२७ एकाधिकशततमोऽध्यायः

स इत्थं द्विजमुख्येन सह सङ्कथयन् हरिः

॥ अथ एकाधिकशततमोऽध्यायः ॥

श्रीशुक उवाच—

स इत्थं द्विजमुख्येन सह सङ्कथयन् हरिः ।

सर्वभूतमनोभिज्ञः स्मयमान उवाच तम् ॥ १ ॥

ब्रह्मण्यो ब्राह्मणं कृष्णो भगवान् प्रहसन्निव ।

प्रेम्णा निरीक्षणेनैव प्रेक्षन् खलु सतां पतिः ॥ २ ॥

पदरत्नावली

सङ्कथयन् सल्लापं कुर्वन् ॥ १ ॥

सत्यधर्मीया

सहसं कथयन्सल्लापं कुर्वन् । सर्वभूतमनोभिज्ञो भार्योक्तोऽत्रायात इति तज्ज्ञः स्मयमानो यः प्रहसन्निव वर्तते तं ब्रह्मण्यः कृष्णः प्रेम्णा निरीक्षणेन स्नेहपूर्वकवीक्षणेन प्रेक्षन्निरीक्षमाणः सतां पतिः खलु जिज्ञासमानस्तं कुचैलमुवाच । खलु स्याद्वाक्यभूषायां जिज्ञासादौ चेति विश्वः ॥ १,२ ॥

श्रीभगवानुवाच—

किमुपायामानीतं ब्रह्मन् मे भवता गृहात् ।

अल्पमप्याहृतं भक्तैः प्रेम्णा भूर्येव मे भवेत् ॥ ३ ॥

पदरत्नावली

दरिद्रत्वेन भूरिद्रव्याभावाद् भवतो महतोऽल्पं मनस्तुष्टिकरं न स्यादिति नानीतमिति शङ्का माभूदित्याह– अल्पमिति ॥ आहृतमानीतम् । द्रव्यभूरित्वाभूरित्वे अप्रयोजके किन्तु भक्तिरेवेत्यनेनादर्शि ॥ ३ ॥

सत्यधर्मीया

किमप्यनाददानोऽहं न दातेति तं पृच्छति– किमिति । हे ब्रह्मन् । भवता गृहाद्भार्यायाः सकाशान्मे मदर्थमुपायनं किमानीतम् । श्रीपतिस्त्वं क्व क्वाहं निष्किञ्चन इति न वदेति वदति– अल्पमपीति । भक्तैः प्रेम्णाऽल्पमप्याहृतं भूर्येव बहुलमेव भवेत् ॥ ३ ॥

भूर्यप्यभक्तोपहृतं न मे तोषाय कल्पते ।

पत्रं पुष्पं फलं तोयं यो मे भक्त्या प्रयच्छति ।

तदहं भक्त्युपहृतमश्नामि प्रयतात्मनः ॥ ४ ॥

सत्यधर्मीया

अभक्तैरुपहृतं मे तोषाय न कल्पते । एतदानीतापेक्षयाऽल्पमूल्येन तृप्तिर्भवति । भक्तदत्तेनेत्युक्तावादौ स्वानीतं दिशेदेष इति तं प्रोत्साहयन्नाह– पत्रमिति । योऽधिकारी पत्रादिकमपि भक्त्या प्रयच्छति । प्रयत आत्मा मनो यस्य तस्य भक्त्युपहृतं तदहमश्नामि ॥ ४ ॥

इत्युक्तोऽपि द्विजस्तस्मै व्रीडितः पतये श्रियः ।

पृथुकप्रसृतिं राजन्न प्रायच्छदवाङ्मुखः ॥ ५ ॥

सत्यधर्मीया

इत्युक्तोऽपि श्रियः पतये तस्मै व्रीडितो लज्जितोऽवाङ्मुखश्च सन् पृथुक-प्रसृतिं पृथुकतण्डुलार्धाञ्जलिं मुष्टिमिति यावत् । अर्धाञ्जलौ च प्रसृतिरिति विश्वः । न प्रायच्छत्

॥ ५ ॥

सर्वभूतात्मदृक् साक्षात् तस्यागमनकारणम् ।

विज्ञाय चिन्तयन् नायं श्रीकामो माऽभजत् पुरा ॥ ६ ॥

पदरत्नावली

सर्वभूतानामात्मदृक् स्वभावज्ञः ‘आत्मा देहे भृतौ जीवे स्वभावे परमात्मनि’ इति यादवः ॥ ६ ॥

सत्यधर्मीया

साक्षात्सर्वभूतानामात्माऽन्तर्यामी सन्पश्यतीति सर्वभूतात्मदृक् । साक्षा-दितीतरतत्त्वेशादिव्युदस्त्यै । तस्यागमनकारणं विज्ञाय । अयं पुरा मा मां श्रीकामः सन्नाभजत् ॥ ६ ॥

पत्न्नयाः पतिव्रतायास्तु सखा प्रियचिकीर्षया ।

प्राप्तो मामस्य दास्यामि सम्पदो मर्त्यदुर्लभाः ॥ ७ ॥

सत्यधर्मीया

न विशेष इति चिन्तयन्नेवं निश्चिकायेत्याह– पत्न््नया इति । पतिव्रतायाः पत्न्याः प्रियचिकीर्षया सखाऽयं मां प्राप्तः । अस्य सम्पदो दास्यामि । ता अपि न यादृशतादृश्य इत्याह– मर्त्यदुर्लभा इति । अस्येत्यनेन दत्तायामपि सम्पदि मदीयतामतिर्मम चेन्न च तास्तिष्ठेयुरिति द्योतयति । अमर्त्यानां देवानामपि दुर्लभा इति वा

