कृत्वा दैत्यवधं कृष्णः सरामो यदुभिर्वृतः
श्रीमद्भगवद्बादरायणप्रणीतम्
श्रीमद्भागवतम्
एकादशस्कन्धः
१-१६ अध्यायाः
॥ अथ प्रथमोऽध्यायः ॥
श्रीशुक उवाच—
कृत्वा दैत्यवधं कृष्णः सरामो यदुभिर्वृतः ।
भुवोऽवतारयन् भारं १जविष्ठं जनयन् कलिम् ॥ १ ॥
श्रीमद्विजयध्वजतीर्थविरचिता पदरत्नावली
पदरत्नावली
जयति जगति जन्माद्यस्य विश्वस्य यस्मा-
दमलनिगममुख्यावेद्यमाहात्म्यधाम ।
द्रुहिणतनय ऊचे शौरये यत्स्वरूपं
यदुपतिरपि यास्यन्नुद्धवाय स्वधाम ॥ १ ॥
वेदव्यासमहं वन्दे वेदव्यासैकवेदिनम् ।
वेदव्यासजनारातिं वेदव्यासमुनीनपि ॥ २ ॥
रत्नानामम्बुधिः पात्रं तेजसामुष्णदीधितिः ।
एवमेकादशस्कन्धो वेदान्तार्थैकसन्निधिः ॥ ३ ॥
दशमस्कन्धरथ्याया गत्वाऽन्तं सार्थवित् पुनः ।
गाह एकादशस्कन्धतीर्थं विष्णुपदीमिव ॥ ४ ॥
इह नानाव्यसनराशिभारावभुग्नशिरसां कलिमलावकुण्ठितमनसां दुःखपरिहारसुखावाप्ती चाकाङ्क्षमाणानां तदुपायमजानतां पुंसामुपकाराय करुणाकरेण बादरायणेन कृतभागवतपुराण-कल्पतरोरनेकस्कन्धपुष्पराशेर्मकरन्दभूत एकादशस्कन्ध आरभ्यते ।
तत्रैकादशस्कन्धमुत्थापयितुं वृत्तमनुवदति – कृत्वेति । जविष्ठमिति पाठे बृहत्तममित्यर्थः । भारविशेषणम् । यविष्ठमिति नीचमित्यर्थः । कलिविशेषणम् । स्वगोत्रकलहस्य निन्दितत्वात् । अवतारयन् अवतारयितुकामः । ताच्छीलिकार्थे शतृप्रत्ययः । भुवो भारं निरहरदिति शेषेणान्वयः । कथमित्यत उक्तम्– दैत्यवधं कृत्वेति । अनेन न स्वप्रयोजनार्थं किन्तु परार्थमिति ज्ञातव्यम्
॥ १ ॥
श्री वंशपल्ली श्रीनिवासतीर्थविरचिता टिप्पणी
श्रीनिवासतीर्थीया
श्रीरामं हनुमत्सेव्यं मध्वेष्टं बादरायणम् ॥
श्रीकृष्णं भीमसेनेष्टं भजेऽहं बुद्धिशुद्धये ॥ १ ॥
प्रणम्य यादवाचार्यगुरूणां पादपङ्कजे ॥
एकादशस्कन्धमूलतात्पर्यं विवृणोम्यहम् ॥ २ ॥
तत्रादौ पूर्वस्कन्धार्थमनुवदति बादरायणिः ॥ कृत्वेति । भुवो भारमवतारयन् अवरोपितवान् उत्तारितवानित्यर्थः । किं कुर्वन्नित्यत उक्तम् । जविष्ठं नीचं कलिं कलहं जनयन्निति । यविष्ठमिति पाठेऽप्ययमेवार्थः । बन्धुकलहस्य निन्दितत्वेन नीचत्वादिति भावः ॥ १ ॥
ये कोपिताः सुबहु पाण्डुसुताः
सपत्नैर्दुर्द्यूतहेलनकचग्रहणादिभिस्तान् ।
कृत्वा निमित्तमितरेतरतः समेतान् हत्वा
परान् निरहरत् क्षितिभारमीशः ॥ २ ॥
पदरत्नावली
