कदाचिद् वाजिमेधेन यष्टुमुद्यम्य केशवः
॥ अथ द्व्यधिकशततमोऽध्यायः ॥
श्रीशुक उवाच—
कदाचिद् वाजिमेधेन यष्टुमुद्यम्य केशवः ।
महीं प्रदक्षिणीकर्तुं प्राहिणोत् प्रोक्षितं हयम् ॥ १ ॥
पदरत्नावली
लोकसङ्ग्रहायाश्वमेधयज्ञकरणमन्यासाध्यमृतपुत्रानयनमाहात्म्यं च निरूपय-त्यस्मिन्नध्याये । तत्रादौ हयस्य प्रदक्षिणाप्रकारं वक्ति– कदाचिदिति ॥ उद्यमम् उद्योगं विधाय
॥ १ ॥
सत्यधर्मीया
लोकेशो लोकमनुकुर्वन्निव वाजिमेधं चकार तथा मृतद्विजप्रजा आनि-नायेति माहात्म्यं हरेर्निरूप्यतेऽत्राध्याये । तत्रादौ वाज्युत्सर्जनप्रकारमीरयति– कदाचिदिति । यष्टुमुद्यम्य प्रोक्षितं मन्त्रस्नातम् ॥ १ ॥
हार्दिक्यं कृतवर्माणं युयुधानं च सात्यकिम् ।
चारुदेष्णं सुदेष्णं च प्रद्युम्नं साम्बमेव च ॥ २ ॥
दुर्घटभावदीपिका
साम्बमेवेत्यस्य स्वयमेव समर्थं सांबं चेत्यर्थः । एतेन एवकारो व्यर्थ इति दूषणं परास्तम् । सांबस्य तुरङ्गस्य रक्षणार्थमन्यापेक्षा नास्तीति ज्ञापयितुं स्वय-मित्यादेः शेषेण स्वयमिव समर्थमिति वक्तुमेवेत्युक्तमित्यभ्युपगमात् । स्वयमेव समर्थमिति विशेषणं प्रद्युम्नादिष्वपि ज्ञातव्यम् ॥ २ ॥
सत्यधर्मीया
हार्दिक्यं कृतवर्माणम् । कृतवर्मा कश्चित्स्यादित्यतो हार्दिक्यमिति । हृदिकपुत्रोऽन्यः कश्चिदिति भ्रमभ्रंशने कृतवर्मेति ज्ञेयम् । एवं युयुधानं सात्यकिं च । हयं सभीमफल्गुना इत्युक्तेर्भीमार्जुनसहिताः प्रद्युम्नाद्या आगता इति ज्ञेयम् । भगवद्रथाद्विनाऽस्य पादमात्रतः प्रत्यागमनं च ज्ञेयम् । हरे रथं समाश्रिताः, दिनस्य पादमात्रत इत्युक्तेः ॥२॥
अंशुमन्तं सुभानुं च बहुसैन्यांश्च यादवान् ।
रक्षणार्थं तुरङ्गस्य प्राहिणोद् यदुनन्दनः ॥ ३ ॥
ते वै प्रदक्षिणं कृत्वा वसुधां प्रोक्षितं हयम् ।
उपानिन्युरदीर्घेण कालेन भरतर्षभ ॥ ४ ॥
पदरत्नावली
बहवः सैन्याः सेनानायका येषां ते तता तान् । यदून् नन्दयतीति यदुनन्दनः ॥ ३ ॥
सत्यधर्मीया
बहवः सैन्याः सेनासमवेता येषां ते तान् । बहवश्च ते सैन्याश्चेति तान्वा । यादवानपरांस्तुरङ्गस्य तुरगस्य । कृत्वा कारयित्वा । कृत्वा विवाहं तु कुरुप्रवीरा इत्यादिवदिति तात्पर्यान्तरोक्तेः । अदीर्घेणाल्पेन ॥ ३,४ ॥
यष्टुकामं हरिं श्रुत्वा हयमेधेन भारत ।
आजग्मुर्दीर्घतपसो मुनयः संशितव्रताः ॥ ५ ॥
पदरत्नावली
हयमेधेनाश्वमेधेन । दीर्घकालं तपो येषां ते तथा ॥ ५ ॥
सत्यधर्मीया
यष्टुकामम् । तुं काममनसोरित्यादेस् तुंलोपः । पूजयितुमिच्छन्तम् ॥५॥
होतारं च तथाऽध्वर्युमुद्गातारं च केशवः ।
कल्पयित्वा यथान्यायं तथाऽन्यानपि ऋत्विजः ॥ ६ ॥
सत्यधर्मीया
यथान्यायं न्यायमनतिक्रम्य तत्तद्योग्यतानुसारेणेति यावत् । अपि ऋत्विज ऋत्यक इति प्रकृतिभावः ॥ ६ ॥
ऋषिभिर्ब्राह्मणश्रेष्ठैर्यज्ञविद्याविचक्षणैः ।
दीक्षां प्रपेदे भगवान् कृतपुण्याहमङ्गलः ॥ ७ ॥
दुर्घटभावदीपिका
कृतपुण्याहमङ्गल इत्यस्य कृतं पुण्याहवाचनलक्षणमङ्गलं येन स तथोक्त इत्यर्थः । एतेन कृतपुण्याहवाचनमङ्गल इति वक्तव्यम् । कृतपुण्याहमङ्गल इति कथन-मयुक्तमिति दूषणं प्रत्युक्तम् । पुण्याहशब्देन पुण्याहवाचनस्य ग्रहणात् ॥ ७ ॥
सत्यधर्मीया
यज्ञविद्या तज्ज्ञानं विचक्षणैः कुशलैः । विद्यैव तु निर्धारणात् । विद्याशब्दस्य ज्ञानतत्साधनयोर्योगरूढिभ्यां प्रवृत्तत्वादित्यादेः । यज्ञ इत्थं कर्तव्य इति शास्त्रं तत्र विचक्षणैरिति वा । कृतपुण्याहमङ्गलो भगवान्दीक्षां प्रपेदे ॥ ७ ॥
तमुपास्तुं महीपाला नानाजनपदेश्वराः ।
आजग्मुर्देवसङ्काशाः किरीटमुकुटोज्वलाः ॥ ८ ॥
पदरत्नावली
उपास्तुं निषेवितुम् । किरीटैर्मुकुटैः सुवर्णैश्चोज्वलाः ॥ ८ ॥
दुर्घटभावदीपिका
किरीटमुकटोज्वला इत्यस्य किरीटशिरोवेष्टनादीत्यर्थः । एतेन किरीटमुकुटेति पुनरुक्तमिति दूषणं पराकृतम् । मुकुटशब्देन किरीटस्य ग्रहणात् ॥ ८ ॥
सत्यधर्मीया
उपास्तुमुपासितुम् । किरीटमुकुटैः किरीटश्रेष्ठैः । देवमुकुट इतिवत् । उज्वलः । कृविक्षेपे कीटन् । मकि मण्डने । बाहुलकादुटः । आगमशासनस्य नित्यत्वान्न नुम् । द्युकारपाठे बाहुलकाद्धातोरत उः । मुकुटेति तदा ज्ञेयम् ॥ ८ ॥
पाण्डवाश्च महीपाला यज्ञदर्शनमिच्छवः ।
आहूता वासुदेवेन द्वारकामाययुर्नृप ॥ ९ ॥
सत्यधर्मीया
महीपाला इति कृष्णप्रत्ततत्वका इति ध्वनयति ॥ ९ ॥
तस्मिंस्तथा वर्तमाने हयमेधे महोत्सवे१ ।
आसंस्तृप्ता द्विजा भोज्यवस्त्रगोभूमिकाञ्चनैः ॥ १० ॥
सत्यधर्मीया
हयमेधमहोत्सव इत्यखण्डः पाठोऽखण्डमहोत्सवदः । महानुत्सवो यस्म्•िस्तस्मिन्हयमेध इति योजना व्यासपक्षेऽवसेया । द्विजा वस्त्रगोभूमिकाञ्चनैस्तृप्ता आसन्
॥ १० ॥
दीक्षां प्रविश्य गोविन्दः कामैस्तर्पयति द्विजान् ।
भुञ्जानेषु द्विजाग््रयेषु प्रत्यगृह्णात् सुवाञ्छितम् ॥ ११ ॥
सत्यधर्मीया
कामैस्तत्तदपेक्षितैः ॥ ११ ॥
आसीनेषु यथायोगं भूपालेषु समन्ततः ।
वदत्सु मा शब्द इति वेत्रझर्झरपाणिषु ॥ १२ ॥
पदरत्नावली
वेत्रेण झर्झराः कर्कशाः पाणयो येषां ते तथा तेषु ॥ १२ ॥
सत्यधर्मीया
यथायोगं यथाश्रीकृष्णनियोगम् । वैत्रैर्झर्झराः कर्कशाः पाणयो येषां तेषु शब्दो मेति वदत्सु सत्सु ॥ १२ ॥
तृणपूलधरः कश्चिद् ब्राह्मणोऽभ्येत्य सत्वरः ।
चुक्रोश आर्त उद्बाहुर्यज्ञवाटमुखे स्थितः ॥ १३ ॥
पदरत्नावली
तृणमूलधरस् तृणानां मूलं चूडां धारयतीति, तृणमूलं यष्टिं च धारयतीति वा ॥ १३–१५ ॥
सत्यधर्मीया
तृणपूलस्य तृणचूडाया धरतीति धरस्तृणपिण्डस्येति वा । पञ्चपूली-त्यादेः । उद्बाहुरूर्ध्वीकृतदोर्दण्डोऽभ्येत्य यज्ञवाटमुखे स्थितः सञ्चुक्रोश रुरोद ॥ १३ ॥
क्षुत्क्षामकण्ठः शुष्कास्यो गलद्बाष्पाकुलेक्षणः ।
इदं चोवाच विलपन्नातुरो दीनमानसः ॥ १४ ॥
सत्यधर्मीया
क्षुत्क्ष•मः कण्ठो यस्य स, शुष्कास्यो, गलद्बाष्पाकुले ईक्षणे यस्य सः
॥ १४ ॥
ब्रह्मद्विषः शठधियो लुब्धस्य विषयात्मनः ।
क्षत्रबन्धोः कर्मदोषात् पञ्चत्वं मे गताः सुताः ॥ १५ ॥
सत्यधर्मीया
ब्रह्मभ्यो द्वेष्टीति स तस्य । विषयेष्वेवात्मा यस्य तस्य । शठधियो लुब्धस्य क्षत्रबन्धोस्तदाभासस्य कर्मदोषान्मे सुताः पञ्चत्वं मृतिं गताः ॥ १५ ॥
हिंसाविहारं नृपतिं दुःशीलमजितेन्द्रियम् ।
प्रजा भजन्त्यः सीदन्ति दरिद्रा नित्यदुःखिताः ॥ १६ ॥