॥ ७ ॥

इत्थं विचिन्त्य वसनाच्चीरबद्धान् द्विजन्मनः ।

स्वयं जहार किमिदमिति पृथुकतण्डुलान् ॥ ८ ॥

पदरत्नावली

चीरं पटच्चरं जीर्णवस्त्रमित्यर्थः । इदं चीरबद्धं किमित्युक्त्वा द्विजन्मनः पृथुकतण्डुलान् स्वयमाजहार ॥ ८ ॥

सत्यधर्मीया

वसनमाच्छादनमुत्तरीयं प्राप्यापि त्रुटिततया तत्र बन्धनावकाशा-प्रकाशाच्चीरे पटच्चीरे बद्धास्तान् । ‘वसनं छादने वस्त्रे चीरं तु गोस्तने वस्त्र’ इति विश्वौ । इदं किं मदुपायनं भवेदित्युपायेन स्वयं पृथुकतण्डुलाञ्जहार । तिः, असंयुक्तपृपरकत्वाल्लघुः सन्विप्रमुखकान्तिलघुतां सूचयति ॥ ८ ॥

एकमुष्टिं सकृज्जग्ध्वा द्वितीयं जग्धुमाददे ।

तावच्छ्रीर्जगृहे हस्तं सत्वरा परमेष्ठिनः ॥ ९ ॥

विरोदोद्धारः— एकमुष्टिमिति ॥ अत्र पतिव्रतायाः स्वभर्तृप्रियभोजनेऽत्यनुमोदनं कार्यं न तु प्रतिबन्धः । तत्कथं द्वितीयपृथुकमुष्टिभक्षणे हस्तग्रहणेन प्रतिबन्धो रुग्मिण्याचरितः । अत्रोच्यते । भगवंच्छ्रीपते न्यस्तं नैवेद्यं त्वत्पुरो मया । कपिलात्मकदिव्येन चक्षुषा त्वविलोकय । कृत्वा पवित्रं पूर्णं च तत्तत्स्वादुरसैर्युतम् । नृसिंहात्मकरूपेण दिव्यघ्राणेन्द्रियेण तु । तद्वस्तुनिष्ठं गन्धं च दिव्यमाघ्राय चिन्मय । भृगुरामस्वरूपेण दिव्यवागिन्द्रियेण तु । सांत्वय श्लक्ष्णया वाचा भक्तं मामनुकम्पय । महाकूर्मस्वरूपेण दिव्यजिह्वेन्द्रियेण तु । आस्वादय स्वादुरसं भुंक्ष्व देव रमापते । इति नैवेद्यशेषान्नमध्ये भगवता घ्राणेन्द्रियाघ्रातं भागं रमाया नैवेद्यार्थमुपन्यस्येति पञ्चरात्रागमकल्पलतोक्त्योः सत्त्वेनात्रेदं तात्पर्यम् ।

अप्राकृतभागस्य भवद्भक्ष्यत्वाल्लक्ष्मीयोग्यस्य च भगवदाघ्रेयत्वात्प्राकृतस्य च भगवद्दृश्य-त्वात् । तन्मध्ये एकमुष्टिव्याजेन स्वयोग्येऽप्राकृते भागे कृष्णेन भक्षिते द्वितीये रमायोग्ये भागे मन्दमोहार्थं भक्षणमिव कुर्वता कृष्णेनावघ्रातुं घ्राणसमीपे नीते सति स्वभागं मन्वानया रुग्मिण्या जांबवत्याद्यानां तद्भागानर्हत्वं द्योतयितुं मन्दमोहार्थं प्रतिबन्धकवत् हस्तग्रहणरूपा प्रवृत्तिः कृता । अवघ्रातद्वितीयमुष्टेरेव स्वभागत्वात् । भगवद्दृश्यभागरूपतृतीयमुष्टावन्यासां जाम्बव-त्यादीनामर्हत्वात्तादृशचतुर्थ्या अपि आनेतृविप्रस्त्रियादिभ्यः प्रसारार्थदानयोग्यत्वात् । चतुसॄॄणां मुष्टीनामित्थं विनियोगे यथायोग्यं स्थिते द्वितीयमुष्टौ रमाकृतप्रतिबन्धाभावसिद्धेर्न कश्चन दोषलेशोऽपि ।

