३१ पञ्चाधिकशततमोऽध्यायः

एवं वेदोदितं धर्ममनुतिष्ठन् सतां गतिः

॥ अथ पञ्चाधिकशततमोऽध्यायः ॥

श्रीशुक उवाच—

एवं वेदोदितं धर्ममनुतिष्ठन् सतां गतिः ।

गृहं धर्मार्थकामानां मुहुः सन्दर्शयन् पदम् ॥ १ ॥

पदरत्नावली

धर्मार्थकामानां पदं विषयं सन्दर्शयन् त्रिवर्गानामाश्रयो गृहस्थ इति सम्यग् दर्शयन्, द्वारकामावसति, श्रीकृष्ण इति शेषः ॥ १ ॥

सत्यधर्मीया

एवं वेदोदितं धर्ममिति श्लोकात्प्राक्तन ‘नटानां नर्तकीनां चेत्यारभ्य तासां किं वर्ण्यते तप’ इति पर्यन्तं प्रक्षिप्ताः श्लोका इति लोकप्रवादस्तथाऽनुभूयते तदव-लोकने चेति न व्याकृताश्च बहुभिः प्राचीनैरिति नव्यानां कुतस्तदर्थापनमिति त्यक्ता इति ज्ञेयम् । सतां गतिः कृष्णो वेदोदितं धर्मं स्वयमनुतिष्ठन् गृहधर्मार्थकामानां मुहुश्चादर्शय-त्पदमिति सरलः पाठः । गृहं तदाश्रमो धर्मार्थकामानां त्रिवर्गाणां पदमाश्रय इत्यदर्शयद् दर्शयामासेति तदर्थः । पाठान्तरे तु पूर्वैर्दर्शितावन्वयार्थौ विलोकनीयौ ॥ १ ॥

एवं शासति भूचक्रं चक्रपाणौ जनार्दने ।

द्वारका वृष्णिनिलया योजनद्वादशायुता ॥ २ ॥

मुनिभिर्ब्राह्मणैश्चैव क्षत्रियैश्चापि वन्दिभिः ।

आसीत् पूर्णा कुुरुश्रेष्ठ सततं समलङ्कृता ॥ ३ ॥

पदरत्नावली

ततः परं किमत्रेत्याह– एवमिति ॥ भूचक्रं भूमण्डलम् । द्वारका मुन्यादिभिः पूर्णा निबिडा आसीदित्यन्वयः ॥ २–३ ॥

सत्यधर्मीया

तत उत्तरं का कथेत्यतः कथयति– एवमिति । चक्रं पाणौ यस्य स तस्मिञ्जनार्दने एवं भूचक्रं भूमण्डलं प्रशासति । योजनद्वादशायुता द्वादशैर्योजनैरायुता सम्यग्युक्ता योजनद्वादशायुतेति विग्रहः । वृष्णीनां निलया आलया यस्यां सा ॥ २,३ ॥

पिण्डारकात् कुरुक्षेत्रात् सालग्रामाच्च पुष्करात् ।

वाराणस्याः प्रयागाच्च वेङ्कटाच्छ्रीगिरेरपि ॥ ४ ॥

पदरत्नावली

पिण्डारकादितीर्थक्षेत्रेभ्यो द्वारकोत्तमतीर्थमित्याह– पिण्डारकादित्यादिना

॥ ४ ॥

सत्यधर्मीया

ते च कुतस्त्याः किमायाता इत्यतो द्वारकां सर्वक्षेत्रेभ्योऽतिशाययितुं तत्क्षेत्राण्याह– पिण्डारकादित्यादिना । वाराणसी । तथा हि तन्निरुक्तिर्वायुपुराणे लक्ष्मी-संहितायामानन्दकाननमाहत्म्ये

वाराणसीति काशीति वनं चानन्दकाननम् ।

अविमुक्तमिति प्रख्या श्मशानं महदित्यपि

अन्यः को नु शक्तः स्तोतुं तस्मात्त्वं कृपया वदेति,

कुमारपृष्टो महादेव उवाच ।

सावधानेन शृृण्वन्तु कथयामि सुविस्तरम् ।

मही पापातिपापानां वारणाय हि निर्मिता ।

हरिणा देवदेवेन तेन वाराणसी ह्यभूत् ॥

इति पौरणिकनिर्वचनानुसारेण वाराणेति रेफाकारो णाकारलोपोऽसीति सुपां तिङ्च क्वचिदित्युक्तः सुप्तिङ्समासस्तदनन्तरं ङीष् चेति सर्वमूह्यम् । पापातिपापानामिति योग्या-न्वयि । वारणानदी नदी चासिश्च सा तद्वतीति गङ्गा । अत्रापि पृषोदरादिकार्यमूह्यम् । तस्याः । वेङ्कटात्क्षेत्राद्गिरेर्वा । श्रीगिरिः श्रीशैलः ॥ ४ ॥

स्यानन्दूराच्च गोकर्णाच्चन्द्रतीर्थाच्च शोभनात् ।

सह्याद्रेश्च भृगुक्षेत्रात् कुमारनिलयादपि ॥ ५ ॥

पदरत्नावली

कुमारनिलयात् कुमारपर्वतात् ॥ ५ ॥

सत्यधर्मीया

कुमारनिलयात्स्कन्दक्षेत्रात् ॥ ५ ॥

गोदावरीताटात् पुण्यान्नर्मदानिकटादपि ।

शूर्पाकारात् प्रभासाच्च पुण्याद् बदरिकाश्रमात् ॥ ६ ॥

सत्यधर्मीया

पुण्यादित्युभयान्वयि । शूर्पाकारात् शूर्पालयात् ॥ ६ ॥

पावनान्नैमिषारण्याद् ब्रह्मदुर्गाच्च दुर्गमात् ।

आययुर्मुनयः शान्ता नित्यव्रतपरायणाः ॥ ७ ॥

पदरत्नावली

द्वारकामिति शेषः ॥ ७ ॥

सत्यधर्मीया

दुर्गमाद्ब्रह्मदुर्गाद्ब्रह्मपर्वतात् । नित्यं व्रतमेव परमयनं येषां ते तथा

॥ ७ ॥

अब्भक्षा वायुभक्षाश्च निराहारा दृढव्रताः ।

वल्कलाजिनसंवीता जटिनश्चापि मुण्डिनः ॥ ८ ॥

सत्यधर्मीया

अब्भक्षास्तन्मात्रप्राशकाः । एवं वायुभक्षाः । वल्कलं तरुत्वक् । मुण्डिनः सन्न्यासिनः ॥ ८ ॥

