२४ अष्टनवतितमोऽध्यायः

अष्टादशाक्षौहिणीनां तावद्भिर्मायया दिनैः

॥ अथ अष्टनवतितमोऽध्यायः ॥

राजोवाच—

अष्टादशाक्षौहिणीनां तावद्भिर्मायया दिनैः ।

व्यापादनं येन कृतं तस्मै विश्वात्मने नमः ॥ १ ॥

पदरत्नावली

सितकेशावेशिनो बलभद्रस्य चरितं कृष्णमाहात्म्यानुस्यूतमेवातस्तदपि पुरुषार्थोपयोगि भवतीत्यनेनाध्ययद्वयेन निरूपयति । तत्रादौ श्रुतकृष्णवैभवो विस्मितमना राजा भगवन्तं नमति– अष्टादशेति ॥ मायया महिम्ना । व्यापादनं निधनम् । विश्वात्मने सर्वान्तर्यामिणे

॥ १ ॥

सत्यधर्मीया

असितकेशात्मेति तन्माहात्म्योपयोग्यैतन्माहात्म्यमिति मतिमान्राजा यात्रायात्रावान्बलः किं चकार तद्वदेति वक्तुमुत्कमानसः परीक्षित्स्वपितृपितामहादिभिरेव कौरवबलसङ्कालनं जातमिति मतिमानहमनुबन्धमाहात्म्यादित्यप्रेक्षावदुत्प्रेक्षाविषयोऽहं न स्यामिति तत्कार्यकर्तृत्वेन हरिं नमस्यति राजेति वक्ति– राजेति । तावद्भिर्दुर्योधनस्याप्यु-र्वरितार्धदिने समाप्तेरष्टादशैर्दिनैरित्युक्तिस्तत्र तदवशेषादर्धोनेत्युक्तिरिति न विरोधः । मायया येन व्यापादनं कृतं तस्मै विश्वात्मने नमः । एवंरीत्याऽऽदानकर्त्रे ॥ १ ॥

शृण्वतो मे कथास्तस्य चरितानि च सङ्घशः ।

वैक्लव्यं विस्मयो भीतिर्वर्धते मे पुनःपुनः ॥ २ ॥

पदरत्नावली

हरिकथाश्रवणस्य प्रत्यक्षफलमाह– शृण्वत इति ॥ वैक्लव्यं पारवश्यं कथाश्रवणतात्पर्यम् । विस्मयः स्मयाभावः भीतिर् विहिताकरणे प्रत्यवायबुद्धिः ॥ २ ॥

सत्यधर्मीया

यासु सङ्घशश्चरितानि सङ्गृहीतानि ताः कथाः शृृण्वतो मे । वैक्लव्यं क्लवो विव्हलता विगतक्लवस्तद्भावोऽविव्हलत्वम् । विस्मय आश्चर्यमभीतिश्च मे पुनः पुनर्वर्धते । पृथक् पृथगन्वयादेकवचनं सम्भवति । ईकथाः सम्पत्समेताः कथाः शृृण्वतो मे सङ्घशोऽमा सहैव वैकल्यं विस्मयोऽभीतिश्च वर्धत इत्यन्वये न म इत्यतिरेकः ॥ २ ॥

मन्ये प्रायेण पाप्मानं जीर्णं मम दुरत्ययम् ।

इन्द्रियाणि प्रबुद्धानि प्रसन्नं च मनो भृशम् ॥ ३ ॥

पदरत्नावली

प्रबुद्धानि प्रफुल्लानि, स्वविषये इति शेषः ॥ ३ ॥

सत्यधर्मीया

मम दुरत्ययं पाप्मानं जीर्णं मन्ये । बाहुल्येनेन्द्रियाणि प्रसन्नानि भृशं मनश्च प्रसन्नम् ॥ ३ ॥

क्षुत्तृष्णे च प्रशान्ते मे आत्मा चानन्दनिर्भरः ।

प्रसादात् तव धर्मज्ञ कृतार्थोऽहमिहाभवम् ॥ ४ ॥

पदरत्नावली

आत्मा भोगायतनम् । आनन्दनिर्भरः पूर्णानन्दः ॥ ४ ॥

सत्यधर्मीया

मे क्षुत्तृष्णे च प्रशान्ते । आत्मा देह आनन्दनिर्भरः । लोके रीतिरेवं ‘मम जीवः सन्तुष्टो जातः’ इति देवदत्तादिर् व्यवहरतीति दृष्टचरी । सर्वस्यापि हेतुमाह– प्रसादादिति । कृतः पर्याप्तोऽर्थो यस्य सोऽभवम् ॥ ४ ॥

