उद्वापनस्नानहेतोर्यमुनातीरमागतम्
॥ अथ त्र्यधिकशततमोऽध्यायः ॥
श्रीशुक उवाच—
उद्वापनस्नानहेतोर्यमुनातीरमागतम् ।
श्रुत्वा तूर्णं कलिङ्गेशो दन्तवक्रः सहानुजः ॥ १ ॥
पदरत्नावली
हरेरवशिष्टभूभारदन्तवक्त्रविदूरथवधलक्षणं यच्चरितं तत् कथयत्यस्मिन्नध्याये । तत्र तद्घटनप्रकारमाह– उद्वापनेति ॥ उद्वापनस्नानहेतोरवभृथस्नानहेतोः ॥ १ ॥
सत्यधर्मीया
अवशिष्टभूभारनिर्हारमीरयत्यत्राध्याये । तत्रादौ स क्व क्व चायं कृष्ण इत्यतस्तत्सङ्गं भाविसङ्गरोपयोगमाह– उद्वापनेति । उद्वापनं स्नानं चावभृथस्नानं निमित्तम् । कलिङ्गो देशविशेषः । सहानुजः सविदूरथः ॥ १ ॥
महत्या सेनया युक्तो गजानीकसमन्वितः ।
गच्छन्तं द्वारकां कृष्णं पथि रोद्धुं समाययौ ॥ २ ॥
सत्यधर्मीया
गजानामनीकेन समूहेन समन्वितः । पथि मार्गे रोद्धुं निरोद्धुम् ॥२॥
सोऽभ्येत्य पथि गच्छन्तं वृतं यदुकुमारकैः ।
कान्ताषोडशसाहस्रशिबिकापरिवारितम् ॥ ३ ॥
सत्यधर्मीया
स दन्तवक्रः । प्रधानत्वादितरासां कैमुत्यसिद्धत्वादष्टोत्तरशतयोषि-त्सम्बन्धिनीनामनुक्तिरिति हृदयम् ॥ ३ ॥
राजन्यसार्थानुगतं महर्षिगणसेवितम् ।
ऋत्विक्पुरोहिताचार्यब्राह्मणैश्च समन्वितम् ॥ ४ ॥
सत्यधर्मीया
राज्ञा राज्ञ्यां जाता राजन्यास्तेषां सार्थेन समूहेनानुगतम् । सार्थशब्दो विशेषशक्तोऽपि सामान्यसमूहमात्रपरः । सार्थो हि वणिजां सङ्घ इत्यादेः ॥ ४ ॥
दन्तवक्रोऽरुणन्मूढो मृगेन्द्रं जम्बुको यथा ।
रुग्मिणः शिशुपालस्य पौण्ड्रकस्य च दुर्मतेः ।
परलोकगतानां च कुर्वन् पारोक्ष्यसौहृदम् ॥ ५ ॥
पदरत्नावली
अरुणद् रुरोध । जम्बुकः शृगालः । पारोक्ष्यसौहृदं मृतिलक्षणाप्रत्यक्ष-त्वेऽपि बन्धुना यत् कर्तव्यं सौहृदं प्रेम तत् कुर्वन् कर्तृकामः । ताच्छीलिकशतृप्रत्ययः
॥ ५ ॥
दुर्घटभावदीपिका
दन्तवक्रः परलोकगतानां पारोक्ष्यसौहृदं पारोक्ष्यमप्रत्यक्षं च तत्सौहृदं सुहृत्कार्यं च कुर्वन् । परलोकगतानामित्युक्तं विवृणोति– रुग्मिण इति ॥ दुर्मते रुग्मिणः शिशुपालस्य च पौंड्रकस्य च पारोक्ष्यसौहृदं कुर्वन्निति । एतेन परलोकगतानामित्यस्य बहुवचनान्तत्वाद् रुग्मिण इत्याद्येकवचनान्तेनानन्वय इति चोद्यं परिहृतम् । परलोकगताः के इत्याशङ्कापरिहारार्थं पारोक्ष्यसौहृदमित्यादेरावृत्त्या परलोकगतानामित्यस्य विवरणं रुग्मिण इत्यनेन क्रियत इत्यभ्युपगमात् ॥ ५ ॥
