२६ शततमोऽध्यायः

भगवानपि गोविन्दः साधयित्वा स्ववाञ्छितम्

॥ अथ शततमोऽध्यायः ॥

श्रीशुक उवाच—

भगवानपि गोविन्दः साधयित्वा स्ववाञ्छितम् ।

सुयोधने महाबाहौ निहते गदया रणे ॥ १ ॥

पदरत्नावली

अनेनाध्यायद्वयेन कृपणब्राह्मणकृपातिशयकथनेन हरिभक्तस्य न केवलं पारत्रिकमेव फलमपि तु ऐहिकमप्यतिविस्मयकरं स्यादितीदृशं माहात्म्यं वक्ति । तत्र प्रथमतो भारतयुद्धं समाप्य कृष्णस्य हस्तिनपुरप्रयाणप्रकारं प्रख्यापयति– भगवानपीति ॥ १ ॥

सत्यधर्मीया

प्रायेणैहिकफलकामुका लोका लोके बहव इति तदपि हरिकरुणातो भवतीति सद्यस्तनतनयनीतिमत्कृपणब्राह्मणसुतानयनादिमाहात्म्यमध्यायद्वन्द्वेन वदन्नादौ भारतसमरं समाप्य कृष्णः किं कृतवानित्यत आह– भगवानपीति । स्ववाञ्छितं स्वस्वकीयोभयवाञ्छितम् । गदया करणेन भीमेन ॥ १ ॥

विसृज्यायोधनं शून्यं प्रयातुमुपचक्रमे ।

कृपश्च कृतवर्मा च द्रौणिश्च रथिनां वरः ॥ २ ॥

पदरत्नावली

शून्यं शवादिना पिहितम् । प्रयातुं गन्तुम् । अष्टादशाक्षौहिणीभ्यः शिष्टानाह– कृपश्चेति ॥ २ ॥

सत्यधर्मीया

शून्यं योद्धृविरहितम् । प्रयातुं हस्तिनावतीम् ॥ २ ॥

अवशिष्टा महात्मानः सुयोधनबले त्रयः ।

पञ्च पाण्डुसुता वीराः सात्यकिश्च महाबलः ॥ ३ ॥

सत्यधर्मीया

त्रयः कृपादयः । अत्र रात्रौ कृतः, कृतवर्माऽश्वत्थामकृपैर्धृष्टद्युम्नादि-हननव्यापारोऽन्यत्रोक्तोऽनुसन्धेय इति सूचयितुं त्रयोऽवशिष्टा इत्युक्तिः ॥ ३ ॥

वैश्यापुत्रो युयुत्सुश्च शिष्टाः कृष्णपुरोगमाः ।

तान् पुरस्कृत्य गोविन्दो मुनिवृद्धसमन्वितः ॥ ४ ॥

सत्यधर्मीया

वैश्यापुत्रो युयुत्सुर्नाम्नैवेत्युर्वरितः । मुनिवृद्धैर्मुनिषु वृद्धैर्मुनिभिरिति मुनिभिर्वृद्धैरितरैरिति वा ॥ ४ ॥

जगाम हास्तिनपुरं धृतराष्ट्रं प्रसादितुम् ।

गान्धारीं धृतराष्ट्रं च विदुरं च महामतिम् ॥ ५ ॥

प्रसाद्य पाण्डवान् स्वे स्वे राज्ये संस्थाप्य यत्नतः ।

स्तूयमानो मुनिगणैः सूतमागधवन्दिभिः ॥ ६ ॥

पदरत्नावली

भगवत्सेवामन्तरेण राज्यानिच्छून् इत्यतो– यत्नत इति ॥ युक्त्या प्रतिपाद्येत्यर्थः ॥ ६ ॥

सत्यधर्मीया

प्रसाद्य धृतराष्ट्रादीन् पाण्डवान् । अस्वे प्रागिदानीं स्वराज्ये प्रस्थाप्ये-त्यन्वयः । अन्यथा वीप्सया पञ्चस्वपि पाण्डवेषु प्रागेव विभज्य राज्यस्थापनमिति प्रसज्येत न तद्युक्तमिति चिन्तनीयम् । यत्नतस्तदीयात् ॥ ६ ॥

अनुयातः पाण्डुपुत्रैः प्रेमबाष्पाविलेक्षणैः ।

ताननुज्ञाप्य सोत्कण्ठान् रथेनादित्यवर्चसा ॥ ७ ॥

सत्यधर्मीया

प्रेमबाष्पैराविलानीक्षणानि येषां ते तैः । सोत्कण्ठान्सहोत्कलिकान्

॥ ७ ॥

शङ्खदुन्दुभिनिर्घोषैर्वेदमङ्गलनिस्वनैः ।

पुण्याहमन्त्रघोषैश्च द्वारकां प्रययौ हरिः ॥ ८ ॥

पदरत्नावली

वेदे ये मङ्गलनिःस्वना मङ्गलवचनानि तैः ॥ ८ ॥

सत्यधर्मीया

वेदाश्च मन्त्रातिरिक्तास्तेषां मङ्गलनिस्वनैः ॥ ८ ॥

विचित्रतोरणां रम्यां चलत्कदलिकाकुलाम् ।

अलङ्कृतां पौरजनैः सिक्तसंसृष्टभूतलाम् ॥ ९ ॥

सत्यधर्मीया

चलन्त्यश्च ताः कदलिकाश्च ताभिराकुलाम् ॥ ९ ॥

उपस्थितः पौरजनैः पालिकाङ्कुरधारिभिः ।

योषिद्भिर्वारमुख्याभिर्भूषिताभिश्च भूषणैः ॥ १० ॥

पदरत्नावली

उपस्थितो ऽभिगतः । अङ्कुरपूरिता पालिका पात्रविशेषः ॥ १० ॥

सत्यधर्मीया

पालिकः कपालविशेषस्तदुप्तबीजाङ्कुरास्तद्धारिभिः पुरुषैर्वारमुख्याभि-र्वेश्याभिः ॥ १० ॥

वहद्भिर्दीपमुकुरकलशस्रक्फलाक्षतान् ।

उपस्थितो ब्राह्मणैश्च पुत्रैः पौत्रैः सहानुजैः ॥ ११ ॥

सत्यधर्मीया

दीपाश्च मुकुराश्च दर्पणानि च । दर्पणे मुकुरादर्शावित्यमरः । कलशाश्च सृजश्च फलानि चाक्षताश्च तान्वहद्भिः पुरुषैर्ब्राह्मणादिभिरुपस्थितः सम्मुखमायात् ॥ ११ ॥

