं कर्त्तेत्यादिप्रकारकक्रियावेशादिविकारविशिष्टे स्वस्मिन्नहं कर्त्तेत्याद्यभिमानस्य अनुभवसिद्धत्वात् । अतो ममेदं स्वरूपमिति स्वस्मिन्नेव ममताबुद्ध्यनुभवात् । ममताबुद्धेरेव अभिमानपदार्थत्वादिति । एके तु स्वयमित्यस्य पुरंजन इत्यर्थं मत्वा तस्य नित्यसंसारित्वाद्युपपत्तिरिति मन्यन्ते । तत्र तेषु त्रिविधेषु अभिमानिषु मध्ये मध्यमाभिमानी यः सोऽस्त्विति सम्बन्धः । प्रभृतिपदेन केवलान्तर-दुःखादिग्रहणम् । जीवस्य जीवाभिमानिन उत्तमस्य तु नेत्यर्थः । देहाद्यभिमानिनोऽप्युत्तमस्य नेत्याह । देहादेरभिमानिनोऽपि कथञ्चनेति । यद्वा दृष्टान्तार्थं देहादेरित्युक्तिः । यथा जडस्य देहादेर्न दुःखं सम्भवति । अप्रसक्तत्वात् । तथोत्तमस्यापि दुःखादिकमप्रसक्तं चेति भावः ।

देहेन्द्रियाद्यभिमानिनां जन्माप्ययादिकृतदुःखं भवतीत्युक्तम् । तद्विविच्य दर्शयति ॥ जन्मा-दीत्यादिना ॥ आदिपदेन मरणदोषादिग्रहणम् । जननादेर्देहानुबन्धित्वादित्थम् उक्तिः । एवमुत्तरत्रापि । तत्तन्निमित्तकदुःखादिकं तत्तदभिमानिनां भवतीति ज्ञेयम् । सुप्त्यादीत्यादिपदेन मूर्छाग्रहणम् । सुप्तिपदेन स्वप्नोऽप्युच्यते । स्वप्नसुषुप्त्युभयाभिप्रायेण सुप्तमित्युक्तमिति बृहद्भाष्ये स्वप्नस्य सुप्तिपदवाच्यत्वोक्तेः । अप्ययस्तत्रेन्द्रियोपपत्तिः । तन्निमित्तकं दुःखम् । सुप्तौ सुखसद्भावेऽपि जाग्रत्प्रयोजनवतो मध्ये सुप्त्या पश्चाद्दुःखप्राप्तेरित्येके । सुप्त्यप्ययस्तद्भंगस्तेन च दुःखमित्यन्ये । मूर्छायां दुखं नियतम् । स्वप्नेऽपि प्रायिकमिति ज्ञेयम् ।

आन्तरं यत्किञ्चिदनिष्टनिश्चयनिमित्तकम् । निश्चयात्मिका हि बुद्धिः । चित्तन्तु स्मृतिकारणम् । अत उक्तम् ॥ अतीतादीति ॥ आदिपदेन प्राप्यमानत्वेन ज्ञातस्य इष्यतो वा व्यवधानात् स्थितस्य ग्रहणम् ॥ एवं सुखमिति ॥ देहपुष्ट्यादिना जायमानं सुखं देहोत्तमाभिमानिदेवेषु । इन्द्रियपुष्टिविषयं भोगादिकृतं सुखं तु मानुषभोजनादिकृतं सुखं प्राणमानिषु । धैर्यादिनिमित्तमनोभिमानिषु केवलं त्वान्तरं सुखं बुद्धिमानिषु । अतीतस्मृतिकृतं चित्तमानिषु । जीवमानिनि विरिञ्चे सर्वं तत्समुदायत इत्यर्थः । न केवलं देवानामेवंविधमेव सुखं किन्तु अयोग्यानां पापादिवृध्या प्रजास्वधर्मसंपादनेन प्राप्ताधर्मवृध्या च देवानां सुखमिति प्रसङ्गादाह ॥ असुराणामिति ॥ एवं तर्हि मोक्षयोग्यानाम-धर्मप्राप्त्या देवानां दुःखं स्यात्किमित्यत आह ॥ देवानां नैव केनापि दुःखमिति ॥ किन्तु धर्मतः योग्यानां धर्माभिवृध्या प्रीतिः सुखं भवतीत्यर्थः ।