सत्यधर्मीया
जम्बुकः शृृगालो मृगेन्द्रं पञ्चास्यमरुणद्रुरोध । किमकारणिकी रण-रणिकता तस्य हरिणेत्यतो हेतुमाह– रुग्मिण इति । रुग्मीत्येवमादीनां परलोकगतानां पारोक्ष्यसौहृदं कुर्वन् । प्रेतप्रीतिमभिप्रेत्यायात इति भावः ॥ ५ ॥
पदातिः पथि संरोद्धुं गदापाणिः प्रकम्पयन् ।
पद्भ्यां महीं महाराज महासत्वो व्यदृश्यत ॥ ६ ॥
सत्यधर्मीया
पदातिः । गतम् । पद्भ्यां महीं प्रकम्पयन्महासत्त्वो महाबलो व्यदृश्यत
॥ ६ ॥
तं तथाऽऽयान्तमालोक्य गदामादाय सत्वरः ।
अवप्लुत्य रथात् कृष्णः सिन्धुं वेलेव प्रत्यगात् ॥ ७ ॥
पदरत्नावली
वेला जलवृद्धिः सिन्धुं नदीम् ॥ ७ ॥
सत्यधर्मीया
स्वयं गदामादाय रथादवप्लुत्य । अरिणा पदाऽऽगच्छता मुरारिणाऽपि धर्मप्रवर्तकेन तथा स्वयंभाव्यमित्येतदुक्तिः । वेलेवेति वः प्रपरे लघुत्वं लक्षणप्राप्तं भजंस्तल्लघूकरणमसूचयदिति ज्ञेयम् । प्रहरति पिङ्गलनागसूत्रात् ॥ ७ ॥
गदामुद्यम्य कालिङ्गो मुकुन्दं प्राह दुर्मदः ।
दिष्ट्या कृष्ण भवानद्य मम दृष्टिपथं गतः ॥ ८ ॥
सत्यधर्मीया
कालिङ्गः कलिङ्गदेशेशः । दिष्ट्या सुखं यथा तथा ॥ ८ ॥
त्वामद्य द्वन्द्वयुद्धेन हनिष्याम्यविलम्बितम् ।
त्वं मातुलेयो नः कृष्ण मित्रध्रुक् पारदारिकः ।
विश्वासघाती बन्धुघ्नः सततं कलहप्रियः ॥ ९ ॥
पदरत्नावली
मातुलो वसुदेवस्तत्पुत्रः । पारदारिकः परस्त्रीरतिसमुत्सुकः ॥ ९ ॥
सत्यधर्मीया
अविलम्बितमनालस्यं यथा तथा । मातुलेयो मातुलपुत्रः । शुभ्रादि-ढक् । मित्रेभ्यो द्रुह्यति सः । पारदारिकः परदारसक्तो, बन्धून्हन्तीति सः ॥ ९ ॥
पौण्ड्रकं मातुलेयं मे सङ्खे सूदितवानसि ।
रुग्मी च शिशुपालश्च भ्रातरौ मे त्वया हतौ ॥ १० ॥
पदरत्नावली
भ्रातरौ मातृसोदरीपुत्रत्वेन ॥ १० ॥
सत्यधर्मीया