प्रविवेश पुरीं दिव्यां दिवसे पूजितो हरिः ।

स प्रविश्य सभां दिव्यां सुधर्मां लोकविश्रुताम् ॥ १२ ॥

सत्यधर्मीया

दिवसेऽन्हि ॥ १२ ॥

आहुकं वसुदेवं च रामं चैवाभ्यवादयत् ।

प्रणम्य मातरो विश्वाः काञ्चने परमासने ॥ १३ ॥

पदरत्नावली

मातरो मातॄः ॥ १३ ॥

सत्यधर्मीया

या मातरस्ता विश्वा मातरः । काञ्चने परमासने उपविश्य ॥१३॥

उपविश्य यथाजोषं पूजितो यदुपुङ्गवैः ।

रराज रजनीनाथो यथा ग्रहगणैर्दिवि ॥ १४ ॥

सत्यधर्मीया

रजनीनाथो निशेशः ॥ १४ ॥

हतावशिष्टैर्भूपालैस्तत्पुत्रैश्च महाबलैः ।

अभिषिक्तैर्यथास्थानं सेव्यमानो दिवानिशम् ॥ १५ ॥

दुर्घटभावदीपिका

यथास्थानं स्वस्वस्थानमनतिक्रम्याभिषिक्तैः कृष्णदर्शनार्थं क्रमेणा-विच्छेदेनागतैर्दिवानिशं सेव्यमान इति । एतेनाभिषिक्तैर्हतावशिष्टैर्भूपालैस्तु पुत्रैश्च कृष्णो दिवानिशं संसेव्यमानश्चेद्धतावशिष्टभूपालानां तत्पुत्राणां च स्वस्वस्थाने कदाऽप्यवस्थानं नास्तीति प्राप्नोतीति चोद्यं प्रत्युक्तम् । क्रमेणाविच्छेदेनागतैरित्यस्य शेषेण यदा हतावशिष्टभूपाला-स्तत्पुत्राश्च कृष्णदर्शनार्थमायान्ति तदा तैर्दिवानिशं सेव्यमान इत्यर्थ इत्यङ्गीकारात् ॥ १५ ॥

सत्यधर्मीया

तत्पुत्रैर्हतानां सुतैः । यथास्थानं स्वे स्वे संस्थानेऽभिषिक्तैः सेव्यमानो रराजेत्यन्वयः ॥ १५ ॥

अवतीर्णमहाभारां विश्वां विश्वान्तरो हरिः ।

धर्मराजं पुरस्कृत्य धर्मेणैवान्वशासत ॥ १६ ॥

सत्यधर्मीया

अवतीर्णो महान्भारो यस्याः सा तां विश्वां समस्तां भूमिं, विश्वान्तरो जगदन्तः स्थित्वा रमणकृद्धरिर्धर्मराजं पुरस्कृत्य धर्मेणैवान्वशासतम् ॥ १६ ॥

राजोवाच—

भगवन् यानि चान्यानि मुकुन्दस्य महात्मनः ।

वीर्याण्यनन्तवीर्यस्य श्रोतुमिच्छामहे प्रभो ॥ १७ ॥

सत्यधर्मीया

भगवन् हे प्रभो शुक । अनन्तवीर्यस्य प्रस्तुतानन्तस्य बलस्य वीर्यं येन तस्य महात्मनो मुकुन्दस्य वीर्याणि श्रोतुमिच्छामहे इत्यन्वयः । आकाङ्क्षन्नपि देवोऽसौ नेच्छते लोकवत्पर इति प्रमेयदीपिकायाम् । नेच्छते नेच्छति । व्यत्ययो बहुलमित्युक्ते-रिच्छामह इति पदव्यत्ययो वा ॥ १७ ॥

को नु श्रुत्वा सकृद् ब्रह्मन्नुत्तमश्लोकसत्कथाम् ।

विरमेत विशेषज्ञो विषण्णः काममार्गणैः ॥ १८ ॥

सत्यधर्मीया

काममार्गणैः स्मरशरैः । काम्यन्त इति कामा विषयास्तद्रूपैः शरैरिति वा सदा तद्विचारैरिति वा । विषण्णो विषादं प्राप्तो, विशेषज्ञस्तद्रसविशेषवित् । उत्तम-श्लोकसत्कथामेकवारं श्रुत्वा को नु विरमेत विरमेद्विराममलं बुद्धिं प्राप्नुयात् ॥ १८ ॥

सा वागनन्तस्य गुणान् गृणीते करौ च तत्कर्मकरौ मनश्च ।

स्मरेद् वसन्तं स्थिरजङ्गमेषु शृृणोति तत्पुण्यकथाः स कर्णः ॥ १९ ॥

पदरत्नावली

राजा एतदेवेन्द्रियकृत्यमिति वक्ति– सा वागिति ॥ याऽनन्तस्य गुणान् गृणीते सैव वाक्, यौ तत्कर्मकरौ तावेव करौ, अनेन करोतीति कर इति कर्तर्यच्प्रत्ययः सफल इति सूचितम् । यत् स्थिरजङ्गमेषु वसन्तं हरिं स्मरेत् तदेव मनः । मन ज्ञान इति धातोः स्मरणलक्षणं ज्ञानम् । यस्तस्य हरेः कथाः श्रृणोति स कर्णः । कृण आकर्णन इति धातुः

॥ १९ ॥

सत्यधर्मीया

सर्वदा सर्वेन्द्रियाणामेवं वर्तन एव साफल्यं नान्यथेति राजा वक्ति– सेति । या वागनन्तस्य गुणान्गृणीते सैव वाक् । तत्कर्मकरौ हरेर्मन्दिरमार्जनादिकर्म कुर्वाते इति करौ पाणी नापरथा सन्तावप्यसन्ताविति भावः । एवं सर्वत्र ज्ञेयम् । स्थिरजङ्गमेषु वसन्तं तं यन्मनः स्मरेत्तदेव मनः । तत्पुण्यकथा यः शृणोति स एव कर्णः ॥ १९ ॥