त्रिकालस्नायिनश्चैव मौनव्रतपरायणाः ।

वेदस्वाध्यायनिरताः स्तुतिस्तोत्रपरायणाः ॥ ९ ॥

पदरत्नावली

स्तुतिस्तोत्रपरायणाः स्तुतिरप्रबन्धरूपा स्तोत्रं प्रबन्धरूपं तज्जपैकपरायणाः

॥ ९ ॥

दुर्घटभावदीपिका

वेदानां स्वाध्यायेऽतिसम्यग्ध्याने सति निरताः स्तुतिस्तोत्रपरायणा अतिशयितस्तोत्रपरायणा इति । एतेन वेदस्वाध्यायनिरता इत्यत्र वेदस्वाध्यायेत्येतत्पुनरुक्तमिति चोद्यं परिहृतम् । स्वाध्यायशब्देन वेदानामग्रहणात् । एतेनैव स्तुतिस्तोत्रपरायणा इत्यत्र स्तुति-स्तोत्रेत्येतत्पुनरुक्तमिति दूषणं निरस्तम् । द्विवचनमतिशयार्थ इत्युक्तत्वेन यथा ज्ञानज्ञान इत्यादौ ज्ञानज्ञानादिशब्दानामतिशयितज्ञानाद्यर्थकत्वं तथा स्तुतिस्तोत्रशब्दस्यातिशयस्तोत्रार्थ-कत्वमिति स्वीकरणात् ॥ ९ ॥

सत्यधर्मीया

अनुसवनं विषयेष्वरताः । वेदानां स्वाध्यायोऽत्र प्रवचनम् । स्तुति-स्तोत्रपरायणाः । स्तुतं स्तुतिर्व्रीह्यादित्वादिनिर्वा । तदस्यास्तीति स्तुती स्तुत्यो हरिस्तस्य स्तोत्रपरायणाः ॥ ९ ॥

ध्यानैकतानमनसः समाधौ कृतनिश्चयाः ।

त्वगस्थिमात्रावयवाः शिराधमनिसन्तताः ॥ १० ॥

पदरत्नावली

ध्यानैकतानमनसः श्रीहरिगुणगणसञ्चिन्तनायामेव विस्तृतमनसः । समाधौ चित्तनिग्रहे कृतनिश्चयाः समीचीनाधिष्ठानलक्षणमुक्तौ वा । शिरा रेखाः ॥ १० ॥

दुर्घटभावदीपिका

शिराधमनिसन्तता इत्यस्य रेखारूपनाडीव्याप्ता इत्यर्थः ॥ १० ॥

सत्यधर्मीया

ध्याने एकतानमासक्तं मनो येषां ते । समाधौ योगविशेषे । त्वगस्थिमात्रावयवा अमांसलितावयवा इति । तथा शिराधमनिसन्तताः । शिराणां कार्श्यमात्रे सन्ततता ततोऽपि कार्श्यशिरोपरि शिरसन्ततिर्मणिबन्धादिभागे तासां त्रिगुणितत्वाज्ज्ञेयेति शिराधमनिसन्ततेत्युक्तिरिति न पुनरुक्तिः क्लिष्टता च नार्थस्येति ज्ञेयम् ॥ १० ॥

आगत्य मुनयो राजन् सर्वतः शान्तचेतसः ।

उपासत महाराज नित्यं तत्त्वैकचिन्तकाः ॥ ११ ॥

पदरत्नावली

सर्वत आगत्य ॥ ११ ॥

दुर्घटभावदीपिका

राजन्नित्यस्य देदीप्यमानेत्यर्थः । राजृ दीप्ताविति धातोः । एतेन महाराजेत्यनेन राजत्वस्य लाभाद्राजन्नित्येतद्व्यर्थमिति शङ्काऽनवकाशः । राजन्नित्यनेन राजत्व-मुच्यत इत्यनङ्गीकारात् ॥ ११ ॥

सत्यधर्मीया

आगत्य द्वारकाम् । सर्वत उक्तानुक्तक्षेत्रतः । अरान्दोषानजति क्षिपतीत्यराज हे राजन्महाराजेत्यन्वयः ॥ ११ ॥

क्षत्रियैश्च महावीर्यैर्ब्राह्मणैश्च तपोधनैः ।

सूतैश्च मागधैश्चैव श्लोकस्तुतिपरायणैः ॥ १२ ॥

पूर्णमङ्गलघोषैश्च वादित्राणां च निःस्वनैः ।

निर्घुष्टा ब्रह्मघोषैश्च द्वारका कुरुनन्दन ॥ १३ ॥

दुर्घटभावदीपिका

महावीर्यैः क्षत्रियैश्च तपोधनैर्ब्राह्मणैश्च श्लोकस्तुतिपरायणैः श्लोकशब्दः पुण्यश्लोकपरः । पुण्यश्लोकस्तुतिपरायणैः सूतैश्च मागधैश्च कृष्ण एवोपासित इति । एतेन स्तुतिपरायणैरित्यनेनैव पूर्णत्वात् श्लोकेत्येतद्व्यर्थमिति चोद्यं परिहृतम् । स्तुतिपरायणैरित्युक्ते सूतमागधाश्च सज्जनानामिव दुर्जनानामपि स्तुतिपरायणभ्रान्तिः स्यात्तन्निवारणार्थं सज्जनानामेव स्तुतिपरायणत्वं न तु दुर्जनानामिति वक्तुं पुण्यश्लोकानां स्तुतिपरायणैरित्युच्यत इत्यभ्युपगमात् । एतेनैवोपासत महाराजेत्युक्तत्वात् क्षत्रियादय इति वक्तव्यं क्षत्रियैरित्यादि तृतीयाप्रयोगोऽ-नुपपन्न इति दूषणं परास्तम् । क्षत्रियैरित्यादीनां कृष्णमुपासतेत्यनेनान्वयमनङ्गीकृत्य कृष्ण एवोपासित इत्यध्याहृताभ्यां पदाभ्यामन्वय इत्यङ्गीकारात् । एतेनैव मागधैश्चैवेत्येवकारो व्यर्थ इति दूषणं परास्तम् । कृष्ण एवोपासितो न त्वन्य इति वक्तुमेवकार इत्यङ्गीकारात् ॥ १२ ॥

सत्यधर्मीया

ब्रह्मघोषैर्वेदघोषैः ॥ १२,१३ ॥

क्षेत्राणामपि सर्वेषां तीर्थानां चाघहारिणाम् ।

देवदेवस्य सान्निध्यादग्रण्या च बभूव सा ॥ १४ ॥

पदरत्नावली

अग्रण्या, अग्रण्येति छान्दसः, उत्तमोत्तमाश्रया ॥ १४ ॥

सत्यधर्मीया

यदर्थमियान्संसार उपपादितस्तदिदानीं वक्ति– क्षेत्राणामिति । सा द्वारकाऽग्रण्याऽग्रणीष्वग्रनेत्रीषु भवा । दिगादियति नेतृश्रेष्ठाग्रण्येति ज्ञेयम् । सहस्रणी-रित्यादिवत् ॥ १४ ॥

आस्थितस्य परं धर्मं कृष्णस्य गृहमेधिनः ।

आसन् षोडशसाहस्रमहिष्यस्तु शताधिकाः ॥ १५ ॥

पदरत्नावली

कृष्णस्य षोडशसाहस्रमहिष्यः ॥ १५ ॥

सत्यधर्मीया

गृहमेधिनः परमं धर्ममास्थितस्य कृष्णस्य शताधिकाः शतमधिकं याभ्यस्ताः षोडशसाहस्रमहिष्यो भार्याः ॥ १५ ॥