रमाऽभिन्नरुग्मिण्या नायमर्थः कल्पितः किन्तु वेदव्यासस्याप्यभिमतस्तादृशार्थानुकूल्येन निबद्धत्वात् । तथा हि । भगवान् एकां स्वाभिन्नां मुष्टिमितपृथुकेषु प्रातिस्विकत्वेन, व्याप्त-स्वरूपभूतामिति यावत् । मुष्टिम् मुष वञ्चने इत्यतो वञ्चनहेतुभूतां लोकानां कृष्णेन साक्षात् पृथुका एव भक्षिता इति ज्ञापिकामिति यावत् । जग्ध्वा प्रभक्ष्य । द्वितीयामित्यस्यावृत्तिः कर्तव्या । द्वितीयां स्वात्मतो भिन्नां रमामुद्दिश्येत्यर्थः । द्वितीयां मुष्टिं जग्धुम् । अत्रान्तर्णिच् । रमयाऽभ्यवहारयितुमित्यर्थः । सकृत्, ‘वर्णागमो वर्णविपर्ययश्च तथापरौ वर्णविकारनाशौ । धातोस्तदर्थातिशयेन योगस्तदुच्यते पञ्चविधं निरुक्तम्’ ॥ इत्युक्तेस्तकारलोपः । सत् करोति (सत्कृद् इति भाव्ये सकृद् इति जातम् । अत्र तकारलोपः निरुक्तेरिति भावः) स्वावघ्राणनेन रमाभक्षणे प्राशस्त्यं करोतीति यावत् । आददे आघ्राणनिकटे धृतवान् तेनैव लोकानां द्वितीया-मपि स्वयमेव भुनक्तीति मोहो जातः । इङ्गितज्ञानस्य सर्वोत्तमत्वात् । तद्वती श्रीस्तावदा-करणात्पूर्वमेव सत्वरा सती हस्तं हस्तस्थान् पृथुकान् जग्रहे । स्वामिचिन्तितं विलम्बेन करणमयुक्तमिति भावः । यद्वा । सर्वोत्तमपदस्थस्य ‘‘सत्त्वेन’’ स्वयं नोत्थातव्यमित्याशयेन तदनुसारमिति यावत् । रमते क्रीडतीति तथा ॥ ९ ॥

॥ इति श्रीभागवतटिप्पण्याम् एकोनशततमोऽध्यायः ॥ १०–१०१ ॥

सत्यधर्मीया

सकृदेकवारमेवैकं मुष्टिं जग्ध्वा द्वितीयां जग्धुमाददे । स्त्रीपुंसयोर्गो-मणियष्टिमुष्टिपाटलिवास्तिशाल्मलित्रुटिमासिमरीय इति लिङ्गानुशासनं तं तामिति सम्भवति । तावद्द्वितीयघासग्रहणात्प्राक् परमेष्ठिनो हस्तं सत्वरा त्वरावती श्रीः शैब्या हस्तं जगृहे ॥ ९ ॥

एतावताऽलं सर्वात्मन् सर्वसम्पत्समृद्धये ।

अस्मिन् लोके तथाऽमुष्मिन् पुंसस्त्वत्तोषकारणम् ॥ १० ॥

सत्यधर्मीया

हस्तग्रहे हेतुमाह– एतावतेति । हे विश्वात्मन् । एतावतैकेन चिपिट-घासेन सर्वा सम्पत्तस्याः समृद्धये पूर्त्यै अस्मिंल्लोकेऽथवाऽमुष्मिंल्लोके पुंसस्त्वत्तोषकारण-मलम् । इतः परं ग्रहणे दानवारे मद्दानेऽपि न तत्प्रतिक्रियाऽतो विरमेति रमा चकार प्रतिरोधमिति तात्पर्यम् ॥ १० ॥

ब्राह्मणस्तां तु रजनीमुषित्वाऽच्युतमन्दिरे ।

भुक्त्वा पीत्वा सुखं सुप्त्वा मेन आत्मानमिन्द्रवत् ॥ ११ ॥

सत्यधर्मीया

अच्युतमन्दिरे तां तु रजनीमुषित्वा भुक्त्वा पीत्वा सुखं सुप्त्वाऽऽ-त्मानं स्वमिन्द्रवन्मेने ॥ ११ ॥

श्वोभूते विश्वभावेन स्वसखेनाभिवन्दितः ।

जगाम स्वालयं तात पथ्यनुव्रज्य नन्दितः ॥ १२ ॥

पदरत्नावली

अनुव्रज्य अनुगम्य नन्दितः, कृष्णेनेति शेषः ॥ १२ ॥

सत्यधर्मीया

स्वसखेन विश्वभावेन जगदुत्पादकेन श्वोभूते प्रातरभिवन्दितः । तात राजन् । पथि मार्गेऽनुव्रज्य नन्दितः स्वालयं जगाम ॥ १२ ॥

स चालब्ध्वा धनं सख्युर्न च याचितवान् स्वयम् ।

स्वगृहान् व्रीडितोऽगच्छन्महद्दर्शननिर्वृतः ॥ १३ ॥

पदरत्नावली

महतः कृष्णस्य दर्शनेन निर्वृतः ॥ १३ ॥

दुर्घटभावदीपिका

स कुचेलः सख्युः कृष्णाद्धनमलब्ध्वा स्वयं साक्षात्परंपरया च नैव याचितवानिति । एतेन स्वयं न याचितवानित्युक्ते परंपरया याचितवानिति प्रतीयतेऽतः स्वय-मित्येतदनुपपन्नमिति चोद्यस्यानवकाशः । आद्यस्य चशब्दस्यानुक्तसमुच्चयार्थत्वमङ्गीकृत्य साक्षा-त्परंपरया च न याचितवानित्यर्थस्योक्तत्वात् ॥ १३ ॥

सत्यधर्मीया

सख्युः कृष्णाद्धनमलब्ध्वा स्वयं कण्ठतो न च याचितवांश्च । अन्तर्महद्दर्शननिर्वृतो महतः कृष्णस्य यद्दर्शनं तेन निर्वृतः सुखितो बहिर्भार्यापुरतः कथं स्थातव्यमिति व्रीडितश्चेत्यर्थः ॥ १३ ॥

अहो ब्रह्मण्यदेवस्य दृष्टा ब्रह्मण्यता मया ।

यद् दरिद्रतमो लक्ष्मीमाश्लिष्टो बिभ्रतोरसि ॥ १४ ॥

सत्यधर्मीया

ब्रह्मण्यदेवस्य ब्रह्मण्यदेवता मया अहो आश्चर्यकरी दृष्टा । तामेवाभि-नयेनाह– यदिति । लक्ष्मीमुरसि बिभ्रता येन दरिद्रतम आश्लिष्टोऽहमिति यदिति ॥ १४ ॥