अपि च श्रोतुमिच्छामि किञ्चिदर्थं तपोधन ।

युध्यतः सुहृदो दृष्ट्वा निवारितुमशक्नुवन् ॥ ५ ॥

तीर्थं स्नातुं गतो रामः किं चकार तपोधन ॥ ६ ॥

पदरत्नावली

कृतार्थश्चेत् तूष्णीं भवेति तत्राह– अपि चेति ॥ किञ्चिदित्यव्ययम् । शब्दतोऽल्पमर्थतो महान्तमित्यतो वा व्यत्ययः । भोजनादिना मानवसन्तर्पणम् ॥ ६ ॥

दुर्घटभावदीपिका

हे तपोधन शुक्राचार्य । अपि चान्यच्च श्रोतुमिच्छामि । किं तत् । अर्थमुत्तमार्थं राममुद्दिश्य किञ्चित्प्रमेयं श्रोतुमिच्छामीति । एतेनार्थशब्दस्य पुल्लिङ्गत्वात् कश्चिद-स्तीति वक्तव्यं किञ्चिदिति कथनमयुक्तमिति चोद्यस्यानवकाशः । किञ्चिदित्येतदर्थमित्यस्य विशेषणमित्यनभ्युपगमात् ॥ ५ ॥

सत्यधर्मीया

कृतार्थश्चेन्न चेतः परं चेतःपरं कुरु कथाश्रवण इत्यत आह– अपि चेति । किञ्चिदित्यव्ययम् । धनाशया चरतो मम नावसर इत्यस्य नावसर इत्याह– तपोधनेति । निवारितुं निवारयितुम् । हे अधन अतल्लम्पट । तीर्थं स्नातुं गतो रामः किं रूपं तपश्चकारेति किञ्चिदर्थमपि लब्धार्थोऽपि चित्तपारवश्येन श्रोतुमिच्छामीत्यन्वयः ॥५॥

श्रीशुक उवाच—

तीर्थाभिषेकव्याजेन मध्यस्थः प्रययौ किल ।

स्नात्वा प्रभासं सन्तर्प्य देवर्षिपितृमानवान् ॥ ७ ॥

सत्यधर्मीया

मध्यस्थः सेनामध्यस्थः । अशक्नुवानस्तीर्थाभिषेकव्याजेन ययाव-परिचितां भुवम् । स्नात्वा प्रभासे देवर्षिपितृमानवान् । सन्तर्प्य तत्तदुचितोपचारैः ॥ ७ ॥

सरस्वतीं प्रतिस्रोतं ययौ ब्राह्मणसंवृतः ।

पृथूदकं बिन्दुसरस्त्रितकूपं सुदर्शनम् ॥ ८ ॥

विशालं ब्रह्मतीर्थं च चक्रं प्राचीसरस्वतीम् ।

यमुनामनु यात्येष गङ्गामनु च भारत ॥ ९ ॥

पदरत्नावली

प्रतिस्रोतं प्रवाहाभिमुखम् । पृथूदकं नाम तीर्थम् । त्रितस्य मुनेः कूपम् । विशालमप्येकं तीर्थम् ॥ ८,९ ॥

सत्यधर्मीया

प्रतिस्रोतं प्रवाहाभिमुखम् । ब्राह्मणैर्ज्ञानिभिः संवृतः । पृथूदकं नाम्ना गुणतोऽप्यशुष्यद्बहुलजलं च तीर्थं बिन्दुसरश्च । त्रितस्य द्वितैकतभ्रातुः कूपः । भ्रातृभ्यां सहागच्छन्यत्र चचार च चेतसा सङ्कल्पपूर्वकमध्वरं देवाश्च स्वभागार्थमगुस्तत्तीर्थमभवदिति शान्तिपर्वोक्ता कथाऽत्रानुसन्धेया । सुदर्शनं च तीर्थं विशालं तन्नामकमेकं तीर्थं चक्रतीर्थम् । एष बलो यमुनामनु गङ्गामनु च याति ॥ ८,९ ॥