पदरत्नावली
हिंसाविहारादिकर्मयुक्तं नृपतिं भजन्त्यः सीदन्ति ॥ १६ ॥
दुर्घटभावदीपिका
सीदन्तीत्यस्य सीदन्तीत्यर्थः । एतेन सीदन्तीत्येतन्नित्यदुःखिता इत्यनेन पुनरुक्तमिति दूषणं परास्तम् । नित्यदुःखिता इत्यनेनैहिकदुःखमुच्यते । सीदन्तीत्यनेन पारत्रिकदुःखमुच्यते इत्यभ्युपगमात् ॥ १६ ॥
सत्यधर्मीया
सर्वं सर्वंसहामहीयसि पर्यवसाययति– हिंसाविहारमिति । दुःशीलम-जितेन्द्रियं नृपतिं भजन्त्यः प्रजा नित्यदुःखिता दरिद्राः सीदन्ति ॥ १६ ॥
एवं द्वितीयं विप्रर्षिस्तृतीयं त्वेवमेव च ।
इत्युक्त्वा स पुनश्चैव चुक्रोश भृशदुःखितः ॥ १७ ॥
पदरत्नावली
द्वितीयं द्विवारं तृतीयं त्रिवारं पुनश् चतुर्वारम् ॥ १७ ॥
दुर्घटभावदीपिका
स विप्रर्षिरेवमेकं वाक्यमुक्त्वैवमेव द्वितीयं वाक्यं चोक्त्वेत्येवमेव तृतीयं वाक्यं चोक्त्वा भृशदुःखितः सन् पुनः पुनस्तु विशषेण चुक्रोशेति । एतेन त्रिवारं वाक्य-मुक्त्वेति वक्तव्यम् । द्वितीयमित्यादि कथनमनुपपन्नमिति चोद्यस्यानवकाशः । एवमित्यतः परमेकं वाक्यमित्यस्य शेषं कृत्वोक्त्वेत्यस्य चावृत्तिं कृत्वैवमेकं वाक्यमुक्त्वा द्वितीयं वाक्य-मुक्त्वा तृतीयं वाक्यमुक्त्वेत्यर्थ उच्यत इति स्वीकृत्य तस्य त्रिवारमुक्त्वेति तात्पर्यार्थ इति स्वीकरणात् । एतेनैव पुनः पुनश्चुक्रोशेति कथनमयुक्तमिति दूषणं निरस्तम् । पुनरित्यस्या-वृत्तिरित्यभ्युपगमात् ॥ १७ ॥
सत्यधर्मीया
द्वितीयं द्वितीयवारं तथा तृतीयमित्युक्त्वा स विप्रः भृशदुःखितः सञ्चुक्रोश ॥ १७ ॥
तदाकर्ण्यार्जुनो मानी समुत्थाय वरासनात् ।
अपृच्छत् स्वयमासाद्य ब्राह्मणं केशवान्तिकात् ॥ १८ ॥
सत्यधर्मीया
तद्विप्रक्रोशनम् । सत्सु श्रुतवत्सु बहुष्वेतस्यैव किमुत्थानमित्यत आह– मानीति । स्वयं केशवान्तिकाद्ब्राह्मणमासाद्यापृच्छत् ॥ १८ ॥
किमासन्नर्भका ब्रह्मंस्तव केनासि दुःखितः ।
ब्रूहि तत्वमशेषेण त्वामद्य सुखयाम्यहम् ॥ १९ ॥
सत्यधर्मीया
तेऽर्भकाः किमासन् केन हेतुना वा केन पुंसा वा दुःखितोऽसि । तत्त्वं यथार्थं यथा तथाऽशेषेण ब्रूहि । त्वामहमद्य सुखयामि ॥ १९ ॥
इत्युक्तो ब्राह्मणः प्राह जातो जातोऽर्भको मम ।
नीयते तात केनापि तत्क्षणे सूतिकागृहात् ॥ २० ॥
पदरत्नावली
केनापि पुंसा नीयते ॥ २० ॥
सत्यधर्मीया
हे तात । मम जातो जातोऽर्भकः सूतिकागृहात्केनचिददृश्येन नीयते । अनेके तोकास्ते सर्वे नीता इति द्योतयति वीप्सा ॥ २० ॥
तदाकर्ण्यार्जुनः प्राह स्मयमान इव द्विजम् ।
किं ब्राह्मण त्वन्निवासे इह नास्ति धनुर्धरः ॥ २१ ॥
पदरत्नावली
किमाहेत्यत्राह– किं ब्राह्मणेति ॥ इह त्वन्निवासे धनुर्धरो नास्ति किमित्यब्रवीत् ॥ २१ ॥
दुर्घटभावदीपिका
अर्जुनस्तद्द्विजवाक्यमाकर्ण्य स्मयमानः । इवशब्दोऽल्पार्थे । ईषद्धासविशिष्टः सन् द्विजं प्रति प्राह । हे ब्राह्मण । त्वं किं किमर्थं निवासे नितरां शब्दं करोषि । इह धनुर्धरो नास्तीति । अत्र धनुर्धरोऽस्ति चेत्त्वन्निवासनं सार्थकं स्यात् । अत्र धनुर्धरो नास्तीत्यतस्त्वन्निवासनं व्यर्थमिति भावः । एतेन त्वन्निवासे धनुर्धरो नास्ति किमित्य-नेनैव पूर्णत्वान्निवास इत्येतद्व्यर्थमिति दूषणं प्रत्युक्तम् । निपूर्वकत्वाद् वसशब्द इत्यस्मादुत्पन्ने निवासे इति रूपे शब्विकरणसहितसकारलोपे निवास इति रूपं जातं त्वमिति भिन्नमित्य-भ्युपेत्य त्वं किमर्थं निवासे इह धनुर्धरो नास्तीत्यर्थं स्वीकृत्य त्वन्निवासस्थाने धनुर्धरो नास्ति किमित्यर्थस्यानङ्गीकारात् ॥ २१ ॥
सत्यधर्मीया
इह त्वन्निवासे तद्वासस्थाने धनुर्धरः किन्नास्ति । वर्तेत चेदेवं न भवेदिति भावः ॥ २१ ॥
राजन्यबन्धोरेते वै ब्राह्मणाः सत्रमासते ॥ २२ ॥
पदरत्नावली
धनुर्धरेण किं कार्यम् ? अत्राह– राजन्यबन्धोरिति ॥ एते ब्राह्मणा राजन्यबन्धोर्हेतोः सत्रमासते ॥ २२ ॥
सत्यधर्मीया
धनुर्धरकृत्यं विप्रपरित्राणमित्यर्थादाह– राजन्यबन्धोरिति । एते ब्राह्मणाः सत्रमासत उपासते राजन्यबन्धोर्हेतोरतस्तेन तद्रक्षणं कार्यम् ॥ २२ ॥
धनदारात्मजैर्भृत्या यत्र शोचन्ति ब्राह्मणाः ।
ते वै राजन्यवेषेण नटा जीवन्त्यसुम्भराः ॥ २३ ॥
पदरत्नावली
राजापि स एव श्रेयानितरो दुःखहेतुरित्याह– धनदारेति ॥ यत्र यस्मिन् देशे राजन्यवेषेणासुम्भरा नटा जीवन्ति तस्मिन् देशे स्थितास्ते भृत्या राज्ञा भरणीया ब्राह्मणा धनदारात्मजैर् नटा एव जीवन्ति न तु सद्वंश्याः । कुतः ? असुम्भराः स्वप्राणपोषणपरायणा वैर् यस्मात् तस्मात् ॥ २३ ॥
सत्यधर्मीया
ते यदि तदरक्षितास्तर्हि ते न राजानस्तदपदेशा एत इत्याह– धनेति । धनदारात्मजैर्भृत्या धनं दत्वा दारान्कारयित्वाऽन्नैरात्मजैः सह भृत्या भरणीयाः पोष्याः । सत्येवं यत्र यद्राज्ये ब्राह्मणाः शोचन्ति त्वद्वत्ते राजन्यवेषेण नटा असुम्भराः स्वप्राणमात्रपोषका जीवन्ति ॥ २३ ॥
अहं प्रजा वै रक्षिष्ये भगवन् दीनयोरिह ।
अनिस्तीर्णप्रतिज्ञोऽग्निं प्रवेक्ष्येऽहतकल्मषः ॥ २४ ॥
पदरत्नावली
दीनयोर्युवयोः । अहतकल्मषः मिथ्याप्रतिज्ञत्वात् ॥ २४ ॥
दुर्घटभावदीपिका
अहं निस्तीर्णप्रतिज्ञश्चेदग्निं प्रवेक्ष्येऽग्निप्रवेशेन हतकल्मषो भविष्या-मीति । एतेन प्रवेक्ष्ये हतकल्मष इत्यत्र किमहतकल्मषो हतकल्मषो वा । नाद्यः । अग्निं प्रवेक्ष्य इति वक्तव्यत्वेनाहतकल्मष इत्युक्तेरयोगात् । न द्वितीयः । प्रतिज्ञानिस्तरणाभावेन कल्मषस्य प्राप्तत्वात्कल्मषेनाऽग्निं प्रवेक्ष्य इत्युक्तेरयोगात् । हतकल्मषत्वेऽग्निप्रवेशायोगाच्चेति दूषणं परास्तम् । प्रवेक्ष्ये हतकल्मष इत्यत्र हतकल्मष इति पदच्छेदं हतकल्मष इत्यतः पूर्वमग्निप्रवेशेनेत्यस्य शेषं हतकल्मष इत्यतः परं भविष्यामीत्यस्य शेषं च स्वीकृत्याग्नि-प्रवेशेन हतः प्रतिज्ञानिस्तरणाभावनिमित्तको यः कल्मषस्तद्वान् भविष्यामीत्यर्थ उच्यत इत्यङ्गीकारात्
॥ २४ ॥
सत्यधर्मीया
दीनयोर्वां दम्पत्योः । शपथेन विश्वासं जनयन्नाह– अनिस्तीर्णप्रतिज्ञ इति । अग्निं प्रवेक्ष्ये । अहतकल्मषो वन्ध्यप्रतिज्ञता तमःपातकस्तत्पातकघातार्थमग्निपातं करिष्य इति भावः ॥ २४ ॥
ब्राह्मण उवाच—
सङ्कर्षणो वासुदेवः प्रद्युम्नो धन्विनां वरः ।
अनिरुद्धोऽप्रतिरथो न त्रातुं शक्नुवन्ति यत् ॥ २५ ॥
