२३ सप्तनवतितमोऽध्यायः

सभाजयित्वा बहुधा श्रुतदेवं श्रियःपतिः

॥ अथ सप्तनवतितमोऽध्यायः ॥

राजोवाच—

सभाजयित्वा बहुधा श्रुतदेवं श्रियःपतिः ।

आगतो द्वारकां भूयः किं चकार महामुने ॥ १ ॥

पदरत्नावली

पाण्डवकौरवयुद्धकथनव्याजेन श्रीकृष्णमाहात्म्यं प्रदर्शयत्यस्मिन्नध्याये । तत्र राजा पृच्छति– सभाजयित्वेति ॥ १ ॥

सत्यधर्मीया

श्रुतश्रुतदेवबहुलाश्वोभयाभयदानव्यापृती राजाऽनन्तरमनन्तः किं चकार कारुणिकस्तद्वदेति किञ्चिदनूद्य पृच्छति– सभाजयित्वेति । प्रसक्तयोर्द्वयोरेकस्यैवानुवादः स तु राजा सभाजनसभाजनभाजनमेवेति न चित्रं तत्सभाजनमिति निर्धनस्यैतस्यैव चेद्दया स्थापिता भवति भगवतो जगतीति द्विजत्वात्कुलत्वाच्च परिक्षित उचित इति विभावनीयम् । श्रियःपतिः श्रुतदेवं बहुधा सभाजयित्वा सत्कृत्य द्वारकामागतः । महामुने । किं चकार । तद्वदेति शेषः ॥ १ ॥

श्रीशुक उवाच—

उपप्लाव्यं गतान् पार्थान् गोग्रहे जितकौरवान् ।

शुश्राव तीर्णसमयान् बलेन महता वृतान् ॥ २ ॥

पदरत्नावली

गोग्रहे गोग्रहणे । तीर्णवनवासाज्ञातवासलक्षणसमयान् ॥ २ ॥

सत्यधर्मीया

कौरवपाण्डवसमसमराय जयपिजयादिकारयितुः श्रीकृष्णस्य चरितं शुश्रूषुणा राज्ञाऽहं पृष्ट इति शुको हसितमानसो वक्तुमुपक्रमत इत्याह– श्रीशुक इति । उपप्लाव्यं तन्नामकनगरम् । गोग्रहे उत्तरगोग्रहणे । जिताः कौरवा मत्स्यपुरीवासावसरे यैस्ते तान् । तीर्णः समयो द्वादशवर्षी वनवास एकवर्ष्यज्ञातवास इति यैस्तान् । महता बलेन । बले सेनाविषये न महता कौरवसेनापेक्षयाऽल्पीयसा बलेनेत्यावृत्त्याऽन्वयो वा । वृतान् शरीरेण सम्मेलितसैन्येन च ॥ २ ॥

सम्प्रहृष्टमनाः कृष्णो महत्या सेनया वृतः ।

सात्यकिं कृतवर्माणमुद्धवं शठसारणौ ॥ ३ ॥

सत्यधर्मीया

सम्प्रहृष्टमना अवतारप्रयोजननिष्पत्तेरित उत्तरं न सन्देह इति सम्प्रहृष्टं मनो यस्य सः ॥ ३ ॥

अभिमन्युं च सौभद्रं पुरस्कृत्य महामतिः ।

अक्षौहिण्या पृतनया सहितः सत्यसङ्गरः ।

शङ्खदुन्दुभिनिर्घोषैर्द्रष्टुं प्रायाद् युधिष्ठिरम् ॥ ४ ॥

पदरत्नावली

सत्यसङ्गरः सत्यप्रतिज्ञः सत्ययुद्धो वा ॥ ४ ॥

सत्यधर्मीया

सुभद्राया अयं सौभद्रः । महत्येत्यभिहितसङ्ख्यामाख्याति–अक्षौहिण्येति । सत्सङ्गरः सत्यप्रतिज्ञः । शङ्खदुन्दभिनिर्घोषैः समं कौरवाणां सन्धिमिच्छंस्तथैव युधिष्ठिरं प्राया-दित्यन्वयः ॥ ४ ॥

