ततः पर्वण्युपावृत्ते प्रचण्डः पांसुवर्षणः
॥ अथ एकोनशततमोऽध्यायः ॥
श्रीशुक उवाच—
ततः पर्वण्युपावृत्ते प्रचण्डः पांसुवर्षणः ।
भीमो वायुरभूद् राजन् पूयगन्धश्च सर्वशः ॥ १ ॥
सत्यधर्मीया
ततः पर्वण्युपावृत्त आयाते । पांसुवर्षणः प्रचण्डो भीमो वायुरभूत् । पूयगन्धः सर्वशोऽभूत् । पूयस्य गन्धः सोऽस्यास्तीति वायुविशेषणं वा ॥ १ ॥
ततोऽमेध्यमयं वर्षं बल्वलेन विनिर्मितम् ।
अभवद् यज्ञशालायां सोऽप्यदृश्यत शूलधृक् ॥ २ ॥
सत्यधर्मीया
ततः पांसुवर्षानन्तरम् । बल्वलेन निर्मितममेध्यमयं वर्षमभवत् । न दूर इतीरयति– यज्ञशालयामिति । शूलधृक् क्विन्प्रत्ययो, यस्मादिति बहुव्रीह्याश्रयणात् क्विप्यपि कुत्वेन धृषेः कुः । धात्वनेकार्थत्वादत्र धारणार्थः । बल्वलोऽप्यदृश्यत ॥ २ ॥
तं विलोक्य बृहत्कायं भिन्नाञ्जनचयोपमम् ।
तप्तताम्रशिखाश्मश्रुदंष्ट्रोग्रभ्रुकुटीमुखम् ॥ ३ ॥
पदरत्नावली
तप्तताम्रवत् प्रकाशमानाभिः शिखाश्मश्रुदंष्ट्रोग्रभ्रुकुटीभिर्युक्तं मुखं यस्य स तथा तम् । शिखा च श्मश्रूणि च दंष्ट्रे च उग्रभ्रुकुटी च शिखाश्मश्रुदंष्ट्रोग्रभ्रुकुट्यः । उग्रा भ्रुकुटी उग्रभ्रुकुटी ॥ ३ ॥
सत्यधर्मीया
भिन्नो योऽञ्जनचयः कज्जलजालं तेनोपमा यस्य तम् । तप्तताम्रव-त्प्रकाशमानः शिखाश्मश्रुभिः सहिते च ते दंष्ट्रे चोग्रभृकुटी चेत्येताभिर्युक्तं मुखं यस्य तम्
॥ ३ ॥
सस्मार मुसलं रामः परसैन्यविमर्दनम् ।
हलं च दैत्यदमनं तौ तूर्णमुपतस्थतुः ॥ ४ ॥
सत्यधर्मीया
रामो मुसलं सस्मार । अनेन तीर्थसार्थस्नायिनो मम किमायुधेनेति त्यक्त्वाऽऽयात इति ध्वन्यते । एकेन मुसलेन किं कुशलं स्यादित्यतस्तत्स्वभावमावेदयति– परसैन्यविमर्दनमिति । दैत्यदमनं हलं च सस्मार । तौ हलमुसलौ स्मृतौ तूर्णमुपतस्थतुः
॥ ४ ॥
तमाकृष्य हलाग्रेण बल्वलं गगनेचरम् ।
मुसलेनाहनत् क्रुद्धो मूर्ध्नि ब्रह्मद्रुहं बलः ॥ ५ ॥
सोऽपतद् बलनिर्भिण्णललाटोऽसृक् समुत्सृजन् ।
मुञ्चन्नार्तस्वरं शैलो यथा वज्रहतोऽसुरः ॥ ६ ॥
सत्यधर्मीया
गगनेचरं ब्रह्मद्रुहं ब्रह्मभ्यो ब्राह्मणेभ्यो द्रुह्यतीति स तं बल्वलं हलाग्रेणाकृष्य मुसलेन मूर्ध्न्यहनत् । बलनिर्भिन्नं ललाटं यस्य स वज्रहतः शैलः पर्वतो यथा तथाऽपतत् ॥ ५,६ ॥
संस्तुत्य मुनयो रामं प्रयुज्यापि तथाऽऽशिषः ।
अभिषिञ्चन् महार्हाभिर्वृत्रघ्नं विबुधा यथा ॥ ७ ॥
