ब्रह्मन् ब्रह्मण्यनिर्देश्ये निर्गुणे गुणवृत्तयः
॥ अथ षण्णवतितमोऽध्यायः ॥
राजोवाच—
ब्रह्मन् ब्रह्मण्यनिर्देश्ये निर्गुणे गुणवृत्तयः ।
कथं चरन्ति श्रुतयः साक्षात् सदसतः परे ॥ १ ॥
पदरत्नावली
यदनन्तनिगमनिकरनिरूपितगुणगणाकरं ब्रह्म तदेव कृष्णनाम्नाऽवतीर्णं नान्यदित्यतो मुमुक्षुभिरत्र भक्तिरितरत्र विरक्तिमूला कर्तव्येति विधीयतेऽस्मिन्नध्याये ।
तत्र नारदनारायणसंवादलक्षणमितिहासमुत्थापयितुं शुकं परीक्षित् पृच्छति– ब्रह्मन्नित्यादिना ॥ हे ब्रह्मन् पूर्णकाम । सर्वे वेदा यत्पदमामनन्तीति श्रूयते । तत्र श्रुतयः साक्षादामनन्ति उत लक्षणया वा ? तत्र न प्रथम इत्याह– कथमिति ॥ साक्षाच्चरन्ति वर्तन्ते, वाचकत्वेनेति शेषः । तस्य काऽनुपपत्तिः ? अत्राह– अनिर्देश्य इति ॥ यत् तदद्रेश्यमिति श्रुतेः । न द्वितीय इत्याह– निर्गुण इति ॥ ‘केवलो निर्गुणश्च’ इति श्रुतेः । गुणैः प्रवर्तमानस्य कथं निर्गुणत्वमुपपद्यत इत्यत्राह– सदसत इति ॥ निर्गुणे गुणसमर्पकत्वेन श्रुतीनां सञ्चरणं कथमिति दौर्घट्यमापादयितुं शक्यते, यादृग् वस्तु तादृशावेदकत्वेन न कोऽपि विरोध इति तत्राह– गुणवृत्तय इति ॥ गुणार्पकत्वेन गुणवृत्तिर्यासां तास्तथा । ‘तुविग्रीवो वपोदरः सुबाहुरन्धसो मदे’, ‘गुणाः श्रुताः सुविरुद्धाश्च देवे’ इत्यादि श्रुतेः । अत एव नः संशयं छिन्धीति वाक्यशेषः ॥ १ ॥
दुर्घटभावदीपिका
जगतः परे विलक्षणेऽत एव साक्षान्मुख्यतो निर्गुणे सत्त्वादिगुण-सम्बन्धरहिते । अनिर्देश्ये निर्देष्टुमशक्ये । ब्रह्मणि कथं चरन्ति प्रवर्तन्ते । ब्रह्मवाय्वोः सत्त्वादिगुणकार्यदेहे विद्यमानेऽप्यभिमानाभावान्निर्गुणत्वमस्तीत्यतः साक्षान्निर्गुण इति भगवतो मुख्यतो निर्गुणत्वमुक्तमिति ॥ १ ॥
सत्यधर्मीया
इत्येतदित्युक्तेतिहासादीनामन्ततो गत्वा नित्यभूतश्रुतिमूलत्वसमासादित-मानतानां हरेर्विषयतया सुश्लोकैः श्रवणपुटैः पिबन्नित्यर्थ प्रतिपादितायां स्वश्रुतानिर्देश्यत्वादिगुणे तथा गुणहीने कथमेतद्वृत्तिरिति जातजिज्ञासान्व्यवहितावहितमानसाञ्जनानुद्दिधीर्षुः स्वयं तज्ज्ञोऽपि शुकमुखतो वादयित्वा व्यंसयंस्तत्संशयं राजा पृच्छति– ब्रह्मन्निति । पुरुषस्य पदाम्भोजसेवया तद्गतिं गता इत्यत्र पुरुषशब्दवाच्यो न यादृशतादृशो भवति भवतिरस्कर्तेति सहस्रशीर्षेत्यादि-पुरुषसूक्तोक्तोऽत्र ग्राह्यः । तथा च वेदाः पुुरुषसूक्तगा इत्युक्तेः स एव सर्ववेदार्थ इति वक्तव्यम् । तत् किं मायाकवलितं शबलं ब्रह्म किंवा निर्गुणम् । नाद्यः । स्वयं बद्धो बद्धमन्यं कथं तनुयात् । वेदान्तवेद्यं शबलं निर्गुणं तु मोचकमिति मोच्चैर्वोचः । असङ्गत्वात् । तर्ह्यन्योपासकोऽन्यं प्राप्नुत इति युज्यत इत्युक्तेरिति सन्दिहानजनसन्दोहमुद्दिधीर्षू राजर्षिस्तन्मुखेन वाचयितुं वाचंयमं पृच्छति– ब्रह्मन्नितीति । हे ब्रह्मन् एतत्प्रतिवचनज्ञानादिमन् । अनिर्देश्ये । ‘तदेतदिति मन्यन्तेऽनिर्देश्यं परमं सुखमित्यादेः’ । निर्गुणे । केवलो निर्गुणश्चेत्यादेः । तस्यैतदर्थकत्वसम्भावकमावेदयति– साक्षात्सदसतः पर इति । स्वातन्त्र्येणैव मूर्तामूर्तकार्यकारणविलक्षणे । सदसत इति सता सहितं च तदसच्चेत्युत्तरपदलोपिसमासः । सर्वो द्वन्द्व इत्येकवद्भावो वा । श्रुतयः कथं चरन्ति विषयी-करणाय प्रवर्तन्ते । स्तावकाश्च वेदाः स्तवनं च विद्यमानगुणवर्णनं न प्रवृत्तिः सम्भवतीत्यतस्तत्स्वरूपं निरूपयति– गुणवृत्तय इति । गुणेषु सत्स्वेव वृत्तिः प्रवत्तिर्यासां ताः । गुणेन तन्निमित्तीकृत्य स्थितिर्यासां ता इति वा । वृत्तिः प्रवृत्तिर्वृत्तान्तः स्थितिरित्यभिधीयत इति तृतीयतात्पर्योक्तेः । वेदो बन्दिजना यत इत्यादेः । चरन्ति चरवत्प्रेष्यबन्द्यादिवदाचरन्ति ता इति चरन्ति सत्यः केन प्रकारेण चरन्ति । इदं वदेति वाक्यशेषः ॥ १ ॥
बुद्धीन्द्रियमनःप्राणान् जनानामसृजत् प्रभुः ।
मात्रार्थं च भवार्थं च आत्मने कल्पनाय च ॥ २ ॥
सैषा ह्युपनिषद् ब्राह्मी पूर्वेषां पूर्वजैर्धृता ।
श्रद्धया धारयेद् यस्तां क्षेमं गच्छेदकिञ्चनः ॥ ३ ॥
पदरत्नावली
श्रुतयः सत्वादिगुणराहित्येन निर्गुणे ज्ञानानन्दादिगुणगणमणिमालालङ्कृतविग्रहे ब्रह्मणि साक्षाद् वर्तन्त इति परिहारमभिप्रेत्य पीठिकामारचयति– बुद्धीति ॥ बुध्द्यादिसर्जनेन किं प्रयोजनम् ? अत्राह– मात्रार्थमिति ॥ ‘मात्रा परिच्छेदे देशे प्रवृत्तौ कर्णभूषणे’ इत्यतो मात्रा प्रवृत्तिः, शब्दानामिति शेषः । तदर्थम् । ‘मनसा वाऽग्रे सङ्कल्पयत्यथ वाचा व्याहरति’ इति श्रुतेः । किमतः ? अत्राह– भवार्थं चेति ॥ ‘भवो भद्रे हरे प्राप्तौ’ इत्यतः भवो भद्रं कल्याणम्, पुण्यमिति यावत् । तदर्थम् । ‘स्वाध्यायप्रवचने एवेति नाको मौद्गल्यः । तद्धि तपस्तद्धि तपः’ इति श्रुतिः । चशब्दौ समुच्चयार्थौ । बुध्द्यादीन्द्रियपूर्विका शाब्दी प्रवृत्तिरपि न स्वर्गादिविषया किन्तु परमात्मविषयैव पुण्यसाधनिमत्यभिप्रायेणाह– आत्मन इति ॥ सन्ध्यकरणात् सदसद्विलक्षण एवात्मा, तमात्मानमुद्दिश्य शब्दराशेः प्रवृत्तिरिति भावः । ततः परमप्रयोजनमाह– कल्पनाय चेति ॥ कल्पनाय परमात्मज्ञानाय । ‘सत्येन लभ्यस्तपसा ह्येष आत्मा सम्यग्ज्ञानेन ब्रह्मचर्येण नित्यम्’ इति श्रुतेः । चशब्देन मोक्षायेति सूचयति । ‘तमेवं विद्वानमृत इह भवति’, ‘ज्ञानेनामृतीभवति’ इति श्रुतेः । अनेन वक्तृविवक्षापूर्विका शब्दप्रवृत्ति-रित्यतो बुद्धीन्द्रियादिमत एव सुप्रयुक्तशब्देन ज्ञातपरब्रह्मतत्वगुणोपसंहारज्ञानप्रसन्नभगवत्सारूप्यादि-मोक्षप्राप्तेः शब्दानां श्रीहरिविषयत्वं साक्षादङ्गीकर्तव्यमित्युक्तं भवति ॥
शब्दमात्रस्य हर्येकविषयत्वमुक्त्वाऽधुना ‘वेदान्तविज्ञानसुनिश्चितार्थाः’ इति वचनादुपनिष-द्भागस्य तद्गुणगणावेदकत्वेन मुख्यवृत्त्या विषयत्वमिति भावेनाह– सैषेति ॥ हिशब्दो हेतौ । ईशबुद्धिस्थिताः सदेति वचनाद् या श्रीनारायणबुद्धिस्थिता सैषोपनिषद् वेदान्तापरपर्याया पूर्वेषां पूर्वजैर्ब्रह्मादिभिर्धृता अध्ययनरूपेण । न तु कृता नित्यवाक्यत्वात् । ‘नित्ययाऽनित्यया स्तौमि’ इत्यादेः । हि यस्मात् तस्माद् यस्तां श्रद्धया धारयते् स क्षेमं मोक्षं गच्छेत् । ब्रह्मज्ञानलभ्यो मोक्षः कथं श्रुतिधारणया स्यादित्यत्राह– ब्राह्मीति ॥ ‘अथ कस्मादुच्यते ब्रह्मेति बृहन्तो ह्यस्मिन् गुणाः’ इति श्रुतेर्ब्रह्मगुणावेदकत्वेन तज्ज्ञानद्वारा मुक्तिहेतुत्वोपपत्तेः । ज्ञानं च विरक्त्यादिमत एव स्यादिति भावेनाह– अकिञ्चन इति ॥ २,३ ॥
दुर्घटभावदीपिका
प्रभुर्नारायणः केषाञ्चिज्जनानाम् । मात्रार्थं च मीयन्त इति मात्रा विषयास्तदर्थं भोगविषयभोगरूपसंसारार्थमिति यावत् । केषाञ्चिज्जनानां भवार्थं च शुभार्थम् । मोक्षार्थमिति यावत् । आत्मने आत्मनः स्वस्य कल्पनाय च बुद्धीन्द्रियादिनियामकरूपेणाभि-व्यक्त्यर्थं च । सृज्यसर्वजनानां बुद्धीन्द्रियमनःप्राणानसृजद्धि यस्माद्ब्राह्मी नारायणविषयिण्युप-निषद्रहस्यभूता सा पूर्वोक्तैषा ज्ञानिबुद्धिसंनिहिता विद्या नारायणो बुद्ध्यादीनां स्रष्टेत्यादिज्ञानं सर्वेषां पूर्वजैर्ब्रह्मादिभिर्धृता धृतम् । तेन ज्ञानेन ब्रह्मादीनां मोक्षश्च जातस्तस्मात्कारणा-द्योऽधिकारी तां विद्यां नारायणो बुद्ध्यादीनां स्रष्टेत्यादिज्ञानं तु विशेषेण धारयेत् सोऽकिञ्चनो निष्परिग्रहः । विरक्तो भूत्वेति यावत् । नारायणप्रसादेन क्षेमं मोक्षं गच्छेदित्यादि भगव-न्माहात्म्यप्रतिपादनार्थं वेदानां प्रवृत्तिरिति । एतेन बुद्धीन्द्रियेति श्लोकद्वयमसङ्गतमिति शङ्काऽ-नवकाशः । इत्यादि भगवन्माहात्म्यप्रतिपादनार्थं वेदानां प्रवृत्तिरित्यस्य शेषेण सङ्गतेरुक्तत्वात्
॥ २,३ ॥
सत्यधर्मीया
साक्षादधोक्षज एव वेदवेद्यः शबलादिशाबल्यकल्पना त्वप्रामाणिकी । तदवाच्यत्वादिकमप्रसिद्धत्वादिनैवेत्यौत्तरेयं प्रत्युत्तरं विवक्षुस्तत्पीठमारचयति– बुद्धीति । जनानां बुद्धीन्द्रियमनःप्राणान्प्रभुः स्वयं प्राकृततद्वैकल्येन सर्जनसमर्थो हरिरसृजत् । कुत एतत्सर्जनमित्यत इत इत्याह । मात्रार्थम् । प्राणे सति मनः सङ्कल्पसाधनं भवति । मनसा वा अग्रे सङ्कल्पयतीत्यादेः । ततश्चेन्द्रियाणां विषयविषया बुद्धिरिति बुद्ध्यादि-सृष्टिरिति । मात्राश्च वर्णसामान्यं तदर्थं तस्य वाचकत्वनिमित्तम् । ‘मात्राक्षरा वर्णनिमित्तम्’ इति विश्वः । आत्मने स्वस्य कल्पनाय ज्ञानार्थं वर्णवर्णनीयत्वानुसन्धानेन । जनाना-मित्यात्राप्यन्वेति । भवार्थं मङ्गलार्थं मोक्षार्थमिति यावत् । भवः संसारस्तस्यार्थो निवृत्ति-स्तमुद्दिश्येति वा । तमेवं विद्वानित्यादेः । च आत्मन इत्यत्र सवर्णसन्ध्यभावोऽसाकल्येन तद्गोचरत्वं सूचयति । सति बुद्ध्यादौ वर्णमात्रस्य भगवद्विषयत्वं तत आत्मविषयकज्ञानं तेनेह मङ्गलं मोक्षश्चान्त इति तत्सृष्टिरिति परीक्षित्पृष्टस्य किमिदमकाण्डताण्डवमिति खण्डितम् । चश् चाय्यते पूज्यते परोक्षीक्रियत इति वा चः । गतमिति प्रभुविशेषणम् । आत्मने आत्मनां नो, नो नियामकस्तस्मिन्मय्यकल्पनाय सगुणनिर्गुणरूपद्वयाकल्पनार्थं च पारमार्थिकी सृष्टिरिति तात्पर्यमिति वा ॥
मात्रामात्रवेद्यता यदि भगवतस्तदा वेदवेदान्तवेद्यता कैमुत्यसिद्धा । अथाऽपि मन्द-विन्दुतायै स्पष्टमाचष्टे– सैषेति । अत एव सैषेति वचनम् । पूर्वेषां पूर्वजैः प्राक्तनै-र्ब्रह्मादिभिर्धृता भगवत्परतयाऽवधृताऽभ्यस्ता च । न विनेयार्थं नूतनीं ततानानन्त इति पूर्वेषां पूर्वजैर्धृतेत्यनेन सूच्यते । तत्रापि ब्राह्मी ब्रह्मणो हरेः सम्बन्धिनी तद्बुद्धिस्थितेति च । वाचा विरूपनित्यया । ईशबुद्धिस्थिता सदेत्यादेः । सैषा वक्ष्यमाणा । उप भगवत्समीपे निषीदतीति तथा । हिना हरिवाचकत्वे एव तासां परमविद्यात्वं नान्यथेति । ‘ऋगाद्या अपरा विद्या यदा विष्णोर्न वाचकाः । ता एव परमा विद्या यदा विष्णोस्तु वाचकाः’ इति मानिकार्थविशेषं द्योतयति । योऽकिञ्चनोऽलं पटादिविषयैरित्यलम्पटः । अनेन विरक्ति-युक्तस्यैवासक्तिरत्रेति तदङ्गता सूच्यते । श्रद्धया तामुपनिषदं धारयेदावर्तयेदर्थेन सह स गच्छेदवगच्छेद्भगवन्तं जानीयादथ क्षेमं मोक्षं गच्छेदित्यावृत्त्याऽन्वयः । सत्येवं कथं नान्यः पन्था अयनाय विद्यत इत्याद्युक्तापरोक्षेक्षालभ्यसकर्माद्यलभ्यस्य नित्यक्षेमरूपमोक्षस्यै-तद्धारणमात्रेण प्राप्तिरिति निरस्तम् । अः भगवान् किञ्चन प्रीतिविषयः पदार्थ इति यस्य सोऽकिञ्चन इति वा । पुत्रात्प्रेय इत्यादेः । यश्च धारयेद्ग्राहयेद्यश्चरेत्तद्द्वन्द्वमिति वा । क्षेमस्तु मङ्गले लब्धसंरक्षणे मोक्षे क्षेमो माधवपुर्यपीति भानुः । भगवन्नगरी वा ॥ ३ ॥
अत्र ते वर्णयिष्यामि गाथां नारायणोदिताम्१ ।
नारदस्य च संवादमृषेर्नारायणस्य च ॥ ४ ॥
पदरत्नावली
भवच्छिष्यत्वेन मम भवदुक्तिः प्रमाणमस्तु, इतरेषां कथमिति शङ्का मा भूदिति भावेनाह– अत्रेति ॥ अत्र श्रुतयः कथं चरन्तीत्यस्मिन्नर्थे । गाथां त्रिषट्पादलक्षणप्रबद्धां कथाम् । नारायणोदितां नारायणेन कथिताम् ॥ ४ ॥
सत्यधर्मीया
न हि वाङ्मात्रेणार्थसिद्धिर्मम तु तव ममतास्पदस्यौपसदस्य भवेद्भव-द्वचोविश्वासो, विश्वेषामितरेषां कथमिति शङ्कां नारायणनारदसंवादरूपिणीं गाथां कथयन् श्लथयति– अत्रेति । नारायणोदितां नारायण उदितः प्रतिपादितो यत्र ताम् । नारायणा-न्वितामिति पाठोऽप्यन्वितः । नारायणः प्रतिपाद्यतया सम्बद्धो यस्यां सा तामित्यर्थः । नारायणस्य ऋषेरिति द्वन्द्वान्वयि । ऋषेर्ज्ञानात्मकस्य नारायणस्य तथा ऋषेर्ज्ञानिनो नारदस्य च । अत्र श्रुतयः कथं चरन्तीत्यस्मिन्नर्थे । संवादं तद्रूपिणीं गाथां ते त्वदादीन्प्रति वर्णयिष्यामि । एतेन निःस्पृहेण निस्पृहं प्रति कथिता गाथेयमिति नाविश्वसनीयार्थेति द्योत्यते । नारायणो मूलनारायणस्तेन प्रागुदितामिदानीं धर्मसुतो नारयणो नारदायावोचदिति या तां गाथां वर्णयामीत्यन्वयोऽपि ॥ ४ ॥
एकदा नारदो लोकान् पर्यटन् भगवत्प्रियः ।
सनातनमृषिं द्रष्टुं ययौ नारायणाश्रमम् ॥ ५ ॥
पदरत्नावली
नारायणेन सङ्गमः कथमभून्नारदस्येत्यत्राह– एकदेति ॥ ५ ॥
सत्यधर्मीया
क्व च नारदः क्व वा स नारायणः कथमनयोः सङ्गमो, येन संवादवादः सम्भवेदित्यत आह– एकदेति । लोकान्पर्यटन् । तत्स्वभावोक्तिः । भगवान्प्रियो यस्य, भगवतः प्रियश्चेति च । ‘प्रियो हि ज्ञानिनोऽत्यर्थमहं स च मम प्रियः’ इत्यादेः । सनातनं पुरातनम् । न च प्रवचनप्रवृत्तं प्रति ज्ञीप्सोत्सर्गगमनमर्थसाधकमित्यतो वाऽऽह । सनातनं नादेन सच्छिष्योपदेशनादेन सहितः सनादः स एव सनाद(त)न इति । ऋषिं द्रष्टुं नारायणाश्रमं ययौ । अनेन स ऋषिर्नारायणरूपीति द्योत्यते ॥ ५ ॥
योऽसौ भारतवर्षेऽस्मिन् क्षेमाय स्वस्तये नृणाम् ।
धर्मज्ञानशमोपेतः साकल्यादास्थितस्तपः ॥ ६ ॥
पदरत्नावली
कस्मिन् खण्डे नारायणाश्रमः, तत्र किं कुर्वन् किं प्रयोजन आस्त इति तत्राह– योऽसाविति ॥ तपसोऽङ्गवैकल्यपरिहाराय साकल्यादित्युक्तम् । धर्मः सुकृतं विहिताचारो वा । ज्ञानं स्वपरपदार्थावगाहि । शमो निष्ठा । एतैरुपेतः । लोकदृष्ट्यैतदुक्तम् ॥ ६ ॥
सत्यधर्मीया
योऽसौ नारायणो भारतवर्षे तत्खण्डे । नृणामिह स्वस्तये क्षेमाय मोक्षाय च धर्मज्ञानशमोपेतः । रमामारभ्य यवसावसानं विश्वं व्यावर्तयितुं साकल्यादित्युक्तम् । तप आलोचनं प्रसिद्धं वा पक्षद्वन्द्वेऽपि लोकान्प्रवर्तयितुमिदं नटनमिति मन्तव्यम् ॥ ६ ॥
तत्रोपविष्टमृषिभिः कलापग्रामवासिभिः ।
परीतं प्रणतोऽपृच्छदिदमेव कुरूद्वह ॥ ७ ॥
पदरत्नावली
तत्राश्रमे उपविष्टं तम् ॥ ७ ॥
सत्यधर्मीया
तत्राश्रमे उपविष्टमासीनम् । कलापग्रामवासिभिर्ऋषिभिः परीतं परिवृतम् । हे कुरूद्वह । त्वं यदपृच्छः कथं चरन्ति श्रुतय इत्यादिकम् । इदं तदन्तिके नारदः प्रणतः सन् । अनेनादरातिशयोऽस्य द्योत्यत इव तस्य वक्तुः प्रतारणकारणाभावोऽपि ध्वन्यते । न हि सादरं कञ्चित्कश्चिद्विप्रलब्धुमिच्छति ॥ ७ ॥
तस्मा अवोचद् भगवान् ऋषीणां शृण्वतामिमाम् ।
यो ब्रह्मवादः पूर्वेषां जनलोकनिवासिनाम् ॥ ८ ॥
पदरत्नावली
तस्मै नारदायेमां गाथामवोचत् । गाथां विशिनष्टि– य इति ॥ पूर्वेषां सनकादीनाम् । ब्रह्मवादो ब्रह्मविषयको वादः । तामिमामिति सम्बन्धः ॥ ८ ॥
सत्यधर्मीया
भगवान्नारायणस्तस्मै नारदाय । नैकस्मा एकान्ते किंवोपदिशेदिति त्वं सन्देहं कुरु कुरुपत इतीरयति– ऋषीणां ज्ञानिनां शृृण्वतां सतामिति । यो जनलोक-निवासिनां पूर्वेषां पूर्वोक्तपूर्वेषामपि पूर्वजानाम् । ब्रह्मवादो ब्रह्मविषये ब्रह्मणां वेदानां वाद-स्तद्रूपिणीमिमां त्वां प्रति मया वक्ष्यमाणां गाथामवोचन्नारायणो नारदाय । अनेन सम्प्रदायागतेति नाविश्वसनीया त्वयेति च सूच्यते ॥ ८ ॥
श्रीभगवानुवाच—
स्वायम्भुवं१ ब्रह्मसत्रं जनलोकेऽभवत् पुरा ।
तत्रत्यानां मानसानां मुनीनामूर्ध्वरेतसाम् ॥ ९ ॥
तात्पर्यम्
सनकाद्याः समाः सर्वे तत्र श्रेष्ठः कुमारकः ॥ मरुतश्च समाः सर्वे सप्त तेषु प्रधानकाः ॥ इति ऋक्संहितायाम् ॥ ९–१२ ॥
पदरत्नावली
पुरा तत्रत्यानां जनलोकस्थितानां मानसानामूर्ध्वरेतसां मुनीनां स्वायम्भुवं स्वयम्भुपुत्रैः क्रियमाणं ब्रह्मसत्रं ब्रह्मविचारलक्षणो यज्ञो जनलोकेऽभवदित्यर्थः ॥ ९ ॥
सत्यधर्मीया
स्वायम्भुवं ब्रह्मसत्रमित्यत्र ब्रह्मविचाररूपसत्रस्य कर्तारो ब्रह्मसुतेषु ते क इति न ज्ञायत, न ज्ञायते समे समाः किंवा तरतमता मतेति । तत्रापि सा मता चेत्सत्तद्वान्क इति शङ्कायां तामृक्संहितावचनेन पराकुर्वन्नन्यत्रोपयोक्ष्यमाणं प्रमेयविशेषं च वदंस्तदुदाहरति– सनकाद्या इति । अतो न तोकानैकान्त्याव्यवस्थितिरिति प्रथमशङ्का-परासः । सर्वे त्रयः समाः । तेषु सनकादिषु चतुर्षु कुमारकः सनत्कुमारः पुरुषोत्तमा-वेशवैफुल्यात्कामत्वाच्छ्रेष्ठः । मरुतः सर्वे समाः । तेषु मरुत्सु सप्ताहङ्कारिकः प्राणः प्रवहः प्राणापानाव्यानोदानसमानाश्चेति प्रधानका यथा तथेति परस्परदृष्टान्त दार्ष्टान्तिकभाव-मावेदयितुं मानमुक्तिर्वा । तत्र मरुत्सु प्राणप्रवहयोः स्वरूपत उत्तमता इतरेषामावेशकृतेति विवेकः । तत्रापि प्रवहात्प्राण आहङ्कारिक उत्तमः । बृहत्तारतम्ये । ततश्चन्द्रसूर्यधर्माः शतरूपा च । ततः प्रवहः ।
ततः प्राणोऽथोऽनिरुद्धो रतिमनुगुरवो दक्षशच्यौ च पान्तु ।
त्रायन्तां नः सदैते प्रवह उत यम इत्युक्तेरिति केचित् ।
ब्रह्मवैवर्ते दित्या इन्द्रं प्रत्युक्तं च । तथा हि–
सप्तस्कन्धा इमे सप्त चरन्तु मम पुत्रकाः ।
मरुतश्च । पृथिव्यां प्रथमः स्कन्धो द्वितीयश्चापि भास्करे ।
सोमस्तृतीयो विज्ञेयश्चतुर्थो ज्योतिषां गणे ।
ऋक्षेभ्यश्च तथैवोर्ध्वं वायुमार्गश्च पञ्चमः ।
सप्तर्षिभ्यः परश्चोर्ध्वं वातस्कन्धः परस्तु सः ।
पृथिव्यां प्रथमः स्कन्ध आमेघेभ्यो य आवहः ।
द्वितीयश्चापि मेघेभ्य आसूर्यात्प्रवहस्तु सः ।
सूर्यादूर्ध्वं तथा सोमादुद्वहो यस्तु वै स्मृतः ।
सोमादूर्ध्वं तथर्क्षेभ्यश्चतुर्थः संवरस्तु सः ।
ऋक्षेभ्यश्च तथैवोर्ध्वमग्रतः प्रवहस्तु सः ।
ऊर्ध्वंगतस्तथर्षिभ्यः षष्ठश्चैव परावहः ।
सप्तर्षिभ्यस्तथैवोर्ध्वमाध्रुवात्सप्तसप्तमः ।
वातस्कन्धः परावहास्तत्र तिष्ठन्तु मे सुता
इति शंसिता आहवादयः सप्त वा ।
सप्तस्कन्धगतो लोकान्यो बिभर्ति महाबलः ॥
इत्यादेः सप्तकस्यैकैको मुख्य आहवादिर्ज्ञेयः । अत्रोभयत्रापि कप्रत्ययेन तत्प्राधान्यमा-वेशादिकृतं न स्वरूपकृतमिति कुत्सयामासेति विवृण्वते । तन्न । सनत्कुमारस्य मारत्वेन स्वरूपाधिक्यात् । स्वार्थे कः । सनत्कुमारो मारश्चेत्येक एव व्यवस्थितः । सनत्कुमारास्तु सदा पुरन्दरसमा मता इति बृहद्भाष्योक्तेः ।
अत्र व्याख्योपयोगि सनन्दनश्रैष्ठ्यं तत्र स्वरूपश्रैष्ठ्यमेवेति व्याख्यायान्यथा तारतम्या-प्रयोजकतापत्तेरिति वर्णयन्ति ॥
ततश्चायं श्लोकार्थः ॥ पुरा जनोलोके । स्वायम्भुवं स्वयम्भुपुत्रैः सनकादिभिः क्रियमाणं ब्रह्मसत्रं ब्रह्मविचाररूपमभूत् । स्वायम्भुवेति पाठे नारदसम्बोधनम् । मानसानां चतुराननमनसो जातानामूर्ध्वरेतसां मुनीनां तत्रत्यानाम् । अमेहक्वतसित्रेभ्य इत्यव्ययात्त्य-बित्यनुवृत्तस्त्यप् । सतां नारदं प्रत्युक्तिः ॥ ९ ॥
श्वेतद्वीपं गतवति त्वयि द्रष्टुं तमीश्वरम् ।
ब्रह्मवादः सुसंवृत्तः श्रुतयो यत्र शेरते ॥ १० ॥
पदरत्नावली
यत्र श्वेतद्वीपे ब्रह्मणि श्रुतयः शेरते अन्यबोधकत्वव्यापारमन्तरेण तद्गुण-बोधनपरा एव सन्ति । तं श्वेतद्वीपं त्वयि गतवति ब्रह्मवादः सम्प्रवृत्त इत्यन्वयः ॥१०॥
सत्यधर्मीया
त्वयि च ईश्वरं रमारमणं द्रष्टुं श्वेतद्वीपं गतवति च सति । यत्र हरौ श्रुतयः शेरते इतराप्रतिपादिकाः सत्यस्तत्प्रतिपादिका भवन्ति तद्ब्रह्मविषयो वादः सुसंवृत्तः
॥ १० ॥
तत्राप्ययमभूत् प्रश्नस्त्वं मां यदनुपृच्छसि ।
तुल्यश्रुततपःशीलास्तुल्यस्वीयारिमध्यमाः ॥ ११ ॥
अपि चक्रुः प्रवचनमेकं शुश्रूषवोऽपरे ॥ १२ ॥
पदरत्नावली
कथम् ? अत्राह– तत्रेति ॥ मुनयः कीदृशा इत्यत्राह– तुल्येति ॥ अरिः शत्रुः । एकं प्रवचनं प्रकृष्टं वचनं यस्य स तथा, प्रवक्ता व्याख्यातेत्यर्थः, तम् (चकु्रः) । अपरे शुश्रूषवः श्रोतारः । योऽत्र प्रवक्ता स श्रेष्ठ इत्यत्र तात्पर्यं ज्ञातव्यम् । ‘सनकाद्याः समाः सर्वे तत्र श्रेष्ठः कुमारकः’ इति वचनात् ॥ ११,१२ ॥
सत्यधर्मीया
प्रश्नोत्तररूपेण प्रवृत्त इत्याह– तत्रापीति । तुल्यश्रुततपःशीला-स्तुल्यानि श्रुततपःशीलानि येषां ते । तुल्याः, स्वीयः स्वहितकारी तथाऽरिर्वन्धादिकर्ता मध्यम उदासीनश्चैषां ते तथा । अपि तथाऽपि । साम्येऽपीति यावत् । अपरे श्रुश्रूषवः श्रोतुमिच्छव एकं प्रवचनं प्रकृष्टं वचनं यस्य स तं चक्रुः । वक्ताऽयं श्रोतारो वयमिति सङ्कल्पयामासुरिति यावत् । तदा तदसन्निधानात्त्वया न श्रुतमिति त्वां प्रति पुनर्वक्ष्यामि तं ब्रह्मवादमित्याशयः । सनत्कुमारः श्रेष्ठोऽपि कौतूहलेन श्रोता । भगवत्पादाश्च तत्सन-त्कुमारस्वरूपमात्रं निरूपयन्तस्तुल्यश्रुततपःशीला इत्यत्र न मेलनीयः स इत्येवावेदननिर्भरा इति मन्तव्यम् ॥ ११,१२ ॥
सनन्दन उवाच—
स्वसृष्टमिदमापीय शयानं सहशक्तिभिः ।
तदन्ते बोधयाञ्चक्रुस्तल्लिङ्गैः श्रुतयः परम् ॥ १३ ॥
तात्पर्यम्
श्रीर्भूमिरितिरूपाभ्यां प्रकृतिर्विष्णुना सह । शेते श्रुतिस्वरूपेण स्तौति ब्रह्मलये हरिम् ॥ एकाऽप्यनन्तरूपा सा वाक्यभेदात्सरस्वती । अनादिनिधना नित्या स्तौति नारायणं प्रभुम् ॥ इति ज्योतिःसंहितायाम् ॥ १३ ॥
पदरत्नावली
स एकः कथं प्रावोचदत्राह स्वसृष्टमिति ॥ ब्रह्मलये स्वसृष्टमिदं जगदापीय संहृत्य शक्तिभिः श्रीभूदुर्गाख्याभिर्विभक्तप्रकृतिमूर्तिभिः सह शयानं योगनिद्रां कुर्वाणं परं परमात्मानं तदन्ते ब्रह्मप्रलयावसाने श्रुतयस्तल्लिङ्गैः संसारनिर्मूलनादिब्रह्मलक्षणै-र्बोधयांचक्रुरित्यन्वयः । अत्रेदं तात्पर्यं मूलप्रकृतिः श्रीभूरूपाभ्यां विष्णुना सह शेते । श्रुतिनाम्ना दुर्गारूपेण विष्णुं स्तौति । जय जयेति पुंशक्तिविषयबोधनवचनं दुर्गाख्याया अपि तादृक्शक्तिमत्वात्तदर्थत्वेन भगवदाज्ञया गृहीतविग्रहत्वाच्च श्रुतीनामनन्तत्वेनाधिगन्तुमशक्य-त्वाद् दुर्गानाम्नोऽपि तथात्वाच्च । काली भद्रेत्यादिबहुरूपत्वप्रतीतेश्च श्रुतेश्चानन्तत्वेन वाक्ये भेदाच्छ्रुतय इति बहुवचनं च युज्यते । तदुक्तं श्रीर्भूमिरिति रूपाभ्यां प्रकृतिर्विष्णुना एव वर्तते । विप्रादावपि ब्रह्मशब्दस्य वृत्तियोगेऽपि चतुर्मुख एव । रुद्रशब्दस्य रौद्रगुणयोगेनातपे वृत्तावांपशंकर एव । आदित्यशब्दस्यादिति पुत्र सामान्यवाचित्वसंभवेऽपि सूर्य एवेत्याद्यूह्यं यथैव पङ्कजं ब्रह्मारुद्र इत्यादिकं पदमिति वचनात् । उमादीनामपि प्रकृतिशब्दवाच्यत्वेन प्रसिद्धेः । कथम् उच्यते । अपरप्रकृतित्वं तासां लक्ष्म्या एव परमप्रकृतित्वं तदुक्तं ‘श्रीः परा प्रकृतिः प्रोक्ता ब्रह्माणी त्ववरा ततः । उमा शचीमुखास्तस्या अवराः संप्रकीर्तिता ॥’ इति
॥ १३ ॥
सत्यधर्मीया
स्वसृष्टमिदमापीयेति श्लोके लोकेशस्य तच्छक्तेश्च सह शब्देन भेदः प्रतीयते । लोके तथाऽवलोकनात् । न च सोऽस्त्वङ्गीकारार्हः । नेह नानाऽस्ति किञ्चन । एवं धर्मान्पृथक् पश्यंस्तानेवानुविधावतीत्यादिविरोधादित्यतो मानेन तदर्थमाह– श्रीर्भूमि-रितीति । नात्र शक्तिशब्दः सामर्थ्यं वक्ति किन्तु ‘शक्यत्वाच्छक्तयो भार्या’ इत्यादे रमा-रूपैरित्यर्थः । प्रकृतिरंशिनी श्रीभूमिरूपाभ्यामिति रूपत्रयवती । बहुवचनोपपत्तिरनेन प्रदर्शिता । विष्णुना सह शेते । तथा ब्रह्मप्रलये हरिं श्रुतिस्वरूपेण स्तौति तदन्त-र्निहितरूपेण । ननु नान्तवन्तो वेदाः । कथमेका तदभिमानिनीति चेन्न । साऽप्यनन्त-रूपिणीति सम्भवतीत्याह– एकाऽपीति । एकाऽपि राशीभूताऽनन्तरूपा । वाक्यभेदाद् वाक्यप्रकरणस्थानादिभेदात् । सरस्वती श्रुतिः । अनादिनिधना आदिनिधनरहिताऽत एव नित्या वाक् । स्वयम्भुवा स्वतन्त्रेण विष्णुना । उत्सृष्टोच्चारिता । तर्हि ऋग्वेद एवाग्ने-रजायतेत्याद्युत्पत्तिवचनानां गतिः केति ‘तदुत्पत्तिवचश्चैव भवेव्द्यक्तिमपेक्ष्य तु’ । उत्पत्ति-वचनान्यभिव्यक्त्यर्थानि । अभिमानिदेवतावचनान्यभिव्यक्त्यर्थानि । अभिमानिदेवतावचनानि च नित्येत्युक्त्वोत्सृष्टेति वचनादभिव्यञ्जके कर्तृत्ववचने चास्ति । ‘कृत्स्नं शतपथं चक्र इतिवत्’ इति तत्त्वनिर्णयगीताभाष्यादिना परिहरणीयम् । नित्यत्वं चिरस्थिरतया न गौणार्थमित्यनादिनिधनेत्युक्तमिति विवृण्वते । श्लोकसङ्गतार्थः श्लोको वर्तते । प्राचीनपद्या-न्युदाहृत्य तन्मात्रोदाहरणं न समञ्जसम् । किञ्च सोऽप्येतत्संसार इति सारांशशंसानार्थं प्रागुदाजह्रुरिति ज्ञेयम् । नारायणं प्रभुं स्तौतीति ज्योतिःसंहितोक्तेः श्रुतयः शक्तिरिति युक्तम् ॥
ततश्चायं श्लोकार्थः ॥ स्वसृष्टमिदं जगदापीय पीत्वा संहृत्येति यावत् । शक्तिभि-र्भार्याभिः श्रीभूदुर्गाभिः सह शयानं तथा प्रदर्शयन्तम् । परं परमात्मानम् । तदन्ते ब्रह्मप्रलया-वसाने । श्रुतयस्तदभिमानिन्यः । इतरस्याभावात् । तल्लिङ्गैरसाधारणतच्चिह्नैर्बोधयाञ्चक्रुः
॥ १३ ॥
यथा शयानं सम्राजं बन्दिनस्तत्पराक्रमैः ।
प्रत्यूषेऽभ्येत्य सुश्लोकैर्बोधयन्त्यनुजीविनः ॥ १४ ॥
पदरत्नावली
नित्यबुद्धस्य हरेः कादाचित्कबोधनं विडम्बनमात्रं न तु सत्यमिति हृदि कृत्वा लौकिकमतमनुसरति– यथेति ॥ अनुजीविन इत्यनेन वेदान्तानां तदेकनिष्ठत्वं सूच्यते । ‘राजवज्जयशब्दाद्या नित्यबुद्धस्य बोधनम् । विडम्बमात्रं क्वैवास्य निद्रा विद्यापतेर्हरेः’ ॥ इति च ॥ १४ ॥
सत्यधर्मीया
तत्र निदर्शनं दर्शयति– यथेति । शयानं सम्राजं राजानं, तत्पराक्रमैः सुश्लोकैः कीर्तिसहितैः । प्रत्यूषे प्रातरभ्युपेत्योपगम्य । बन्दिनोऽनुजीविन उपजीवका बोधयन्ति तथेति ॥
श्रुतय ऊचुः—
जयजय जह्यजामजित दोषगृहीतगुणां त्वमसि यदात्मना समवरुद्धसमस्तभगः ।
**अज जगदोकसामखिलशक्त्यबोधक ते क्वचिदजयाऽऽत्मनाऽनुचरतोऽनुचरेन्निगमः **
॥ १५ ॥
तात्पर्यम्
सर्वदा जयतो विष्णोर् जयस्तस्य प्रकाशनम् । श्रवणं दृष्टिरित्यादि प्रार्थ्यं तज्ज्ञापनं स्मृतम् ॥ श्रुणोति पश्यति ह्येषः जयतीत्यादिकं स्वतः ॥ जय पश्य श्रुणष्वेति तत्तज्ज्ञापनमेव, तु ॥ इति विमलसंहितायाम् ॥ १५ ॥
पदरत्नावली
श्रुतयोऽपि लक्ष्मीविभूतयः । पुराणस्य स्त्रीशूद्रादिश्रुतिगोचरत्वेन श्रुत्यर्थ एव गृह्यते न तु शब्द इत्यभिप्रेत्य कथितम्– श्रुतय ऊचुरिति ॥ जयजयेति ॥