एतदेव विवृणोति– ये कोपिता इति । ईशः क्षितिभारं निरहरदित्यन्वयः । इदं निर्हरणमपि स्वैश्वर्यद्योतकमिति ज्ञापनायेशेति पदम् । ये सपत्नैः कृतैर्दुर्वादादिभिः सुबहु कोपिताः पाण्डुसुतास्तान्निमित्तं कृत्वा इतरेतरतः समेतान् परान् शत्रून् हत्वा ॥ २ ॥
श्रीनिवासतीर्थीया
एतदेव विवृणोति ॥ ये कोपिता इति । ये पाण्डुसुताः सपत्नैर्वैरिभिर्दुर्योधनादिभिः सुबहु यथा स्यात्तथा । सुबहुप्रकारेण वा । कोपिताः कोपं प्रापिताः । अस्यैव विवरणम् ॥ दुर्द्यूतेत्यादि । दुष्टं द्यूतं दुर्द्यूतम् । क्षत्रियाणां द्यूतस्य विशेषतो निन्दितत्वेन दुष्टत्वादिति भावः ॥ यथोक्तं निर्णये ॥ ‘‘न हि धर्मो द्यूतकृतो विशेषतः क्षत्रियस्य लोकगुरोः’’ इति । हेलनं निन्दा, कचग्रहणं दुःशासनकृतं यद्द्रौपद्याः केशपाशग्रहणं तदादिभिररण्यवासाज्ञात-वासादिभिः । तान् पाण्डवान्निमित्तं निमित्तभूतान्कृत्वा । ईशः कृष्णः स्वयमेव क्षितिभारं भूभारं निरहरत्परिहृतवान् । पुनः किं कृत्वेत्यत उक्तम् ॥ इतरेतरत इति । परस्परं कुरुपाण्डवपक्षपातित्वेन युद्धे समेतान्नृपान् हत्वेति ॥ २ ॥
भूभारराजपृतना यदुभिर्निरस्य
गुप्तैः स्वबाहुभिरचिन्तयदप्रमेयः ।
मन्येऽवनेर्ननु गतोऽप्यगतोऽपि भारो
यद् यादवं कुलमहोऽविषह्यमास्ते ॥ ३ ॥
पदरत्नावली
भूभारनिर्हरणप्रकारं वक्ति– भूभारेति । किमचिन्तयत् ? अत्राह– मन्य इति । अवनेर्भारो गतोऽप्यगतो नन्विति मन्ये । तत्र हेतुः– यदिति ॥ ३ ॥
श्रीनिवासतीर्थीया
निरस्येति णिजन्तम् । अवनेर्भूमेर्भारो गतोऽप्यगतो मन्ये । कुत इत्यत उक्तम् ॥ यदिति ॥ ३ ॥
नैवान्यतः परिभवोऽस्य भवेत् कथञ्चिन्
मत्संश्रयस्य विभवोन्नहनस्य नित्यम् ।
अन्तःकलिं यदुकुलस्य विधाय वेणु
सङ्घस्य वह्निमिव शान्तिमुपैमि धाम ॥ ४ ॥
पदरत्नावली
नन्विदमप्यन्यतः प्राप्तपरिभवं किं न स्यात् ? अत्राह– नैवेति । विभवेनोन्नहनं समृद्धिर्यस्य तत् तथा तस्य । तस्मादयमुपाय इत्याह– अन्तः कलिमिति । वेणुसङ्घस्यान्तःकलिर्मिथः सङ्घर्षणलक्षणः, तस्माज्जातं वह्निम् । शान्तिं मङ्गलं धाम । ‘शान्तिः प्रशममङ्गले’ इति यादवः । यद्वा अन्तःकलिं शान्तिं प्रशमं यदुकुलस्य नाशहेतुम् ॥ ४ ॥
श्रीनिवासतीर्थीया
ननु किं तव यदुकुलसंहारचिन्तयाऽन्यैः परिभवो भविष्यतीत्यत आह ॥ नैवेति । विभवोन्नहनस्य विभवोत्कर्षवतोऽतो ऽन्तःकलिं परस्परमन्तःकलहम् । शान्तिं सुखपूर्णं, धाम स्वरूपमुपैमि प्राप्नुयाम् ॥ ४ ॥
एवं व्यवसितो राजन् सत्यसङ्कल्प ईश्वरः ।
शापव्याजेन विप्राणां सञ्जह्रे स्वकुलं विभुः ॥ ५ ॥