सत्यधर्मीया
अभिषिञ्चन् अभ्यषिञ्चन् । यथा वृत्रघ्नमिन्द्रं तद्धननसमये विबुधा अभिषिषिञ्चुस्तथेति । महार्हाभिर्महायोग्याभिः सम्पद्भिः ॥ ७ ॥
वैजयन्तीं ददुर्मालां श्रीधामाम्लानपङ्कजाम् ।
रामाय वाससी दिव्ये दिव्यान्याभरणानि च ॥ ८ ॥
पदरत्नावली
श्रियो धामानि अम्लानानि पङ्कजानि यस्यां सा तथा ताम् ॥ ८ ॥
सत्यधर्मीया
वैजयन्तीं मालां ददुः । श्रीधामानि शोभागाराणि अम्लानानि पङ्कजानि यस्यां सा ताम् । दिव्ये वाससी नीले ॥ ८ ॥
अथ तैरभ्यनुज्ञातः कौशिकीमेत्य ब्राह्मणैः ।
स्नात्वा सरोवरमगाद् यतः सरयुरास्रवत् ॥ ९ ॥
पदरत्नावली
यतः सरोवराद् आस्रवद् अस्यन्दत् ॥ ९ ॥
सत्यधर्मीया
कौशिकीं गोदामेत्य ब्राह्मणैः सह तत्र स्नात्वा । वृत्तिविच्छित्तिभीत्या न त्यः गुरुत्वदो ब्राह्मणो ब्राह्मणाकारः संयुक्तोऽपीति तत्रत्यो लघुः पाठ्यः । यतः सरोवरात्सरयुर्नदी आस्त्रवत्सुस्राव तत्सरोवरमगात् ॥ ९ ॥
स्रोतेन सरयूं प्रायाद् प्रयागमुपगम्य सः ।
स्नात्वा सन्तर्प्य देवादीन् जगाम पुलहाश्रमम् ॥ १० ॥
पदरत्नावली
स्रोतेन प्रवाहेण ॥ १० ॥
सत्यधर्मीया
स्रोतेन प्रवाहमार्गेण सरयूं प्रायात् । दीर्घान्तो ह्रस्वान्तश्च शब्दौ नदीवाचकाविति सरयुरास्रवत्सरयूनामिकां नदीमिति पाठौ सम्भवतः । प्रयागं क्षेत्रमुपगम्य । स बलो देवादीन्सन्तर्प्य पुलहस्य ऋषेराश्रमं जगाम ॥ १० ॥
गोमतीं गण्डकीं स्नात्वा विपाशां शोणमाप्लुतः ।
गयां गत्वा पितॄनिष्ट्वा गङ्गासागरसङ्गमम् ॥ ११ ॥
पदरत्नावली
शोणं नदम् ॥ ११ ॥
दुर्घटभावदीपिका
रामो गोमतीं गत्वा गोमत्यां स्नात्वा गण्डकीं गत्वा गण्डक्यां स्नात्वा विपाशां गत्वा विपाशायां स्नात्वा शोणं गत्वा शोणे आप्लुत इति । एतेन स्नात्वा आप्लुत इत्यनयोरकर्मत्वात् । गोमत्यामित्यादिकं वक्तव्यम् । गोमतीमित्यादिकमनुपपन्नमिति दूषणं निरस्तम् । गोमतीमित्यादिद्वितीयान्तपदानां गयां गत्वेत्युत्तरार्धस्थगत्वेत्यनेनान्वयं कृत्वाऽर्थवशाद्गोमत्यामित्यादिविपरिणामं चाङ्गीकृत्य गोमत्यामित्यादेः स्नात्वेत्यनेनान्वयः । शोणम् इत्यस्याप्लुत इत्यनेनान्वय इत्यभ्युपगमात् ॥ ११ ॥