नित्यविजयाधिकरणस्य हरेर्लोटि एष्यत्कालविजयो नाशास्यते किन्तु विजयप्रकाशनम् । भक्तानुकम्पित्वेन जयं प्रकाशयेत्यर्थः । ‘सर्वदा जयतो विष्णोर्जयस्तस्य प्रकाशनम्’ इत्यादि । अत्र राजवद् दिशां जयो न प्रार्थ्यते किन्तु दुस्तरप्रकृत्यादेरित्याशयवानाह– जहीति ॥ हे अजित । दोषैर्जन्मदुःखाज्ञानादिभिरानन्दज्ञानादयो जीवगुणा गृहीता संवृता यया सा दोषगृहीतगुणा तामजाम् । अज गतिक्षेपणयोरिति धातोर्जीवगुणाक्षेपिकां जहि हन । तथा परमाच्छादिकां जहि गमय, अपसारयेति यावत् । एते अपि प्रकृतिशब्दवाच्ये । ‘अथान्ये प्रकृती दुष्टे नृषु प्रातिस्वकं स्थिते’ इत्यादेः । एतेन जयजयेत्यारभ्य संवृताऽधिसंवृतेत्यन्ता श्रुतिर्गृहीता । अरतिं तन्द्रीम् । प्रकृत्याच्छन्नत्वाविशेषाज्जीवात्मनोः को विशेष इति तत्राह– त्वमसीति ॥ त्वं यद् यस्मादात्मना स्वत एवासम्भिन्नोऽत एवावरुद्धो ऽनपगतः समस्तः पूर्णो भग ऐश्वर्यादिगुणो यस्य स तथा । अनपगतपूर्णैश्वर्यादिगुणोऽसीत्यर्थः । ‘भगो योन्यां भगोपस्थे यशोवीर्यार्कभूतिषु । कान्तीच्छाज्ञानवैराग्यधनैश्वर्यतपस्सु च’ इति यादवः । अतस्त्वत्प्रतिबिम्बभूतस्य जीवस्य प्रकृत्याच्छादितत्वात् त्वत्प्रासदमन्तरेणैश्वर्याद्या गुणा न प्रकाशन्ते । अनेन ह्येष आनन्द इत्यारभ्य स्वतोऽसि त्वमित्यन्ता गृहीता । इतोऽपि विशेषोऽस्तीत्याह– अजेति ॥ अज हे विष्णो जगदोकसां जगदाश्रयभूतानां श्रीब्रह्मादीनां सृष्ट्याद्यखिलशक्त्यवबोधकम् । रमाया इत्यारभ्यानन्तोऽसीत्यन्ताऽनेन सूचिता । इदानीं गुणवृत्तयः श्रुतयो निर्गुणे कथं चरन्तीत्यस्य परिहारमाह– क्वचिदिति ॥ निगमस्तत्वनिश्चायको वेदः क्वचित् सृष्टिकाले आत्मना जीवेन अजया प्रकृत्या चानुचरतः प्रवर्तमानस्य ते तवानुचरेच् चित्तानुवर्तित्वेन विधिनिषेधरूपेण वर्तते । हरेस्तदगोचरत्वाल्लये केवलं स्तुतिरूपेण । जीवानां निर्देहकत्वेन तत्प्रयोजनको नेति शेषः । ‘लयस्य त्वष्टमो भागो सृष्टिकाल उदाहृतः । तत्रैव वेदसञ्चारो ह्यन्यदा स्तुतिमात्रकाः ॥’ इति स्मृतिः । यस्माद् विधिनिषेधविषयो जीवस्तस्मात् सृष्टिं कृत्वा वेदैर्जीवान् बोधयित्वा तदुक्तमनुष्ठाय स्वज्ञानमुत्पाद्य त्वं प्रसन्नस् तत्स्थां पिशाचवद् वर्तमानामजां जहीति । अनेन सृष्टिकाल एव गुणमये जगति वर्तमानाः सदा निर्गुणे परमेश्वर एव वर्तन्त इति प्रश्नपरिहारो दर्शितः । यजेत न हन्तव्य इत्यादिविधिनिषेधानां स्तुतिपरत्वं युक्तम् । कथम् ? यत्प्राप्त्यर्थं यन्नियमाद् विधिनिषेधा वर्तन्ते स त्वमजां जहीति योजनोपपत्तेः । ‘विध्यादीनां नियन्ता च पूज्यः प्राप्यश्च तद्वताम् । इत्यादिस्तुतिरूपेण विध्यादिश्रुतयोऽपि तु । हरिं वदन्ति सर्वेषां तन्नामत्वादथापि च ॥’ इति स्मृतेः । अस्य सृजतो हि त इति प्रभृति मा ते क्षणोऽत्यगादितिपर्यन्तं मूलश्रुतिरियम् । हन हिंसायामिति धातुः । पृथक्श्रुतित्वान्न पूर्वापरसम्बन्धः । उपलक्षणत्वादनन्तत्वात् श्रुतीनां सर्वश्रुत्यर्थोपबंृहिंतत्वाच्च तेषां श्लोकानां न सर्वश्रुतीनां पृथगुक्तिः । ‘सर्वश्रुत्यर्थसम्पन्नान् श्लोकान् सत्यवतीसुतः । एकैकशाखाश्रुत्यर्थान् जगौ सर्वोपलक्षणान् । बबन्ध तान् भागवते प्रतिश्लोकं पृथक् श्रुतिः’ इत्याचार्यै-रेवोक्तत्वान्नास्माभिर्मिथः सम्बन्धार्थं प्रपञ्च्यते ॥ १५ ॥
सत्यधर्मीया
ननु निर्दोषाशेषकल्याणगुणो विष्णुः सदा जयीत्यादिमाने मानार्थस्य स्वाभाविको जयादिरभिधीयते । तं प्रति कथं जय जयेत्येष्यत्कालिकोत्कर्षवान्भवेति प्रार्थने-त्यतस्तात्पर्यं तथा परोक्षीकृतसर्वस्य सर्वेश्वरस्य पश्येत्यादेश्च तात्पर्यमाचार्यो मानेन वक्ति– सर्वदेति । जयत इति धातुसम्बन्धे प्रत्यया इत्यादेर्लट्क्रियाप्रबन्धे लटः शतृशानजा-वित्युक्तः । शत्रपि तदर्थः । न च वर्तमाने लडित्यप्युक्तेरनिश्चय इति वाच्यम् । सर्वदेत्यस्य निर्णायकस्य सत्त्वात् । यथोक्तमेतज्जातीयके प्रयोगे तत्त्वनिर्णये । सदेत्यनेन न मम नारायणवन्दनं प्रत्यूहविरहादिप्रयोजनोद्देशेनेति सूचयतीति । विस्तरस्तु तट्टिप्पणतो ज्ञेयः । जयिनो विष्णोरिति पाठस्तु विजयावहः । तस्य । जयो नाम स्वरूपभूतस्तस्य प्रकाशनं व्यक्तीकरणम् । तत्र जय जयेति प्रार्थनं युक्तमित्याह– श्रवणं दृष्टिरित्यादि प्रार्थ्यमिति । श्रुणु पश्येत्यादि प्रार्थ्यं तज्ज्ञापनं स्मृतं न त्वविद्यमानजयप्रदर्शनं प्रार्थ्यमित्यर्थः । श्रुणोती-त्यादिकं स्वतः, जय पश्येत्यादिकं तूक्तरीत्येति विवेकः । तत्तज्ज्ञापनमेव स्मृतमित्यन्वयः । ननु जय जय जह्यजामिति श्लोकमुदाहृत्य तत्रानुपपत्तिर्जय जयेत्यादौ प्राप्ता विमलसंहिता-वचनेन परिहरणीया । कुतः प्रागेव प्रमाणोदाहरणमिति चेत् । शिष्याणां तच्छ्रवणे जयाद्य-विद्यमानताप्रयुक्तं तदर्थनमिति भ्रमे जाते तत्परिहारयत्नो मार्गेण गच्छन्तं विलोक्य किञ्चि-त्तूष्णीं स्थित्वा तद्भाविबोधनप्रत्यावर्तयितृयत्नवत्स्यादिति । किञ्च स्वयं लोटा प्रतीततद-विद्यमानतामसहमान आदावेव मानमुदारमतिक उदजहारेति ज्ञेयम् । वस्तुतस्तु मध्ये मानं पूर्वम् ॥
तात्पर्यम्
श्रीर्भूर्दुर्गेति या भिन्ना प्रकृतिः शक्तिरुच्यते । विष्णोः स्वरूपशक्तेः सा शक्यत्वाच्छक्तिरुच्यते । नित्याव्यवहितत्वात् तु विशेषाच्छक्तिनामिका । यथैव पङ्कजं ब्रह्म रुद्र इत्यादिकं पदम् । ताभिः शयानं पुरुषं सैव तु श्रुतिरूपिणी । अस्तौत् प्रकाश-यात्मानं प्रकृतिं जीवबन्धनम् । जहि दोषैर्यया सर्वे गुणा जीवस्य संवृताः ॥ इति तन्त्रभागवते ॥
सत्यधर्मीया
श्रीर्भूर्दुर्गेति सरलः पाठः । यैवं भिन्ना विशेषतो व्यवहारभागिनी प्रकृतिः शक्तिरित्युच्यते । तच्छब्दप्रवृत्तिनिमित्तमाह– विष्णोरिति । विष्णोः स्वरूपशक्तेः सा शक्यत्वात्तद्विषयत्वाच्छक्तिरित्युच्यते । ननु भगवच्छक्तिशक्यत्वं साधारणं कथं श्री-भूदुर्गादिगमकमिति चेदत्राह– नित्येति । नित्यमव्यवहितत्वाद्वक्षोऽङ्काद्याश्रिततयाऽव्यवधान-सत्त्वरूपत्वाद्विशेषाच्छक्यत्वाच्छक्तिनामिका प्रकृतिः । एतेन नित्याव्यवहितत्वे सति शक्यत्वं शक्तिशब्दप्रवृत्तिनिमित्तमित्यतिप्रसक्तिर्वारिता ज्ञेया । क्वातिप्रसक्त्यतिक्रम इत्यतो निदर्शनानि दर्शयति– यथेति । पङ्कजशब्दः शैवलादौ, ब्रह्मशब्दो ब्राह्मणादौ, रुद्रशब्दश्च कस्मिंश्चि-त्क्रूरादौ प्रसक्तोऽपि सूर्यविकासि चतुरास्यस्त्रिनेत्र इत्यादिविशेषणाद्यथा विवक्षितविशेष-पर्यवसायिनस्तथाऽत्रापि नित्याव्यवहितत्वेन शक्यत्वस्य विशेषे पर्यवसानमिति नाति-प्रसक्तिरिति भावः । शक्तिशब्दार्थनिश्चयोत्तरं ताश्च पुरुषेण सह शयाना इतरा स्तोत्रकर्त्रीति पराकरोति । यद्वा नित्याव्यहितत्वादिति यौगिकतापक्षमाश्रित्येतरव्यावृत्त्यर्थमिति व्यादर्श्य रूढिमाश्रित्य समाधत्ते– तुर्विशेषादिति । तुः पक्षान्तरद्योतकः । विशेषो हि रूढि-रूपवृत्तिविशेषपरस्तस्मादपि शक्तिनामिका । तत्र योगरूढानेव शब्दान्निदर्शयति– यथै-वेति । अनेन दृष्टान्ते नित्याव्यवहितत्वं नास्तीति दार्ष्टान्तिकवैषम्यं तथा विशेषपदस्यार्थ-विशेषालाभश्चेति परास्तम् । केऽपि दृष्टान्तेऽपि नित्याव्यवहितत्वमानेतुं प्रयासप्रकाशका एवेति बिन्दुभिर्विभावनीयाः । ताभिः शक्तिभिः सह शयानं पुरुषं हरिम् । सैव श्रीरेव श्रुति-रूपिणी । श्रुतयश्च ता रूपाण्याकारा देहा इति यावत् । अस्याः सन्तीति सा । आत्मान-मुपसृतप्रकृत्यपसरणसंहरणाभ्यां सञ्ज्ञानविषयं कुर्वित्यस्तौत्तुष्टाव । यया स्वगुणाच्छादिकया कर्त्र्या दोषैः करणैर्जीवस्य सर्वे गुणाः संवृतास्तां जीवबन्धनां तद्रूपिणीं प्रकृतिं जहि ॥
तात्पर्यम्
श्रीः परा प्रकृतिः प्रोक्ता ब्रह्माणी त्ववरा ततः ।
उमाशचीमुखास्तस्या अवराः सम्प्रकीर्तिताः ॥
सत्यधर्मीया
प्रकृतिशब्दवाच्यान्क्रमेणाह– श्रीरिति । ब्रह्माणी ब्रह्मभार्या सरस्वती । अनुगित्यनेन क्रमपठितसर्वसिद्धौ यदिन्द्रसूत्र आनुगागमं व्यधत्त तेनैवमादिरूपमन्वजिज्ञपदिति मन्तव्यम् । ब्रह्माणमानयतीत्यादिव्युत्पत्त्यन्तरप्रदर्शनेन प्रकारान्तरेणापि रूपं मन्तव्यम् । ततः श्रियोऽवरा तस्या ब्रह्माण्याः स्वत एव रमावरत्वं बुद्धं भवतीति तस्या इत्येक-वचनेनैकस्या ग्रहणमुपपन्नम् । उमा शचीति निर्देशक्रमेणोमायाः सकाशादवरत्वं शच्याः सूच्यत एव । आदिपदेन शच्यवराणां ग्रहणम् ॥
तात्पर्यम्
अथान्ये प्रकृती दुष्टे नृषु प्रातिस्विकं स्थिते ।
स्वगुणाच्छादिका त्वेका परमाच्छादिका परा ।
स्वगुणाच्छादिकां हत्वा परमाच्छादिकां परः ।
व्याघुट्य मोक्षपदवीं ददाति पुरुषोत्तमः ॥
अजे द्वे अपि ते प्रोक्ते अनन्ताच्छादिनी हरेः ।
न विष्णुं छादयत्येषा तज्ज्ञानं छादयेत्परम् ।
जीवस्यैव न तत्रापि ब्रह्मादेरस्ति सा क्वचित् ॥
सर्वावरे ते प्रकृती सततं दुःखितेऽपि च ।
पिशाचवत्समुद्दिष्टे पुरुषस्याधिकारिणः ।
प्रेरकास्तु तयोर्देव्य इन्दिराद्याः सुखात्मिकाः ॥ इति महातत्वविवेके ॥
सत्यधर्मीया
अथ सत्प्रकृतिप्रकृतिनिरूपणानन्तरं दुष्टे निरूप्येते इति योजना । कार्त्स्न्येन निरूप्येते इति वा योजना । प्रकृती द्वे दुष्टे तमोयोग्यजीवत्वात् । नृषु प्रातिस्विकम् । एकैकस्मिन्न रीत्यविशेषेणास्थिते ॥
बहुशोऽधीतसमयबहुशोधितधीमताम् ।
पक्षतापक्षताः सन्ति धीचलाचलताप्रदाः ॥ १ ॥
अथाऽपि च पथा श्रीमत्तात्पर्यादिवचोयुजा ।
तत्तद्भाष्यसुधापूर्वटीकागीरनुकारिणा ॥ २ ॥
प्रदर्श्यते मया कश्चिद्विपश्चित्तुष्टिपुष्टिदः ।
पक्षो दक्षो न दक्षो वा बिन्दवः शोधयन्त्वमुम् ॥ ३ ॥
तत्कृत्येन सहिते आह– स्वगुणेति । स्वो जीवजातं, तद्गुणानां ज्ञानादीनामाच्छादिका । यथा न तदुद्भवोऽस्य स्यात्तथाऽऽच्छादयतीति । यथा न ज्ञानविषयाः स्युस्तथाऽऽच्छादि-काऽपरा चेति द्वे अन्ये । प्रातिस्विकमित्युक्त्या चैकस्य तन्निवृत्तौ सर्वमुक्तिप्रसङ्ग इति परास्तम् । तद्विषये हरिकरणीयमीरयति । स्वगुणाच्छादिकां व्याघुट्य परिवर्तयित्वाऽप-सार्येति यावत् । मोक्षपदवीं ददाति । पुरुषोत्तम इत्येतदतीतत्वहेतुः । इत्यजे अनादिभूते प्रोक्ते इति मानमपि स्वोक्तेऽर्थे मानसंवादं कटाक्षयति । परमाच्छादिकेत्यभिहितं स्वयं व्याकरोति– अनन्ताच्छादिनीति । अनन्तस्येत्यर्थो हरेरिति । फलितमभिलपति– न विष्णुमेषाऽऽच्छादयतीति । तर्हि कथं परमाच्छादिकेति व्यवहृतिरित्यत आह– तज्ज्ञानं छादयेदिति । परं परमात्मानं, तज्ज्ञानं जीवजातसंविदं प्रत्याच्छादयेत् । यथा न विषयः स्यात्तथाऽऽच्छादिनीति भावः । इति जीवस्यैवेति चोपसंहारः । यद्वा परमत्यन्तं जीवस्य तज्ज्ञानं विष्णुज्ञानं छादयेदेवेत्यन्वयः । जीवस्येत्युक्तौ सा ब्रह्मादीनामपि हरिज्ञानं छादय-तीत्यायातं तदपवदति । न तत्रापि जीवजातान्तः । सा दुष्टप्रकृतिः । ते इति वक्तव्ये सेत्युक्तिश्छादनरूपकार्यैक्यविवक्षयेति ज्ञेयम् । ब्रह्मादेराधिकारिकामरसङ्घस्य । आधिकारिक-पुंसां तु बृहत्कर्मत्वकारणादिति वचनात् । नास्ति बन्धकतया क्वचिदपि न वर्तते । कुत इत इत्याह– ब्रह्मादेश्चित् क्वेति । महामतय इति तच्छादनविषयो न तच्चिदिति भावः ॥
अत्र केचित् । लिङ्गसङ्गो यावद्येषां च तावत्तेषां च इमे । अपि संलग्ने एव किन्तु दग्धपटायमानत्वेन, न ब्रह्मादेरस्ति सा क्वचिदित्युक्तिरिति लब्धवर्णा वर्णयन्ति । तर्हि नृष्विति विशेषोक्तिः कुत इति शर्मणा नृपत्नीरित्यादिभाष्यटीकाद्यनुसारेण विशिष्टमानवत्त्वा-देतेषां ग्रहणं नृपदेन सम्भवतीति च पर्यहार्षुश्च । केचित्त्वातितामस्यकाननाकिनां द्वितीयाऽपसरणमात्रविषयिणी लिङ्गवदवर्जनीयेति जगदुर्जगदुत्सवकृतः । अपरे तूभयोरपि व्याघुट्टनं हननं चेति मन्वते । विशेषप्रमाणाभावादिति युक्त्युपन्यसनं तन्वते । अन्ये तु मन्यन्ते मध्यमाधिकारिणां तथा तात्त्विकेतरसुराणां गन्धर्वादीनामिमे बन्धिके । न तु ब्रह्मा-देरस्ति सा क्वचिदित्यत्रोक्तेः । यानिमे आवृण्वाते तत्रैकस्या हननमेकस्या व्याघुट्टनापर-पर्यायापसरणमेव । यथोक्तं सुधायाम् । नन्वविद्या चेन्निवर्तते तर्ह्येकमुक्तौ सर्वमुक्तिः स्यात् । न स्यात् । प्रतिपुरुषमविद्याभेदाङ्गीकारात् । अत्र विशेषः स्वगुणाच्छादिका त्वेकेत्याद्यागमा-दवगन्तव्य इति विशेषपदार्थो विवृतो वाक्यार्थचन्द्रिकायाम् ।
स्वमते विशेषमाह– अत्रेति । एवञ्च प्रतिजीवमप्यनादी द्वे प्रकृती । तयोर्मध्ये स्वगुणा-च्छादिकाया अनादिभूताया अपि स्वरूपप्रध्वंसः । परमाच्छादिकायास्त्वनन्तत्वाद्व्याघुट्टन-मात्रमिति विशेष इति । एवमेव यादुपत्ये च । प्रतिजीवं द्वे अपि दुर्देवते अनन्तरूपिण्यौ च । उक्तं च ऋग्भाष्यतट्टीकयोः प्रातिस्विकी प्रकृतिर्यत्तमश्च । न केवलं सर्वानुस्यूता चेति । द्वयोरेका तमोयोग्या चैका नित्यसंसारिणीति पक्षे एकस्याः प्रध्वंसोऽन्यस्या व्याघुट्टनमिति निष्टङ्कयन्ती शिर आन्दोलयति सुधेत्यनुसन्धेयम् । उदास्ते सुधेति परामपि परे सर्वावरे ते सततं दुःखिते इति तमोयोग्यलक्षणाभिधानात्तामसीमाचक्षते । न नः काचित्क्षतिरिति पक्षद्वन्द्वमप्रतिद्वन्द्वम् । आद्याया हननं तथा च दैत्यहतिस्तमसि स्थिरेतीरितं ज्ञेयम् । यद्वक्ष्यति दुर्भगां प्रकृतिं त्यक्त्वा हत्वा चान्यां दुरत्ययामिति । स्वावसरेऽर्थं विवरिष्यामः ॥
अत्र द्वयोरयोग्यत्वेऽपि जीवोत्तममुक्तिसमये सद्य आद्यायास्तमःप्राप्तिरेव हननम् । तमः-साधनसम्पूर्तिस्तु जडाविद्याभिमानप्राप्तितः पूर्वमेव सिद्धेति न दोषः । परमाच्छादिकायास्तु मुच्यमानमानवतोऽपसरणमुपसरणं च तमः प्रति कालान्तरमिति व्याघुट्टनोक्तिरिति नाय-व्ययाधायकमित्योमर्हम् । यर्हि देवानां नैते तर्हि किं संसृतिहेतुरिति त्वभिमानादेव संसारोऽ-न्यथा नेति पञ्चमतात्पर्ये । अतो मनोभिमानेन दुःखी जीवो न चान्यथेति चैकादशे । भ्रान्त्या जीवस्य संसारः । भ्रान्तिर्हि देहाभिमतिरिति तृतीये । दोषा अनादिसम्बद्धास्ते मुक्तिपरिपन्थिन इत्यनुभाष्ये । दोषास्तदुत्पत्तिं प्रतिबध्नन्तो मोक्षपरिपन्थिन इति सुधायाम् । तथा स्थानान्तरे । कर्मादेरीश्वरेच्छा प्राथमिकीत्युपक्रम्य द्वितीया प्रकृतिः प्रोक्ता तद्रूपा हि गुणास्त्रयः । तेषां सम्पातजो भावो ममाहमिति या मतिरिति द्वितीयतात्पर्ये । जीवस्य सदसद्योनिजन्मसु । कारणं गुणसङ्गोऽस्येति गीतातात्पर्योक्तज्ञेयाश्चेत्युक्तेः परिहरणीयम् । जीवेति सामान्योक्तिस्तूक्तगतिकेति न पुनः पराक्रान्तमिति दिक् । आग्नेये च–
स्वातन्त्र्यात्प्रकृतित्यागकर्ता नारायणः परः ।
यद्यप्येषा जीवसख्या हन्ता च भगवान्प्रभुः ।
स्वरूपाच्छादिका यस्मात्तमोगा सा प्रकीर्तिता ।
तस्याश्च हननं युक्तमयुक्तत्वाच्च भो द्विजाः ।
परमाच्छादिकां दुष्टां व्याघुट्य च महाविभो ।
मोक्षं देहि महादेव त्वद्भक्तानां महाप्रभो ।
परमाच्छादिका यस्मान्नित्यसंसारिणी मता ।
अत एव च नित्यत्वात्तस्या अपसरणं कुरु ।
कुरु देव महाभाग इति विज्ञापनं ममेत्युक्तेः कथं विशेषप्रमाणादर्शनं केचिदूचिर इति न जानीमः । सर्वावरे प्रकृतिपदमुख्यवाच्येभ्यः सर्वेभ्योऽवरे नीचे सततं दुःखितेऽपि चेत्यत्र प्रकृतिभावाभावेन चिज्जडप्रकृतिभावः कश्चनाप्येतयोर्नास्तीति द्योत्यते ॥
नन्वेकैकत्र द्वयोरवस्थानं कथमित्यत आह– पिशाचवदिति । पिशाचाविवेति प्रथमान्ताद्वतिः । तेन तुल्यं क्रिया चेद्वतिरिति योगविभागाद्वतिरार्षो वा । यथैकस्मिन् कायेऽपि पिशाचनिकायावस्थानं तथा तयोरपीति भावः । अधिकारिणः स्वसौभाग्ययोग्यस्य पुरुषस्य न स्त्रिय इति भ्रमः स्यादिति पुरुषपदं स्वयं व्याचर्करीति– अधिकारिण इति । तयोर्दुरजयोरिन्दिराद्याः सुखात्मिकाः प्रेरकाः । क्षिपकादिरिति नेत्वम् । तुस्तु तरतमभावं प्रेरणायां सूचयति ।
तात्पर्यम्
राजवज्जयशब्दाद्या नित्यबुद्धस्य बोधनम् । विडम्बमात्रं क्वैवास्य निद्रा विद्यापतेर्हरेः ॥ इति कापिलेये ॥
सत्यधर्मीया
स्वसृष्टमिदमापीयेति श्लोके निद्रितो हरिस्तदन्ते श्रुतयो बोधयाञ्चकु-रिति निद्रा हरेस्तथा प्रागबोधस्य बोधनं च प्रतीयेते । ते च सर्वविदः न सम्भाविते इत्यतः प्रमाणेनैव तत्तात्पर्यमाह– राजवदिति । राजा इव राजवत् । जयेत्यनुकरणशब्दः । जयेति शब्द आद्यो येषां ते तथा । नित्यं बुद्धो नित्यबुद्धस्तस्य सर्वज्ञस्याज्ञस्येव बोधनं च विडम्बमात्रं लोकानुकारमात्रम् । न निद्रा नैव च स्वप्नं तुर्ये पश्यन्तीत्यादिमाण्डूकोप-निषदुक्तेः । विद्यापतेर्हरेः क्वैव निद्रा सदा जयिनो नूतनो जयश्चेत्यपि पूरणीयम् । अस्य-निद्रेति पदमेकं वा । इतरैरपि या निरस्या सा क्व न क्वापीत्यर्थः ॥
तात्पर्यम्
दोषैर्दुःखाद्यैर्जीवगुणा आनन्दाद्या आवृता यया सा दोषगृहीतगुणा ॥ त्वमसि यदात्मना समवरुद्धसमस्तभगः । यस्मात्त्वं सत्व एवानपगत पूर्णैश्वर्यादि-गुणोऽसि । अतस्त्वदाभासस्य जीवस्य प्रकृतिगृहीतत्वादेव नैश्वर्याद्या गुणा अव-भासन्ते ॥ जगदोकसां श्रीब्रह्मादिनामप्यखिलशक्त्यवबोधक । क्वचित्सृष्टिकाले आत्मना जीवेन प्रकृत्या च प्रवर्ततस्ते अनुचरेद्वेदो विधिनिषेधरूपेण । अन्यदा स्तुतिमात्रो न तु जीवानां प्रयोजकः ॥ तस्मात्सृष्टिं कृत्वा वेदैर्जीवान् बोधयित्वा तत्स्थामजां जहि ॥
सत्यधर्मीया
श्रीमदाचार्याः श्लोकं स्वयं व्याकृत्य यदनुसृतिरियं तां श्रुतिं चोद-हरिष्यतो मानाननतो दीनदयापरवन्तो भ्रमभ्रंशं जनितुं विहरन्ति– जय जयेति । दोषै-र्गृहीता गुणा यस्यास्तामिति मतिं हापयितुमाह– दोषैरिति । आनन्दाद्याः स्वरूपभूता जीवानामुक्तरूपाणां गृहीताः । यथा न प्रादुष्युस्तथाकरणं ग्रहणमिह विवक्षितम् । त्वमसी-त्याद्यनूद्य व्याख्याति– यस्मादिति । यद्यस्मादात्मना स्वत एव समवरुद्धो न कदाऽन्य-त्रैवमनवधितया यापितः समस्तो भग ऐश्वर्यस्येत्याद्यभिहित ऐश्वर्यादिर्यस्य सः । त्वदाभास इति श्रुतिभागशंसितं जीवगुणवत्त्वहेतुं सूचयन्नाह– अतस्त्वदाभासस्येति । गुणाभावे गुणपूर्णप्रतिबिम्बता न स्यात् । न च तर्हि गुणपूर्णताऽप्रसङ्ग इति वाच्यम् । नायमस्ति नियमो बिम्बसर्वसाम्यं प्रतिबिम्बस्येति । शरावशरादिप्रतिफलितचन्द्रादेस्तथात्वादृष्टेः । पराक्रान्तं चात्र सूत्रकृता । स्थानविशेषात्प्रकाशादिवदित्यादिना । तथाऽऽचार्यैरपि–
ब्रह्मादिगुणवैशेष्यादानन्दादिः परस्य च ।
प्रतिबिम्बत्वमायाति मध्योच्चादिविभेदत इत्यादिना ॥ इति ।
त्वदाभासस्य त्वदादिप्रतिबिम्बस्य । आभासकाभासपरावभासेत्यादेः । प्रकृतिभ्यां गृहीतत्वात् । ऐश्वार्याद्या यथायोग्यं सन्तो नावभासन्त इत्यन्वयः । जगदोकसामित्यनूद्य व्याचष्टे– श्रीब्रह्मादीनामिति । जगतां स्वावराणाम् । श्रीब्रह्मादिष्वपि तरतमतयौकस्त्वं ज्ञेयम् । ओकांसीवौकांसि । आश्रया इति यावत् । तेषाम् ।
नन्वखिलशक्त्यवबोधकेत्यत्र न समासान्तरम् । अनुशासनादर्शनात् षष्ठीसमास एवेति वक्तव्यम् । न स सम्भवति । बुधेः कर्तरि लिट् युवोरनाकावित्यके तृजकाभ्यां कर्तरीति कर्त्रर्थतृजकाभ्यां षष्ठी नैव समस्यते । अपां स्रष्टा सतामर्चक इत्याद्युदाहरणेन तत्प्रति-षेधावगतेरिति चेत् । याजकादिगणगणितताभिप्रायेण तदभिप्रेतसिद्धेः । न याजकादौ प्रयोजनार्होऽयम् । वृत्ताववृत्तेः । आकृतिगणता नेति तत एव सिद्धेरिति चेन्न । सूत्र-महाभाष्ययोर्जनिकर्तुः प्रकृतिः । तत्प्रयोजको हेतुश्चेत्यादिनिर्देशेन तृजकाभ्यामिति निषेधस्या-नित्यत्वज्ञापनात्समास इति कैयटेन विवृतत्वादेतदेवाकृतिगणताज्ञापकमिति सम्भवात् ।
यद्वा तृजकाभ्यामिति तु कर्मणि षष्ठीप्रतिषेधपरं न तु शेषषष्ठ्या इति तत्समासोपपत्तेः । यथाऽऽह कैयटः । ब्राह्मणकारकमिति भाष्ये शेषषष्ठ्याः समास इति । केवलं विष्णु-बोधकमिति गीताभाष्यप्रमेयदीपिकायाम् । याजकादेराकृतिगणत्वाद्विष्णुबोधकमिति समास इति । उभयपक्षेऽपि न सरला सरणिरिति किञ्चित् क्लिश्यं चेत् श्रुणु । शक्तीनां बोधो येन स तत्सन्बुद्धिः । बहुव्रीहौ च क इति । व्यधिकरणबहुव्रीहिरिति चक्रपाणिवीक्षया क्षमणीयम् । यदा शक्तीर्बोधयतीति कर्मण्यणि पुगन्तगुणे शक्तिबोध इति जाते स्वार्थे के शक्तिबोधक इति वाऽवेहि । अयमपि पक्ष उपलक्षणया ग्राह्य इत्यस्मदभिप्राय इति सूचयितुं पक्षान्तरमुक्तवद्भिरपि टीकाकारैस्तत्र साक्षादेतदग्रह इति मन्तव्यम् ।
क्वचिदित्युक्तं कालं विशिष्याह– सृष्टिकाल इति । आत्मनेत्यप्राचीनोऽर्थ एवेति भ्रमः स्यादिति सम्भवदर्थमाह– आत्मनेत्यनूद्य जीवेनेति । अजयेत्यर्थापयति– प्रकृत्येति । सह ताभ्याम् । अनुचरत इत्यस्यार्थमाह– प्रवर्ततः प्रवर्तमानस्येति । निगमो विधिनिषेधात्मा वा वेदोऽनुचरेत् । नैवासृजत इत्यादिशंसितार्थमाह– अन्यदेत्यादिना । प्रलयलवे जीवानां नानुनियोजकस्तत्कार्याभावात् । स्तुतिमात्रः केवलं भगवत्स्तुतिमात्रपर इति स्तुतिमात्रो वेदः । बोध्यस्याभावादिति भावः । उपसंहरति– तस्मादिति । सृष्टिं कृत्वा सृष्टाञ्जीवान्बोधयित्वा । तत्स्थां तेषु जीवेषु तिष्ठतीति सा तामजां द्विविधां प्रकृतिं जहि मारयापसारय च । जहीत्यन्तर्णीतणिजर्थः । हन हिंसागत्योरिति स्मरणात् । कृत्वा विवाहं तु कुुरुप्रवीरा इत्यादिवदिति तात्पर्यान्तरोक्तेः ॥
तात्पर्यम्
लयस्य त्वष्टमो भाग सृष्टिकाल उदाहृतः । तत्रैव वेदसंचारो ह्यन्यदा स्तुतिमात्रकाः । इति नारदीये ॥ सृष्टिकाल एव गुणवृत्तयः । सर्वदा निर्गुणे परमेश्वर एव वर्तन्ते श्रुतय इति कथं चरन्ति श्रुतय इत्यस्य परिहारः ॥ यत्प्राप्त्यर्थं यन्नियमा-द्विधिनिषेधा वर्तन्ते । स त्वमित्यादिविधिनिषेधानां स्तुतिपरत्वम् । विध्यादीनां नियन्ताऽयं पूज्यः प्राप्यश्च तद्वताम् ॥ इत्यादिस्तुतिरूपेण विध्यादिश्रुतयोऽपि तु ॥ हरिं वदन्ति सर्वेषां तन्नामत्वादथापि च ॥ इति श्रुतिनिर्णये ॥
पृथक् श्रुतित्सरन्न पूर्वापरमसम्बन्धः । उपलक्षणत्वादनन्तत्वात् श्रुतीनां सर्वश्रुत्य-र्थाेपबंृहितत्वाच्चैतेषां श्लोकानां न सर्वश्रुतीनां पृथगुक्तिः ॥
सत्यधर्मीया
कः सृष्टिकाल इत्यत आह– लयस्येति । यामा अष्टौ भवन्ति दिव-सस्य । जना जाग्रति यामे पश्चिमे । प्रत्यूषे सहसोत्थाय सम्यगाचम्य वारिणेत्यादिपाराशर-वचनात् । पञ्च पञ्च उषः कालः सप्तपञ्चारुणोदयः । अष्ट पञ्च भवेत्प्रातः शेषः सूर्योदयः स्मृत इति पञ्चघटिकानामुषःशब्दवाच्यत्वात् । ततः पूर्वं घटिकाद्वयसाहित्ये स एव दिवसाष्टमो भागः प्रत्यूषशब्दश्च पश्चिमो याम इत्युच्यते । लोकमनुकुर्वन् हरिरपि पश्चिमयामे जाग्रदिव भवति । यथा चोषःकालकर्तव्यस्य परदिनानुप्रवेशस्तथा लयकालस्य । नित्यस्यापि हरेः कालो द्विपरार्धात्मकः स्वयम् । अहश्चाथो निमेषश्चेत्यप्रवृत्त्योपचर्यत इत्युक्तेर्लयकाल-स्यैवाहःशब्दवाच्यत्वेन तत्र यामविभजने शतानन्दशतसंवत्सरात्मकस्याष्टधा विभागे सति सार्धद्वादशवर्षात्मकोऽष्टमो भागस्तु सोऽपि सृष्टिकाल उदाहृतः । तत्रैव सूक्ष्मसृष्टिर्ब्रह्मादीनां प्रथमतस्तदनन्तरं तत्त्वादीनामिति विवेकः । इति भावतो मूले तदन्ते प्रत्यूष इति बभाष इति ज्ञेयम् । आप्रलयं सर्वोऽपि सृष्टिकाल एवेति बोध्यसद्भावात्तदा विधिप्रतिषेधात्मनो वेदस्य व्यापारान्तरव्यापृतताऽन्यदा तु स्तोत्रमात्रपरतेति ॥ तत्रैव सृष्टिकाल एव वेदसञ्चारः स्तुतिमात्र एव स्तुतिमात्रक इति नारदीयोक्तेः ।
मानफक्किकालब्धमर्थमुक्त्वा फलितमभिलपति– सृष्टिकाल इति । गुणाः सत्त्वाद्यास्तेषु, तथा गुणेऽप्रधाने प्रवृत्तिर्यासां ता गुणप्रवृत्तय इति च । श्रुतयो निर्गुण उक्तरूपे परमेश्वर एव वर्तन्त इति कथं चरन्ति श्रुतय इत्यस्य परिहारः । ननु वसन्ते वसन्ते ज्योतिषा यजे-तेति, ब्राह्मणो न हन्तव्य इत्यादीनां कथं भगवन्मात्रपरत्वमित्यत आह– यदिति । यत्प्राप्त्यर्थं यस्य हरेः प्राप्त्यर्थम् । यस्य नियमाद्विधयो निषेधाश्च प्रवर्तन्ते । स त्त्वमित्यादि-विधिनिषेधानां वेदानां स्तुतिपरत्वं मन्तव्यम् । स्वोक्तस्थेम्ने मानमाह– विध्यादीनामिति । विध्यादीनां विधिनिषेधादीनां यो नियन्ता । तद्वतां विध्यादिमतां पूज्यः प्राप्यश्च । कृत्यानां कर्तरि वेति षष्ठी । विध्यादिश्रुतयस्तद्बोधिन्यः श्रुतय इत्यादिस्तुतिरूपेण हरिं वदन्ति । अन्यनाम्नां सर्वेषां तन्नामत्वाद्विष्णुनामत्वाद्धरिं वदन्ति । अथाऽपि वेति पक्षान्तरद्योतकोऽ-खण्डो निपातः । वसन्तिश्च वसंस्तत इत्यादेः । तथाऽन्यत्रापि । मां विधत्तेऽभिधत्ते मां विकल्पोपोह्य इत्यहम् इत्यस्या हृदयं साक्षान्नान्यो मद्वेद कश्चनेत्युक्तेः । न सङ्गतिः श्रुतीनां तथा श्लोकानां, कुत इत्यस्य स्तुतिपरत्वादिति समाधानमभिधाय द्वितीयमप्यभिधत्ते– पृथगिति । शाखान्तरस्थतया पृथक् श्रुतित्वात् पूर्वस्य भागस्य नापरेण सम्बन्धः । अतो न मन आयासनीयं तत्रेति भावः । नन्विदमनुपपन्नम् । श्रुतीनामनन्ता वै वेदा इत्यानन्त्या-त्तद्ग्रहणेऽपारता ग्रन्थस्य स्यादिति चेन्नेत्याह– उपलक्षणत्वादिति । श्रुतीनामानन्त्या-त्प्रातिस्विकं वक्तुमशक्यत्वादुपलक्षणीयतया सर्वश्रुत्यर्थैरुपबंृहितत्वादेतेषां श्लोकानां सर्वासां श्रुतीनां पृथगुक्तिः ।
तात्पर्यम्
सर्वश्रुत्यर्थसंपन्नान् श्लोकान् सत्यवतीसुतः । एकैकशाखास्तुत्यर्थान् जगौ सर्वोपलक्षणान् । बबन्ध तान् भागवते प्रतिश्लोकं पृथक्श्रुतीः॥ इति तन्त्रभागवते ॥ १५ ॥
सत्यधर्मीया
उक्तं प्रमाणेन द्रढयति– सर्वेति । सर्वश्रुत्यर्थैः सम्पन्नान् । एकैक-शाखागतश्रुतेरर्थो येषु तान् । वस्तुतः सर्वाः श्रुतीरुपलक्षयन्तीति तान् । सर्वासां शाखा-नामुपलक्षणं यैस्तान्वा । श्लोकान् जगौ ताश्च बबन्ध छन्दोबद्धान्भागवतेऽबन्धयत् । प्रतिश्लोकं, पृथक् श्रुतयो येषां तान् ॥
अथ श्लोकतन्मूलश्रुत्यर्थः ॥
यद्यपि पद्येष्वाद्यैर्नव्या नव्या कृताऽस्त्यनव्यापि ।
पङ्क्तीक्षैः पदपङ्क्तिश्चेतश्चेतः परं न कृत्यते ॥ १ ॥
अहमपि न हि साहन्तः किन्तु स्वतैः शिवैः शुशुत्साभिः ।
वचनैर्न च नैष्फल्यं कुप्येयुस्तेन मे क्षमाक्षान्ताः ॥ २ ॥
हे अजित कैरपि कदाऽप्यपराजित । अज जनवज्जननहीन । त्वं जय उत्कृष्टतां स्पष्टय । दोषगृहीतगुणां दोषैः स्वसम्बन्धिभिर्गृहीता ग्रस्ता इत्यस्तमिता गुणा जैवा आनन्दाद्या यया सा तां जीवाच्छादिकाम् । तथा तैरेव गृहीता जीवज्ञानाविषयतया गुणा हरेर्यया तामिति परमाच्छादिकां च जहि मारयापसारय च । ममापि सैव दुरवस्थेत्यनास्थां न भजेत्याह । यद्यस्मात्त्वमात्मना स्वत एव समवरुद्धसर्वभगोऽसि तेन न तद्बाधेति । अजाम् इत्येकवचनं तु मारणापसरणरूपकार्यवैचित्र्यात्पृथक्पृथगन्वयद्योतनार्थम् । हे जगदोकसामखिलशक्त्यवबोधक ओकसामखिलानां शक्तिरव्यक्तिस्तदवबोधकौकसामखिलानि त्वा स्तोतुमशक्तानीत्यर्थः । ओकवो दिवौकाश्च दिवौकस इति द्विरूपकोशः । यद्वा जगदोकानां ब्रह्मादीनां खिला शक्तिः खिलशक्तिः खिलशक्तेरवबोधकः साम्नाखिलशक्त्यव-बोधकस्तस्य सम्बुद्धिस्तदुत्तेजकेत्यर्थः । जगदोकसां जगदाश्रयाणां ब्रह्मादीनामखिलशक्त्यव-बोधक । आत्मना जीवेनाजया प्रकृत्या चानुचरतस्ते त्वामनुचरेत् । क्वचित्सृष्टिकाले । निगमो वेदः क्वचित्तदन्तेऽनुचरतस्ते त्वामनु सर्वे सुपर्वाणो हीना इति चरेत् । स्तुतिमात्रः सन्नेवेतरविरहादिति भावः । जगदोकसामिति पदात्परत्वादखिलशक्त्यवबोधकेत्यस्यामन्त्रि-तत्वेनाविद्यमानवद्भावेऽपि त इत्यादेशः । सर्वदा रक्ष देव न इत्यत्रेव ज्ञेयः । अव्ययं वा त इति मातर्म इत्यादिवत् ॥