ननु धर्मो हि देवताप्रीतिहेतुरिति निश्चितं शास्त्रे । तत्कथम् असुराणामधर्मवृद्धौ देवनां सुखमित्यत आह ॥ अधर्मोऽपीति ॥ असुरा हि विष्णुद्वेषिणः । तेषां तमसि पातनं भगवदत्यन्तभक्तैर्देवैर् अवश्यं कार्यम् । तच्चाधर्मवृद्ध्या भवति । अतोऽसुराणाम् अधर्मोऽपि देवानां प्रीतये स्यादित्यर्थः । तर्हि दैत्यपुण्येन देवानां न सुखमित्यत आह ॥ देवानामिति ॥ दैत्यकृतपुण्यस्यामुष्मिकस्य व्यर्थत्वात् । ऐहिकस्यैश्वर्यादेः प्राप्त्या विष्णुद्रोहादिना अधःपातहेतुत्वस्य दुर्योधनादौ दृष्टत्वेन तादृशपुण्यस्य देवताप्रीतिहेतुत्वमेवेति भावः । ननु देवानां नैव केनापि दुःखमित्ययुक्तम् । इन्द्रादीनामपि ब्रह्महत्यापीडनेन दुःखस्य प्रमितत्वादित्यत आह ॥ तेषामिति ॥ अन्तर्यामि-रूपाणामिति ज्ञेयम् । सा यथाऽश्मानमाखणं मत्वा विध्वंसेतेति छन्दोगोक्तिं हिशब्देन सूचयति । प्रसङ्गादसुराणां दुःखादिप्राप्तौ निमित्तमाह ॥ असुराणामिति ॥ यदर्थमिदमुक्तं तदिदानीमाह ॥ विविच्येति ॥ एतेनाविमुह्यमान इत्येतद्विवृतं भवति । अत्र क्षुद्भयादीनां चेतनमात्रधर्मत्वान्न ते यथा प्राणादिजडानां न सम्भवन्ति । नैवं जन्माप्ययौ चेतनमात्रस्येति मन्तव्यम् । किन्तु जड-देहेन्द्रिययोरपि जन्माप्ययौ सम्भवत इत्याह ॥ देहेन्द्रिययोर्जन्माप्ययाविति ॥ देहस्य जन्म । इन्द्रियस्याप्यय इति ज्ञेयमिति केचिद्व्याचक्षते । अपरे तु देहस्याप्ययपदोक्तविनाशवत्वादिन्द्रियस्य जन्मवत्वाच्च देहस्य जन्ममात्रोक्तिरिन्द्रियस्याप्ययमात्रोक्तिरयुक्तेत्याशङ्क्याह ॥ देहेन्द्रिययोरिति ॥ उभयोरिति प्रत्येकं जन्माप्ययौ ग्राह्याविति शेषः । उपलक्षणतया मूले जन्मपदेन अप्ययस्यापि अप्ययपदेन च जन्मनश्च ग्रहणम् । अत उभयोरप्युभयं निमित्तं दुःखं भवतीति ज्ञापयितुमिदं वाक्यमित्याहुः ॥ ४९ ॥

यः कामकर्मबीजानि पश्यत्येषां च सम्भवम् ।

वासुदेवैकनिलयः स वै भागवतोत्तमः ॥ ५० ॥

पदरत्नावली

कामकर्मबीजान्यविद्याप्रकृत्यादीनि । एषां कामादीनाम् ॥ ५० ॥

प्रमेयचन्द्रिका

मूले यादृश इत्यस्योत्तरमुच्यते । यः कामकर्मेति । अविद्योपलक्षणमेतत् । यःपुरुषोऽविद्याकामकर्मरूपाणि बीजानि संसारस्य । येषां कामादीनां सम्भवप्रकारं च । यद्वा येषां कामकर्माविद्यानां सकाशात्संसारस्य सम्भवमित्यर्थः ॥ ५० ॥