जगाम नैमिषं यत्र ऋषयः सत्रमासते ।

तमागतमभिप्रेत्य मुनयो दीर्घसत्रिणः ।

अभिवन्द्य यथान्यायं प्रणम्योत्थाय चार्चयन् ॥ १० ॥

सोऽर्चितः सपरीवारः कृतासनपरिग्रहः ।

रोमहर्षणमासीनं शिष्यमैक्षन्महामुनेः ॥ ११ ॥

पदरत्नावली

अभिप्रेत्य अभिगम्य ॥ १० ॥

सत्यधर्मीया

यत्रर्षयः शौनकादिकाः । सत्रं बहुवार्षिकं बहुकर्तृकं चासते कुर्वन्ति तन्नैमिषं जगाम । अभिप्रेत्य ज्ञात्वा । हे अभिवन्द्येति यथान्यायं सम्बोध्य तमुत्थाय प्रणम्य चार्चयन्नपूजयन् । अभिवन्द्यप्रणम्यान्यतरस्य स्तुत्वा शब्दं स्तोत्रशब्दं कृत्वेत्यर्थतया अपुनरुक्तिर्वा । वदि अभिवादनस्तुत्योर्णमु प्रह्वत्वे शब्दे चेति स्मृतेः ॥ सपरीवारः परिवारसहितः । उपसर्गस्य घञ्यमनुष्ये बहुलमिति परीति दीर्घः । महामुनेर्व्यासस्य । ऐक्षदैक्षत ॥ १०,११ ॥

प्रत्यवस्थायिनं सूतमकृतप्रह्वणाञ्जलिम् ।

अध्यासीनं च तान् विप्रांश्चुकोपोद्वीक्ष्य माधवः ॥ १२ ॥

पदरत्नावली

प्रत्यवस्थायिनम् आभिमुख्येन स्थितं प्रह्वणं नमनम् । माधवो मधुकुलोद्भवः

॥ १२ ॥

सत्यधर्मीया

प्रत्यवस्थायिनं स्वागमनेऽप्यप्रत्युत्थायिनम् । अकृतौ प्रव्हणं नमन-मञ्जलिः करसम्पुटीकरणं च येन तम् । तान्विप्रानध्यासीनं तेषां मध्ये । अधि अधिकत्वेनोच्च आसीन आसीनं सूतमितीयदनौचित्यसूचकम् । सुकोपात्तत्काले दैवत उद्भूतात् । माधवो बलः

॥ १२ ॥

कस्मादसाविमान् विप्रानध्यास्ते प्रतिलोमजः ।

धर्मपालांस्तथैवास्मान् वधमर्हति दुर्मदः ॥ १३ ॥

पदरत्नावली

विप्रानध्यासीनं तेषां मध्ये उच्चासने स्थितम् । प्रतिलोमजः विपरीतजन्मा । अस्मानिति द्वितीया पञ्चम्यर्थे ॥ १३ ॥

सत्यधर्मीया

तदेवाह– कस्मादिति । ब्राह्मणाच्छूद्रायां जात इति प्रतिलोमजो, रोमाञ्चाद्रोमहर्षणमित्युक्तेस्तत्प्रापककर्मवशतो व्यासेन रोमाञ्चतः सृष्टोऽपि पादसृष्टशूद्रवत्सूतो जात इति ज्ञेयम् । धर्मपालानस्मानप्यध्यास्त इत्यन्वयः । अर्थस्तु पूर्वकः । दुर्मदोऽयं वधमर्हति ॥ १३ ॥

ऋषेर्भगवतो भूत्वा शिष्योऽधीत्य बहूनि च ।

सेतिहासपुराणानि धर्मशास्त्राणि सर्वशः ॥ १४ ॥

पदरत्नावली

सेतिहासपुराणान्यधीत्य सुदुष्टस्य प्रतिजन्मनः ॥ १४ ॥

सत्यधर्मीया

भगवत ऋषेस्तद्रूपिणो व्यासस्य शिष्यो भूत्वा । यद्यपि शिष्यश्चेदपि नानधीतशास्त्रस्तत्रापि नाधीतिः कस्म्•िश्चिदेकस्मिन्स इति वक्ति । ‘अधीत्य बहूनि च सेतिहासपुराणानि धर्मशास्त्राणि सर्वश’ इति ॥ १४ ॥

अदान्तस्याविनीतस्य वृथा पण्डितमानिनः ।

न गुणाय भवन्त्यस्य नटस्येवाजितात्मनः ॥ १५ ॥

पदरत्नावली

गुणाय पुण्यफलप्रदानलक्षणाय न भवन्ति ॥ १५ ॥

सत्यधर्मीया

अदान्तस्यानिन्द्रियनिग्रहवतोऽविनीतस्य पण्डितमानिनस्तान्यधीतानि गुणाय न भवन्ति । सर्वत्रैवं किं नेत्याह– अस्येति ॥ नटस्य वेषिण इव ॥ १५ ॥