विरोदोद्धारः– गयामिति ॥ अत्र हलधरस्य गयायां पितृयजनमुक्तम् । तदयुक्तम् । पितुर्वसुदेवस्य विद्यमानत्वेन रामाधिकाराभावादतोऽर्थ उच्यते । पितॄॄनिष्ट्वेत्यनेन न गयाश्राद्धं विवक्षितं येन जीवत्पितृकस्याधिकाराभावः । किन्तु रामेण चातुर्मास्येषु विहितः साकमेधान्तर्गतः पितृयज्ञोऽनुष्ठितः । न च रामस्याहिताग्नित्वमेव नास्ति श्रुतत्वाभावादिति वाच्यम् । अश्रुत-त्वेऽपि अनुजस्य कृष्णस्याहिताग्नित्वश्रवणेन ज्येष्ठस्य रामस्यार्थापत्तिसिद्धेः । अन्यथा परिवेत्तृत्वप्रसङ्गात् । उक्तञ्च । दाराग्निहोत्रसंयोगं कुरुतेऽप्यग्रजे स्थिते । परिवेत्ता स विज्ञेयः परिवित्तिस्तु पूर्वज इति मिताक्षरादौ । अत एव पितॄॄन् सन्तर्प्येति नोक्तम् । इष्ट्वेत्युक्तम् । साकमेधीये बर्हिषत्प्रभृतीनामेव पितृत्वेनाङ्गीकारान्न जनकादीनाम् । अत उक्तस्य नायुक्तता । नापि यात्रायां रामपत्न््नयसन्निधानात्साकमेधायोगः । क्षत्रियस्य कुशहेमरचितपत्न््नया चरितार्थ-त्वात् । साकमेधीयपितृयज्ञस्य स्त्रीभिरदृश्यत्वाच्चेति ॥ ११ ॥
॥ इति श्रीभागवतटिप्पण्यां सप्तनवतितमोऽध्यायः ॥ १०–९९ ॥
सत्यधर्मीया
गोमतीं नाम्ना, गण्डकीं शालग्रामोत्पत्तिक्षेत्रं, विपाशां नाम्ना, शोणं नदं, गयां गत्वा सपितृकविहितब्राह्मणभोजनादिद्वारा पितॄॄनिष्ट्वा गङ्गासागरसङ्गममुपस्पृश्य तत्र स्नानादिकं कृत्वा ॥ ११ ॥
उपस्पृश्य महेन्द्राद्रौ रामं दृष्ट्वाऽभिवाद्य तम् ।
सप्तगोदावरीं१ वेणीं पम्पां भीमरथीं तथा ॥ १२ ॥
पदरत्नावली
सप्तशाखाप्रभेदेन समुद्रं गता सप्तगोदावरी ताम् ॥ १२ ॥
सत्यधर्मीया
महेन्द्राद्रौ रामं भार्गवं दृष्ट्वा प्राग्दृष्टं तमभिवाद्य च सप्तगोदावरीम् । समासान्तविधेरनित्यत्वात्सङ्ख्यायां नदीगोदावरीभ्यां चेति नाच् । सप्तगोदावरमिति पाठेऽपि न वृत्तिविच्छित्तिः । नदीभिश्चेत्यव्ययीभावः । सर्वसमासशेषाधिकार इति समाहार इति तत्त्वसुबोधिनी । वेणीमियमन्या कृष्णवेण्यास्त्रिवेणी । वेणीकृष्णेति यो नाम गृह्णीयान्नरकं न व्रजेदिति कृष्णवेणीमाहात्म्योक्तेः ॥ पम्पाम् । न क्रमोऽत्र विवक्षितः । अन्यथा क्व वा वेणी क्व च गोदावरी क्व वा पम्पा क्व भीमरथीति गत्यसङ्गत्यापत्तेः । भीमरथीं तथा ॥१२॥
स्कन्दं दृष्ट्वा ययौ रामः श्रीशैलं गिरिशालयम् ।
द्रुमिलेषु महापुण्यं दृष्ट्वाऽद्रिं वेङ्कटं प्रभुः ॥ १३ ॥
सत्यधर्मीया
स्कन्दं षण्मुखं गिरिशालयं श्रीशैलं द्रुमिलेषु देशेषु वेङ्कटमद्रिं वेङ्कटाचलं दृष्ट्वा ॥ १३ ॥
कामकोष्ठीं पुरीं काञ्चीं कावेरीं च सरिद्वराम् ।