शिरस्तु तस्योभयलिङ्गमानमेत् तदेव यत् पश्यति तद्धि चक्षुः ।

अङ्गानि विष्णोरथ तज्जनानां पादोदकं यानि भजन्ति नित्यम् ॥ २० ॥

पदरत्नावली

चराचरभेदेनोभयलिङ्गमुभयप्रतिमामानमेद् यत् तदेव शिरः । श्रयत इति शिरः । श्रिञ् सेवायामिति धातोर्नमनलक्षणसेवायां शिर इति निपात्यते । यदुभयलिङ्गं पश्यति तदेव चक्षुः । चष्टे पश्यतीति चक्षुः । चक्षिङ्(चक्षु दर्शन)व्यक्तायां वाचि इति धातुः । तस्य हरेर् जनानाम् । यानि विष्णोः पादोदकं नित्यं भजन्ति पानस्नानलक्षणसेवां कुर्वन्ति अथ मङ्गलानि तान्येवाङ्गानि नान्यानि ॥ २० ॥

सत्यधर्मीया

यत्तस्य भगवत उभयलिङ्गं चरप्रतिमां ज्ञानिनमचरप्रतिमादिकं चेत्युभय-लिङ्गमानमेत्तदेव शिरः । तुरन्यथा न तच्छिरःशब्दवाच्यमिति विशेषसूचकः । ऊर्ध्वं त्वेवोद-सर्पत्तच्छिरोऽश्रयत यच्छिरोऽश्रयत तच्छिरोऽभवत्तच्छिरसः शिरस्त्वम् । ता एताः शीर्षंच्छ्रियः श्रिताश्चक्षुःश्रोत्रंमनोवाक्प्राणाः श्रयन्तेऽस्मिंच्छ्रियो य एवमेतच्छिरस्त्वं वेद । तत उर्ध्वं गतो विष्णुर्वायुना सह दैवतैः । स्थितो मूर्धनि देवेशः स्थितोऽसाविति तच्छिर इत्यैतरेयोप-निषद्भाष्याभ्यां निरुक्तः शिरःशब्दः । तदेवोभयलिङ्गं यत्पश्यति तदेव चक्षुः । विष्णोरथ तज्जनानां च नित्यं पादोदकं यानि भजन्ति तान्येवाङ्गानि ॥ २० ॥

सूत उवाच—

विष्णुरातेन सम्पृष्टो भगवान् बादरायणिः ।

वासुदेवे भगवति निमग्नहृदयोऽब्रवीत् ॥ २१ ॥

सत्यधर्मीया

परीक्षिता पृष्टः शुकः किं चकारेति शौनकमानसिकसन्देहं परिहरन्सूत आहेत्याह– सूत उवाचेति । भगवति वासुदेवे निमग्नहृदयः सन्नब्रवीत् ॥ २१ ॥

श्रीशुक उवाच—

कृष्णस्यासीत् सखा कश्चिद् ब्राह्मणो ब्रह्मवित्तमः ।

विरक्त इन्द्रियार्थेषु प्रशान्तात्मा जितेन्द्रियः ॥ २२ ॥

सत्यधर्मीया

ब्रह्मवित्तमः ब्रह्मश्रेष्ठः । इन्द्रियार्थेष्विन्द्रियविषयेषु विरक्तः प्रशान्तात्मा समाहितमानसो जितेन्द्रियश्च स्वाधीनेन्द्रियः कश्चिद्ब्राह्मणः सखाऽऽसीत् ॥ २२ ॥

यदृच्छयोपपन्नेन वर्तमानो गृहाश्रमी ।

तस्य भार्या कुचेलस्य क्षुत्क्षामा च तथाविधा ॥ २३ ॥

पदरत्नावली

तथाविधा भर्तृवन्मलिनवस्त्रा ॥ २३ ॥

सत्यधर्मीया

यदृच्छया हरीच्छया । कुत्सितं चैलमेकं यस्य स तस्य क्षुत्क्षामाऽन्नाभावात्क्षुधैव कृशा ॥ २३ ॥

पतिव्रता पतिं प्राह म्लायतावदनेन सा ।

दरिद्रं साध्व्यशनया वेपमानाऽभिगम्य च ॥ २४ ॥

पदरत्नावली

म्लायता म्लानं गच्छता । अशनयावेपमानेत्येकं पदम् । अशनयाऽश-नेच्छया कम्पमाना ॥ २४ ॥

सत्यधर्मीया

म्लायता क्षयिष्णुहर्षवता शुष्यतेति यावत् । अशनयाऽशनाया तदिच्छया । वेपमाना कम्पमाना पतिव्रता पतिं कुचैलं प्राह ॥ २४ ॥

ननु ब्रह्मन् भगवतः सखा साक्षाच्छ्रियः पतिः ।

ब्रह्मण्यश्च शरण्यश्च भगवान् सात्वतर्षभः ॥ २५ ॥

सत्यधर्मीया

भगवतो भवतः । साक्षाच्छ्रियः पतिः सखा ॥ २५ ॥

तमुपैहि महाभाग साधूनां च परायणम् ।

दास्यति द्रविणं भूरि सीदते ते कुटुम्बिने ॥ २६ ॥

पदरत्नावली

सीदते अवसन्नाय दरिद्राय ॥ २६ ॥

सत्यधर्मीया

सीदतेऽवसन्नाय । एकाकिनो मम किं, जनयिता देवस्तृणं खाद-यतीति न वदेति सुदती वदति– कुटुम्बिन इति ॥ २६ ॥

आस्तेऽधुना द्वारवत्यां भोजवृष्ण्यन्धकेश्वरः ।

स्मरतः पादयुगलमात्मानमपि यच्छति ॥ २७ ॥

किम्वर्थकामान् भजतो नान्यमिष्टं जगद्गुरुः ।

स एवं भार्यया विप्रो बहुशः प्रार्थितो विभुः ॥ २८ ॥

पदरत्नावली

अर्थकामान् यच्छतीति किमु वक्तव्यम् ? किञ्च जगद्गुरुर् अन्यम् उक्तेभ्योऽन्यमिष्टं न यच्छति ? किन्तु भजतः पुरुषस्य यच्छत्येवेत्यर्थः । यद्वा ना परमपुरुषो ऽन्यमभीष्टमपि यच्छतीत्यतस्तमुपैहीत्यन्वयः ॥ २८ ॥