पदरत्नावली
चिन्ताफलमाह– एवमिति ॥ ५ ॥
श्रीनिवासतीर्थीया
विप्राणां शापव्याजेनेत्यन्वयः ॥ ५ ॥
स्वमूर्त्या लोकलावण्यनिर्मुक्त्या लोचनं नृणाम् ।
गीर्भिस्तां स्मरतां चित्तं पदैस्तामीक्षतां क्रियाः ॥ ६ ॥
आच्छिद्य कीर्तिं सुश्लोकां वितन्वन्नञ्जसा नु कौ१ ।
तमोऽनया तरिष्यन्तीत्यगात् स्वं पदमीश्वरः ॥ ७ ॥
पदरत्नावली
पुनर्हरिणा किमकारीत्यत्राह– स्वमूर्त्येति । ईश्वरः स्वपदमगादित्यन्वयः । किं कृत्वा लोकलावण्येषु समुदितेषु या बहुमानबुद्धिः, तस्या निर्मुक्तिर्यया सा तथा तया स्वमूर्त्या नृणां लोचनमाच्छिद्य आकृष्य गीर्भिः सह तां मूर्तिं स्मरतां नृणां चित्तमाच्छिद्य पदैः पादन्यासैस् तां पश्यतां जनानां क्रियाः कर्मण्याच्छिद्य । यद्वा पादसौन्दर्यादिगुणनिमग्नानामन्यक्रियासु मनो न चलतीति तामीक्षतां पदैराच्छिद्य । कौ भूमौ । सुष्टु श्लोकः स्तुतिर्यस्याः सा सुश्लोका । तां कीर्तिमञ्जसा तत्त्वेन वितन्वन् विस्तारयन् । किं प्रयोजनम् । अत्राह– तम इति । अनया कीर्त्या तमस्तरिष्यन्तीति कृत्वा ॥ ६,७ ॥
श्रीनिवासतीर्थीया
अनया कीर्तितया कंसहननादिकीर्तिरूपया कीर्त्या । कंसहननादि-कीर्तिकीर्तनेनेति यावत् । तमोऽज्ञानम् । तत्कार्यं संसारमिति यावत् । तरिष्यन्तीत्यभिप्रेत्य तदुपयुक्तां सुश्लोकां सम्यग्ब्रह्मादिभिः कीर्त्यां कंसहननादिरूपां कीर्तिं कौ भूमौ नु निश्चयेनांजसा वितन्वन् विस्तृत्य । अञ्जसा भुवीत्यपि पाठः । अनन्तरं लोकलावण्यनिर्मुक्त्या लोकलावण्यविषय-बुद्धेर्निर्मुक्तिर्यया । यन्मूर्तिलावण्ये दृष्टे सति पुनरन्यत्र लावण्यबुद्धिर्न भवतीत्यर्थः । एतादृश्या स्वमूर्त्यैव ज्ञानानन्दात्मकस्वदेहेनैवेश्वरः स्वपदं स्वस्थानमगात् । न तु स्वमूर्तिपरित्यागेनेत्यर्थः । किं कृत्वेत्यत उक्तम् । तां मूर्तिमीक्षतां नृणां लोचनम् । जात्यैकवचनम् । लोचनान्याच्छिद्य कृष्णे गते सति किं पश्येयुरिति भावः । तथा गीर्भिर्यदात्मको भगवांस्तदात्मिकी व्यक्तिः । किमात्मको भगवान् ज्ञानात्मक ऐश्वर्यात्मकः सुखात्मक इत्यादिवेदवाक्यैस् तदुक्तप्रकारेणेति यावत् । तां मूर्तिम् । तथा पदैः स्वपादविक्षेपैः कृता याः क्रियाः शकटोच्चाटनादिरूपास्ताश्च स्मरतां नृणां चित्तमाच्छिद्य तद्विषयकमेव कृत्वा । भगवति स्वपदं गते सति नृणां चित्तं सदा तद्विषयकमेव यथा स्यात्तथा कृत्वेत्यर्थः ॥ ६,७ ॥
श्रीसत्याभिनवतीर्थविरचिता व्याख्या
दुर्घटभावदीपिका