पदरत्नावली
तत्रार्जुनस्याहङ्काराविष्करणाय ब्राह्मणो वक्ति– सङ्कर्षण इति ॥ सङ्कर्षणा-दयस्त्रातुं न शक्नुवन्ति यद् यस्माज्जगदीश्वरैर्दुष्करं कर्म कथं चिकीर्षति? ॥ २५ ॥
दुर्घटभावदीपिका
यद्यस्मात्कारणात्सङ्कर्षणादयो बालं त्रातुं न शक्नुवन्ति तस्मा-द्बालत्राणं तवाशक्यमिति । एतेन सङ्कर्षण इति श्लोकोऽनन्वित इति दूषणं परास्तम् । बालत्राणं तवाशक्यमिति शेषेणान्वयस्योक्तत्वात् ॥ २५ ॥
सत्यधर्मीया
पुनः कृतप्रतिज्ञां द्रढयितुं विप्रो वक्ति– ब्राह्मण इति । सङ्कर्षणा-दयस्त्रातुं न शक्नुवन्तीत्युक्तिस्तु नावादीत्तान्प्रति न ते त्राणा इति परीक्षां च चक्रे । अर्जुन-मनःपरीक्षार्थं तथाऽचकथद्द्विज इति ज्ञेयम् । तदागतेरिदं प्रथमताप्रथितेः । यद्यतो यत्र वा
॥ २५ ॥
तत् कथं नु भवान् कर्म दुष्करं जगदीश्वरैः ।
चिकीर्षतीह बालिश्यात् तन्न श्रद्दध्महे वयम् ॥ २६ ॥
पदरत्नावली
‘बालिशो बालमूर्खयोः’ इति वचनाद् बालिश्याद् आत्मशक्त्यनभिज्ञानाद् इह कर्मणि तव वाक्यं न श्रद्दध्महे ॥ २६ ॥
दुर्घटभावदीपिका
सङ्कर्षणो वासुदेव इत्यनेनोक्तं विवृण्वन्विवक्षितमर्थमाह ॥ तत्कथमिति । यत्कर्म जगदीश्वरैर् दुष्करं कर्तुमशक्यं तत्कर्म भवान्विवेकाच्चिकीर्षतीति कथं स्यात् । न कथमपि । किन्तु बालस्य चिकीर्षतीति नु निश्चितम् । तत्तस्मात्कारणादिह तत्कार्यविषये वयं न श्रद्दध्मह इति । एतेन सङ्कर्षणो वासुदेव इत्यनेनोक्तजगदीश्वरैर्दुष्करमित्यनेनोच्यतेऽतः पुनरुक्तिरिति चोद्यस्यानवकाशः । अस्त्विदं सङ्कर्षणादीनामसाध्यं मम साध्यं किं न स्यादित्याशङ्कपरिहारार्थं सङ्कर्षणादीनां जगदीश्वरत्व-कथनेन सङ्कर्षणो वासुदेव इत्यनेनोक्तस्य विवरणं कर्तुं जगदीश्वरैर्दुष्करमित्येतत्प्रवृत्तमित्यभ्युपगमात् । एतेनैव चिकीर्षायां बालिश्यादिति बालिश्यरूपनिमित्तस्योक्तत्वात् । अर्जुनप्रवृत्त्याऽर्जुनचिकीर्षायाः सिद्धत्वाच्च भवान्कथं चिकीर्षतीति चिकीर्षाक्षेपोऽनुपपन्न इति चोद्यं प्रत्युक्तम् । विवेकादित्यस्य शेषेण बालिश्यनिमित्तचिकीर्षामङ्गीकृत्य विवेकनिमित्तकचिकीर्षाक्षेपः क्रियत इत्यभ्युपगमात् ॥ २६ ॥
सत्यधर्मीया
जगदीश्वरैर्दुष्करं कर्म तत्तत्र तत्पुत्रत्राणनरूपं भवान्कथं चिकीर्षति । नेतोऽन्यत्तत्र निमित्तमित्याह– इह बालिश्यान्मौर्ख्यादिति । वयं तत्त्वतो मदपत्यप्रत्या-नयनं भवेदिति । अस्मदो द्वयोश्चेति बहुवचनम् । न श्रद्धध्महे विश्वासं नाप्नुमः ॥ २६ ॥
अर्जुन उवाच—
नाहं सङ्कर्षणो ब्रह्मन् न कृष्णः कार्ष्णिरेव च ।
अहं धनञ्जयो नाम गाण्डीवं पश्य कार्मुकम् ॥ २७ ॥
पदरत्नावली
अत्रार्जुनः स्वगर्वमुद्गलयति– अर्जुन इति ॥ धनञ्जयो रणेरण इति श्रुतिप्रसिद्धेरहं धनञ्जयो नाम प्रख्यातः । धनुष्मत्ता चेदृशीत्याह– गाण्डीवमिति ॥ २७ ॥
सत्यधर्मीया
अवमेनेऽर्जुनः । अर्जुनादिनाम विहाय यत्स्वतो निःससार धनञ्जय इति तेनैतद्धनुर्दाताऽग्निरेवेति कटाक्षयति । अतो गाण्डीवं यत्कार्मुकमिति सुलभमिति छिन्नभक्तेषु गणितत्वात्तदनुसारेणाह– नेति । हे ब्रह्मन् । अहं न सङ्कर्षणो न वा कृष्णो न कार्ष्णिः प्रद्युम्नः । तर्हि त्वं कः को वा तव साहितीविशेषो येनैतानतिशेष इत्यतो भाषते– अहं धनञ्जय इति । कार्मुकमितरविलक्षणं गाण्डीवनामकं पश्य ॥ २७ ॥
मा वमंस्था मम ब्रह्मन् वीर्यं त्र्यम्बकतोषणम् ।
मृत्युं विजित्य प्रधनेऽप्यानयिष्ये तव प्रजाः ॥ २८ ॥
पदरत्नावली
मावमंस्था अवमानं न कुरु । मृत्युं यमम् ॥ २८ ॥
सत्यधर्मीया
स्वपौरुषं श्रावयित्वा सान्त्वयति– मेति । त्र्यम्बकतोषणं मम वीर्य-मस्त्यतो मां माऽवमंस्था अवज्ञातं न कुरु । अनेन त्रिनेत्र आयातश्चेदपीदं करोमीति लौकिकाभाणकं तदादि प्रससार लोक इति ध्वन्यते । प्रधने युद्धे । नैकमात्रपुत्रपर्यवसायी मदध्यवसायः किन्तु गतसन्ततिमात्रविषय इति द्योत्यते प्रजा इति बहुवचनेन ॥ २८ ॥
इति विस्रम्भयित्वा तं कृष्णमाहार्जुनो नृप ।
अनुज्ञां देहि भगवन् ब्राह्मणार्थे प्रयास्यतः ॥ २९ ॥
पदरत्नावली
ततः किं फलितम्? अत्राह– इतीति ॥ २९ ॥
सत्यधर्मीया
इत्येवम्प्रकारेण तमागतं तं विप्रं ब्राह्मणार्थे तत्कार्यसाधने । प्रयास्यतो गच्छतः ॥ २९ ॥
यजतां वाजिमेधेन भवानेभिर्महात्मभिः
इति बु्रवन्तं बीभत्सुमनुज्ञां प्रेप्सुमच्युतः ।
बद्धतूणं सगाण्डीवं स्मयमानोऽब्रवीद् वचः ॥ ३० ॥
पदरत्नावली
तत्र कृष्णोऽहङ्कारिणो देवप्रसादो न स्यादिति भाववानर्जुनं निवारयन्निव वक्ति– इतीति ॥ बद्धतूणं पृष्ठबद्धतूणीरम् ॥ ३० ॥
सत्यधर्मीया
एभिर्महात्मभिरध्वर्युप्रभृतिभिः । सहानुज्ञां प्रेप्सुं काङ्क्षन्तम् । बद्धतूणं सगाण्डीवम् । स्मयमानः । अनेन मदाज्ञामात्रसाहिती न हि गमने सन्नाहे नासौ येन सिद्ध इति हासो वासुदेवस्येति सूच्यते । वचोऽब्रवीत् ॥ ३० ॥
श्रीभगवानुवाच—
अहमेवागमिष्यामि न त्वया शक्यतेऽर्जुन ।
तमसाधारणं भूतं मन्ये येन हतोऽर्भकः ॥ ३१ ॥
पदरत्नावली
अल्पकार्यहेतोस्त्वद्गमनं किमर्थमित्यत्राह– तमसाधारणमिति ॥ भूतं देवयोनिम् ॥ ३१ ॥
सत्यधर्मीया
तदहं तावद्बहिर्निःसारयामीत्याशयेनाह– अहमेवेति । हे अर्जुन । त्वया न शक्यतेऽतोऽहमेवागमिष्यामीत्याह– तमिति । येन हृतो वा हतो वा द्वावपि सरलौ । येनार्भकः प्रस्तुत एको नीतस्तं भूतं देवयोनिगणगमसाधारणं लोकविलक्षणं मन्ये । तत्रापि गत्वा तमानयेयमिति मतिर्न कार्या । मध्येऽध्वनोऽनिवार्यं त्वया तमोऽस्तीत्यप्याह । तमसा मार्गमावृत्त्य वर्तमानेनान्धकारेण । तमधारणं न विद्यते धारणा त्वत्कर्तृका यस्य स तं मन्ये इत्यर्थः । विवेश सुमहत्तम इति यद्वक्ष्यति ॥ ३१ ॥
अर्जुन उवाच—
सलोकपालो देवेन्द्रः खाण्डवे विजितो मया ।
किरातरूपी युद्धेन तोषितश्च त्रियम्बकः ॥ ३२ ॥
निवातकवचाश्चैव वासवेनापि दुर्जयाः ।
मयैव निहताः सङ्ख्येे हिरण्यपुरवासिनः ॥ ३३ ॥
पदरत्नावली
अर्जुनः स्वगर्वमुद्गलयति– सलोकपाल इति ॥ ३२–३३ ॥
सत्यधर्मीया