सत्यधर्मीया

पादयुगलं स्मरत आत्मानं स्वमपि यच्छति कियद्धनादीति भावेनाह– किम्विति । भजतः पुंसोऽर्थकामान् । बहुवचनमाद्यर्थे । धमार्थकामान्यच्छेदिति किमु वाच्यम् । तर्हि सर्वाधिकारिसाधारणं किमिदं वितरणमित्यत आह– अन्यमिष्टमिति । अन्येषां तामसानां मिष्टं सुखादुमानन्दरसं न यच्छति । इष्टमिति छेदेऽन्यभक्तमुद्दिश्येष्टं न यच्छतीत्यर्थः । तस्य गुरुकुलवासस्त्वदाद्युद्धारार्थमेव न त्वनवाप्तनवविद्याप्त्या इत्याह– जगद्गुरुरिति । तमुपैहीत्यन्वयः ॥ २७,२८ ॥

अयं हि परमो लाभ उत्तमश्लोकदर्शनम् ।

इति सञ्चिन्त्य मनसा गमनाय मनो दधे ॥ २९ ॥

सत्यधर्मीया

ऐहलौकिक्यः सम्पदो भवन्तु मा वोपरमन्तु । तातदर्शनं भवेदेवेतः-परमपेक्षणीयः क इत्याह– अयं हीति । यदुत्तमश्लोकदर्शनमयं परमो महाल्लाभ इति मनसा सञ्चिन्त्य गमनाय द्वारकां प्रति मनो दधे ॥ २९ ॥

अप्यस्त्युपायनं१ किञ्चिद् गृहे कल्याणि दीयताम् ।

याचित्वा चतुरो मुष्टीन् विप्रान् पृथुकतण्डुलान् ॥ ३० ॥

चैलखण्डेन तान् बद्ध्वा भर्त्रे प्रादादुपायनम् ।

स तानादाय विप्राग्य्रः प्रययौ द्वारकां किल ॥ ३१ ॥

पदरत्नावली

चैलखण्डेन जीर्णवस्त्रखण्डेन ॥ ३१ ॥

सत्यधर्मीया

हे कल्याणि । अपिर्यद्यर्थे । यद्युपायनं ‘रिक्तहस्तेन नोपेयाद्राजानं दैवतं गुुरुमित्यादेः’ देवदेयं किञ्चिदस्ति तर्हि दीयताम् । विप्रानितरांश्चतुरो मृष्टीन्पृथुकतण्डुला-न्याचित्वाऽऽनीय तांश्चैलखण्डेन । अनेन वस्त्रछिद्रता ध्वन्यते । भर्त्रे स्वभर्त्रे जगद्भर्त्रे च

॥ ३०,३१ ॥

कृष्णसन्दर्शनं मह्यं कथं स्यादिति चिन्तयन्

त्रीणि गुल्मान्यतीयाय तिस्रः कक्ष्याश्च स द्विजः ॥ ३२ ॥

पदरत्नावली

गुल्मानि शिबिराणि । कक्ष्याः पुरप्रकोष्ठानि । ‘कक्ष्या कच्छे वस्त्रायां काञ्च्यां गेहे प्रकोष्ठके’ इति यादवः ॥ ३२ ॥

सत्यधर्मीया

त्रीणी गुल्मानि घट्टविशेषान् शिबिराणीति वा । कक्ष्याः पुरप्रकोष्टानि

॥ ३२ ॥

विप्रो गम्यान्धवृष्णीनां गेहेष्वच्युतधर्मिणाम्

गृहाणि व्द्यष्टसाहस्रमहिषीणां हरेर्द्विजः ॥ ३३ ॥

पदरत्नावली

अन्धवृष्णीनां गृहेषु मध्ये यानि द्व्यष्टसाहस्रमहिषीणां गृहाणि (तानि) गम्य गत्वा तेष्वेकतमं गृहं विवेशेत्यन्वयः । द्विजत्वं क्षत्रियस्याप्यस्तीति विप्र इति ॥३३॥

दुर्घटभावदीपिका

विप्रो मेधावी द्विजः कुचेलो गम्यां द्वारकां गत्वाऽच्युतधर्मिणामच्युत-प्रीत्यापादकधर्मविशिष्टानामन्धवृष्णीनां गेहेषु विद्यमानानि यानि हरेर्द्व्यष्टसहस्रमहिषीणां गृहाणि तेषु श्रीमदेकतमं गृहम् । आनन्दं गतो मुक्तो यथा ब्रह्म विशति तथा विवेशेति । एतेन विप्र इत्यनेन पूर्णत्वाद् द्विज इत्येतद्व्यर्थमिति दूषणं परास्तम् । छांदसोऽयं ल्यबित्यभ्युपगमात् । एतेनैवान्ध-वृष्णीनां गेहेष्वित्येतदनन्वितमिति चोद्यस्यानवकाशः । विद्यमानानीत्यादेः शेषेणान्वयस्योक्तत्वात्

॥ ३३ ॥

सत्यधर्मीया

गम्य गत्वा । अच्युतस्य धर्मः सोऽस्त्येषां तेऽच्युतधर्मिणस्तेषाम् । द्व्यष्टसाहस्रमहिषीणां षोडशसहस्रस्त्रीणाम् ॥ ३३ ॥

विवेशैकतमं श्रीमद् ब्रह्मानन्दं गतो यथा

तं विलोक्याच्युतो दूरात् प्रियापर्यङ्क आश्रितः ॥ ३४ ॥

पदरत्नावली

आनन्दं गतो मुक्तो ब्रह्म विशति यथा तथा ॥ ३४ ॥

सत्यधर्मीया

तन्मध्य एकतमं गेहं विवेश । आनन्दं ब्रह्मगतो यथा तथेति । प्रियायाः पर्यङ्कं प्रियया सह पर्यङ्कमाश्रित इति वा । दूराद्विलोक्य ॥ ३४ ॥

सहसोत्थाय चाभ्येत्य दोर्भ्यां पर्यग्रहीन्मुदा

सख्युः प्रियस्य विप्रर्षेरङ्गसङ्गातिनिर्वृतः ॥ ३५ ॥

प्रीतो ह्यमुञ्चदब्बिन्दून् नेत्राभ्यां पुष्करेक्षणः

अथोपवेश्य पर्यङ्के स्वयं सख्युः समर्हणम् ॥ ३६ ॥

पदरत्नावली

पर्यग्रहीदाश्लिष्टवान् ॥ ३५ ॥

सत्यधर्मीया

सहसा झडिति दोर्भ्यां पर्यग्रहीदालिलिङ्ग । अङ्गसङ्गेनातिनिर्वृतः सुखितो ऽब्बिन्दून्मोदोदकानि । सख्युः स्वयं साक्षात्समर्हणमर्हणसाधनम् ॥ ३५,३६ ॥