श्रीरङ्गाख्यं महापुण्यं यत्र सन्निहितो हरिः ॥ १४ ॥
सत्यधर्मीया
कामकोष्ठीं तन्नामकक्षेत्रं कामकोष्ठीं तन्नामकवाटवतीं यां कामिति वा । काञ्चीं पुरीम् । यत्र हरिः सन्निहितस्तन्महापुण्यं श्रीरङ्गाख्यं क्षेत्रमगमदित्यन्वयः ॥ १४ ॥
ऋषभाद्रिं हरेः क्षेत्रं दक्षिणां मधुरां तथा ।
समुद्रसेतुमगमन्महापातकनाशनम् ॥ १५ ॥
सत्यधर्मीया
हरेः क्षेत्रमृषभाद्रिं दक्षिणां मधुरां च महापातकनाशनं समुद्रसेतुं रामरचितम्
॥ १५ ॥
तत्रायुतमदाद् धेनूर्ब्राह्मणेभ्यो हलायुधः ।
कृतमालां ताम्रपर्णीं मलयं च कुलाचलम् ॥ १६ ॥
सत्यधर्मीया
तत्र सेतावयुतं धेनूर्ब्राह्मणेभ्योऽदात् । कृतमालां ताम्रपर्णीं, नद्यौ । कुलाचलं मलयम् ॥ १६ ॥
तथाऽगस्त्यं समासीनं नमस्कृत्याभिवाद्य च ।
योजितस्तेन चाशीर्भिरनुज्ञातो गतोऽर्णवम् ॥ १७ ॥
सत्यधर्मीया
तथा समासीनमगस्त्यं नमस्कृत्याभिवाद्य चेति । तेनागस्त्येनाशीर्भि-रनुयोजितस्तेनानुज्ञातश्चार्णवं दक्षिणं गतः ॥ १७ ॥
दक्षिणं तत्र कन्याख्यां दुर्गां देवीं ददर्श सः ।
ततः फल्गुनमासाद्य पञ्चाप्सरमनुत्तमम् ॥ १८ ॥
सत्यधर्मीया
तत्र दक्षिणोदधितीरे कन्येत्याख्या यस्यास्तां दुर्गां ददर्श । फल्गुनं तीर्थं पञ्चाप्सरं तीर्थं च ॥ १८ ॥
विष्णुः सन्निहितो यत्र स्नात्वाऽस्पर्शद् गवायुतम् ।
स्यानन्दूरं हरेः स्थानं यत्र सन्निहितो हरिः ॥ १९ ॥
पदरत्नावली
अस्पर्शद् अस्पृशद् ददौ । स्थानन्दूरमनन्तक्षेत्रम् ॥ १९ ॥
सत्यधर्मीया
अस्पर्शदस्पृशद्ददौ गवामयुतम् । स्यानन्दूरमनन्तक्षेत्रम् ॥ १९ ॥
ततोऽतिव्रज्य भगवान् केरलादींस्त्रिगर्तकान् ।
गोकर्णाख्यं शिवक्षेत्रं सान्निध्यं यत्र धूर्जटेः ॥ २० ॥
पदरत्नावली
धूर्जटेः शिवस्य ॥ २० ॥
सत्यधर्मीया
केरलादीन्देशान् । त्रिगर्तका अपि देशविशेषः । यत्र धूर्जटेः शिवस्य सान्निध्यमस्तीति शिवक्षेत्रं गोकर्णाख्यम् ॥ २० ॥
तत्र द्वैपायनं दृष्ट्वा शूर्पाकारमगाद् बलः ।
तापीं पयोष्णीं निर्विन्ध्यामुपस्पृश्याथ दण्डकम् ॥ २१ ॥
प्रविश्य रेवामगमद् यत्र माहिष्मती पुरी ।
अनुतीर्थमुपस्पृश्य प्रभासं पुनरागमत् ॥ २२ ॥
पदरत्नावली
अनुतीर्थं नाम तीर्थम् ॥ २२ ॥
सत्यधर्मीया
तत्र गोकर्ण एव द्वैपायनं व्यासम् । शूर्पाकारं शूर्पालयम् । ताप्याद्या नद्यो, माहिष्मतीं कार्तवीर्यनगरीमनुतीर्थं तदभिधं तीर्थम् । पुनः प्रभासमगात् ॥ २२ ॥