एतदर्थो हि लोकेऽस्मिन्नवतारो मया कृतः ।

वध्या मे धर्मध्वजिनस्ते हि पातकिनोऽधिकाः ॥ १६ ॥

पदरत्नावली

एतदर्थः दुष्टनिग्रहार्थः ॥ १६ ॥

दुर्घटभावदीपिका

ये धर्मध्वजिनो धर्मलक्षणध्वजविशिष्टाः । अधिकाः पातकिनस्ते मे वध्या इत्येतद्धि प्रसिद्धमिति । एतेन वध्या मे धर्मध्वजिन इत्यत्र किमधर्मध्वजिन इति पदच्छेद आहोस्विद्धर्मध्वजिन इति । नाद्यः । अधिकाः पातकिन इत्यनेन पुनरुक्तिप्रसङ्गात् । न द्वितीयः । अधिकाः पातकिन इत्यनेन व्याहतेः प्रसङ्गादिति चोद्यं प्रत्युक्तम् । धर्मध्वजिन इति पदच्छेदमङ्गीकृत्य ध्वजो यज्ञ इति दृश्यते एवं झडिति दृश्यमानधर्मविशिष्टाः । वस्तुतो धर्म-विशिष्टा न भवन्तीति वक्तुं धर्मस्य ध्वजस्य सामर्थ्यमुच्यत इति स्वीकरणात् ॥ १६ ॥

॥ इति श्रीभागवतटिप्पण्याम् अष्टनवतितमोऽध्यायः ॥ १०–९८ ॥

सत्यधर्मीया

तवाध्वनीनस्येयत्कुतो, वर्त्म धृत्वा गच्छेत्यतो नाहं तथेत्यभिधत्ते– एतदर्थ इति । एष एतादृशखलनिग्रह एवार्थो यस्य सोऽवतारो मया कृतो यतोऽतो मे मया वा धर्मध्वजिन एवं धर्मदूषका वध्याः पातकिनोऽधिका अधिकपातकवन्तः । यः पातकी ततोऽप्यधिका इत्यन्वयः ॥ १६ ॥

एतावदुक्त्वा भगवान्निवृत्तोऽसद्वधादपि ।

भावित्वात् तं कुशाग्रेण करस्थेनाहनत् प्रभुः ॥ १७ ॥

पदरत्नावली

असद्वधान्निवृत्तोऽपि । मरणस्यावश्यम्भावित्वात् ॥ १७ ॥

सत्यधर्मीया

एतावदुक्त्वाऽसद्वधाद्यद्यपि निवृत्तस्तथाऽपि भावित्वात्स्वेश्वरेच्छया । कुशाग्रेण कुशस्य दर्भस्याग्रेण प्रान्तेन करस्थेन । तीर्थार्थमटता सदा दर्भपाणिना भवितव्य-मिति विधेः । तन्मात्रस्य कथं घातुकत्वमित्यत आह– प्रभुरिति ॥ १७ ॥

हाहेति वादिनः सर्वे ऋषयः खिन्नमानसाः ।

ऊचुः सङ्कर्षणं देवमधर्मस्ते कृतः प्रभो ॥ १८ ॥

सत्यधर्मीया

ते त्वया । तमधर्मप्रकारमीरयन्ति– ऊचुरिति ॥ १८ ॥

अस्य ब्रह्मासनं दत्तमस्माभिर्यदुनन्दन ।

आयुश्चास्याक्षयं तावद् यावत् सत्रं समाप्यते ॥ १९ ॥

पदरत्नावली

ब्रह्मासनं ब्राह्मणमध्ये ब्राह्मणयोग्यासनम् ॥ १९ ॥

सत्यधर्मीया

अस्य ब्रह्मासनं दत्तमस्माभिः । यावत्सत्रमिदं समाप्यते तावदायुश्च दत्तमित्यन्वयः ॥ १९ ॥

अजानतेवाचरितं त्वया ब्रह्मवधो यथा ।

योगेश्वरस्य भवतो नाम्नायो विनियामकः ॥ २० ॥

पदरत्नावली

अस्य निधनं त्वया अजानतेव यद्वा जानता वा । ब्राह्मणवधसमान-दोषोऽयमित्याशयेनाह– ब्रह्मेति ॥ भवत आम्नायो विधिनिषेधशासिशास्त्रं नियामकम् इदं कुरु नेदमिति नियन्ता नास्ति । कुत इत्यत आह– योगेश्वरस्येति ॥ २० ॥