उपहृत्यावनिज्यास्य पादौ पादावनेजनीः ।

अग्रहीच्छिरसा राजन् भगवाल्लोकपावनः ॥ ३७ ॥

पदरत्नावली

पादावनेजनीरपः पादप्रक्षालनोदकम् ॥ ३७ ॥

सत्यधर्मीया

अस्य पादाववनिज्य प्रक्षाल्य पादावनेजनीरप इति शेषः । शिरसाऽ-ग्रहीत् । लोकपावन इत्यनेनेतरानुशासनार्थमेवायं देवव्यापार इत्यसूचि ॥ ३७ ॥

व्यलिम्पद् दिव्यगन्धेन चन्दनागरुकुङ्कुमैः ।

धूपैः सुरभिभिर्मित्रं प्रदीपावलिभिर्मुदा ॥ ३८ ॥

सत्यधर्मीया

दिव्यगन्धेन अङ्गमिति शेषः । व्यलिम्पल्लिलिम्पे । चन्दनागरुकुङ्कुमै-स्तन्मयधूपैरत एव सुरभिभिः । प्रदीपानामावलिभिः पङ्क्तिभिः ॥ ३८ ॥

अर्चित्वाऽऽवेद्य ताम्बूलं गां च स्वागतमब्रवीत्

कुचेलं मलिनं क्षामं द्विजं धमनिसन्ततम् ॥ ३९ ॥

देवी पर्यचरच्छैब्या चामरव्यजनेन वै ॥ ४० ॥

पदरत्नावली

धमनिसन्ततं शिरासहस्राचितगात्रम् ॥ ३९ ॥

सत्यधर्मीया

मलिनमनङ्गाभ्यङ्गात् । धमनयः शिरस्ताभिः सन्ततं व्याप्तम् । कार्श्यात्ता एव दृश्यन्त इत्येवमुक्तिः । शैव्या मित्रविन्दा । एतेन प्रागेकतमं गृहं विवेशेत्युक्तं गृहं मित्रविन्दाया इति विवृतं मन्तव्यम् ॥ ३९,४० ॥

अन्तःपुरजनो दृष्ट्वा कृष्णेनामलकीर्तिना ।

विस्मितोऽभूत् स विप्राग्य्रमवधूतं सभाजितम् ।

किमनेन कृतं पुण्यमवधूतेन भिक्षुणा ॥ ४१ ॥

सत्यधर्मीया

अन्तः पुरजनो विस्मितोऽभूदित्यन्वयः । अवधूतं तद्वद्भूतम् । तं विस्मयहेतुमाह– किमनेनेति ॥ ४१ ॥

श्रिया हीनेन लोकेऽस्मिन् गर्हितेनावमेन१ च

योऽसौ त्रिलोकगुरुणा श्रीनिवासेन सम्भृतः ॥ ४२ ॥

पदरत्नावली

सम्भृतः सभाजितः सङ्गृहीतो वा ॥ ४२ ॥

सत्यधर्मीया

गर्हितेन निर्धनः पुरुषः पशुरित्यादेः । किमनेन पुण्यं कृतमित्यन्वयः । योऽसौ त्रिलोकगुरुणा श्रीनिवासेन सम्भृतः पूर्णीकृत एव ॥ ४२ ॥

पर्यङ्कस्थां श्रियं हित्वा परिष्वक्तोऽग्रजो यथा

कथयाञ्चक्रतुर्गाथां पूर्वां गुरुकुले सताम्

आत्मनोल्लसितौ राजन् करौ गृह्य परस्परम्

अपि ब्रह्मन् गुरुकुलाद् भवता लब्धदक्षिणात् ॥ ४३,४४ ॥

पदरत्नावली

गुरुकुले सतां स्वेषां काले पूर्वस्मिन् या गाथाः प्रवृत्तास्तां कयथाञ्चक्रतुः

॥ ४३ ॥

दुर्घटभावदीपिका

हे राजन् । कृष्णकुचेलावुल्लसितौ करौ परस्परं गृह्य गृहीत्वा पूर्वं गुरुकुले आत्मना परमात्मना सहितानां सतां सज्जनानां या गाथा प्रवृत्ता तां गाथां कथयांचक्रतुरिति । एतेनात्मनेत्येतद्व्यर्थमिति दूषणं परास्तम् । यथा पूर्वं गुरुकुले सज्जनानां गाथा प्रवृत्तैवं परमात्मनोऽपि गाथा प्रवृत्तेति वक्तुमात्मनेत्युक्तमित्यभ्युपगमात् ॥ ४३,४४ ॥

सत्यधर्मीया

श्रियं तदावेशवतीं मित्रविन्दामग्रजो रामो यथा तथा परिष्वक्त आलिङ्गितः । सतां स्वादीनां गाथां स्वानुभूतार्थविषयिणीं कथयाञ्चक्रतुः । पदद्वयम् । तथाऽपि न विरलः प्रयोगः । पातं तया प्रथममासेत्यादयोऽपभ्रंशा इति शेखरादिवैखर्याः । आत्मना मनसोल्लसितौ प्राप्तोल्लासौ मनोविकासवन्ताविति यावत् । गृह्य प्रगृह्य लब्धदक्षिणाद्गुरुकुलात् ॥ ४३,४४ ॥

समावृत्तेन धर्मज्ञा भार्योढा सदृशी न वा

प्रायो गृहेषु ते चित्तमकामविहतं तथा ।

नैवातिप्रीयते तद्वद् धनेषु विदितं हि मे ॥ ४५,४६ ॥

पदरत्नावली

स भवान् सदृशी भार्या लब्धा अपि किं न वा ? यथा प्राकृतस्य चित्तं गृहेषु कामविहतं भवति तथा प्रायस्ते चित्तं गृहेषु भार्यादिषु अकामविहतं कामनया विषयेच्छया विहतं न स्यात् । तद्वत् तव चित्तं धनेष्वपि नैवाति प्रीयते । कथमेतत् ? अत्राह– विदितमिति