बन्धुध्वंसं शंसति । पौण्ड्रकं मे मातुलेयं, मे भ्रातरौ मातृसहोदरी-पुत्रौ । भारते चोक्तिव्यत्यस्तिः । राजसूयात्पूर्वमेतद्यशोक्तिर्जिताः समस्तभूभृतो जरासुतादयः क्षणात् । वृकोदरादिभिर्हतैर्हयैश्च दिव्य आययाविति । तन्निर्णये अत्र च शिशुपालादि-वधानन्तरं दन्तवक्रादिकथाकथनमित्येवमादिरूपिणा क्वचिन्मूलकोशे पूर्वमेतद्ग्रन्थ इति सावोपोद्वापतो वा कल्पभेदेन वाऽनुसमाधेया । केचित्तु तथैव धृत्वा व्याचक्रुः ॥ १० ॥
अतस्त्वां गदया मन्द हनिष्ये वज्रकल्पया ।
तेनानृण्यमुपैम्यज्ञ मित्राणां मित्रवत्सलः ॥ ११ ॥
पदरत्नावली
आनृण्यम् ऋणाभावम् ॥ ११ ॥
सत्यधर्मीया
वज्रकल्पया वज्रः कल्प ईषन्न्यूनो यया सा तया । तेन त्वद्धातेना-नृण्यमनृणतामुपैमि गच्छामि ॥ ११ ॥
बन्धुरूपमरिं हन्याद् व्याधिं देहचरं यथा ।
इति लोकप्रवादोऽस्ति तेन दोषोऽपि नास्ति मे ॥ १२ ॥
पदरत्नावली
देहचरं देहगतम् ॥ १२ ॥
सत्यधर्मीया
बन्धुध्वंसकतां मय्युपन्यस्य त्वं कथं न पश्यसि । पश्यसि परदोषा-नात्मदोषं न पश्यसीत्याभाणकसरणिमासादयति मां सूदयित्वेति परिहरन्निवाह– बन्धुरूपमिति । देहचरं व्याधिं यथा तथा बन्धुरूपमरिं त्वां घातयतो मम दोषो नास्ति । लोकप्रवादः, आमयः शरीरभव इति नोपेक्षणीय इत्येवञ्जातीयकस्तद्वत्सम्बन्ध्यपि त्वं नोपेक्ष्यः ॥ १२ ॥
एवं रूक्षैश्च वचनैः कृष्णं तोत्रैरिव द्विपम् ।
गदयाऽताडयत् कृष्णं सिंहवद् व्यनदच्च सः ॥ १३ ॥
पदरत्नावली
रुक्षैर्वचनैः, व्यथयित्वेति शेषः ॥ १३ ॥
सत्यधर्मीया
एवं रूक्षैः क्रूरैर्वचनैर्द्विपं तोत्रैरिव तोदयित्वा । गदया कृष्णमयः-सारवदविकारं कृष्णं देवकीसुतमताडयत् । कृष्णं मरीचिलोहयोरिति विश्वः । अतो न कृष्णपदातिरेकः । सिंहवद्व्यनदच्च ॥ १३ ॥
गदयाऽभिहतोऽप्याजौ न चचाल यदूत्तमः ।
गदया व्यहनद् गुर्व्या कौमोदक्या स्तनान्तरे ॥ १४ ॥
सत्यधर्मीया
न चचाल नाकम्पत । इतःपरमान्तरे स्तन ध्वनिं कुर्वित्यमुं गुर्व्या गदया स्तनान्तरे स्तनयोर्मध्ये वक्षसीति यावत् । व्यहनदहन् ॥ १४ ॥
गाढनिर्भिन्नहृदय उद्वमन् रुधिरं मुखात् ।
प्रसार्य केशबाह्वङ्घ्रिं गतासुर्व्यपतद् भुवि ॥ १५ ॥
सत्यधर्मीया
केशबाव्हङ्घ्रीन् । प्राण्यङ्गत्वादेकवद्भावः । प्रसार्य भुवि व्यसुरपतत् ॥१५॥
ततः सूक्ष्मतरं ज्योतिः कृष्णमाविशदुद्धतम् ।
पश्यतां सर्वभूतानां यथा चैद्यस्य सङ्गरे ॥ १६ ॥
पदरत्नावली