सत्यधर्मीया

न प्रतिलोमजवधोऽयमपि तु ब्रह्मासनवितरणाद्यथा ब्रह्मवधस्तथै-वायम् । तथाऽप्यजानतैवमज्ञेन त्वया कृतः । वेदोऽपि न तव विषये निर्बन्धकर्ता भवती-त्याहुः– योगेश्वरस्येति । आम्नायोऽपि न विनियामक इत्यन्वयः ॥ २० ॥

यद्येतद् ब्रह्महत्याया पावनं लोकपावन ।

चरिष्यति भवान् लोकसङ्ग्रहं नान्यचोदितः ॥ २१ ॥

पदरत्नावली

विध्यगोचरत्वाद् ऋषयः स्वहार्दं विज्ञापयन्ति– यदीति ॥ यदि भवान् त्वं ब्रह्महत्याया एतत्पावनं शुद्धिलक्षणं परिहारं चरिष्यति तर्हि लोकसङ्ग्रहं करिष्यति । कुतः ? अत्राह– नेति ॥ २१ ॥

सत्यधर्मीया

पावनं शोधकं व्रतविशेषं चरिष्यति भवांश्चेल्लोकसङ्ग्रहं चरिष्यति च । अवश्यं कर्तव्यमिति वक्तव्ये भीता एवैवं जजल्पुरित्याह– नान्यचोदित इति । अनितर-प्रेरितः ॥ २१ ॥

बलभद्र उवाच—

चरिष्ये वधनिर्वेशं लोकानुग्रहकाम्यया ।

नियमः प्रथमे कल्पे यावान् स तु विधीयताम् ॥ २२ ॥

पदरत्नावली

प्रथमे कल्पे उत्तमकल्पे यावान् नियमो विधिः स त्वेव विधिर्भवद्भि-र्विधीयताम् ॥ २२ ॥

सत्यधर्मीया

वधनिर्वेशमेतद्वधप्रायश्चित्तम् । तेजीयसां नैव दोष इत्याद्युक्तेर्लोकानुग्रह-काम्ययेति ॥ तथा तेषां च लोकसङ्ग्रहमित्युक्तिरिति ज्ञेयम् । प्रथमे कल्प उत्तमकल्पे यावान्नियमः स तु स एव विधीयतां भवद्भिः ॥ २२ ॥

दीर्घमायुर्व्रतं तस्य सत्वमिन्द्रियमेव च ।

आशासितं यद्यदुत साधये योगमायया ॥ २३ ॥

पदरत्नावली

तस्य व्रतं दीर्घमायुः सत्वमिन्द्रियं दूरश्रवणदूरदर्शनादिशक्तिं साधये । किं बहुना ? यद्यदाशासितं कामितं तत्तत् साधय इत्याह– आशासितमिति ॥ २३ ॥

सत्यधर्मीया

जीवयेत्याज्ञा चेत्तथा करोमीत्याह– दीर्घमिति । सत्वं बलमिन्द्रियं तत्पाटवं किमुत यद्यद्युष्मदाशासितमुत युष्मदभिप्रेतयज्ञानन्तरं तत्सर्वं साधये । तदुपाय-मप्याह– योगमाययेति ॥ २३ ॥

ऋषय ऊचुः—

अस्त्रस्य तव वीर्यस्य मृत्योरस्माकमेव च ।

यथा भवेद् वचः सत्यं तथा राम विधीयताम् ॥ २४ ॥

पदरत्नावली

अस्त्रवीर्ययोरमोघत्वं मृत्योरनावृत्तित्वमस्मद्वचसश्चावन्ध्यफलत्वं यथा स्यात् तथा विधीयताम् ॥ २४ ॥

सत्यधर्मीया

एवमुक्ता ऋषयः समयोचितमालोच्यावोचन्नित्याह– ऋषय इति । अस्त्रस्येत्यनुवादेन कुशाग्रेणेति(?) पाठे वादे कुशेऽभिमन्त्रणं कृतवान्बल इत्यनुसन्धेयम् । तवेत्यस्त्रवीर्यान्वयी । आजीवने चास्त्रं तव वीर्यं मोघे स्यातां न च तद्युक्तम् । मृत्युश्चायं कालिक इति नात्येतुं योग्यो, न चास्मद्वचनमनृतं च भाव्येवं दौर्घट्ये यथा सर्वं सुघटं स्यात्तथा रामालोच्य विधीयताम् ॥ २४ ॥