॥ ४५,४६ ॥

सत्यधर्मीया

समावृत्तेनेत्यनेन स्वपुरीं स्वागमनानन्तरमप्ययमभ्यस्यन्नवात्सीदिति ध्वनयति । पुनः स्वस्थलमागतेन भवता भार्या सदृशी सहधर्मिण्यूढा परिणीता न वेति सर्वज्ञस्य नटनेन विकल्पनम् । प्रायस्ते चित्तं गृहेषु दारागारादिष्वकामविहतं विषयविदूषितं न तथा कामीमानसवत् । मुखबन्धनं विधातुं बीजावापं करोति– नैवेति । तद्वद्धन-वद्धनेष्वपि नैवातिप्रीयते ॥ कोऽवादीद्वासुदेव मम ममताभावं त्वां प्रतीत्यतो वक्ति– विदितं हि म इति ॥ ४५,४६ ॥

केचित् कुर्वन्ति कर्माणि कामैरहतचेतसः ।

त्यजन्तः प्रकृतिं दैवीं यथाऽहं लोकसङ्ग्रहः ॥ ४७ ॥

पदरत्नावली

केचिन्निवृत्तिमार्गस्थाः । प्रकृतिं देहाभिमानलक्षणाम् । दैवीं देवाधीनाम्

॥ ४७ ॥

सत्यधर्मीया

ननु कर्म कुर्वतो मम कथं न तत्फलप्रीतिरित्यतोऽधिकारिविशेषा-त्तवेति तत्सङ्ग्रहणेनाह– केचिदिति । निवृत्तिवर्तन्यां वर्तमानाः कामैरहचेतसो विषयाभि-लाषैरहतचेतसो विषयाभिलाषैरहतं चेतो मनो येषां ते भवदादयः । तत्र निमित्तमाह । त्यजन्तो दैवीं देवस्य मम सम्बन्धिनीं देहो ममेति रूपिणीं त्यजन्त इति । तत्र निदर्शनं दर्शयति– यथाऽहंलोकसङ्ग्रह इति । अश्विकदृष्टान्तोऽयम् । लोकस्य सङ्ग्रहोऽनुकरणं यस्य स लोकं सङ्गृह्वातीति स वा । इतरानप्येतेनैवाह– कामैरहतचेतस इति । कामैर्विषयैरेव आ सम्यक् । नायमाङ् स्वार्थेऽण् । एवं गीर् ईरः प्रेरणा तया हतं चेतो येषां ते कामुकाः केचिदिति ॥ ४७ ॥

कच्चिद् गुरुकुलावासं ब्रह्मन् स्मरसि नौ यतः ।

द्विजो विज्ञाय विज्ञेयं तमसः पारमश्नुते ॥ ४८ ॥

पदरत्नावली

तात्पर्यात् पुनरुक्तं करोति– कच्चिदिति ॥ यतो यस्मिन् गुरुकुलवासे विज्ञेयं विज्ञाय तमसोऽज्ञानस्य पारं प्रकृतेर्वा वैकुण्ठमश्नुते ॥ ४८ ॥

सत्यधर्मीया

द्विजस्त्रिवर्णस्थो यतो गुरुकुलवासेन विज्ञेयं प्रमेयं विज्ञाय तमसोऽ-ज्ञानस्य पारं तरणमश्नुते प्राप्नोति । हे ब्रह्मन् । नौ तव मम चेति नौ तं गुरुकुलवासं स्मरसि कच्चित् ॥ ४८ ॥

स वै सत्कर्मणां साक्षाद् द्विजातेरिह सम्भवः ।

आद्यो गुरुर्ह्याश्रमिणां यथाऽहं ज्ञानदो गुरुः ॥ ४९ ॥

पदरत्नावली

इतोऽपि गुरुकुलवासः कर्तव्य इत्याह– स वा इति ॥ यस्माद् द्विजातेः सकाशात् साक्षात् सत्कर्मणां सम्भवो जन्म स गुरुकुलवासो वा इत्यन्वयः । अत्र हेतुमाह– आद्य इति ॥ ज्ञानदो गुरुराश्रमिणामाद्यो हि यस्मात् तस्मात् । यथाऽहमिति ॥ ४९ ॥

सत्यधर्मीया

गुरुरेव महात्मेति तत्कुलवासः कर्तव्य इति तं स्तुवन्नाह ॥ स वै गुरुर्वेति ॥ द्विजातेः साक्षात् सत्कर्मणां सम्भवः सम्भावयतीति स तथा । तदुपदेशेन सत्कर्मप्रवृत्तिरुत्पद्यत इति भावः । स गुरुकुलवास इति तच्छब्देन परामृश्यमाहुः । हि यत आश्रमिणां चतुर्णामपि यथाऽहं गुरुस्तथा ज्ञानद आचार्य आद्यो गुरुर्मुख्यो गुरुरुपजीव्य इति वा ॥ ४९ ॥

ते त्वर्थकोविदा ब्रह्मन् वर्णाश्रमवतामिह ।

ये मया गुुरुणा वाचा तरन्त्यञ्जो भवार्णवम् ॥ ५० ॥

पदरत्नावली

ज्ञानमपि यथा मुक्तिसाधनं तद्वदेव गुरुरित्याह– ते त्विति ॥ गुरुणा गुरुस्थेन मयाप्युक्तया वाचा अञ्जः शिक्षिता ये पुरुषा भवार्णवं तरन्ति ते त्विह वर्णाश्रमवतां मध्ये अर्थकोविदाः स्वप्रयोजनसम्पादनपटव इत्यन्वयः ॥ ५० ॥

सत्यधर्मीया

इह वर्णाश्चाश्रमाश्च तद्वतां वर्णाश्रमवतां मध्ये ये मया मुख्यसाधनेन वाचा करणेन । गुरुणावाऽन्तरद्वाररूपेण भवार्णवमञ्जस्तरन्ति ते तु जना अर्थकोविदा अर्थ-सम्पादनकुशलाः ॥ ५० ॥

नाहमिज्याप्रजातिभ्यां तपसोपशमेन वा ।

तुष्येयं सर्वभूतात्मा गुरुशुश्रूषया यथा ॥ ५१ ॥

पदरत्नावली

सर्वेषु साधनेष्विदमेव भगवदनुग्रहान्तरङ्गमित्याह– नेति ॥ इज्या यजनं प्रजनं प्रजातिः सन्ततिर्जनम् । नापुत्रस्य लोकोऽस्तीति श्रुतेः ॥ ५१ ॥