क्वाहं दरिद्रः पापीयान् क्व कृष्णः श्रीनिकेतनः ।

ब्रह्मबन्धुरिति स्माहं बाहुभ्यां परिरम्भितः ॥ १५ ॥

पदरत्नावली

अहं ब्राह्मणानां विप्राणां बन्धुरिति स्मृत्वा ॥ १५ ॥

सत्यधर्मीया

पारवश्येन पुनः किञ्चिदनुक्तेन सह तदेवाह– क्वेति । पापीयानिति दारिद्य्र- मूलोक्तिः । ब्रह्मबन्धुर्ब्रह्म चासौ बन्धुरेकगुरुकत्वात्तत्सम इत्यहं बाहुभ्यां परिरम्भितः ॥ १५ ॥

निवासितः प्रियाजुष्टे पर्यङ्के भ्रातरो यथा ।

महिष्या वीजितः श्रान्तो बालव्यजनहस्तया ॥ १६ ॥

पदरत्नावली

भ्रातरो यथा, भ्रातरमिति शेषः ॥ १६ ॥

सत्यधर्मीया

अत एव भ्रातरो यथेत्युक्तिः । भ्राता यथेत्यनेन पूर्तौ यद्भ्रातर इति प्राह तेन पञ्चषाणामागतौ यावत्स्थलमपेक्षितं तावत्स्थलवति तत्पर्यङ्के निवासितोऽहम् । श्रीः श्रीशश्चाधस्तनप्रदेशस्थौ बभूवातामिति ध्वनयामास । प्रियाजुष्टे मदागतितः प्राक् । महिष्या मित्रविन्दयाऽथवोरःस्थितया रमया । श्रान्तोऽहम् ॥ १६ ॥

शुश्रूषया परमया पादसंवहनादिभिः ।

पूजितो देवदेवेन विप्रदेवेन देववत् ॥ १७ ॥

सत्यधर्मीया

शुश्रूषयेति साम्मुग्धोक्तां सेवां विशदयति– पादसंवहनादिभिरिति । विप्रदेवेन विप्रा एव देवाः स्तुत्या यस्य तेन ॥ १७ ॥

स्वर्गापवर्गयोः पुंसां रसायां दिवि सम्पदाम् ।

सर्वासामपि सिद्धीनां मूलं तच्चरणार्चनम् ॥ १८ ॥

पदरत्नावली

दिवि आकाशे ॥ १८ ॥

सत्यधर्मीया

रसायां भूमौ सम्पदां तथा दिवि स्वर्गापवर्गर्योरधिकारतारतम्यात्तथेह सर्वासां सिद्धीनां तच्चरणार्चनं मूलं मुख्यकारणं तेनापि पूजित इत्यन्वयः ॥ १८ ॥

अधनोऽयं धनं प्राप्य माद्यन्नुच्चैर्न मां स्मरेत् ।

इति कारुणिको नूनं धनं मे भूरि नाददात् ॥ १९ ॥

पदरत्नावली

माद्यन् मदं गच्छन् ॥ १९ ॥

दुर्घटभावदीपिका

कारुणिकः कृष्णो यद्यस्मादधनो धनं प्राप्योच्चैर्माद्यन्मां न स्मरेदतो धनं न ददामीति विचार्य मेऽभूर्यप्यल्पधनं नादादित्येतन्नूनमिति । एतेन पूर्वोत्तरार्धयोरनन्वय इति दूषणं परास्तम् । अत इत्यादीनां शेषेणान्वयस्योक्तत्वात् । एतेनैव भूरिधनं नाददा-दित्युक्तेऽल्पं धनमदादिति प्रतीयतेऽतो भूरीत्येतदनुपपन्नमिति दूषणं परिहृतम् । अभूरीति पदच्छेदमपीत्यध्याहारं च स्वीकृत्याल्पमपि धनं नाददादित्यर्थ इत्युक्तत्वात् ॥ १९ ॥

सत्यधर्मीया

एवमर्हिताय तर्हि धनं किमिति नायच्छदित्यतः स्वयं निमित्तमूहयति– अधन इति । दरिद्रो यद्यस्माद्धनं प्राप्योच्चैर्माद्यन्माद्यान्मां न स्मरेदिति भूरिकारुणिको नूनं निश्चित्य मे धनं नाददात् । अभूर्यल्पमपि धनमित्यन्वयो वा ॥ १९ ॥

इति तच्चित्तगत्याऽन्तः प्राप्तो निजगृहान्तिकम् ।

सूर्यानलेन्दुसङ्काशैर्विमानैः सर्वतो वृतम् ॥ २० ॥

पदरत्नावली

अन्तः हृदये, इति तस्मिन् कृष्णे स्थितचित्तगत्या स्वगृहान्तिकं प्राप्तः

॥ २० ॥

दुर्घटभावदीपिका

इति तच्चित्तगत्याऽन्तरित्यस्येति पूर्वोक्तरीत्या तच्चित्तेन भगवद्विषय-कान्तःकरणेन भगवतोऽन्तर्गतिर्गमनं यस्यासाविति तच्चित्तगत्याऽन्तरित्यर्थः । अन्तःशब्दस्य परनिपातश्छान्दसः । अयं भावः । अधनो यद्धनं प्राप्येत्युक्तरीत्या कारुणिकत्वादिभगवद्गुण-ध्यानमनन्तरं च कृतवानिति ॥ २० ॥