**सन्धिमिच्छन् कौरवाणां कुर्वाणं दौत्यमच्युतम् । **

मूढो ग्रहीतुमारेभे विनशिष्णुः सुयोधनः ॥ ५ ॥

सत्यधर्मीया

दौत्यं तत्कर्म कुर्वाणमच्युतम् । ग्रहीतुमारेभे । मूढोऽच्युतमहं कथं बध्नीयामिति मतिरहितः विनशिष्णुः सन्निहितमृतिः ॥ ५ ॥

स तत्रानन्तरूपत्वं दर्शयित्वा महाभुजः ।

कृत्वा विभीषिकां घोरां पाण्डवान् पुनराययौ ॥ ६ ॥

विवृद्धमत्सराः सर्वे राजानो जातमन्यवः ।

युद्धायैवानुयुज्यन्ते न सन्धिमनुकाङ्क्षिणः ॥ ७ ॥

युधिष्ठिरस्तु धर्मात्मा पुरस्कृत्य जनार्दनम् ।

कुरुक्षेत्रं ययौ राजन् युद्धाय भ्रातृभिः सह ॥ ८ ॥

पदरत्नावली

विभीषिकां भयम् । अनुयुज्यन्ते अनुयुक्ताः क्रियन्ते ॥ ६,७ ॥

सत्यधर्मीया

कृष्णोऽनन्तरूपत्वं विश्वरूपतां दर्शयित्वा । विश्वरूपतामित्य-नुक्त्वाऽनन्तरूपत्वमिति वदन्ननन्तान्यबन्धानि रूपाणि यस्येत्यपि कटाक्षयतीति ज्ञेयम् । ननु सख्युः पार्थस्य विश्वरूपप्रदर्शनसमये दिव्यं ददामि ते चक्षुरिति दिव्यचक्षुर्दानं स्मर्यते । कथमिदानीं पिशितलोचनैर्ददृर्शुदुर्योधनादय इति चेन्न । प्रसादसुमुखतया तत्प्रदर्शन एव तत् । एतत्तु तत्राशाशंसयेति न तदावश्यकतेति सम्भवात् । अत एव विभीषिकां घोरा-मित्युक्तिः । धृतराष्ट्रोऽपि दिव्येन चक्षुषाऽपश्यदागतान् । पाराशर्यप्रसादेनेति प्रास्थानिक-पर्वोक्तिः । उद्योगपर्वाणि तदेतदुक्तम् । एकोहमिति यन्मोहान्मन्यसे मां सुयोधन । परिभूय च दुर्बुद्धे गृहीतुं मां चिकीर्षसि । इत्यारभ्य । न्यमीलयन्त नेत्राणि राजानस्त्रस्तचेतनाः । ऋते द्रोणं च भीष्मं च विदुरं च महामतिम् । सञ्जयं च महाभागमृषींश्चैव तपोधनान् । प्रादात्तेषां च भगवान् दिव्यं चक्षुर्जनार्दनः । तत्राद्भुतं महाराज धृृतभीतिं कृत्वा पुनः पाण्डवान्प्रति ययौ । विवृद्धो मत्सरो मात्सर्यं येेषां ते । जातो मन्युः क्रुद्येषां ते ॥

अनुयुज्यन्तेऽन्यैरनुयुक्ता भवन्ति । सन्धिमनुद्दिश्य अनुकाङ्क्षा येषामस्ति ते तथा । शिखादिः । यद्वा उपासनापादीयमनसाचान्यदाकाङ्क्षादित्यनुव्याख्या व्याख्यासुधायामाकाङ्क्षा-दिति घञन्त इत्युक्तेरकारान्तानुकाङ्क्षशब्दस्ततश्चात इनिठनावितीनिरूपम् । अत्र विशेषस्त्वे-तत्सजातीयस्थानान्तरे सम्बन्धमनुवर्तिष्यत इति महाभाष्यऋग्भाष्याद्युदाहृत्य स्कन्धान्तर-विवृतादुक्तोऽनुसन्धेयः । लिङ्गानुशासनादिकं च प्रायिकाभिप्रायकमिदमिति ज्ञेयम् । सन्धिमनु तद्विषयकं मन्यन्ते वचनमिति यावत् । एकपद्ये वा । जनार्दनं श्रीहरिं जनानां पामराणां धार्तराष्ट्रादीनामर्दनमुद्दिश्येति चार्थः ॥ ६८ ॥