श्रीमद्धनुमद्भीममध्वान्तर्गतरामकृष्णवेदव्यासात्मकलक्ष्मीहयग्रीवाय नमः ॥ गीर्भिः स्वगीर्भिर्लोकानां गिर आच्छिद्येति वक्ष्यमाणेनान्वयः । तां मूर्तिं स्मरतां चित्तमाच्छिद्याकृष्य पदैः प्रतिपदैः सह तां मूर्तिमीक्षतां क्रियाऽऽच्छिद्येति । एतेन गीर्भिरित्येतदनन्वितमिति दूषणं परास्तम् । अध्याहृतेन लोकानां गिर इत्यनेनान्वय इत्यभ्युपगमात् । एतेनैव पदैरित्येतद्व्यर्थमिति दूषणं परास्तम् । यथा कृष्णमूर्तिदर्शने लोकानां व्यापारा लुप्तास्तथा कृष्णेन भूमौ स्वर्पितानां पादानां च दर्शने लोकानां व्यापारा लुप्ता इति वक्तुं पदैरित्युक्तमिति स्वीकरणात् ॥ ६ ॥
राजोवाच—
ब्रह्मण्यानां वदान्यानां नित्यं वृद्धोपसेविनाम् ।
विप्रशापः कथमभूद् वृष्णीनां कृष्णचेतसाम् ॥ ८ ॥
पदरत्नावली
श्रुतविप्रशापो राजा यदूनामसम्भावितोऽयमिति भावेन पृच्छति– ब्रह्मण्यानामित्यादिना । शापासम्भवे ब्रह्मण्यादित्रयो हेतवः ॥ ८ ॥
श्रीनिवासतीर्थीया
ब्रह्मण्यानां ब्राह्मणेषु साधूनाम् । वदान्यानां दानशूराणाम् ॥ ८ ॥
यन्निमित्तो यदोः शापो यादृशो द्विजसत्तम ।
कथमेकात्मनां भेद एतत् सर्वं वदस्व मे ॥ ९ ॥
पदरत्नावली
यदोः कुलस्य । यन्निमित्तः किन्निमित्तः । यादृशः कीदृशः । एकात्म-नामेकमनस्कानाम् । भेदो मिथो वैरलक्षणः ॥ ९ ॥
श्रीनिवासतीर्थीया
यदोः कुलस्य शापो यन्निमित्तः किं निमित्तः । यादृशः कीदृशः । एकात्मनाम् । एकार्थविषयकमनस्कानां भेदो विरोधः ॥ ९ ॥
बादरायणिरुवाच—
बिभ्रद् वपुः सकलसुन्दरसन्निवेशं
कर्माचरन् भुवि सुमङ्गलमाप्तकामः ।
आस्थाय धाम रममाण उदारकीर्तिः
संहर्तुमैच्छत कुलं स्थितकृत्यशेषः ॥ १० ॥
पदरत्नावली
शुकः प्रश्नं प्रवदन् पुनरुक्तं करोति– बिभ्रदित्यादिना । सकलसुन्दरगुणानां सन्निवेशं निधानस्थानधाम गृहमास्थाय । गृहे स्थित्वेत्यर्थः ॥ १० ॥
श्रीनिवासतीर्थीया
सकलसुन्दराणाम्, भावप्रधानो निर्देशः । सौन्दर्याणां सम्यक् निवेशोऽवस्थानं यस्मिंस्तादृशं च वपुर्बिभ्रत् । धाम गृहम् । आस्थाय तत्र स्थित्वा रममाणः । स्थितकृत्यशेषोऽवशिष्टकर्तव्यशेषवान् । अवशिष्टस्वल्पकर्तव्य इति यावत् ॥ १० ॥
दुर्घटभावदीपिका
आस्थाय धामरममाण इत्यस्य धाम षोडशसहस्रगृहाण्यास्थाय रममाण इत्यर्थः । एतेन गृहावस्थानस्य सर्वसाधारणत्वेन माहात्म्यरूपत्वाभावाद्धामगृहमास्थायेति कथनमयुक्तमिति दूषणं निरस्तम् । धामेति जात्येकवचनमिति स्वीकृत्य षोडशसहस्र-गृहाण्यास्थायेत्यर्थस्योक्तत्वात् ॥ १० ॥