सत्यधर्मीया

अन्तर्हृदीति सञ्चिन्तयन्निजगृहं यत्रावर्तत तदन्तिकं प्राप्तः । सुवर्णरत्नरजत- मयत्वात्सूर्यानलेन्दुसङ्काशैर्विमानैः । तान्यगणितानीति तेनैव बोधयति स्म । सर्वतो वृतम् ॥ २० ॥

विचित्रोपवनोद्यानैः कूजद्द्विजकुलाकुलैः ।

प्रोत्फुल्लकुमुदाम्भोजकल्हारोत्पलवारिभिः ॥ २१ ॥

सत्यधर्मीया

उपवनानि समीपवर्तिवननि । उद्यानानि दूरस्थानि । सर्वतो जलवन्ति तान्युद्यानानीति वा । द्विजाः पक्षिणः । कुमुदाद्युपेतानि च तानि वारीणि च तैः ॥२१॥

जुष्टं स्वलङ्कृतैः पुम्भिः स्त्रीभिश्च हरिणाक्षिभिः ।

किमिदं कस्य वा स्थानं कथं तदिदमित्यभूत् ॥ २२ ॥

पदरत्नावली

स्वमन्दिरं दृष्ट्वा इदं किं कस्य चेदं स्थानम्? इदं तदिति तद् द्वारकाविधं कथमभूत् ॥ २२ ॥

सत्यधर्मीया

हरिणाः सारङ्गास्तेषामक्षीणि तैर्जुष्टं पुनः पुनस्तेऽपि पश्यन्तीत्यर्थः । बहुपरिचितत्वान्मदाश्रमवच्चित्ते भाति न यथापूर्वमिति किमिदं मम न वेति वाऽऽलोचयति– कस्य वा स्थानमिति । इदं तदिति तद्वद्द्वारकावददः कथमभूत् ॥ २२ ॥

एवं मीमांसमानं तं नरनार्योऽमरप्रभाः ।

प्रत्यगृह्णन् महाभागं गीतवाद्येन भूयसा ॥ २३ ॥

पदरत्नावली

एवं मीमांसमानं जिज्ञासमानं तं नरादयः प्रत्यगृह्णन् अभ्याययुरित्यन्वयः

॥ २३ ॥

सत्यधर्मीया

मीमांसमानं विचारयन्तं, प्रत्यगृह्णन् सम्मुखमागत्य स्वामिन्नागन्तव्य-मिति स्वीचक्रुः ॥ २३ ॥

पतिमागतमाकर्ण्य पत्न््नयुद्धर्षाच्च सम्भ्रमात् ।

निश्चक्राम गृहात् तूर्णं रूपिणी श्रीरिवालयात् ॥ २४ ॥

सत्यधर्मीया

उद्धर्षाद्धर्षोत्कर्षात्सम्भ्रमादादराद्भयाच्चालयात्पद्मादे रूपिणी श्रीर्यथा निष्क्रामति तथा गृहान्निश्चक्रामेत्यन्वयः । अतो नान्यतरातिरेकः । गृहात्तदाश्रित्यैवाकर्ण्या-लयान्निश्चक्रामेत्यपि योजयन्ति । किमलभ्यं भगवति प्रसन्ने श्रीनिकेतन इति सुरतरुण्यादीनां वा नराणां नारीणां तत्तुल्यानां सर्जनेन वा अमरप्रभा इत्याद्युक्तिरिति ज्ञेयम् ॥ २४ ॥

पतिव्रता पतिं दृष्ट्वा प्रेमोत्कण्ठाऽश्रुलोचना ।

मीलिताक्ष्यनमद्बुद्ध्या मनसा परिषस्वजे ॥ २५ ॥

सत्यधर्मीया

बुद्ध्या तत्पूर्वकं मीलिताक्ष्यनमन्मनसाऽऽलिलिङ्गे । परितोऽपरेषां सत्त्वात् ॥ २५ ॥

पत्नीं वीक्ष्य प्रस्फुरन्तीं देवीं वैमानिकीमिव ।

दासीनां निष्ककण्ठीनां मध्ये भान्तीं सुविस्मितः ॥ २६ ॥

सत्यधर्मीया

वैमानिकीं विमानस्थां देवीमिव प्रस्फुरन्तीं प्रकाशमानां निष्ककण्ठीनां दासीनां मध्ये भान्तीं वीक्ष्य विस्मितः ॥ २६ ॥

प्रीतः स्वयं तया युक्तः प्रविष्टो निजमन्दिरम् ।

मणिस्तम्भशतोपेतं महेन्द्रभवनं यथा ॥ २७ ॥

पदरत्नावली

स निजमन्दिरं प्रविष्टोऽभूत् ॥ २७ ॥

सत्यधर्मीया

तया युक्तः सन्निजमन्दिरं प्रविष्टः । मण्यात्मकस्तम्भशतैरुपेतम् ॥२७॥

पयःफेननिभाः शय्या दान्ता रुग्मपरिच्छदाः ।

पर्यङ्का हेमदण्डानि चामरव्यजनानि च ॥ २८ ॥

सत्यधर्मीया

दान्ता इति न तप्रत्ययान्तः शब्दः । दान्ताः पर्यङ्का इत्यन्वयो वा ॥ २८ ॥

आसनानि च हैमानि स्रग्वस्त्राभरणानि च ।

मुक्तादामविलम्बीनि वितानानि द्युमन्ति च ॥ २९ ॥

पदरत्नावली

द्युमन्ति द्युतिमन्ति ॥ २९ ॥

सत्यधर्मीया

हेमानि सुवर्णमयानि वितानानि उल्लोचा । द्युमन्ति द्यौः प्रकाशो येषां तानि । दिव उदित्युकारे यणादेशे च रूपम् ॥ २९ ॥