सत्यधर्मीया

इतोऽप्यवश्यं गुरूपसत्तिः कार्या मत्तोषाभिलाषिणेति स्वप्रीतिसाधनं मुख्यत इयमेवेत्याह– नाहमिति । इज्या यजनं प्रजातिः सन्ततिस्ताभ्यां तथा तपसोप-शमेन वा सर्वात्माऽहं गुरुशुश्रूषया यथा तुष्येयं न तथा पुरोदीरितैस्तुष्येयमतः सा मता मम कार्यत्वेनेति भावः ॥ ५१ ॥

अपि नः स्मर्यतां ब्रह्मन् वृत्तं निवसतां गुरौ ।

गुरुदारैश्चोदितानामिन्धनायने क्वचित् ॥ ५२ ॥

पदरत्नावली

अनुग्रहविशेषस्मरणार्थमुभयोरनुभूतविषयं स्मारयति– अपीति ॥ गुरौ निवसतां नो यत् कर्म तत् स्मर्यतामपि स्मर्यते किम् ? ॥ ५२ ॥

सत्यधर्मीया

गुरौ निवसतां नो वृत्तं कर्म स्मर्यतां भवता । बहुतिथिव्यवधानेन प्रायोऽनेन विस्मृतं तदिति किञ्चित्स्मारयन्नाह– गुरुदारैरिति । सान्दीपनिपत्न्या इन्धनानां होमाद्युपयुक्तकाष्ठानाम् ॥ ५२ ॥

प्रविष्टानां महारण्यमपर्तौ सुमहद् द्विज ।

वातवर्षमभूत् तीव्रं निष्ठुराः स्तनयित्नवः ॥ ५३ ॥

पदरत्नावली

अपर्तौ वर्षाकालमन्तरेण । वातयुतवर्षम् ॥ ५३ ॥

सत्यधर्मीया

महारण्यमरण्यानां प्रविष्ठानामपर्तौ वर्षर्तुभिन्नेप्यृतौ महद्वातवर्षं तत्सहितं वर्षम् । यत्र च निष्ठुरा दर्शनश्रवणासह्यरूपशब्दवदब्दास्तीव्रं तदभूत् ॥ ५३ ॥

सूर्यश्चास्तं गतस्तावत् तमसा संवृता दिशः ।

निम्नं कूलं जलौघेन न प्राज्ञायत किञ्चन ॥ ५४ ॥

पदरत्नावली

इदं निम्नमिदं कूलमिति किञ्चन स्थूलजलप्रवाहेण न प्राज्ञायत ज्ञातमभूत्

॥ ५४ ॥

सत्यधर्मीया

तावदेव सूर्योऽप्यस्तं गतस्तमसा सर्वा दिश आवृताः । इदं कूलं तटमिदं निम्नं, अयं गर्त इति जलौघेन किञ्चनापि न प्राज्ञायत ज्ञातं नाभूत् । नतोन्नत-प्रदेशसाम्येन जलं सुस्रावेति न किञ्चिज्ज्ञातमभूदिति भावः ॥ ५४ ॥

वयं भृशं तत्र महानिलाम्बुभिर्निहन्यमाना मुहुरम्बुसम्प्लवे ।

दिशोऽविदन्तोऽथ परस्परं वने गृहीतहस्ता परिबभ्रिम•तुराः ॥ ५५ ॥

पदरत्नावली

अम्बुसम्प्लवे जलप्रवाहे दिशोऽविदन्तोऽजानन्तः परिबभ्रम परितो भ्रान्ता बभूविम ॥ ५५ ॥

सत्यधर्मीया

तत्र महानिलाम्बुभिर्भृशं निहन्यमाना वयं मुहुरम्बुसम्प्लवे दिशोऽ-विदन्तोऽजानन्तः परस्परं गृहीतहस्ता आतुराः सन्तः परिबभ्रिम । भ्रमो लिटि क्य्रादि-नियमादिटि निषिद्धे छान्दसः सः । बभ्रमेति पाठे णलुत्तमोवेति णिद्विकल्पे प्राति-स्विकैकविवक्षया चैकवचनमिति ज्ञेयम् । पक्षद्वयेऽपीन्धनभरणं शिरस्यर्थः । धात्वनैकार्थ्या-त्परिभ्रमणवन्त इत्यर्थोऽपेक्षितश्चेदिति केचित् ॥ ५५ ॥

एतद् विदित्वा उदिते रवौ सान्दीपनिर्गुरुः ।

अन्वेषमाणो नः शिष्यानार्योऽपश्यन्नरूरुदत् ॥ ५६ ॥

पदरत्नावली

विदित्वा उदित इत्यनेन (विसन्धिना) दुःखातिशयं दर्शयति । कथमेतत्? अत्राह– अरूरुददिति ॥ ५६ ॥

सत्यधर्मीया

एतद्गमनमिन्धनानयनार्थम् । अनागमनं च विदित्वा । रवावुदिते सति सान्दीपनिः । विवक्षाभावादसन्धिर्गुरुशिष्यक्षपासन्धिसूचकः । आर्यः शिष्यान्नोऽन्वेषमाणो मार्गमाणोऽपश्यन्नरूरुदद्रुरोद ॥ ५६ ॥

अहो मे पुत्रका यूयमस्मदर्थेऽतिदुःखिताः ।

आत्मा हि प्राणिनां प्रेष्ठस्तमनादृत्य मत्पराः ॥ ५७ ॥

पदरत्नावली

आत्मा देहः ॥ ५७ ॥

सत्यधर्मीया

तत्परिदेवनप्रकारमाह– अहो इति । मे मम हे पुत्रका यूयमस्मदर्थेऽति- दुःखिताः । आत्मा देहः प्राणिनां प्रेष्ठः प्रियः । तमपि देहमानदृत्य मत्परा मदासक्ता अहो

॥ ५७ ॥

इयदेव हि सच्छिष्यैः कर्तव्यं गुरुनिष्कृतम् ।

यद् वै विशुद्धभावेन सर्वार्थात्मार्पणं गुरौ ॥ ५८ ॥

पदरत्नावली

गुरुनिष्कृतं गुरुप्रत्युपकारः । सर्वोऽर्थो यस्मात् स तथा सर्वार्थ आत्मा शरीरं तस्यार्पणं यत् तत् ॥ ५८ ॥