श्रुत्वा द्विजैस्तु कथितं कुरुपाण्डवसंयुगम् ।
सर्वराजन्यनिधनं भारमेतद् हृतं भुवः ॥ २३ ॥
पदरत्नावली
भुव एतद् एतं भारं हृतं श्रुत्वा, एतद् एतर्हि भुवो भारं हृतं मेने इति शेष इति वा ॥ २३ ॥
दुर्घटभावदीपिका
भारमेतद्धृतं भुव इत्यस्य भुवो भारमेतद्धृतमेतेन कृष्णेन हृतं मेन इत्यर्थः । एतेन भार शब्दस्य पुल्लिङ्गत्वादेतमिति वक्तव्यम् एतदिति कथनमयुक्तमिति चोद्यं परास्तम् । एतद्धृतमिति समस्तं पदमित्यभ्युपगमात् । एतेनैव भुवो भारमेतद्धृतमित्येतद-नन्वितमिति दूषणं प्रत्युक्तम् । मेन इत्यस्य शेषेणान्वयस्योक्तत्वात् ॥ २३ ॥
सत्यधर्मीया
एतत्सर्वराजन्यनिधनं च श्रुत्वा भुवो भारं हृतं श्रुत्वेत्यन्वयः ॥ २३ ॥
स भीमदुर्योधनयोर्गदाभ्यां युध्यतो रणम् ।
वारयिष्यन् विशसनं जगाम यदुनन्दनः ॥ २४ ॥
पदरत्नावली
विशसनं युद्धम् ॥ २४ ॥
सत्यधर्मीया
स बलो गदाभ्यां युध्यतोरधुनायोधनं कुर्वतो रणं वारयिष्यंस्तदभि-प्रायवान्विशसनं कुरुक्षेत्रं रणधरणिं वा जगाम ॥ २४ ॥
युधिष्ठरस्तु तं दृष्ट्वा यमौ कृष्णार्जुनावपि ।
अभिवन्द्याभवंस्तूष्णीं किं विवक्षुरिहागतः ॥ २५ ॥
पदरत्नावली
किं वक्तुकाम आगत इति मत्वा ॥ २५ ॥
सत्यधर्मीया
नन्वत्र द्वादशान्मासांश्चरित्वेत्याद्युक्तम् । गदापर्वणि पुष्येण सम्प्र-यातोऽस्मि श्रवणे पुनरागत इत्यभिहितम् । तथा चत्वारिंशदहान्यद्य द्वे च मे निःसृतस्य वेति चेति विरोध इति चेत् । मध्येमार्गं मार्गस्थजनाननतो भीमदुर्योधनसमरं श्रुत्वोभावपि शिष्यौ निवारयिष्यामीत्यागत्यानिष्पन्नप्रयोजनो द्वारकां गत्वा पुनर्दिनानि यात्रां चरन्पूर-यामासेत्यविरोधसम्भवादनुक्तिर्न हि बाधिका । अथवा महानुभावस्य किञ्चित्सङ्कुचित-चित्तत्वान्मासपदेनान्हां ग्रहणे द्विचत्वारिंशद्दिनीमध्य एव द्वादशदिन्या तद्यात्रापूरणसम्भवात् । स्थानान्तरे तथा दृष्टेः । यथोक्तं प्रथमतात्पर्य आचार्यैः । मासशब्देनाहान्युच्यन्ते । तथा हि भारते । अहस्तु मासशब्दोक्तं यत्र चिन्तायुतं व्रजेत् । एवं संवत्सराद्यं च विपरीते विपर्यय इति नाममहोदधाविति दुर्योधनपाण्डवसेनामेलनानन्तरं चतुर्विंशद्दिनीयुद्धप्रारम्भस्य व्यव-धायिन्यवर्तिष्टेति च तदुत्तरमष्टादशदिनीति द्विचत्वारिंशद्दिनान्यनुसन्धेयानि । ब्रह्महा द्वाद-शाब्दं चरेदित्यादिश्रवणेऽपि समाधानादिगुणवैशेष्येण द्वादशमासैरेव तत्प्रायश्चित्तोक्तिरिति बल्वलहननसहकृतोक्तवैशेष्याद्द्वादशदिन्या तत्पर्याप्तेरपि सम्भवात् । इह किं विवक्षुः किं वक्तुमिच्छावान्बल आगत इति युधिष्ठिरादयोऽभिवन्द्य तूष्णीमभवन् ॥ २५ ॥