तात्पर्यम्
जय जय हन हन प्रकृतिं द्रावय द्रावय भिन्धि भिन्धि दुःखं तमोऽरतिम् । अजित परम रमेशान वासुदेव वैकुण्ठ नारायण हृषिकेशानया हि जीवगुणा विसंवृता अधिसंवृताः ॥ एष ह्यानन्दोऽजरोऽमरोऽधिशक्तिमांस्त्वदाभासस्त्वया तथाऽधिसम्भाव्यो यतः परः परमेश्वरः परज्ञानः परानन्दः परशक्तिः परश्रीः परयशाः परप्रवृत्तिर् नित्यमेव । त्वं स्वतोऽसि त्वं रमायास् त्वं विरिञ्चिस्य रुद्रेन्द्रसूर्यसोममुखानामदभ्रशक्तिदोऽसि प्रवर्त-कोऽसि निवर्तकोऽसि अनो(जो)ऽस्यनन्तोऽसि सृजतो हि ते श्रुतयोऽनुवर्तन्ते नैवा-सृजतः । कं वा विदधते कं वा निषेधन्ति स्तुतिमात्रा एव ते स्युः प्रभो विभो समास्व व्यास्वोत्तिष्ठ प्रचर विचर सन्धिनु सन्धिनु मा ते क्षणो त्यागान्मते क्षणोत्यृगादिति शाण्डिल्य श्रुतिः ॥ १५ ॥
सत्यधर्मीया
तथा च श्रुतिर्जय जय हनेत्यादिका । तस्या अर्थः । जय जयेत्यादि-द्विरुक्तिरादरार्था । भिन्धि विदारय । हननापसरणतो भाविभावमर्थयते । तमो ग्लानिं दुःखं भाव्यरतिं प्रीतेरभावम् । (वि)वैकुण्ठाया सम्बन्धिन् । नान्योऽयमित्याह– नारायणेति । अनया जीवजवनिकया । जीवगुणा विसंवृता मध्यमजीवानां संवृता हि सम्यगावृतास्त-द्विरुद्धा इति विसंवृताः । अधमानामधिसंवृताः । न च गुणा एव न सन्ति क्वावरणावसर इत्यत आह । हि यतो जीव एष आनन्दः । स्वरूपताऽनेन निरूप्यते । अजरोऽमरश्चाधि-शक्तिमान् यथायोग्यम् । तत्र तन्त्रं त्वदाभास इति भवदुत्तरत्रापीति मन्तव्यम् । त्वत्प्रति-बिम्बो यथा नाजया नश्येत्तथा त्वया सम्भाव्य उद्धरणादिना मान्यः । यतः परमः परश्री-र्महासम्पद्वा परा श्री रमा यस्येति वा नित्यमेव । रमाव्यावृत्तये स्वत इति । समवरुद्ध-समस्तभग इत्यस्य मूलं तथा जगदोकसामिति मूलं लपति– रमायास्त्वमिति । पृथङ्-निर्देशेन जगदाश्रयतातारतम्यं सूचयति । प्रवर्तकोऽसि सृष्टिकाले । निवर्तकोऽसि प्रलय-कालेऽन्तोऽसि नाशकोऽसि निर्णायकोऽसि वा स्वयमनन्तोऽसि । सृजतस्ते त्वां श्रुतय इतरव्यापाराः सत्योऽनुवर्तन्ते नैवासृजतः । कुत इत्यत इत इत्याह । किंवा विदधते कं निषेधन्ति ते स्तुतिमात्रा एव स्युः । तत्प्रकारमाह– प्रभो समर्थेति । विभो व्याप्त । समास्व कालविशेषे सङ्कुचितं कुरु सृष्ठिकाले व्यास्व उत्तिष्ट जाग्रतां प्रकाशय प्रचर विचर प्रकृष्टं विविधं च व्यापारं कुरु । सन्धिनु प्रीणय । धीङ् प्रीणनार्थः । मा नैव ते क्षणः कालातीतो भवतु इति शाण्डिल्यश्रुतिः । मूलमूलभूतेति शेेषः ॥
कृष्णपरतयाऽपि श्रुतिः श्लोकाश्च व्याख्याता अस्माभिः पृथग्विस्तरतस्ततोऽनुसन्धेयः । अत्र किञ्चित्प्रदर्श्यते । हे जयजय जयस्य विजयस्यार्जुनस्य जयो यस्मात्तत्सम्बुद्धिः । यद्वा जयमाचष्टे करोति वा जयस्य जयस्तत्सम्बुद्धिर्वा । अजाशब्दः प्रकृतिशब्दपर्यायस्तेना-पर-प्रकृतिरूपभारती । न जायते रेतोरक्तविकृततयेत्यजा द्रौपदी वेदीजातत्वात् । अजितदोषो दोषाधीनो दुःशासनस्तेन गृहीतो गुणः । अर्शआद्यच् । अवयवावयविनोरभेदादेवमुक्तिरिति वा । पटो यस्याः सा तां मां जहि त्याजय । कथाकथन एव तात्पर्यं न तत्क्रमे । यद्यत आत्मना स्वत एव । समवरुद्धानामार्तानामिति यावत् समस्तानां भग ऐश्वर्यादिः समस्तो भगो येन सोऽसि । समवरुद्धानां जरासन्धावरुद्धानां राज्ञांं नरकावरुद्धतरुणीनां वा समव सम्यग्रक्ष । रुद्धानामित्युदितार्थम् । जितदोषः प्राप्तदोषः । स्वर्जित इत्यादाविव जिः प्राप्त्यर्थः । हिङ्कारादिजयो नाम तत्प्राप्तिरेवेति छान्दोग्यभाष्योक्तेः । हन्तेर्ज इति जादेशे लोटि लोटः सेर्ह्यपिच्चेति हौ परतः सति आभीयतयोभयोरपि हिलुकि कार्ये जादेशो सिद्धो भवति । तेनादन्तत्वाभावान्नातो हेरिति हेर्लुक् । जहि हतात् हतमिति रूपाणि । जगदोक-सामखिलशक्त्यवबोधकेति समर्थम् । जगदोकसा जगदाश्रयेण मध्येन वाऽस्येन वा बन्धन-काले काले यशोदास्यप्रदर्शनस्य । आत्मनैव शरीरेेण वाऽमानामज्ञानां खिलशक्तिबोधक तदुत्तेजकेति वा । अखिलानां शक्तीनां तव भार्याणामवबोधकश्च यस्मात्तत्सम्बुद्धिरिति वा । क्वचिदजया मायया सहानुचरतः पाण्डवान्निगमो दुर्योधननगरी । अनुचरेदनुसृत्य चरेदा-गच्छेदिति यावत् । आत्मना स्वत एव स्वामिना त्वयेति वा । तद्धनं तद््गृहं तत्कुलं वा । स्थानीयं निगमोऽन्यत्तु यन्मूलनगरात्पुरमित्यमरः । निगमः स्याद्गृहे वंशे रक्ते क्षौद्रे धनेऽपि
चेति विश्वः । अयमप्यर्थोऽनुमत इति नारदः । नमस्तस्मै भगवते कृष्णायामलमूर्तय इत्युप-संहरणाज् ज्ञायते । ज्ञायते चामरपामरविदितवासुदेवनामवत्या श्रुत्यापीति दिक् ॥ १५ ॥ (१) ॥
बृहदुपलब्धमेतदवशेषतया
यत उदगास्तमस्यविकृतेऽविकृतः ।
**अत ऋषयो दधुस्त्वयि मनोवचनाचरितं **
कथमयथा भवन्ति भुवि दत्तपदानि नृणाम् ॥ १६ ॥
तात्पर्यम्
अविकृततमोविषये त्वमुदगाः । मूलप्रकृतेरपि त्वमधिको यतः ॥ अतो बृहत्त्वेन ते स्वरूपमुपलब्धम् ॥ इत इदमधिकमितोऽपीदमधिकमिति सर्वाधिकत्वेन ततोऽधिकाभावेनावशेषितत्वेन ॥ द्वितीयार्थे तृतीयार्थे चतुर्र्थ्यर्थे च सप्तमी । पञ्चम्यर्थे च प्रोक्ता या विषयेति च तां विदुः ॥ इति महाव्याकरणे ॥ तमसोऽधिको भवानित्यर्थः ॥ अतस्त्वं सर्वोत्तम इत्येवम्पराणि त्वयि मनोवचनाचरितानि दधतां नायथा तानि भवति ॥ यथा भूमौ पदं निक्षिपामीति प्रवर्ततो भूमेर्नान्यत्र भवन्ति । उदकवृक्षादे-र्भूम्यन्तर्भावात् । आधारशक्तियुक्तत्वाद्भूरुदं च प्रकीर्ततम् । साऽपि वाय्वन्तरङ्गैव स ह्याधारोऽखिलस्य च ॥ इति महासंहितायाम् ॥ अत इति हेत्वर्थे तथेत्यर्थे च । तस्मा-द्बृहत्वेनादधुरिति ॥ अतः शब्दस्तु हेत्वर्थे तथेत्यर्थे च वर्तते । उभयार्थे च भवति यथा शब्दविदो विदुः ॥ इति शब्दनिर्णये ॥ उपलब्धं वेदेेषु ॥
बृहद्धिदृष्टमवशेषितं यत्स्वरूपमीशस्य तमोधिकस्य । सर्वाधिकत्वेन तमो हि दुर्गा ततस्तथैनं विबुधास् तथाऽगुः ॥ इत्यौद्दालकायनश्रुतिः ॥
**अनिर्देश्यमप्येकदेशेन निर्दिष्टं भवतीत्युक्तं कथमयथाभवन्तीत्यनेन ॥ यथा सर्वां भूमिमसञ्चरन्नप्येकदेशसञ्चारेण भूसञ्चारी भवति तथेति ॥ निरपेक्षबृहत्त्वस्य ज्ञानाज्ज्ञातं भवेत्परम् । बृहत्वमेव तु गुणैः सर्वैरुद्दिश्यते यतः ॥ इति मान्यसंहितायाम् **
॥ १६ ॥ २ ॥
पदरत्नावली
बुहदुपलब्धमिति ॥ तथाहि । अविकृते तमसि, ‘तम आसीत् तमसा गू•हमग्रे’ इति श्रुतेः, नित्यतमोविषये त्वमुदगा उत्कृष्टत्वं गतः । मूलप्रकृतेरपि त्वमधिकोऽसि यतोऽतो बृहत्त्वेन बृह वृद्धाविति धातोः पूर्णत्वेन एतत् त्वत्स्वरूपम् उपलब्धं वेदेषु दृष्टम् । कथम् ? अत्राह– अवशेषतयेति ॥ इत इदमधिकमितोऽपीदमधिकमिति सर्वाधिकत्वेन ततोऽधिकाभावेनावशेषितत्वेन परिशेषप्रमाणसिद्धत्वेनेत्यर्थः । ‘स एष रसानां रसतमः परमपरार्ध्योऽष्टमो यदुद्गीथः’ इति श्रुतिः । ‘द्वितीयार्थे तृतीयार्थे पञ्चम्यर्थे च सप्तमी । चतुर्थ्यर्थे च सम्प्रोक्ता विषयेऽपि च तां विदुः’ इति महाव्याकरणवचनाद् विषयपञ्चम्यौ युज्येते । कीदृशस्त्वम्? अविकृतो विकाररहितः । अत ऋषयो ब्रह्मादिज्ञानिनस्त्वं सर्वोत्तम इत्येतदर्थपराणि त्वयि तानि मनोवचनाचरितमित्येकवद्भावविवक्षयैकवचनं मनोवचनाचरितानि अदधतामिति दधुः शिक्षां धृतवन्तः । पुंसां त्वयि तानि मनआदीनि कथमयथा अतद्विषयाणि भवन्तीति दधुः । तत्र दृष्टान्तः– नृणां पदमिति ॥ भूमौ निक्षिपामीति प्रवर्तमानानां दत्तानि निहितानि पदानि यथा भूमेरन्यत्र न भवन्ति तथेत्यर्थः । जलवृक्षादेराधारशक्तिमत्त्वेऽपि भूम्यन्तर्भावान्न पृथगुक्तिः । अतस्तथा बृहत्त्वेन दधुरिति वा । ‘अतश्शब्दश्च हेत्वर्थे तथेत्यर्थे च वर्तते । उभयार्थे च भवति यथा शब्दविदो विदुः ॥’ इति वचनात् । अनिर्देश्यमप्येकदेशेन निर्दिष्टं भवतीत्युक्तं कथमयथा भवन्तीत्यनेन । यथा सर्वां भूमिमसञ्चरन्नप्येकदेशसञ्चारेण भूसञ्चारी भवति तथेति । ‘निरपेक्षबृहत्त्वस्य ज्ञानाज्ज्ञानं भवेत् परम् । बृहत्त्वमेव तु गुणैः सर्वैरुद्दिश्यते यतः ॥’ इति मान्यसंहितायाम् ॥ १६ ॥
दुर्घटभावदीपिका
अविकृते तमस्युदगा इत्येतदविकृते तमसि मूलप्रकृतिविषये उद्रिक्त- व्यापारमगा मूलप्रकृतेरधिकोऽभवदिति यावदिति व्याख्यानम् ॥ ता० अर्थः ॥ सप्तम्या विषयार्थ-त्वे प्रमाणमाह– द्वितीयार्थ इति ॥ सप्तमी द्वितीयार्थे तृतीयार्थे चतुर्थ्यर्थे च सम्प्रोक्ता सप्तमी विषया विषयार्थेति तां सप्तमीं विदुः । तमस्युदगा इत्यस्य तात्पर्यार्थमाह– तमस इतीति ॥ एतेन तमसीति विषयार्थत्वमङ्गीकृत्य सप्तम्या विषयार्थत्वे प्रमाणं चोक्त्वा तमसोऽधिको भवेति तमसीति सप्तम्याः पञ्चम्यर्थत्वकथनमयुक्तमिति चोद्यं प्रत्युक्तम् । तमस इत्यनेन तमसीति सप्तम्या अर्थ उक्त इत्यनङ्गीकारात् ॥ १६ ॥
सत्यधर्मीया
बृहदुपलब्धमित्यादिपद्याल्लब्धा एतेषां सङ्गतिः केति चलचेतसो भवेयु-रित्यनन्तशाखासङ्ग्राहकाणि स्थूललोलचेतस्कविवक्षया चैकैकश्रुतिप्रतीकाग्राहकाणि । ततो न सेति मानमुदाहृत्यादौ कृतभूमिकाप्रतिपत्तेरन्यार्थप्रतीतेश्च श्लोकं व्याकरोति । अविकृते तम-सीति समानाधिकरणसप्तम्याविति दर्शयितुं विवृणोति– अविकृततमोविषय इति । अविकृतं च तत्तमश्च तस्मिन्स च विषय इति । उदगास्तदुत्क्रम्यागा अतत्स्पृष्ट इत्यर्थः । यत उदगा अत इत्यव्यवहितान्वयप्रतीतिं वारयितुं स्वयमन्वयं दर्शयति– मूलप्रकृतेरपीति । सर्वबन्धनहेतुमूलप्रकृतेरपि त्वमुदगा अविकृतोऽधिको यतोऽतो बृहदिति । अविकृततमःपदेन मूलप्रकृतिर्ग्राह्येत्युक्तं भवति । अपीतीतराशक्योद्गमना सेति सूचयति । इत इन्द्रादेरिदमुमा-महेश्वरादिकं तत इदं ब्रह्माण्यादिकमिति रमापर्यन्तमुक्त्वा तदादिसर्वाधिकत्वेन ततः स्वतोऽ-धिकस्यान्यस्याभावेनावशेषितत्वेन सर्वौत्तम्येनोर्वरितत्वेन ते स्वरूपं बृहदिति उपलब्धमिति मूलेऽन्वयं दर्शयितुं व्याख्याति– बृहत्त्वेन ते स्वरूपमुपलब्धमिति । अनेन तमसो मूल-प्रकृतेरुद्गमनं बृहत्त्वहेतुरित्युक्तं भवति । नन्वविकृते तमसीत्यत्र विशेषणपदोत्तरविभक्तिस्तु साधुत्वमात्रपरा । विशेष्यपदोत्तरविभक्तेर्विषयार्थत्वस्वीकारे नोद्गमनबृहत्त्वयोर्हेतुहेतुमद्भावः स्फुटं प्रतीयत इत्यतो विषयसप्तमीत्वमुखेन लभ्यं स्वव्याख्यानुकूलमर्थं मानेनैवाह– द्वितीयार्थ इति । याविषयेतीति पदमेकम् अव्ययं च । विषय इति विषयेतीति विग्रहः । विषये तदर्थविहिता या सप्तमीति विशिष्टोऽर्थः । द्वितीयार्थे तं विना नान्वयश्चेत् तदाऽऽ-द्यर्थे । चशब्दौ यथायथं समुच्चये वर्तेते । तृतीयोऽवधारणार्थः सन्नन्वेति विदुरेवेति । तथा च महाव्याकरणोक्तेरत्र तमसि तमोविषये मूलप्रकृतेरिति पञ्चमीत्वेन व्याख्यानं नालौकिकमिति फलितमभिलपति– तमसोऽधिको भवान् इत्यर्थ इति । मूलप्रकृतेरिति न तात्पर्यार्थः किन्तु तमःशब्दार्थ इति स्पष्टयितुं पुनस्तमस इत्युक्तिरिति ज्ञेयम् । अन्वयसौकर्यप्रदर्शनाय तमोविषय इत्यस्य मूलप्रकृतेरिति विधाय व्याख्यां तद्वारकं पञ्चम्यर्थत्वमित्यनन्तरं मान-मुदाहरन्सूचितवान्भाष्यकृदिति वर्णयन्ति । उत्तरार्धं व्याकरोति । अत एतद्धेतोरस्माद्धेतोरिति वा । त्वमित इत इदमिदमधिकमित्युक्तप्रकारेणावशेषितत्वेन सर्वाधिक इति हेतोरेव ऋषयो ज्ञानिनः । एकवचनं सर्वो द्वन्द्वो विभाषयेत्यभिप्रायेणेति दर्शयन्नाह– मनोवचना-चरितानीति । ये यानि मनश्च वचनं चाचरितं चेति त्वयि दधुरधारयंस्तानि, तेषां कथमयथा वितथार्थानि भवन्ति भवन्ति यथार्थानीत्यर्थः । तत्र दृष्टान्तमाचष्टे मूलकृदिति यथाशब्दमध्याहृत्य तदभिप्रायं स्वयं प्रदर्श्य तत्र मानमानन्दतीर्थो वक्ति– यथेति । प्रवर्ततः प्रवर्तमानस्य । भूमेरन्यत्र तत्पदं न भवति तथेति ।
ननु जलवृक्षादीन्यपि पदानां पदं भवन्ति भुवीति तन्मात्रपरिग्रहः कथमित्यत आह– उदकवृक्षादेर्भूम्यन्तर्भावादिति । न वाङ्मात्रेणार्थसिद्धिरित्यत आह– आधारशक्तियुक्त-त्वादिति । उदं स्वतन्त्रः शब्दो भूरिति कीर्तितम् । सापि वायुरन्तरङ्गे यस्याः सा । तदपेक्षया मुख्यत्वं वायोरित्यभिप्रैति । हि यतः स वायुरखिलस्य चाधारस्तत इति । भूपदं यथायथं योग्यग्राहकमिति भावः । अतो वायोरन्तर्भावेऽपि पुनः प्रवृत्तिनिमित्तान्तरमुक्त-मित्यवधेयम् । यथा यथेत्यस्य दृष्टान्तवाक्येऽध्याहारस्तथा तथेति दार्ष्टान्तिकवाक्ये नैवा-ध्याहारः किन्त्वतःशब्द एव हेत्वर्थे तथेत्यर्थे चेति स्वयं व्याकृत्य शब्दनिर्णयवाक्यं पठति– अत इतीति । हेत्वर्थ इति व्याकृतार्थमन्वयं च दर्शयति– तस्माद्बृहत्त्वेनादधुरिति । अपरस्योत्तरत्रोपयोग इत्यतः सोऽर्थद्वैविध्येन सहार्थान्तरे च मानमाह– अतःशब्दस्त्विति । हेत्वर्थे । तथेतिशब्दस्य योऽर्थस्तस्मिन्नपि च वर्तते । उभयार्थे उभयमित्यस्मिन्नर्थे च भवतीति यथाशब्दविदः सम्यक् शब्दज्ञा विदुरिति केचित् । उभयार्थ इति हेत्वर्थे तथार्थे चेत्युभयार्थे तस्मात्तथेत्येतत्पदार्थ इति वा । निगमनरूप इति यावत् । उपलब्धमिति-नोपलब्धिरपरोक्षज्ञानमित्याह– उपलब्धं वेदेष्विति । कथमनिर्देश्ये चरन्तीत्युत्तरयति– अनिर्देश्यमपीति । साकल्येनानिर्देश्यमप्येकदेशेन स्वस्वयोग्यतामनुसृत्य निर्दिष्टम् । बृहत्त्वेन स्वरूपं भवतीत्युक्तं कथमयथा भवन्तीत्यनेनान्वयः । गुणोत्कर्षे देवदेवस्य विष्णोर्महा-तात्पर्यमित्यादेः । ननु कथमेकदेशदर्शिनो भगवज्ज्ञत्वं कथन्तरामनेन मोक्ष इत्यतो निदर्शन-प्रदर्शनेन तथा मान्यसंहितावचनेन समाधत्ते– यथेति । सर्वां सर्वंसहामसञ्चरन्नपि यथा तदेकदेशसञ्चारमात्रेण भूसञ्चारी भवति तद्व्यवहारभाग्भवति । एकदेशस्य तदन्तर्भूतत्वादिति भावः । ननु ज्ञानादिमत्त्वेन तज्ज्ञानाभावात्कथं बृहत्त्वज्ञानमात्रेणालमित्यतस्तत्प्रकारमाह– निरपेक्षेति । बृहत्त्वं निरपेक्षं विशेषणान्तरसाचिव्यापेक्षाहीनमेवोत्तममिति तस्य ज्ञानात् परं ब्रह्म यथा ज्ञेयं तथा ज्ञातं भवेत् । परं ज्ञानादिकं तत्स्थतया ज्ञातं भवेदिति वा । कुत इत्यत आह । गुणैरुक्तैः सर्वैरप्यन्ततो बृहत्त्वं पूर्णत्वमेवोद्दिश्यते यतोऽतो ब्रह्म वा तदा-नन्दादिकं वा ज्ञातं भवेदित्यन्वयः । भूम्नः क्रतुवज्जायस्त्वं तथा च दर्शयति । ब्रह्म-दृष्टिरुत्कर्षात् । अत एवाथ कस्मादुच्यते ब्रह्मेति । बृहन्तो ह्यस्मिन् गुणा इति योग्यतया तेषां लाभोक्तिः । ज्ञानपूर्ण आनन्दपूर्ण इत्येव वक्तव्यत्वात्तन्मात्रोक्तावप्यपवर्गानर्गल-मार्गोक्तिरेवेति न काचिदनुपपत्तिरिति ॥
श्लोकार्थः ॥ अविकृते तमस्यविकृततमोविषये । मूलप्रकृतेस्तमसः यतोऽविकृत उदगा उद्गतोऽसि । तत एतत् तव रूपमशेषतया इत इतमिदमिति सर्वाधिकत्वेनोर्वरिततया बृह-त्सकलगुणपूर्णमित्युपलब्धं वेदेषु । अतस्तस्मादृषयो ज्ञानिनस्त्वयि मनोवचनाचरितानि दधुः । यानि तानि नृणामधिकारिणां भुवि भूम्याद्याधारमात्रे दत्तानि क्षिप्तानि पदानि यथा समग्रभूसञ्चाराभावेऽपि तदेकदेशभेदाभेदाद्भूसञ्चार्ययमिति व्यवहारनिर्वाहकाणि यथा तथा । कथमित्याक्षेपे । अयथार्थानि कथं भवन्ति । बृहत्त्वज्ञानमेव मोक्षोपयोगि सर्वज्ञानस्यान्त-र्भावादिति भावः ॥
कृष्णपक्षे ॥ भुवि दत्तपदानि लाञ्छनरूपाणि नृणामक्रूरादीनामयथाऽफलोपलम्भकानि कथं भवन्ति । फलदान्येवेत्यर्थः । अत ऋषयो नारदाद्या मनोवचनाचरितं तानि त्वय्यदधुः । लाञ्छनामात्रस्य दृष्टस्य फलदत्वे कथा का मनोवचनाचरितधारणे सति तानि दधुरित्या-शयः । अविकृते तमसि जननसमये विप्रप्रजानयनसमये वा । अविकृतस्तदप्रतिबद्ध-स्तस्मादुदगा गोकुलं मुक्तस्थानं वा । किञ्चैतच्छब्दो बुद्धिस्थपरामर्शकः । एतत्तवोदरमव-शेषतया द्व्यङ्गुलोनरज्जुतयोर्वरितत्वेन बृहदिति कार्यत एवोपलब्धं यशोदया दृष्टं न त्वाकारे-णेति ऋषयो मनोवचनाचरितं दधुरिति हेतुहेतुमद्भावेनान्वयः ॥
ततश्चायं श्रुत्यर्थः ॥ ईशस्य सर्वेशनशीलस्य तमोऽधिकस्य मूलप्रकृत्यधीशस्य तव स्वरूपं हि यतो बृहत् सर्वगुणपूर्णमिति दृष्टं वेदेषूपलब्धम् । प्रेक्षणेति विशेषार्थोऽपि दृशः पश्यार्थैश्चानालोचन इत्यादेरत्र ज्ञानसामान्यवाचीति परोक्षज्ञानवाचकः । अवशेषितमधि-कतयोर्वरितम् । तमःशब्दस्य कथं प्रकृते प्रकृतिपरत्वमित्यतः श्रुतस्तमप्प्रत्ययसमानार्थोऽयं तमःशब्दोऽखण्ड इत्यभिप्रेत्य स्वयं योग्यं पूरयित्वा व्याकरोति– सर्वाधिकत्वेनेति । दुर्गा सर्वाधिकत्वेन हेतुना तमःशब्दवाच्या ततस्तमोऽधिकस्येति सम्भवतीति भावः । अतो बृहत्त्वाद्विबुधा देवा ज्ञानिनश्चैनं त्वां यथा सम्यगगुः । इणो गा लुङीतीणो गादेशः । गत्यर्थानां ज्ञानार्थत्वाद्व्यजानन्नित्यर्थः ॥ १६ ॥ (२)
इति सूरयस्त्र्यधिपतेऽखिललोकमलक्षपणं तव कथामृताब्धिमवगाह्य तपांसि जहुः ।
**किमुत पुनः स्वधामविधुताशयकालगुणाः परम भजन्ति ये पदमजस्रसुखानुभवम् **
॥ १७ ॥
तात्पर्यम्
अनन्याश्रयत्वात्स्वधामा परमः । तेन विधुता दुःखाद्या आशयगुणा उत्पत्त्याद्याः कालगुणाश्च येषां ते मुक्तास्तापान् जहुरिति किं पुनः ॥ कथा-मृताब्धिमवगाह्यापि जहुरिति यदिति हेत्वर्थे इति शब्दः ॥
त्यजन्ति तापं य उक्ते भवत्कथा इति स्म मुक्ताः किमु ते स्वरूपगाः ।
परावरेशेश पदं भजन्तः परं परानन्दमनारतं ते ॥ इतीन्द्रद्युम्न श्रुतिः ॥
पदरत्नावली
इति शब्दो हेत्वर्थः । पुनरवधारणार्थः । ‘पुनरप्रथमे प्रश्ने व्यावृत्ताववधारणे’ इति । हे परम परावरेशेश ते तव अजस्रसुखानुभवम् अजस्रमनारतं सुखं परानन्दो ऽनुभवो ज्ञानं यस्य तत् तथा तत्पदं स्वरूपं भजन्ति । अनन्याश्रयत्वात् स्वधामा परमस्तेन विधुता आशयगुणा दुःखाद्याः कालगुणा उत्पत्त्यादयो यैस्ते मुक्तास्तपांसि तापान् जहुरिति किमुत पुनर्वक्तव्यमेव ? हे त्र्यधिपते त्रिलोकीनाथ सूरयो दर्शनादिभाषाविचक्षणा अखिललोकस्य मलं क्षपयतीत्यखिललोकमलक्षपणस्तस्य तव कथामृताब्धिमवगाह्यापि तपांसि जहुरिति यस्मादिति शेषः ॥ १७ ॥
सत्यधर्मीया
स्वधामविधुताशयकालगुणा इत्यस्य स्वोदवसितावसितिमात्रेण विधुता-शयकालगुणानामिति प्रतीतिदुराशयपरासायेतरपदार्थाप्रतीतेश्च स्वयं व्याकरोति– अनन्या-श्रयत्वादिति । स्वे महिम्नीत्याद्याम्नायान्न विद्यतेऽन्यो भिन्न आश्रयो यस्य तस्य भाव-स्तस्मात् । स्वः स्वयमेव धामाश्रयो यस्येति भगवान् । तेन विधुताः । अनेनेतर-दवान्तरकारणं मुख्यो भगवानिति सूच्यते । गुणपदं द्वन्द्वान्ते श्रूयमाणमाशयपदेन तथा कालपदेनाप्यन्वेति । आशयो बाह्यान्तःकरणं कालश्च तद्गुणा दुःखाद्या उत्पत्त्याद्याश्चेति क्रमेणान्वयः । यैरवान्तरकर्तृभिस्ते च मुक्तास्तापाञ्जहुरिति किं पुनर्वक्तव्यम् । न वक्तव्यमवचनेऽपि सोऽर्थो लभ्यत इत्यर्थः । कथामृताब्धिमवगाह्यापि । अनेनोतशब्दो मौलोऽप्यर्थ इत्युक्तं भवति । सूरयः सांसारिका यतो जहुः । यदिति स्वोक्तं मूलरूढं करोति– हेत्वर्थ इतिशब्द इति ॥
ततश्चायं श्लोकार्थः ॥ हे परम सर्वोत्तम । त्र्यधिपते भूर्भुवःस्वरिति श्वेतदीपा-नन्तासनवैकुण्ठेति कृतत्रेताद्वापरेति ऋगाद्याः सत्त्वाद्या इति वा त्रयाणां वा रक्षकतया वासितयाऽवतारवत्तया तन्नामवत्तया प्रतिपाद्यतया विनियोजकतया पते । तिसृणां श्रीभूदुर्गाणां पत इति वा । अखिललोकमलक्षपणमखिलानां लोकानां ज्ञानिनां मलान्यघानि क्षपयति नाशयतीति तम् । कथैवामृताब्धिस्तम् । सूरय उतापि ये ज्ञानिनोऽप्यवगाह्य स्वस्वयोग्यतानुसारेणालोड्य तपांसि तापान् । प्रारम्भमात्रमिच्छा वा विष्णुधर्मे न निष्फले-त्यादेरारम्भमात्रेण तापानां किञ्चित्सङ्कुचिततयाऽकार्यकारितां सूचयितुं तपांसीति नपुंसक-लिङ्गप्रयोगः । बहुवचनेन महान्त्यपीति च सूचयति । जहुरिति यतस्तस्मात् । स्वधाम्ना हरिणैव विधुता आशयगुणा दुःखाद्या कालगुणा उत्पत्त्याद्या विधुता निर्मूलमुन्मूलिता यैस्ते मुक्ताः । अनेन मुक्तिर्हित्वाऽन्यथारूपमित्यंशशंसितदलोक्तिः । ते तवाजस्रं सुखमनुभवो ज्ञानं च यस्मात्तत्पदम् । भजन्तीति स्वरूपेण व्यवस्थितिरित्युक्तोक्तिः । तापाञ्जहुरिति किं पुनः किमेवं वक्तव्यं न वक्तव्यमेवेत्यर्थः । हे कंसारे संसारे सन्तः सन्तस्तव कथामृता-
ब्ध्यवगाहनेन जहाति तापान्मुक्तानामुक्तरूपतापापनोदो भवतीति किं वक्तव्यमिति तात्पर्यम् ॥
कृष्णपक्षे ॥ सूरयो वेदज्ञाः । लुप्तोपमा । ते यथा तथा । हे स्त्र्यधिपते गोपीपते । अखिललः खं पुरं येषामस्ति ते खिलस्ते न भवन्तीत्यखिलो व्रजजनास्तांल्लालयति विलास-युतान्सुखिनः करोतीत्यखिललः । खमिन्द्रिये सुखे स्वर्गे शून्ये बिन्दौ विहायसि । पुरे संवेदने क्षत्रे कुणे हेलफले क्वचिदिति विश्वः । ये गोपीजनास्त्वयि दूरं गते तव कथा-मृताब्धिमवगाह्य तपांसि तापाञ्जहुः । तव कथामृतं तप्तजीवनम् । दुस्त्यजस्तत्कथार्थ इत्यादेः । अकमलक्षपणं कमलं क्षपयतीति स न भवतीत्यकमलक्षणः कमलबान्धवस्तद्रूपं ते पदम् । नवपदरविभासा नः कुचस्थोत्पलेषुमित्यभियुक्तोक्तेः । अजस्रं सुखस्यानुभवो येन तत् । स्वधामविधुताशयकालगुणाः स्वानि च तानि धामानि च तैः सह विधुता आशयस्य पत्याद्यभिप्रायस्यात्रैव स्थातव्यं न गन्तव्यं क्वापीत्यादिरूपस्य । आ सम्यक् शेत इत्याशयः पतिर्वा । शीङ एरच् । अभिप्रायश्छन्द आशय इत्यमरः । तस्य गुणा भर्त्सनाद्या अन्यत्र सौरूप्याद्यास्तथा कालस्य गुणा रात्रौ भीकरपिशाचादिसञ्चारादिरूपा यैस्ते । पतिसुतान्वय-भ्रातृबान्धवानतिविलङ्ध्य ते ह्यच्युतागता इत्यादेः । भजन्ति ते तपांसि जहुरिति पुनः किं वक्तव्यम् । तपांसि कात्यायनीव्रतादीनि जहुर्गतवत्य इत्यप्यान्तरङ्गिकोऽपि भावः ॥
ततश्चायं श्रुत्यर्थः ॥ उरवधारणे । हे परावरेशेश परावरेशानां ब्रह्मादीनामीश । परे ब्रह्मादयोऽवरास्तेषामीशा रमा तस्या ईश । ये भवत्कथा भवतः कथा येषां ते इति यतस्तापं त्यजन्ति उ त्यजन्त्येव । ते मुक्ताः स्वरूपगा आविर्भूतानन्दाद्याः परं परानन्दं तत्पदमनारतं भजन्तस्तापं त्यजन्ति । स्मेति किं वक्तव्यमित्यर्थे । इतीन्द्रद्युम्नश्रुतिः ॥ १७ ॥ (३)
दृतय इवोच्छ्वसन्त्यसुहृदो यदि ते महदहमादयोऽण्डमसृजन् यदनुग्रहतः ।
**पुरुषविधान्वयोऽत्र चरमोत्तममध्यमादिषु यस्तव सदसतः परं प्रथयेदविशेषमृतम् **
॥ १८ ॥
तात्पर्यम्
चरमोत्तममध्यमादिषु पुरुषेषु यस्तव स्वरूपं प्रथयेत् । स पुरुषविधं त्वामन्वेति ॥ ब्रह्मैव मुक्तिगेष्वादिः सुरास्तदवरोत्तमाः । मध्यमा ऋषिगन्धर्वाश्चरमा मानुषोत्तमा इति प्राभावल्याम् ॥ असक्तो देहपुर्येष जीववद्देहगोऽपि यत् ॥ अथवा पुंविधातृत्वात् पुंविधः पुरुषोत्तमः ॥ इति पुरुषोत्तमतन्त्रे ॥ अनिशमुच्छ्वसन्त्यसुखोद्भरिता-स्तव रिपवो दृतिवत्तमसि प्रविष्टाः ॥ तव गुणप्रथनाः परिहाय तमः परियान्ति । ते पदमजस्रमनन्तसुखमिति पैङ्गिश्रुतिः ॥ १८–४ ॥
पदरत्नावली
महदहमादयो ब्रह्मरुद्राद्यभिमन्यमानानि महदहङ्कारादितत्वानि यस्यानुप्रवेश-लक्षणानुग्रहतो ब्रह्माण्डमसृजन् तस्यात्यन्तोपकारकस्य ते तव यदि असुहृदः सर्वमिथ्यात्व-वादिनस्तर्हि ते दृतयः कारुशालयामग्निधमनार्थं निर्मितचर्मविशेषा इव उच्छ्वसन्ति तमसि प्रविष्टा दुःखभराक्रान्तत्वाद् विनष्टप्राणबला दीर्घश्वासं कुर्वन्ति । अत्र चरमोत्तममध्यमादिषु चरमा मनुष्योत्तमा उत्तमा इन्द्रादिदेवा मध्यमा ऋषिगन्धर्वा आदिर्मुक्तसमुदाये प्रथमो ब्रह्मा एषु पुरुषेषु यस्तवाजस्रम् ऋतमेकप्रकारं, नित्यमिति यावत्, अनन्तसुखमविशेषं विषयविशेषनिमित्त-क्षणभङ्गुरसुखमन्तरेण स्वरूपभूतापरिमितानन्दपूर्णं सदसतः परं प्रथयेज् जानाति शिष्यादिषूपदिश्य प्रख्यापयति च, स पुरुषविधस्य जीवदेहगतत्वेन तदाकारस्य तवान्वयोऽनुकूला प्राप्तिर्यस्य (स) तथा । ‘असक्तो देहपुर्येष जीववद् देहगोऽपि यत् । अथवा पुंविधातृत्वात् पुंविधः पुरुषोत्तमः’ इति वचनात् । तादृशं त्वामाप्नोतीत्यर्थः । प्रथयतीति प्रथनः ॥ १८ ॥
सत्यधर्मीया
दृतय इवोच्छ्वसन्तीति श्लोक उत्तरार्धान्वयस्य तथा पुरुषविधपदस्यापुरुष-प्रकारवानित्यपार्थप्रतीतेर्यथावस्थितार्थाप्रतीतेश्च व्याकरोति– चरमोत्तममध्यमादिष्विति । उत्तमा अधमानां मध्यमानां चोपजीव्या इति व्यपेक्ष्य मध्ये निबन्धो मूले तथैवानुवादोऽत्रेति मन्तव्यम् । पुरुषेष्वधिकारिषु । तव रूपं प्रथयेद् विस्तृत्य वदेत् स पुरुषविधं त्वामन्वेति । आदिशब्दो न प्रभृत्यर्थकः किन्तु स्वतन्त्रो ब्रह्मवाचीति वक्ति । मुक्तिगेष्वादिर्ब्रह्मैव वदेत् स पुरुषविधं त्वामन्वेति । अनेन मूले चरमाश्चोत्तमाश्च मध्यमाश्चादिश्चेति विग्रहः सूचितः । तदवरास्तस्मादादेरवराः सुरा उत्तमा ऋषिगन्धर्वादिभ्य इति तदवरोत्तमा मध्यमा ऋषिगन्धर्वा मानुषोत्तमाश्च चरमा इति प्रभावल्यामुक्तेर् आदिर्ब्रह्मा । आदित्वं सहागतैतदपेक्षया पूर्वं मुक्तत्वात् । पूर्वमादित्वं प्रथमं सृष्टत्वेन सिद्धमिति मुक्तिगेष्वित्यनेन सूचयति । पुरुषविधत्वं हरेः सर्वप्रवृत्तिनिमित्तं मानेनाह– असक्त इति । यद्यस्माद्देहपुरि देहरूपिण्यां पुरि । ऋक्पूरब्धूरिति नाप्रत्ययोऽनित्यत्वस्य तत्रैव पथामिति निर्दिशता सूचनादिति मन्तव्यम् । क्वाचित्कपक्ष इदमिति न नवीनविवक्षयोक्तमित्यवधेयम् । ते चाश्वादिगणे राजन् शब्दपाठ इत्यादिकं वर्णयन्ति । जीववज्जीव इव देहगः सन्नप्यसक्तो दोषालिप्त इत्येषः पुरुषविध इत्युच्यते । अथवा पुंस आदितः पुरुषं ब्रह्माणं विदधातीति पुरुषविधाता तस्य भावस्तस्मात् । स चाभूत् पुरुषाभिध इति बृहद्भाष्योक्तेः । यो ब्रह्माणं विदधाति पूर्वमिति श्रुतिः । पुरुषं जीवमात्रं विधत्त इति वा । तस्मात्पुरुषोत्तमः पुरुषविध इति प्रोक्त इत्यर्थः । पुरुषोत्तम इत्यसक्तत्वपुंविधातृत्वासिद्धिपरिहारायेति ज्ञेयम् । बृहदारण्यकोपनिषद्भाष्ये प्राजापत्यब्राह्मणे । ततः पुरुषविधो ब्रह्माऽसीत् पुरुषो विष्णुस्तद्विधत्वात् पुरुषविधः । एतस्य जगतो ह्यग्र आसीन्नारायणः परः । एक एव श्रिया सार्धं तमात्मा पुरुषेत्यपि । आहुस्तस्मात् पुरुषविधो ब्रह्मा समभवत् प्रभोः । ब्रह्मादेश्च शिवाच्चैव नित्यं विष्णुर्गुणाधिकः । यथा तथैव रुद्रादेर्ब्रह्मा यस्माद्गुणाधिकः । एतस्मात्पुरुषविधता ब्रह्मणः सम्प्रकीर्तितेति प्रकरणादर्थान्तरोक्तिरिति न तद्विरोधः ।