सत्यधर्मीया

कर्तव्यं गुरुनिष्कृतं तदुपकारः । तत्किं रूपमित्यतो निरूपयति– यद्वा इति । गुरौ सर्वार्थात्मार्पणं सर्वेऽप्यर्था यस्मात्स चासावात्मा च देहस्तस्यार्पणं यद्वै इयदेवेति

॥ ५८ ॥

सन्तुष्टोऽहं द्विजश्रेष्ठाः सत्याः सन्तु मनोरथाः ।

छन्दांस्ययातयामानि भवन्तीह परत्र च ॥ ५९ ॥

सत्यधर्मीया

आगताश्च वयं तेनैवमनुगृहीता आशीर्भिरित्यभिधत्ते– सन्तुष्ट इति । हे द्विजश्रेष्टाः । अहं सन्तुष्टो मनोरथा वः सत्याः सफलाः सन्तु । छन्दांस्यधीतान्ययातयामानि वीर्यवन्ति भवन्तु । इह परत्र फलोपलभ्भकानि भवन्तु ॥ ५९ ॥

इत्थंविधान्यनेकानि वसतां गुरुवेश्मसु ।

गुरोरनुग्रहेणैव पुमान् पूर्णः प्रशान्तये ॥ ६० ॥

पदरत्नावली

उक्तमतिदिशति– इत्थमिति ॥ इत्थंविधान्यनेकानि, व्यसनानि आसन्निति शेषः । तानि व्यसनानि गुरोरनुग्रहेण निस्तीर्य पुमान् प्रशान्तये प्रकृष्टसुखवृत्तये पूर्णः कृतार्थः स्यात् ॥ ६० ॥

सत्यधर्मीया

कियदिति वक्तव्यमित्येकोक्त्योपसंहरति । इत्थमेवंविधा प्रकारा येषां तानि गुरुवेश्मनि निवसतामनेकानि कर्माण्यनुभूतानि स्मर्यताम् । इदमसाध्यं नैतस्मि-न्भविष्यति गुर्वनुग्रहेणेत्याह– गुरोरिति । पुमान्सच्छिष्यः । गुरोरनुग्रहेणैव प्रशान्तये मुक्त्यै पूर्णः पर्याप्तो भवति । तदनुग्रहेण फलितज्ञानद्वारा मुक्तो भवतीति भावः ॥ ६० ॥

ब्राह्मण उवाच—

किमस्माभिरनिर्वृत्तं देवदेव जगद्गुरो ।

भवता सत्यकामेन येषां वासो गुरावभूत् ॥ ६१ ॥

पदरत्नावली

अस्माभिर्गुरुकुलवासे इदं कृतमिति विशिष्य किं वक्तव्यं सर्वमप्यनुष्ठितमिति ब्राह्मण आह– किमिति ॥ सत्यकामेन भवता सह येषां नो गुरुकुलवासोऽभूत् तैरस्माभिर् गुरुकुलवासे किमनिर्वृत्तं न कृतं किम् ? सर्वं मया चीर्णमेव ॥ ६१ ॥

सत्यधर्मीया

त्वया सहाभ्यस्यद्भिरस्माभिः किमसम्पादितं शुभमकृतं च सत्कर्मेति मतिमान्ब्राह्मण आह– किमिति । देवदेव जगद्गुरो । येषामस्माकं गुरौ वासो भवता सत्य-कामेन सहाभूत्तैरस्माभिः किमनिर्वृतं किन्नानुष्ठितं सर्वं शुभमनुष्ठितमेव ॥ ६१ ॥

यस्य छन्दोमयं ब्रह्म देह आवापनं विभो ।

योऽयं स तस्य गुरुषु वासोऽत्यन्तविडम्बनम् ॥ ६२ ॥

॥ इति श्रीमद्भागवते दशमस्कन्धे शततमोऽध्यायः ॥

पदरत्नावली

किन्त्विदमस्मकं युक्तं तव त्वत्यन्तविडम्बकमित्याह– यस्येति ॥ छन्दोमयं वेदमुख्यप्रतिपाद्यम् आवपनं जगदुत्पत्तिक्षेत्रं ब्रह्म यस्य तव देहः स्वरूपं तस्य तव योऽयं गुरुषु वासः सोऽयमत्यन्तविडम्बनमनुकार इति ॥ ६२ ॥

॥ इति श्रीमद्भागवतटीकायां विजयध्वजतीर्थकृतायां पदरत्नावल्यां

दशमस्कन्धे उत्तरार्धे शततमोऽध्यायः (स.धर्म.१०–१००) ॥

दुर्घटभावदीपिका

हे विभो । यस्य छन्दोमयं वेदाभिमानि । आवपनं सर्वजगदुत्पादकं ब्रह्म । महालक्ष्मीर्देहः । भार्येति यावत् । यस्य ते योऽयं गुरुषु वासः सोऽत्यन्तविडम्बनमिति । एतेन छंदोमयं ब्रह्म देह इत्युक्तं वेदानां भगवद्देहाभावादिति दूषणस्यानवकाशः । छंदोमयं ब्रह्मेत्यनेन वेदानामग्रहणात् ॥ ६२ ॥

॥ इति श्रीभागवतटिप्पण्यां शततमोऽध्यायः ॥ १०–१०० ॥

सत्यधर्मीया

जगाद जगद्गुराविति तद्विशदयति– यस्येति । यजुरेव शिर ऋग्दक्षिणः पक्षः सामोत्तरः पक्षोऽथर्वाङ्गिरसः पुच्छं प्रतिष्ठेतीत्यादिश्रुतेः । छन्दोमयं गायत्र्युष्णिकादिछन्दःप्रचुरं, ब्रह्म वेदो यस्य देहः । किञ्च यस्य देह आवपनं जगदुत्पत्तिक्षेत्रं तस्य भवतो गुरुषु योऽयं वासः सोऽत्यन्तविडम्बनं लोकानुकारमात्रं सकलकलाकलेवरस्य गुरुकुलवासो नटनमात्रं स्वामिन् जगज्जनकेति तात्पर्यम् ॥ ६२ ॥

॥ इति श्रीसत्यधर्मयतिकृतायां भागवतटिप्पण्यां दशमस्कन्ध उत्तरार्धे

शततमोऽध्यायः ॥ १०–१०० ॥