अक्षौहिण्या विराटोऽपि मत्स्यराजो महामनाः ।

युधिष्ठिरमनु प्रायात् सपुत्रः कुरुसत्तम ॥ ९ ॥

सत्यधर्मीया

मत्स्यराजो विराट इति सामानाधिकरण्यम् ॥ ९ ॥

द्रुपदश्च शिखण्डी च धृष्टद्युम्नश्च दुर्जयः ।

अक्षौहिणीभिस्तिसृभिरनुजग्मुर्युधिष्ठिरम् ॥ १० ॥

सत्यधर्मीया

द्रुपदश्च शिखण्डी चेति पृथग्द्वयोर्वीरत्वाद्भीष्मद्रोणमृतिहेतुत्वादुक्तिः ॥१०॥

अक्षौहिण्या परिवृतः सात्यकिर्युद्धलालसः ।

नियोगाद् वासुदेवस्य प्रायादनु युधिष्ठिरम् ॥ ११ ॥

सत्यधर्मीया

पूर्वं सात्यकिं कृतवर्माणमित्येवोक्तेरेकलः सात्यकिरायात इति स्यादिति तदागमनं विशिनष्टि– अक्षौहिण्येति । सेनयेति शेषः ॥ ११ ॥

अक्षौहिण्या परिवृताः कैकेयाः पञ्च भूभृतः ।

अनुजग्मुर्धर्मपुत्रं राजानं मातृसोदराः ॥ १२ ॥

पदरत्नावली

मातृसोदरा मातृपक्षेण सोदराः ॥ १२ ॥

सत्यधर्मीया

पञ्च केकयराजा मातृसोदरा मात्रा समानमुदरं पितुर्येषां ते । कुन्ति-भोजाभ्यां जाता एव मातुला इति केचित् । मातृपक्षेण सोदरा इत्यपरे ॥ १२ ॥

धृष्टकेतुस्तदा राजा शैब्यश्च नरपुङ्गवः ॥ १३ ॥

अन्वयातां नृपश्रेष्ठावक्षौहिण्या युधिष्ठिरम् ।

ते गत्वा पाण्डवाः सर्वे नारायणपुरोगमाः ॥ १४ ॥

सत्यधर्मीया

नृपश्रेष्ठौ, नारायणः पुरोगमो येषां ते ॥ १३ ॥

स्वैरमूषुः कुरुक्षेत्रे प्रतीक्षन्तः सुयोधनम्

सुयोधनोऽपि कौरव्य मानी भ्रातृशतैर्वृतः ।

द्रोणभीष्मकृपद्रौणिकर्णबाह्लीकसौबलैः ॥१५॥

सत्यधर्मीया

स्वैरं यथेच्छं प्रतीक्षन्तः प्रतीक्षमाणाः । मानी दुर्मानवान् । भ्रातृ-शतैः । शतसङ्ख्यापूरकावयवरूपैर्भ्रातृभिरित्यर्थः । सौबलः शुकनिः ॥ १५ ॥