गदापाणी उभौ दृष्ट्वा संरब्धौ विजयेषिणौ ।
मण्डलानि विचित्राणि चरन्ताविदमब्रवीत् ॥ २६ ॥
सत्यधर्मीया
मण्डलानि तत्र विहितानि ॥ २६ ॥
युवां तुल्यबलौ वीरौ हे राजन् हे वृकोदर ।
एकं प्राणाधिकं मन्य उतैकं शिक्षयाऽधिकम् ॥ २७ ॥
पदरत्नावली
प्राणाधिकं बलाधिकम् ॥ २७ ॥
सत्यधर्मीया
तुल्यं समं बलं ययोस्तौ । हे राजन् । अनेन श्रीकृष्णराज्य-दापनयत्नादिकं च पाण्डवविषये सम्मतं बलस्येति ध्वन्यते । हे वृकोदर । तुल्यतैवमिति व्यवस्थापयन्नाह– एकं प्राणाधिकमिति । यद्यपि हे राजन् हे वृकोदरेत्युदीरणानुसारेण शिक्षयाऽधिकमेकमेकं प्राणाधिकं चेति वक्तव्यम् । तथाऽपि शिक्षादक्षतापेक्षया कलेवरबल-मधिकमितीतरस्य किञ्चिन्न्यूनतां ध्वनयामासैवं वदन्निति ज्ञेयम् । बलाधिकमिति वक्तव्ये प्राणाधिकमिति यन्मुख्यप्राणात्मकत्वमित्यवदन्निःसृतमिति हृदयम् ॥ २७ ॥
तस्मादेकतरस्येह युवयोः समवीर्ययोः ।
न लक्ष्यते जयोऽन्यो वा विरमत्वफलो रणः ॥ २८ ॥
पदरत्नावली
अन्यः पराजयो वा । विरमतु शान्तो भवतु ॥ २८ ॥
दुर्घटभावदीपिका
तस्माद्भीमस्य बलाधिकत्वादिह शूरेषु । समवीर्ययोः समारब्धान्त-गमनशीलयोर्युवयोर्मध्ये एकतरस्य जय उभयोरन्यो वा पराजयो न लक्ष्यते किन्तूभयोर्जयो लक्ष्यते । तस्मादफलरणसमाप्तिहेतुकार्यासम्पादकरणे विरम त्वमिति । अयं भावः । उभयोर्मध्ये एकस्य जये वोभयोः पराजये वा रणः समाप्तो भवति । अत्र जयपराजययोरभावात्स्वत एव युद्धं समापनीयमिति । एतेन समवीर्ययोरित्येतदनुपपन्नम् । एकं प्राणाधिकं मन्य इति भीमे बलाधिक्यस्योक्तत्वादिति चोद्यस्यानवकाशः । समवीर्ययोरित्यत्र वीर्यशब्देन बलस्य ग्रहणात् । एतेनैवैकतरस्य जयो नास्तीत्युक्ते द्वितीयस्य पराजयो नास्तीति प्रमेयस्यार्थात्सिद्धेरन्यः पराजयो नास्तीति कथनं पुनरुक्तमिति दूषणं परास्तम् । उभयोरित्यादेः शेषं वाशब्दस्याप्यर्थत्वं च स्वीकृत्योभयोः पराजयोऽपि नास्ति किन्तूभयोर्जय इत्यर्थस्योक्तत्वात् ॥ २८ ॥
सत्यधर्मीया