स्वच्छस्फटिककुड्येषु महामरकतेषु च ।

रत्नदीपान् भ्राजमानान् ललनारत्नसंयुतान् ॥ ३० ॥

सत्यधर्मीया

रत्नात्मकानेव दीपान् ॥ ३० ॥

विलोक्य ब्राह्मणस्तत्र समृद्धिं सर्वसम्पदाम् ।

तर्कयामास निर्व्यग्रः स्वसमृद्धिमहैतुकीम् ॥ ३१ ॥

पदरत्नावली

निर्व्यग्रः निःसम्भ्रमः ॥ ३१ ॥

सत्यधर्मीया

औतुकीं दृष्टकारणहीनां भगवन्मात्रकर्तृमतीं वा ॥ ३१ ॥

नूनं बतैतन्मम दुर्भगस्य शश्वद् दरिद्रस्य समृद्धिहेतुः ।

महाविभूतेरवलोकतोऽन्यन्नैवोपपद्येत यदूत्तमस्य ॥ ३२ ॥

पदरत्नावली

ममैतदेव समृद्धिहेतुः । महाविभूतेर्यदूत्तमस्यावलोकतोऽन्यन्निमित्तं नैवोपपद्यते, स एव हेतुरित्यर्थः ॥ ३२ ॥

सत्यधर्मीया

तत्तर्कणप्रकारमाह– नूनमित्यादिना । दुर्भगस्य निष्प्रयत्नान्तरस्य शश्वद्दरिद्रस्याजन्मनिर्धनस्यैतन्ममैषश्चासावहं च तस्यैतन्मम समृद्धिहेतुर्महाविभूतेर्निरवधि-कैश्वर्यस्य यदूत्तमस्यावलोकनतो दर्शनादन्यन्निमित्तं नैवोपपद्येतोपपत्तिमन्न भवेत् । बत हर्षो नूनं निश्चयः ॥ ३२ ॥

नन्वब्रुवाणो दिशते शमक्षयं याचिष्णवे भूर्यपि भूरितेजाः ।

(नन्वब्रुवाणो दिशतेऽसमक्षयं यो विष्णवे भूर्यपि भूरितेजाः)

पर्जन्यवन्नः स्वयमीक्षमाणो दाशार्हकाणामृषभः सखा मे ॥ ३३ ॥

पदरत्नावली

यः स्वयमब्रुवाणस्तूष्णीकः पर्जन्यवन्नो ऽक्षयं शं दिशते ददाति । भूरितेजा अनल्पप्रभावो भवति । स एतादृशमहिमा दाशार्हकाणामृषभः मे सखा नन्वनुमतम्, लोकेनेति शेष ॥ ३३ ॥

दुर्घटभावदीपिका

यो भूरितेजा बहुसामर्थ्यः । पर्जन्यवदब्रुवाणः सन् असमक्षं भूर्यपि भूरिव दिशते ददाति । यतो भक्तानस्मान् कृपादृष्ट्या स्वयं परप्रेरणां विना समीक्ष्यमाणो यो दाशार्हकाणामृषभः स विष्णवे विष्णुर्मे सखेति ननु निश्चितमिति । एतेन विष्णुरिति वक्तव्यं विष्णव इत्यनुपपन्नमिति चोद्यं परास्तम् । विष्णव इति चतुर्थी विष्णुरिति प्रथमादेश इत्यभ्युपगमात् ॥ ३३ ॥

॥ इति श्रीभागवतटिप्पण्याम् एकशततमोऽध्यायः ॥ १०–१०१ ॥

सत्यधर्मीया

ननु दास्यति चेत्स चैवं दीयत इति वदेन्नावदच्च । तेनान्यत्कारणं भवेदत्रेत्यतस्तत्स्वाभावोऽयमित्याह– नन्विति । भूरितेजा महाप्रभावः । याचिष्णवे मनसा तद्बुद्धयेऽपि । भूर्यप्यब्रुवाणः स्वयं नः समीक्षमाणो दाशार्हकाणामृषभो मे सखाऽसमक्षं भूरि बहुलं भूरि सुवर्णादिकं वा दिशते दिशति । दिशत इत्यनेनास्योभयपदित्वाद्विष्णव इत्यनेना-प्यन्वयं सूचयामासेति ज्ञेयम् । याचतेर्बाहुलकादिष्णुच् । भुवश्चेत्यत्रत्यानुक्तसमुच्चायकेन चशब्देन वेष्णुच् । भ्राजिष्णुना लोहितचन्दनेन, भ्राजिष्णुर्भूर्ऋभूणां, भ्राजिष्णुर्भोजनेत्यादि-प्रयोगाणां सत्त्वादयमपि साधुरिति ज्ञेयम् । याचिष्णवोभिजग्मुस्तानिति आदिपर्वण्यौ-र्वोपाख्यान उक्तेर्नादत्तमुपतिष्ठत इत्यादेः । मयोपनीतं पृथुकैकमुष्टिमित्याद्यानुकूल्यात् । अग्नौ प्रास्ताहुतिः सम्यगादित्यमुपतिष्ठत इत्यादेः पर्जन्यादेराहुतितोषादुक्तिः । पर्जन्यवत्स यथा तथेति । इदं ‘बहुभाषी स किं दद्यान्नदन्नब्दः पतेत्कथमिति’ महाराष्ट्रभाषामूलकमिति ज्ञेयम् । नूनं निश्चयः ॥ ३३ ॥