हार्दिक्यसाल्वमद्रेशभगदत्तजयद्रथैः ।

अन्यैश्च राजशार्दूलैर्नानादेशसमुद्भवैः ॥ १६ ॥

सत्यधर्मीया

हार्दीको हार्दिक्यस्तथैव सुपठम् । अवृत्तिविच्छित्तेः । नानादेशोत्पन्नैः

॥ १६ ॥

शङ्खदुन्दुभिनिर्घोषैर्भेरीपणवनिःस्वनैः ।

पूरयन् ककुभो वीरः प्रययौ कम्पयन् महीम् ॥ १७ ॥

सत्यधर्मीया

ककुभो दिशः पूरयन्महीं कम्पयन्प्रययौ ॥ १७ ॥

ते समेत्य कुरुक्षेत्रे राजानो कुरुपाण्डवाः ।

स्यमन्तपञ्चके चक्रुर्व्यूहमुद्यति भास्करे ॥ १८ ॥

पदरत्नावली

व्यूहं शिबिरम् ॥ १८–२१ ॥

सत्यधर्मीया

व्यूहं समूहम् ॥ १८ ॥

अक्षौहिण्यः कौरवाणामेकादश दुरात्मनाम् ।

सप्त पाण्डुसुतानां च कर्शितानां वने भृशम् ॥ १९ ॥

सत्यधर्मीया

दुरात्मनां कारैवाणामेकादशाक्षौहिण्योऽभवत् । वने भृशं कर्शितानां पाण्डुसुतानां सप्ताक्षौहिण्योऽभवत् ॥ १९ ॥

तथा व्यूहेष्वनीकेषु तावकेष्वितरेषु च ।

गाण्डीवधन्वा१ कवची बद्धतूणतलत्रवान् ।

आरूढस्यन्दनः पार्थो ददर्श रिपुवाहिनीम् ॥ २० ॥

दुर्घटभावदीपिका

यथा युद्धशास्त्रे उक्तं तथा तावकेष्वनीकेष्वितरेष्वनीकेषु व्यूढेष्विति । एतेन तथेत्येतद्व्यर्थमिति दूषणं प्रत्युक्तम् । यथा युद्धशास्त्रे उक्तमित्यस्य शेषेणार्थस्योक्तत्वात्

॥ २० ॥

सत्यधर्मीया

तावकेष्विति चैतत्कालविवक्षयेति मन्तव्यम् । बद्धतूणश्चासौ तलत्रवांश्च स । आरूढः स्यन्दनो येन सः । वाहिनी सेना ॥ २० ॥

उपाध्यायान् पितॄन् भ्रातॄन् मातुलान् स्वस्रियान् सुतान् ।

शिष्यान् सपौत्रान् दौहित्रान् शालान् सम्बन्धिबान्धवान् ।

दृष्ट्वा निर्वेदमापन्नो हन्तुं नैवाकरोन्मनः ॥ २१ ॥

सत्यधर्मीया

उपाध्यायान्द्रोणादीन् । पितॄॄन् अनुबन्धात्तत्तुलान्बाल्हीकादीन् । भातॄॄन्दुर्योधनादीन् । मातुलान्कुन्तिभोजसुतान् । शकुनिशल्यादींश्च । स्वस्रियान्स्वसृणां भगिनीनां सुतान् । हृस्वश्छान्दसः स्वसुस्थ इति स्मरणात् । सुतान्, शिष्यान्सात्यकादीन् पौत्रान्पुत्रपुत्रान्दौहित्रान्पुत्रीपुत्रान् । शालान्भगिनीभतर्न् । सम्बन्धिनः प्राहुणिकान्बान्धवा-न्ज्ञातीन् । निर्वेदं विरक्तिम् ॥ २१ ॥

तं विषण्णमनश्चित्तं कृपालुमविघातिनम् ।

प्रबोध्य प्रेरयामास केशवो योगमायया ॥ २२ ॥

पदरत्नावली

योगमायया स्वरूपसामर्थ्येन ॥ २२ ॥

दुर्घटभावदीपिका

विषण्णमनश्चित्तमित्यस्य विषण्णमनोबुद्धिमित्यर्थः । एतेन मनश्चित्तमित्येतत्पुनरुक्तमिति चोद्यस्यानवकाशः । चित्तशब्देन मनसो ग्रहणमित्यनङ्गीकृत्य मनोबुद्धी तु द्वादश इति प्रमाणानुसारेण बुद्धेर्ग्रहणमित्यभ्युपगमात् ॥ २२ ॥