दन्तवक्त्रगतासुरः कृष्णं ध्वान्तापरपर्यायं तमोऽविशत् । अन्यस्तु द्वारपालः कृष्णमुत्कृष्टानन्दरूपश्रीहरिम् ॥ १६ ॥
सत्यधर्मीया
ततो दन्तवक्रदेहात्सूक्ष्मतरं ज्योतिरुद्धृतं विजयांशः सर्वभूतानां पश्यतां सतां सङ्गरे यथा तथा कृष्णमाविशत् ॥ १६ ॥
भ्रातरं निहतं दृष्ट्वा दन्तवक्रं विडूरथः१ ।
मूर्च्छितो भ्रातृशोकेनाप्यसिचर्म समाददे ॥ १७ ॥
पदरत्नावली
असियुक्तं चर्म ॥ १७ ॥
सत्यधर्मीया
भ्रातरं दन्तवक्रं विदूरथो विडूरथो वा न नामकरणसमयवर्तिनो वयमिति द्वावपि पाठौ सम्भवतः । असिना सहितं च तच्चर्म च प्राण्यङ्गत्वादेकवद्भावो वा ॥ १७ ॥
सोऽवप्लुत्य रथात् तूर्णं विधुन्वन् खड्गमुत्तमम् ।
अभिदुद्राव गोविन्दं पद्भ्यामुर्वीं प्रकम्पयन् ॥ १८ ॥
सत्यधर्मीया
विधुन्वन्कम्पयन् ॥ १८ ॥
तस्य बाणेन चिच्छेद खड्गं यादवनन्दनः ।
ततो जग्राह निशितां१ शक्तिं घोरां विडूरथः ॥ १९ ॥
सत्यधर्मीया
निशितमिति पाठे खड्गविशेषणम् । निशतामिति पाठे शक्ति-विशेषणमिति ज्ञेयम् ॥ १९ ॥
तया प्रहर्तुं गोविन्दमभिनिश्चित्य सङ्गरे ।
क्षणेनाभिससाराज्ञश्चापमुक्तो यथा शरः ॥ २० ॥
सत्यधर्मीया
अभिनिश्चित्य मनसि ॥ २० ॥
तस्य चापततः कृष्णश्चक्रेण क्षुरनेमिना ।
शिरो जहार राजेन्द्र सकिरीटं सकुण्डलम् ॥ २१ ॥
सत्यधर्मीया
आपततस्तस्य विदूरथस्य क्षुरा नेमयो धारा यस्य तेन ॥ २१ ॥
एवं निहत्य समरे दन्तवक्रविडूरथौ ।
कालयामास तत्सैन्यं जगृहे वारणादिकम् ॥ २२ ॥
पदरत्नावली
कालयामास द्रावयामास । वारणादिकमित्यत्र गजाश्वरथादिकं गृह्यते
॥ २२ ॥
सत्यधर्मीया
तत्सैन्यं दन्तवक्रसेनाम् । कालयामास सञ्जहार । वारणादिकं गजादिकं जगृहे ॥ २२ ॥
भूयः पुष्परथं दिव्यमारुह्य समलङ्कृतम् ।
सहितः सात्वतगणैरीडितः सुरमानुषैः ॥ २३ ॥
पदरत्नावली
पुष्परथं विवाहयोग्यरथम् ॥ २३ ॥
सत्यधर्मीया
पुष्परथं सुरवृष्टपुष्पयुक्तं स्वरथम् । अश्वमेधादिविधानानन्तरमधिष्ठातुं योग्यो रथविशेषः पुष्परथस्तमिति वेति केचित् ॥ २३ ॥
मुनिभिः सिद्धगन्धर्वैर्विद्याधरमहोरगैः ।
अप्सरोभिः पितृगणैर्यक्षकिन्नरचारणैः ॥ २४ ॥
सत्यधर्मीया
यथाऽप्सरोभिस्तथा किन्नरचारणैरित्यन्वयः ॥ २४ ॥
उपगीयमानविजयः कुसुमैरभिवर्षितः ।