बलभद्र उवाच—

आत्मा वै पुत्र उत्पन्न इति वेदानुशासनम् ।

तस्मादस्य भवेद् वक्ता आयुरिन्द्रियवीर्यवान् ॥ २५ ॥

पदरत्नावली

पुराणानां वक्ता पुत्रः स्यात् ॥ २५ ॥

सत्यधर्मीया

बल आलोच्य लपतीति लपति– आत्मा वा इति । आत्मैव पुत्रः सन्नुत्पन्न इति यतो वेदानुशासनमस्ति । स चात्मा वै पुत्रानामासीत्येतदेतज्जातीयश्च । तस्मादस्य रोमहर्षणस्य सुतो वक्ता पुराणानां स्यात् । आयुश्चेन्द्रियाणि वीर्यं च तद्वान्भवेत् । एवं चेन्न मे मोघं वीर्यमस्त्रं च, न च वचश्च वोऽयथार्थं तस्यैवैतत्वाद्युष्म-द्दत्तस्यायुरादेरेतत्पर्यवसानात् ॥ २५ ॥

किं वः कामो मुनिश्रेष्ठा ब्रूताहं करवाणि तत् ।

अजानतश्चापचितिं यथा मे बुध्यतां बुधाः ॥ २६ ॥

पदरत्नावली

हे बुधा युष्माभिर्वरो दत्त इत्यजानतो मेऽपचितिं परिहारं बुध्यताम्

॥ २६ ॥

सत्यधर्मीया

सर्वसन्दर्भो जातो दर्भहतेरुचितामपचितिं कुर्यामहमार्या विशोध्य बोधयते त्याह– किं व इति । हे मुनिश्रेष्ठा वः कामः को ब्रूत तत्तं करवाणि । हे बुधाः । अजानतो युष्मद्दत्तायुष्मानयमित्यविदुषो मम । अपचितिर्यथा स्यात्तथा भवद्भिर्बुध्यताम् ॥ २६ ॥

ऋषय उचुः—

इल्वलस्य सुतो घोरो बल्वलो नाम दानवः ।

स दूषयति नः सर्वान् सत्रमेत्य च पर्वणि ॥ २७ ॥

पदरत्नावली

प्रायश्चित्तं विधातुमाहुः– इल्वलस्येति ॥ २७ ॥

॥ इति श्रीमद्भागवतटीकायां विजयध्वजतीर्थकृतायां पदरत्नावल्यां

दशमस्कन्धे उत्तरार्धे अष्टनवतितमोऽध्यायः (स.धर्म.१०–९८) ॥

सत्यधर्मीया

प्रायश्चित्तं च, प्रायश्चित्तमस्मदीयं प्रशस्तं कृतं चेज्जातप्रायं जातं च पुनरेतत्कृतावित्यभिप्रायवन्त आहुः– इल्वलस्येति । वातापिभ्रातुर्नाम्ना बल्वलः । सत्रमेत्त्य पर्वणि नः सर्वान्दूषयति ॥ २७ ॥

तं पापं जहि दाशार्ह तत्र शुश्रूषणं परम् ।

पूयशोणितविण्मूत्रसुरामांसाभिवर्षिणम् ॥ २८ ॥

सत्यधर्मीया

तं पापं पापिनम् । तत्रैतद्धनने परं शुश्रूषणं बहुसेवा त्वया कृता भविष्यत्यस्माकमिति भावः । तद्दूषणप्रकारमाह– पूयशोणितेति ॥ २८ ॥

ततश्च भारतं वर्षं परीत्य सुसमाहितः ।

चरित्वा द्वादशान् मासान् तीर्थस्नायी विशुध्यसे ॥ २९ ॥

॥ इति श्रीमद्भागवते दशमस्कन्धे अष्टनवतितमोऽध्यायः ॥

सत्यधर्मीया

तत एतद्धननानन्तरम् । सुसमाहितो भारतं वर्षं खण्डं चरित्वा द्वादशान्द्वादशसङ्ख्यान्मासांस्तीर्थस्नायी भवाञ्छ्रुद्ध्यते ॥ २९ ॥

**॥ इति श्रीसत्यधर्मयतिकृतायां भागवतटिप्पण्यां दशमस्कन्ध उत्तरार्धेे **

अष्टनवतितमोऽध्यायः ॥ १०–९८ ॥