सत्यधर्मीया

कृपालुं तत्पूर्णकलशवद्विद्यमानं विषण्णं मन एतन्निरीक्ष्यापि येषां ते तेषु चित्तं यस्य सः । तमविघातिनं निश्चितोविघात इत्येवमुक्तिः । त एवमाप प्राप्तेति निर्वेदमापन्न इत्यपि योजना । अनश्चित्तं स्पन्दमानस्येव चित्तं यस्य स तं विषण्णमिति वा । सर्वत्र सर्वे स्वकीया एवासत । तन्मनस्कस्तन्मात्रावलोककोऽभूदिति भावः । योगमायया स्वरूपशक्त्या सम्बोध्य गीतारूपेण बहिर्बोधयित्वा प्रेरयामास अन्तश्च ॥ २२ ॥

त्यक्तशस्त्राय शान्ताय बन्धून् प्रति कृपालवे ।

दर्शयामास पार्थाय विश्वरूपं जनार्दनः ॥ २३ ॥

सत्यधर्मीया

शान्ताय समाधाननिधनाय कृपालवे । लुशैव निर्वाहे आलुचं विदधत्सूत्रकार-स्ततोऽन्यत्राप्यजिज्ञपत् । अतः शयालुरिति कृपालुरिति भवति । इत्यतोऽपि स्वसरणिको नायं वासविरिति वासुदेवः स्ववचनविश्वाससम्पत्तय इदमतनुतेत्याह– दर्शयामासेति । पार्थाय पार्थं, विश्वरूपं जनार्दनो दर्शयामास ॥ २३ ॥

सम्बोधितः कंसभिदा तथा वासवनन्दनः ।

भूयो जग्राह कोदण्डं युद्धायाच्युतसारथिः ॥ २४ ॥

सत्यधर्मीया

कंसभिदा केशभिदेति द्वावपि सुन्दरौ पाठौ । तथा सम्बोधित इति वा यथा तत्त्याज तथा शब्दान्वयः । कोदण्डं कार्मुकं गाण्डीवम् । अच्युतः रथसारथि-रुभयथाऽपि यस्य सः । भूयः पुनः ॥ २४ ॥

प्रारब्धं भारतं युद्धं श्रुत्वा सङ्कर्षणो बली ।

अशक्नुवन् वारयितुं किं करोमीत्यचिन्तयत् ॥ २५ ॥

सत्यधर्मीया

भरतानामिदं भारतं प्रारब्धं श्रुत्वा बली सङ्कर्षणः । वारयितुमशक्नु-वन्नहं किं करोमि न सम्मतोऽयं मम समरो यदा तदा मदायोधनं दूरं निरस्तम् । तत्राप्यु-भावाप्तौ । सम्मतश्च भ्रातुस्तत आवयोः कलहश्च स्यादतः किं कुर्यामित्यचिन्तयत् ॥२५॥

प्रवृत्तं भारतं युद्धमवेक्ष्योद्योगविह्वलः१ ।

तीर्थव्याजेन तत्याज रामः परिचितां भुवम् ॥ २६ ॥

पदरत्नावली

परिचितां प्रागभ्यस्ताम् ॥ २६–३० ॥

सत्यधर्मीया

चिन्तितवता चैवं निरणायीत्याह– तीर्थव्याजेनेति ॥ २६ ॥

सेनापतिः पाण्डवानां धृष्टद्युम्नो महारथः ।

गाङ्गेयो धार्तराष्ट्राणां वृद्धः कुरुपितामहः ।

स कुर्वन्नाहवं घोरं निहतो दशमेऽहनि ॥ २७ ॥

सत्यधर्मीया

गाङ्गेयो भीष्मः सेनापतिरित्यन्वेति । स भीष्मो दशमेऽहनि निहतस्तत्प्रायः

॥ २७ ॥

भारद्वाजं ततो द्रोणं सैनापत्ये सुयोधनः ।

न्ययोजयत् स युयुजे दिवसान् पञ्च भूपते ॥ २८ ॥

सत्यधर्मीया

सैनापत्ये तन्नायकत्वे । पत्यन्तेति यकि वृद्धौ मित्वात्सैनापत्यमिति ज्ञेयम् ॥ २८ ॥