वृतश्च वृष्णिप्रवरैर्विवेशालङ्कृतं पुरम् ॥ २५ ॥
सत्यधर्मीया
कुसुमैर्देवैः ॥ २५ ॥
एवं योगेश्वरः कृष्णो भगवान् देवकीसुतः ।
ईयते पशुदृष्टीनां जीयते जयतीति सः ॥ २६ ॥
पदरत्नावली
पशुदृष्टीनामज्ञजनबुद्धीनां पक्षे जीयते जयतीति ईयते ज्ञायते ॥ २६ ॥
दुर्घटभावदीपिका
योगेश्वरो भगवान्देवकीसुतः कृष्ण एवं पूर्वोक्तरीत्या सर्वदा जयतीति हेतोः कृष्णः कदाचिच्छत्रुभिर्जीयत इति पशुदृष्टीनां पशुदृष्टिभिः पशुसमानजनदृष्टिभिरीयते ज्ञायत इति । एतेन कृष्णो जयतीत्यनेन पूर्णत्वादीयत इत्यादिकं व्यर्थमिति चोद्यस्यानवकाशः । कृष्णस्य सर्वदा जय एव पराजयः कदाऽपि नास्ति । कृष्णस्यापि कदाचित्पराजयोऽस्तीति यो जानाति स भ्रान्त इति वक्तुमीयत इत्यादिकं सार्थकमित्यभ्युपगमात् ॥ २६ ॥
॥ इति श्रीभागवतटिप्पण्यां त्र्यधिकशततमोऽध्यायः ॥ १०–१०३ ॥
सत्यधर्मीया
पशूनामिव दृष्टिर्ज्ञानं येषां ते तेषां तैर्जीयते पराजितो जयति । वर्तमानकालिकजयाश्रय इतीयते ज्ञायते । परपराजितताज्ञानवत्सदा जयिनो वर्तमानकालिक-जयवत्ताज्ञानमप्यन्यथाज्ञानमिति पशुदृष्टीनामित्युक्तिः ॥ २६ ॥
तस्य कर्माण्युदाराणि पुण्यश्लोकस्य भारत ।
शक्यन्ते कथितुं नैव वर्षाणामयुतैरपि ॥ २७ ॥
पदरत्नावली
ब्रह्माद्यन्यतमेनापि तत्कर्म समाप्तिं कर्तुं न शक्यते किं पुनर्मयेति भावेनाह– तस्येति ॥ २७ ॥
सत्यधर्मीया
साकल्येन वक्तुं न शक्यानि श्रीहरिचरितानीतीरयति– तस्येति । उदाराणि महान्ति । उदारो दातृमहतेरिति च । वर्षाणामयुतैरनन्तैः ॥ २७ ॥
एवमारभ्य राक्षस्याः पूतनायाः परन्तप ।
भूभारभूतानसुरान् जघान मधुसूदनः ॥ २८ ॥
॥ इति श्रीमद्भागवते दशमस्कन्धे त्र्यधिकशततमोऽध्यायः ॥
पदरत्नावली
स्कन्धमारभ्य यद् दैत्यहननं तदादित उपसंहरति– एवमिति ॥२८॥
॥ इति श्रीमद्भागवतटीकायां विजयध्वजतीर्थकृतायां पदरत्नावल्यां दशमस्कन्धे उत्तरार्धे त्र्यधिकशततमोऽध्यायः (स.धर्म.१०–१०३) ॥
सत्यधर्मीया
राक्षस्याः पूतनाया एवं हननमारभ्य भूभारभूतानसुराञ्जघान ॥ २८ ॥
**॥ इति श्रीसत्यधर्मयतिकृतायां भागवतटिप्पण्यां दशमस्कन्ध उत्तरार्धे **
त्र्यधिकशततमोऽध्यायः ॥ १०–१०३ ॥