किञ्चित्करोत्युर्वपि यत् स्वदत्तं सुहृत्कृतं फल्ग्वपि भूरिकारि ।

मयोपनीतं पृथुकैकमुष्टिं प्रत्यग्रहीत् प्रीतियुतो महात्मा ॥ ३४ ॥

पदरत्नावली

भक्तदत्तमेव हरेस्तृप्तिजनकत्वेनानन्तफलत्वेन परिणमति नाभक्तदत्तमित्याह– किञ्चिदिति ॥ यत् सुष्ठु भक्तिपूर्वकमदत्तं तदुर्वपि किञ्चित् करोति, फलत इति शेषः । ‘त्रैविद्या मां सोमपाः पूतपापा यज्ञैरिष्ट्वा स्वर्गतिं प्रार्थयन्ते’ इत्यादेः । सुहृत्कृतं पूजनं फल्ग्वपि अल्पमपि भूरिकारि । एतत् कुतो दृष्टम् ? अत्राह– मयेति ॥ हेतुगर्भविशेषणमेतत् ॥ ३४ ॥

सत्यधर्मीया

स्वदत्तमुर्वपि बहुलं चेदपि सुहृत्कृते भक्तकृते किञ्चित्करोति मया दत्तमल्पमित्यनुसन्धत्ते । सुहृत्कृत इत्यत्राप्यन्वेतव्यम् । भक्तप्रदत्तं फल्ग्वप्यल्पं चेदपि । भूरि महत्करोतीति भूरिकारी । भक्तदत्तं स्वस्मै तदल्पमपि महदित्यनुसन्धत्ते फलं च तदनुरूपं रातीत्यर्थः । इदं तु ममानुभवरूढमित्याह– मयेति । महात्मा मयोपनीतं पृथुक-स्यैकश्चासौ मुष्टिश्च तम् । चत्वारो मुष्टय आनीताश्चेदपि भगवदुपयोग्येक एव जात इति मयोपनीतं पृथुकैकमुष्टिमित्युक्तिरिति ज्ञेयम् । बालस्यैकमुष्टिपरिमितमित्यप्यर्थो ज्ञेयः । प्रीतियुत इति महत्कृत्वाऽमहदपीति द्योत्यते । प्रत्यग्रहीत्स्वीचकार ॥ ३४ ॥

तस्यैव मे सौहृदसख्यमैत्रीदास्यं पुनर्जन्मनि जन्मनि स्यात् ।

महानुभावेन गुणालयेन विषज्जतस्तत्पुरुषप्रसङ्गः ॥ ३५ ॥

पदरत्नावली

यतोऽत्र भक्तिरेव प्रधानकारणमतः सैव सम्पाद्येति भावेनाह– तस्यैवेति ॥ योऽहमनादिकालमारभ्य तच्चरणैकशरणस् तस्यैव मे सौहृदादि स्यादित्यन्वयः । न केवलस्य हरेर् भक्तिलक्षणसङ्गेन पूर्यते, अपि तु तद्भक्तसङ्गोऽपि स्यादिति प्रार्थयते– महानुभावेनेति ॥ भगवता सह विषज्जतो विशेषेण सङ्गं कुर्वतो मे तत्पुरुषप्रसङ्गस् तस्य हरेः पुरुषेषु ब्रह्मादिष्वपि प्रकृष्टसङ्गश्च स्यादित्यन्वयः ॥ ३५ ॥

सत्यधर्मीया

भक्तिरेव मुख्यं तत्प्र्रीणनसाधनमिति सैव सर्वप्रकारेण सम्पादनीयेति शंसति– तस्यैवेति । प्रेम, सख्यं हितशंसनं, मैत्री चोपकृतिर्दास्यं चेति समाहारैकवचनम् । नानायोनिबम्भ्रमणे किं किं लब्धं भविष्यतीत्येतच्चतुष्टयोक्तेरिति वा । जन्मनि जन्मनि प्रतिजन्म स्यात् । यद्यप्येवंविधज्ञानवतो बहूनि न वितरेद्धरिर्जन्मानि तथाऽपि स्वद्वारा परानुसन्धानं लक्षयित्वैवमवोचदिति मन्तव्यम् । तद्भक्तसक्तिरप्यावश्यकीति तामपि याचते । महानुभावेन गुणालयेन हरिणा विषज्जतः सज्जमानस्य तत्पुरुषप्रसङ्गस्तद्वाससहवासोऽपि स्यादिति ॥३५॥

भक्ताय चित्रा भगवान् हि सम्पदो राज्यं विभूतीर्न समर्पयत्यजः ।

अदीर्घबोधाय विचक्षणः स्वयं पश्यन् निपातं धनिनां मदोद्भवम् ॥ ३६ ॥

पदरत्नावली

हरिरैहिकमैश्वर्यं न ददातीति मन्दजनानुमितस्वदोषापमार्जनायेयं सम्पादितेति भावेनाह– भक्तायेति ॥ ३६ ॥

सत्यधर्मीया

निष्किञ्चनास्तर्हि हरिभक्ताः कुत इत्यत इत इत्याह– भक्तायेति । स्वयमजो विचक्षणो धनिनाम् । इनिना स्वासमर्पिततया तद्धननिन्दनं सूचयति । भूमनिन्दे-त्यादेः । मदोद्भवं निपातं पश्यन्नदीर्घबोधायाज्ञाय भक्ताय चित्राः सम्पदः कोशादींस्तथा राज्यं विभूतीरणिमादिसिद्धीर्न समर्पयति देयफलत्वेन न कल्पयति ॥ ३६ ॥