तासां स्त्रीरत्नभूतानामष्टौ याः प्रागुदाहृताः ।

रुग्मिणीप्रमुखा राजन् तत्पुत्राश्चानुपूर्वशः ॥ १६ ॥

पदरत्नावली

तासां मध्ये या रुक्मिणी प्रमुखा अष्टौ महिष्यः प्रागुक्ता अनुपूर्वशस्त-त्पुत्राश्चोक्ताः ॥ १६ ॥

सत्यधर्मीया

स्त्रीरत्नानां तासां सकाशात्ताभ्योऽतिरिक्ता यास्ता रुग्मिणीप्रमुखा उदाहृताः । पुत्राश्चानुपूर्वश आनुपूर्वेण प्रागुदाहृताश्च ॥ १६ ॥

एकैकस्यां दशदश कृष्णोऽजीजनदात्मजान् ।

यावत्य आत्मनो भार्यास्त्वमोघगतिरीश्वरः ॥ १७ ॥

पदरत्नावली

आत्मनो यावत्यो भार्यास्तास्वेकस्यामेकस्यां भार्यायां दशदशात्मजानजी-जनत् ॥ १७ ॥

दुर्घटभावदीपिका

तु विशेषेण । स्वातन्त्र्येणेति यावत् । अमोघगतिरमोघप्रवृत्तिरीश्वरः कृष्ण आत्मनो यावत्यो भार्यास्तावन्तीष्वैकैकस्याम् । सर्वास्विति यावत् । दश दशात्मजान-जीजनदिति । एतेन यावत्य आत्मनो भार्या इत्येतदनन्वितमिति दूषणं परास्तम् । तावती-ष्वित्यध्याहृतेनान्वय इत्यङ्गीकारात् । एतेनैव तावतीषु दशदशात्मजानजीजनदित्युक्ते दशदशेति वीप्सयैवैकैकस्यामित्यर्थलाभादेकैकस्यामित्युक्तमिति स्वीकरणात् ॥ १७ ॥

सत्यधर्मीया

यावत्य आत्मनो भार्यास्तन्मध्य एकैकस्याम् । सर्वनाम्नः स्याड्ढ्र-स्वश्चेति ह्रस्वः । दशदश प्रातिस्विकम् । अमोघगतिरिति यथेश्वर इति हेतूक्तिः ॥ १७ ॥

तेषामुद्दामवीर्याणामष्टादश महारथाः ।

आसन्नुदारयशसस्तेषां नामानि मे शृणु ॥ १८ ॥

पदरत्नावली

तेषां पुत्राणां मध्ये अष्टादश महारथा आसन् ॥ १८ ॥

सत्यधर्मीया

उद्दामोत्कृष्टं वीर्यं येषां तेषां मध्ये महारथा अष्टादश आसन् । उदारं यशो येषां ते तेषां नामानि । मे मत्तः ॥ १८ ॥

प्रद्युम्नश्चारुदेष्णश्च दीप्तिमान् भानुरेव च ।

साम्बो मित्रबृहद्भा(नू)नुर्भानुविन्दो वृकोऽरुणः ॥ १९ ॥

पुष्करो देवभानुश्च श्रुतदेवः सुनन्दनः ।

चित्रभानुर्वरूथश्च कविर्न्यग्रोध एव च ॥ २० ॥

दुर्घटभावदीपिका

भानुरेव चेत्यस्य भानुर्भानुनामकश्च महारथो भवत्येवेत्यर्थः । एतेन भानुरेव चेत्येतदनन्वितमिति दूषणं परास्तम् । महारथो भवतीत्यध्याहृतोनान्वय इत्यभ्युप-गमात् । एतेनैव भानुरेव चेत्येवचशब्दौ विरुद्धाविति दूषणं परास्तम् । एवशब्दस्य भानुरित्य-नेनान्वयमनङ्गीकृत्य महारथो भवतीत्यनेनान्वय इत्यङ्गीकारात् । एवमेव पुष्करो देवबाहु-श्चेत्युत्तरश्लोकस्थन्यग्रोध एव चेत्यस्यार्थो द्रष्टव्यः । एवमेव प्रद्युम्नश्च महारथ इत्यादीनां शेषेण प्रद्युम्ननामको महारथो भवत्येवेत्यर्थो वक्तव्यः । यत्रैवशब्दश्च नास्ति तत्र महारथो भवतीत्यस्य चशब्दस्यैवशब्दस्य चाध्याहारः । यत्र चशब्दो वर्तते तत्र महारथो भवतीत्यस्यैवशब्दस्य-चाध्याहार इति द्रष्टव्यः । एतेनाष्टादशमहारथा इत्यनेन प्रद्युम्नाद्यष्टादशानां महारथत्वस्योक्तत्वात् तेषां नामानि मे शृृण्विति प्रतिज्ञानुसारेण तेषां मध्ये एकस्य प्रद्युम्न इति नामैकस्य च चारुदेष्ण इति नामेत्यादि वक्तव्यम् । प्रद्युम्नो महारथो भवति चारुदेष्णश्च महारथो भवतीत्यादिरूपेण महारथत्वाभिधानं व्यर्थमिति दूषणं परास्तम् । प्रद्युम्न इत्यादीनामष्टादशानां नामान्युच्यन्तेऽष्टादश महारथा इत्युक्तमहारथत्वस्यावधारणं च क्रियत इत्यङ्गीकारात् ॥ १९,२० ॥

सत्यधर्मीया

व्यामिश्रेणाष्टानां पुत्राणां नामान्याश्रावयति– प्रद्युम्नश्चेति । मित्रश्च बृहद्भानुश्चेति मित्रबृहद्भानू । एकवचनान्तपाठे मित्रेण सहितश्चासौ बृहद्भानुश्चेत्युत्तरपदलोपी समास इति ज्ञेयम् । मित्रबृहद्भानुरित्यखण्डं वा । श्रुतदेवो न्यग्रोधान्ताः ॥ १९,२० ॥

त्रिवक्राया विशोकश्च पुत्रः कृष्णमनुव्रतः ।

आसीच्छिष्यो नारदस्य ददौ चित्तमखण्डितम् ॥ २१ ॥

पदरत्नावली

त्रिवक्रायाः सैरन्ध्य्राः । स नारदस्तस्मै स्वशिष्याय अखण्डितं चित्तं पूर्वापरानुभवस्मरणसमर्थं ज्ञानं ददौ ॥ २१ ॥

सत्यधर्मीया

त्रिवक्रायाः सैरन्ध्य्राः, पुत्रो विशोकस्तन्नामा । नारदस्य शिष्य आसीत् । नारदश्च तस्मा अखण्डितं चित्तं ज्ञानं ददौ तत्साधनमुपदिदेशेति यावत् ॥ २१ ॥