युवयोर्मध्ये एकतरस्य जयोऽन्यस्यान्यः मरणं पराजयो वा न लक्ष्यते । भावीति नोहागोचरो यतोऽतो अफलो निष्फलो रणो विरमतु शान्तः स्यात् ॥ २८ ॥
न तद्वाक्यं जगृहतुर्बद्धवैरौ नृपार्थवत् ।
अनुस्मरन्तावन्योन्यं दुरुक्तं दुष्कृतानि च ॥ २९ ॥
पदरत्नावली
दुष्कृतानि जतुगृहदाहादीनि ॥ २९ ॥
दुर्घटभावदीपिका
हे नृप । बद्धवैरौ भीमदुर्योधनौ । दुर्योधनं प्रत्यर्थवत्तद्वाक्यं ‘युद्धं न कर्तव्यमिति रामवाक्यं’ न जगृहतुरिति । एतेन भीमस्य युद्धत्यागेनार्थाभावादर्थवदिति कथन-मयुक्तमिति दूषणं परिहृतम् । दुर्योधनं प्रतीत्यस्य शेषेणार्थवदित्यस्य दुर्योधनं प्रत्यर्थ-वदित्यर्थ-स्योक्तत्वात् ॥ २९ ॥
॥ इति श्रीभागवतटिप्पण्याम् एकोनशततमोऽध्यायः ॥ १०–९९ ॥
सत्यधर्मीया
हे नृप । अर्थवत्प्रयोजनवदिव भासमानं बद्ववैरम् । दुरुक्तं भीमस्य । दुष्कृतानि दुर्योधनकृतगरवितरणादीनि । परस्परं स्मरन्तौ । तद्वाक्यं बलालापं न जगृहतुः । अर्थवदर्थं तस्य वा मम वा निवृत्तिरेवापेक्षितेति तं जगृहतुर्न तथा तद्वाक्यमित्यपि योजयन्ति
॥ २९ ॥
दिष्टं तदनुमन्वानो रामो द्वारवतीं ययौ ।
उग्रसेनादिभिः प्रीतैर्ज्ञातिभिः समुपागतः ॥ ३० ॥
पदरत्नावली
तद् युद्धं दिष्टं दैवकृतम् ॥ ३० ॥
सत्यधर्मीया
तदेतदग्रहणे दिष्टं दैवमेव हेतुमनुमन्वानो रामो द्वारवतीमगात् ॥ ३० ॥
ईदृग्विधान्यसङ्ख्यानि बलस्य बलशालिनः ।
अनन्तस्याप्रेमयस्य कर्माण्यद्भुतकर्मणः ।
शृणवन् गृणंश्च तद्भक्त्या विष्णोः स दयितो भवेत् ॥ ३१ ॥
॥ इति श्रीमद्भागवते दशमस्कन्धे एकोनशततमोऽध्यायः ॥
पदरत्नावली
बलभद्रस्य रामस्य । विक्रमश्रवणादिना किं फलं भवतीति तत्राह– ईदृग्विधानीति ॥ ३१ ॥
॥ इति श्रीमद्भागवतटीकायां विजयध्वजतीर्थकृतायां पदरत्नावल्यां
दशमस्कन्धे उत्तरार्धे एकोनशततमोऽध्यायः (स.धर्म.१०–९९) ॥
सत्यधर्मीया
यन्नाम भागवतं तत्र रामचरितग्रथनं वा तच्छ्रवणं वा क्व वोपयुक्त-मित्यतो हरिभजकजनचरितमपि तत्प्रीणनहेतुरिति श्रोतव्यमवश्यमिति फलमभिलपन्नुप-संहरति– ईदृग्विधानीति । ईदृगीदृशी विधा प्रकारो येषां तान्यसङ्ख्यान्यपाराणि । बलेन शालिन इति । बलशाली । सुप्यजाताविति णिनिः । शृृण्वन्गृणंश्चाधिकारी तद्भक्त्या तद्भक्तभक्त्या विष्णोश्च दयितः प्रियो भवेत् ॥ ३१ ॥
**॥ इति श्रीसत्यधर्मयतिकृतायां भागवतटिप्पण्यां **
दशमस्कन्ध उत्तरार्धे एकोनशततमोऽध्यायः ॥ १०–९९ ॥