न यस्य जन्मकर्मभ्यां न वर्णाश्रमजातिभिः ।

सञ्ज्ञितेऽस्मिन्नहम्भावो देहे वै स हरेः प्रियः ॥ ५१ ॥

पदरत्नावली

जन्मकर्मभ्यां ब्राह्मणादिजन्मना गुरुकुलवासादिकर्मणा ब्राह्मणादिवर्णैब्रह्मचर्या-द्याश्रमैर् ब्राह्मणत्वादिजातिभिः सञ्ज्ञिते सङ्केतिते यः कामकर्मबीजैरुत्पन्नस्तस्मिन् देहे यस्याहम्भावो ब्राह्मणोऽहमित्यादिलक्षणो नास्ति स भागवतोत्तम इति ॥ ५१ ॥

प्रमेयचन्द्रिका

न यस्येति ॥ ब्राह्मणादिवर्णैर्ब्रह्मचर्याद्याश्रमैर्मानुषादिजातिभिः संज्ञिते सङ्केतिते अस्मिन्देहे यस्योत्तमजन्मवानहं सत्कर्मवान् अहमिति जन्मकर्माभ्यामहंभावो नास्ति स हरेः प्रिय इत्यर्थः ॥ ५१ ॥

न यस्य स्वः पर इति चित्ते स्वात्मनि वाऽभिदा ।

सर्वभूतसमः शान्तः स वै भागवतोत्तमः ॥ ५२ ॥

तात्पर्यम्

चित्ते विद्यमाने । स्वात्मनि केवलात्मभावे मोक्षे च । यस्य जीव-परयोरभेदो नास्ति । ‘न क्वापि जीवं विष्णुत्वे संसृतौ मोक्ष एव च । यः पश्यति सुरादींश्च यथोत्कर्षं प्रपश्यति । स सर्वभूतसमदृग्विष्णुं सर्वोत्तमं स्मरन्नि’ति मोक्षधर्मेषु ॥ ‘नैवं त्वयाऽनुमन्तव्यं दृष्टो जीवो मयेति ह । सर्वभूतगुणैर्युक्तं दैवं त्वं ज्ञातुमर्हसी’ति च मोक्षधर्मेषु ॥ ‘नैवं त्वयाऽनुमन्तव्यं जीवात्माहमिति क्वचित् । सर्वैर्गुणैः सुसम्पन्नं दैवं मां ज्ञातुमर्हसी’ति च वाराहे ॥ ५२ ॥

पदरत्नावली

इदमप्येकं लक्षणमित्याह– न यस्येति । यस्य भागवतस्य चित्ते प्राकृतान्तःकरणे विद्यमाने संसारे स्वात्मनि केवलात्मभावे स्वरूपावस्थाने मोक्षे वा यः स्वो जीवः परः परमात्मेति जीवपरयोरभिदा अभेदो नास्ति, अभेदज्ञानं नास्तीत्यर्थः, यश्च सर्वभूतसमः ब्रह्मादिमानुषान्तनि भूनानि यथावत् तारतम्येन पश्यति स भागवतोत्तमः । ‘न क्वापि जीवं विष्णुत्वे संसृतौ मोक्ष एव वा । यः पश्यति सुरादीश्च यथोत्कर्षं प्रपश्यति । स सर्वभूतसमदृग् विष्णुं सर्वोत्तमं स्मरन्’ इत्यतः, ‘नैवं त्वयानु मन्तव्यं दृष्टो जीवो मयेति ह । सर्वभूतगुणैर्युक्तं देवं त्वं ज्ञातुमर्हसि’ इत्यतश्च, ‘नैवं त्वया नु मन्तव्यं जीवात्माऽहमिति क्वचित् । सर्वैर्गुणैः सुसम्पन्नं देवं मां ज्ञातुमर्हसि’ इत्यतश्च प्रमाणाद् यस्य स्वकीयपरकीयबुद्धिभेदो नास्तीत्यर्थो नोपपन्नः किन्तूक्त इति । शान्तो भगवन्निष्ठायुक्तः ॥ ५२ ॥