येनोक्तं सात्वतं तन्त्रं यज्ज्ञात्वा मूर्तिमान् भवेत् ।

यत्र स्त्रीशूद्रदाशानां संस्कारो वैष्णवः स्मृतः ॥ २२ ॥

दुर्घटभावदीपिका

भगवान् हरिश्च हरिरेव तेषां यदूनां प्रभुत्वे प्रभुत्वस्य प्रमाणं प्रकर्षेण निर्माताऽभवदिति । एतेन हरिस्तेषां प्रभुत्वस्य कर्तेति वक्तव्यं हरिस्तेषां प्रभुत्वे प्रमाणमिति कथनमयुक्तमिति दूषणं परास्तम् । प्रभुत्व इति सप्तमी षष्ठ्यादेशः । मा निर्माण इत्यस्मात्कृत्य ल्युटो बहुलमिति वचनात्कर्तरि ल्युट्प्रत्यये मानमिति रूपं निष्पन्नमिति चाङ्गीकृत्य प्रभुत्वस्य प्रकर्षेण निर्मातेत्यर्थ इत्युक्तत्वात् ॥ ३३ ॥

पदरत्नावली

येन नारदेन सात्वतं तन्त्रं पञ्चरात्रसंहिता यद् यं ज्ञात्वा पुमान् मूर्तिमान् निजरूपाभिव्यक्तिमान् भवेद् यत्र यस्मिन् तन्त्रे स्त्रीशूद्रादीनां वैष्णवः संस्कारः स्मृतः विष्णुविषयानुष्ठानेन शरीरशुद्धिः कथिता ॥ २२ ॥

सत्यधर्मीया

यत्र स्त्रीशूद्रदाशानां संस्कारो वैष्णवः स्मृतो, यज्ज्ञात्वा भगवज्ज्ञानं सम्पाद्य मूर्तिमान्स्वरूपदेहवेत्ता तत्सात्वतं तन्त्रं पञ्चरात्रसंहितारूपं येन नारदेनोक्तं स नारदश्चित्तमखण्डितं ददाविति वाऽन्वयः ॥ २२ ॥

एतेषामपि राजेन्द्र तनुजानां मधुद्विषः ।

प्रद्युम्न आसीत् प्रथमः पितृवद् रुग्मिणीसुतः ॥ २३ ॥

पदरत्नावली

तनुजानां पुत्राणाम् ॥ २३ ॥

सत्यधर्मीया

पितृवत् किञ्चित्सरूप इत्येवमुक्तिः ॥ २३ ॥

स रुग्मिणो दुहितरमुपयेमे महारथः ।

तस्यां ततोऽनिरुद्धोऽभून्नागायुतबलान्वितः ॥ २४ ॥

सत्यधर्मीया

स महारथः प्रद्युम्नस्तस्यां रुग्मिदुहितरि रुग्मवत्याम् । ततः प्रद्युम्नान् नागानामयुतस्य यद्बलं तत्सदृशबलेनान्वितः ॥ २४ ॥

स चापि रुग्मिणः पौत्रीं दौहित्रो जगृहे ततः ।

वज्रस्तस्यामभूद् यस्तु मौसलादवशेषितः ॥ २५ ॥

पदरत्नावली

पौत्रीं पुत्रपुत्रीम् । दौहित्रः दुहितुः पुत्रोऽनिरुद्धः । ‘निहते रुक्मिणि श्याले नाब्रवीत् साध्वसाधु वा । रुक्मिणीबलयो राजन् स्नेहभङ्गभयाद् हरिः’ इत्यनेन सर्वसमस्य हरेः स्नेहभङ्गभयमुच्यते तत् कथं घटत इतीयमाशङ्का ‘न स्नेहभङ्गो देव्यास्तु न भयं केशवस्य च । स्नेहभीत इवाथापि नोचे रुक्मिवधे हरिः’ इत्यादिना परिहर्तव्या । अत्र श्रीमद्भागवत्पादैः सिंहावलोकनन्यायेनाध्यायेयत्तासूचनाय चेदं प्रमाणमुक्तम् । मौसलान्मुसलयुद्धात् ॥ २५ ॥

सत्यधर्मीया

पौत्रीं पुत्रस्य पुत्रीं दौहित्रो रुग्मिपुत्रीपुत्रो जगृहे बलात् । ततोऽनिरुद्धात् तस्यां मौसलात्तत्सम्बन्धियादववधादवशेषितोऽत एवार्जुनस्तमभिषिषेच राज्य इति युक्तम्

॥ २५ ॥

प्रतिबाहुरभूत् तस्मात् सुबाहुस्तस्य चात्मजः ।

सुबाहोरुग्रसेनोऽभूच्छतसेनस्तु तत्सुतः ॥ २६ ॥

सत्यधर्मीया

प्रतिबाहुस्तस्माद्वज्रात् । तस्य सुबाहोरुग्रसेन आत्मजोऽभूदित्यन्वयः । तत्सुत उग्रसेनसुतः शतसेनोऽभूत् ॥ २६ ॥

न ह्येतस्मिन् कुले जाता अधना अबहुप्रजाः ।

अल्पायुषोऽल्पवीर्या वा अब्रह्मण्याश्च जज्ञिरे ॥ २७ ॥

पदरत्नावली

एतस्मिन् कुले अधनादिदोषयुक्ता न जज्ञिर इत्यन्वयः ॥ २७ ॥

दुर्घटभावदीपिका

तीर्थं चक्रे नृणां यो यदजनि यदुष्वित्यस्य यो विष्णुर्यद्यस्य तीर्थं यशोलक्षणतीर्थं नृणां चक्रे समुदाये यदुषु चाजनि जातमित्यर्थः । एतेन यदुषु जनेः सर्वयदु-साधारणत्वेन माहात्म्यरूपत्वाभावात् । यद्यो यदुष्वजनीति कथनमयुक्तमिति दूषणं प्रत्युक्तम् । यदजनि यदुष्वित्यस्य यद्यो यदुष्वजनीत्यर्थ इत्यनङ्गीकारात् । एतेनैव यद्यस्य यशोलक्षणं तीर्थं चक्रे नृणां समुदाये यदुषु चाजनि जातमिति योजनायां य इत्येतद्व्यर्थमिति दूषणं परास्तम् । य इत्यस्यावृत्तिमङ्गीकृत्यैकस्य यच्छब्दरूपत्वं द्वितीयस्य अकारान्त यशब्दरूपत्वं विष्णुवाचकत्वं चेत्यङ्गीकृत्य यो विष्णुरित्यर्थस्योक्तत्वात् ॥ ३७ ॥

सत्यधर्मीया

एतस्मिन्यादवे कुले जाता ये तेऽधनाद्या न जज्ञिरे नाभवन्नित्यर्थः ॥२७॥

यदुवंशे प्रसूतानां पुंसां विख्यातकर्मणाम् ।

सङ्ख्या न शक्यते कर्तुमपि वर्षायुतैर्नृप ॥ २८ ॥

पदरत्नावली

तेषां यदुवंशप्रसूतानाम् ॥ २८ ॥

सत्यधर्मीया

तेषां गुणा उक्ताः । गणनां भणेत्युक्तावाह– यदुवंश इति ॥ २८ ॥

तिस्त्रः कोट्यः सहस्राणामष्टाशीतिशतानि च ।

आसन् यदुकुमाराणामाचार्या इति नः श्रुतम् ॥ २९ ॥

पदरत्नावली

सङ्ख्याज्ञानाभावेऽपि तदाचार्याणां सङ्ख्यां कामपि श्रावयामीत्याह– तिस्र इति ॥ २९ ॥