ननु तर्हि शब्दादिभ्योऽन्तःप्रतिष्ठानान्नेति चेन्न तथा दृष्ट्युपदेशादसम्भवात्पुरुषविधमपि चैनमधीयत इति सूत्रभाष्ये चन्द्रमा मनसो जातश्चक्षोः सूर्योऽजायतेत्यादिना यः पुुरुषाख्यो विष्णुरभिहितस्तद्विधमेवात्र मूर्धैव सुतेजाश्चक्षुर्विश्वरूपः प्राणाः पृथग्वर्त्मात्मेत्यादिनैनं वैश्वानर- मधीयत इति । तथा तैत्तिरीयोपनिषदि स वा एष पुरुषविध एव । तस्य पुरुषविधताम् । अन्वयं पुरुषविधः । तथा तद्भाष्ये सर्वेऽपि पुरुषाकारा उत्तरात्पूर्वसम्भवा इत्युक्तेर्नात्र पुनः पराक्रमणीयमाचार्यैः पराक्रमस्यैतदादिभिर्वारितत्वादिति चेन्न । एकैकग्रन्थविलोकयितृमन्द-संविद एवं वक्तव्यत्वात् ॥
ततश्चायं श्लोकार्थः ॥ महदहमादयो महच्चाहं च महदहं तावादी येषां तदभिमानिनां पद्मभवभवादीनां तत्पदेन ग्रहः । अहमित्यव्ययादापित्यस्य लोपः । यथोक्तं सुधायाम् । यत्प्रकृतिपरिणामवाचि मकारान्तमव्ययमहंपदं न जातु तदात्मनि प्रयुज्यत इति । न च द्वितीयस्त्वहमः सर्ग इत्युक्तेः कथमव्ययतोक्तेति वाच्यम् । तदपि षष्ठीप्रतिरूपकमव्ययमेवेति सुधाभाव इति न तद्विरोधः । यदनुग्रहतः । ल्यब्लोपनिमित्तेयं पञ्चमी । यस्य तवानुग्रहं प्राप्याण्डं ब्रह्माण्डमसृजंस्तस्य ते । यद्यसुहृदोऽनाप्ता रिपव इति यावत् । तर्हि ते दृतय इव कार्वगारचुल्यधोधूमध्वजधमनस्थापितचर्मविशेषवदुच्छ्वसन्ति तमसि दुःखमनुभवन्तो दीर्घश्वासं कुर्वन्ति । अत्र चरमा मानवोत्तमाः, मध्यमा ऋषिगन्धर्वादयः, उत्तमा रुद्राद्या आदिर्ब्रह्मा मुख्यतोऽग्रत एव मुक्तत्वात् । तेषु पुरुषेषु तन्मध्य इति । यस्तव सदसतः कार्यकारणतो मूर्तादमूर्ताच्च परं विलक्षणमृतं शाश्वतमविशेषमवतारगुणकर्मविशेषरहितं पदं प्रथयेत् शिष्या-दिषूपदिशेत्स पुरुषः । पुरुषविधान्वयः पुरुषविधस्य जीववद्देहे सतोऽप्यसक्तत्वात्तथा । पुरुषं ब्रह्माणमादौ विधत्त इति वा पुरुषविधस्तस्य तवान्वयोऽनुकूलः सम्बन्धो यस्य स सदा तवानुगोऽनुगमनवान् भवतीत्यर्थः ॥
कृष्णपक्षे ॥ कालियकामिनी काचिद्विवेकिनी देवमाह– दृतय इवेति । असुहृदो दुर्बुद्धेः । सदसतः संश्चासावसंश्च तस्मात् । सन्कुङ्कुमगलमङ्गलसूत्रमात्राधारतया संश्चास्मद्र-क्षणाद्यदक्षतयेति कालियस्य । हे पुरुषविध । हे रमोत्तममध्य रमयाऽऽरूढयोत्तमं मध्यं मध्यप्रदेशो यस्य सः । ‘मध्यं न्यायेऽवकाशे च लग्नक’ इति विश्वः । लग्नकं कटाविति तदुक्तेः । आरूढं जगदम्बयेत्यादेः । हे महदोत्सवदातः । यदि त इति । अदयोह-माऽहन्तयेत्यर्थः । अहङ्कारश्च हङ्कार इति द्विरूपकोशः । अव्ययम् । निर्दयः परमत्यन्तं मा स्यात् । पुरतः कार्यमस्ति नाधुना मधुनाथ तन्निष्पत्तिरित्याह । यदनुग्रहतः कालियानु-ग्रहादितरास्तरुण्योऽण्डं गर्भाण्डं नासृजन्नापत्त्योत्पत्तिरिति । त्वमादिषु राक्षसेषु न गणनीयः । आदिनो राक्षसा इति तात्पर्यान्तरात् । एतदवस्थायां हननं रक्षः कार्यं त्वं न स इति सदयः स्या इति भावः । अनुग्रहत उग्रनामा वृक्षरूप्यसुरस्तेन न हत इत्यनुग्रहतस्त्वमिति वा । ता दृतय इवोच्छ्वसन्ति । अत्रैतदवस्थायाम् । हे इद कामितद यस्तव । अनुग्रह इत्येकदेशावृत्तिः । शब्दानुशासनं केषां शब्दानामिति । यथाऽनुग्रहो, विशेषं विना नित्य-रिपुणा गरुडेन शिष्यत इति विशेषः स चासौ मृतश्च तम् । मा चर । हे मोत्तममध्येति सम्बुद्धिः । तेन च तमनुग्रहं प्रथय । किञ्च योऽन्वयोऽस्मद्वंशस्तं च प्रथय विस्तारयेति ।
हरे वदेति गोपीनां वचनम् । तथा हि । चरमोत्तममध्यमादिजीवेषु ये महदह-मादयोऽण्डमसृजन् । ब्रह्माण्डं ससृजुरिति मानेनेत्यर्थः । यदि ते मादयः सदयाश्चेत् । मा चेदसुहृदः स्वप्राणत्राणमात्रपरा दृतय इवोच्छ्वसन्ति । यदनुग्रहतो यशोदानुग्रहाद्यस्तव सहाय-भूतः स ब्रह्मादिस्तस्य । सदसतः स्वरूपभूतः सदिति व्यवहारपात्रस्यासतः कार्यात् । सतः । हे अ भगवन् । ऋतं यथार्थभूतं परमन्यं विशेषं ब्रह्माण्डम् । सन्ततं चिन्तयेऽनन्तमन्तकाले विशेषत इत्यत्र विशेषतो विशेषं ब्रह्माण्डमिति व्याख्यातत्वात् । असृज आस्ये किल तदा ते के भवान् । तेन भवान्पुरुषाणां विधा प्रकारस्तस्यान्वयः सम्बन्धमात्रमत्रेति प्रथयेदेव । ते चाकार्यकारिण इति प्रख्यातिरभवदिति भावः । एतन्माहात्म्यं मम कुत इत्यत आह । यद्यतोऽनुग्रहत उग्रैैर्हेतोर्वाऽत्रोग्रनामकोऽसुरो विषभूरुहरूपी वा तेन न हत इति । तमुग्रनामार्हचरित्रमूहे सविषद्रुममित्यादेः । अथवा चरमोत्तममध्यमादिष्वतिसमीपासमीप-वर्त्यादिषु गोपीजनेषु त्वमेक एव पुरुषविधः सम्बन्धवान् । यदि ये च सुहृदः शुद्धबुद्धयः । हे महद अमादयः सदयास्तर्हि तेषां दृतय उच्छ्वसन्तीव हस्तन्यस्तचर्मपात्राणि यस्य तवानुग्रहार्थमण्डं दध्यादिकं तदप्यसृजन् । यो भवान् सदसतस्तत्रैव सन्नसंश्च तस्य तव सदयकटाक्षश्चेत्तर्ह्यर्विशेषं परं रूपान्तरमृतं यथार्थरूपं प्रथयेत् । अण्डं दध््नयपि च क्वचिदिति विश्वः । अण्डं खगादिकोशे स्यादिति च ॥
ततश्चायं श्रुत्यर्थः ॥ असुखोद्भरिता असुखं दुःखं तस्य य उद्भरो महाभरः सञ्जातो येषां ते तथा तमसि प्रविष्टा अनिशमुच्छ्वसन्ति । तव गुणानां प्रथनं शब्दप्रपञ्चो येषां ते ते सन्तस्तमोऽज्ञानं तत्प्राप्यं तमश्च परिहाय दूरीकृत्याजस्रमनन्तसुखं ते पदं परियन्ति गच्छन्ति । सदसत्फलमेवंरूपमिति भावः ॥ १८ ॥ (४)
उदरमुपासते यर्हि वर्त्मनि सूक्ष्मदृशः परिसरपद्धतिं हृदयमारुणयो दहरम् ।
**तत उदगाच्च नन्दनपथाऽथ शिरः परमं पुनरिह यत् समेत्य न पतन्ति **
कृतान्तमुखे ॥ १९ ॥
तात्पर्यम्
यर्हि यस्माद् ब्रह्मवर्त्मनि । सूक्ष्मदृक्त्वाच्छार्कराक्ष्य(क्ष)नामानः ॥ प्राणं प्रत्युरुगृणीहीति वचनादुदरनामकं ब्रह्मोपासते ॥ यस्माच्चारुणयो हृद्ययनाद्धृदयनामकं तस्मादेवैतत्समुपेत्य कृतान्तमुखे न पतन्ति ॥ इतरेऽपि । परिसरः प्राणः पद्धतिर् मार्गो यस्य सः परिसरपद्धतिः ॥ कस्मिन्न्वहमुत्क्रान्ते उत्क्रान्तो भविष्यामि । कस्मिन्वा प्रतिष्ठिते प्रतिष्ठास्यामीति । स प्राणमसृजतेति श्रुतिः ॥ प्राण एवैनमनुप्रविशति प्राणमितरा देवता न प्राणादपरः परमनु प्रविशति प्राण एवैनमनुभुङ्क्ते प्राणमितरा देवता न प्राणादपरः परमनुभुङ्क्ते प्राण एवैनमन्वानन्दी भवति । प्राणमितरा देवता न प्राणादपरः परमानन्दी भवति तस्मादाहुः प्राणः पद्धतिरिति हिरण्यनाभश्रुतिः ।
अतः परिसरस्य पद्धतिरिति वा ॥ ततो हृदः । नन्दनपथा ब्रह्मनाडीद्वारा शिर उदगाद् यत् त्वपरं ब्रह्म तत्समुपेत्य । पुनरिहैव हृदादिषु स्थितं तत् ॥
तं प्रपदाभ्यां प्रापद्यत ब्रह्मेमं पुरुषं यत्प्रपदाभ्यां प्रापद्यत ब्रह्मेमं पुरुषं तस्मात्प्रपदे तस्मात्प्रपदे इत्याचक्षते । शफाः खुरा इत्यन्येषां पशूनाम् । तदूर्ध्वमुदसर्पत्ता ऊरू अभवतामुरु गृणीहित्यब्रवीत्तदुदरमभवदुर्वेव मे कुर्वित्यब्रवीत्तदुरोऽभवदुदरं ब्रह्मेति शार्कराक्ष्या उपासते । हृदयं ब्रह्मेत्यारुणयो ब्रह्मा हैव ता ई । ऊर्ध्वं त्वेवोदसर्प-त्तच्छिरोऽश्रयत यच्छिरोऽश्रयत तच्छिरोऽभवत्तच्छिरसः शिरस्त्वं ता एता शिर्षञ्च्छ्रियः श्रिताश् चक्षुः श्रोत्रं मनोवाक् प्राणः श्रयन्तेऽस्मिन् श्रियो य एवमेतच्छिरसः शिरस्त्वं वेदेत्याद्या श्रुतिः ॥ १९–५ ॥
पदरत्नावली
‘शर्करा क्षुद्रपाषाणे सुसूक्ष्मे खण्डिते गुडे’ इति, ‘शर्करा तु शिलाभेदे ऋग्भेदाल्पकपालयोः’ (इति), ‘शर्करं तत्र देशेषु सितायां शकले गुडे’ इति च (अभिधानम्) । अतः शर्कराक्षाः सूक्ष्मदृष्टयस्तेषु ख्याता शार्कराक्षास्त एव ब्रह्मणि सूक्ष्मदृष्टयो हरेरशेषविशेषान् विजानन्तो यर्हि यस्मात् प्राणं प्रत्युरु गृणीहीत्यब्रवीदिति वचनादुदरनामकं ब्रह्मोपासते । उदरं पूर्णं ब्रह्म । उद्गतोऽरः परिच्छेदो यस्मात्तदुदरं पूर्णमित्येकार्थत्वात् । यस्माच्चारुणयो हृद्ययनाद् हृदयनामकं ब्रह्मोपासते । यस्माच्चेतरे माण्डूकेयादयो दहरमाकाशादप्यतिसूक्ष्मं (ब्रह्मोपासते) परिसरो मुख्यप्राणः पद्धतिर्मार्गो यस्य स तथा । परिसरस्य पद्धतिर्वा । तदुपासते तद् ब्रह्म । ततो हृदो नन्दनपथा ब्रह्मनाडीद्वारा शिरः प्रत्युदगात् । अथ यत् परमं ब्रह्म पुनरिह हृदयादिषु स्थितमुपास्य तत्समीपमुपेत्य कृतान्तमुखे संसारे न पतन्तीत्यन्वयः ॥ १९ ॥
सत्यधर्मीया
उदरमुपासते यर्हि वर्त्मनीति श्लोके प्रसिद्धोदराद्यादरः कर्तव्यतयोच्यते । तथा न प्रतीयते च पदानां परस्परमन्वय इत्यतः स्वयमन्वयप्रदर्शनपूर्वकमर्थमाह । यर्ही-त्यनुवादो यस्मादिति व्याख्यानम् । वर्त्मनीति कस्मिंश्चिन्मार्ग इति प्रतीतिं वारयन्नध्याहृत्य किञ्चिद्योजनां दर्शयति– ब्रह्मवर्त्मनीति । शार्कराक्षा इति ते कुत इत्यतो मौलं सूक्ष्मदृश इति तत्प्रवृत्तिनिमित्तमिति सूचयितुं व्याख्याय तद्योजनां दर्शयति– सूक्ष्मदृक्त्वाच्छार्कराक्ष-नामान इति । उक्तं चैतरेयभाष्ये । ‘सूक्ष्मदृष्टियुता ये तु मुनयः शार्कराक्षकाः(क्ष्य) । उदरे ते परं सूक्ष्मं वासुदेवमुपासते ॥’ इत्यादिना । ‘शर्करा क्षुद्रपाषाणे सुसूक्ष्मे खण्डिते गुडे । शर्करा तु शिलाभेदे भेदे चाल्पकपालयोः’ इत्यभिधानात् सूक्ष्मेति व्याख्यानं युक्तम् । शर्करा सुसूक्ष्माण्यक्षाणीन्द्रियाणि तद्भवं ज्ञानं शर्कराक्ष्यं तस्येमे शार्कराक्षा इति निरुक्तिरुक्ता भवति । शङ्करभाष्ये शर्कराक्षस्यापत्यानि शार्कराक्षा ऋषय इति व्याख्यानं तत्सूक्ष्मदृश इति न सूक्ष्मदृशस्त इति द्योतयति । न च वचः सम्भवति न तद्भागवतमेतद्व्याकृतिरूपमिति । उदरं शार्कराक्ष्या आरुणयः शिरआदिपदानि तज्ज्ञापकानीति । अतो नावगतभागवतकास्त इति ज्ञायते । एवमुत्तरत्रापि ज्ञेयम् । यत्तु गृणीहीत्यस्य ग्रसनं कुरु बहुनिगरणयोग्यं विफुलं छिद्रं कुर्वित्यब्रवीदित्यर्थ इति शङ्करभाष्ये व्याख्यातम् । तत्तु गॄ निगरण इति तु तौदादिकः शब्विकरणधातुः । तस्य विभाषेति लकारे विकल्पेन सति च, ऋत इति इद्धातोरितीत्वे गिर, गिलेति भवेन्न गृणीहीति । चिन्त्यम् । गृशब्दे क्य्रादिर् लोटि, लोटः सेर्ह्यपिच्चेति हिः । क्र्यादिभ्यः श्नेति श्ना । ईहल्यघोरितीत्वम् । प्रादीनामिति ह्रस्वः । ऋवर्णान्नस्येति णत्वे गृणीहि स्तुतिरूपं शब्दं कुर्विति व्याख्यातृभिः सायणाचार्यैरेव स्वाचार्यवरीवस्या-चरितेति नास्मदायास नोनुकूलम् इत्यवसेयम् । धातूनामनेकार्थत्वात् श्नाविकरणस्थस्यैवै-तदर्थकत्वमिति तत्स्वयूथ्यप्रतिकूलमिति नानुकूलम् । न च धात्वर्थानुगमादभ्युपगमनीयत्व-मस्येति वाच्यम् । व्युत्पत्तिमात्रप्रदर्शनं न त्ववयावार्थानुगम आवश्यक इति वदद्भि-र्वैयाकरणैरेव गतेरुक्तत्वात् । अत्र तु समैवार्थानुगतिरिति न तदर्थावश्यकतेति वक्ष्यमाण-मानविरोधश्च । प्राणं प्रत्युरु गृणीहीति वचनाद्ब्रह्मोदरनामकमित्युदरशब्दप्रवृत्तिनिमित्ततोक्तिः । उ इत्युर्वर्थम् । गकारस्य च दकारो निर्वचनत्वात् । शूद्ररुद्रादिशब्दवत्पौत्रायणत्रिनेत्रादावयं शब्दः । ते च तन्नामकं ब्रह्मोपासते ।
यर्हीत्यावर्तितस्य पूर्ववद्यस्मादित्यर्थ इत्यज्ञविज्ञाताया आह– यस्मादिति । आरुणे-योऽरुणिपुत्रः । बाव्हादिनिञ् । हृद्ययनादिति तत्प्रवृत्तिनिमित्ततोक्तिः । एवमुत्तरत्राप्यनु-सन्धेयम् । हृदि अयनात्तदधिकृत्य सत्त्वाद्धृदयनामकम् । अयते हृदीति हृदयमिति विग्रहः । तत इत्यर्थस्तस्मादिति । एतदुदरहृदयशब्दवाच्यमविशेषं समुपेत्य । भक्त्याद्युपेततामुपासनस्य संशब्दो द्योतयति । समुपेत्य स्थितास्ते कृतान्तमुखे मृत्युमुखे न पतन्ति । न पुन-रुत्पत्स्यन्त इति स्वत एव लाभादनुक्तिः । इतरे शार्कराक्षारुणिभिन्ना माण्डूकेयादयः । परिसरपद्वतिं परि सर्वान्वर्जयित्वा स्वयं स्वातन्त्र्येण सरति शरीरादिकं गच्छतीति परिसरो वक्ष्ममाणरीत्येति प्राणः स पद्धतिर्मार्गः स्वं प्रत्यागतो यस्य स दहरो विष्णुस्तम् । नपुंसकं विशेष्यं चेत्परिसरपद्धतीति स्यात् ।
कथं प्राणो मार्ग इत्यत आह– कस्मिन्न्वहमिति । कस्मिन्नुत्क्रान्ते देहादहमुत्क्रान्तो भविष्यामि । कस्मिन्वा प्रतिष्ठिते प्रतिष्ठास्यामीत्यालोच्य प्राण एवैतत्कर्तेति निश्चित्य । स हरिः प्राणमसृजतेति श्रुतेः । प्राणोद्गमनानुद्गमनद्वारभूतो हरिरिति स परिसरपद्धतिरिति तात्पर्यम् । स ईक्षाञ्चक्र इति पूर्वेणान्वयः । स पुरुषः कल्पादौ कलाः सृजानीतीक्षाञ्चक्रे चिन्तितवान् । पुनश्च कस्मिन्पुरुषे शरीरादुत्क्रान्तेऽहमुत्क्रान्तो भविष्यामि । कस्मिन्वा तत्र प्रतिष्ठितेऽहमपि प्रतिष्ठास्यामि प्रतिष्ठितो भवामि । को नु मद्वशीकरणक्षमभक्तिज्ञानादिसम्पन्नो यन्निमित्तीकृत्याहं कलाः सृजानीत्येवमीक्षित्वा तादृशः प्राण एवेति निश्चित्य स पुरुषः प्राणं जीवकलाभिमानिनमसृजतेति षट्प्रश्नटीकातोऽर्थविशेषो ज्ञेयः । केचित् कस्मिन् भविष्य-द्ब्रह्मणि वायावित्यर्थापयित्वाऽस्मिन्पक्षे सर्वनामत्वं छान्दसमित्यभ्युपयन्तो न षट्प्रश्नटीकां विलोकितवन्त इव कमर्थविशेषमवलोकितवन्त इति न जानीमः । परिसरः पद्धतिर्यस्येति विग्रहमङ्गीकृत्य मानं तत्रोदाहृत्य परिसरस्य पद्धतिरिति विग्रहोऽपि सम्भवतीति मान-मुदाहृत्य तं दर्शयति– प्राण इति । प्राण एवैनं हरिमनु प्रविशति तं प्राणमितरा देवता अनुप्राविशन्नित्यन्वयः । प्राणादपरोऽन्यः परो नानुविशति । प्राणप्रसादमन्तरेण केवलं हरिप्रसादात् । प्राण एवैनं हरिमन्वनुसृत्य भक्तेरितरा देवताः प्राणमनु भुञ्जते । प्राणादपरः परं साक्षान्नानुभुङ्क्ते । एनं भगवन्तमनु प्राण आनन्दी भवति । प्राणमन्वितरा देवता आनन्दिनो भवन्ति । ईशकोशनिवेशाद्रमाया आधिकारिकेष्वियदामननादित्यादेर्न प्राणादि-त्युक्त्यभिप्रायो ज्ञेयः ।
उपसंहरति श्रुतिः– तस्मादिति । प्राणपद्धतिरिति भगवन्तमाहुः । अत एतच्छ्रुतेः परिसरस्य वायोः पद्धतिरिति व्याख्यानमित्यर्थः । तत उदगादित्यत्र तच्छब्दपरामर्श्यं दर्शयति । ततो हृद इति । हृदयमिति प्रस्तुताद्धृद इत्यर्थः । नन्दनपथेत्यनूद्य व्याख्याति– नन्दनपथा ब्रह्मनाडीद्वारेति । अथ शिरः प्रत्युदगाद्यत् परमं सर्वोत्कृष्टं यद्ब्रह्म पुनर्हृदादिषु स्थितं तत् समुपेत्य स्थिताः कृतान्तमुखे न पतन्तीत्यर्थः । अन्वयव्यतिरेकाभ्यां प्राणस्य भगवत्पद्धतित्वं भगवतः प्राणपद्धतित्वं चेत्युभयथा परिसरपद्धतिपदार्थो ज्ञेयः ॥
ततश्चायं श्लोकार्थः ॥ यर्हि यस्मात् सूक्ष्मदृशः स्वयोग्यतानुसारेण वर्त्मनि ब्रह्ममार्गे सूक्ष्मब्रह्मज्ञाः । श्रुतिगतशार्कराक्षपदार्थहेतुकथनम् । उरु मां गृणीहीति हरिर्वायुमवादीदिति तत्स्थानम् । उरगं तदेवोदरमभवत् । तत्त्वेनोपासते शार्कराक्ष्याः । आरुणयस्तन्नामान ऋषयः हृद्ययत इति हृदयं च ब्रह्म तदेव दहरं सूक्ष्ममुपासते । एतदुभयेतरे माण्डूकेयादय परिसरपद्धतिं परिसरो वायुः पद्धतिर्मार्गो यस्य स तम् । दहरमित्यात्राप्यन्वेतव्यम् । दहरं विष्णुं, परिसरस्य प्राणस्य पद्धतिं तमिति वा । उपासत इति पूर्वत्रेवात्राप्यावृत्तमन्वेति । तनुत्वेऽप्यखिलम्भरमित्युक्तेः । ततो हृदः । नन्दनपथा नन्दयति स्वतो गतं जीवमिति नन्दनश्चासौ पन्थाश्च मार्गस्तेन । अथ शिर उदगाद्यत्परमं ब्रह्म पुनरिह हृदादिषु स्थितं तत्समुपेत्य भक्त्यादिसाहित्येन तं विचिन्त्य कृतान्तमुखे पुनर्जन्मापादको यो नाश-स्तत्साधने । अयं पादशब्दस्य पदादेशो हिमकाषिहतिष्विति स्मरणात् । मुखे न पतन्ति लिङ्गभङ्गः परमवशिष्यते तेषामिति तात्पर्यम् । नन्दनपथेत्यत्रानित्यतया नाप्रत्ययः ॥
कृष्णपक्षे ॥ वर्त्मनि नलकूबरौ प्रति गमनसमये मार्गे । सूक्ष्मदृश एवोदरं दाम-धामोपासते । यर्हि यदा तदैवारुणयो हृदयं ब्रह्मैव । लुप्तोपमेयम् । तमेव कार्यतो दहरं महत्तदेवोपासते । अणुत्वज्ञास्त इति भावः । परिसरपद्धतिं परिसरस्य परितः सरतीति तदनस्तस्य पद्धतिर्येन तं दहरमणुरूपं कृष्णं ये उपासते च । इना इच्छया हयन् हयवदाचरन् यः केशी तस्य सः संवारणं येन स तम् । यद्वा परिसरो मृत्युमात्रं तस्य पदा हतिर्येन तम् । परिसरो मतो मृत्यौ दैवोपान्तप्रदेशयोरिति विश्वः । नन्दनपथा नरकासुरं हत्वा नत्वाऽदितिं दत्वा तस्यै कुण्डले पारिजातं गृहीत्वा तदिन्द्रवनमार्गेणोदगाद्भवांस्तम् । इहयत्सं रमयासत्यभामया सह । ङ््यापोः सञ्ज्ञाछन्दसोरिति ह्रस्वः । इनेच्छया वा हयन् गच्छंश्चासौ स साररूपश्च तं परमम् । वर्णस्य वर्णयोर्लोप इत्युक्तेर् उलोपे, परि उपरि सरिष्यति पतिष्यतीति तदनो वा । परोरिरिति मा ज्ञानमस्मिन्कर्मणि यथा तथोपेत्याप्यमरा इति शेषः । शिरोऽकृतमुपेत्येत्यत्रान्वेति । कृतान्तमुखे न पतन्ति न मारिता इति यावत् । तमुदरमित्याद्यन्वयः । करुणालुर्हरिरिति भावः ॥
ततश्चेमौ श्रुत्यर्थौ ॥ तं प्रपदाभ्यां प्रापद्यत ब्रह्मेमं पुरुषं यत्प्रपदाभ्यां प्रापद्यत ब्रह्मेमं पुरुषं तस्मात्प्रपदे इत्याचक्षते । शफाः खुरा इत्यन्येषां पशूनाम् । तदूर्ध्वमुदसर्पत्ता उरू अभवतामुरु गृणीहीत्यब्रवीत्तदुदरमभवदुर्वेव मे कुर्वित्यब्रवीत्तदुरोऽभवदुदरं ब्रह्मेति शार्कराक्षा उपासते हृदयं ब्रह्मेत्यारुणयो ब्रह्मा हैव ता३ ई ऊर्ध्वं त्वेवोदसर्पत्तच्छिरोऽश्रयत यच्छिरोऽ-श्रयत तच्छिरोऽभवत्तच्छिरसः शिरस्त्वं ता एताः शीर्षंच्छ्रियः श्रिताश्चक्षुः श्रोत्रं मनो वाक् प्राणः श्रयन्तेऽस्मिंच्छ्रियो य एवमेतच्छिरसः शिरस्त्वं वेद ।
ता अहिंसन्ताहमुक्थमस्म्यहमुक्थमस्मीति ता अब्रुवन् हन्तास्माच्छरीरादुत्क्रामाम । तद्यस्मिन्न उत्क्रान्त इदं शरीरं पत्स्यति तदुक्थं भविष्यतीति वागुदक्रामदवदन्नश्नन् पिबन्ना-स्तैव । चक्षुरुदक्रामदपश्यन्नश्नन् पिबन्नास्तैव श्रोत्रमुदक्रामदशृृण्वन्नश्नन् पिबन्नास्तैव । मन उदक्रामन्मीलित इवाश्नन् पिबन्नास्तैव । प्राण उदक्रामत्तत्प्राण उत्क्रान्तेऽपद्यत तदशीर्यता-शारीती३ तच्छरीरमभवत्तच्छरीरस्य शरीरत्वम् । शीर्यते हवा अस्य द्विषन्पाप्मा भ्रातृव्यः पराऽस्य द्विषन्पाप्मा भ्रातृव्यो भवति य एवं वेद । ता अहिंसन्तैवाहमुक्थमस्म्यह-मुक्थमस्मीति ता अब्रुवन्हन्तेदं पुनः शरीरं प्रविशाम तद्यस्मिन्नः प्रपन्न इदं शरीरमुत्थास्यति तदुक्थं भविष्यतीति । वाक् प्राविशदशयदेव । चक्षुः प्राविशदशयदेव । श्रोत्रं प्राविशदश-यदेव । मनः प्राविशदशयदेव । प्राणः प्राविशत्तत्प्राणे प्रपन्न उदतिष्ठत्तदुक्थमभवत्तदेतदुक्थं प्राण एव प्राण उक्थमित्येव विद्यात्तं देवा अब्रुवंस्त्वमुक्थमसि त्वमिदं सर्वमसि तव वयं स्मस्त्वमस्माकमसीति तदप्येदृषिणोक्तं त्वमस्माकं तव स्मसीति ।
अथ भाष्यम् ।
तमिमं प्रथमज्ञानिपुरुषं चतुराननम् ।
वासुदेवाभिधं ब्रह्म प्राप प्रपदयोः पुरा ॥
यस्मात्प्रपेदे भगवान्प्रपदाच्चतुराननम् ।
तस्मात्प्रपदनादेव प्रपदं नाम कीर्तितम् ॥
चतुर्मुखाकारवतां नृणां पादतलोपरि ।
प्रपदाख्या वर्ततेऽतो न तु पश्वादिनां क्वचित् ॥
अयादूर्ध्वं ततो विष्णुः प्रपदादूरुमत्र च ।
स्थित ऊरू च तावास्तामूरूर्ध्वगमनाद्धरेः ॥
किञ्चिदूर्ध्वं ततो गत्वा वायुना सह केशवः ।
वायुमाहोरुगरणं कुर्वत्र स्थित इत्यपि ॥
उर्वेव गरणं चक्रे वायुर्यत्र स्थितः सदा ।
तत्स्थानमुदरं नाम पुनराह जनार्दनः ॥
उरु स्थानं निवासं मे कुरु विस्तारसंयुतम् ।
तथाऽकरोत्स वायुश्च तदुरोऽभूदुरुत्वतः ॥
उरोमध्ये च हृदयं तत्रावासो हरेः सदा ।
सूक्ष्मदृष्टियुता ये तु मुनयः शार्कराक्ष्यकाः ॥
उदरं ते परं ब्रह्म वासुदेवमुपासते ।
हृत्स्थमेव परं विष्णुं ध्यायन्त्यारुणयः सदा ॥
उदरस्थं च हृद्गं च त उभे ब्रह्म तत्परम् ।
एकमेव यतस्तस्मादुभये ह्यपि तद्विदः ॥
तत ऊर्ध्वं गतो विष्णुर्वायुना सह दैवतैः ।
स्थितो मूर्धनि देवेशः श्रितोऽसाविति तच्छिरः ॥
तत्र प्राणात्मना वायुर्मनोरूपेण शङ्करः ।
शेषः सुपर्ण इन्द्रश्च मनांस्येव पृथक् पृथक् ॥
अहम्भावमनोरुद्रः शेषोऽसौ पाञ्चरात्रकम् ।
वैदिकं गरुडश्चेन्द्रो यज्ञादिविषयं मनः ॥
श्रोत्रं चन्द्रो रविश्चक्षुर्वागग्निः परिकीर्तितः ।
एते देवास्तदन्ये च सर्वप्राणिषु संस्थिताः ॥
उपासते महाविष्णुं परमात्मानमच्युतम् ।
वाचा हिंसामकुर्वंस्ते विनिन्दन्तः परस्परम् ॥
ते विष्णोराज्ञायाऽवोचन्नुत्क्रामाम पृथक् पृथक् ।
देहादब्जभवस्यास्माद्यस्मिन्नुत्क्रान्त एव हि ॥
शरीरं पद्यते श्रेयान् स न इत्यवधार्यताम् ।
ततः क्रमेण चाग्न्याद्या निष्क्रान्तास्तेषु सर्वशः ॥
निष्क्रान्तेषु न वै पातः शरीरस्याभवत्क्वचित् ।
वायावुत्क्रान्त एवैतच्छरीरमपतत्क्षितौ ॥
उदासीनवदास्तां तौ केशवश्चाब्जसम्भवः ।
तेषां बलपरीक्षार्थं वाय्वादीनां च सर्वशः ॥
पुनस्ते प्राविशन् सर्वे वह्निसूर्यौ शशी शिवः ।
नोत्थानमभवत्तेषु प्रविष्टेष्वपि सर्वशः ॥
वायौ प्रविष्टे तूत्थानं कायस्यासीत्तदैव च ।
उच्चैः स्थितत्वादुक्थोऽभूद्वायुरेव ततः प्रभुः ॥
उच्चत्वं च गुणाधिक्यं त्वमुच्चोऽसीति तेऽब्रुवन् ।
भृत्या वयं तवैव स्मस्त्वमस्माकं पतिः सदा ॥
स्पर्धामहे त्वद्बलेन त्वया नान्येन केनचित् ।
इत्यूचुर्वीन्द्रशेषेशशक्रचन्द्रादिकाः पृथक् ॥
वायुः स संस्तुतस्तैश्च प्रसन्नोऽभूद्दिवौकसाम् ।
स्वभागहरणाद्यानात्फलानां यापनान्नृणाम् ॥
हृदयं भगवान्विष्णुः……॥’
इति बृहद्भाष्योक्तेर्निरुक्त्यन्तरं चानुसन्धेयम् । भाष्यकृता स्पष्टं व्याख्यातेय-मैतरेयोपनिषदिति न व्याख्यातेति ज्ञेयम् । उभये इति प्रथमाबहुवचनम् ॥ १९ ॥ (५)
स्वकृतविचित्रयोनिषु विशन्निव हेतुतया भरतमतश्चकास्स्यनलवत् स्वकृतानुकृतिः ।
**अपि वितथास्वमूष्ववितथोरुविधं मनसि निकटधियो नयन्त्यभिविपत्य तव **
॥ २० ॥
तात्पर्यम्
विचित्रयोनिषु विशन् जीवस् तद्वदज्ञानां चकास्सि ॥ अनलो यथा स्वकृतं दार्वादि तदपनयने गच्छन् तत्स्थापने तिष्ठन्ननुवर्तते ॥ एवमेव स्वकृतशरीरा-द्यनुवर्तसे तद्गतः सन् ॥ भरतमतो वायुज्ञातः । अन्यथा भवन्तीष्वपि योनिषु अनन्यथा-भूत्वैव बहुविथं तिष्ठन्तं भवन्तं त्वत्समीपस्थबुद्धयो महान्तस्तवाभिपत्य मनसाऽधिगम्य मनसि त्वां नयन्ति ॥ रतत्वाद्भात्मके विष्णावथवाऽपि जगद्भृतेः । भरतो वायुरुद्दिष्टो भारती तत्सरस्वती ॥ इति नामसंहितायाम् ॥
योनिवेश्याह्वयो जीवस्त्वज्ञानां तद्वदेव तु । प्रकाशते परो देवस्तेन यान्त्यधरं तमः । सर्वहेतुतयैवेशं प्राणो जानाति तत्त्वतः । तेन चासौ परो देवस्तत्परं याति केशवम् । इन्धनानयने त्वग्निर्यथैवानीयते सह । एवं देहगतो विष्णुः सह गच्छेन्निजेच्छया । अशाश्वतेषु देहेषु शाश्वतं बहुधा स्थितम् । निचाय्य मनसा सन्तो जानन्ति निकटे तव ॥ इति तन्त्रभागवते ॥
यो जीववद्योनिषु भात्यनन्तो मूढैस्तमोगैर्भरताधिगम्यः । निचाय्य तं शाश्वत-मात्मसंस्थं तदिच्छवोत्मन् न्यदधुर्महान्तम् ॥ इति कमठश्रुतिः ॥ २०–६ ॥
पदरत्नावली
स्वकृतविचित्रयोनिषु स्वनिर्मितसुरनरादिनानाविधशरीरेषु विशन्निव विशन् जीवस्तद्वदज्ञानां यस्त्वं चकास्सि । कथमिव ? अनलवत् स्वकृतानुकृतिः । यथाऽनलः स्वकृतस्यानुकृतिर्यस्य स तथा स्वकृतदार्वादेरपनयने गच्छन् तत्स्थापने तिष्ठन् अनुवर्तते एवं स्वकृतशरीरादिष्वनुवर्तसे तद्गतः सन्नित्यर्थः । ज्ञानिमतमाह– हेतुतयेति ॥ सर्वहेतुतया भरतेन भे ज्ञानात्मके विष्णौ रतेन वायुना मतो ज्ञातः । ‘रजत्वाद् भात्मके विष्णावथवाऽपि जगद्भृतेः । भरतो वायुरुद्दिष्टो भारती तत् सरस्वती ॥’ इति स्मृतेः । वितथासु अन्यथाभवन्तीष्वशाश्वतीष्वपि सम्भावितास्वसम्भावितास्वप्यमूषु योनिषु अवितथत्वेनान्यथाभूत्वैव शाश्वतत्वेन उरुविधं बहुविधं तिष्ठन्तं निकटधियस्त्वत्समीपस्थबुद्धयो महान्तस्ते तव त्वामभिविपत्य मनसाऽभिगम्य मनसि नयन्ति ध्यायन्तीत्यर्थः । ‘योनिवेश्याह्वयो जीवस्त्वज्ञानां तद्वदेव तु । प्रकाशते परो देवस्तेन यान्त्यधरं तमः । सर्वहेतुतयैवेशं प्राणो जानाति तत्वतः । तेन चासौ परो देवस्तत्परं याति केशवम् । इन्धनानयने त्वग्निर्यथैवानीयते सह । एवं देहगतो विष्णुः सह गच्छेन्निजेच्छया । अशाश्वतेषु देहेषु शाश्वतं बहुधा स्थितम् । निचाप्य मनसा सन्तो जानन्ति निकटेच्छवः ॥’ इत्यादितन्त्रभागवते सिद्धोऽयमर्थः ॥ २० ॥
सत्यधर्मीया
स्वकृतविचित्रयोनिष्विति श्लोकेऽप्रतिपत्तिविप्रतिपत्तिभ्यां स्वयं व्याख्याय मानमप्युदाहरति– विचित्रयोनिष्विति । स्वकृताः स्वकर्मनिर्मिता विचित्रा नानाविधा योनयस्तासु विशन् । अनेनान्याधीनतया निवेशं सूचयति । जीवस्तद्वत् तेन तुल्यं वर्तत इति तद्वत्त्वं चकास्सि । केषामित्यतः शेषं कृत्वाऽऽह– अज्ञानामिति । एककायनिकाय्यतया जीववद्दुःखित्वादि ये त्वयि जानते तेऽज्ञा इति भावः । तत्र दृष्टान्तमाचष्टे मूलकृत्किल तद्विविच्य व्याख्याति– अनल इति । प्रथमान्ताद्वतिः । स्वकृतं दार्वादि काष्ठतृणादिकम् । स्वकृतत्वं चाग्नेरापोऽद्भ्यः पृथिवीत्यादिक्रमेण पार्थिवत्त्वाद्दार्वादेर्ज्ञेयम् । तद्गत इत्यत्रापि योज्यम् । तद्दार्वादिगतोऽनलस्तदपनयने स्वयमपि गच्छति तत्स्थापने तिष्ठन्नेव तदनुवर्तते । एवमेवेश्वरः स्वकृतं यच्छिरादि तद्गतः सन् त्वमनुवर्तसे । भरतमत इति किं रामभ्राता किं वा जडभरतः किं वा दौष्यन्त इति न ज्ञायते । किञ्च तन्मात्रमतत्वस्य महत्त्वानापादकत्वा-दित्यतस्तद्व्याचष्टे– भरतमतो वायुना ज्ञात इति । वितथासु मिथ्यास्विति नेति स्वय-मुत्तरार्धार्थमाह– अन्यथा वृद्धिक्षयादिमत्तया । भवन्तीष्विति । योनिषु स्वयमनन्यथा भूत्वा वृद्ध्यादिहीनो भूत्वैव । उर्वित्यर्थो बव्हिति । बहुविधं तिष्ठन्तं भवन्तं त्वत्समीपस्थबुद्धयः । तत्वदन्तिक इत्यादेः । तव समीपस्थाः स्याम इति बुद्धिर्येषां ते । त एव महान्तस्तव त्वामभिगम्य ध्यात्वा मनसि त्वां नयन्ति । नयनं चात्रापरोक्षज्ञानम् । तद्वन्तो भवन्तीत्यर्थः । कुतो भरतो मारुत इत्यत आह– रतत्वादिति । भात्मके ज्ञानात्मके विष्णौ रतत्वादा-सक्तियुतत्वात् । अथवा भरणीयत्वाद् भरः जगत्तद्रूपभरणीयभर्तृत्वात्तेन ततत्वाद्वायुर्भरत इत्युद्दिष्टः । यस्माद्भरतो वायुस्तत्तस्मात्सरस्वती भरतस्येयमिति व्युत्पत्त्या भारतीत्युद्दिष्टेति विपरिणतमन्वेति । भरत एव भारतः । पुंयोगे ङीष् । तस्येयमित्यणन्तो वा ॥