गर्वसर्वङ्कषमपि भगवद्भाषणं तन्मौढ्यपुरतस्तत्कालप्रकृततत्सङ्कल्पादेव न पफालेति लपति स इत्थमित्याह– अर्जुन इति । खाण्डवे तद्दाहानेहसि । त्रियम्बक इति यणागमाभावे ज्ञेयम् ॥ अम्बकं यम्बकं चेत्यभिधानमभिधाय त्रीणि यम्बकानि यस्येति विजग्राह स चाविपश्चित् । त्रि अम्बकेति विग्रहदर्शनात् । वैदिकप्रकरणे च तन्वादीनां छन्दसि बहुलं तन्वं पुषेम तनुव वा । त्र्यंबकं त्रियम्बकमित्युक्तेः । अम्बकं नयनं दृष्टिरिति हलायुधः । आपस्तम्भषडि्वंशतिसूत्र्यां च रात्रियाभित्रियोभात्रयोपि त्रियोधिष्णियात्क्वाटक इति सजातीयग्रहणेन । हिरण्यपुरवासिनो निवातकवचा इति न सामानाधिकरण्यम् । हिरण्यपुरवासिनः कालकेयाद्याः । उक्तं च वनपर्वणि । पौलोमाध्युषितं वीर कालखञ्जैश्च दानवैः । हिरण्यपुरमित्येव विश्रुतं नगरं महत् । रक्षितं कालकेयैश्च पौलोमैश्च तथा सुरैरिति
॥ ३२,३३ ॥
तेभ्योऽधिकतरं भूतं किं नु दानवसूदन ।
विभीषयसि मां कस्मादनुज्ञां देहि साम्प्रतम् ॥ ३४ ॥
पदरत्नावली
भूतं देवयोनिम् ॥ ३४ ॥
सत्यधर्मीया
तेभ्य इन्द्रादिभ्यः । कस्मान्मां विभीषयसि । ईकारान्ताद्भीधातोः षुक् । साम्प्रतमनुज्ञां देहि । अयं प्रजासामान्यवाचीति भूतं किन्वित्युक्तिः ॥ ३४ ॥
श्रीशुक उवाच—
इत्युक्तः प्रददौ कृष्णस्त्वनुज्ञां सव्यसाचिने ।
निर्ययौ यज्ञशालायाः स गृहीतशरासनः ॥ ३५ ॥
दुर्घटभावदीपिका
अर्जुनेनोक्तः कृष्णः सु सम्यग्गर्वपरिहारार्थं सव्यसाचिनेऽर्जुनायानुज्ञां प्रददौ प्रकर्षेण ददाविति । एतेन कार्यं न भविष्यतीति निश्चित्य गर्वपरिहारार्थमनुज्ञाया दत्तत्वेन मनःपूर्वकमाज्ञाया अदत्तत्वात् सम्यङ्मनःपूर्वकमनुज्ञां ददाविति कथनमयुक्तमिति दूषणं निरस्तम् । स्वेत्यस्याध्याहृतेन गर्वपरिहारार्थमित्यनेनान्वयस्योक्तत्वात् । एतेनैव प्रददावित्यत्र प्रेत्यतद्व्यर्थ-मिति दूषणं परास्तम् । अनुज्ञां प्रददावित्यस्य गत्वा कार्यं कुर्विति शब्द उच्चैः प्रयुक्त इति तात्पर्यार्थलाभार्थमनुज्ञां प्रकर्षेण ददावित्युक्तमित्यभ्युपगमात् ॥ ३५ ॥
सत्यधर्मीया
स्वमाहात्म्यातिशयहेतुतया तथाऽर्जुनस्याप्येतद्देहेनानेकलोकगमन-शक्तताप्रकाशकतया च व्यतारीद्धरिराज्ञामित्याह– इत्युक्त इति । अनुज्ञामित्युपलक्षणम् । रामत्रिकविमोकेनेतरानपि साहाय्ये ददाविति ज्ञेयम् । न रामप्रद्युम्नावनिरुद्धं च केशवः । न्ययोजयत्तत्सहाये यशस्तेष्वभिरक्षितुमित्याचार्योक्तेः । सोऽर्जुनः ॥ ३५ ॥
रथमास्थाय विपुलं समुच्छ्रितकपिध्वजम् ।
अग्रे ब्राह्मणमारोप्य तद्ग्राममभितो ययौ ॥ ३६ ॥
पदरत्नावली
अभित उद्दिश्य ॥ ३६ ॥
सत्यधर्मीया
समुच्छ्रितः कपिध्वजो यस्मिन्निति विग्रहः । समुत्ससन्तोषः श्रितं कपिध्वजं रथमिति वा । अभितः सर्वतः पश्यंस्तद्ग्रामं ययौ । अग्रे स्वोपवेशात्प्राक् ब्राह्मणमागतम् । अभितः साम्मुखेन वा ॥ ३६ ॥
तत्र गत्वा प्रविष्टायां तत्पत्न्यां सूतिकागृहम् ।
ब्राह्मणं प्राह बीभत्सुरवरोप्य रथान्नृप ॥ ३७ ॥
सत्यधर्मीया
तत्पत्न्यां सूतिकागृहं प्रविष्टायाम् । तत्र ग्रामं गत्वा रथाद्ब्राह्मण-मवरोप्यावतार्य तं प्रति प्राह ॥ ३७ ॥
अर्जुन उवाच—
याहि स्वभवनं ब्रह्मन्नभयं तव सर्वतः ।
दत्तं मयाऽद्य तद् भीतां पत्नीमाश्वासयाशु ते ॥ ३८ ॥
दुर्घटभावदीपिका
पुत्रजीवनेन भवनं सौख्यप्रदं भविष्यति । पत्नी च सौख्यप्रदा भविष्यति । अतः भवने पत्न्यां च स्वकीयताबुद्धिं मा त्यजेति सूचयितुं स्वभवनं ते पत्नी-प्रसक्तेरभावात् परपत्नीव्यावृत्त्यर्थं ते पत्नीमित्यत्र त इत्येतन्न वक्तव्यमिति दूषणं प्रत्युक्तम् । स्वभवनमित्यत्र परभावव्यावृत्त्यर्थं स्वेत्युक्ते ते पत्नीमित्यत्र परपत्नीव्यावृत्त्यर्थं त इत्युक्त-मित्यभ्युपगमात् ॥ ३८ ॥
सत्यधर्मीया
सर्वतः पुत्रहिंसकात् ॥ ३८ ॥
इति विस्रम्भितो विप्रः फल्गुनेन परन्तप ।
जगाम स्वगृहे प्रीत्या पार्थवीर्यं निशम्य तत् ॥ ३९ ॥
दुर्घटभावदीपिका
पार्थवीर्यं निशम्य तदित्यस्य तत्पार्थवीर्यं भर्तृमुखान्निशम्य भार्या सन्तुष्टा बभूवेत्यर्थः । एतेन विप्रः फल्गुनेनेति विस्रंभित इत्यनेन पूर्णत्वात् पार्थवीर्यं निशम्य तदित्येतद्व्यर्थमिति दूषणं निरस्तम् । भर्तृमुखादित्यादीनां शेषेणार्थस्योक्तत्वात् ॥ ३९ ॥
सत्यधर्मीया
विस्रम्भितो विश्वासं प्रापितः । निशम्य श्रुत्वा ॥ ३९ ॥
प्रसूतिकाल आसन्ने भार्याया द्विजसत्तमः ।
प्रोवाच द्रुतमभ्येत्य पार्थं शस्त्रभृतां वरम् ॥ ४० ॥
सत्यधर्मीया
आसन्ने समीपवर्तिनि ॥ ४० ॥
ब्राह्मण उवाच—
एहि पार्थ महाबाहो यत्तो भव युधां वर ।
अत्र पूर्वकृतानां हि पौरुषाणां निदर्शनम् ॥ ४१ ॥
पदरत्नावली
युधां वर युध्यन्तीति युधो योधास्तेषां पर । पौरुषाणां पुरुषपराक्रमाणां निदर्शनं दृष्टान्तः ॥ ४१ ॥
सत्यधर्मीया
युधां योद्धृणाम् । पूर्वकृतानां पूर्वं कृतानां मां प्रति पूर्वमाविष्कृतानां वा निदर्शनं दर्शनीयं दृष्टान्तसमयोऽयमिति ॥ ४१ ॥
श्रीशुक उवाच—
इत्युक्तो रथमारुह्य सज्यं कृत्वा तु गाण्डिवम् ।
त्वरन् जगाम बीभत्सुः सूतिकाभवनान्तिकम् ॥ ४२ ॥
सत्यधर्मीया
गाण्डीवं गाण्डिवं चापीति द्विरूपकोशेक्तेर्गाण्डिवं सज्जं ज्यासहितम् । सूतिकाभवनान्तिकं त्वरञ्जगाम ॥ ४२ ॥
ब्राह्मणोऽपि प्रविश्याह मुहूर्ते सूतिकागृहे ।
गते तु पाहि पाहीति मृत्योरर्जुनमातुरः ॥ ४३ ॥
दुर्घटभावदीपिका
ब्राह्मणोऽपि सूतिकागृहे प्रविश्य मुहर्ते प्रसवमुहूर्ते गते आगते सत्यातुरः सन् मृत्यो पाहि पाहीत्यर्जुनं प्रति तु ध्वनिविशेषतः । उच्चध्वनिनेति यावत् । आहेति । एतेन प्रसवमुहूर्ते आगते इति वक्तव्यम् मुहूर्ते गत इत्येतद्व्यर्थमिति चोद्यस्यानव-काशः । मुहूर्तशब्दस्य स्वयोग्यतया प्रसवमुहूर्तार्थकत्वमुपसर्गाणामर्थविशेषद्योतकत्वात् । आङोऽ-भावेऽपि गत इत्यस्य अगत इत्यर्थकत्वमिति चाभ्युपगमात् ॥ ४३ ॥
सत्यधर्मीया
सूतिकागृहे मुहूर्ते प्रसूतिव्यवधायके गते सति । आतुरो मृत्योः सकाशात्पाहि पाहीत्याह ॥ ४३ ॥
स उपस्पृश्य शुच्यम्भो नमस्कृत्य महेश्वरम् ।
दिव्यास्त्राणि च संस्मृत्य सज्यं गाण्डीवमाददे ॥ ४४ ॥
सत्यधर्मीया