श्रीनिवासतीर्थीया

न यस्येति श्लोके भेदमिथ्यात्वं प्रतीयते । अतो व्याचष्टे ॥ चित्त इत्यादिना । चित्ते प्राकृतान्तःकरणे विद्यमाने प्राकृतान्तःकरणसत्तादशायाम् । संसार इति यावत् । स्वात्मनीत्यनूद्य केवलात्मभाव इति व्याख्यानम् । जडामिश्रत्वं केवलशब्दार्थः । केवलस्वरूप-सद्भावदशायामित्यर्थः । तस्याप्यर्थमाह ॥ मोक्षे चेति । अनेन वाशब्दस्य चशब्दार्थ इत्युक्तं भवति । स्वः पर इत्यभिदेत्यस्यार्थमाह ॥ यस्य जीवेति । अभेदोऽभेदज्ञानम् । श्लोकं प्रमाणेन व्याचष्टे ॥ नेति । क्वापीत्यस्य विवरणम् ॥ संसृतौ मोक्ष एवेति । जीवं विष्णुत्वे । विषयसप्तमी तृतीयार्थे वा । यो न पश्यतीत्यन्वयः । अनेन पूर्वार्धतात्पर्यमुक्तम् । सर्वभूतसम इत्यस्यार्थमाह ॥ यः पश्यति सुरादींश्चेति । यथोत्कर्षमुत्कर्षमनतिक्रम्य । तरतमभावेनेति यावत् । हरिं विष्णुं सर्वोत्तमं सर्वोत्तमत्वेन यः पश्यति स सर्वभूतसमदृगित्यनेन शान्त इत्यस्य तात्पर्यमुक्तं भवति । तथा च यस्य पुंसः स्वः स्वयं परो भगवानित्यभिदाऽभेदज्ञानं चित्ते प्राकृतचित्ते सत्तादशायां संसारे स्वात्मनि वा स्वस्वरूपसत्तादशायां मोक्षे च नास्ति । यश्च सर्वभूतेषु ब्रह्मादिषु समस्तत्तत्स्वरूपानु-सारेण समः । तरतमभावेन द्रष्टेति यावत् । यश्च शान्तः सर्वोत्तमत्वेन विष्णुनिष्ठबुद्धिमान्स वै भागवतोत्तम इति श्लोकयोजनोक्ता भवति । ननु मूले प्रतीतार्थ एव किं न स्यात् । जीवेशभेदस्य मिथ्यात्वादित्यत आह ॥ नैवमिति । स्वात्मा जीवस्तावदहमिति मया दृष्टो यदा जीवो दृष्टस्तदा तदभिन्नो भगवानपि मया दृष्ट एवाभेदात् । अतस्तत्ज्ञानाय श्रवणादिवैय्यर्थमित्येवं त्वया नानुमन्तव्यं न ज्ञातव्यम् । कुतः । तयोर्भेदात् । कुत इत्यतो विरुद्धधर्माधिकरणत्वादित्याह ॥ सर्वेति । सर्वप्राणिनिष्ठगुणसदृशगुणैर्युक्तम् । यद्वा भूतं पूर्णं सर्वदा विद्यमानगुणैर्युक्तम् । अत एव दैवं सर्वोत्तमम् । धर्माणां बहुत्वादेकस्मिन्नपि ग्रन्थे मोक्षधर्मेष्विति बहुवचनं युक्तम् । नैवमिति भगवद्वाक्यम् । अहं जीवात्मा जीवस्वरूप इति त्वया नैवं मन्तव्यम् । कुत इत्यतो विरुद्धधर्माधिकरणत्वादित्याह ॥ सर्वैरिति ॥ ५२ ॥