ननु द्वितीयतृतीयाध्यागतचतुर्विंशखण्डे करम्भं सरस्वतीवान्भारतीवान्परिवाप इन्द्रस्यापूप इति हविष्यङ्त्यायजत्यृक्सामे वा इन्द्रस्य हरी पशवः पूषान्नं करम्भः सरस्वतीवान्भारती-वानिति वागेव सरस्वती प्राणो भरतः परिवाप इन्द्र इति बव्हृचब्राह्मणे प्राणो भरत इति स्पष्टमुक्तत्वाच्छ्रुतिमनुदाहृत्योदाहरणे स्मृतेः किं कारणमिति चेत् । सत्यम् । प्राणो भरत इत्येवोक्ते कुतो भरतो मारुत इति शङ्किते ततो गत्वा वक्तव्या तद्व्याख्यानरूपिणी स्मृति-रिति तामुदाहरन्मोदमुनिः शिष्यहितैषीति मनीषिभिर्विभाव्यम् । स्वोक्तार्थसर्वस्वे मानमाह– योनिवेशीति । तथाऽऽह्वयो नाम यस्य स जीवस्तज्जातं तद्वदेव जीववदेव परो देव-स्तद्विलक्षणोऽप्यज्ञानां प्रकाशते । तुशब्दस्तत्र तत्प्राप्ये च तरतमभावसूचकः । तेनैवं दर्शनेनाधरं तमो यान्ति । भरताधिगम्य इत्यत्र मानमाह– सर्वहेतुतयैवेति । प्राणः सर्व-हेतुतया तत्त्वतो जानाति । एवशब्दः प्राण एवेति प्राणपदसम्बद्धोऽधिकारिकेष्वेव वेदितारं व्यवच्छिनत्ति । तेन निमित्तेनासौ वा परो देव इत्युच्यते । यच्च परं केशवमनन्तं याति ततोऽपि परो देव इति सम्बन्धः । सह इन्धनेन । एवं देहगतो विष्णुः सह तेन देहेन गच्छेत् । ‘शैला इवोन्नताः सन्तः किन्तु प्रकृतिकोमला’ इतिवत्सादृशमेकेनोक्त्वोत्कर्षमपि तत आह– निजेच्छयेति । तत्र वीतिहोत्रागत्य गती नेत्रधीने अत्र तु निजेच्छयेति । निकटेच्छवः सन्तो निकटं समीपमिच्छन्तीति निकटेच्छवः सन्तोऽशाश्वतेषु देहेषु शाश्वतं बहुधा स्थितं भगवन्तं मनसा निचाय्य ध्यात्वाऽनन्तरं जानन्त्यपरोक्षीकुर्वन्ति । तात्पर्ये श्लोकार्थस्यानवशिष्टस्य पृथक् श्लोकार्थो न कृतः ।
पक्षान्तरे तु अनिष्वसम्भाव्या इति विचित्रा यः विचित्रयो नानाविधाश्च ता याः सम्पदश्च ताः सु अकृत कृतवान् । किञ्च स्वेन सह विशन्निवहे विशतां क्रीडार्थं क्रोडीकृत्य विशतां गोपीजनानां निवहे समूहे सति । भरतमतो भरतं कोकशास्त्रं मतं येन सः । हे स्व त्वं तयाऽन्यया सह नीतया कृतानुकृतिः सा यथा करोति तथैवानुकृतिर्यस्येति स चकास्सीति । अनलवज्जाज्वल्यमानास्विति वितथासु प्रागिवाविद्यमानास्वमूषु तासु गोपीषु सतीषु स्वप्रीणनाय तु पुनरवितथोरुविधं तां कान्तामतिहाय स्वसर्वस्वविषयेऽवितथाऽ-मोघोरुविधा प्रकारो यस्य स तम् । तव निकटधियः समीपसमापतनमानसाः सत्यस्त्वा-मभिविपत्य सन्धीभूय सङ्गम्य मनसि मनोविषये स्थाने नयन्ति रन्तुम् । हेतुतया जग-त्कारणतया सन्नपि स्वकृतविचित्रयोनिषु विशन्निव मानव इवेत्यर्थः । भरतः पाण्डवमूलपुरुषो मतस्तदेधनेन येन स संश्चकास्सि । अनलवत्स्व अनलो दावानलोऽस्यास्तीत्यनलवत्स्वं तज्जनकं मुखं यस्य तत्सम्बुद्धिः । कृताऽनुकृतिः शुकपिकादीनां स्वरादिभिर्येन सः । अमूषु तव क्रियावितथासु ध्यातुमशक्यास्वपीतरैर्निकटधिय उत्तमास्तव ता एवावितथोरुविधं यथा तथा मनसि विपत्य ध्यात्वाऽभि निर्भयं पदं नयन्ति । आत्मन इति शेषः । अवितथो-रुविधमभिपदमिति वाऽन्वयः । तव निकटधियाऽवितथोरुविधं त्वं मनस्यभिविपत्य ताः प्रजा ऊनयन्ति ऊनाः स्वतो न्यूना अधिकरताः कुर्वन्तीति वा । अनलवोऽनल्पः स नेत्य-नलवोऽधनः स इवाचारतीत्यनलवान् स चासौ स्वो हि तरुणीजनस्तस्य कृतानां कर्मणा-मनुकृतिर्येन सः । घनापद्यनः सन् तत्पूर्तिकर्तेत्यर्थः । या अतव न त्वमित्यत्वं तस्य अतव । त्वद्भिन्नस्य भर्तुरभि पुरतो विपति विपवत्खगपवदाचरति न स्थास्यति तमपास्य गमने खगवदाचरति तयेति पूर्ववदन्वयः ॥
ततश्चायं श्रुत्यर्थः ॥ योऽनन्तो भरताधिगम्यो वायुवेद्यो, मूढैरत एव तमोगैस्तत्पात-योग्यैस्तेषां योनिषु स्वसृष्टदेहादिषु जीववद्दुःखीति भाति । तदिच्छवस्त्वन्निकटलम्पटा महान्त आत्मसंस्थं स्वामिनं सन्तं शाश्वतं नित्यम् । शाश्वतं यथा तथाऽऽत्मसंस्थं मनस्येव विद्यमानं तथाऽपि तिरोहितम् । हे अ त्वां निचाय्य विचार्य त्मनि मनसि दधुर्धृतवन्तः । सोत्मनो मनसात्मना देवेष्वित्यादाविव मन्त्रेष्वाङ््यादेरात्मन इत्यालोपः । अदधुरिति श्लुवि-करणस्थस्य दधातेर्लुङि सिजिभ्यस्तेति हेर्जुस्यडागमे रूपं वा ॥ २० ॥ (६)
प्रक्रमवत् स्वसत्कृतं पुरुषेषु धीषु तु बहिरन्तरसच्चरणे ।
तव पुरुष वदन्त्यखिलशक्तिधृतः स्वकृतम् ॥ २१ ॥
तात्पर्यम्
सर्वपुरुषेषु सर्वधीषु च स्थित्वा श्रीब्रह्मादिषु प्रकर्षेण क्रमेण स्वात्मनैव सत्कृतम् ॥ अण्डाद्यन्तर्बहिश्च । असच्चरणे पापाचारे स्थित्वा पापाचारमपि स्वात्मनः पूजात्वेनैव कारयन्तं त्वां वदन्ति ॥ तस्याधोगत्यर्थम् । तस्मात्सर्वं तव स्वकृतमेव वदन्ति ॥
निषुसीद गणपते गणेषु त्वामाहुर्विप्रतमं कवीनाम् । न ऋते त्वत् क्रियते किं च नारे महामर्कं मघवं चित्रमर्च ॥ इत्याद्या श्रुतिः ॥
श्रीब्रह्मरुद्रपूर्वेषु क्रमात्स्थित्वा जनार्दनः । स्वात्मानमर्चयत्यद्धा बहिरन्तरसत्सु च । असतामधमाचारो हरिदृष्ट्याऽऽत्मपूजनम् । तस्याधोगमनायेति श्रुतिराहाखिलक्रियम् ॥ इति तन्त्रभागवते ॥ स्वकृतमित्यनन्यापेक्षया ॥ २१८ ॥
पदरत्नावली
सर्वेषु पुरुषेषु सर्वधीषु सर्वेन्द्रियेषु च स्थित्वा श्रीब्रह्मादिषु प्रक्रमवत् प्रकृष्टक्रमयुक्तत्वेन स्वसत्कृतं स्वात्मनैव सत्कृतं त्वां वदन्ति । किञ्च हे पुरुष बहिरन्तो ऽण्डाद्यन्तर्बहिश्च असच्चरणे असदमङ्गलं चरणं कर्म यस्यासावसच्चरणस्तस्मिन् पापाचारे स्थित्वा पापाचारमपि स्वात्मनः पूजात्वेन कारयन्तं त्वां वदन्ति । तुशब्देन तथाकरणं तस्याधोगत्यर्थमिति सूचयति । किं बहुना? तत् सर्वं तव स्वकृतमनन्यापेक्षया त्वयैव कृतं वदन्ति । कुत इति तत्राह– अखिलेति ॥ सर्वपुरुषेन्द्रियशक्तिप्रेरकत्वात् । श्रुतिश्लोकयोः सर्वत्रैकार्थत्वा-भावेनैकतन्नियतत्वद्योतनाय ज्ञायते । ‘श्रीब्रह्मरुद्रपूर्वेषु क्रमात् स्थित्वा जनार्दनः । स्वात्मान-मर्चयत्यद्धा बहिरन्तरसत्सु च । असतामधमाचारो हरिदृष्ट्याऽऽत्मपूजनम् । तस्याधोगमनायेति श्रुतिराहाखिलक्रियाम् ॥’ इत्यादिना । त्रिपादोऽयं श्लोकः ॥ २१ ॥
सत्यधर्मीया
प्रक्रमवदिति श्लोकं दुर्गमार्थत्वाद्व्याकरोति । सर्वपुरुषेषु । तुश्चार्थ इत्यभिप्रेत्य योजनामाह– धीषु चेति । न सङ्कुचितवृत्तिनी पुरुषधीपदे इति दर्शयितु-मुभयत्रापि सर्वपदाध्याहारः । मूलपदयोजनां दर्शयित्वा तद्विवृणोति– श्रीब्रह्मादिष्विति । स्थित्वेति सप्तमीलभ्यार्थं प्रदर्शयति । प्रार्थमाह– प्रकर्षेणेति । क्रमेण, अनेन प्रकृष्टश्चासौ क्रमश्चेति विग्रहं सूचयति । अखिलोत्कृष्टतयेत्यर्थः । स्वात्मनैव सत्कृतं पूजितम् । एवकारेणान्येषामसामर्थ्यं सूचयति । बहिरन्तरिति पदस्याव्यवहिताभिहितपुरुषधीपदेनान्वयभ्रमं भ्रंशयितुं किञ्चिद्योग्यमध्याहृत्यान्वयं दर्शयति– अण्डाद्यन्तर्बहिश्चेति । असच्चरणेऽसदसाधु । ‘सद्भावे साधुभावे च सदित्येतत्प्रयुज्यते । प्रशस्ते कर्मणि तथा सच्छब्दः पार्थ युज्यत’ इत्युक्तेः । चरणमाचारो यस्य स इत्यभिप्रेत्य व्याख्याति– पापाचारमपीति । चः सद्भिः पुरुषादिभिः सहेति समुच्चायकः । धीसमुच्चायको वा । जातावेकवचनम् । तत्र स्थित्वा तं पापाचारमहं ब्रह्मास्मीत्यादिरूपमाचारं स्वात्मनः पूजात्वेन कारयन्तं त्वाम् । पापोपचितमिदं कथमपचितिरित्यतस्तदुचितगतेः साधनत्वान्न हातुं योग्येत्याह– वदन्ति तस्याधोग-त्यर्थमिति । तस्मात्सर्वं सदसत्कृतं तव स्वकृतमेव वदन्ति प्रेक्षावन्तः ।
पुरुषपदेनैव द्वाविमौ पुरुषौ लोके क्षरश्चाक्षर एव च । क्षरः सर्वाणि भूतानि कूट-स्थोऽक्षर उच्यत इत्युक्ते रमाग्रहः । उपलक्षणया तत्तरुणीग्रह इति सूचयति बहुवचनमिति केचित् । अत एव माने श्रीब्रह्मेत्याद्युक्तिरिति वदन्ति । धीपदं स्त्रीलिङ्गं सद्रमादि-सर्वयोषि-दर्थकम् । अत एवाचार्यैस्तत्सर्वेति विशेषितम् । अन्यथा बहुवचनमात्रेण सर्वध्युपस्थिति-सम्भवे न वदेत् सर्वज्ञ इति ज्ञेयम् । ननु तर्हि ब्रह्मादिषु ध्यादिषु इति क्रमेण वक्तव्यं कुतः कृतो व्यत्यास इति चेन्न । सर्वधीषु चेत्यत्रत्यश्चः सर्वधीषु तथा सर्वपुरुषेषु चेति योजनीय इति सूचयितुमेवमुक्तिरिति ज्ञेयम् । तरतमभावस्य सर्र्वथाऽपि वक्तव्यत्वाद्धीशब्दार्थ एव पुरस्कार्य इति सूचयति मानमिति वदन्ति ।
स्वोक्तार्थद्रढिम्ने स्मृतिमुदाहरति– श्रीब्रह्मेति । क्रमादुत्कर्षक्रमानुरोधेन स्थित्वा जनार्दनः स्वात्मानं स्वतन्त्रं सर्वान्तर्यामिणं स्वं बहिरन्तो ब्रह्माण्डान्तर्बहिश्च स्थित्वा तथाऽसत्सु च स्थित्वा । असतां च तत्सम्बन्धी योऽधमाचारो हरिरिति स्वात्मनि दृष्टिर्हरिदृष्टिस्तया । अभेदे तृतीया । तद्रूपमात्मपूजनमधमाचारो नामेत्यर्थः । तस्यासतोऽधोगमनायेति । एवं हरिमखिलक्रियं भगवन्तं श्रुतिराह । ननु कर्ता शास्त्रार्थवत्त्वादित्यादिना स पात्रं बन्ध-मोक्षयोरित्यादिना च जीवकर्तृत्वावगतेः कथं स्वकृतमित्युच्यत इत्यतस्तदनूद्य तत्तात्पर्यमाह– स्वकृतमितीति । अनन्यापेक्षयाऽन्यनैरपेक्ष्येण मुख्यतया स त्वमुख्यतयेतर इति कर्तृत्वाकर्तृत्ववादौ जीवे सम्भवत इति ज्ञेयम् ॥
ततश्चायं श्लोकार्थः ॥ प्रक्रमशब्दनिबन्धनदशास्मृतत्रिविक्रमात्मा स्वो व्यासस्तस्य त्रिपात्त्वात्तथा श्लोकमपि त्रिपादं बबन्धैतदनुबन्धेनेति भावो विभावनीयः । शेषा गाथास्त्रिभिः षड्भिश्चरणैश्चोपलक्षिता इति वृत्तरत्नाकरोक्तेर्गाथेति नामैतस्य । पुरुषेषु ब्रह्मादिषु धीषु स्त्र्यादिषु ॥ ब्रह्माण्डाद् बहिरन्तश्च प्रक्रमवद्व्यक्तियुक्तत्वेन स्वसत्कृतं स्वात्मनैव सत्कृतं पूजितं त्वां वदन्ति । हे पुरुष । असच्चरणे । आचार इति सम्प्रोक्तः कर्माङ्गत्वेन शुद्धिदः । अशुद्धिदस्त्वनाचारश्चरणं तूभयं मतमिति भाष्योक्तेश्चरणशब्दो हि पङ्कशङ्कुरित्य-सत्पदम् । असच्चरणं यस्य स तस्मिन् । पापाचारमपि तव पूजात्वेन वदन्ति । तत्तद्गत्युचिता साऽप्यच्युत तवापचितिरेवेति भावः । एवं ब्रह्माण्डाद्यन्तर्बहिश्चाखिल-शक्तिधृतस्तव सर्वं स्वकृतमनन्यापेक्षयैव वदन्ति । तत्र तन्त्रमखिलशक्तिधृत्वम् ॥
कृष्णपक्षे ॥ इषुधीष्विषवो धीयन्तेऽत्रेति इषुधिर्धनुस्तत्सम्बन्धिन्यो यः सम्पदस्तासु तदुत्सवेष्विति यावत् । हे त आगत वा चोर वा । हे उषव उषं दवानलं वाति मुखं प्रति गमयतीति स तथा तत्सम्बुद्धिः । इगुपधकः । कित्वान्न गुणः । तव वपुः प्रक्रम-वत्स्वसत्कृतम् । प्रक्रमवन्तस्त्वां प्रति पादविक्षेपवन्तश्चाणूराद्यास्तेसु असत्कृता अवज्ञाता येन तत् । यो दन्ती कुवलयापीडस्तस्याखिलशक्तिधृतश्चरणे तेषु पादेषु स्वकृतं स्वेनैव कृतम् । अन्तस्तत्र तत्र असदभूदनन्तरं बहिस्तस्मात्स्वकृतम् । दन्त्यखिलशक्तिधृत इति पदमेकं वा । दन्तिष्वखिलशक्तिधृतः कुवलयापीडस्येति वा । असच्चरणेऽरुग्णो बहिरायात् त इति वा ॥
अथ श्रुत्यर्थः ॥ इति श्रुतिरित्येव वक्तव्ये यदित्याद्या श्रुतिरिति जगादागाधबोधस्तेना-सच्चरण इत्यादिमूलभूतोत्तरा ऋग्ग्राह्येत्यसूचयत् । सा चेयम् । अभिख्यानो मगवन्नाधमानान् त्सखे बोधि वसुपते सखीनाम् । ‘रणं कृधि रणकृत्सत्यशुष्माऽभक्ते चिदा भजा रायेऽ-स्मान्’ इति । हे गणपते इन्द्रियगणपते । प्रस्तुतश्चादिगणपतिः । गणेषु त्वन्नियम्येषु रमाद्यन्तेषु निषुसीद । तव नित्यमपि निषदनं प्रकाशय । कवीनां मध्ये त्वां यतो विप्रतमं विशेषतः प्रकृष्टतममाहुः । ससाधनां क्रियामाहुरित्युक्तेः । आपञ्चभ्यः प्रयोक्तव्या उपसर्गा मनीषिभिरित्याद्युक्तेर्विजानीयोपसर्गद्वयोक्तिर्युज्यते । विस्तृतं चैतत्कर्मनिर्णयऋग्भाष्यटीकादौ । त्वदृते किञ्चन आरे अण्डाद्बहिस्तथा आरे तदन्तश्च न क्रियते । महां महान्तमर्कम् अलं कं सुखं यस्य स तम् । अर्कमर्किण इत्यृग्भाष्ययोरतिकम् अरं कमतिशयेन सुखरूपत्वा-दित्युक्तेः । मघवन् यशस्विन् । मखपते धनवन् वा । चित्रमाश्चर्यकरं त्वां त्वमेवार्चय पूजय । हे मघवन् ।
सखीनां सह ख्यायमानतया वर्तमानानां वसुपते धनपते । सखे सत्यशुष्माऽमोघ-वीर्य । नाथमानान् याचमानान् अभिख्या अभिख्य सर्वज्ञ । नोऽस्मांस्त्वं बोधि बुध्यस्व । बुध अवगमने भौवादिको लोटि छान्दसः शपो लुक् । छन्दस्युभयथेति हेरार्धधातुकत्वे-नाङ्यत्वादङितश्चेति हेर्धिभावः । धातोरन्त्यलोपश्छान्दसः । ज्ञातवान् । किञ्चास्मान् राये सम्पदे आभज । अभक्ते स्थित्वा दुर्मार्गप्रवर्तनेन रणकृत् त्वं कृधि तदुपलक्षितं दुष्प्रवर्तनं च कृधि । तेन च तत्तमःप्राप्तिर्भवतीति भावस्तेन चास्माकं सुखातिशय इति भावः । उक्तं च । यावच्चासुरदुःखं स्यात्तावत्सुखविशेषतेति । इन्द्रियगणपते धनवन् यशस्विन् मखपते । त्वमिन्द्रियगणेषु निषुसीद तत्र स्थित्वा महान्तं परमानन्दमाश्चर्यतमं त्वां त्वमेव पूजय । यतस्त्वामेव विशेषेण ज्ञानिनां प्रकृष्टतममाहुः । अतस्तवैव पूज्यत्वम् । यतस्त्वदृते दूरे समीपे वा न केनचित्किञ्चित्क्रियते । अतस्त्वमेव पूजक इत्यर्थः । इति तत्त्वप्रकाशियां व्याख्यातेयमृगष्टमाष्टकषष्ठाध्यायत्रयोदशवर्गगमृग्द्वयम् ॥ २१ ॥ (७)
इति विमृशन्ति कवयो निगमावपनं भजन्त१ उपासते भवमध्यविनिश्वसिताः ।
दुरवगमात्मतत्वनिगमायतवाङ्मनसश्चरितमहामृताब्धिपरिवर्तपरिभ्रमणाः२ ॥२२॥
तात्पर्यम्
भवमध्यविनिश्वसिता इति यतः । अतो विमृशन्ति कवयो निगमावपनं त्वाम् ॥ चरितमहामृताब्धिपरिवर्तपरिश्रमणा इति यत् । अतो भवमध्यविनिश्वसिताः । मुक्ता निगमानामावपनं स्थानं त्वां विमृश्य यज्ञादिभिर्भजन्त उपासते ॥ निगमविषये आयतवाङ्मनसः । निगमानां ततो व्यक्तेस्तत एव फलप्रदत्वात्तद्विषयत्वाच्च निगमाव-पनम् । परिवर्तो मथनम् ॥ विमथ्य वेदाब्दिमतिश्रमेण ज्ञात्वा परेशं मुनयो विमुक्ताः । मृशन्ति यज्ञैश्च यजन्ति नित्यम् उपासते वेदफलप्रदं तमिति कुशिकश्रुतिः ॥ २२–८ ॥
पदरत्नावली
प्राणिनो भवमध्ये विनिश्वसिता इति यतोऽतः कवयो विमृशन्तीति ॥ सामान्येनोक्तं विशिनष्टि– निगमेति ॥ हे दुरवगमात्मतत्व दुर्ज्ञेयनिजस्वरूप चरितलक्षण-महामृताब्धेः परिवर्तनेन मथनेन परिश्रमणाः । चर गतिभक्षणयोरित्यतस्त्वत्तत्वावगतिहेतुर्वेदश् चरितशब्देनोच्यते, स एव महासमुद्रः, तस्य परिवर्तनं परिलोडनं मथनमिति यावत्, तेन परिश्रान्ता इति यतोऽतो भवमध्याद् विनिश्वसिता मुक्ताः । निगमानामावपनं स्थानं निगमानां ततोऽभिव्यक्तेस्तत एव फलप्रदत्वाद् विषयत्वाच्च निगमावपनं त्वां विमृश्य यज्ञादिभिर्यजन्ते उपासते सजातीयविजातीयप्रत्ययानन्तरितत्वेन ध्यायन्ति । कीदृशाः ? निगमविषयेष्वायतवाङ्मनसः विस्तृतवाङ्मनोव्यापारा इत्येन वेदेनैव विज्ञातभगवत्तत्वा इत्युक्तं भवति ॥ २२ ॥
सत्यधर्मीया
इति विमृशन्तीति श्लोक इतिपदं पूर्वप्रकृतपरामर्शकमिति वक्तव्यम् । न च तत्सम्भवति । प्रतिज्ञानात्स्वतन्त्राः श्लोका न पूर्वोत्तरसङ्गतिरिति तद्विरोधापत्तेः । तथा विमृशन्तीत्यनेनैवान्वय इति भ्रान्तिः स्यादिति स्वयमन्वयं दर्शयित्वाऽर्थं चाह– भव-मध्येति । भवमध्ये संसारमध्ये क्लेशतो विनिश्वसिता इति यतः । अनेनेतिशब्दो हेत्वर्थ इत्युक्तं भवति । अतः कवयो ज्ञानिनः । निगमानामावपनं निगमा आ उप्यन्त इव यत्र स निगमावपनस्तं हरिं वेदमुख्यप्रतिपाद्यमिति यावत् । विमृशन्ति विचारयन्ति । स च ध्यानादिरूपस्ते च कवय एवंविधाः सन्त एवं भवन्तीति वक्तुं पुनरितिशब्दस्यावृत्त्या तथा भवमध्यविनिश्वसिता इत्यस्यावृत्त्या तथासम्भवद्विग्रहप्रदर्शनपूर्वकं निगमावपनादिपरिवर्तान्त-पदानि किञ्चिदनूद्य व्याकरोति– चरितेति । इति यदतो भवमध्यविनिश्वसिता भवमध्याद्वि-निश्वसिता मुक्ता निगमानामावपनं स्थानं त्वां विमृश्य यज्ञादिभिर्यजन्तः पूजयन्त उपासते । निगमावपनपदं सामान्यतो व्याख्यातमिति बहुहेतूपपादनमुखेन विशदयति– निगमविषये आयतवाङ्मनस इति । अनेन निगमेष्वायतं वाचा सहितं मनो येषां त इति विग्रहः सूचितः । निगमानां ततो भगवतोऽभिव्यक्तेः । ‘सर्गे सर्गेऽमुनैवैत उद्गीर्यन्ते तथैव च । तत्क्रमेणैव तैर्वर्णैस्तैः स्वरैरेव नान्यथा’ इत्यादेः । ‘अस्य महतो भूतस्य निश्वासित-मेतदृग्वेद’ इत्यादिश्रुतिप्रतीकमुपादाय ऋग्वेदादिकमस्यैवेत्यादिना ऋग्भाष्योक्तमनुसन्धेयम् । तत एव भगवदनुबन्धादेव । तत्फलं तत्प्राप्तिरूपं ज्ञानद्वारा तत्प्रदत्वात्तद्विषयत्वाद्धरि-विषयत्वाच्चेतैर्हेतुभिर्निगमावपनं भगवांस्तम् । परिवर्तो नाम्भसां भ्रम इति भ्रमः कार्य इति तदर्थमाह । चरितं ज्ञानसाधनीभूतत्वाद्वेदः स एव । चर गताविति स्मरणात् । तस्य परिवर्तो मथनमिति ॥
अथ श्लोकार्थः ॥ भवमध्यविनिश्वसिता इति यतोऽतः कवयस्त्वां विमृशन्ति विचार-यन्ति । विमर्शनमेव विमृश्य वक्ति । हे दुरवगमात्मतत्त्व दुरवगममात्मतत्त्वं यस्य स तत्सम्बुद्धिः । विना दयां निगमायतवाङ्मनसः । चरितानि वेदास्तद्रूपो यो महामृताब्धिस्तस्य परिवर्तो मथनमुपक्रमादिलिङ्गैरर्थनिर्णयनं तत्र परिभ्रमणमभ्यासविशेषो येषां त इत्यतो भवमध्यविनिश्वसिता भवमध्यात्संसाराद्विनिश्वसिता निष्क्रान्ता मुक्ता इति यावत् । परिश्रमणा इति पाठे सायासा अप परीवर्जन इत्युक्तेर्गतायासा इति वा ॥
कृष्णपक्षे ॥ कवयोनिगम कवद्वायुवद्विद्यमानं वयः पक्षी गरुडस्तेन नितरां गमो गमनं यस्य तत्सम्बुद्धिः । हे अभव संसाररहित । पनं त्वदीयं युष्मान्न त्यजामीत्यादिव्यवहारं, त्वं सुन्दर्यसीति स्तुतिं वा अव । आविर्भावे भवतो भवति तदवनमिति भावः । इति भजन्तो गोपीजना उपासते न केवलमेकत्र स्थित्वेत्याह– विमृशन्ति चेति । मधुनाथा-धुनाऽपि । विमृशन्तु तेषां कः श्रम इति न वदेत्याह– मध्यविनिश्वसिता इति । मध्येन कचकुचदुर्वहभारासहिष्णुना विनिश्वसिताः श्रान्त्या श्वासोच्छ्वाससहिताः । न केवलमेता-वत्किन्तु इयदपि नास्तीत्याह– दुरवगमेति । आत्मा देहः स्वयं वा तत्तथा त्वोऽयमन्यः । अयमस्मन्निगमः पुरम् । अयमायोऽस्मल्लाभोऽयं तस् तस्कर आगत इति वा । इयं वाक् स्वपरसाधारण्येन तत्सहितं मनश्चेत्येतानि येषां ते । चरितं स्वोपविष्टस्थलाच्चकितं महामृताब्धिमुत्सवामृतसमुद्रं प्रति यः परिवर्तोऽनुगमनं तेन परिश्रमणं येषां ते सन्त इति विमृशन्ति न त्यजन्ति । ‘तकारश्चागते चोर’ इति विश्वः । त्वत्वावन्यपर्यायौ । ‘ब्रह्मा त्वो वदति जातविद्यां यज्ञस्य मात्रां विममीत उ त्व’ इत्यादेः ॥
ततश्चायं श्रुत्यर्थः ॥ अतिश्रमेण वेदाब्धिं विमथ्य तदर्थं विचार्य परेशं तत्त्वेन ज्ञात्वा मुनयो विमुक्ताः सन्तोऽपि पुनस्तमेव मृशन्ति तथा यज्ञैश्च स्वरूपसाधनैर्यजन्ति । ज्योति-र्मयेषु देहेषु स्वेच्छया विश्वमोक्षिण इत्युक्तेः सर्वेऽपि ज्योतिर्मयशरीरधारिणो मुक्ता इति टीकाकृद्दर्शनम् । तत्त्वप्रदीपिकाकृद्दर्शनं तु यद्यपि तेषां बहुरूपत्वेन विचित्रसुखात्मकैरनेकैः सुलभ एवातिभोगस्तथाऽपि तस्य प्रकृतीनां वैचित्र्यकौतुकवतां शरीरयोगेन सुशक इति गुण एवेत्यादिनाऽऽजानजपर्यन्तानामेव ज्योतिर्मयदेहस्वीकारो भवतीत्युभयैककण्ठ्याग्रहेण समा-दधते । विश्वमोक्षिणः स्वयोग्यतामनतिक्रम्य पूर्णा मुक्ता इत्याजानजपर्यन्ता ग्राह्या इति । अन्ये च, प्रदीपवदावेश इति सूत्रान्न सर्वेषां जडदेहस्वीकारेऽपि दोष इति वदन्ति । ‘कृष्णो मुक्तैरिज्यते वीतमोहैः’ इत्याचार्योक्तेश्चेच्छया यजनं मुक्तानां सम्भवतीति दिक् । वेदफलप्रदं भगवन्तमुपासते च ॥ २२ ॥(८)॥
न परिलषन्ति केचिदपवर्गमपीश्वर ते चरणसरोजहंसकुलसङ्गविसृष्टगृहाः ।
**त्वदनुपथं कुलायमिदमात्मसुहृत् प्रियवच्चरन्ति तथोन्मुखास्त्वयि हिते प्रिय **
आत्मनि च ॥ २३ ॥
तात्पर्यम्
त्वत्प्राप्त्यनुसारित्वाच्छरीरं प्रियवत् पश्यन्ति । सर्वप्रियतमे सर्वा-दानादिकर्तरि च त्वयि । तथा हितेऽभिमुखाः ॥
न किञ्चिदभिवाञ्छन्ति यतयः सुसदाश्रयाः ।
प्रेष्ठस्य परमस्याप्त्यै प्रियवद्देहदृष्टयः ॥ इति विमदश्रुतिः ॥ २३–९ ॥
पदरत्नावली
ईश्वरेत्यनेन श्रुत्यन्तरमत्राप्यनुकूलं लक्षयति । केचिद् यतयः किञ्चिदपवर्ग-लक्षणमुपासनाफलमपि न परिलषन्ति न वाञ्छन्ति । तत्र निमित्तमाह– चरणेति ॥ चरण-सरोजसेविनां हंसानां संन्यासिनां कुलस्य समूहस्य सङ्गेन सेवालक्षणेन विसृष्टगृहा गृह्णन्ति त्यक्तुं न मुञ्चन्तीति गृहा भार्यापुत्रादयो विसृष्टाः सन्त्यक्ता यैस्ते । अनेन सुसदाश्रया इति विवृतम् । किञ्च त्वदनुपथं त्वन्मार्गानुकूलमार्गं त्वात्प्राप्त्यनुसारित्वादिदमात्मनः स्वस्य सुहृदनिमित्तबन्धुभूतं कुलायं शरीरं प्रियवच्चिच्छरीरवच् चरन्ति पश्यन्ति । प्रिये सर्वतः प्रियतमे आत्मनि सर्वा-दानादिकर्तरि त्वयि तथा हिते तत्प्राप्तापत्परिहारेणोन्मुखा अभिमुखाः ॥ २३ ॥
सत्यधर्मीया
न परिलषन्ति केचिदपवर्गमपीति श्लोके प्रथमार्धस्यातिरोहितार्थवत्त्वा-दनुपथमित्यादिकं द्वितीयार्धस्थं तिरोहितार्थमितरो हितार्थे नेति यथावद्व्याचष्टे– त्वत्प्राप्तीति । काष्ठलोष्ठसमे हेये काये प्रियत्वेनावलोकनं कथमित्यतो लोकनाथप्राप्त्यानुकूल्यात्तथेत्याह– त्वत्तवेति । वतिना तवातिप्रियत्वं तस्य प्रियत्वमात्रमिति सूचयति । आत्मनि स्वस्वरूप इति भ्रमदुर्वारं वारयति– सर्वादानादिकर्तरीति । हि ते इति पदद्वयभ्रन्तिं तथा प्रिये हित इत्यनयोरार्थिकीमेकार्थताया भ्रान्तिं च वारयति– सर्वप्रियतम इति । हिते प्रिय इत्याभ्यां पदाभ्यां ज्ञानज्ञान इत्यादिवत्सर्वप्रियतमत्वं लभ्यतेऽतो न वैय्यर्थ्यमिति भावः । उन्मुखा उद्गत-मुखा विमुखा इति यावदित्यर्थमुखभङ्गं करोति– अभिमुखा इति ॥
अथ श्लोकार्थः ॥ केचिदेकान्तिकाः । हे ईश्वर । अपवर्गं मोक्षम् । अपिः सर्वापेक्षितत्वं तस्य द्योतयति । तमपि न परिलषन्ति काङ्क्षन्ति । ईश्वर त इति तु गतम् । चरणे एव सरोजे कमले तयोर्हंसाः श्वेतगरुतस्तद्वद्विद्यमानाः सन्तस्तेषां कुलं सङ्घस्तस्य यः सङ्गः सम्बन्धस्तेन विसृष्टं त्यक्तं गृहं दाराद्या धामाद्या वा यैस्ते । हंसा इव हंसाः परमहंसा वा त्वदनुपथं त्वत्प्राप्त्यनुसारीति तव पन्थानमनुवर्तमानमिति त्वदनुपथमिति व्युत्पत्तिः सूचिताऽनेनेति ज्ञेयम् । इदं कुलायं जीवस्तु द्विखगो द्वा सुपर्णेत्यादेः पक्षिसम इति कुलायपदेन नीडापरपर्यायेण देहग्रहः । कुलायं शरीरम् । हे आत्मसुहृत्स्वामिन्ननिमित्तबन्धो हरे । प्रियवच्चरन्ति जानन्ति । उत्तरत्र परमपे्रमास्पदस्य वक्ष्यमाणत्वाद्वतिः । त्वयि हिते प्रिये । हितप्रियपदाभ्यां सर्वातिप्रियतां सूचयति । न च समानशब्दौ ज्ञानज्ञानः सुखसुख इत्यादौ वर्तेते इति तत्रातिशयार्थाशयः शक्यः कर्तुमत्र तु भिन्नसरण्योर्हितप्रियपदयोः कथ-मिदमर्थतेति वाच्यम् । स्मरतु भवानित्यादिऋग्भाष्यटीकयोः ।
केचित्तु तात्पर्ये प्रियपदेन हित इति पुनरुक्तमित्याशङ्क्य हि ते इति पदद्वयं हीत्यस्य तथेत्यनेनान्वयः, त इत्यस्योन्मुखा इत्यनेनान्वय इति भावेनाहेत्यवतारयन्ति । तत्रासाधरण-न्यायेन प्रियपदमेव भवत्वतिप्रियबोधकं सर्वेति तु निरालम्बमिति ज्ञेयम् । अस्मद्व्याख्याने तु हित इत्यभिहिते हितत्वावच्छिन्नसर्वस्मिन्नपि प्रियेति वचने सर्वप्रियतमतोपस्थितिर्भवतीति तत्सालम्बता मननीया ।
त्वयीत्यनेनार्थपूर्तौ त इत्यवक्तव्यत्वाच्च । आत्मनि सर्वादानादिकर्तरि । कुलं पक्षि-सङ्घमयतेऽस्मिन्निति कुलायो ऽय गतौ करणाधिकरणयोरित्यनुवृत्तेरधिकरणे वा हलश्चेति घञ् । त्वयि च । कुलायो नीडमस्त्रियामित्यमरात्, कुलायस्तु पुमान्स्थानमात्रे स्यात्पक्षि-वासक इति भानुरुदाजहारेति कथमिदमुक्तमिति चेत् । सत्यम् । शरीरमिति व्याख्यान-पदार्थविवक्षयाऽजानता महिमानं तवेदमित्यत्रेवोपपत्तेः । यद्वेदमित्यात्मविशेषणम् । अयं चासावात्मा चेति विग्रहः । इदमिति वदन्मूलकृदपि नात्र कुलायो नीडं किन्तु शरीरमेवेति कटाक्षितवान् । अमुमेवार्थमाचार्योऽवादीदिति मन्तव्यम् । अन्यथेममित्यवक्ष्यदिति भावः । उन्मुखा अभिमुखाः सन्तो न परिलषन्तीत्यन्वयः । आत्मसुहृत्प्रियवदनिमित्तोपकारीष्टव-च्चरन्तीत्यैकपद्यं वा । तात्पर्ये तु तथेति मूलपदानुवादमात्रमिति ज्ञेयम् । यद्वा सर्वेत्यस्य योग्यतया लाभोऽसाधारण्येन नयेन प्रियपदस्य प्रियतमत्वमर्थ इति । न केवलमात्मनि किन्तु तथा हिते हितप्रद इत्यर्थः । उभयथाऽपि नहि हि ते इति पदद्वयमित्यलम् ॥
कृष्णपक्षे ॥ हे न नायक । केचिद्गोपीजना अपवर्गमपगतो वर्गोऽनुगसम्बन्धो यस्मा-त्तमेकाकिनं त्वां परिलषन्ति काङ्क्षन्ति । हे ईश्वरत ईश्वरता अस्य अस्तीति ईश्वर-तस्तत्सम्बुद्धिः । एः मन्मथस्य चरणं तदुद्रेक इति यावत् । तेन सरोजैः कमलैस्त-द्बाणैस्तथाऽहंसानां कुलेन च यः सङ्गस्तेन विसृष्टं त्यक्तं गृहं तदादि यैस्ते । सरोजहंसकुलैः सङ्गार्थं तव विसृष्टं गृहं यैरिति वा । त्वदनुपथं कुलायं मर्त्यनीडं प्रियवच्चरन्ति जानते । इदं स्वकामितखण्डकं शरीरमेवात्मनः सुहृदस्तीति तत्तथा स्वनाशकमिति तदपि न परिलषन्ति । त्वयि प्रिये आत्मनि स्वामिनि च कदाचिद्धिते गतेऽपि हित इति यावद् यथा जानते तथोन्मुखास्त्वदनुपथं परिलषन्ति चेति । इदं कुलायं कुलमाययति गमयतीति तत्तथा कुलापयशस्करं कर्मापि प्रियकर्मवच्चरन्ति जानते इति । तथा पुनरात्मनि निजे हिते तत्साधने प्रिये पत्यावुन्मुखा विमुखाः । अपशब्द उपशब्दार्थव्यपाश्रयः । स स्वर्गं पुत्रादिसहितं त्वयि सति न परिलषन्तीति वा ॥
ततश्चायं श्रुत्यर्थः ॥ सुहृन्नित्यसुहृद्भगवानाश्रयो येषां ते यतयस्तदादयः । किञ्चिद्भगव-दतिरिक्तं मोक्षादिकं नाभिवाञ्छन्ति । प्रेष्ठस्य परमस्य हरेराप्त्यै तदर्थं प्रियवत्प्रिय इव देहदृष्टिर्येषां ते तथा सन्तो न किञ्चिदभिवाञ्छन्तीत्यन्वयो वा ॥ २३ ॥ (९)
न च रमन्त्यहो असदुपासनयाऽऽत्महनो यदनुशया भ्रमन्त्यभवाः कुशरीरभृतः ।
निभृतमोक्षहृदययोगयुजो हृदयं मुनय उपासते तदरयोऽपि ययुः ॥ २४ ॥