ननु क्रतुरेकाहसाध्यः । एकाहेन महाबाहुः शास्त्रदृष्टेन कर्मणा । चकार तत्र चान्हिकं क्रतुं माहाश्वमेधकमिति भारततात्पर्यनिर्णयोक्तेस्तथोत्तरत्रोभयत्र मुहूर्तेन ततो ग्रामं तं प्राप्येति, दिनस्य पादमात्रतः । हयस्तु दिव्य आययाविति चोक्तेः प्रतीयते । किञ्च तत्रैव च ततः स्म द्वारकां प्राप्ताः क्षणेन नृपसत्तम । असम्प्राप्तेऽर्धदिवसे चक्रे सोऽर्धमुहूर्तेन समागम्य पुनर्मखमित्युक्तेश्च कथं भारते स्थानान्तरे गतेऽर्धरात्रसमये ब्राह्मणो भयविह्वल इति रात्र्युक्तिः सम्भाविनीति चेत् । अत्र केचित् । अहःशब्दः षष्ठिघटिकात्मकदिनवाचीति सर्वमविरुद्धमिति तथा क्षणाद्युक्तिरिति त्वरापरेति वदन्ति । अपरे चैवं मयि गते सति । अर्धरातुरसम्यग्गृह्यमृद्धिः सन्तानाभिवृद्धिस्तद्राता दाता तस्य ममासमये विलम्बावलम्बन-समयाभावे च सतीत्यर्थः । न च ह्रस्वाकारस्य कथं सामीचीन्यवाचकतेति वाच्यम् । सप्तार्धगर्भा भुवनस्येत्यृचि तत्त्वप्रकाशिकायां ब्रह्माण्डाख्यातिसमृद्धगर्भा इत्युक्तेस्तत्र यदकारा च सप्तार्धेति पठन्ति । तत्राङोऽनवकाशकल्पनात् । अत एव श्रीभावबोधचरणाः सप्ताधर्गर्भा इति संहितागतस्याकारस्यार्थोऽतीति व्याचक्रुः । अन्यथाऽऽङोऽर्थ इत्यवक्ष्यत् । केचिच्चाङर्थ इत्युक्तवन्तस्तत्र छान्दसो गुण इति । तेनाचम्य महेश्वरं प्रभूतभूतनाथत्वात् ॥ ४४ ॥
न्यरुणत् सूतिकागारं शरैर्नानास्त्रयोजितैः ।
तिर्यगूर्ध्वमधः पार्थश्चकार शरपञ्जरम् ॥ ४५ ॥
पदरत्नावली
सूतिकागारं सूतिकागृहं शरैर्न्यरुणद् आवृतवान् ॥ ४५ ॥
सत्यधर्मीया
न्यरुणद्रुरोध ॥ ४५ ॥
ततः कुमारः सञ्जातो विप्रपत्न््नया रुदन् मुहुः ।
सद्योदर्शनमापेदे सशरीरो विहायसा ॥ ४६ ॥
दुर्घटभावदीपिका
सशरीरः कुमारः सद्यो विहायसा आगतः सन्नदर्शनमापेद इति । एतेन सशरीरः सद्यो दर्शनमापेद इत्यनेन पूर्णत्वाद्विहायसेत्येतद्व्यर्थमिति दूषणं परिहृतम् । सशरीरः कुमारो गृहे विद्यमानोऽप्यदर्शनमापेद इति भ्रान्तिपरिहारार्थमागत इत्यस्य शेषेण विहायसागमनदर्शने निमित्तमिति वक्तुं विहायसेत्युक्तमित्यङ्गीकारात् ॥ ४६ ॥
सत्यधर्मीया
मुहू रुदन्विप्रपत्न्याः सकाशात्कुमारः सञ्जातः । सद्यः सशरीर एव विहायसा गगनमार्गेणादर्शनमापेदे प्राप्तः । सा जननी तं विहाय दर्शनमापेदे । एकैव दृष्टेति चार्थः
॥ ४६ ॥
तदाऽऽह विप्रो विजयं विनिन्दन् कृष्णसन्निधौ ।
मौढ्याद् यस्य तवाहं वै श्रद्दधे क्लीबकत्थनम् ॥ ४७ ॥
न प्रद्युम्नोऽनिरुद्धो वा न रामो न च केशवः ।
यस्य शेकुः परित्रातुं कोऽन्यस्तदधिकेश्वरः ॥ ४८ ॥
धिगर्जुनं वृथावाचं धिगात्मश्लाघिनो धनुः ।
दैवोपसृष्टयोर्मौढ्यादानिनीषति दुर्मतिः ॥ ४९ ॥
पदरत्नावली
तदनन्तरं किमभूदित्यत्राह– तदेति ॥ अथार्जुनं विनिन्दति– तवेति ॥
यस्य ममार्भकं परित्रातुं न शेकुः सोऽहं कृष्णस्य सन्निधौ यस्य तव विकत्थनं श्रद्दधे वै तं त्वां धिक् । आत्मश्लाघिनः स्वस्य तव धनुश्च धिक् । तदधिकेश्वरस् तेभ्यः प्रद्युम्नादिभ्योऽधिकेश्वरश्च कः ॥
किमित्येवं निन्दसीति तत्राह– दैवेति ॥ दैवेनोपसृष्टयोरुपद्रुतयोरावयोः पुत्रमानिनीषति आहर्तुमिच्छति ॥ ४७–४९ ॥
विरोदोद्धारः— न प्रद्युम्न इति ॥ केशवः कृष्णः । न प्रद्युम्नः न अनिरुद्धः न रामः । च शब्दो यत इत्यर्थे । यतः कारणाद् यस्य केशवस्य शक्तिमृते इति शेषः । इमे प्रद्युम्नादयः परित्रातुं न शेकुर् अशक्ता आसन् । यच्छब्दबलात्स इति लभ्यते । स केशव एव तन्ममापत्यम् । अविता रक्षिष्यति । अन्यः केशवेतरः कः पुमान् ईश्वरः समर्थः । न कोऽपीत्यर्थः । ननु प्राप्तस्यैव प्रतिषेध्यत्वात्प्रद्युम्नादीनां प्राप्त्यभावेन कथं प्रतिषेध इति चेत् । अपत्यरक्षणे प्रद्युम्नादीनामर्जुनशङ्कया प्राप्तिसम्भवात् । यद्वा । शेकुः शक्त उदाहृत इत्यभि-धानान् नान्वयासम्भवः । अथवा । प्रद्युम्नोऽनिरुद्धो रामश्च यस्येति कर्मणि षष्ठी यन्ममा-पत्यमित्यर्थः । परित्रातुं रक्षितुं न शेकुरिति न किन्तु शेकुः । तथाऽपि सिन्धुं न नावा ‘नावेव सिन्धुम्’ इति समाख्याश्रुतेर् नशब्दस्येवार्थकत्वात् । केशवो न केशव इव अन्यस्तदविता ईश्वरः समर्थः कोऽपि न । अतो मदपत्यावने त्वं यत्प्रतिजानासि तदविश्वसनीयमिति भावः ॥ ४८ ॥
॥ इति श्रीभागवतटिप्पण्यां शततमोऽध्यायः ॥ १०–१०२ ॥
॥ इति श्रीभागवते पाङ्घरीश्रीनिवासाचार्यविरचिते विरोधोद्धारे दशमः स्कन्धः समाप्तः ॥
दुर्घटभावदीपिका
विप्रो विजयमर्जुनं विनिंदंस्तदाऽऽह । किमाहेत्यत आह– कृष्णेति ॥ यस्य तव कृष्णसन्निधौ प्रवृत्तं कत्थनं क्लीबकथनमसदृशं जातम् । अकार्यकारिजातमिति यावत् । अर्जुनवाक्यविश्वासो मौढ्यनिमित्तक इत्युक्तमुपपादयति– न प्रद्युम्न इति ॥ प्रद्युम्नोऽनिरुद्धो वाऽनिरुद्धश्च केशवश्चेत्येते यस्य यं बालं परित्रातुं न शेकुरिति नेति किन्तु शेकुरेव । तस्य बालस्य विषये प्रयुक्त-मर्जुनवाक्यं श्रद्धेयं न भवति । अतोऽर्जुनवाक्यविश्वासो मौढ्यनिमित्तकः । प्रद्युम्नापेक्षयाऽर्जुनस्याधिक-सामर्थ्योपेतत्वाद्वाक्यं श्रद्धेयमित्यत आह– क इति ॥ तदधिकेश्वरस्तेभ्यः प्रद्युम्नादिभ्योऽधिकसमर्थः कोऽस्ति । न कोऽपीत्याहेति पूर्वेण सम्बन्धः ।
पुनरर्जुनं निन्दति– दैवेति ॥ मत्तोऽन्यः कः समर्थ इति दुर्मतिर्विपरीतमतिरर्जुनोऽत एव मौढ्यात्पुत्रानयनं ममाशक्यं न भवतीति मिथ्याज्ञानाद्दैवोपसृष्टयोर्दैवेनोपद्रुतयोरावयोः पुत्रमानि-नीषत्यानेतुमिच्छतीति । एतेन कृष्णसन्निधावित्यादीनामनन्वय इति शङ्काऽनवकाशः । प्रवृत्त-मित्यादीनां शेषेणान्वयस्योक्तत्वात् । एतेनैवेत्येते न शेकुरित्यनेनैव पूर्णत्वान्न रामो न च केशव इति नञ्द्वयं व्यर्थमिति दूषणं परास्तम् । द्वौ नञौ प्रकृतमर्थं सातिशयं गमयत इति न्याय-माश्रित्य न शेकुरिति न किन्तु शेकुरेवेत्यर्थस्योक्तत्वात् । एतेनैव यं परित्रातुमिति वक्तव्यं यस्य परित्रातुमिति कथनमनुपपन्नमिति चोद्यं प्रत्युक्तम् । सुपां सुप इति वचनाद् यमिति द्वितीयैकवचनस्य यस्येति षष्ठ्यैकवचनमादेश इत्यूरीकरणात् । एतेनैव कोऽन्यस्तदधिकेश्वर इत्यत्र तदधिकेश्वरः क इत्यनेनैव पूर्णत्वादन्य इत्येतद्व्यर्थमिति दूषणं निरस्तम् । तदधि-केश्वरोऽन्यः क इत्यन्वयमनङ्गीकृत्य मत्तोऽन्यः कः समर्थ इति दुर्मतिरित्यन्वयस्योक्तत्वात् । एतेनैव मौढ्यादित्येतद्दुर्मतिरित्यनेन पुनरुक्तमिति चोद्यं परास्तम् । दुर्मतिरित्यनेन मत्तोऽन्यः कः समर्थ इति मिथ्याज्ञानं गृह्यते । मौढ्यादित्यनेन पुत्रानयनं ममाशक्यं भवतीति मिथ्याज्ञानं गृह्यत इत्यभ्युपगमात् ॥ ४७–४९ ॥
सत्यधर्मीया
