३० चतुराधिकशततमोऽध्यायः

सुखं स्वपुर्यां न्यवसद् द्वारकायां श्रियः पतिः

॥ अथ चतुराधिकशततमोऽध्यायः ॥

श्रीशुक उवाच—

सुखं स्वपुर्यां न्यवसद् द्वारकायां श्रियः पतिः ।

सर्वसम्पत्समृद्धायां जुष्टायां वृष्णिपुङ्गवैः ॥ १ ॥

पदरत्नावली

अनेनाध्यायद्वयेन (कृष्णस्य) गृहस्थधर्मानुकरणलक्षणं (माहात्म्यं) हरेः सन्निधानात् सर्वतीर्थोत्तमत्वं द्वारकायाश्च कथ्यते । तत्र प्रथमं द्वारकापुरं वर्णयति– सुखमिति

॥ १ ॥

सत्यधर्मीया

अध्यायद्वय्यां गृहस्थधर्मानुवर्तनमितरशिक्षार्थं भगवता कृतमिति द्वार-वत्यास्तीर्थोत्तमत्वं च कथ्यते । तत्रादौ पुरं वर्णयति– सुखमिति । सुखं यथा तथेति ॥ १ ॥

स्त्रीभिश्चोत्तमवेषाभिर्नवयौवनकान्तिभिः ।

कन्दुकैर्हर्म्यसौधेषु क्रीडन्तीभिस्तडिद्द्युभिः ॥ २ ॥

पदरत्नावली

हर्म्येषु धनिनां योग्येषु समुन्नतगृहेषु । सौधेषु सुधाधवलितोत्तमेषु गृहेषु

॥ २ ॥

सत्यधर्मीया

नवेन यौवनेन कान्तिर्यासां ताभिः । हर्म्येषु धनिकयोग्यप्रासादेषु । सौधेषु सुधाधवलेषु त्रिभूमादिप्रासादेषु । कन्दुकैः क्रीडन्तीभिः ॥ २ ॥

नित्यं सङ्कुलमार्गायां मदच्युद्भिर्मतङ्गजैः ।

स्वलङ्कृतैर्भटैरश्वै रथैश्च कनकोज्वलैः ॥ ३ ॥

सत्यधर्मीया

मदं दानोदकं च्योतयन्तीति तथा । च्युति क्षरण इति स्मरणात् । मतङ्गजैर्गजैः ॥ ३ ॥

उद्यानोपवनाढ्यायां पुष्पितद्रुमराजिषु ।

निर्विशद्भृङ्गविहगैर्नादितायां समन्ततः ॥ ४ ॥

पदरत्नावली

निर्विशद्भिर्मिथ उपयुञ्जानैर्भृङ्गविहङ्गैर्नादितायां घोषवत्कृतायाम् ॥ ४ ॥

सत्यधर्मीया

पुष्पिता द्रुमा वृक्षाः । तारकादिः पुष्पशब्दः । निर्विशन्तो भृङ्गाश्च विहगाश्च तैर्नादितायां शब्दितायाम् ॥ ४ ॥

रेमे षोडशसाहस्रपत्नीनामेकवल्लभः ।

तावन्ति बिभ्रद् रूपाणि तद्गेहेषु महर्द्धिषु ॥ ५ ॥

सत्यधर्मीया

एकश्चासौ वल्लभश्च । तावन्ति रूपाणि । एक एव तत्तृप्तिपर्याप्तश्चेदपि योगसामर्थ्यं दर्शयितुमेवमभूदिति मन्तव्यम् । बिभ्रत् । महत्य ऋद्धयो येषां तेषु ॥ ५ ॥

प्रोत्फुल्लोत्पलकल्हारकुमुदाम्भोजरेणुभिः ।

वासितामलतोयेषु कूजद्द्विजकुलेषु च ॥ ६ ॥

पदरत्नावली

वासितामलतोयेषु परिमलीकृतजलेषु ॥ ६ ॥

सत्यधर्मीया

वासितानि परिमलीकृतान्यमलतोयानि तेषु ॥ ६ ॥

विजहार विगाह्याम्भो ह्रदिनीषु महोदयः ।

कुचकुङ्कुमलिप्ताङ्गः परिरब्धः स्वयोषिताम् ॥ ७ ॥

पदरत्नावली

ह्रादिनीषु नदीषु । स्वयोषितामिति षष्ठी तृतीयार्थे ॥ ७ ॥

सत्यधर्मीया

हृदिनीषु नदीषु च स्वयोषितां ताभिः परिरब्ध इति । कुचकुङ्कुमलिप्त-मङ्गं यस्य सः । अम्भो विगाह्य विजहार ॥ ७ ॥