तात्पर्यम्
अन्थोपासनयाऽऽत्महनोऽसुर्यान्नाम लोकान्नित्यनिरतिशयदुःखान्निरस्त-समस्तसुखान् प्राप्नुवन्ति । तदेतन्न च रमन्ति अनुभवन्ति च । नित्यदुःखमिति चशब्देनोक्तम् । असुर्यशब्देन च श्रुतौ । सुष्ट्वरमणरूपत्वादसुरप्राप्यत्वाच्च । यत्रानुशयं कुर्वन्तस्तमस्येव भ्रमन्ति । अभवा जन्मवर्र्जिताः ॥ आत्महन इत्येषशब्दो भगव-त्तद्भक्तद्वेषिणामपि सम इति दर्शयति ॥ निभृतमोक्षहृदययोगयुज इत्यादिना । ये मुनयो हृद्ययनं भगवन्तं निभृतमोक्षहृदयेन वायुना योगेन युक्ता नियमिताः सन्त उपासते तेषामरयोऽपि तदेव तमो ययुः । परिपूर्णमोक्षार्थं ज्ञानं यस्य सः निभृतमोक्षहृदयः ॥
असुर्या नाम ते लोका अन्धेन तमसाऽऽवृताः ।
तांस्ते प्रेत्याभिगच्छन्ति ये के चात्महनो जनाः ॥ इति श्रुतिः ।
नित्यदुःखसुसम्पूर्णं निरस्तानन्दमव्ययम् । तमो यान्त्यन्यथाज्ञानाद्द्वेषाद्वा हरिसंश्रया ॥ इति प्राणसंहितायाम् ॥ निभृतो मोक्षवित्प्राणस्तद्योगात्तत्प्रसादतः । जानन्ति परमं देवं नान्यथा तु कथञ्चन ॥ इति भागवतसंहितायाम् ॥ २४–१० ॥
पदरत्नावली
असुपासनया अन्यथोपासनया ब्रह्माहमित्याद्युपासनया आत्महन आत्मानं घ्नन्तो जना असुर्यान् सुष्ठुरमणविरुद्धरूपत्वादसुरप्राप्यत्वाच्च नित्यनिरतिशयदुःखान् निरस्तसमस्त-सुखान् लोकानाप्नुवन्तीत्येतन् न च रमन्त्यहो इत्यनेन लक्ष्यते । सुखलक्षणा रतिरेव नास्तीति न, किन्तु नित्यदुःखमनुभवन्ति च । अहो आश्चर्यमन्यथोपासकानामनर्थपरम्परा । किञ्च यदनुशया यस्मिन् अनुशयो येषां ते तथा, यत्रानुशयाना तमस्येव भ्रमन्तीत्यर्थः । कुतः? अत्राह– अभवा इति ॥ तत उत्थाय पुनर्जन्मवर्जिताः । जन्माभावेन देहाभावे दुःखभोगाभाव इति तत्राह– कुशरीरभृत इति ॥ नित्य (दुःख) भोगसाधनं कुत्सितं निन्द्यं शरीरं बिभ्रतीति । न केवलं भगवद्द्वेषिणां तल्लोकावाप्तिरपि तु तद्भक्तद्वेषिणामपि तल्लोकावाप्तिरिति भावेनाह– निभृतेत्यादिना ॥ निभृतं परिपूर्णं मोक्षार्थं हृदयं ज्ञानं यस्य स निभृतमोक्षहृदयो वायुस्तेन योगेन नियोगेन युजो युक्ताः, नियमिताः सन्तो ये मुनयो ज्ञानिनो हृद्ययनाद् हृदयं भगवन्त-मुपासते तेषां मुनीनामरयो द्वेषिणोऽपि तदेव श्रीनारायणद्वेषिप्राप्यं तमो ययुरित्यन्वयः । ‘नित्यदुःखसुसम्पूर्णं निरस्तानन्दमव्ययम् । तमो यान्त्यन्यथाज्ञानाद् द्वेषाद् वा हरिसंश्रये ॥’ इति । हरिसंश्रये हरिभक्तजने । ‘निभृतो मोक्षवित् प्राणस्तद्योगात् तत्प्रसादतः । जानन्ति परमं देवं नान्यथा तु कथञ्चन ॥’ इति । स्मरणादित्युत्तरश्लोकान्वयि ॥ २४ ॥
सत्यधर्मीया
न च रमन्तीति श्लोकं दुर्गमार्थत्वाद्व्याकरोति– अन्यथेति । आत्मनः परमात्मनोऽन्यथोपासनया ‘‘स नास्ति तदात्माऽह’’मित्यादिकया, त आत्महन ईश्वर-घातकाः । नित्यत्वात्कथमात्महननमुच्यत इति परास्तम् । तथाऽसता स्वस्मिन्नविद्यमानेन प्रकारेणोपासनेति चाभिप्रतत्वात्कथमसत उपासनमिति परास्तम् । यथोक्तं प्रकरणान्तर एकादशतात्पर्ये । ब्राह्मणो विष्णुरुद्दिष्टः स नास्तीत्यभिचिन्तनम् । ब्रह्महत्या समुद्दिष्टा तां न कुर्यात्कथञ्चनेति । असुर्या नाम नाम्ना । नित्यं निरतिशयदुःखं येषां ते तांस्तथा । निरस्तसुखांल्लोकांस्तमोलोकान्प्राप्नुवन्ति । ननु श्रुतौ मूले च न च रमन्तीति सुखाभाव-मात्रमुच्यत उच्यते च युष्माभिर्नित्यनिरतिशयदुःखानीतीदं कस्य व्याख्यानमिति न ज्ञायत इत्यत आहुः– तदिति । तदनुभवन्ति च नित्यनिरतिशयदुःखमिति चशब्देन न चेत्यत्र-त्येनोक्तमनुभवन्तीति च बहुव्रीहिलभ्यार्थानुवाद इत्यनुसन्धेयम् । एतन्नित्यन्निरस्तसमस्त-सुखत्वं न च रमन्तीत्यनेनोक्तमिति न मूलाननुकूलतेति ज्ञेयम् ।
ननु तात्पर्ये पूर्वं चशब्दार्थतया नित्यनिरतिशयदुःखत्वमुक्तमनन्तरं तत्र स एव क्रमो धर्तव्यस्तद्विहाय न च रमन्त्यनुभवन्ति च दुःखमिति कुतो व्यत्यस्योक्तम् । किञ्च येन सह यस्य समुच्चेयता तस्य प्रागुक्त्या भाव्यमिति, न च रमन्ति चाद्दुःखमनुभवन्ति चेति तत्रापि व्यत्यासः कुत इति चेन्न । दुःखं सुखाभावश्च तल्लोकमाहात्म्येन साम्येन वर्तते परस्परं व्याप्यव्यापकभावश्चेति द्योतनाय चशब्देन ग्रहेऽमुख्यताऽतो न तरतमभाव इति द्योतयितु-मेवमुक्तिरिति । अथवा वक्ष्यमाणमानानननिरीक्षणेन दुःखस्य सुसम्पूर्णत्वविशेषादेवं निर्देश इति चेति । यस्मिन्ननुशयो येषामिति तत्र विग्रहं सूचयति यत्रानुशयनं कुर्वन्त इत्यनेन । तमस्येव भ्रमन्ति न तत उत्तिष्ठन्तीत्यर्थः । भ्रमन्तीति पदस्वारस्यादनुशयो न शयनं किन्त्वङ्गविस्मृतिजननी तन्द्रा विवक्ष्यते ।
अभवा इति पदमनूद्य व्याख्याति– अभवा जन्मवर्जिता इति । अनेन न विद्यते भवः पुनरुत्पत्तिर्येषां त इति विग्रहः कटाक्षितः । आत्महन इत्यस्य न केवलं भगवद्द्विण्मात्र-मर्थोऽपि तु स्थानान्तरव्याकरणरीत्या तत्तद्भक्तद्विषोऽपीति स शब्द उभयपर इत्याह– आत्महन इत्येष शब्द इति । भगवद्द्वेषिष्विव तद्भक्तद्वेषिष्वपि समस्तद्वाचकोऽपि भवतीति दर्शयति । मूलकृदिति शेषः । तद्दर्शकमनूद्य दर्शयति– निभृतेति । तत्प्रकारं च व्याख्यानतो दर्शयति– य इति । प्रथमहृदयपदार्थो वायुर्द्वितीयोऽर्थो भगवान् । ये मुनयो हृदयं हृद्ययनं भगवन्तमिति मूले विग्रहं सूचयति । निभृतमोक्षहृदयेन वायुनेत्यर्थः । योगयुज इत्यनूद्य व्याचष्टे– योगेन युक्ता नियमिता इति । सन्तो य उपासते भगवद्भक्तास्तेषा-मरयोऽपि भगवदरय इव । तदेव तमो ययुः । निभृतमोक्षहृदयपदं कथं वायुपरमित्यतो व्याख्याति । मोक्षाय हृदयं ज्ञानं तत्साधनं ज्ञानं निभृतं परिपूर्णं यस्य स निभृतमोक्षहृदय इति । निभृतो भगवदाज्ञातो वायुश्च तदनुज्ञयेत्यादेर्मोक्षो देयत्वेन येन स चासौ हृदयं ब्रह्माऽऽत्मेति वायुरिति वृत्त्यन्तरमपि ज्ञेयम् । उक्तं च बृहद्भाष्ये । हरणाद्यज्ञभागादे-र्ज्ञानादेर्दानतस्तथा । यानादव्यवधानेन परस्य ब्रह्मणस्तथा ॥ ब्रह्मा हृदयमित्युक्तस्तस्यैवं-विदपि ध्रुवमिति । हरिविषये मा तूक्तानुसन्धेया ॥
ततश्चायं श्लोकार्थे श्रुत्यर्थे च मानसङ्ग्रहः । नित्यं दुःखसुसम्पूर्णं, निरस्त आनन्दो यस्मिंस्तत् । अनेन तन्नास्तीत्यप्याचष्टे निरस्तश्चासावानन्दश्चेति । ‘अनन्दा नाम ते लोका’ इत्यादेरिति । अव्ययं नित्यम् । तमोऽन्यथाज्ञानादुक्तरूपात् । हरिसंश्रये तद्भक्ते । द्वेषाच्च यान्ति । हरिसंश्रय इत्येकवचनेन किंबहुना द्वेषादिति वक्तव्यमिति कैमुत्यं सूचयति । निभृतेत्यादेः स्वेनोक्तेऽर्थे मानमाह– निभृत इति । अत्र निभृत इति सापेक्षं विशेषणं प्राणपदार्थेऽनन्वितं विदधात्वर्थवेदनेऽन्वेति । पूर्णं यद्वेदनं तेन युक्तो वित्प्राण इति । विस्तृतं च प्रागेतत्सजातीयस्थाने परमधार्मिकेणानुसन्धेयम् । अतो न स्वार्थप्रमाणविंसवाद इति ज्ञेयम् । तद्योगात्तत्प्रसादतो वायुप्रसादात्परमं देवं जानन्ति । अन्यथा तु कथञ्चन केनापि प्रकारेण नेत्यर्थः । स्ववचनतात्पर्ये योगेन युक्ता नियमिता इत्युक्तं तस्यैवेदं वृत्त्यन्तरमावर्तितस्येति ज्ञेयम् ॥
ततश्चायं श्लोकार्थः ॥ असदुपासनयाऽन्यथात्मिकयाऽऽत्महनोऽहं ब्रह्मेत्यादिकमेवात्महननं तद्वन्तो, गुरोस्त्वङ्करणादिकं यथा तथेदं हननम् । न रमन्ति सुखं नापु्नवन्ति । चान् नित्यदुःखमनुभवन्ति । अहो । अनेन, नारायणेति मन्त्रोऽस्ति वागस्ति वशवर्तिनी । तथाऽपि नरके घोरे पतन्तीत्येतदद्भुतमित्यादेरिदं ततोऽप्यद्भुतं तमःसाधनत्वादिति सूचयति । यस्मिन्ननुशयो भुग्नतामग्नतादिरूपं येषां ते तथा । अभवाः पुनरुत्पत्तिरहिता अमङ्गला इति ध्वनिः । तद्दुःखादिभोगोपयोगि चाङ्गं तेषामस्तीति न भोगायोग इत्याह– कुशरीरभृत इति । लिङ्गभङ्गानन्तरं कलिताः कलिना स्वरूपदेहेन दुःखमनुभवन्तो वर्तन्त इत्यर्थः । तत्रैव भ्रमन्ति नोर्ध्वं यान्तीति भावः । न केवलं भगवदवज्ञातृफलं तमःप्राप्तिः किन्तु तद्भक्तद्विषामपीति तत्तदविशेषं दर्शयति । निभृतं परिपूर्णं मोक्षसाधनं हृदयं ज्ञानं तद्वा-न्वायुस्तेन वायुना कर्त्रा । योगेन युज्यन्त इति योगयुजस्तन्नियता हृदयं हृद्ययनात्तच्छब्दं ब्रह्म ये मुनयो भक्ता उपासते तदरयस्तद्द्विषोऽपि तत्तमो ययुः । तदित्यावर्तते ॥
कृष्णपक्षे तु ॥ हे उप सर्वपातरधिक । यदा ते हृदयं स्वविषयेऽसदविद्यमानप्रायमभूत्तदा सैका । असनया नयेन नीत्या सह वर्तत इति सनया सा नेत्यसनया । न च रमन्ती रममाणा । नेत्यस्यावृत्तिः । इति नाहो नाश्चर्यम् । वीतनीतित्वादरमणं रमण्यास्तस्या युक्तम् । असच्चेत्सच्चेदपि नीतिमत्या भवितव्यं न सा तथाऽऽसीदिति । यदनुशया यमन्वेव शयो हस्तो येषां तेऽपि, यस्मिन्स्त्वय्येव सति शेरत इति यदनुशयाः । अधिकरणे शेते-रित्यच् । तेऽप्यभवास्त्यक्तसंसाराः । राजानं दृष्ट्वा पुरुषं विसस्मरुरिति चाभाणकवत्स्व-विद्यमानकुङ्कुमाङ्कसङ्केतनिकेतवर्तित्यक्तधवा इत्यभवाः । कुशरीरभृतः कज्जलसमासज्जनादि-कलाविकलतया कुत्सितं शरीरं बिभ्रतीति ते तथा । प्राणमात्रधरा अहो एतद्वशाः सन्तो दशामिमां यान्तीत्याह काचित् । यः कुशरीति कुत्सितोऽस्मद्दुश्चित्तताकृदिति स चासौ शरश्च, ते च ते शराश्चेति वा, स तेऽस्यास्ति सन्तीति, कुशरी तस्य निभृतस्य शरस्य निभृतानां शराणां वा विमोक्षो विसर्जनं येन । स चासौ हृदययोगो हृदयेन योगः सम्बन्धो यस्येति हदययोगस्तेन युज्यन्त इति ते । यद्वा भृता मा शोभा येषां ते भृतमास्ते च त उक्षाणः सप्त तद्धृत्वं तदपहर्ता तत्प्रापकोऽयो योगः शुभावहदैवलक्षण उपायस्तेन युज्यन्ते ये ते नेति निभृतमोक्षहृदययोगयुजः सन्तः । यद्वा भृतमोक्षणो हृदपहर्ता अयो गमनं यस्य स चासौ योगो हरिस्त्वम् । यथोक्तं पञ्चमतात्पर्ये । युज्यतेऽनेनेति योगो हरिरिति । तेन
युज्यन्त इति तेनेति ते सन्तो मुनयो मुनिव्रतधरा आत्महनः स्वहननमानसा भ्रमन्ति । तदरय-स्तद्वैरीभूतास्ते च तेऽलयो भृङ्गा अनङ्गमङ्गलार्थं ताननुययुः किञ्चोपासते च ॥
श्रुत्यर्थस्त्वीशावास्योपनिषद्भाष्यटीकयोः स्पष्ट इति स लिख्यते– सुष्ट्विति । सुष्ठु रमणविरुद्धत्वादसुराणां प्राप्यत्वाच्चासुर्याः । न च रमन्त्यहोऽसदुपासनयाऽऽत्महन इत्युक्त-त्वात् ।
महादुःखैकहेतुत्वात्प्राप्यत्वादसुरैस्तथा ।
असुर्या नाम ते लोकास्तान् यान्ति विमुखा हरौ ॥ इति वामने ।
ये के चेत्यनेन नियम उक्तः । नियमेन तमो यान्ति सर्वेऽपि विमुखा हराविति च । एवं सम्पादिताधिकारं प्रति परमात्मतत्त्वबुभुत्साजननायासुर्या इति मन्त्रेण परमात्माविदां निन्दा क्रियते । तत्रासुर्या इत्यस्य वर्णविकारेणासूर्या सूर्यप्रकाशहीना इत्यन्यथाप्रतीतिनिवारणार्थ-माह– सुष्ठुरमणेति । सुष्ठु रमणं सुर्यं तद्विरुद्धमहादुःखवत्त्वादसुर्या इत्यर्थः । असुराणां प्राप्यत्वादित्यनेन सकलसुखराहित्यमुपलक्ष्यते । कुतोऽयमसुर्यपदार्थ इत्यत आह– न चेति । एवं मन्त्रं मूलीकृत्य प्रवृत्तेऽस्मिन्वाक्येऽसुर्यपदार्थवर्णनं न च रमन्तीति क्रियते । तत्र चशब्देन महादुःखमनुभवन्तीत्येषोऽर्थः समुच्चीयते । महादुःखं सुखाभावपरता चास्य पदस्योक्तव्याख्यान एव सम्भवति नान्यथेति भावः । आत्मनो नित्यत्वेन हननासम्भवा-त्तत्रानर्थकथनमयुक्तमित्येतदप्यनेन परिहृतम् । असदुपासनयाऽऽत्महन इति व्याख्यातत्वात् । विपरीतं भावयता हि तद्याथात्म्यं तिरस्कृतं स्यादिति तस्या गौण्या वृत्त्याऽऽत्महन्तृत्वम् । स्पष्टं चात्र प्रमाणमाह– महादुःखेति । विमुखा हरावित्यनया समाख्ययाऽत्रात्मशब्दो हरिपर इति चोक्तं भवति । तथा च नित्यशुद्धबुद्धमुक्तस्वभावरूपमात्मानं जीवं ये विपरीतं प्रतिपद्यन्ते त आत्महन इत्यपव्याख्यानमेव । ते लोका इति तच्छब्दः प्रसिद्धिद्योतकः । ये ते प्रसिद्धास्तान् यान्तीत्यर्थः । य आत्महनस्ते केचन ताल्लोकानभिगच्छन्ति केचन नेत्य-न्यथाप्रतीतिनिरासायाह– एके चेति । एके चात्महनस्ते सर्वेऽपीत्येवं नियमपरमेवेदं न तूक्तप्रकारेण विभागपरमित्यर्थः । कुत इत्यत आह । नियमेनेत्यस्यैव विवरणं सर्वेऽपीति । अन्धयतीत्यन्धम् अतिनिबिडान्धकारावृता इत्यर्थः । प्रेत्य मृत्वा । एवमुदाहृतवचन-विरोधादेव देवादिशरीराण्यसुर्या लोका इति व्याख्यानं न युक्तमेवेति । एवं निवृत्तकर्मणा विशुद्धाशयस्यैहिकामुष्मिकाशेषविषयेभ्यो व्यावृत्तस्येश्वरतत्त्वबुभुत्सावतः कोऽसावात्मा यद्विपरीतोपासनमसुर्यलोकप्राप्तिसाधनमित्यपेक्षायां परमात्मतत्त्वोपदेशः क्रियतेऽनेजदित्यादि-नेति । टीकायां भाष्ये च सुष्ट्वित्यव्ययं प्रशस्येऽर्थे । ‘सुष्ठु शंसनेऽपि स्यादर्थेऽपि च कथ्यत’ इत्यव्ययविश्वः । सुर्येति भावे बाहुलकड्यप्रत्ययान्तमिति ज्ञेयम् । न विद्यते सुर्यं सुष्ठुरमणं यत्रेति तेऽसुर्याः । पक्षान्तरे चार्शआद्यच्प्रत्ययो दुःखवत्त्वादिति टीकया सूचितो ज्ञेयः । असुरशब्दोपपदाद्यातेर्घञर्थे कविधानमिति क इति भावेन प्राप्यत्वादित्युक्तम् । शिष्टं स्पष्टम् ॥ २४ ॥ (१०)
**स्मरणात्स्वनुराग तद् भवान् उरगेन्द्रभोगदण्डविषक्तधियो **
वयमपि ते समासमदृशोऽङ्घ्रिसरोजसुधाम् ।
क इह नु वेद वक्तुमपेतजन्मलयो
यत उदगाद् ऋषिरनु देवगणा उभये ॥ २५ ॥
तात्पर्यम्
हे स्मरणादेव स्वनुरक्त तत्ते स्वरूपं भवानेव वेद ॥ उरगेन्द्रभोगदण्डे विषक्तबुद्धेस्तेऽङ्घ्रिसरोजसुधां को वेद वयमपि समासमदृशः । सर्वमाहात्म्यस्य वेदैरपि वक्तुमशक्यत्वादसमदृशः वेदागम्यत्वात्समदृशः ॥ अतः कोऽन्यो वक्तुं वेद । को ह्यस्मांस्त्वां चर्तेऽपेतजन्मलयः यत उदगादुत्पत्तिमानेव ऋषिर्ब्रह्मा । प्राप्तपदा अप्राप्तपदाश्च देवगणाः ॥
त्वं वेत्थ नापरस्ते स्वरूपं न नित्यवाङ्नागभोगप्रियस्य ।
कुतो ब्रह्मा प्राप्तलोकाश्च देवास्तथाऽप्राप्ता जनिमन्तो यतोऽस्मात् ॥ इति सङ्कृतिश्रुतिः ।
महिम्नः सर्वशोऽनुक्तेर्वेदाश्चासमदर्शिनः । तस्यापि वेदगम्यत्वात्तथैव समदर्शिनः ॥ इति तन्त्रभागवते ॥ २५११ ॥
पदरत्नावली
हे स्मरणात् स्वनुराग सुष्ठु अनुरागः स्नेहो यस्य स तथा, तत्सम्बुद्धिः स्वनुरागेति ॥ स्मरणादेवानुरक्त इत्यर्थः । यत् तव सच्चिदानन्दलक्षणं तत् ते स्वरूपं भवान् वेद नान्यो वेत्ति । अनेन त्वं वेत्थ नापरस्ते स्वरूपमिति विवृतम् । भवत्यो मत्स्वरूपं विदन्ति हीति तत्राहुः– उरगेन्द्रेति ॥ उरसा गच्छन्तीत्युरगास्तेषामिन्द्र उरगेन्द्रस्तस्य भोग एव दण्डस्तस्मिन् विषक्ता धीर्यस्य स तथा तस्य ते तवाङ्घ्रिसरोजसुधामुद्दिश्य वयं नित्यवाचोऽपि समासमदृशः सर्वमाहात्म्यस्य वेदैरपि वक्तुमशक्यत्वादसमदृशः माहात्म्योपमितज्ञानाभावाः, वेदागम्यमाहात्म्यस्यापि वेदैरेव गम्यत्वात् समदृशस्तुल्यज्ञानाः । अत इह जगति अन्यः कोऽनु पुमान् माहात्म्यं वक्तुं वेद । अमुना न नित्यवाङ् नागभोगप्रियस्तेतद् विवृतम् । को हि अस्मान् वेदान् त्वां चर्ते अपेतजन्मलय उत्पत्तिनाशरहितः ? यतस्त्वत्त ऋषिर्ब्रह्मा उदगादुत्पन्नोऽतो जन्मादिरहितो न भवति । देवगणा अप्युक्तगुणा नेत्याहुः । ब्रह्मणोऽनु अनन्तरमुभये प्राप्तपदाः प्राप्यपदाश्च देवगणाः । अनेन कुतो ब्रह्मा प्राप्तलोकाश्च देवास्तथाऽप्राप्ता जनिमन्तो यतोऽस्मादिति श्रुतिर्व्याख्याता । ‘महिम्नः सर्वथानुक्तेर्वेदाश्चासमदर्शिनः । तस्यापि वेदगम्यत्वात् तथैव समदर्शिनः ॥’ इति वाक्यं चानुगृहीतम् ॥ २५ ॥
दुर्घटभावदीपिका
उरुगेन्द्रभोगदण्डविषक्तधिय इत्यस्य, वक्तुं को वेदेत्यस्य चोरगेन्द्रः सर्पश्रेष्ठः शेषस्तस्य भोगलक्षणो यो दण्डस्तत्र दयया विषक्तबुद्धेस्तव स्वरूपं को वेद न कोऽपीति तत्स्वरूपं वक्तुं कोऽपि समर्थो न भवतीति किमु वक्तव्यमित्यर्थः । एतेनोरगेन्द्र-भोगदण्डविषक्तधिय इत्यत्र दण्डेत्येतद्व्यर्थमिति दूषणस्यानवकाशः । भगवत उरगेन्द्रभोग-विषक्तबुद्धित्वे दयैव निमित्तं न तूरगेन्द्रभोगस्वसौख्यसाधनमिति बुद्धिरिति ज्ञापनार्थमुरगेन्द्रभोग-विषक्तत्वमित्यभ्युपगमात् । एतेन को वेदेत्यनेनैव पूर्णत्वाद्वक्तुमित्येतद्व्यर्थमिति दूषणं परिहृतम् । एतत्प्रमाणादेः शेषेण कैमुत्यन्यायेन वचनसामर्थ्यं नास्तीति ज्ञापयितुं वक्तुमित्युक्तमिति स्वीकारणतया वक्तुं वेदेति । तात्पर्यवाक्यमपि किम्वित्यादेः शेषेणैवमेव योजनीया ॥ २५ ॥
सत्यधर्मीया
स्मरणात्स्वनुरागेति श्लोकमप्रतीत्येवान्यथाप्रतीत्याऽपि स्वयं यथाव-द्व्याकरोति– हे स्मरणादेव स्वनुरक्तेति । हे इति यत आदावुक्त्वा मध्ये स्मरणा-त्स्वनुरक्तपदयोरेवकारं निबबन्ध । तेन स्मरणात्स्वनुरागेति पदमेकमित्यसूचयत् । अन्यथा स्मरणादेव हे स्वनुरक्तेति वदेदिति ज्ञेयम् । उपपादनं श्लोकव्याकृतौ करिष्यामः । स्मरणं च भक्तिस्तस्मादेव । स्वत्यन्तमनुरक्तिमन् । भक्तिमत्स्नेहयुक्तम् । तर्ह्यनुरागपदानुरागे न तदिति वक्तव्यमित्यत आह– तत्ते स्वरूपमिति । तच्छब्दोऽध्याहृतस्वरूपपदेनान्वेतीत्यनेन दर्शितः । भवान् । वक्ष्यमाणेतरवेदननिषेधलभ्यमर्थं सूचयितुमेवेत्युक्तम् । वेद । उरगेन्द्र-भोगदण्डविषक्तधिय इत्यस्य वयमित्यस्य विशेषणशेमुषीं मोषयितुं भाषतेे– विषक्तबुद्धेस्त इति । अङ्घ्रिसरोजसुधोरगेन्द्रेत्यादिपदयोः स्फुटार्थत्वादनुवादमात्रमिति मन्तव्यम् । वय-मपीति । श्रुतयस्तदभिमानिन्यो दुर्गाद्याश्च ग्राह्याः । समासमदृशश्च समा चासमा च समासमे दृशौ येषामित्येकेषामिदं विरुद्धं कथमित्यतोऽनूद्य व्याकरोति– समासमदृश इति । सर्वपर्यायः । सर्वमाहात्म्यस्य भगवद्भक्तस्य वेदैरपि वक्तुमशक्यात्वात्तेऽसमदृशः । उच्यन्त इति शेषोऽत्रोत्तरत्र च ज्ञेयः । ननु प्रथमतः समदृश इति क्रमप्राप्तं विहायासमदृश इति कुतो व्याकृतमिति चेन्न । समदृक्त्वं भाक्तमसमदृक्त्वं मुख्यमिति विशेषं सूचयितुमेवं व्याकृतवद्भिर्मानं वक्ष्यमाणं चानुकृतमिति ज्ञेयम् । वेदगम्यं यन्माहात्म्यं तत्त्वेन तस्य न ते विष्णो इत्यादिभिर्वेदैरेव नेन्द्रियाणि नानुमानं वेदा ह्येवैनं वेदयन्तीत्यादेर्गम्यत्वाद्वेदनीयत्वेन समविदश्च । तथा समशब्दो भावप्रधानः । समत्वेन साकल्येन पश्यन्तीति ते, ते न भवन्तीत्यसमदृशः । एवं समदृशः स्वयोग्यैवंविवृतसमदृशः । अतः को वा त्वदन्यस्त्वं साकल्येन वक्तुं वेद न कोऽपीत्यर्थः ।
उत्पत्तिमृतिरहितः कश्चिद्वर्तेत चेत्स जानीयादित्यत आहुः– को हीति । अस्मांस्त्वां च ऋते विना । अपेतौ जन्मलयौ यस्मात्स को न कोऽपि । हीति नस्तव च जन्म-मृतिराहित्यं ‘वाचा विरूपनित्यया’ । ‘श्रुतिर्वाव नित्या’ । ‘अनादिनिधना नित्या वागु-त्सृष्टा स्वयम्भुवा’ इत्यादेः । ‘नित्यो नित्यानां चेतनश्चेतनानाम्’ इति मानसिद्धमिति सूचयति । तत्रापि तन्नित्यनित्यत्वमपि परममुख्यं स्ववेद्यमिति दर्शयितुं स्वपुरस्कृतिः । ऋते योगे द्वितीयासम्भवस्तु प्रागुपपादितोऽनुसन्धेयः । केऽपि नोत्पत्त्यादिविकला इति मनसि निधाय ऋषिरित्यादिकं स्वयं व्याख्याति । एष ऋषिर्ब्रह्मा यतस्त्वत्त उदगादिति व्याचष्टे– उत्पत्तिमानेेवेति । उभये प्राप्तपदा अप्राप्तपदाश्चेत्युभयेति देवगणाश्चोत्पत्तिमन्त इति शेषः । अतो न विदुः । अपेतजन्मलया वयमपि यथा न समर्थास्तथाऽधिकार्यवधिर्विधिरपि नापेत-जन्मलय इति नालं कथा कोभयेषां मनीषिणामिति तात्पर्यं ज्ञेयम् । समदृशोऽसमदृश इत्यस्य स्वोक्तार्थे प्रमाणमुपन्यस्यति महिम्न इति । सर्वशोऽनुक्तेः स्वैस्ते वेदा असमदर्शनाः । तस्यापि सर्वशो महिमानं निरूपयितु मशक्यमित्यर्थस्यापि वेदगम्यत्वा-त्स्ववेद्यत्वात्ते समदर्शना इत्युच्यन्त इत्येतन्न विरुद्धमिति भावः ॥
ततश्चायं श्लोकार्थः ॥ हे स्मरणात्स्वनुरक्तेति पदमेकम् । अदित्यव्ययमाश्चर्यार्थक-मत्रावधारणार्थकमित्येवेति व्याख्यानं स्मरणादिति पञ्चम्यन्तविग्रहसूचकम् । स्मरणात् सु अत्यन्तमनुरागो यस्य स तत्सम्बुद्धिः । स्मरणादेवाततीत्यततेः क्विप् । सर्ववाक्यमित्यव-धारणलाभः । भक्तकर्तृकभक्तिहेतुकोऽनुरागो यस्य तत्सम्बुद्धिरिति वा । तत्स्वरूपं ते भवानेव वेद । वयमपि सदा तद्वचनरता इत्यपिर्द्योतयति । उरगेन्द्रः शेषस्तस्य भोगो देहः । यद्यपि भोगः सुखे स्त्र्यादिभृतवहेश्च फणकाययोरित्यमरस्तथाऽप्यत्र शरीरमात्रपरः । तस्मिन् दण्डेन दमेन वा तद्रूपे दण्डे वा विषक्ता धीर्यस्य तस्य तेऽङ्घ्रिसरोजसुधां वक्तुं समासमदृशा, माहात्म्यं साकल्येन वक्तुमशक्ता इत्यसमदृशः । साकल्येनास्मदसुसाधवचनमाहात्म्यस्यापि अस्मद्गम्यत्वाद्वयं समदृशोऽपीह जगति नु इदानीं तद्वक्तुं को वेद । यः कोऽपि तथाविधो भवेदित्यत आहुः– नु इदानीं क इति । क इत्यस्यावृत्तिः । अपेतजन्मलयोऽस्मांस्त्वामृते को न कोऽपि । यदि तादृशो वर्तेत तर्हि वदेत्स एव नेत्यर्थः । इयदामननादित्युक्तो वायु-र्ब्रह्मा वा ऋषिर्यतस्त्वत्त उदगादुत्पन्नस्तमनूभये प्राप्तपदा अप्राप्तपदाश्च देवा यत उदगुरुत्पन्ना अतो न शक्ता इति किं वक्तव्यमिति तात्पर्यम् ॥
कृष्णपक्षे ॥ सु अनुरागो यस्य तत्सम्बुद्धिः । उरगेन्द्रस्य भोगाः फणास्तेषां दण्डो दमनं तत्र विषक्ता धीर्यस्य तस्य ते अङ्घ्रिसरोजसुधां वक्तुमिह को वेद न कोऽपि । वयं न तव दूरे त्वमपि नास्माकं तथेति विज्ञापयन्ति– ते समासमदृश इति । समोऽसमदृग्विषम-दृक् त्र्यक्षो यस्य स तेऽग्रजो रामस्तस्य तदीयास्तद्भवानपि तदीयत्वं वेद । तत्तस्य स्मरणं प्राप्य तत्तमव । यतस्त्वमपेतजन्मलयो नित्यमुक्तऋषिर्ब्रह्मोदगान्मृदङ्गवादनार्थमुभये देवगणा गन्धर्वचारणा उदगुर्गानार्थम् । इ समेति छेदः । असमदृशोऽगेन पर्वतद्वारेन्द्रस्य यो भोगस्तस्य दण्डो येन तत्सम्बुद्धिः । विषक्ते विषाक्ते । तत्कोषासेत्यत्रेव शकन्ध्वादि-पररूपम् । धीर्येषां ते तत्स्त्रीजना उभये महाभये प्रलयकाले । अपेतजन्मलयो भगवानुदगाद् इ आश्चर्यम् । तत उः रुद्र ऋषिर्ब्रह्मा देवगणाश्च यमपिता सूर्यः स्वपुत्रीसुरसीकरणरसवान् सन् उदगादुन्नतादुदयाद्रेरुदगात् । असमदृशोऽङ्घ्रिसरोजसुधां क इह वक्तुं वेदेति वयं काः ।
अनीनदत्पद्मभवो मृदङ्गं जगौ हनूमान् जगतामधीशम् ।
अदर्शयत्तालगतीः कपर्दी ननर्त गोपालकबालमौलिरित्यादेः ।
विषाक्तबुद्धीनामङ्घ्रिसरोजसुधाऽसुसाधसम्पादेति किमिति नागाङ्गना वदन्तीति ॥
तथा चायं श्रुत्यर्थः ॥ नागभोगप्रियस्य ते स्वरूपं त्वमेव वेत्थ नापरो वेद । वेदोऽपि न वेदेत्याह– न नित्यवागिति । कुतो ब्रह्मा तथा प्राप्तलोकाः प्राप्तो लोकः पदं येषां ते तथा । तथाऽप्राप्ता अप्राप्तपदाश्च देवा कुतो विदुः । तत्र तन्त्रमाह । यतोऽस्मात्त्वत्त एव जनिमन्त उत्पत्तिमन्तस्तत इति ॥ २५ ॥ (११)
तर्हि न सन्न चासदुभयं न च कालजवः किमपि न तत्र शास्त्रमपकृष्य शयीत यदा ।
जनिमसतः सतो मृतिमजात्मनि ये च भिदां विपणमृते स्मरन्त्युपविश
ध्वनिमारुवतः ॥ २६ ॥
तात्पर्यम्
शास्त्रमपकृष्य प्रलये शास्त्रस्य प्रवृत्त्यभावात् । असतः सूक्ष्मरूपात्सतः स्थूलरूपस्य परमेश्वरपर्यन्तं यथाक्रमं जन्म मृतिं च सर्वस्मात्परमात्मनि भेदं च विपणं फलापेक्षामृते ये स्मरन्ति तेषां ध्वनिमुपविश । आरुवतो वायोः प्रसादात्तथा स्मरन्ति ॥
नासदासीन्नो सदासीत्तदानीं नासीद्रजो नो व्योमा परो यत् ।
किमावरीवः कुह कस्य शर्मन्नम्भः किमासीद्गहनं गभीरम् ॥ इत्यादिश्रुतिः ॥
सूक्ष्माणि महदादीनि स्थूलान्यण्डादिकानि च । उभयं त्वग्निरापश्च न किञ्चित्प्रलयेऽ-भवदिति प्रकाशसंहितायाम् ॥ सर्ववेदादिरूपेण प्राणस्यारुवतः सदा । प्रसादाद्ये विजानन्ति सूक्ष्मात् स्थूलजनिं क्रमात् । मृतिं च सर्वजीवादेरीशस्य व्यतिरिक्तताम् । जानन्ति ये निराकाङ्क्षास् तेषां वाचि जनार्दनः ॥ इति तन्त्रभागवते ॥ १६–१२ ॥
पदरत्नावली
यदा भवान् प्रलये शास्त्रमध्यापकपरम्पराप्राप्तं वेदमपकृष्यात्मनि निधाय शयीत । अध्येत्रभावे शास्त्रप्रवृत्त्यभावात् । तर्हि तदा सत् स्थूलमण्डादिकं नासीत् । असत् सूक्ष्मं महदादिकं नासीत् । उभयमग्निरापश्च । न च कालजवो जराद्यापादकलक्षणः । किं बहुना? तत्र किमपि वस्तु नासीदित्यर्थः । हे अज असतः सूक्ष्मरूपात् त्वत्तः सतः स्थूलरूपस्य जगतः परमेश्वरपर्यन्तं यथाक्रमं जनिं मृतिं च, सर्वस्मात् परमात्मनि भिदां भेदं च । विपणो व्यवहारः, त्वत्सेवालक्षणे धने दत्ते सुखपदार्थलक्षणं फलं देयमिति सङ्कल्पलक्षणः (इति?) अतः फलं लक्ष्यते । विशिष्टफलापेक्षामृते ये स्मरन्ति तेषां ध्वनिमुपविश । वाचि सन्निहितत्वेन तदुक्तविद्यया ज्ञातुं शक्योऽसीत्यर्थः । तत्रेत्थम्भावमाहुः । आरुवतो वेदादिभिः स्तुवतो वायोः प्रसादात् तथा स्मरन्ति नान्यथेत्यर्थः । ‘सर्ववेदादिरूपेण प्राणस्यारुवतः सदा । प्रसादाद् ये विजानन्ति सूक्ष्मात् स्थूलजनिं क्रमात् । मृतिं च सर्वजीवादेरीशस्य व्यतिरिक्तताम् । जानन्ति ये निराकाङ्क्षास्तेषां वाचि जनार्दनः ॥’ इति । ‘सूक्ष्माणि महदादीनि स्थूलान्यण्डादिकानि च । उभयं त्वग्निरापश्च न किञ्चित् प्रलयेऽभवत् ॥’ इति वचनादस्य श्लोकस्यायमेवार्थो न सदसद्वैलक्षण्यमर्थ इति ॥ २६ ॥
सत्यधर्मीया