हे क्लीब एतन्निर्वाहकपोैरुषविकल । कृष्णसन्निधौ तव विकत्थनमहं श्रद्दधे इति विनिन्दन्नाह । शोकोपहत आह– नेति । यस्य भूतस्य सकाशात्परित्रातुं मत्पुत्रम् । यस्य तं वा । वृथा वाग्यस्य तम् । आत्मश्लाघिन आत्मैवात्मानं श्लाघते इति स तथा । तस्य धनुर्धिक् । निन्दायाम् । देवोपसृष्टयोर्दैवेन श्रीहरिणोपसृष्टयोरुपसर्गं प्राप्तयोः । पुत्रमानिनीषति आनेतुमिच्छति ॥ ४७–४९ ॥
एवं शपति विप्रर्षौ विद्यामास्थाय फल्गुनः ।
ययौ संयमनीमाशु यत्रास्ते भगवान् यमः ॥ ५० ॥
पदरत्नावली
विद्यां मनुष्यागम्यगमनसामर्थ्यकरीम् ॥ ५० ॥
सत्यधर्मीया
शपति शपमाने । संयमिनीं यमनगरीम् ॥ ५० ॥
विप्रापत्यमचक्षाणस्तत ऐंद्रीमगात् पुरम् ।
आग्नेयीं नैर्ऋतीं सौम्यां वायव्यां वारुणीमथ ॥ ५१ ॥
पदरत्नावली
नैर्ऋतीं निर्ऋतेर्विद्यमानां दिशम् । सौम्यां सोमस्य, वायव्यां वायोः, वारुणीं वरुणस्य ॥ ५१ ॥
सत्यधर्मीया
इन्द्रसम्बन्धिनीं पूर्वाम् । आग्नेयीम् । चातुर्थिको ढक् । अग्निदेव-ताम् । सौम्यां चान्द्रीम् ॥ ५१ ॥
रसातलं नागपुरं धिष्ण्यान्यन्यान्युदायुधः ।
ततोऽलब्धद्विजसुतो ह्यनिस्तीर्णप्रतिश्रुतः ॥ ५२ ॥
पदरत्नावली
अनिस्तीर्णप्रतिश्रुतो ऽसाधितप्रतिज्ञः ॥ ५२ ॥
सत्यधर्मीया
अन्यानि धिष्ण्यानि स्थानान्युदायुध उद्धृतायुधस्ततस्तत्राप्यलब्धा द्विजसुता येन स सन् । अनिस्तीर्णमपारगामि प्रतिश्रुतं प्रतिज्ञा येन सः ॥ ५२ ॥
अग्निं विविक्षुः कृष्णेन प्रत्युक्तः प्रतिषेधता ।
दर्शये द्विजसूनूंस्ते मा वध्यात्मानमात्मना ।
एतेन कीर्तिं विमलां मानुष्ये१ स्थापयिष्यसि ॥ ५३ ॥
पदरत्नावली
प्रत्युक्तः नेत्युक्तः । प्रतिषेधता निषेधं कुर्वता । कथं नेत्युक्त इति तत्राह– दर्शय इति ॥ आत्मनैव स्वयमात्मानं मावधीर्मा हिंसीः सन्दिरार्षः । एतेन पुत्रादानादिना त्वन्निमित्तेन मानुष्यं मनुष्यलोकस्था यथा स्यात् तथा । ईश्वरादपि महानुत्तमः ॥ ५३ ॥
दुर्घटभावदीपिका
अग्निं विविक्षुरर्जुनः । प्रतिषेधता हस्तं धृत्वा प्रतिबन्धं कुर्वताऽऽ-त्मना परमात्मना कृष्णेन तद्द्विजसूनून् दर्शये आत्मानं मा वधी मा जहीति प्रत्युक्तः सम्यगुक्त इति । एतेन प्रतिषेधतेत्येतद्व्यर्थमिति दूषणं परास्तम् । हस्तं धृत्वेत्यस्य शेषं कृत्वा हस्तं धृत्वा प्रतिषेधं कृत्वेत्यर्थस्योक्तत्वात् । एतेनैवात्मानं मा वधीत्यनेनैव पूर्णत्वाद् आत्मनेत्ये-तद्व्यर्थमिति दूषणं परिहृतम् । आत्मनेत्यस्य मा वधीत्यनेनान्वय इत्यङ्गीकारात् । एतेनैव माङि लुङिति सूत्रेण माङ्योगे लुङविधानान् मा वधीरिति वक्तव्यं मा वधीति कथनमयुक्तमिति चोद्यं प्रत्युक्तम् । अयं मा शब्दो न माङित्यङ्गीकारात् । एतेनैव हन्तेर्ज इति सूत्रेण परतः हन्तेर्जादेशे जहीति भवति । अतो जहीति वक्तव्यं वधीति कथनमयुक्तमिति चोद्यं परास्तम् । वधीत्येतद्धनधातो रूपं न किन्तु हिंसार्थकवधधातोर्लोण्मध्यमपुरुषैकवचने शप्रत्यये वधेत्यकारस्य स्थाने छान्दसे इकारे वधीति रूपं जातमित्यङ्गीकारात् । हिंसार्थके वधधातुस्तु वध्रिरित्यादौ प्रसिद्धः । वध्रिर् वधेः कर्मणि रि प्रत्यये वधयोग्य इति ऋग्भाष्यटीकायामुक्तत्वात् । एतेनात्म-वधाभावेन कीर्तिं विमलां निर्दुष्टां मानुष्यं मनुष्यदेहसंबंधि । मनुष्यदेहनिमित्तकमिति यावत् । पुण्यं च स्थापयिष्यसीत्यात्मवधेन पूर्वं सम्पादिता कीर्तिर्विमलमनुष्यदेहनिमित्तकपुण्यं च गमिष्यतीति भावः । एतेनात्मवधाभावेन कीर्त्यादेरभावादात्मवधाभावेन कीर्त्यादिकं स्थापयिष्य-सीति कथनमनुपपन्नमिति दूषणं परास्तम् । आत्मवधाभावेनापूर्वकीर्त्यादिकमायास्यतीत्यर्थ इत्यनङ्गीकारात् ॥ ५३ ॥
सत्यधर्मीया
अग्निं विविक्षुः प्रवेष्टुकामः । प्रतिषेधता कृष्णेन प्रत्युक्तः प्रतिबोधितः । विना पुनरानयनं तनयानां कथं स निषिद्धः सन्नद्धः समिद्धाग्निपाते तस्थावित्यत आह– दर्शय इति । द्विजसूनून् । प्रजा इति त्वयोक्तं, पारं याता तव प्रतिज्ञेति वदेद्द्विजस्तदा किमसाध्यं ममेति तात्पर्यम् । त्वमात्मानमात्मना मा वधि । आत्मानं स्वमुद्दिश्यात्मना त्वयैव वध्यावधो मेति प्रतिषेधता प्रत्युक्त इति वा । ‘वध्यावधे वधस्थान’ इति नानार्थ-रत्नमाला । मानुष्ये मनुष्यलोके ॥ ५३ ॥
इति सम्भाष्य भगवानर्जुनं स महेश्वरः ।
सहैव रथमास्थाय प्राचीं दिशमवीविशत् ॥ ५४ ॥
सत्यधर्मीया
स भगवान्महेश्वरोऽर्जुनमिति सम्भाष्य तेन सहैव रथमास्थाय प्राचीं दिशमवीविशद्विवेश । मूलरूपिणोऽर्जुनदर्शनाकाङ्क्षोद्धृत्यै तस्यैवेति तन्नयनम् । तथा वक्ष्यति
॥ ५४ ॥
सप्तद्वीपान् सप्तसिन्धून् सप्तसप्तगिरीनथ ।
लोकालोकं तथाऽतीत्य विवेश सुमहत् तमः ॥ ५५ ॥
सत्यधर्मीया
सप्तद्वीपानित्यादौ विशेषणसमासः पृथक्पदं वा । लोकालोकं तन्नामानं गिरिम् । एकैकद्वीपव्यवधायकसप्तसप्तगिरीन् । सुमहत्सूर्याद्यपरिहार्यमिति महत्तमो विवेश
॥ ५५ ॥
तत्राश्वाः शैब्यसुग्रीवमेघपुष्पबलाहकाः ।
तमसा भ्रष्टगतयो बभूवुर्भरतर्षभ ॥ ५६ ॥
सत्यधर्मीया
तमसा भ्रष्टगतयो बभूवुः ॥ ५६ ॥
तद् दृष्ट्वा भगवान् कृष्णो महायोगेश्वरेश्वरः ।
सहस्रादित्यसङ्काशं स्वचक्रं प्राहिणोत् पुरः ॥ ५७ ॥
सत्यधर्मीया
तान्भग्नगतीनश्वान् स्वकायकान्त्या प्रकाशकरणसम्भवेऽपि भगवांस्त-त्सेवाग्रहणार्थमेवं चकारेतीरयति– महायोगेश्वरेश्वरः । सहस्रेति । स्वचक्रं पुरः प्राहिणोत्
॥ ५७ ॥
तमः सुघोरं गमनच्छदं महद् विदारयद् भूरितरेण रोचिषा ।
मनोजवं निर्विविशे सुदर्शनं गुणच्युतो रामशरो यथा चमूः ॥ ५८ ॥
पदरत्नावली
गगनं छादयतीति गगनच्छदम् । गुणच्युतः मौर्व्या मुक्तः ॥ ५८ ॥
सत्यधर्मीया
चक्रविक्रममाह– तम इति । गमनच्छदं गमनस्य छदोऽपवारण-माच्छादनमिति यावद् येन तत्तथा । सुघोरं महत्तमो विदारयत्सत् । करणमीरयति– भूरितरेण स्वरोचिषेति । मनोजवं सुदर्शनं निर्विविशे निविविशे । तत्र निदर्शनं दर्शयति । गुणच्युतश्चमूः सेना रामशरो यथेति । गुणच्युतो गुणरहित इति विरोधस्तदुद्धारश्च ज्याच्युत इति च वर्णयन्ति ॥ ५८ ॥
द्वारेण चक्रानुपथे यदूत्तमं परात्परं ज्योतिरनन्तपारम् ।
समश्नुवानं प्रसमीक्ष्य फल्गुनः प्रदीपिताक्षः पिदधेऽक्षिणी उभे ॥ ५९ ॥
पदरत्नावली