सत्यधर्मीया

कैमुत्येनासङ्ख्यातां बुद्ध्यारूढां करोति– तिस्रः कोट्य इति । यदुकुमाराणामाचार्या उपाध्याया आसन्निति नोऽस्माभिः श्रुतम् । सर्वज्ञेनापि श्रुतमित्युक्ति-र्विविच्य वदेति श्रोतुरनास्थाजननार्थमिति मन्तव्यम् ॥ २९ ॥

सङ्ख्यानं यादवानां कः करिष्यति महात्मनाम् ।

यत्रायुतानामयुतं रक्षन्नास्ते स आहुकः ॥ ३० ॥

पदरत्नावली

यत्र येषाम् ॥ ३० ॥

सत्यधर्मीया

पुनश्चापि सङ्ख्याबुभुत्सां विरामयति– सङ्ख्यानमिति । यत्र यादव-समुदाये । आहुक उग्रसेनपिताऽयुतानामयुतं रक्षन्नास्ते । तेषां महात्मनां यादवानां सङ्ख्यानं कः करिष्यति न कोऽपि तत्र दक्ष इति भावः ॥ ३० ॥

देवासुराहवहता ये दैतेयाः सुदारुणाः ।

ते चोत्पन्ना मनुष्येषु प्रजा दृप्ता बबाधिरे ॥ ३१ ॥

पदरत्नावली

देवांशानां यादवानामवन्यामुत्पत्तौ निमित्तमाह– देवेति ॥ ३१ ॥

सत्यधर्मीया

यादवाश्च देवा इति वक्तुमुपोद्धातमभिधत्ते– देवेति । देवाश्चासुराश्च देवासुरं तस्य य आहवस्तस्मिन्हता दैतेया दितिसुतास्त एव मनुष्येषूत्पन्नाः प्रजा बबाधिरे ॥ ३१ ॥

तन्निग्रहाय हरिणा प्रोक्ता देवा यदोः कुले ।

अवतीर्णाः कुलशतं येषामेकाधिकं नृप ॥ ३२ ॥

पदरत्नावली

यादवा देवा इत्यत्र किं प्रमाणम् ? अत्राह– कुलशतमिति ॥ ३२ ॥

सत्यधर्मीया

तन्निग्रहाय हरिणा स्वयमवतरिष्यता । प्रोक्ता देवा यदोः कुलेऽ-वतीर्णा येषामेकाधिकं कुलशतम् । यादवानां देवत्वमत्राभिमतं नदेवत्वमन्यथेयत्तापत्तेः । अथवैको देवोऽनेकैः स्वांशैरवतीर्णो विदुरधर्माश्वत्थामजैगीषव्यदूर्वासआदिवदित्यसङ्ख्या-तत्वेऽपि प्रयोजकमुक्तं च । ‘सहस्रशः समुद्भूता देवा यदुकुले पृथक्’ इति ॥ ३२ ॥

तेषां प्रमाणं भगवान् प्रभुत्वे चाभवद् हरिः ।

ये चानुवर्तिनस्तस्य ववृधुः सर्वयादवाः ॥ ३३ ॥

पदरत्नावली

कृष्णो भगवान् तेषां प्रभुत्वे सामर्थ्ये दैवे प्रमाणम् । यतः श्रीकृष्णो नारायणावतारः प्रसिद्धस्तेषाममानुषसामर्थ्ये हेतुश्च ततो यादवा देवा इति सिद्धम् । एतदेव दृढीकरणाय पुनर्वक्ति– ये चेति ॥ ३३ ॥

सत्यधर्मीया

तेषां प्रभुत्वे सामर्थ्ये हरिः प्रमाणं मर्यादारूपस्तत्प्रापणसीमेति यावत् । तस्य ये चानुवर्तिनः सर्वे यादवा ववृधुर्ववृधिरे ॥ ३३ ॥

शय्यासनाटनालापक्रीडास्नानाशनादिषु ।

न विदुः सन्तमात्मानं वृष्णयः कृष्णचेतसः ॥ ३४ ॥

पदरत्नावली

स्वामिनं न विदुः शय्यादिषु सन्तं सहवर्तमानमात्मानं स्वरूपभूतं श्रीनारायणम् ॥ ३४ ॥

सत्यधर्मीया

कृष्णचेतसो वृष्णयः शय्यादिषु सह सन्तमात्मानं स्वामिनमन्तर्यामिणं न श्रीहरिमिव विदुर् ज्ञातवन्तः । न विदुरित्यर्थस्तु तन्माहात्म्यप्रस्तावाननुगुण इत्युपेक्ष्यः । शय्यादिषु सन्तमात्मानं स्वं कृष्णचेतस इति वृष्णयो न विदुरिति वा आत्मानं स्वात्मकं न विदुरिति वा ॥ ३४ ॥

ईजे क्रतुभिरात्मानं सर्ववेदार्थसङ्ग्रहम् ।

स्वयोगमायारचितैः कुरुक्षेत्रे द्विषट्समाः ॥ ३५ ॥

पदरत्नावली

सर्ववेदार्थत्वेन सर्ववेदविषयत्वेन सम्यग् ग्रहो ग्रहणं यस्य स तथा तम् । स्वयोगमायया स्वरूपसामर्थ्येन रचितैरुत्पादितैः ॥ ३५ ॥

सत्यधर्मीया

स्वयोगमायारचितैर्वराहदेहजातत्वात्क्रतूनाम् । सर्ववेदार्थान्सङ्गृह्णाति स्वपर्यवसायिनः करोतीति स तथा । द्विषट्समा द्वादशसंवत्सरान् । अन्यस्य यष्टव्य-स्यादृष्टेरात्मानमीज इत्युक्तिः । इदं तु लोकान्प्रवर्तयितुमिति ज्ञेयम् ॥ ३५ ॥

कृष्णगाध्यसितावन्तिरामाचार्योद्धवेश्वरः ।

दीक्षितोऽग्रण्यपत्नीभिः पुण्यश्लोकः सहाग्रणीः ॥ ३६ ॥

पदरत्नावली

कृष्णो वेदव्यासः, गाधिर्विश्वामित्रः, आवन्तिः सान्दीपनिः, रामः परशुरामः, एते आचार्या यस्य कृष्णस्य सः । उद्धवस्येश्वर उद्धवेश्वरः । कृष्णगाध्यसितावन्ति-रामाचार्यश्चासावुद्धवेश्वरश्च तथा । अग्रण्यपत्नीभिः रुक्मिण्यादिश्रेष्ठपत्नीभिः सह सन्दीक्षितः । अग्रणीः सर्वोत्तमः ॥ ३६ ॥

सत्यधर्मीया

कृष्णो वासिष्ठो, गाध्यसितावृषी, अवन्तिः स्वगुरुः सान्दीपिनी, रामो जामदग्न्य एत आचार्याः क्रतुकारयितारो, स चासावुद्धवो मन्त्री तदीश्वरः । अग्रण्याश्च ताः पत्न््नयश्च ताभी रुग्मिण्यादिभिः सह स्वयमग्रणीर्नायकः पुण्यश्लोको दीक्षितोऽभूत् ॥ ३६ ॥