तर्हि न सन्न चासदुभयमिति श्लोके शास्त्रमपकृष्येत्यत्र तदपकर्षणं कदा तत्किंरूपं सदादिशब्दवाच्यं च किमित्यतो व्याख्याति– शास्त्रमिति । यदा शास्त्र-मपकृष्येतरावाचकत्वेन स्वस्तुतिपरत्वं तदपकर्षणम् । तत्कृत्वा यदेति बोधितः कः काल इत्यत आह– प्रलय इति । तत्रैव हेतुमाह– शास्त्रप्रवृत्त्यभावादिति । प्रवृत्तिरितरप्रवर्तनं तस्याभावात् । सा किं विधत्ते कं वा निषेधतीति प्रागभिधानात् । असतः सूक्ष्मरूपा-न्महदादेः सकाशात्सतोऽण्डादेः स्थूलरूपस्यावधिमभिधत्ते । परमेश्वरपर्यन्तमितीशकोटि-निवेशान्न रमा पृथगुक्ता । परा च सा मा चेश्वरश्चेति तदुभयपर्यन्तमिति वा । यथाक्रमं केषाञ्चिदुपचयापचयौ तयाऽभिमत्यनभिमती इत्यादिकमनुसृत्य जन्ममृतिं ये स्मरन्ति सर्वस्माज्जगतः परमात्मनि भेदं च । विपणम् । पणेन व्यवहारेण निवृत्तं फलं तेन लक्ष्यते । विगतफलं यथा भवति तथा फलानाकङ्क्षयेति यावत् । इत्यभिप्रेत्याह– विपणं फला-पेक्षामृत इति । अन्वयं दर्शयन्व्याचष्टे– ये स्मरन्ति तेषां ध्वनिमिति । उपविश प्रविश तद्विषयो भवेति यावत् । तेषां स्मरणं न तत्स्वातन्त्र्येणेत्याह । आरुवतः सदा त्वां स्तुवतो वायोः प्रसादात्ते तथा स्मरन्तीति । स्वोक्तसदादिपदार्थसंवादिमानमाह– सूक्ष्मा-णीति । उभयमग्निरापश्चेत्युभयमारुवतो मारुतस्येति व्याख्यातम् । तत्र तथार्थसर्वस्वोर्वरिते तन्त्रभागवतवाक्यं मानं पठति– सर्ववेदादिरूपेणेति । आरुवतः । आङ्पूर्वाद्रुशब्द इत्यस्माच्छतरि उवङादेशे आरुवच्छब्दो निष्पन्न इति ज्ञेयम् । तस्येति किञ्चिदध्याहृत्य योजनां दर्शयति । यस्य वायोर्भीमस्य प्रसादात् । भूतेन्द्रियप्राणगुणसूक्ष्मरूपं च नित्यक-मिति तत्त्वविवेकोक्तेश्चतुर्विंशतितत्त्वानामपि सूक्ष्मताप्रतीतेस्तथैव जननाङ्गीकृतौ प्रकृतेर्महा-न्महतोऽहङ्कार इत्यादिना तत्त्वानां परस्परकार्यकारणतापरेण विरोध इत्यतः प्राक् स्वेनोक्त-यथाक्रममिति मूलमालपति– सूक्ष्मात्स्थूलजनिं क्रमान्मृतिं चेति । पूर्वपूर्वतत्त्वानां तत्तत्सूक्ष्मरूपस्य चोत्तरकारणत्वाङ्गीकारान्न तत्त्वविवेकविरोधः । सृष्टिश्च संसृष्टासंसृष्टभेदेन संसृष्टं महानहम् । बुद्धिर्मनः खानि दश मात्रा भूतानि पञ्च च । असंसृष्टमण्डं तद्गं च समस्तं सम्प्रकीर्तितमिति तत्त्वसङ्ख्यानोक्तदिशा ज्ञेया । ईशस्य मासहित ईशस्तस्य सहरमस्य । सर्वजीवादेर्व्यतिरिक्ततां भेदं ये निराकाङ्क्षा इति विपणमृत इत्यर्थः जानन्ति तेषां वाचि जनार्दनो विषयतया वर्तत इत्युपविश ध्वनिमित्यर्थः ॥
ततश्चायं श्लोकार्थः ॥ यदा शास्त्रमपकृष्य स्वतोऽन्यत्राप्रवर्तनमपकर्षस्तं कृत्वा स्वमात्रविषयं कृत्वेति यावत् । शयीत स च प्रलयकालः । मानस्यात्र पूर्वोक्तस्य सुस्मूर्षतुु भवान्कं वा विदधत इत्यादेः । तर्हि तदा । सदण्डादिस्थूलं नासीत् । असत्सूक्ष्मं महदादिकं च नासीत् । असदव्यक्तमुद्दिष्टं सदिति व्यक्तमुच्यत इति वचनात् । असदव्यक्तं, सन्मह-दादिकं वोभयं जलमनलश्चेति । कालजवस्तत्कृतो जरादिस्तत्र किमपि नासीत् । पूर्वतो नञनुवर्तनात् हे नतत्रेति सम्बोधयन्ति । हे अज । असतः प्रकृतेरुपादानभूताया-स्तथानिमित्तादसतोऽव्यक्तत्वेन तच्छब्दवाच्यत्वतः, सतः स्थूलस्य जगतस्त्वत्पर्यन्तं यथाक्रमं जनिं मृतिं चारुवतो वायोस्तत्प्रसादादात्मनि स्वामिन्यादानादिकर्तरि त्वयि सर्वस्मादितरस्मा-द्भिदाम् । अनेन नेह नानाऽस्ति किञ्चन । एवं धर्मान्पृथक् पश्यन्नित्यादिबाधा च गाधीकृतेति ज्ञेयम् । विपणमृते फलाकाङ्क्षां विना । जानन्ति तत उत्तरं स्मरन्ति च ये तेषाम् एवं ध्वनिमुपविश तद्विषयो भव । अतः सृष्टिं कुर्वित्यादित एतत्पर्यन्तं तथोत्तरत्रापि प्रान्तपर्यन्तं योजनीयम् ॥
कृष्णपक्षे ॥ हे नतत्र । आदेश चेत्यात्वेऽऽतोऽनुपसर्गे क इति के, नतांस्त्रायत इति तत्सम्बुद्धिः । यर्हि शास्त्रमपकृष्य परतरुणीरमणमकार्यमित्यावेदकं शास्त्रमपकृष्य तुच्छी-कृत्येति यावत् । भवान् शयीतास्मभिः सहेति शेषः । तर्ह्यसदुभयमसद् रुद्रो ऊहीति यस्या-सावसद् रुद्रद्विण्मन्मथस्तस्माद्भयं यत्सत्प्राक् तन्न न सदिवासीत् । स्वेत्युक्तिस्तु चञ्चलाक्ष्य-स्तच्चञ्चलतावेदित्र्य इति युक्ता । कालजवः सञ्ज्ञातो न नाभूत् । असदुभयम् । किञ्च कालः किं चकार न किमपीति जवस्तद्वेगो न सन्निति वा । जवस्तेन सहागच्छन्तो वसन्तादयो नेति वा । यदा न शेषे तदैतद्दशेत्यादिशन्ति ॥ यर्हीति त्वं न शयीति । तर्हि सत इदानीं विद्यमानदेहस्य मृतिमसतो भावितयेदानीमविद्यमानस्य जनिं तथाऽऽत्मनि शरीरे भिदां खण्डनं वा स्मरन्ति मृतिं पुनः सृतिं खण्डशः खण्डनं वा स्मरन्ति भवत्विति । ये त्वदन्ये स्मरन्ति स्मरवदाचरन्ति रूपेण तानारुवतस्तथा स्वान्प्रति शब्दं कुर्वतस्तेषामुपविशन्स्वकर्ण-शष्कुलिं प्रविशन् यो ध्वनिस्तं च । विपणं त्वद्व्यवहारमृते न स्मरन्तीत्यावृत्तमन्वेति । हे ईत रमासमेत । यदा विपणं राज्यादिव्यवहारमृते शयी शयः शयनं तदस्यास्तीति स मुचुकुन्दः यत्र तत्रासतो जनिं सतो मृतिमेवामात्मनि जीवजाते देहभिदां विशेषं च बहुकालगतेः स्मरन्ति अधुनातनाः । किमपि सद्बलम् । तर्हि तदा । नासत्सहाविद्यमानं चेति न सन्नशीर्णं रणस्यैवाकारणात् । उभय ओः सर्वाधिकस्य भयं भयदम् । नतत्रशास्त्रम् । तं त्रायत इति तत्र च तच्छास्त्रसाधनमस्त्रं यस्य नतत्रशास्त्रस्तम् । निरायुधं प्रति निरायुधा-दरोगतेरेवौचित्यादिति भावः । ‘अस्त्रं प्रहरणे चाप’ इति विश्वः । यस्यासतो दुर्बुद्धेर्गर्गात्सृष्टिं वदन्ति तमपकृष्य गुहापर्यन्तं नीत्वा यदा त्वमसन्निवाभवस्तर्हि सकालजवः । यकारस्थाने जकारः । कालयव एव कालजवः स एव कालजवनः । सनाद एव सनादन इति वैपरीत्येति ज्ञेयम् । स्त्र्यादिशब्दनिरुक्तिपरे एकादशस्कन्धतात्पर्ये जुष्टत्वाद्योषदित्युक्ता वननाद्वनितेति च । ‘प्रमादकारणत्वात्तु प्रमदेति च गीयत’ इति भक्तिविवेक इत्युक्तेः ॥
ततश्चेयं श्रुत्यर्थे तत्त्वोद्योतटीका ॥ ननु नासदासीदित्यादिनाऽऽगमोऽनिर्वचनीयामविद्यां वक्ति । सदसती प्रतिनिषिध्य तम आसीदिति महाप्रलयेऽविद्यावस्थानस्योक्तत्वात् । न चासतः सत्त्वप्रसक्त्यभावेन तन्निषेधायोगादनुपपन्नार्थं वाक्यं नानिर्वचनीयामविद्यां गमयितु-मलमिति साम्प्रतम् । अत्र सदसच्छब्दयोर्भावाभावपरत्वेनाङ्गीकृतत्वात् । भावाभाव-वैलक्षण्येनानिर्वचनीत्वसिद्धेः । अतः कथं न भावाभावविलक्षणं क्वचिदागमो वक्तीति । तत्राह । नासदासीन्नो सदासीत्तदानीं नासीद्रजो नो व्योमापरो यदित्यत्र च चशब्देन भावाभावविलक्षणं न वक्तीत्येतदनुकृष्येते । इदं खलु वाक्यं प्रलये सदसतोरभावं तमसश्च भावं प्रतिपादयदनुभूयते । पुनस्तमः सदसद्विलक्षणमिति । ननु सदसतोरभावेऽवस्थितस्य तमसो बलात्सदसद्विलक्षणत्वमापद्यत इति चेत् । सत्यम् । न तर्हीदं वाक्यमविद्याऽ-निर्वचनतायामागमयितव्यम् । पदार्थसंसर्गमात्रस्यागमार्थत्वेन सामर्थ्यलब्धस्यातदर्थत्वात् । तथोक्तम् । यश्चार्थादर्थो न स चोदनार्थ इति ॥
मा भूदिदं वाक्यमनिर्वचनीयाविद्यायामागमतया प्रमाणं परिशेषतया तु भविष्यतीति । तथा हि । तम आसीदिति महाप्रलये तमसोऽविद्यापरपर्यायस्यावस्थानमभिहितम् । तस्य च प्रसक्तानां सत्त्वादिप्रकाराणां नासदासीत्यादिना सदसदभावाभिधानेन प्रतिषेधे सत्यन्यत्रा-प्रसङ्गात् । परिशिष्यमाणे तसमोऽनिर्वचनीयत्वे बुद्धिर्भवतीत्याशङ्क्यार्थान्तरं विवक्षुस्तत्सिद्धये पराभिमतार्थेऽनिष्टं प्रसङ्गं तावदाह । परिशेषेणानिर्वचनीयत्वाङ्गीकारे आनीदवातं स्वधया तदेकमिति तदानीं परिशिष्टत्वाद्ब्रह्मण एवानिर्वचनीयत्वं स्यात् । यद्यस्य वाक्यस्योक्तविधया परिशेषप्रमाणत्वेन तसमोऽनिर्वचनीयत्वमङ्गीक्रियते तदा परमार्थतयाऽङ्गीकृतस्यैव ब्रह्मणोऽप्यनिर्वचनीयत्वं स्यात् । तस्यापि तमोवदानीदवातमिति वाक्येन तदानीं प्रलये परिशिष्टत्वावगमात् । उभयोरपि परिशिष्टत्वेनावगतयोरन्यतरस्मिन्नेव परिशेषेणानिर्वचनीय-तापाते नियामकाभावात् । ब्रह्मणः पारमार्थिकत्वे प्रमाणमस्तीति चेन्न । तमसोऽपि तस्य वक्ष्यमाणत्वात् । अतो नैतद्वाक्यं प्रसिद्धसदसन्निषेधपरमिति । तदेकं सर्वोत्तमं ब्रह्मावातं वातप्रेरणया विनैव स्वधया सुखेनैव न तु सुखप्राप्त्याद्यर्थमानीदचेष्टतेति श्रुत्यर्थः ॥
ननु महाप्रलये ब्रह्मणोऽवस्थानं परस्य सम्मतमेव । तत्किं तत्समर्थनायानीदवातमिति वाक्यमुपादीयते । मैवम् । यदीदमनुदाहृत्यातिप्रसङ्गोऽभिधीयते तदैतद्वाक्यप्रकृतस्यैव सन्निहितत्वादनेन प्रतिषेधस्य क्रियमाणत्वान्नातिप्रसङ्ग इति परः परिहर्तुमुत्सहेताऽपि तन्निरासायैतत्प्रकरणगतवाक्येनैव ब्रह्मणोऽवस्थानमुपपादनीयम् । यदि तर्हि प्रतीतोऽर्थोऽनु-पपन्नः कोऽर्थोऽस्य ब्रह्मतमसोः सदसद्वैलक्षण्यस्येति । अतः श्रुत्यन्तरेण तं दर्शयति ।
मूर्तं सदिति सम्प्रोक्तममूर्तमसदुच्यते ।
मूर्तामूर्तेतरद्ब्रह्म न सत्तन्नासदुच्यत इति पैङ्गिश्रुतिः ।
ब्रह्मेत्युपलक्षणम् । प्रकृत्याख्यं तमोऽपीति ज्ञातव्यम् ।
ननु सर्वगतपरिमाणं मूर्तं ततोऽन्यत्सर्वममूर्तम् । तथा च भावाभावात्मकस्य सर्वस्यापि मूर्तामूर्तान्तःपातित्वात्ततो विलक्षणत्वे ब्रह्मप्रकृत्योरनिर्वचनीयतातादवस्थ्यमिति चेन्मैवम् । मूर्तशब्दस्य पृथिव्यप्तेजोविषयत्वेनामूर्तशब्दस्य वाय्वाकाशपरत्वेन सर्वस्य तदन्तर्भावाभावा-द्ब्रह्मप्रकृत्योश्च पञ्चमहाभूतविलक्षणत्वस्योपपन्नत्वात् । इति भावेन सदसच्छब्दौ श्रुत्यन्तरेण व्याख्याति । यदन्यद्वायोश्चान्तरिक्षाच्चैतत्सदिति माध्यन्दिनश्रुतिः । वायुरन्तरिक्षं चासदिति श्रुतिशेेषः ॥
ततश्चायं श्रुत्यर्थो भवति ॥ तदानीं प्रलयेऽसदमूर्तं वाय्वन्तरिक्षाख्यं नासीत् । सच्च मूर्तं पृथिव्यप्तेजोरूपं नो आसीत् । रजःशब्देनोपलक्षितं गुणत्रयं च नासीत् । यत्परः परं सर्वगतमव्याकृतं व्योम तच्च मूर्तसम्बन्धाभावान्नो आसीत् । सदसच्छब्दयोर्भावाभावपरत्वे प्रसिद्धमूर्तामूर्तपरत्वे वा सर्वस्य तदन्तर्भावात्पुना रजःप्रभृतेः प्रतिषेधोऽनर्थकः स्यादित्य-निष्टान्तरसूचनार्थं प्रागधिकांशोदाहरणं कृतम् । अन्यथा नासदासीन्नो सदासीदित्याद्ये-वोदहरिष्यत् । ननु प्रतीतार्थे बाधितेऽर्थान्तरमावश्यकमेव तत् किं श्रुत्युदाहरणेन । मैवम् । बाधकेनार्थान्तरमेव लभ्यते न तु तद्विशेषोऽपीति । तत्राश्रयणीयमेव श्रुत्यन्तरमिति ॥
न मृत्युरित्यारभ्य यदि वा न वेदित्यष्टमाष्टकसप्तमाध्यायसप्तदशवर्गः सम्पूर्णो नास-दासीदितर आदिशब्दगृहीत्सस्यापि छाययाऽर्थः कथ्यते । तर्हि तदानीममृतं नासीत् । अह्नो रात्र्याश्च प्रकेतः प्रभावो नासीत् । एतदादेरभावे किं वस्तु कुह कुत्र कस्याधिकारिणः शर्मन् परमे व्योमन्नितिवत्सप्तमी । सा च सीमि्न पुष्कलक इत्यादिवत्तादर्थ्ये सुखार्थम् । आवरीव आवर्तत । वृञ् वरणेऽस्माद्गम्लृ गन्ताच्छान्दसे लटो रूपम् । धातूनामनेकार्थत्वात्किम-वर्ततेत्यर्थो ज्ञेयः । गहनं गभीरं यच्चेतनप्रकृतिरूपमम्भः स्वसामर्थ्येनासीत्किं नैवासीत् । किन्त्ववातं वातप्रेरणारहितं तद्ब्रह्मैकमेव स्वधया सुखेनैव । योऽसौ विष्णुर्जले इति । आनीदवातमिति या वेदवागवदत्स्फुटम् । अप्रकेते तु सलिले ब्रह्म नारायणोऽपि स इति छान्दोग्यभाष्योक्तेरप्रकेते सलिल इति । तथा न्यायदीपिकायां सर्वस्मिन्देशे सलिलं भूत्वाऽऽसीदित्याद्युक्तोऽर्थोऽनुसन्धेयः । आनीदचेष्टत । तस्माद्ब्रह्मणोऽन्यत्किञ्चन नास परः परमपि नास । ह प्रमितमिदम् । अग्रे प्रलये यत्तमोऽप्रकेतमपरिमितं सलिलं भूत्वा प्रकृत्याख्यं तम आः आसीत् । यथोक्तमृग्भाष्ये ॥
कृत्वीहत्वीति पूर्वाश्च तृतीयोऽतिशये यतः ।
विश्लिष्टार्थे च विश्लिष्टमूनार्थे चोनमिष्यते ॥
सलिलमासीदिति वक्तव्ये आ इत्याद्यूनं चार्र्थस्योनत्वे ज्ञेयमिति तट्टीकायां चोक्तेरा इत्यस्यासीदित्यर्थः । अस्तेर्लिङि तिपि बहुलं छन्दसीतीडाभावे हलङ््याभ्य इति तिलोपे तिप्यनस्तेरिति पर्र्युदासाद्वकाराभावः । भावबोधे त्वाङोऽर्थः सम्यगित्युक्तं कथमित्यनुयोक्तृ-वक्त्रमुद्रणमस्मत्कृतभाष्यदीपिकायुक्तिवात्यायां कृतमनुसन्धेयम् । सर्वमिदं गू्हं गूहित-मासीत् । एतद्रूपेण तुच्छेनापूर्णेनेत्यनुदीरणेनापि आभु व्याप्तमपि । यथोक्तं भाष्यतत्त्व-प्रकाशिकयोः । तुच्छेनाभ्वपिहितं यदासीदिति च । अल्पेनाव्यक्तेन विभु ब्रह्म अपिहित-मासीदित्यर्थ इति । अपिहितमाच्छादितमासीत् । अनेनेच्छयैवाच्छादितमिति ध्वन्यते । तदेकं ब्रह्म तपसो ज्ञानस्य महिना महिम्ना सहितमजायत । तत्तस्याग्रे कामोऽधि समवर्तत । यदा तत्तदा प्रथमं तस्य मनसः कामस्य सकाशाद्रेत आसीत् । तच्च सन्मुख्यप्राणः सत इत्यनुवादात् । सद्वाव प्राण इति श्रुतेः । असति प्रलये सतः प्राणस्य बन्धुं कवयो मनीषा मनीषया । सुपां सुलुगिति तृतीयालुक् । प्रतीष्य विचार्य । साहितिको दीर्घः निरविन्दन्नलभन्त । एषां कवीनां रश्मिः प्रकाशो ज्ञानमधिस्विदधोऽपि उपरिस्विदुपर्यपि तथा तिरश्चीनोऽप्यत एवं वितत आसीत् । हिमानस्तद्वन्तो रेतोधा रतिधारको भगवान्स्वधा स्वधारको यश्च परस्तादनन्तरं सृष्टिकाले प्रयाति व्यापारवांस्तवोऽवस्तादधस्तान्नीचा आसन् । परस्ताच्छ्वेतदीपादौ यो वर्तते तस्यावस्तादधास्तादिति वा । विसृष्टिरुत्पत्तिः सृष्टिविरुद्धा मृतिश्च कुतः कस्मादजातेति कोऽद्धा सम्यग्वेद कश्च प्रवोचत्प्रावोचत् । न कोऽपि वेद न प्रावोचश्च । अस्य विसर्जनेनोत्पत्त्यादिनेतरे देवा अर्वाग्जाताः । स को वायुर्यतः स्वयमाबभूव सम्यगधिकार्यधिकोऽभूत् ॥
अथ ततः स वेदादिकमित्यतो विविच्याह– इयमिति । यत इयं विसृष्टिराबभूव विविधा सृष्टिर्यस्याः सा प्रजा दधे धृता पालितेति यावत् । यदि वा यस्मान्न दधे नष्टा च भवति । अद्धा वेद वायुरिति प्रागुक्तं तत्तात्पर्यमाह– य इति ॥ अस्य जगतो योऽध्यक्षः सः । यशब्दो वायुवाची । यः सर्वनामानिलयोरिति विश्वः । परमे व्योमन् । विपूर्वकादवतेर्ज्ञानार्थादन्येभ्योऽपि दृश्यन्त इति मनिनि नेड्वशीतीट्प्रतिषेधे ज्वरत्वरेत्यादिना वकारलोपेऽटि सवर्णदीर्घे गुणे च सुपां सुलुगिति सप्तम्या लुकि नङि सम्बुध्योरिति लोपप्रतिषेधे व्योमन्निति ज्ञेयम् । सर्वज्ञे तद्विषये स वायुरपि यदि वाऽसाकल्येन चेद्वेद साकल्येन चेन्न वेदेति ॥
मृत्युरासीदमृतं न तर्हि न रात्र्या अह्न आसीत्प्रकेतः ।
आनीदवातं स्वधया तदेकं तस्माद्धान्यन्न परः किञ्च नास ॥
तम आसीत्तमसा गू•मग्रेऽप्रकेतं सलिलं सर्वमा इदम् ।
तुच्छ्येनाभ्वपिहितं यदासीत्तपसस्तन्महिनाजायतैकम् ॥
कामस्तदग्रे समवर्तताधि मनसो रेतः प्रथमं यदासीत् ।
सतो बन्धुमसति निरविन्दन्हृदि प्रतीष्या कवयो मनीषा ॥
तिरश्चीनो विततो रश्मिरेषामधःस्विदासीदुपरि स्विदासीत् ।
रेतोधा आसन्महिमान आसन्स्वधा अवस्तात्प्रयति परस्तात् ।
कोऽद्धा वेद क इह प्रवोचत्कुत आजाता कुत इयं विसृष्टिः ।
अर्वाग्देवा अस्य विसर्जनेनाथ को वेद यत आबभूव ।
इयं विसृष्टिर्यत आबभूव यदि वा दधे यदि न ।
योऽस्याध्यक्षः परमे व्योमन्स अङ्ग वेद यदि वा न वेद ॥ २६ ॥ (१२)
त्रिगुणमयः पुमानिति यदबोधकृता
त्वयि न (तु)भवेत् तदवबोधरसे ।
सदिव मनस्त्रिवृत् त्वयि भवत्यसतां मनुजा
दयो विमृशन्त्यशेषमिदमार्ततयाऽऽत्मविदः ॥ २७ ॥
तात्पर्यम्
अबोधकृता त्रिगुणबद्धता । यस्माज्जीवस्यापि तस्मात्तदवबोधरसे त्वयि सा न विद्यते । त्रिगुणात्मकं मनस्तवापि विद्यते इत्यसतां पक्षः ॥ मनुजानामादयो देवास्त्रिगुणातीतत्वाद्भवतो भवानेव परमानन्दः । त्वदन्यत्सर्वं जीवजातमार्तमित्येव विमृशन्ति ।
सत्वादिजं देहमथो मनश्च सत्वादिबद्धं च वदन्त्यसन्तः ।
परं पुमांसं न सुरास्तु तैर्हि जीवाः सुदृष्टा परमार्तरूपाः ॥ इति सूकरायणश्रुतिः ॥
त्रैगुण्यदेहेन्द्रियकमासुरा जानते हरिम् । त्रिगुणातीतमीशेशमतः पूर्णसुखं सुराः ॥ जानन्ति गुणबद्धत्वाज्जीवानार्तांश्च कृत्स्नशः । अनार्तस्य प्रसादेन तेषामार्तिविनाशनम् ॥ इति चैतन्यविवेके ॥ २७–१३ ॥
पदरत्नावली
पुमान् जीवस्त्रिगुणमयः सत्वादिगुणबद्ध इति जीवस्यापि त्रिगुणबद्धता अबोधकृता अज्ञानकृता यतस्तस्मादवबोधरसे त्वयीति सप्तमी षष्ठ्यर्थे । त्रिवृत् त्रिगुणात्मकं मनस्त्वयि तवापि सदिव विद्यत इत्यर्थः । (अयं) असतां पक्षो भवति न तु सताम् । सतां पक्षस्त्वयमित्याहुः– मनुजादय इति ॥ आत्मविदः सम्यक् परमात्मतत्वज्ञानिनो मनुजानामादयो देवा भवतस्त्रिगुणातीतत्वाद् भवानेव परमानन्दस्त्वदन्यदिदमशेषं जीवजातमार्ततया स्थितमित्येव विमृशन्ति जानन्ति । ‘त्रैगुण्यदेहेन्द्रियकमासुरा जानते हरिम् । त्रिगुणातीतमीशेशमतः पूर्णसुखं सुराः । जानन्ति गुणबद्धत्वाज्जीवानार्तांश्च कृत्स्नशः । अनार्तस्य प्रसादेन तेषामार्तिविनाशनम् ॥’ इति चैतन्यविवेके ॥ २७ ॥
दुर्घटभावदीपिका
त्रिगुणमयः पुमानिति यदबोधकृतेत्यस्य यद्यस्माज्जीवस्यापि पुमान् जीवस्त्रिगुणमयस्त्रिगुणबद्ध इति श्रुत्यादिप्रसिद्धा या त्रिगुणबद्धता साऽबोधकृता भगवदज्ञानकृते-त्यर्थः । एतेन त्रिगुणबद्धतेत्यस्य शेषोऽस्ति न वा । आद्ये त्रिगुणमयः पुमानितीत्यस्यानन्वय इति शङ्का परास्ता । त्रिगुणमयः पुमानितीत्यतः परं श्रुत्यादिप्रसिद्धायास्त्रिगुणबद्धतायाश्च श्रुत्यादिप्रसिद्धत्वं वक्तुं त्रिगुणमयः पुमानितीत्युक्तमित्यभ्युपगमात् ॥ २७ ॥
सत्यधर्मीया
त्रिगुणमयः पुमानिति श्लोको दुर्घटः सदर्थः प्रपञ्चमिथ्यात्वाभिधायीति च प्रतीयते । तदर्थं स्वयमभिधत्ते– अबोधकृतेति । जीवस्यापि यस्मात्त्रिगुणबद्धकृताऽ-ज्ञानकृता तत्कारणिका । तदित्यव्ययं तस्यार्थस्तस्मादिति । अवबोधरसे ज्ञानादिना घने तदात्मके त्वयि त्रिगुणबद्धताहेतुभूताज्ञानाभावहेतुरवबोधरस इति सा त्रिगुणबद्धता न विद्यते । सदिव मनस्त्रिवृतमित्यादिकं व्याख्याति– त्रिगुणात्मकमित्यादिना । त्वयीत्य-स्यार्थस्तवापीति । त्रीन्गुणान्वृणोति स्वोपादानकारणतयेत्यात्मपदेन सूचयति । सदिवेत्य-स्यार्थो विद्यत इति । असतामित्युत्तरं किञ्चिदध्याहृत्य व्याकरोति– पक्ष इति । मनुजा आदयो येषामिति भ्रान्तिं परिहरन्व्याकरोति– मनुजानामादयो देवा इति । आदिर्ना कारणमित्युक्तेर्मनुजानामादयः कारणानि प्रयोजका इति विग्रहः सूचितः । नृपत्नीरित्यत्रेवा-साधारण्येन न्यायेन मनुजपदमेव सुररूपविशिष्टमनुजवाचकमिति त आदयो येषामिति विग्रहोऽपि सुग्रहः किमित्येवं व्याख्यानमिति चेत् । माने सुरा इत्येवोक्तेर्झटिति च मानवमात्रप्रतीतेश्चैवं व्याख्यानमिति सन्तोष्टव्यम् । इवार्थमर्थलभ्यं दर्शयितुमाह– भवत-स्त्रिगुणातीतत्वादिति । तद्विमर्शनप्रकारं दर्शयति– भवानेवेति । आत्मविदस्तज्ज्ञाः । भवानेव परमानन्दः । आर्तविशेषणार्तिप्रतियोगित्वेन परमानन्दलाभ इति ज्ञेयम् । अशेष-मिदमित्यर्थस् त्वदन्यत्सर्वं जीवजातमिति । आर्तमित्येव परमदुःखीति विमृशन्ति । एवेति तद्विमर्शस्य डोलायमानता नेति सूचयति । स्वोक्तार्थे मानमानन्दतीर्थमुनिराह– त्रैगुण्य-देहेन्द्रियकमिति । त्रिगुणविकृतानीति त्रैगुण्यानि देहेन्द्रियाणि यस्य स इति तम् । आसुरा असुरा हरिं जानते । अनेनासतां पक्ष इति मूलमालक्षितम् । त्रिगुणातीतम् इति हेतु-गर्भविशेषणमिति सूचयत्यत इत्यनेन । ईशेशं पूर्णसुखं सुरा जानते । गुणबद्धत्वा-ज्जीवान्सर्वशो विशेषेणार्तांश्च जानते । तर्हि तदार्तेरार्तिः कदेत्यतोऽभिधत्ते– अनार्तस्येति । अनेेन स्वयमनवतीर्णनयो नेति सूचयति ॥
ततश्चायं श्लोकार्थः ॥ यद्यस्मात्पुमान् जीवस्त्रिगुणमय इति तत्त्रिगुणबद्धताऽबोधकृताऽ-ज्ञानकृता तस्मादवबोधरसे ज्ञानात्मके त्वयि न तु भवेत् । त्वयि तव मनोदेहेन्द्रियादिकं त्रिवृत्त्रिगुणात्मकं सदिव विद्यत इत्यसतां पक्षः । सतां क इत्यत आह । आत्मविदो भगवज्ज्ञा मनुजादयो देवाः । इदमशेषमार्ततया विमृशन्ति दुःखिततया जानन्ति । त्वां तु पूर्णसुखं जानन्तीत्यर्थलब्धो मानानुयाम्यर्थः । हे ईद कामितवितरितः । आत्मविदस्तव सकाशान् मार्ततया नार्ता ये ते मार्तास्तत्त्वेन अशेषं भक्तजनं जानते चेत्यावृत्त्याऽन्वयेऽनु-कृतं मानमिति मन्तव्यम् ॥
कृष्णपक्षे ॥ कालियकामिन्य आहुः– त्रिगुणमय इति । अयं नः पुमानस्मत्पुरुष इदानीमपि मानिन्योऽस्मद्गृहपुरुषा इति स्वभर्तृविषये व्यवहरन्तीति । त्रिगुणमय इति हेतोर-बोधकृता अज्ञानेनानुष्ठिता । रीतिरिति शेषः । तुरितः परं न स्थास्यति सा इति विशेष-सूचकः । बोधरसे त्वयीदमशेषं सज्ज्ञानं भवेत् । त्वयि मनो न त्रिवृत् । हे असतां मनुज तत्त्वेन प्रतीत । भवानदयश्चेद्भवति दमार्ततया दमेन याऽऽर्ता तयाऽऽत्मविद एतद्देहज्ञा अशेषतो मि नष्टं जीवनमिति विमृशन्ति जानते । मीङ् हिंसायामिति स्मरणात् । अतो वस्त्रिगुणं त्रिगुणितां रज्जुं मयते गच्छतीति सः पुमानिति किंवदन्ती । अबोधकृता सा त्वयि न भवेत् । तत्र तन्त्रमवबोधरस इति । येन स नलकूबरश्च मणिग्रीवश्च दिवं गतः । अनश्च त्रिवृत्त्रिभागं वृणोतीति तत्तथा । असतां दुर्जन्तूनां मनस्त्वयि सदिव भवति । मनुजा-दयोऽत्रत्या आत्मविद एतच्छरीरमर्मज्ञा अशेषं शेषरूपबलविकलमिदमस्मत्कामितदमार्ततया विमृशन्त्यतोऽप्यवेति ॥
ततश्चायं श्रुत्यर्थः ॥ सत्त्वादिजं हरेर्देहं गुणत्रयजातं वदन्ति तथा मनश्च तथा वदन्ति । अतोऽनन्तरं परं पुमांसं सत्त्वादिबद्धं च वदन्ति । ते च क इत्यत आह– असन्तो दैत्या इति । सुरास्तु न वदन्तीत्यन्वयः । तैर्देवैर्जीवा ईशव्यतिरिक्ताः परमार्तरूपा दृष्टाः । किञ्च परेण मार्तरूपाः प्रसादे सति निरार्ता भवन्तीति दृष्टा इत्यप्यर्थः ॥ २७ ॥ (१३)
**न हि विकृतं त्यजन्ति कनकस्य तदात्मतया स्वकृतमनुप्रविष्ट इदमात्मतया **
रसितम् ।
**तव ये परिचरन्त्यखिलतत्वनिकेततया ननु ते पदाऽऽक्रमन्त्यविगणय्य शिरो **
निर्ऋतेः ॥ २८ ॥
तात्पर्यम्
यथा कनकस्य विविधकृतं कुण्डलादिकं कनकं विना परित्यक्तुं न शक्यते तथा स्वकृतं जगदनुप्रविष्टो भगवान् मूलरूपं विना परित्यक्तुं न शक्यः ॥ आत्मतया एकरूपत्वात् ॥ रसितम् आत्मना प्रकाशितं जगत्प्रविष्टस्तस्मात्सर्वगतो विष्णुरिति ज्ञातव्य इत्यर्थः ॥ इत्थं ये ज्ञात्वा परिचरन्ति तव स्वरूपं ते ऋतात्मकब्रह्मप्राप्तिविरुद्धत्वा-न्निर्ऋत्याख्यसंसारस्य शिरः स्फुटं पदाऽऽक्रमन्ति ।
सर्वगं ये प्रपश्यन्ति ब्रह्मानन्दमजाक्षरम् ।
एकमेवाद्वयं नित्यं निर्ऋतेस्ते शिरो गताः ॥ इति सौकरायणश्रुतिः ॥
यथैव कुण्डलं त्यक्त्वा नादातुं कनकं शकम् । तथैव तदवस्थत्वात्केवलाभेदतः स्पुटम् । एवं सुरासुरनरेष्वास्थितो भगवान् हरिः । नैव भेदेन मन्तव्यो जीवभेदे तु सत्यपि । ये तथा भिन्नमीशेशं पश्यन्ति परमर्षयः । ऋतप्राप्तिविरुद्धत्वात्संसारं निर्ऋतेः शिरः । अगणय्य पदाक्रम्य वैष्णवं निलयं ययुः ॥ इति गारुडे ॥ २८–१४ ॥
पदरत्नावली
यथा कनकस्य विकृतं विविधकृतं कुण्डलादिरूपं कनकं विना परित्यक्तुं न शक्यते नेदं कनकं सर्वमिति । तत्र हेतुस्तदात्मतयेति । कनकस्वरूपत्वेन प्रमाणसिद्धत्वात् । तथा स्वकृतमिदं जगदनुप्रविष्टो भवान् मूलरूपं विना परित्यक्तुं न शक्यः । तत्र हेतुरात्मतयेति । एकस्वरूपत्वात् । कीदृशं जगत् प्रविष्टः ? रसितं लसितमात्मना प्रकाशितं जगत् प्रविष्टः । तस्मात् सर्वगतो विष्णुरिति ज्ञातव्य इति तात्पर्यार्थः । एवंविधज्ञानेन किं प्रयोजनम् ? तदाह– तवेति ॥ ये तवाखिलतत्वानि निकेतनानि अधिष्ठानतया आश्रयो यस्य स तथा, तस्य भावस्तत्ता तया स्वरूपं ज्ञात्वा परिचरन्ति पूजयन्ति । यद्वाऽखिलतत्वानां निकेततया ते ज्ञानिन ऋतात्मकब्रह्मप्राप्तिविरुद्धत्वान्निर्ऋताख्यस्य संसारस्य शिरः स्फुटं पदाऽऽक्रमन्ति । ननु किं कृत्वा ? अविगणय्य, संसारमिति शेषः । आचार्यैरत्र यायाः श्रुतयोऽध्येतृपरम्परासिद्धास्ता एवोदाह्रियन्ते न त्वन्याः । लोकप्रत्ययार्थं तत्र श्रुत्युक्ताधिकार्थे पुराणानि चोपात्तानि । ‘यथैव कुण्डलं त्यक्त्वा नादातुं कनकांशकम् । तस्यैव तदवस्थत्वात् केवलाभेदतः स्फुटम् । एवं सुरासुर-नरेष्वास्थितो भगवान् हरिः । नैव भेदेन मन्तव्यो जीवभेदे तु सत्यपि । ये तथा भिन्नमीशेशं पश्यन्ति परमर्षयः । ऋतप्राप्तिविरुद्धत्वात् संसारनिर्ऋतेः शिरः । अगणय्य पदाऽऽक्रम्य वैष्णवं निलयं ययुः’ इति गारुडे ॥ २८ ॥
दुर्घटभावदीपिका
रसितमिदं प्रविष्ट इत्यस्यात्मना निमित्तेन रसितं नानाकार्यकारण-रूपप्रकाशयोग्यम् । जगत्कर्तृत्वात्तत्र प्रविश्य जगता नानाकार्याणि कारयतीति । एतेन रसित-मित्येतद्व्यर्थमिति दूषणं परास्तम् । नानाकार्याणि कारयितुं भगवतो जगत्प्रवेश इति सूचयितुं रसितमित्यनेन जगतो नानाकार्यकरणरूपप्रकाशयोग्यत्वमुच्यत इत्यभ्युपगमात् ॥ २८ ॥
सत्यधर्मीया
न हि विकृतं त्यजन्तीति श्लोकमप्रतीत्यन्यथाप्रतीतिभ्यां स्वयं व्याख्याय तदर्थद्रढिम्ने मानमप्युदाहरति– यथेति । मूले मानानुयानतो यथातथाशब्दा-वाध्याहार्याविति तावध्याहृत्य योजनां दर्शयति– यथेति । कनकस्य विविधं कृतं तदात्मकं कुण्डलादिकं कनकं विना परित्यक्तुं नेदं सुवर्णमिति वक्तुं त्यक्तुं च न शक्यते । तथा प्रमाणोक्तेः परित्यक्तुमित्युक्तिः । तदुपादानता यथा न तथेति दर्शयितुं किञ्चिन्नैव भेदेन मन्तव्यो हरिरित्यनुसारेणाध्याहृत्य दार्ष्टान्तिकवाक्यार्थमाह– तथेति । स्वकृतं स्वनिर्मितं जगत् । तत्सृष्ट्वा तदेवानुप्राविशदित्यादेस्तदनुप्रविष्टो भगवान्मूलरूपं विना परित्यक्तुं न शक्यः । पूर्णमदः पूर्णमिदमित्यादेः । आत्मतयेत्यनूद्य व्याख्याति– आत्मतयैकस्वरूप-त्वादिति । भेदाभेदप्रतिषेधार्थमेकस्वरूपत्वादित्युक्तम् । रसितमित्यस्यान्वयार्थाप्रतीतेस्ता-वाह– रसितमात्मना प्रकाशितमिति । रलयोरभेदात्प्रकाशितमित्युक्तिः । जगत्प्रविष्ट-स्तत्स्मात्प्रविष्टत्वाद्विष्णुरिति निरुक्तिस्तत्रेति ज्ञेयम् । विस्तृतं चैतदृग्भाष्यगीताभाष्यै-तरेयभाष्यादिष्वनुसन्धेयम् । ज्ञातव्यः परोक्षतः । इत्थं ये ज्ञात्वा परिचरन्त्यपरोक्षतो जानते तव स्वरूपं ते ऋतात्मकब्रह्मप्राप्तिविरुद्धत्वान्निर्ऋत्याख्यसंसारस्य शिरः । नन्वित्यर्थः स्फुट-मिति । पदाऽऽक्रमन्ति । ऋतेर् ऋतस्य ज्ञानात्मकस्य ब्रह्मण ऋतिः प्राप्तिः । ऋ गताविति स्मरणादावृत्तिर्ऋतिपदस्येति प्राप्तिरिति व्याख्यानतोऽसूचयदिति केचित् । षष्ठ्यर्थः प्राप्तिरित्यपरे ।
केचिद् इण् गतावित्यस्मात्क्विपि इः प्राप्तिरिति विवृतिं चक्रिरे । तत्पक्षे ह्रस्वस्य पितिकृतितुगिति विहिततदभाव आर्ष इति वाऽऽगमशासनस्यानित्यतया वेति ज्ञेयम् । बाधस्व दूरे निर्ऋतिं पराचैरिति ऋग्भाष्ये ऋतज्ञानप्रतिरूपत्वहेतोर्निर्ऋत्याख्यां दुर्मतिं दूर एव । बाधस्व दूर इति तट्टीकायां च ऋ गतौ निर्निषेधे ऋतं ज्ञानं तत्प्रतिरूपत्व-हेतोर्निर्ऋत्याख्यां दुर्मतिं दूर एव बाधस्व । बाधृ लोडने । कथं पराचैः पराकृत्य दुर्ज्ञानिजनं स्वर्गादिस्थानाच्छश्वदेव निरस्य नरके च क्षिप्त्वा चेत्यर्थ इत्युक्तोऽर्थोऽत्र तत्र चायमर्थश्च सङ्गृहीतुं शक्यते इति ज्ञेयम् ।