चक्रानुपथे सुदर्शनगतानुकूलमार्गे कृतद्वारेण समश्नुवानं गच्छन्तं यदूत्तमं प्रसमीक्ष्याक्षिणी पिदध इत्यन्वयः । अनन्तपारम् अन्तपारवर्जितम् ॥ ५९ ॥
सत्यधर्मीया
चक्रानुपथे चक्रगत्यनुकूले मार्गे । द्वारेण तत्प्रदर्शितेन । परात्परम् अनन्तपारं नाशोऽन्तः, पारो गुणेयत्ता तौ न स्तः यस्य तत् । ज्योतिः प्रकाशरूपं ब्रह्ममूलं समश्नुवानं प्राप्नुवानं यदूत्तमं फल्गुनो न इदं फल्गु स्वल्पमिति ज्योतिः समश्नुवानमित्यप्य-न्वयः । प्रसमीक्ष्य । प्रदीपिते अक्षिणी यस्य स उभे अक्षिणी पिदधे आच्छदितवान् । समश्नुवानं गच्छन्तम् ॥ ५९ ॥
ततः प्रविष्टः सलिलं नभस्वता बलीयसैजद्बृहदूर्मिभीषणम् ।
तत्राद्भुतं वै भवनं द्युमत्तमं भ्राजन्मणिस्तम्भसहस्रशोभितम् ॥ ६० ॥
तस्मिन् महाभीममनन्तमद्भुतं सहस्रमूर्धन्यफणामणिद्युतिम् ।
विभ्राजमानं द्विगुणेक्षणोल्बणं सिताचलाभं१ शितिकण्ठजिह्मगम्२ ॥ ६१ ॥
पदरत्नावली
ततः सलिलं प्रविश्य गतो भवनं ददर्शेत्यन्वयः । बलीयसा नभस्वता वायुना एजद्भिः कम्पमानैर्बृहद्भिरूर्मिभिस्तरङ्गैर् भीषणम् । तत्र सलिले । तस्मिन् भवनेऽनन्तं ददर्श । सिताम्बराभं श्वेताकाशवत् शोभमानम् । शितिर्नीलः कण्ठो यस्य सः शितिकण्ठः । जिह्मगो नम्रगात्रस्तम् ॥ ६०,६१ ॥
सत्यधर्मीया
बलीयसा नभस्वता वातेनैजन्त्य एजन्तो वा तथा बृहत्यो बृहन्तो वोमर्यस्ताभ्यस्तेभ्यो वा भीषणं भयङ्करम् । पवमानकम्प्यमानवीचीभयङ्करं सलिलं प्रविेष्टः । ततस्तत्र द्युमत्तमं प्रकाशवदधिकम् । भ्राजन्तो मणिमयाः स्तम्भास्तेषां सहस्त्रैः शोभितं भवनं ददर्शेति प्रोत्तरश्लोकस्थेनान्वयः । विशेषकम् । तस्मिन्भवने महाभीममतिभीतिहेतुमनन्तं तन्नामानमद्भुतमत्याश्चर्यावहम् । मूधर्ि्न गलोपरि भवा मूर्धन्यास्ता अञ्चताः फणाश्च सहस्र-सङ्ख्याश्च ता मूर्धन्यफणाश्च तासु मणीनां द्युतयो यस्य तं विभ्राजमानम् । द्विगुणा-नीक्षणानि द्विसहस्रसङ्ख्यानि तैरुल्बणम् । सिताचलो हि कैलासस्तस्याभेवाभा कान्तिर्यस्य तम् । सिताम्बरं धृतवस्त्रस्याभेवाभा कान्तिर्यस्य स इति तथा पाठेऽर्थः । सितकण्ठ-जिम्हमिति पाठे न वैकेनाक्षरेण छंदांसि वियन्तीत्यादेरेकाक्षरन्यान्येन पादस्य चरमस्यैका-दशाक्षरत्वेऽपि न दोषः । शितयः कण्ठो जिह्माश्च यस्य तम् । शितिकण्ठजिम्हगमिति पाठे शितिकण्ठश्चसौ जिम्हगः सर्पश्च तमिति ॥ ६०,६१ ॥
ददर्श तद्भोगसुखासनं विभुं महानुभावं पुरुषोत्तमोत्तमम् ।
सान्द्राम्बुदाभं सुपिशङ्गवाससं प्रसन्नवक्त्रं रुचिरस्मितेक्षणम् ॥ ६२ ॥
पदरत्नावली
तस्यानन्तस्य भोगे सुखमासनं यस्य स तथा तद्भोगसुखासनस्तम्
॥ ६२ ॥
सत्यधर्मीया
तद्भोग एव सुखासनं तम् । पुरुषाणां पुरुषेषु वोत्तमा ब्रह्माद्या-स्तदुत्तमम् । पुरुषेभ्य उत्तमा रमा तस्या उत्तममिति वा । सान्द्रो जलेन स चासावम्बुदो मेघस्तस्याभेवाभा यस्य तम् । सुपिशङ्गं वासो यस्य स तं पीताम्बरम् ॥ ६२ ॥
महामणिव्रातकिरीटकुण्डलत्विषा परिष्वक्तसहस्रकुन्तलम् ।
प्रलम्बचार्वष्टभुजं सकौस्तुभं श्रीवत्सलक्ष्मं वनमालयाऽऽवृतम् ॥ ६३ ॥
सत्यधर्मीया
महामणीनां व्रातं सङ्घस्तद्युक्तः किरीटः कुण्डले च तेषां प्रभया परिष्वक्ताः सहस्रं बहवः कुन्तला यस्य तम् । प्रलम्बा दीर्घाश्चारवोऽष्टौ भुजा यस्य तम् । श्रीवत्सः लक्ष्म लक्षणं यस्य स तम् । अयमकारान्तः । वनमालया वृतम् ॥ ६३ ॥
सुनन्दनन्दप्रमुखैश्च पार्षदैश्चक्रादिभिर्मूर्तिधरैर्निजायुधैः ।
पुष्ट्या श्रिया कीर्त्यजयाऽखिलर्द्धिभिर्निषेव्यमाणं परमेष्ठिनां पतिम् ॥ ६४ ॥
पदरत्नावली
परमेष्ठिनां ब्रह्मणां पतिम् ॥ ६४ ॥
सत्यधर्मीया
मूर्तिधरैराकारवद्भिः । कीर्त्या सहिता च साऽजा च तया रमारूप-विशेषैरखिलर्द्धिभिः सर्वसम्पद्भिर्निषेव्यमाणम् । परमेष्ठिनाम् अतीतानागतविधातॄणाम् ॥६४॥
ववन्द आत्मानमनन्तमच्युतो जिष्णुश्च तद्दर्शनजातसाध्वसः ।
स चाह भूमा परमेष्ठिनां प्रभुर्बद्धाञ्जलिं सस्मितपूर्वया गिरा ॥ ६५ ॥
पदरत्नावली
अच्युतः कृष्णः, जिष्णुरर्जुनः ॥ ६५ ॥
सत्यधर्मीया
आत्मानं स्वस्वरूपमनन्तमच्युतः कृष्णो ववन्दे ननाम । तद्दर्शना-ज्जातं साध्वसं यस्य स सन्नवन्दत । स च भूमा पूर्णः । भावभवित्रोरभेदादेवमुक्तिः । बद्धाञ्जलिं वासुदेवस्वांशं सस्मितपूर्वया गिराऽऽह ॥ ६५ ॥
द्विजात्मजास्ते युवयोर्दिदृक्षया मयोपनीता भुवि धर्मगुप्तये ।
कलावतीर्णोऽस्यवनेर्भरासुरान् हत्वेह भूयस्त्वरयैहि मेऽन्तिकम् ॥ ६६ ॥
पदरत्नावली
युवयोः कृष्णार्जुनयोः ॥ ६६ ॥
दुर्घटभावदीपिका
कलावतीर्ण इत्यस्य कलारूपश्चासाववतीर्णः प्रादुर्भूतश्चेति कलाव-तीर्ण इत्यर्थः । एतेन नारायणस्यैव कृष्णरूपकलयाऽवतीर्णत्वेन कृष्णस्य कलयाऽवतीर्णत्वा-भावात् कलावतीर्ण इति कथनमनुपपन्नमिति दूषणमपाकृतम् । कलावतीर्ण इत्यत्र कलयाऽ-वतीर्ण इति विग्रहस्यानङ्गीकारात् ॥ ६६ ॥
सत्यधर्मीया
युवयोर् नरांशसाक्षान्मदंशयोर्दिदृक्षया दर्शनेच्छया मया । ते द्विजात्मजाश्चत्वारो नीताः । यथोक्तं हरिवंशे । मद्दर्शनार्थं ते बाला हृतास्तेन महात्मना । विप्रार्थमेष्यते कृष्णो नागच्छदन्यथेति ह । जातो जातो महाबाहो पुत्रो मे ह्रियतेऽनघ । त्रयो हृताश्चतुर्थं त्वं कृष्ण रक्षितुमर्हसि । सुमुहूर्तात्ततः कृष्णो निश्चक्राम ततः प्रभुः । चतुरो बालकान्गृह्य ब्राह्मणस्यात्मजानिति । भुवि धर्मगुप्तये तद्रक्षायै । कला मदंशस्त्वमव-तीर्णोऽसि । अवनेर्भूम्या भररूपा येऽसुरास्तान्हत्वा मेऽन्तिकं भूयस्त्वरयैहि ॥ ६६ ॥
पूर्णकामावपि युवां नरनारायणावृषी ।
धर्ममाचरतां स्थित्यै वृषभौ लोकसङ्ग्रहम् ॥ ६७ ॥
पदरत्नावली
जगतः स्थित्यै लोकसङ्ग्रहं धर्मम् । ६७ ॥
सत्यधर्मीया
तयोः स्वरूपं तद्व्यापारं च निरूपयति– पूर्णकामाविति । नरनारायणौ ऋषी द्वावेव भुवि चाविर्भूतौ । लोकसङ्ग्रहं धर्मं, स्थित्यै जगत आचरताम् ॥ ६७ ॥
इत्यादिष्टौ भगवता तौ कृष्णौ परमेष्ठिना ।
ओमित्यानन्दभूमानमादाय द्विजदारकान् ॥ ६८ ॥
न्यवर्ततां स्वकं धाम (सप्त)सम्प्रहृष्टौ यथागतम् ।
विप्राय ददतुः पुत्रान् यथारूपं प्रसूयताम् ॥ ६९ ॥
पदरत्नावली
कृष्णौ यदूत्तमार्जुनौ । आनन्दभूमानं पूर्णानन्दम् । प्रसूयतां प्रसवं गच्छतां रूपं यथा । प्रसूतिकाले यद्रूपं तादृशं रूपं दधानान् ॥ ६८,६९ ॥
सत्यधर्मीया