उपगीयमानो गन्धर्वैर्मृदङ्गपणवानकान् ।

वादयद्भिर्मुदा वीणाः सूतमागधवन्दिभिः ॥ ८ ॥

पदरत्नावली

वीणा इति द्वितीया ॥ ८ ॥

सत्यधर्मीया

वीणाश्च वादयद्भिरित्यन्वयः ॥ ८ ॥

सेव्यमानोऽच्युतस्ताभिर्हसन्तीभिश्च रेचकैः ।

प्रतिषिञ्चन् विचिक्रीडे मुखरः शक्तिभिः स्वयम् ॥ ९ ॥

पदरत्नावली

रेचकैर्जलप्रक्षेपणचर्मपात्रैः । शक्तिभिर् भार्यादिभिः सह ॥ ९ ॥

सत्यधर्मीया

रेचकैश्चर्मदतिभिः । आह्वयन्तीभिर्बहु हिमं भवेदित्यग्निपात्रैश्च । ‘अगीष्टिगी’त्यपभ्रष्टभाषया । मुखरो मुख्यः स्वयं शक्तिभिः स्वभार्याभिः सह चिक्रीडे चिक्रीड ॥ ९ ॥

ताः क्लिन्नवस्त्रविवृतोरुकुचप्रदेशाः सिञ्चन्त्य उद्धृतबृहत्कबरप्रसूनाः ।

कान्तस्य रेचकजिहीर्षतयोपगूह्य जातस्मरोत्स्मयलसद्वदना विरेजुः ॥ १० ॥

पदरत्नावली

क्लिन्नान्यार्द्राणि वस्त्राणि यासां ताः । विवृता ऊरुप्रदेशा कुचप्रदेशाश्च यासां ताः । बृहन्ति कबराणि बृहत्कबराणि । उद्धृतानि उन्मुक्तानि बृहत्कबरपूरितप्रसूनानि यासां ताः । कान्तस्य कमनीयस्य कृष्णस्य चेतनजिहीर्षया चित्तवशीकरणेच्छया उप-गूह्येनोपगूहनक्रियया जातेनाविर्भूतेन स्मरोत्स्मयेनोत्कृष्टेन मन्दस्मितेन लसन्ति वदनानि यासां ताः ॥ १० ॥

सत्यधर्मीया

तत्क्रीडां क्रोडीकृत्य वक्ति– ता इति । क्लिन्नानि यानि वस्त्राणि नीवीकञ्चुकादीनि तेषामतिसूक्ष्मतया तत्राप्युदकक्लिन्नतया तेभ्यो विवृताः किञ्चिदनावृता उरवः कुचाश्च तेषां प्रदेशो भागो यासां ताः । उद्धृतानि गलिताति बृहन्ति कबराणि केशपाशास्तेभ्यः प्रसूनानि यासां ताः । सिञ्चन्त्यो दतिभिरम्भः । कान्तस्य पत्यू रेचकं दतिं जिहीर्षा तयोपगुह्यालिङ्ग्यैव । जात उद्भूतः स्मरोत्स्मयः स्मरविकास उद्रेक इति यावत् । तेन विलसन्ति वदनानि यासां ता विरेजुः शुशुभिरे । चेतनजिहीर्षयेति पाठस्तु कर्णकठोरः

॥ १० ॥

कृष्णस्तु तत्स्तनविषज्जितकुङ्कुमस्रक् क्रीडाभिसङ्गतसकुन्तलकुन्दगन्धः ।

सिञ्चन् मुहुर्युवतिभिः परिषिच्यमानो रेमे करेणुभिरिवेभपतिः परीतः ॥ ११ ॥

पदरत्नावली

तासां स्तनेभ्यो विषज्जितानि सङ्क्रान्तानि कुङ्कुमानि तत्स्तनविषज्जित-कुङ्कुमानि तैर्मिश्रा स्रग् यस्य स तथा । कुन्तलैः सह वर्तमानः सकुन्तलः । क्रीडायामतिसङ्ग-तश्चायं सकुन्तलश्च कुन्दगन्धश्च तथा कुन्दपुष्पवद् गन्धो यस्य स तथा । सिञ्चन्, जलमिति शेषः ॥ ११ ॥