तस्मिन् युध्यति दुर्धर्षे सैन्धवेन दुरात्मना ।

अभिमन्युस्तव पिता निहतो रणमूर्द्धनि ॥ २९ ॥

सत्यधर्मीया

सैन्धवेन जयद्रथेन । तव पिताऽभिमन्युः ॥ २९ ॥

पुत्रशोकाभिसन्तप्तः प्रतिजज्ञे धनञ्जयः ।

जयद्रथं हनिष्यामि श्वोभूत इति भारत ॥ ३० ॥

दुर्घटभावदीपिका

श्वोभूत इत्यस्य श्वो भूते प्राप्ते सतीत्यर्थः । एतेन श्व इत्यनेन पूर्णत्वाद्भूत इत्येतद्व्यर्थमिति दूषणं प्रत्युक्तम् । श्वःपर्यन्तं जीवामि चेदिति भावं मनसि निधाय श्वोभूत इत्युक्तमित्यभ्युपगमात् ॥ ३० ॥

सत्यधर्मीया

प्रतिजज्ञे प्रतिज्ञामकरोत् । श्वोभूते तत्रापि सूर्यास्तमयात्प्राक् ॥ ३० ॥

तस्यां निशायां गोविन्दस्त्वारुह्य गरुडं हरिः ।

सुप्तमर्जुनमादाय कैलासमभिजग्मिवान् ॥ ३१ ॥

सत्यधर्मीया

पाशुपतास्त्रं तन्मुखत उपदेशे बलकारीति काञ्चन लीलामेवं देवस्तता-नेत्याह– निशायामिति । गोविन्दो हरिः । सुप्तमर्जुनमादाय । अनेन नाङ्गस्मरणमर्जुनस्येति ध्वन्यते ॥ ३१ ॥

तत्र गत्वा विरूपाक्षं दृष्ट्वा सम्भाष्य वाञ्छितम् ।

साधयित्वाऽर्जुनस्याशु स्वायोधनमुपाययौ ॥ ३२ ॥

पदरत्नावली

विरूपाक्षं रुद्रम् ॥ ३२ ॥

दुर्घटभावदीपिका

स्वायोधनमित्यस्य स्वतिसमीचीनम् आयोधनं युद्धं यत्र तत्स्थान-मित्यर्थः । एतेनायोधनमित्यनेन युद्धस्थानमित्यर्थस्य लाभादन्ययुद्धप्रसक्तेरभावात्स्वशब्दो व्यर्थ इति दूषणस्यानवकाशः । कृष्णस्यातिशौर्यज्ञापनार्थं युद्धस्यातिमहत्वं वक्तुं सु आ इत्युपसर्गद्वयं प्रयुक्तमित्यङ्गीकारात् ॥ ३२ ॥

॥ इति श्रीभागवतटिप्पण्यां सप्तनवतितमोऽध्यायः ॥ १०–९७ ॥

सत्यधर्मीया

तेन सह सम्भाष्य वाञ्छितमर्जुनस्य साधयित्वा । स्वमायोधनं रणधुरीणमुपाययौ । अर्जुनमंशतो निनायेतरोंऽशस्तु शरीरेऽवसदिति तत्र हर्यचिन्त्यशक्ति-र्घटिका तथा भुजे धारणं च । यथोक्तं द्रोणपर्वणि । ‘आत्मानमर्जुनोऽपश्यद्गमने सह केशवम् । केशवेन गृहीतश्च विभुना दक्षिणे भुजे ॥’ इत्यादिना । तस्यैतद्गुरुत्वात्तत्र नयनं न स्वाशक्त्येति स्वय मेवाखिलजगद्रक्षाद्यमितशक्तिमान् । अप्यच्युतो गुरुद्वारा प्रसादकृदहं त्विति । ज्ञापयन्फल्गुन स्यास्त्रगुरुं गिरिशमञ्जसा । प्रापयित्वैनमेवैतत्प्रसादादस्त्रमुल्बणमिति श्रीमदुक्तेः ॥ ३२ ॥