॥ इति श्री श्रीनिवासतीर्थविरचितायां श्रीभागवतटिप्पण्याम्

एकादशस्कन्धे द्वितीयोऽध्यायः ॥

प्रमेयचन्द्रिका

इदमप्येकं लिङ्गमित्युच्यते । न यस्य स्व इति । अत्र चित्ते स्वात्मनि विषये यस्य सः । पर इति भेदो नेत्यन्यथाप्रतीतिवारणाय व्याचष्टे ॥ चित्ते विद्यमान इति ॥ चित्त इति सति सप्तमीत्यभिप्रेत्य अध्याहारेण योजितम् । स्वात्मनीत्यत्रापि विद्यमान इति ज्ञेयमित्या-शयेनोक्तम् ॥ आत्मभाव इति ॥ सर्वदा स्वात्मनः सत्वेऽपि विशिष्योक्तिबलाद् इतरजडान्तः-करणाद्यभावो ज्ञायते इत्याशयेनोक्तम् ॥ केवलेति ॥ तात्पर्यकथनं मोक्ष इति । यस्येत्येतदन्वय-कथनम् । स्वःपर इतीत्यास्यार्थो जीवपरयोरिति । अभिदेति पदच्छेद इत्याशयेनोक्तम् ॥ अभेद इति ॥ उक्तार्थे प्रमाणमाह ॥ न क्वापीति ॥ विष्णुत्वे विष्णुत्वेन । क्वापीत्यस्य विवरणम् ॥ संसृताविति ॥ यथोत्कर्षमिति क्रियाविशेषणम् । सुरादींश्च तत्तत्स्वाभाविकोत्कर्षमनतिक्रम्य यः पश्यति स सर्वभूतसमदृगित्येतत्सर्वभूतसम इत्यस्य तात्पर्यम् । शान्त इत्यस्यार्थः विष्णुं सर्वोत्तमं स्मरन्निति । शमो मन्निष्टता बुद्धेरित्युक्तेः । प्रतीतार्थ एव किं न स्यादित्यतो जीवब्रह्मभेदः सर्वथा न ज्ञेय इत्यत्र प्रमाणसद्भावादित्याशयेन प्रमाणमाह ॥ नैवमिति ॥ मया दृष्टो भगवान् जीव इति त्वया न अनुमन्तव्यम् । किंतु दृष्टं तं पुरुषं सर्वेषां पृथिव्यादिभूतानां गुणा इव गुणास् तैर्गन्धर-सस्नेहद्रवत्वादिभिः स्वरूपभूतगुणैर् भूतैः प्रभूतैर्वा ज्ञानानन्दादिभिर्गुणैर्युक्तं देवं देवोत्तमं त्वं ज्ञातु-मर्हसीत्यर्थः । नैवं त्वयेति द्वितीयं वाराहपुराणगतं भगवद्वचनम् । मूलार्थः स्पष्टः ॥ ५२ ॥

त्रिभुवनविभवहेतुभिर्विकुण्ठ

स्मृतिभिरजेशसुरादिभिर्विमृग्यात् ।

न चलति भगवत्पदारविन्दा

ल्लवनिमिषार्धमपि स्म स वैष्णवाग्य्रः ॥ ५३ ॥

पदरत्नावली

विकुण्ठस्य स्मृतिर्येषां ते तथा तैः । त्रिभुवनविभवहेतुभिः कारणभूतैरजेश-सुरादिभिर्ब्रह्मरुद्रपूर्वदेवादिभिर्विमृग्याद– न्वेषणीयाद् भगवत्पदारविन्दाद् यो लवनिमिषार्धमपि न चलति स वैष्णवाग्य्रः स्म स्मृत इत्यन्वयः ॥ ५३ ॥

प्रमेयचन्द्रिका

पुनर्भागवतधर्मा उच्यन्ते । भुवनेत्यादिभिः । भुवनपदम् अत्र सज्जनपदम् । विकुण्ठस्य स्मृतिर्येषाम् अजेशमुखसुरादिभिः ॥ ५३ ॥

भगवत उरुविक्रमाङ्घ्रिशाखा

नखमणिचन्द्रिकया निरस्ततापे ।

हृदि कथमुपसीदतां पुनः स

प्रभवति चन्द्र इवोदितेऽर्कतापः ॥ ५४ ॥

पदरत्नावली

उरुविक्रमः पादन्यासविशेषो ययोस्तौ उरुविक्रमौ तावङ्घ्री तयोः शाखा अङ्गुल्यस्तासां नखमणयः नखा एव मणयस्तेषां चन्द्रिकया ज्योत्स्नया निरस्ततापे उपसीदतां सेवमानानां हृदयेऽनुपसीदतां हृदि प्रभवति (यः) स तापः कथं पुनः प्रभवतीत्यन्वयः ॥५४॥