कृष्णश्च कृष्णश्च कृष्णौ । इति भगवता परमेष्ठिनाऽऽदिष्टौ । आनन्दभूमानं सुखपूर्णं प्रति । ओमित्युक्त्वा द्विजदारकांश्चतुर आदाय प्रहृष्टौ कृष्णौ द्वावितरे द्विज एकश्चत्वारः कुमारा इति सप्त । दारुकस्तत्रैव स्थापितः । सारथ्यं चक्रेऽर्जुनः । यथोक्तं हरिवंशे । आरोप्य ब्राह्मणं कृष्णो ह्यवरोप्य च दारुकम् । मामुवाच ततः शौरिः सारथ्यं क्रियतामितीति । ननु प्राचीदिशमविविशदित्यत्र हरिवंश उदीचीमित्युक्तिरिति विरोध इति चेत् । आरम्भे प्राची तदनन्तरमुदीचीदिग्गमनमिति विवेचनेन वचनसम्भवात् । अतो न्यवर्ततेति पञ्च द्वावेताविति सम्भवति ॥
अयं द्विजः सहायात इति तददृष्टाश्चैते मम तनया इति तनुयान्मतिं न तनुयाज्जननी दृष्टतोका सारूप्येत्यत आह– पुत्रान् यथारूपं प्रसूयतामिति । प्रसवाय तव आगतां रूपं यथा तथा-रूपान्पुत्रान्ददतुरिति । अप्रयोजकोऽपि पार्थः कृष्णानयनमूलमिति द्विवचनमुपपद्यते
॥ ६८,६९ ॥
निशाम्य वैष्णवं धाम पार्थः परमविस्मितः ।
यत् किञ्चित् पौरुषं पुंसां मेने कृष्णानुकम्पितम् ॥ ७० ॥
पदरत्नावली
पुंसां यत् किञ्चित् पौरुषं कृष्णानुकम्पितं मेने ॥ ७० ॥
सत्यधर्मीया
वैष्णवं धाम गृहमहं च पार्थो निशाम्य दृष्ट्वा परमं विस्मयमाश्चर्यं गतः । पुंसां यत्र कुत्र वा यत्किञ्चित् पौरुषं वर्तेत चेत्कृष्णानुकम्पितं तत्कृपयाऽऽयातमिति यावत् । मेने । मया दृष्टमपि सकलं नेत्यप्याह । मेने श्रीरमानाथे माया इनो मेन-स्तस्मिन्पौरुषं स्वदृष्टं किञ्चिदिति मेन इति वा ॥ ७० ॥
तदा प्रविश्य गोविन्दो यज्ञवाटं पुनः स्वयम् ।
पूर्णं पुरोहितैर्विप्रैर्ऋत्विग्भिः क्षत्रियर्षभैः ॥ ७१ ॥
सत्यधर्मीया
अत्र विप्रानयनानुक्तिस्तत्रोक्तिरर्जुनस्य रथ एवावस्थानोक्तिस्तत्रात्र हरिसमीपगमनोक्तिस्तथाऽत्र तदेकीभवनानुक्तिस्तत्र मुहूर्तमेकीभावोक्तिरित्यादिव्यत्यस्योक्ति-र्हरिवंशे पारिजाते वासुदेवमाहत्म्ये कुत इति चेत् । अत्र तत्रेव ब्राह्मणानयनमनुसन्धेयम् । अल्पत्वादनुक्तिः । रथावस्थितिस्त्वमुक्तस्थानस्थितिमपेक्ष्य एकीभावानुक्तिरत्र मुक्तस्थान-गमनानन्तरभाविनस्तस्यार्जुनादृष्टत्वाभिप्राया । अथवा नित्यं सतस्तस्या न पूर्वत्वादनुक्त्यभि-प्राया । तथा तत्र वन्हिप्रवेशाद्यनुक्तिस्तदसम्पत्तिमेष्यन्तीं विदित्वैव । तथा सात्यक्यादि-सेनाया अर्जुनेन सह प्रेषिताया अकार्यकारित्वादत्रानुक्तिरिति तदैककण्ठ्यसम्भवात् । उक्तं चाचार्यैश्छायया विलज्यमानमीक्ष्य तमित्यारभ्य रमासहाये तटिदुज्वलाम्बरे मुक्तैर्विरिञ्चादिभि-रर्चिते सदा । स्थित्वैकरूपेण मुहूर्तमीश्वरो विनिर्ययौ विप्रसुतान्प्रगृह्येत्यन्तेन । इदं स्थानं च घनोदकातीतमनन्तासनाख्यमिति मन्तव्यम् । महाभारततात्पर्यनिर्णये तत्रानुक्तवन्हिप्रवेश-सन्नाहोक्तिः समस्तशास्त्रार्थविनिर्णयोऽयं विशेषतो भारतवर्त्मचारीत्युक्तत्वान्मया भागवत-तात्पर्यं तत्रैवोक्तमिति भावेनात्राप्रवृत्तिरिति मननीयम् । लोके लोकेशेन मध्येव्यापारान्तर-प्रसक्तौ प्रायश्चित्तं नाचारि चेल्लोका अपि न कुर्युरिति यथा सवनानुष्ठानं तथेदमिति विता-नचलनप्रायश्चित्तं ततान देव इति वक्ति– तदेति द्वाभ्यां श्लोकाभ्याम् । पुरोहितैर् ऋत्विग्भिरितरैर्ब्राह्मणैः क्षत्रियर्षभैः सहेति ॥ ७१ ॥
प्रायश्चित्तं तु चलने दीक्षायां य उदाहृतः ।
तं चकार यथान्यायं ब्राह्मणैरनुमोदितः ॥ ७२ ॥
पदरत्नावली
दीक्षायां मध्ये चलने तत उत्थाय गमने प्रायश्चित्तमुद्दिश्य यः कर्मविशेष उदाहृतस्तं चकार ॥ ७२ ॥
दुर्घटभावदीपिका
दीक्षायां कृतायां सत्यां यज्ञस्थलाच्चलने तद्वेदादिप्रसिद्धं प्रायाश्चितं कर्तव्यमित्युक्त्वा यः कर्मविशेषस्तु विशिष्य ब्राह्मणैरुदाहृतस्तं कर्मविशेषं ब्राह्मणैरनुमोदितः सन् यथान्यायं चकारेति । एतेन दीक्षायां चलन इत्येतदनन्वितमिति दूषणं परास्तम् । यज्ञस्थला-दित्यादेः शेषेणान्वयस्योक्तत्वात् । एतेनैव यत्प्रायश्चित्तमुदाहृतं तच्चकारेति वक्तव्यं य उदाहृत इति पुल्लिङ्गप्रयोगोऽनुपपन्न इति दूषणं परास्तम् । कर्तव्यमित्यादीनां शेषेणोदाहृत इति पुल्लिङ्गोपपत्तिर्यथा भवति तथाऽर्थस्योक्तत्वात् ॥ ७२ ॥
सत्यधर्मीया
प्रायस्य चित्तिचित्तयोरिति सुट् । दीक्षायां तत्काले चलने गमने यत्र कुत्र वा । यः कर्मविशेष उदाहृतस्तं यथान्यायं न्यायप्रकारमनतिक्रम्य ब्राह्मणैरनुमोदितः संश्चकार । व्यवहितिरपि न बहुदिनीया किन्त्वसम्प्राप्तार्धदिनसम्बन्धिनी । उक्तं च हरिवंशे । ततश्च द्वारकां प्राप्तः क्षणेन नृपसत्तम । असम्प्राप्तेऽर्धदिवसे विस्मितोऽहं ततः पुनरिति ॥७२॥
समाप्य यज्ञं विधिवत् तर्पयित्वाऽर्थिनो द्विजान् ।
ऋत्विग्भ्यः पूजयित्वाऽन्यान् ऋषींश्च कुरुसत्तम ॥ ७३ ॥
दुर्घटभावदीपिका
हे कुरुसत्तम । विधिवद्यज्ञं समाप्यार्थिनो द्विजांस्तर्पयित्वा ऋत्विग्भ्यो दक्षिणां दत्वा ऋषीनन्यान् द्विजादिभ्योऽन्यान् क्षत्रियादींश्च पूजयित्वेति । एतेन ऋत्विग्भ्य इत्येतदनन्वितमिति दूषणं परास्तम् । दक्षिणां दत्वेति शेषेणान्वयस्योक्तत्वात् । एतेनैव ऋषीनित्यनेनैव पूर्णत्वादन्यानित्येतद्व्यर्थमिति दूषणं प्रत्युक्तम् । अन्यानित्येतदृषीनित्यस्य विशेषणमित्यङ्गीकारात् ॥ ७३ ॥
॥ इति श्रीभागवतटिप्पण्यां द्व्यधिकशततमोऽध्यायः ॥ १०–१०२ ॥
सत्यधर्मीया
विधिवद्यथाविधि । यज्ञं समाप्यार्थिनो द्विजांस्तर्पयित्वा ऋत्विग्भ्यो ऽन्यानृषींश्च पूजयित्वा । अनेन कैमुत्यसिद्धमृत्विक्पूजनमिति सूचयति ॥ ७३ ॥
यमुनायां महानद्यां कृत्वाऽवभृथमज्जनम् ।
विजहार यथाकामं महर्षिभिर्यदूत्तमः ॥ ७४ ॥
॥ इति श्रीमद्भागवते दशमस्कन्धे द्व्यधिकशततमोऽध्यायः ॥
पदरत्नावली
अवभृतनिमित्तमज्जनम् ॥ ७४ ॥
॥ इति श्रीमद्भागवतटीकायां विजयध्वजतीर्थकृतायां पदरत्नावल्यां
दशमस्कन्धे उत्तरार्धे द्व्यधिकशततमोऽध्यायः (स.धर्म.१०–११२) ॥
सत्यधर्मीया
अवभृथमज्जनं समाप्तिकालिकस्नानम् । महर्षिभिः सह यदूत्तमो यथाकामं विजहार चिक्रीड । वृत्तविच्छित्तिरत्र श्लोक एव नोत्तमश्लोक इति सूचयति यत्किञ्चिद्वृत्त-व्यत्यस्त्येति ज्ञेयम् ॥ ७४ ॥
**॥ इति श्रीसत्यधर्मयतिकृतायां भागवतटिप्पण्यां दशमस्कन्ध उत्तरार्धे **
द्व्यधिकशततमोऽध्यायः ॥ १०–११२ ॥