इत्थं व्यवसितो बुद्ध्या भक्त्याऽतीव जनार्दने ।

विषयान् जायया त्यक्त्वा बुभुजे नातिलम्पटः ॥ ३७ ॥

पदरत्नावली

त्यक्त्वा, अहम्ममतामिति शेषः ॥ ३७ ॥

सत्यधर्मीया

मां त्वदीर्घदर्शिनमभक्तं मत्वैवं विभूतिमन्तं विभुरकरोदिति सर्वथेत उत तद्भक्तः स्यामित्यन्तरालोचितं तत्कालोचितं प्रकाशयन् शंसति स इति शंसति– इत्थमिति । बुद्ध्येत्थं व्यवसितो निश्चिन्वानो भक्त्या जनार्दने विषयांस्त्यक्त्वा दत्वा समर्प्येति यावत् । तेन त्यक्तेनाक्षयं ब्राह्मणे दानं, यतौ दत्तमनन्तकमित्यादि-वत्सप्तम्युप-पत्तिर्ज्ञेया । जायया सह नातिलम्पटः सन् बुभुजे । त्यक्ष्यन्निति पाठः सुन्दरः । क्रमात्त्यागं करिष्यन्नित्यर्थः । अनुकूलं चैतस्य नातिलम्पट इति च ज्ञेयम् ॥ ३७ ॥

तस्य वै देवदेवस्य हरेर्यज्ञपतेः प्रभोः ।

ब्राह्मणाः प्रभवो दैवं न तेभ्यो विद्यते परम् ॥ ३८ ॥

पदरत्नावली

देवदेवस्येत्यनेन सर्वप्रभुत्वं यज्ञपतेरित्यनेन सर्वदेवत्वं च हरेरेव मुख्यमिति सूचितम् । अनेनेतरैर्ब्राह्मणभक्तिरेवावश्यं कर्तव्येति तात्पर्यं विधीयते न तु तस्येति ॥३८॥

सत्यधर्मीया

तवेयती सपर्या पर्याप्ता कुतः कृता भगवतेति कश्चिद्वदेदिति स्वयं वितर्क्य वक्ति– तस्येति । देवदेवस्य पूज्यस्य यज्ञपतेः प्रभोर्हरेर्ब्राह्मणाः प्रभवस्तत्त्वेन तेनैव कृतास्तेभ्यः परं दैवं न विद्यते । अन्यथैतेषां मान्यता न स्यादित्येवं भगवताऽनुष्ठितमिति भावः ॥ ३९ ॥

एवं स विप्रो भगवत्सुहृत् तदा दृष्ट्वा स्वभक्तैरजितं पराजितम् ।

तद्ध्यानवेगोद्ग्रथितात्मबन्धनस्तद्धाम लेभेऽचिरतः सतां पतेः ॥ ३९ ॥

पदरत्नावली

तस्य विप्रस्य का सिद्धिरभूत् ? तत्राह– एवमिति ॥ अजितं नाम भगवन्तं स्वभक्तैः पराजितं दृष्ट्वा तस्य हरेर्ध्यानवेगेन उद्ग्रथितमुन्मुक्तमात्मबन्धनं यस्य स तथा तद्भक्तैरेव प्राप्यं तद्धाम वैकुण्ठादिलक्षणम् ॥ ३९ ॥

सत्यधर्मीया

अनन्तरं विप्रः किमकरोदिति तत्राह– एवमिति । स विप्रो भगवत्सुहृदजितं कैरपि, स्वभक्तैः पराजितं तदा दृष्ट्वा तद्ध्यानवेगेनोद्ग्रन्थितं श्लथितमात्म-बन्धनं यस्य सः सतां गतिं तद्रूपं तद्धामाचिरतः शीघ्रं लेभे ॥ ३९ ॥

एवं ब्रह्मण्यदेवस्य श्रुत्वा ब्रह्मण्यतां नरः ।

लब्धभावो भगवति कर्मबन्धात् प्रमुच्यते ॥ ४० ॥

॥ इति श्रीमद्भागवते दशमस्कन्धे एकाधिकशततमोऽध्यायः ॥

पदरत्नावली

एतच्चरितोपासकस्य फलमाह– एवमिति ॥ लब्धभावो लब्धभक्तिः । अनेनास्य भक्तस्येतरभक्तवैलक्षण्यमुक्तं स्यादिति तात्पर्यमवगन्तव्यम् ॥ ४० ॥

॥ इति श्रीमद्भागवतटीकायां विजयध्वजतीर्थकृतायां पदरत्नावल्यां

दशमस्कन्धे उत्तरार्धे एकाधिकशततमोऽध्यायः (स.धर्म.१०–१०१) ॥

सत्यधर्मीया

पृथुकाख्यानश्रोतुः फलमभिलपति– एवमिति । ब्रह्मण्यदेवस्य नरो ब्रह्मण्यतां श्रुत्वा भगवति लब्धभावो लब्धो भावो भक्तिर्यस्य स सन्कर्मबन्धाद्विमुच्यते ॥ ४० ॥

**॥ इति श्रीसत्यधर्मयतिकृतायां भागवतटिप्पण्यां दशमस्कन्ध उत्तरार्धे **

एकाधिकशततमोऽध्यायः ॥ १०–१०१ ॥