॥ इति श्रीसत्याभिनवतीर्थविरचितायां श्रीभागवतटिप्पण्यां प्रथमोऽध्यायः ॥ ११–१ ॥
कर्माणि पुण्यनिवहानि सुमङ्गलानि
गायज्जगत्कलिमलापहराणि कृत्वा ।
कालात्मना विवसता यदुदेवगेहे
पिण्डारकं समगमन् मुनयो निसृष्टाः ॥ ११ ॥
पदरत्नावली
प्रश्नं परिहरति– कर्माणीति । पुण्यनिवहानि पुण्यकारणानि । यदुदेव उग्रसेनस्तस्य गेहे । उग्रसेनाधिकृतद्वारवत्यां निवसता कालत्मना कृष्णेन निसृष्टाः प्रेरिताः पिण्डारकं क्षेत्रं प्राप्ता इत्यन्वयः ॥ ११ ॥
श्रीनिवासतीर्थीया
पुण्यनिवहानि पुण्यानि नितरां वहन्ति । वह प्रापणे । प्रापयन्तीति तथोक्तानि पुण्यापादकानीत्यर्थः ॥ गायज्जगदिति । गायतां जगतामित्यर्थः । कृत्वा यदुदेवस्य वसुदेवस्य गेहे विवसता विशेषेण वासं कुर्वतेत्यन्वयः । कालात्मना । कल छेदने । सकल-जगत्संहारकस्वरूपेण भगवता निसृष्टा विसृष्टाः । आज्ञप्ता इति यावत् । प्रेरिता इति वा । ये पूर्वं भगवद्दर्शनार्थमागतास्ते मुनयः ॥ ११ ॥
विश्वामित्रोऽसितः कण्वो दुर्वासा भृगुरङ्गिराः ।
कश्यपो वामदेवोऽत्रिर्वसिष्ठो नारदादयः ॥ १२ ॥
पदरत्नावली
उपसङ्गृह्य, साम्बमिति शेषः ॥ १२–१३ ॥
श्रीनिवासतीर्थीया
के ते मुनय इत्यत आह ॥ विश्वामित्र इत्यादि ॥ १२ ॥
क्रीडन्तस्तानुपव्रज्य कुमारा यदुनन्दनाः ।
उपसङ्गृह्य पप्रच्छुरविनीता विनीतवत् ॥ १३ ॥
श्रीनिवासतीर्थीया
क्रीडन्तो यदुनन्दना इति सम्बन्धः । उपसंगृह्योपसत्तिं कृत्वा ॥१३॥
ते वेषयित्वा स्त्रीवेषैः साम्बं जाम्बवतीसुतम् ।
एषा पृच्छति वो विप्रा अन्तर्वत्न्नयसितेक्षणा ॥ १४ ॥
पदरत्नावली
अन्तर्वत्नी गर्भिणी । असितेक्षणा नीलेक्षणा ॥ १४ ॥
श्रीनिवासतीर्थीया
स्त्रीवेषैः स्तनादिभिश् चीरादिकमुदरे निबध्य । गर्भिणीं कृत्वेति यावत् । अन्तर्वत्नी गर्भिणी । असितेक्षणा नीलेक्षणा ॥ १४ ॥
प्रष्टुं विलज्जती युष्मान् प्रब्रूतामोघदर्शनाः ।
प्रसोष्यन्ती पुत्रकामा किंस्वित् सञ्जनयिष्यति ॥ १५ ॥
एवं प्रलब्धा मुनयस्तानूचुः कुपिता नृप ।
जनयिष्यति वो मन्दा मुसलं कुलनाशनम् ॥ १६ ॥
पदरत्नावली
प्रलब्धा वञ्चिताः । ‘सद्योऽर्थे सहसा हेतुशून्ये युक्तेऽपि साम्प्रतम्’ इति यादवः । हे मन्दा निर्भाग्याः ॥ १५–१६ ॥
श्रीनिवासतीर्थीया
हे अमोघदर्शनाः । प्रसोष्यन्ती प्रसवितुमिच्छन्ती ॥ १५,१६ ॥
तच्छ्रुत्वा तेऽतिसन्त्रस्ता विमुच्य सहसोदरम् ।
साम्बस्य ददृशुस्तस्मिन् मुसलं खल्वयस्मयम् ॥ १७ ॥