दुर्घटभावदीपिका

उरुविक्रमाङ्घ्रिशाखानखमणिचन्द्रिकयेत्येतदुरुविक्रमाङ्घ्रिशाखानखानां श्रेष्ठचन्द्रिकया पूर्णचन्द्रिकयेति यावदिति योज्यम् । अनेन भगवन्नखानां पूर्णचन्द्रत्वमुक्तं भवति । एतेनाङ्घ्रिशाखानखपूर्णचन्द्रिकयेति वक्तव्यम् । अङ्घ्रिशाखानखमणिचन्द्रिकयेति कथनमनुपपन्नमिति दूषणमपास्तम् । अत्र मणिशब्दः श्रेष्ठवाच्येव न तु रत्नवाचीत्यभ्युपगमात् ॥ ५४ ॥

प्रमेयचन्द्रिका

भगवत्पादारविन्ददर्शनम् अशेषानिष्टनिवृत्तिसाधनमित्युच्यते ॥ भगवत इति ॥ उरू विक्रमौ पादविक्षेपौ ययोस्तयोः शाखा अङ्गुलयस्तासां नखान्येव मणय इव । तेषां चन्द्रिकया निरस्ततापे । उप समीपे सीदतां वर्तमानानां सेवकानामिति यावत् । हृदि मनसि कथं सांसारिकतापः प्रभवति ॥ ५४ ॥

विसृजति हृदयं न यस्य साक्षाद्

हरिरवशाभिहितोऽप्यघोघनाशः ।

प्रणयरशनया धृताङ्घ्रिपद्मः

स भवति भागवतप्रधान उक्तः ॥ ५५ ॥

॥ इति श्रीमद्भागवते एकादशस्कन्धे द्वितीयोऽध्यायः ॥

पदरत्नावली

स्खलनादिनाऽवशेनाभिहितः कथितः । प्रणयरशनया भक्तिलक्षणपाशेन धृताङ्घ्रिपद्मः बद्धपादपद्मः । यादृशो यद् ब्रूते इत्यनयोः प्रश्नयोः परिहारौ धृतोर्ध्वपुण्ड्रत्वादिकं सन्ततगुणनामसङ्कीर्तनत्वं चेति ‘ये शङ्खचक्राङ्कितबाहुमूलाः’ इत्यादिषु प्रसिद्धत्वादनुक्ताविति

॥ ५५ ॥

॥ इति श्रीमद्भागवतटीकायां विजयध्वजतीर्थभिक्षुकृतायां

पदरत्नावल्याम् एकादशस्कन्धस्य द्वितीयोऽध्यायः ॥

दुर्घटभावदीपिका

स भवति भागवतप्रधान उक्त इत्यस्य पुराणादावुक्तो भागवतप्रधानो भवतीत्यर्थः । एतेनोक्त इत्येतद्व्यर्थमिति दूषणं निरस्तम् । एवं लक्षणविशिष्टस्य भगवतः प्रधानत्वेन पुराणादिप्रसिद्धत्वज्ञापनार्थं पुराणादावित्यस्य शेषेण पुराणादावुक्त इत्युच्यत इत्यभ्युपगमात् ॥५५॥

॥ इति श्रीसत्याभिनवतीर्थविरचितायां श्रीभागवतटिप्पण्यां द्वितीयोऽध्यायः ॥ ११–२ ॥

प्रमेयचन्द्रिका

साक्षाद्धरिः परममुख्यवृत्या हरिशब्दवाच्यः । न तु सिंहादिवत्साङ्केति-कत्वेनेत्यर्थः । प्रणयरशनया स्नेहपाशेन बद्धाङ्घ्रिपद्मः । न विसृजतीत्यत्र हेतुरयम् । स भागवतप्रधान इत्युक्तो भवतीति योज्यम् ।

अज्ञानाद्वा प्रमादाद्वा दुःसंस्काराद्दुराग्रहात् ।

स्खलनं प्रतिवाक्यं स्यात्तत्सन्तः क्षन्तुमर्हथ ॥ ५५ ॥

॥ इति श्रीमद्विठलाचार्यतनूजेनानन्दतीर्थाख्येन विरचितायां श्रीमद्भागवत

एकादशस्कन्धतात्पर्यप्रमेयचन्द्रिकायां द्वितीयोऽध्यायः ॥