सत्यधर्मीया

कृष्णस्तु कृष्णोऽपि । तासां स्तनास्तेषु विषज्जितं यत्कुङ्कुमं तेन युक्ता स्रग्यस्य सः । क्रीडायां सङ्गतश्च सकुन्तलः कुन्दगन्धो यस्य सः । कुन्दगन्धशब्दोऽयमिति नेत्वम् । स्वयं सिञ्चन्युवतिभिः परिषिच्यमानः करेणुभिरिभपतिः परितो यथा रमते तथा रेमे ॥ ११ ॥

गृहेषु तासामनिवार्य ईश्वरो निरस्तसाम्यातिशयो व्यवस्थितः ।

रेमे रमाभिर्निजसौख्यसम्प्लुतो यथेतरो गार्हकमेधिकांश्चरन् ॥ १२ ॥

पदरत्नावली

अनिवार्य इत्यस्य विवरणमीश्वर इति । रमाभी रामाभिर्लक्ष्मीसन्निधान-युक्ताभिर्वा । निजसौख्यसम्प्लुतः स्वरूपानन्दसमुद्रमग्नः । गार्हकमेधिकान् गृहस्थाश्रमयोग्यधर्मान् चरन् कुर्वन् ॥ १२ ॥

सत्यधर्मीया

तदैव देवानिवार्यत्वं विवरितुमाह । ईश्वरो निरस्तसाम्यातिशयः । साम्येति स्वार्थे ष्यञ् । निरस्तौ साम्यातिशयौ यस्मात्स इति । तासां गृहेषु व्यवस्थितो रेमे । निजसौख्य एव स्वरूपसुख एव सम्प्लुतो मग्नः । गार्हकमेधिकान्गृहमेव गृहकं तन्मेधो ह्याश्रम-स्तत्र भवा गार्हकमेधिकाः । ठगन्तः । गृहस्थाश्रमधर्मांश्चरन्नितरो यथा रामाभी रमते तथा रमाभी रेमे । सर्वत्राविष्टानाविष्टरूपेणाङ्गसङ्गयोग्या सैवेति रमाभिरित्युक्तिरिति मन्तव्यम् । निजेति जनिविपरीतं भवदजन्यतां सुखस्य ध्वनयति ॥ १२ ॥

इत्थं रमापतिमवाप्य पतिं स्त्रियस्ता ब्रह्मादयोऽपि पदवीं न विदुर्यदीयाम् ।

भेजुर्मुदाऽविरतमेधितयाऽनुरागहासावलोकनवसङ्गमलज्जयैव ॥ १३ ॥

॥ इति श्रीमद्भागवते दशमस्कन्धे चतुरधिकशततमोऽध्यायः ॥

पदरत्नावली

नवसङ्गमे या लज्जा सैव स्थिता तया अनुरागादियुक्तया ॥ १३ ॥

॥ इति श्रीमद्भागवतटीकायां विजयध्वजतीर्थकृतायां पदरत्नावल्यां दशमस्कन्धे उत्तरार्धे चतुरधिकशततमोऽध्यायः (स.धर्म.१०–१०४) ॥

दुर्घटभावदीपिका

अनुरागः स्नेहश्च हासश्चावलोकश्चानुरागहासावलोकास्तैः सहिता या नवसङ्गमलज्जया विशिष्टाः सत्य एव यदीयां पदवीं ब्रह्मादयोऽपि न भेर्जुन विदुश्च तं रमापति-मवाप्येत्थं मुदा विजह्रुरिति । एतेन यदीयामिति यच्छब्दस्यानन्वय इति शङ्काऽनवकाशः । तमित्यस्य शेषेणान्वयस्योक्तत्वात् । एतेनैव विजह्रुरिति क्रियाभावान्न्यूनतेति शङ्काऽनवकाशः । विजह्रुरित्यस्य शेष इत्यभ्युपगमात् ॥ १३ ॥

॥ इति श्रीभागवतटिप्पण्यां चतुरधिकतमोऽध्यायः ॥ १०–१०४ ॥

सत्यधर्मीया

ताः स्त्रियो यदीयां पदवीं ब्रह्मादयो न विदुस्तं रमापतिं पतिमवाप्य मुदाऽविरतमजस्त्रमेधितयाऽभिवृद्धया अनुरागजो हासोऽवलोकस्ताभ्यां सहितो यो नवो नित्य-नूतनः सङ्गमस्तज्जातलज्जा तयैवेत्थं भेजुः सिषेविरे ॥ १३ ॥

॥ इति श्रीसत्यधर्मयतिकृतायां भागवतटिप्पण्यां दशमस्कन्ध उत्तरार्धे

चतुरधिकशततमोऽध्यायः ॥ १०–१०४ ॥