पदरत्नावली
तस्मिन् उदरे ॥ १७ ॥
श्रीनिवासतीर्थीया
सहसेति । अस्माभिरुदरे चीरादिकं स्थापितमस्ति । मुनयस्त्वित्थं वदन्ति । आश्चर्यं पश्याम इत्याशयेन सहसा विमुच्येत्यर्थः । मुसलं ददृशुरिति महात्मनां वाक्येनोदरगतं चीरादि तदैव मुसलात्मना परिणतमिति भावः ॥ १७ ॥
किं कृतं मन्दभाग्यैर्नः किं वदिष्यन्ति नो जनाः ।
इति विह्वलिता गेहानादाय मुसलं ययुः ॥ १८ ॥
पदरत्नावली
किं दुष्कृतम् ॥ १८ ॥
तं चोपनीय सदसि परिम्लानमुखश्रियः ।
राज्ञ आवेदयाञ्चक्रुः सर्वयादवसन्निधौ ॥ १९ ॥
श्रुत्वाऽमोघं विप्रशापं दृष्ट्वा च मुसलं नृप ।
विस्मिता भयसन्त्रस्ता बभूवुर्द्वारकौकसः ॥ २० ॥
तच्चूर्णयित्वा मुसलं यदुराजः स आहुकः ।
समुद्रसलिले प्रास्यल्लोहं चास्यावशेषितम् ॥ २१ ॥
श्रीनिवासतीर्थीया
आहुक उग्रसेनः ॥ २१ ॥
कश्चिन्मत्स्योऽग्रसील्लोहं चूर्णानि तरलैस्ततः ।
ऊह्यमानानि वेलायां लग्नान्यासन् किलैरकाः ॥ २२ ॥
पदरत्नावली
तरलैस्तरङ्गैः । वेलायां तीरे । लग्नानि संसक्तानि । एरका दीर्घसूची-मुखतृणविशेषाः ॥ २२ ॥
श्रीनिवासतीर्थीया
तत इत्यस्य चूर्णानीत्यतः पूर्वं सम्बन्धः । तरलैरूर्मिभिः । वेलायां समुद्रतीरे । लग्नानि सम्बद्धानि । एरकास्तृणविशेषाः ॥ २२ ॥
मत्स्यो गृहीतो मत्स्यघ्नैर्जालेनान्यैः सहार्णवे ।
तस्योदरगतं लोहं शल्येषुं लुब्धकोऽकरोत् ॥ २३ ॥
पदरत्नावली
शल्येषुं शल्याख्यशरम् । लुब्धको व्याधः ॥ २३ ॥
श्रीनिवासतीर्थीया
अन्यैर्मत्स्यैः सह । मत्स्यो लोहग्रासी । शल्येषुं शल्ययुक्तमिषुं बाणं बाणाग्रभागे शल्यमकरोदित्यर्थः ॥ २३ ॥
भगवांस्तात सर्वार्थ ईश्वरोऽपि तदन्यथा ।
कर्तुं नैच्छद् विप्रशापं कालरूप्यन्वमोदत ॥ २४ ॥
॥ इति श्रीमद्भागवते एकादशस्कन्धे प्रथमोऽध्यायः ॥
पदरत्नावली
सर्वेषामर्थः पुरुषार्थो यस्मात् स तथा । सर्वैरर्थ्यत इति वा ॥ २४ ॥
॥ इति श्रीमहेन्द्रतीर्थपूज्यपादशिष्यविजयध्वजतीर्थयतिकृतायां
भागवतटीकायां पदरत्नावल्याम् एकादशस्कन्धे प्रथमोऽध्यायः ॥
श्रीनिवासतीर्थीया
तदन्यथाकर्तुमित्यस्य पूर्वोत्तराभ्यां सम्बन्धः । तद्विप्रशापमन्यथा-कर्तुमीश्वरोऽपि समर्थोऽपि तद्विप्रशापमन्यथाकर्तुं नैच्छत् । किं त्वन्वमोदत । अस्त्वित्यनुमोदनमेव कृतवान् । तत्र हेतुः कालरूपीति । यतः संहारकस्वरूप इत्यर्थः ॥ २४ ॥
॥ इति श्री श्रीनिवासतीर्थविरचितायां श्रीभागवतटिप्पण्यां
एकादशस्कन्धे प्रथमोऽध्यायः ॥