तीर्थं चक्रे नृणां यो यदजनि यदुषु स्वःसरित् पादशौचं

षड्भिश्चाप्तं स्वरूपं पर उरसि रमा सर्वदा यस्य चास्ते ।

यच्छास्त्रं तत्प्रमाणं यदनु च सदसव्द्यक्तयो यत्र धर्माः

कृष्णस्यैतन्न चित्रं क्षितिभरहरणं कालचक्रायुधस्य ॥ ३७ ॥

पदरत्नावली

श्रीकृष्णस्मरणार्थं सङ्क्षिप्य तद्गुणान् कथयति– तीर्थमिति ॥ तीर्थं कीर्तिलक्षणं नृणां चक्रे । यद् यो यदुष्वजनि प्रादुर्भूतः । यस्यापादशौचं पादप्रक्षालनजलं स्वःसरित् स्वर्गनदी गङ्गाऽभूत् । यस्य स्वरूपमैश्वर्यादि षड्गुणैराप्तं पूर्णम् । यस्योरसि वक्षस उपरि रमा सर्वदाऽऽस्ते । यस्य शास्त्रं शासकं वचनं तत् प्रमाणम्, लोकस्येति शेषः । यच्छास्त्रं वेदादिशास्त्रं तत् प्रमाणमिति वा । सदसद्व्यक्तयः कार्यकारणव्यक्तयो यदनु यस्यानन्तरं विद्यमानाः, यदनुकूलत्वेन सत्तासम्बन्धिन्यः । धर्मा यत्र यद्विषयत्वेन वर्तन्ते, यस्य कृष्णस्यैतत् क्षितिभारहरणं न चित्रम् । किन्त्वस्माकमेव । हेत्वन्तरमाह– कालेति ॥ ३७ ॥

सत्यधर्मीया

यो नृणां मध्ये आस्ते यो मनुष्यः स इव तीर्थमध्वरं चक्रे कृतवान् । तीर्थं शास्त्राध्वरे क्षेत्रोपायोपाध्यायमन्त्रिषु । अवतारर्षिजुष्टाम्भः स्त्रीरजस्वपि विश्रुतमिति

विश्वः । समुद्रे नृणां गगनादेरवतारप्रदेशं चक्र इति वा । यद्येषु यदुषु स्वयमजनि, यस्य पादशौचं तत्प्रक्षालनजलं स्वःसरित्स्वर्णनद्यभवत् । यस्य स्वरूपं षडि्भः समग्रैश्वर्यादिभिराप्तं प्राप्तम् । यस्य च परे उरसि सर्वदाऽविरतम् । सदेत्यनुक्त्वा सर्वदेति वचनेन विरिञ्चादिभ्यः सर्वमपेक्षितं ददातीति सा तथेत्यप्यर्थं सूचितवानिति ध्येयम् । रमाऽऽस्ते । यच्छास्त्रं शासनरूपं वचनमर्जुनोपदिष्टमेव प्रमाणं यत्प्रतिपादकं शास्त्रं प्रमाणम् । वन्ध्यागिरं तां बिभृयान्न धीर इत्यादेः । यदनु यदनन्तरं सदसद्व्यक्तयो मूर्तामूर्तकार्यकारणादि-व्यक्त्युत्पत्त्यादयो भवन्ति येनैव भवन्तीति यावत् । जगति यत्र यद्विषयका एव धर्मास् तस्य कृष्णस्य क्षितिभरहरणं चित्रं न । उक्तैरेव हेतुभिश्चित्रं नव नेत्यपरं हेतुमाह । कालचक्रमेवायुधं यस्य स तस्येति । कालश्चासौ चक्रायुधश्चेति वा । नृणां तानुद्दिश्य तीर्थं द्वारकारूपं क्षेत्रं च चक्र इति वा ॥ ३७ ॥

जयति जननिवासो देवकीजन्मवादो नियमकृतपदाब्जैर्दस्युपीडां स्वदोर्भिः ।

मुदमुभयदृशीनां श्रीनिकेतात्ममूर्त्या स्मरवपुरबलानां स्निग्धहासेक्षया च ॥ ३८ ॥

पदरत्नावली

देवकीजन्मवादः देवकीपुत्रत्वेन वादः कीर्तिर्यस्य स तथा सः । जननिवासो जगन्निवासो जयति । कथम् ? अत्राह– नियमेति ॥ भूभारक्षपणार्थं नियमेन भूमौ कृतानि पदाब्जानि पादन्यासपद्मानि यानि तैः स्वदोर्मिश्च दस्युपीडां कुर्वन्निति शेषः । उभयदृशीनाम् अन्तर्बहिःस्थितरूपस्य दृशिर्दर्शनं येषां तेषां मुदं कुर्वम् । अबलानां स्त्रीणां श्रीनिकेतात्ममूर्त्या लक्ष्मीमन्दिरात्मस्वरूपेण स्निग्धहासेक्षया स्निग्धमन्दस्मितशोभितरूपकटाक्षनिरीक्षणेन च स्मरवपुः काममूर्तिरिव स्थितः ॥ ३८ ॥

दुर्घटभावदीपिका

जननिवासो जनेषु निवासः । देवकीजन्मवादो देवक्यां जन्म प्रादुर्भावोऽस्तीति वादः पुराऽस्मदादिषु कथनं यस्य देवकीजन्मवादः । स्मरवपुः कामवत्सुन्दर-शरीरः । कृष्णो नियमकृतपदाब्जैर्भूमौ नियमेन कृतानि स्थापितानि यानि, प्रतिपादाब्जजनितैः सज्जनानां मुदं कुर्वन् स्वदोर्भिर्भीमादिबाहुस्थितस्वकीयबाहुभिर्दस्युपीडां जरासंधादिदस्युपीडां कुर्वन् दोर्भ्यां कंसादिदस्युपीडां कुर्वन् उभयदृशीनां साक्षाद्रूपप्रतिमारूपोभयरूपदर्शनसम्पन्नानां मुदं कुर्वन् अबलानां गोप्यादिस्त्रीणां श्रीनिकेतात्ममूर्त्या श्रीनिकेतात्ममूर्तिप्रदर्शनादिना स्निग्धहासेक्षया स्नेह-सहितहासेक्षया च मुदं कुर्वन् जयतीति । एतेन स्वदोर्भिरित्यत्र स्वेत्येतद्व्यर्थं परबाहुप्रसक्तेर-भावात् । बाहुद्वयेन कंसादिदस्युपीडायाः कृतत्वाद्दोर्भिरिति बहुवचनं चानुपपन्नमिति दूषणं प्रत्युक्तम् । भीमादिबाहुस्थितस्वकीयबाहुभिर्जरासंधादिदस्युपीडा मुख्यतः कृष्णेनैव कृतेति ज्ञाप-नार्थं स्वदोर्भिरित्युक्तमिति स्वीकरणात् । एतेनैव दोर्भ्यां कंसादिदस्युपीडा कृतेत्येतन्नोक्तमिति शङ्काऽनवकाशः । दोर्भिरित्यादेरावृत्तिं दोर्भिरित्यस्यार्थवशाद्दोर्भ्यामिति विपरिणामं चाङ्गीकृत्य दोर्भ्यां कंसादिदस्युपीडां कुर्वन्नित्यर्थस्योक्तत्वात् । एतेनैवोभयदृशीनामित्यत्रोभयेत्येतद्व्यर्थमिति चोद्यमपास्तम् । सज्जनानां कृष्णरूपदर्शने यथा सन्तोषो जातस्तथा कृष्णप्रतिमारूपभीमादि-दर्शनेऽपि सन्तोषो जात इति ज्ञापनार्थमुभयेत्युक्तमिति स्वीकरणात् ॥ ३८ ॥