ततोऽपरदिने युद्धमासीद् घोरं जनक्षयम्।

मम्रुर्महीभुजस्तत्र बहवो बाहुशालिनः ॥ ३३ ॥

पदरत्नावली

जनक्षय आसीत् ॥ ३३ ॥

सत्यधर्मीया

ततः कैलासादागमनान्तरम् । जनानां क्षयो यस्मिंस्तत् । मम्रुर्मम्रिरे मृताः ॥ ३३ ॥

हतेषु रणदक्षेषु राजपुत्रेष्वनेकशः ।

जयद्रथोऽपि पार्थेन निहतो दिवसात्यये ॥ ३४ ॥

सत्यधर्मीया

दिवसात्यये आसन्ने ॥ ३४ ॥

दिनानि पञ्च द्रोणोऽपि कृत्वा युद्धमतन्द्रितः ।

पञ्चमेऽहनि सन्ध्यायां धृष्टद्युम्नेन पातितः ॥ ३५ ॥

सत्यधर्मीया

तदर्थमेव द्रुपदवृतत्वाद्योगेन तनुत्यागे कारणान्तरेण जातेऽपि धृष्टद्युम्नेन पातित इत्युक्तिरिति ज्ञेयम् ॥ ३५ ॥

ततः सेनापतिः कर्णो भूत्वा चक्रे महारणम् ।

दिनद्वयान्ते पार्थेन स च सङ्ख्ये निपातितः ॥ ३६ ॥

सत्यधर्मीया

स च कर्णोऽपि ॥ ३६ ॥

शल्योऽप्यर्धदिनं कृत्वा सैनापत्य१मरिन्दम ।

मध्यन्दिनगते सूर्ये धर्मराजेन पातितः ॥ ३७ ॥

सत्यधर्मीया

सैनापत्यमिति सुपठम् । सेनापत्यमिति पाठे तु वृद्ध्यभावश्छान्दसः । मध्यन्दिनगते सूर्य इत्यनेन स्वपुत्रयममयधर्मराजजयं निभालयितुं सूर्यो मध्यमुपायात इति ध्वन्यते ॥ ३७ ॥

युयुधाते ततो वीरौ गदया दीर्घवैरिणौ ।

भीमदुर्योधनौ कोपात् परस्परवधैषिणौ ॥ ३८ ॥

सत्यधर्मीया

गदाभ्यामिति गदनीये यद्गदयेति जगाद तेन दुर्योधनसम्बन्धिनी सा भीमस्यैवान्तत इति भावमाविर्भावयामासेति तात्पर्यं ज्ञेयम् । सगदस्यैव सरप्रवेशात् । यथोक्तं गदापर्वणि । ‘स हि तीव्रेण वेगेन गदापाणिरथोत्क्रमात्’ इत्युपक्रम्य । ‘सङ्क्षोभ्य सलिलं वेगाद्गदामादाय वीर्यवान्’ इत्यन्तेऽप्युक्तेः ॥ ३८ ॥

अष्टादशाक्षौहिणीनां तत्पतीनां च भूभृताम् ।

अष्टादशैर्दिनैरासीदर्धोनैः सङ्क्षयो महान् ॥ ३९ ॥

॥ इति श्रीमद्भागवते दशमस्कन्धे सप्तनवतितमोऽध्यायः ॥

पदरत्नावली

अर्धदिनोनैरष्टादशदिनैर् अर्धदिनसहितैः सप्तदशदिनैः ॥ ३९ ॥

॥ इति श्रीमद्भागवतटीकायां विजयध्वजतीर्थकृतायां पदरत्नावल्यां

दशमस्कन्धे उत्तरार्धे सप्तनवतितमोऽध्यायः (स.धर्म.१०–९७) ॥

सत्यधर्मीया

अर्धोनैरष्टादशदिनैर्दशदिनं भीष्मयुद्धं, सङ्ग्रामः पञ्चदिनो द्रोणस्य, द्विदिनो कर्णस्य, शल्यस्यार्धदिनमित्यर्धोनैरष्टादशैर्दिनैरिति ॥ ३९ ॥

॥ इति श्रीसत्यधर्मयतिकृतायां भागवतटिप्पण्यां दशमस्कन्ध उत्तरार्धेे

सप्तनवतितमोऽध्यायः ॥ १०–९७ ॥