॥ इति श्रीभागवतटिप्पण्यां पञ्चाधिकशततमोऽध्यायः ॥ १०–१०५ ॥

॥ इति श्रीमदश्रुतपदवाक्यप्रमाणव्याख्यातॄॄणामभिनवचन्द्रिकाऽभिनव-ताण्डवाभिनवगदाऽभिनवामृतादिबहुग्रन्थकर्तॄॄणां जगत्पूज्यपादुकानां श्रीसत्यनाथश्रीमच्चरणानां शिष्येण सत्याभिनवयतिना ‘‘त्वया भागवतटिप्पणं कारयिष्यामि’’ इति तदीयामोघसङ्कल्पमात्रमवलम्ब्य कृतायां श्रीमद्भागवतटिप्पण्यां दुर्घटभावदीपिकायां दशम उत्तरार्धः समाप्तः ॥ १० ॥

॥ इति श्रीभागवते महापुराणे दशमः स्कन्धः समाप्तः ॥

सत्यधर्मीया

जननिवासो विश्वम्भरो जयति । नास्मद्वज्जनिमान्स इत्याह– देवकी-जन्मवाद इति । देवक्यां जन्म यस्य स देवकीजन्मा तथेति वादः प्रवादो यस्य सः । देवक्या जन्मास्येति वादो यस्येति वा । पक्षद्वन्द्वेऽपि जन्मप्रदर्शनमात्रं न कर्मायत्तं तदिति स्फोर्यते । पदाब्जैस्तथा स्वदोर्भिश्चोत्पत्तिसमये तथा क्वचिद्बाहुचतुष्टयदर्शनाद्विश्वरूपप्रदर्शनेऽ-नन्तपादताप्रदर्शनाद्बहुवचनम् । भीमादीनां बाहुभिः पादैश्च सोऽनघातितवानिति वा तत्सम्भवः । दस्युपीडामुद्दिश्य य आत्मानं नियं नेतारमपहर्तारं सारथिं चाकृत । अनेका-भावान्न यण् । नियमार्थं भूभारावतारो मया क्रियत इति नियममुद्दिश्य पदाब्जैरिति वा । शेषश्च कुर्वन्नित्यस्य तत्पक्षे विशेषः । उभयस्मिन्नन्तर्बहिश्चेत्युभयत्र दृशिरवलोकनं येषा-मुत्तमाधिकारिणां मुदमकृत कुर्वन्वा । श्रीनिकेतेत्यनेन नाभिलाषेण योषासु प्रवृत्तिरीश्वरस्य किन्तु तत्सुकृतफलत्वेन काचिदियं लीलेति सूचयति । श्रियो, निकेतं च तदात्ममूर्तिश्च, निकेतं यस्यां सा च सा । तयाऽत्ममूर्त्या स्वाकारेण । स्मरवपुः साक्षान्मन्मथमन्मथः । स्निग्धहाससहिता च सेक्षाऽवलोकनं च तया । मुदमकृत च स जयति कुर्वञ्जयतीति वा । स्मरस्य वपुः प्रद्युम्नरूपेण यस्मात्स इति वा । शकटादेः पादेनापि हननात्पादेत्युक्तिरिव चाणूरकेश्यादिमारणं कुरुत इति दोर्भिरित्युक्तिश्च सम्भवतः ॥ ३८ ॥

**यो ह्यात्मा जगदादिमध्यनिधनो योऽव्यक्तजीवेश्वरो **

यः सृष्ट्वेदमनुप्रविष्ट ऋषिणा चक्रे पुनः संहिताम् ।

यं सम्पद्य जहात्यजामनुशयी सुप्तः कुलायं यथा

तं कैवल्यनिरस्तयोनिमभयं ध्यायेदजस्रं हरिम् ॥ ३९ ॥

पदरत्नावली

जगत आदौ मध्ये निधने च वर्तत इति जगदादिमध्यनिधनो जगदुत्पत्ति-स्थितिसंहारकर्ता । अव्यक्तजीवयोरीश्वरः । ऋषिणा व्यासात्मना भागवतीं संहिताम् । अनुशयी जीवो यं सम्पद्य प्राप्य अजां बन्धकशक्तिं जहाति । ‘सता सौम्य तदा सम्पन्नो भवति’ इति श्रुतेः । सुप्तः परमात्मानं प्राज्ञं प्राप्तो यथा कुलायं शरीराभिमानं त्यक्त्वा आस्ते । तथा कैवल्येन सच्चिदानन्दस्वरूपस्थित्या निरस्तयोनिं नित्यनिरस्तप्रकृतिम् ॥ ३९ ॥

सत्यधर्मीया

एकोनचत्वारिंशत्श्लोको योऽह्यात्मेत्यादिर्व्याख्यातः । योऽह्यात्माऽहौ शेषे आत्मा देहो यस्य स शेषशायीति वा । ऋषिणा ऋषिरूपेण ॥ ३९ ॥

इत्थं परस्य निजधर्मरिरक्षयाऽत्तलीलातनोस्तदनुरूपविडम्बनानि ।

कर्माणि कर्मकषणानि यदूत्तमस्य गायेदमुष्य पदयोरनुवृत्तिमिच्छन् ॥ ४० ॥

पदरत्नावली

इत्थम् एवंविधस्य यदूत्तमस्य कर्माणि विक्रमलक्षणानि गायेदित्यन्वयः । निजधर्मरिरक्षया स्वकल्पितधर्मरक्षणेच्छया । तस्यानुकूलविडम्बनानि कर्मकषणानि दुष्कर्म-निराकरणसमर्थानि । अनुवृत्तिमनुगमनमिच्छन् ॥ ४० ॥

सत्यधर्मीया

इत्थमेवं परस्य सर्वोत्तमस्य । निजधर्मरिरक्षया स्वकृतधर्ममर्यादा-स्थापनेच्छयेति यावत् । निजो यो भक्तः स्वकीयो वा यो धर्मस्तदादिरिरक्षा रक्षितुमिच्छा तया । आत्ता तनुर्येनेति स तस्य । तदनुरूपाणि तत्तन्वनुकूलानि विडम्बनानि लोक-मनुकुर्वता कृतानि । कर्मकषणानि कर्माणि दुष्फलप्रापकाणि कषन्ति पराकुर्वन्ति तानि । अमुष्य यदूत्तमस्य पदयोर्ज्ञानानन्दादयोरनुवृत्तिमिच्छन्नमुष्य कर्माणि गायेदित्यप्यमुष्येत्यादे-रन्वयः ॥ ४० ॥

मर्त्यस्तयाऽनुसवमेधितयाऽनुवृत्त्या श्रीमत्कथाश्रवणकीर्तनचिन्तयैति ।

तद्धाम दुष्करकृतं जनतापवर्गं ग्रामाद् वनं क्षितिभुजोऽपि ययुर्यदर्थे ॥ ४१ ॥

पदरत्नावली

मर्त्यस्तयाऽनुवृत्त्या तस्य हरेर्धाम लोकमेति । कीदृश्या? श्रीमत्याः कथायाः श्रवणकीर्तनचिन्तनलक्षणया । दुष्करेण तपसा कृतं साधितम् । जनतायाः क्रिया-साध्यफलरूपं जनतापवर्गम् । यस्य हरेर्धामार्थे क्षितिभुजोऽपि ग्रामाद् वनं ग्रामं विहाय वनं ययुर्यान्ति । किं पुनरन्य इति ॥ ४१ ॥

सत्यधर्मीया

नापि सुखं न वा दुःखहानिरिति कथं तत्पदानुवृत्तिमिच्छन्नित्युक्ति-रित्यतः सैतत्प्रापिकेति प्रार्थ्येति वक्ति– मर्त्य इति । तयाऽनुसवं निरन्तरमेधितया । इयतैव पूर्तौ यत्पुनरनुवृत्त्येत्याह तेन हानीकृता वृत्तिरितरा ययेति प्रवृत्त्यन्तरशून्यतां च दध्वानेति ज्ञेयम् । तदेधनसाधनं किमित्यत आह । श्रीमत्याः कथायाः श्रवणं कीर्तनं ताभ्यां चिन्ता ध्यानं यस्याः सेति केचित् । सा किं कारणं भवन्ती साधयति परमफलमित्यत आह– श्रीमदिति । श्रीमत्कथाश्रवणकीर्तनचिन्ता ययेति केचित् । चिन्तया सहकर्त्र्या सहिता या । दुष्करकृतमितरदुःशकप्रापकत्वेन कृतं दुर्लभमिति यावत् । तद्धाम मर्त्य एति । जनः संसारे जनिमान्यस्तापस्तस्य वर्गो वर्जनं येन तज्जनतायाः । ग्रामजनेति तल् । जनसमूहस्यापवर्गं मोक्षरूपमेतीति वा । यदर्थे यद्धामार्थे यदनुवृत्यर्थ इति वा । क्षिति-भुजोऽपि श्रीमन्तोऽपि भूभुजो राजानो, ग्रामाद् ल्यब् लोपनिमित्ता पञ्चमी । ग्रामं परित्यज्य । वनं ययुस्तद्धाम तामनुवृत्तिर्वा को नेच्छेदिति ॥ ४१ ॥

सूत उवाच—

य इदमनुशृणोति श्रावयेद्वा मुरारेश्चरितममृतकीर्तेर्वर्णितं व्यासपुत्रैः ।

जगदघभिदलं तद्भक्तकर्णावतंसं भगवति कृतचित्तो याति तत्क्षेमधाम ॥४२॥

॥ इति श्रीमद्भागवते दशमस्कन्धे पञ्चाधिकशततमोऽध्यायः ॥

पदरत्नावली

स्कन्धार्थमुपसंहरति– य इदमिति ॥ व्यासपुत्रैः शुकादिभिः । जगतोऽघं पापं भिनत्तीति जगदघभित् । तद्भक्तानां कर्णावतंसं कर्णालङ्कारायमाणम् । श्रवणादिफलमाह– भगवतीति ॥ क्षेमधाम मोक्षलक्षणं स्थानम् । श्रवणादि कुर्वता इत्थम्भाव्यमित्यत उक्तम्– भगवतीति ॥ ‘सर्वोत्तमोऽपि भगवान् गुणभावं जनार्दनः । दर्शयेद् वासुदेवोऽपि ह्यात्मनो जीवतामपि । अज्ञाशक्तादिभावस्तु कुत एवाखिलेशितुः । कुतश्च जीवता तस्य प्रधानपुरुषेशितुः । कुतो दोषाः सर्वगुणपूर्णस्यानन्दवारिधेः ॥’ इत्येतत् प्रमाणम् अज्ञजनेन क्रियमाणसर्वशङ्कानिरा-करणार्थं भगवत्पादैः स्कन्धान्ते दर्शितमिति ज्ञातव्यमिति ॥ ४२ ॥

योऽयाचि त्रिदशैः कुभारहृतयेऽवातारि येन क्षितौ

जघ्ने येन सुरासुहृत्समुदयो येन त्रिलोक्यापि सा ।

येनाधायि युधिष्ठिरो निजपदे धर्मोऽपि येनाङ्कुरि

श्रीकृष्णं तमकृष्णकृष्णदयितं वन्दामहे सन्ततम् ॥ १ ॥

परत्नावलिर्नाम दशमस्कन्धसङ्गता ।

कृष्णप्रीत्या समाप्तेयं विद्वन्मानसहर्षिणी ॥ २ ॥

॥ इति श्रीमद्भागवतटीकायां विजयध्वजतीर्थकृतायां पदरत्नावल्यां दशमस्कन्धे उत्तरार्धे पञ्चाधिकशततमोऽध्यायः (स.धर्म.१०–१०५) ॥

सत्यधर्मीया

एवं समापितस्कन्धोऽधिकारिणः प्रवर्तयितुं वक्तृश्रोत्रोः फलमभिलप-न्नुपसंहरति । व्यासपुत्रैः । बहुवचनमाद्यर्थे । शुकादिभिः । शुकप्रभृतिभिर्जनैरिति प्रथम-तात्पर्योक्तेः । अमृतकीर्तेर्मुरारेरनुवर्णितमिदं चरितं योऽनुशृृणोति यश्च श्रावयेत् । अत्र यद्यप्युत्तमः श्रावयिता पुरस्कार्यस्तथाऽपि साहंतया प्रस्तुतं स्वं पुर उदीरयामासेति शङ्कातो बिभ्यत्सूतो य इदमनुशृृणोतीति श्रोतारं प्रथमत उदाजहारेति ज्ञेयम् । तन्महत्त्वमाह–जगदघभिदिति । भक्तानां कर्णानामवतंसं भूषणरूपम् । पृथक्पृथगन्वयः । स भगवति कृतचित्तः संस्तत्क्षेमधाम नित्यक्षेमरूपं धाम मोक्षं स्वस्वरूपं वा याति प्राप्नोति । तेजः-स्वरूपं च गृहं प्राज्ञैर्धामेति गीयत इति वचनात् । इत्यशेषमतिमङ्गलम् ॥ ४२ ॥

दशमस्कन्धसद्रत्नकन्धरार्थमणीनगाम् ।

पारं यदूढ्वा गुर्वंङ्घ्री व्यासदासः ससत्यृतम् ॥ १ ॥

॥ इति श्री भागवतटिप्पण्यां श्रीसत्यधर्मयतिकृतायां दशमस्कन्ध उत्तरार्धे

पञ्चाधिकशततमोऽध्यायः ॥ १०–१०५ ॥

॥ समाप्तश्च दशमस्कन्धः ॥

॥ श्रीकृष्णार्पणमस्तु ॥

॥ समाप्तश्च दशमस्कन्धः ॥