दुर्मतेः कारणत्वेन संसारस्य कार्यत्वेनोभयत्रोभयग्रहणस्यौचित्यात् । यथा कुण्डलं तदादिकं कनकं त्यक्त्वाऽऽदातुं नैव शकं न शक्यमेवेति वा । शक्लृ शक्तौ घञर्थे कविधानमिति कः कर्मणि । तस्यैव सुवर्णस्यैव तदवस्थत्वात्साऽवस्था कुण्डलाद्याकारो यस्य तस्य भावस्तदवस्थत्वं तस्मात् । कुण्डलसुवर्णयोर्यथा भेदाभेदौ तथाऽत्रापि किमित्यत आह– केवलाभेदतः स्फुटमिति । सुरासुरनरेष्वास्थितो भगवान्हरिः केवलाभेदतः स्फुटं मन्तव्यो नैव भेदेन मन्तव्यः । जीवैर्भेदे सत्यपि स्वाधीनजीवानां भेदे सत्यपीति वा तुशब्द-स्तरतमभावरूपविशेषसूचकः । ये परमर्षयो महामनीषिणस्तथा भेदासामानाधिकरण्येनाभिन्न-मभेदवन्तमीशेशं पश्यन्ति । ऋतप्राप्तिविरुद्धत्वान्निर्ऋतेः शिरः संसारमगणय्याविगणय्य पदाक्रम्य तदभिमानिन्या दुर्देवताया वैष्णवं विष्णुसम्बन्धिनं निलयं ययुः । केचित्तु केवलाभेदत इति कुण्डलसुवर्णपक्ष एव । सर्वांशैः कुण्डलीयैर्यथा सुवर्णस्य केवलाभेदतः स्फुटं प्रत्यक्षादिप्रमाणसिद्धं तादवस्थ्यं प्रपञ्चितमिति व्याचक्षते । तत्पक्ष एवमिति सुलग्नं प्रपञ्च्य-प्रपञ्चकभावश्चागतिका गतिः । द्वितीयपक्षे एवं सुवर्णवदित्यर्थकं केवलाभेदत इति प्राग्योज्य-मिति किञ्चित्क्लिष्टमर्थस्तु बहुश्लिष्टः ॥
ततश्चायं श्लोकार्थः ॥ यथा पुरुषाः कनकस्य विकृतं विविधतया कृतं कुण्डलादिकं न त्यजन्ति । कनकं विहाय तत्पृथगादातुं न शक्नुवन्ति । कुतः । तदात्मतया विकृता-भेदवत्तया । तथा स्वकृतं स्वोत्पादितमिदं जगदनुप्रविष्टो हरिर्न हि त्यज्यते । तदन्तर्गत-मेतदन्तर्गतं नेति न शक्यते पृथक्कर्तुम् । कुतः । आत्मतयाऽत्यन्ताभेदेन रसितं रलयोरभेदा-ल्लसितं प्रकाशितम् । सप्रकाशको न कोऽप्यन्यस्त्वत्त इत्याह– आत्मतयेति ॥ आत्मना स्वेनैव । स्वार्थेयं तल् । अखिलानां तत्त्वानां निकेततयाऽऽश्रयत्वेन तान्येव निकेतानि यस्य तस्य भावस्तत्ता तत्त्वेनेति तत्प्रकारनिरूपणम् । स्वसृष्टजगत्प्रविष्टत्वेन विष्णुर्ज्ञातव्य इति । एवं परोक्षज्ञानभाविफलं किमित्यत आह– तवेति । ये तव स्वरूपं परिचरन्त्य-परोक्षतः पश्यन्ति ते निर्ऋतेर् ऋतप्राप्तिविरुद्धस्य संसारस्य शिरोऽविगणय्यालक्षयित्वा पदाऽऽक्रमन्ति । ननु स्फुटम् । अव्ययानामनेकार्थतया ॥
कृष्णपक्षे तु ॥ ये त्वा त्वां परिचरन्ति ते त्वद्दासा अपि विकृतं विकारवन्तं सन्तं न त्यजन्ति सर्वथा तत्त्यागं न कुर्वन्ति । कुत इत्यत आह । कनकस्य कनेन दीप्त्या ज्ञानेन सहितं च तत्कं सुखं तस्य । तदात्मतया तद्भक्तस्वरूपतया । प्रकृते किमित्यतो हि महिष्य आहुः । अरसितं दोषबद्धं स्वकृतमिदमात्मतया, इना त्वदिच्छया यो दमस्तद्वानात्मा देहो यस्य तस्य भावस्तया । अनुप्रविष्टस्तत्फलमलब्धेति यावत् । स विकारः किं कारणक इत्यत आह– अखिलतत्त्वनिकेततयेति । अखिलानां षोडशानां पञ्चविंशतिसङ्ख्यानां षड्विंशत्यादिसङ्ख्यावतां तत्त्वानां निकेतमाश्रयः प्राकृतशरीरमिति । अर्शआद्यचि तद्वद्भावोऽखिलनिकेतता तया । त एतदेतत्सदृशाश्च । अक्रमन्ति । न विद्यते क्रम एषां त अक्रमास्तद्वदाचरन्ति । अतः सर्वथा न दुष्टः कृष्णायं कृष्णाहिरिति दयनीयो दमोऽपि बहुलो जात इत्याहुः । निर्ऋतेरलक्ष्मीकस्य दरिद्रस्य । निर्ऋतिः स्यादलक्ष्म्यां तु कोणपे निरुपद्रव इति विश्वः । शिरः प्रातिस्विकेनैकैकमित्येकवचनम् । अविगण्य्यास्मान्वा तं वा । पदा विकृतं शीर्णं ननु । हे अननुतेपद । अनेन मुख्यप्राणेन नुत ई पदे यस्य स तत्सम्बुद्धिः । पदाश्रितरम श्रीकृष्ण । ये गोपीजना अखिलतत्त्वनिकेततयाऽखिन्यः खमासामस्तीति खिन्यो न खिन्योऽखिन्यः किञ्चिदूर्ध्वं प्रसरन्तो लता वल्यः कस्तूरिका वा । लता ज्योतिष्मती स्पृक्का शाखावल्लीप्रियङ्गुषु । लता कस्तूरिकाया वै माधवीदूर्वयो-रपीति विश्वः । येषु तानि त्वान्यानि निकेतानि तेषां भावस्तत्ता तया । तव त्वां परिचरन्ति यदा । स्वकृतमनुप्रविष्टस्त्वं स्वकृताः स्वैः सहकृता ये मनवो रहस्यमन्त्रास्ता-ननुप्रविष्टः । तद्वर्त्मवर्तनमनुप्रवेशः । इदमात्मतया एर्मन्मथस्य दमो येन स आत्मा देहो येषां तद्भावस्तत्ता तया । निर्ऋते रात्रेर्हेतोरप्रकाशसहितत्वान्निर्ऋतेः पिशाचादेः शिरोऽ-विगणय्य गमनसमये पदाऽऽक्रमन्ति । यदा भवान्न दधार न प्राप तदा कनकस्य विकृतं कङ्कणाङ्गदादिकं रसितं स्वाङ्गसम्बद्धं त्यजन्ति । कुत इत्यत आह– तवात्मतया स्वामित्वेनेति । इदमामदासक्तियुक्तास्ते कुत इत्यत आहुः– त्वं कनकसीति । कनक-वदाचरसि । रुग्मवर्णमित्यादेः । स्वेषां चातदात्मतया तादृशशरीरविकलतया रुचिरुचितेति भावः । रसितं रत्नादिखचितमपि विकृतमिति त्यजन्तीति वा । ‘रसितं तु सुवर्णादिखचित’ इति विश्वः ॥
ततश्चायं श्रुत्यर्थः ॥ ये सर्वगं व्याप्तमानन्दं सुखात्मकमजं च तदक्षरमुत्पत्तिमृति-रहितमेकं मुख्यमद्वयं समोत्तमरहितं नित्यं शाश्वतं ब्रह्म प्रपश्यन्ति ते निर्ऋतेः शिरः संसारस्य शिर आक्रम्य गतास्तत्पारं गता इति यावत् ॥ २९ ॥ (१४)
**परिवयसे पशूनिव गिरा विबुधानपि तांस्त्वयि दृढसौहृदा ननु पुनन्ति न ते **
विमुखाः ।
**त्वमेकः स्वराडखिलकारकशक्तिधरस्तव बलिमुद्वहन्ति समदन्ति च येऽनिमिषाः **
॥ २९ ॥
तात्पर्यम्
वयति गा इव यः सुरादिकांस्तन्मनसो जगदपुनन् शुचयो न परे । स एन ईशः परिपूर्णशक्तिर्बलिं हरा इतरे स्युः सुराः सुखिनः ॥ इत्यारुणिश्रुतिः ॥
विष्णुना देवता बद्धा विष्णावेव बलिप्रदाः । विष्णुरासां पतिर्नित्यं न विष्णोर्बन्धकः क्वचित् ॥ इति वामने ॥ २९–१५ ॥
पदरत्नावली
ये ते देवास्त्वत्पादैकाश्रयास्तान् विबुधानपि गिरा वैदिकवाचा परिवयसे परितो बध्नासि, वेदोक्तकर्मानुष्ठानेन प्रवर्तयस इत्यर्थः । वय बन्धन इति धातोः । कानिव? दाम्ना पशूनिव । त्वयि दृढसौहृदा गाढबद्धस्नेहपाशाः पुरुषाः पुनन्ति ननु, जगदिति शेषः । ते तव विमुखा द्वेषिणो न पुनन्ति, प्रत्युत मलीमसं कुर्वन्तीति शेषः । अनेन ‘वयति गा इव यः सुरादिकांस्तन्मनसो जगदपुनन् शुचयो न परे’ इति विवृतम् । शुद्धिरपि त्वन्नियतेत्याहुः– त्वमिति ॥ अखिलकारकशक्तिधरः परिपूर्णकर्तृकारयितृशक्तिधरस्त्वमेक एव नान्यः । कुतः? स्वराट् चक्रवर्ती । अस्मत्स्वामी किमस्मानाज्ञापयतीति प्रतीक्ष्य सर्वदा विवृतनयनत्वाद् येऽनिमिषा देवास्ते तव बलिमुद्वहन्ति मनुजैर्दीयमानं सम्यगदन्ति च । अनेन ‘स एक ईशः परिपूर्ण-शक्तिर्बलिंहरा इतरे स्युः सुराः सुखिनः’ इत्येतद् विवृतम् । ‘समभेदे समीचीने सुष्ठुपूजासुखेषु च’ इति यादवः । तत्र तत्र पुराणवाक्योदाहरणेनैतत्श्रुत्यर्थत्वेन श्लोको ग्रथित इति निश्चीयते । सा श्रुतिरपि प्रमाणीक्रियते ॥ २९ ॥
सत्यधर्मीया
परिवयसे पशूनिवेति स्फुटार्थः श्लोक इति तमनूद्य तन्मूलश्रुतिं चोदा-हृत्य तद्व्याख्यानरूपिणीं स्मृतिं पठति– विष्णुनेति । विष्णुना देवता बद्धा विष्णावेव बलिं प्रददतीति ते । तद्दानसामर्थ्यहीनता तासां सप्तम्या द्योत्यते । अन्यथा विष्णव इत्यव-क्ष्यत् । आसां देवतानां नित्यं विष्णुः पतिः । न स्त्री स्वातन्त्र्यमर्हति इति सर्वथा सर्वेश्वरं विना स्वातन्त्र्यं नेति सूचयितुं सुरादिकान्विबुधानिति श्रुतिश्लोकयोः सत्त्वेऽपि तद्व्याख्यास्मृतौ देवता आसामित्युक्तिरिति मन्तव्यम् । तस्यापि सति बन्धके किं तत्समर्थतेत्यत ईरयति– विष्णोर्बन्धकः क्वचिदपि न नास्तीति ॥
ततश्चायं श्लोकार्थः ॥ येऽनिमिषा देवास्तव बलिमुद्वहन्ति ते चानन्तरं समदन्ति स्वरूपानन्दमदन्त्यनुभवन्ति च । तानपि विबुधान्प्राक् । पशूनिव गिरा परिवयसे बध्नासि विधिबद्धान् करोषि । ते त्वयि । दृढसौहृदा ये ते जगत्पुनन्ति ननु पुनन्त्येव । ते विमुखा न पुनन्ति । त्वं चैकः स्वराट् स्वतन्त्रः स्वप्रकाश इति वा । कुतस्तत्स्वातन्त्र्यादीत्यतो हेतुमाह । अखिलानां कारकाणां शक्तयस्तासां धरतीति धरः । विपर्ययेण वा हेतुहेतु-मद्भावः । जगत्पुनन्तीत्युक्तौ त्वद्विमुखानां पवित्रतां कुर्वन्तीत्यतो वाऽऽह– ये ते विमुखास्तान्न पुनन्तीति । वय बन्धन इति धातुः ॥
कृष्णपक्षे ॥ त्वं गिरा पशून्वस्तुतस्त्वविबुधान्दैत्यान् । दैत्यान्गोवपुषोऽहनदित्युक्तेः । सप्तोक्षणः । यद्वा गोकुले विबुधान्मेधाविन इव पशून्गिरा परिवयसे । यदर्थमियानायास आस साऽऽयतलोचना न त्वन्निरतेति नेत्याह– दृढसौहृदेति । त्वयि दृढं सौहृदं यस्याः सा ननु निश्चयः । अनिमिषा देवा अपि ये नते सर्वनते त्वयि विमुखास्तान्पुनन्ति काकुः । विमुखा विः पक्षी बकादिर्मुखं येषां ते विमुखाः पराङ्मुखा ननु विगतमुखा इति वा । अखिलकारकशक्तिर्धरः पर्वतो यस्मात्स त्वमेको मुख्यः । अहार्यधरपर्वता इत्यमरः । स्वराट् । अनिमिषाश्च यं बलिं समदन्ति तं यां तामिति वा । तव गिर्यन्तर्गतस्योद्वहन्ति गोपाः स त्वमिति । गिरौ इबुधानिति पदे । इं मन्मथं बुध्यन्तीति ते तथा कामुका इति यावत् । तान्पशूनिव परिवयस इति वा । सम श्रीसहित । दन्तिनां चयो यस्मिंस्तस्मिन्गिरौ गोवर्धने ।
स पर्यटत्कुञ्जरपुञ्जशोभं धरं यदा श्रीपतिरुद्दधार ।
तदा समस्यां परिपूरयन्ति शिशोः करे हस्तिसहस्रमस्तीत्युक्तेः ।
अखिलकारकशक्तिधरस्त्वमेकः स्वराट् । अनिमिषाश्च यं वहन्ति स्वकीयतयोद्वहन्ति तम् । तवः प्रकाशमानं समं तत्त्वम् । सान्तत्वेऽदन्तत्वे तवः प्रकाशस्तद्वानपि सः । यथोक्तम् । योगे योगे तवस्तरमित्यृग्भाष्यटीकयोः । तेजस्वितम तव इति बलस्येव तेजसोऽपि नाम । अन्तर्णिचं मतुबर्थं चेति । परिवयसे बध्नासीति वा । अखिलकारकशक्तिरयं धर इति स्तवो यस्य तत्सम्बुद्धिरिति वा । शक्तिधरः शक्तिधारक इति स्तवो यस्य तत्सम्बुद्धिरिति वा । स्वेन स्वतन्त्रेण भगवता राजत इति स्वराडिन्द्रोऽनिमिषाश्च बलिं समुद्वहन्ति तं येऽविमुखा अविः पर्वतो मुखमादिर्येषां तेऽपि बलिं समदन्तीति वा । अवयः शैलमेषार्का इति हलः । अविः शैले रवौ मेष इति विश्वोऽपि । हे सम । दन्तिचये गजसङ्घे ते आगते सति । तकारश्चागते चोर इति चानेकार्थध्वनिपदमञ्जरी । अविमुखा मेषादय इव त्वयि ते सत्यनिमिषाः स्वराडपि बलिम् । तृतीयोऽतिशये । बहुलं बलं न समुद्वहन्तीति वा । स्वरेण वेणुस्वरेणापशूनाव्हयतीति स्वरेण सहाटतीति स्वराट् ॥
श्रुत्यर्थश्च ॥ यो हरिः सुरादिकान् । अतो भागवते बहुवचनमाद्यर्थ इति मन्तव्यम् । गा इव वयति बध्नाति । तद्बन्धनसाधनमाह– गिरेति । वेदरूपतन्त्या तन्मनसस्तस्मिन्हरोै मनो येषां तेऽत एव शुचयो जगदपुनन् पवित्रयामासुः । परे तदितरेऽशुचयो न पुनन्ति । भागवते श्रुतिप्रतिपत्तौ कर्म जगदवगतं भवतीत्यवचनं जगदित्यस्य ज्ञेयम् । यस्येतरे बलिं हराः सुराः सुखिनः प्रशस्तसुखवन्तो मुक्ता इति यावत् स्युः । स एको मुख्य ईशः परिपूर्णशक्तिः स वयति ॥ २९ ॥ (१५)
वर्षभुजोऽखिलक्षितिपतेरिव विश्वसृजो विदधति यत्र ये त्वधिकृता भवतश्चकिताः ।
**स्थिरचरजातयः स्युरज ये त्वनिमित्तयुजो विरह उदीक्षयेद् यदि परस्य **
विमुक्तसतः ॥ ३० ॥
तात्पर्यम्
स्थिरचरजातयो ये तेऽनिमित्तयुजः स्युः । भगवन्नियमादेव संसारयुजः स्युः ॥ विरहे मुक्तौ ॥ यदि परस्य सकाशान्मुक्तिरेवेत्युदीक्षयेत्स परः ॥ विमुक्ताः सन्तो येन परेण तस्य विमुक्तसतः । नान्यः पन्था अयनाय विद्यत इति श्रुतिः ॥ मुक्ति-स्तस्मादेवेत्यङ्गीकर्तव्यम् । अतो बन्धोऽपि तत एवेत्यर्थः ॥ सतां विमुक्तिदाद्विष्णो-र्मुक्तिर्यद्यभ्युपेयते । बन्धोऽपि तत एव स्याद्यस्मादेकस्तयोः पतिः ॥ इति स्कान्दे ॥ आत्मानं मुक्तिदं विष्णुर् यदि पुंस उदीक्षयेत् । सुप्रसन्नस्तदा बन्धस्तत एवेति सेत्स्यति ॥ इति ब्राह्मे ॥
खण्डाधीशाः सार्वभौमस्य यद्वद्ब्रह्मेशाद्याः कुर्वते तेऽनुशास्तिम् ।
**त्वं मुक्तिदो बन्धदोऽतो मतो नस्त्वं ज्ञानदोऽज्ञानदश्चासि विष्णो ॥ **
इत्युदारशाण्डिल्यश्रुतिः ॥ ३०–१६ ॥
पदरत्नावली
ये यत्र यस्मिन् पदे त्वधिकृता अधिकारं प्राप्ता विश्वसृजस्ते भवतश्चकिता भीतास्तत्र स्थित्वा भवतो विदधति, बलिमिति शेषः । कस्मै के इव? वर्षभुजः खण्डेशा अखिलक्षितिपतेश्चक्रवर्तिन इव । यदि पुरुषो विमुक्ताः सन्तो यस्मात् स विमुक्तसन् तस्य विमुक्तसतः परस्य सकाशाद् विरहे मुक्तावुदीक्षयेत् परमात्मन एव मुक्तिरिति पश्येत्, ‘तमेवं विद्वानमृत इह भवति नान्यः पन्था अयनाय विद्यते’ इति श्रुतेः, हे अज तर्हि ये स्थिरचरजातयः स्थिरत्वं चरत्वं च जातिर्येषां ते तथा ते अनिमित्तयुजः स्युर् अः परमात्मा निमित्तं युक् योगो संसारस्य येषां ते तथा । भगवन्नियोगादेव संसारभाज इत्यर्थः । मुक्तेस्तन्नियतत्वाद् बन्धोऽपि तदधीन इति भावः । ‘आत्मानं मुक्तिदं विष्णुं यदि पुंस उदीक्षयेत् । सुप्रसन्नस्तदा बन्धस्तत एवेति सेत्स्यति’ इति स्मृतेः ॥ ३० ॥
सत्यधर्मीया
वर्षभुजोऽखिलक्षितिपतेर् इति श्लोके किञ्चिदप्रतीतार्थं किञ्चिद्विप्रती-तार्थं किञ्चिच्चानन्वितपदकं चेति तत्कथयन् श्लथयन्प्रथयन्नन्वयं च व्याकरोति– स्थिरचर-जातय इति । ये तु स्थिरचरजातयस्तेऽनिमित्तयुजः । निर्निमित्तं योगयुक्ता इत्यर्थभ्रमं भ्रंशयितुमनूद्य व्याकरोति । अनिमित्तयुजः स्युर्भगवन्नियमादेव संसारयुजः स्युरिति । अनेन अः विष्णुर्निमित्तं तस्मादेव संसारेणेति योग्यतया लभ्यते युज्यन्त इत्यनिमित्तयुज इति विग्रहं सूचयति । अकारो वासुदेवः स्यात् । अकयप्रविसमित्यादेः । तुरवधारणे । स चानिमित्तादेवेति सम्बद्ध्यत इति सूचयति । विरहोऽत्र न केनचिद्वियोगोऽपि त्वसाधारण्येन नीत्या स एतादृश इति दर्शयति– विरहे मुक्ताविति । उदीक्षयेद्यदि परस्येत्यनन्वितमिति किञ्चिदध्याहृत्य योजयन् परस्येति षष्ठी सकाशादित्यनेन पञ्चम्यर्थेति सूचयन् व्याख्याति । स परः परमात्मैव परस्य स्वस्य सकाशान्मुक्तिरेवेति उदीक्षयेज्ज्ञापयेत् स एव स्वतो मोक्ष एवेति ज्ञापयिताऽधिकारिणो न तं विना ज्ञातुं समर्था यत इति भावः । विमुक्तसत इत्येतद्विग्रहप्रदर्शनपूर्वकं योजयति । विमुक्ताः सन्तो येन परेण तस्य विमुक्तसत इति । ननु पूर्वं सकाशादिति पूरणेन तथा तस्मादेवेत्युत्तरवचनेन च षष्ठीपञ्चम्योरप्यरूपविशेषस्य सतो विमुक्तसत इत्यस्य किमिति न तस्मादित्यभ्यधुरभ्यधुश्च कस्मात्तस्येतीति चेन्न । तस्मादिति कस्मादिति न ज्ञायेत । तस्येत्युक्तौ परस्येति परामर्श इति विना विमर्शं प्रतीयते । तच्च सकाशादिति विवृतमस्माभिः । किञ्च विशेष्यपरतन्त्रस्य तत्समविभक्तिनैयत्यं विशेषण-स्यान्यतरनैरर्थक्याच्च न तदर्थं पुनरत्र यतनीयमिति भावेनैवमुक्तमिति मन्तव्यम् । योजनां प्रदर्श्य प्रमाणोदाहरणं विधाय तत्फलितमभिलपति । ‘नान्यः पन्था’ इति श्रुतेः सत्त्वा-त्तस्माद्धरेरेव विमुक्तिरित्यङ्गीकर्तव्यम् ।
यद्यपि तमेवं विद्वानमृत इह भवति, तमेवं विदित्वाऽतिमृत्युमेतीति पूर्वतत्सजातीय-वाक्यैर्ज्ञानस्य तथा विद्यैव तु निर्धारणादिति निर्धारणाद्बादरायणेनापि कथं कथनं परस्य सत इत्यादि । किञ्च तत्रैतन्मानोदाहरणं चासङ्गतमिति चेन्न । द्रव्यं कर्म च कालश्च स्वभावो जीव एव च । नर्ते त्वत्क्रियते किञ्चनार इत्यादेर्ज्ञातः स एव मुक्तिं मुक्तानां वितरति नान्यस्य तदननुज्ञयेत्येतत्समसामञ्जस्योपपत्तेः । विरह उदीक्षयेदिति वाक्योक्तमुक्तिर्भगवत एवेति यदुदीक्षणमनिमित्तयुज इति पदार्थसंसृतिं प्रत्यपि हेतुरिति सूचयितुं स्वयं व्याकृत्य मानमप्युदाहरति । अतो मुक्तिस्तदायत्तेति बन्धोऽपि तत एव । बन्धको भवपाशेन भव-पाशाच्च मोचक इत्याद्ये सति स्पष्टार्थे मानेन तत्रोक्तहेतुहेतुमद्भावस्फूर्तिरिति मानसो मान-मानसस्तदुत्कोचन्मानमाह– सतामिति । स्वत्वत्यागेऽवस्थानं दुःशकमिति न चतुर्थी । सतां यदि विमुक्तिदाद्विष्णोः सकाशाद्विमुक्तिरभ्युपेयते तर्हि तत एव विष्णोरेव बन्धः स्यात् । तयोर्मुक्तिसक्त्योर्यस्मादेकः पतिः स्वामीति कथं हेतुहेतुमद्भावोऽनयोरिति न स्पष्टं स्कन्द-वचनतश्चस्कन्देति वाक्यान्तरमुदीक्षयेदित्यानुपूर्वीघटितं तथा स पर इति स्वाध्याहारहेतुं दर्श-यदुदाहरति– आत्मानमिति । यदि सुप्रसन्नो विष्णुरात्मानं स्वं विमुक्तिदं पुंसोऽधिकारिण उदीक्षयेत्तं प्रति ज्ञापयेदिति यावत् । तदा तर्हि बन्धस्तत एवेति सेत्स्यति व्याप्ति-बलादित्यर्थः । तथा च विष्णुर्बन्धदो मुक्तिदत्वाद्व्यतिरेकेणेतरवत् । आज्ञया तस्य ‘वायु-वद्वा । बन्धो वा वासुदेववितार्यः । तत्त्वे सत्यनन्यनिघ्नत्वान्मोक्षवत्’ । ‘बन्धमोक्षौ भगव-न्मात्रवितार्यौ तन्मात्रस्वामिकत्वे सति देयवस्तुत्वाद्भक्त्यादिवत्’ । ‘स वै तदुभयवितरिता तत्स्वामित्वाच्छृङ्खलादिबन्धतन्मोचकराजादिवत्’ इत्यनुमानानि सूचितान्यनेन ज्ञेयानि ॥
ततश्चायं श्लोकार्थः ॥ हे अज उत्पत्तिरहित हरे । वर्षभुजो वर्षाणि किम्पुरुषे-लावर्तादीनि पालयन्ति ते तथा खण्डाधीशाः । अखिलक्षितिपतेः सार्वभौमस्येव यथाऽऽज्ञां विदधति । तथा भवतो भवता यत्र ये तु तरतमभावविशेषेणाधिकृता भवतस्त्वच्चकिता भीताः । विश्वसृज इति पञ्चम्यन्तं भगवद्विशेषणं प्रथमान्तं सद् य इति विशेषणं च । विश्वस्रष्टुस्त्वत्तो विश्वसृजो ब्रह्माद्याः प्रजापतय आज्ञां विदधति तत्तदधिकारिकार्यं वा । विशेषत उक्त्वा सामान्यतः कंसारे संसारस्तद्ध्वंसश्च त्वत्त एवेति वक्ति ये स्थिरचरजातयः स्युरिति । अनिमित्तयुजो ऽश्चासौ निमित्तं च तन्नियमादेव युज्यन्ते संसारेणेति ते तथा । यदि यदा विमुक्तसतो विमुक्ताः सन्तो येन स विमुक्तसंस्तस्य परमस्य तव सकाशाद्विरहे संसारविरहरूपे मोक्षे तद्विषये मत्त एव मोक्ष इति स्वयमेवोदीरयेत्पुंसोऽधिकारिणो ज्ञापयेत् । तुश्च सन्नवधारणे बुद्धिविविक्तानिमित्तपदेनान्वेति । यथा मोक्षदः संसारदस्तथेति नान्यः पन्था इत्यादिभिर्ज्ञापयसि पंुसस्तदा तेषां मोक्षः संसारश्च भविष्यत इति तात्पर्यम् । मोक्षदत्वं स्थिरचरत्वजातिमदनिमित्तयुक्त्वे हेतुः ॥
कृष्णपक्षे ॥ दूती काचिद्वदति । अखिलक्षितिपतेर्वर्षभुज इव यत्र ये गोपीजना यस्यां सेवायां विनियुक्ता भवतश्चकिता भीतास्तां विदधति कुर्वते । विश्वसृजो भवत इति । विश्वं पतिसुतान्वयभ्रातृबान्धवादिकं सृजन्ति विसृजन्ति । अतिविलङ्घ्य ते ह्यच्युता गता इति त्यजन्ति ते वा । ते यदि परस्योत्तमस्य पलस्य तदात्मकालस्यैतन्मध्य इति वा । विमुक्तसतो विमुक्तः । कर्तरि क्तः । स चासौ संश्च तस्य तान्मुक्त्वा स्थितस्येति यावत् । तथाऽपराधो राधाद्यनुष्ठित इति रुष्टोऽहमिति न वदेति वदति अनिमित्तयुज इति । निमित्तं तत्त्यागनिमित्तं तेन युज्यते स निमित्तयुक् न स इति स तस्य । तव यदि विरहो, लोका अन्ये आयाता इत्यायताक्षि, क्षणं तत्त्याग इति न गद गदाग्रजेत्यप्याह । यत्र विरहो महैकान्तस्थानं तत्रापि विरहे त्याग इति जाते सति । तर्ह्यविरहे, न विद्यते विरहो यस्य स तव निकटतटे सज्जनतान् एते स्थिरचरजातयः स्थिरजातयः स्थावरसदृशा अङ्गस्मृतिभङ्गा-च्चरजातयश्च सश्वासा इति ते स्युरित्युदीक्षयेदवलोकयेन्मृतप्रायान् पश्येत् । विरहेऽप्यजयेऽ-प्राप्तौ त्वदलाभ इति वा । विरहः कर्ता तानुदीक्षयेद्यदि तर्हि ते स्थिरचरजातयः स्युरिति वा । अत एकान्ते कान्तो भवानुदीक्षयेत् । विमुक्तः सन्प्राणो यस्मात्स विमुक्तसंस्तस्य परस्यास्मत्स्वामिनः कालियस्य यदि विरहस्तर्ह्यनिमित्तयुजस्त्वद्रूपहेतुमतो विमुक्तसतो गत-प्राणान्नोऽर्थात्प्राणहानिनिमित्तत्वं हरेरिति मन्तव्यम् । भवानुदीक्षयेदिति नागाङ्गनावचनं वा । सममितरत्समम् । हे वर्ष वरः षः प्राणो वाऽऽत्मा वा यस्य स तत्सम्बुद्धिः । भर्ग इत्यादाविव रेफाकारलोपो निर्वचनत्वात् । अ भगवन् । खिला क्षितिरस्मिन्कर्मणि तद्यथा भवति तथा ते त्वमिति भुजः कस्यचिद्गोपिजनस्य । विश्वसृजो विश्वैः सृजा त्यागः । टाबन्तता हलन्तता । यस्य स परस्य विमुक्तसतस्तव विरहो यदि तर्हि । क इति शेेषः । उदीक्षयेत्तान्पश्येत् । तस्याप्येतद्दशात्वात् । हरिचरणविदूराः कोऽनुसम्भाषयेन्न इतिवत्सतः समर्था अपि न स्पृशेयुरिति वा ॥
ततश्चायं श्रुत्यर्थः ॥ सार्वभौमस्य सर्वभूमिपृथिवीभ्याम् अणञावित्यण्यनुशतिकादित्वा-दुभयपदवृद्धिः । खण्डाधीशा यद्वद्यथा यथा ब्रह्मेशास्तेऽनुशास्तिमाज्ञां कुर्वते । यतस्ते त्वदाज्ञाऽनवज्ञानास्ततस्तत् त्वम् । हे विष्णो मुक्तिद । अत इत्यत्राप्यन्वेति । अत एतस्माद्बन्धदस्तदुभयहेतुभूतज्ञानाज्ञानदश्चासीति मतः सम्मतः । मत इत्यन्तर्णीतण्यर्थ इति वा । मापयिता मुक्तिदो बन्धद इति ज्ञापयिता त्वमेव नोऽसीति । यदि पुंस उदीक्षयेत्स पर इत्यानुकूूल्यमेवं चेद्भवतीति ज्ञेयम् ॥ ३० ॥ (१६)
न हि परमस्य कश्चिदपरोऽनपरस्य भवेत्
व्ययत इवात्र यस्य च शून्यतुल सन्दधतः ।
अपरिमिता ध्रुवास्तनुभृतो यदि सर्व ततो
न हि न शास्यतेति नियमो ब्रुवते च तथा ॥ ३१ ॥
तात्पर्यम्
यस्य परमस्य ते कश्चिदपरः स्वतन्त्रो नास्ति । अनपरस्य प्राणोत्तमस्य । अत्र जीवसमुदाये । व्ययतः विशेषेणायतः सर्वज्ञस्य यथा प्राणस्य नापरः स्वतन्त्रस् तद्वत्प्राणः श्रीरन्योेेे वा त्वां विना स्वतन्त्रो नास्ति ॥ हे शून्यतुल समानवर्जित । सर्वं संदधतस्ते ॥ यदि त्वत्तः प्राणात्तनुभृतो जीवा ध्रुवास्तर्ह्यपरिमिताः सन्ति । हे सर्व पूर्ण । एकमेवाद्वितीयम् । एकं परंज्योतिरन्यन्यमद्वयम् इत्यादिनियमो जीवानां शास्यता नेत्यत्र नहि । किन्तु स्वगतभेदस्य ईश्वरेतरस्य अतत्तन्त्रस्य निषेधे । अतोऽन्यदार्तम् ॥ नेह नानास्ति किञ्चन । न तत्समश्चाभ्यधिकश्च दृश्यते इत्यादि तथा ब्रुवते च ॥
तव स्वतन्त्रो नापरो तद्वदत्र प्राणान्नान्यस्तुल्यशून्यस्य सन्धिन् ।
**प्राणाधीना अमिता जीवसङ्घाः प्राणो वशे ते प्रकृतिश्च भूमन् ॥ इति महाशालीनश्रुतिः । **
**स्वतन्त्रो नापरः कश्चिद्विष्णोः प्राणपतेः प्रभोः । यथा प्राणात् परो नास्ति स्वतन्त्रो जगति क्वचित् । तथा प्राणो रमा चैव न विष्णोः पृथगीश्वरौ । यद्युच्यन्ते प्राणतन्त्रा बहवः पुरुषा इति । सत्यमेव ह्मसङ्ख्याता न नियम्यनिषेधकाः । एकाद्वितीयश्रुतयः किन्त्वीशान्तरवारकाः । तथा स्वगतभेदस्य तदतन्त्रनिषेधकाः ॥ इति ब्रह्माण्डे ॥ स्वरूपमस्मरत्कृष्ण एकं स्वस्मिन्नभेदतः । अतत्तन्त्रस्य राहित्यादनन्यं सदृशोज्झितेः । अद्वयं नित्यनिर्वृत्या भावनिर्वृतिमीश्वरम् ॥ इति तन्त्रभागवते ॥ अधिकस्य समस्यापि स्वतन्त्रस्य च वर्जनात् । एक एवाद्वितीयोऽसौ न शास्यजनवर्जनात् ॥ इति कौर्मे **
॥ ३१–१७ ॥
पदरत्नावली
अनात् प्राणात् परस्योत्तमस्य सर्वं सन्दधतो यस्य परमस्य ते तव कश्चिदपरः स्वतन्त्रो न भवेत् । हे शून्यतुल समानवर्जित । यस्यात्र जीवसमुदाये व्ययतः सर्वं जानतः सर्वज्ञस्येत्यर्थः । अय पय गताविति धातोः, गत्यर्थानां ज्ञानार्थत्वात् । इव यथा प्राणस्य नापरः स्वतन्त्रस्तद्वत् प्राणः श्रीरन्यो वा त्वां विना स्वतन्त्रो नास्ति, त्वमेव स्वतन्त्रः । हे सर्व पूर्ण । यदि ततस्तस्मात् प्राणात् तनुभृतो जीवा ध्रुवाः, प्राणाधीना जीवाः कियन्तः सन्ति इत्यर्थः । तर्हि सत्यं तेऽपरिमितिा असङ्ख्याताः । नन्वेवं चेदेकमेवाद्वितीय-मित्यादि श्रुतिविरोध इति तत्राह– न हीति ॥ श्रुतेरयं नियमो जीवानां शास्यताऽधीनता नेत्यर्थे न हि, किन्तु स्वगतभेदशून्यस्येश्वरान्तरस्य स्वतन्त्रस्य च निषेधो नियमः । तत्र किं प्रमाणम् ? अत्राह– ब्रुवत इति ॥ ‘अतोऽन्यदार्तम्’, ‘नेह नानास्ति किञ्चन’, ‘न तत्समश्चाभ्यधिकश्च दृश्यते’ इत्यादिश्रुतिस्मृतयस्तथा ब्रुवते च । ‘स्वतन्त्रो नापरः कश्चिद्विष्णोः प्राणपतेः प्रभोः’ इत्यादिस्मृतेः ॥ ३१ ॥
दुर्घटभावदीपिका
सन्दधतोऽपरिमिता ध्रुवास्तनुभृतो यदि सर्व तत इत्यस्य हे सर्व पूर्ण । सन्दधत सर्वं सन्दधतः कुर्वतस्तवाधीनात्ततः पूर्वं प्रकृतान्मुख्यप्राणादध्रुवा जीवास्तनुभृतः शरीरधारिणो भवन्तीति यद्युच्यते तर्ह्यपरिमिता असङ्ख्याता जीवा मुख्यप्राणात्तनुभृतो भवन्तीति वक्तुं शक्यत इत्यर्थः । एतेन सन्दधत इत्यादिकं व्यर्थमिति चोद्यं परास्तम् । ननु परमेश्वरस्य सर्वस्वातन्त्र्यं वदन्प्रष्टव्यः । मुख्यप्राणस्य जीवनियामकत्वमस्ति न वा । नाद्यः । उभयोः स्वातन्त्र्यायोगेन परमेश्वरस्य सर्वस्वातन्त्र्यायोगात् । न द्वितीयः । परमेश्वरस्य सर्वस्वातन्त्र्ये मुख्यप्राणस्वातन्त्र्यस्य दृष्टांतत्वायोगादित्याशङ्कापरिहारार्थं मुख्यप्राण ईश्वराधीनः सन् अनन्त-जीवानां नियमनं करोतीति वक्तुं सन्दधत इत्यादिकं प्रवृत्तमित्यभ्युपगमात् ॥ ३१ ॥
सत्यधर्मीया
न हि परमस्येति श्लोकं दुर्र्गमार्थत्वाद्व्याकरोति– यस्येति । अपरो नीचो नास्ति नास्ति चेतर इति भ्रमं भ्रंशयितुमन्वयार्थौ दर्शयति– यस्य परमस्य ते कश्चिदपरः स्वतन्त्रो नास्तीति । न विद्यते पर उत्तमो यस्मादिति विग्रहः सूचितः । पुनश्चनपरस्येति व्याहतमित्यतोऽनूद्य व्याकरोति– अनपरस्य प्राणोत्तमस्येति । अनेनाना-त्परोऽनपर इति विग्रहस्तत्रेति सूच्यते । अत्रेति कुत्रेत्येतद्धृत्वाऽर्थमाह– अत्रेति । जीव-समुदाय इति । व्ययतो व्ययं प्राप्नुवत इति निराकर्तंु व्याख्याति– व्ययतो विशेषेणायतः सर्वज्ञस्येति । विपूर्वाद् अय गतावित्यस्माच्चान्द्रादिमतेन शतेति ज्ञेयम् । गत्यर्थानां ज्ञानार्थत्वात् । व्यर्थो (वीत्यस्यार्थो) विशेषेणेति । सर्वज्ञस्येति फलितार्थोक्तिः । आलोचने इवेति वाक्ययोर्दृष्टान्तदार्ष्टान्तिकभावः । स च किमंश इत्यतः शंसति– यथेति । अत्रेत्यत्र योज्यम् । सप्तमी च निर्धारण इति बोधयितुं जीवसमुदाय इत्युक्तिः । यथा व्ययतः प्राणस्य । ब्रह्माऽपि पूर्वगत्या ग्राह्यः । तयोः सकाशादपरः स्वतन्त्र इयदामननादित्युक्ते-र्नास्त्यन्य आधिकारिकवर्गे । तद्वत्त्वां विना प्राणो ब्रह्मा च श्रीरन्यो वा स्वतन्त्रः स्वतन्त्रा च तथाऽन्या च नास्ति । मास्तु स्वतन्त्रोऽस्तु सम इत्यतस्तुलशब्दोऽर्शआद्यजन्तः शून्य-शब्दो नासद्वाचीति मत्वा व्याख्याति– हे शून्यतुल समानवर्जितेति । शून्यो रहित-स्तुलेनेति व्युत्पत्तिरिति ज्ञेयम् । सन्दधत इत्यस्य कर्माध्याहृत्य योजनामाह– सर्वं सन्द-धतस्त इति । जीवाद्भवन्ति भूतानि जीवे तिष्ठन्त्यचञ्चलाः । जीवे तु लयमृच्छन्ति न जीवात्कारणं परमित्यादेर्जीवस्वातन्त्र्यावगतेः कथं न हि परमस्य कश्चिदपर इति तथा व्ययत इति व्याख्यातम् । ततस्तनुभृतस्तस्मादेव तनूर्बिभ्रतीति ते तथा भवन्ति । उपलक्षणं चैतत् । स्थित्यादिमन्तोऽपि भवन्तीति । तर्हि ते वायुसृष्टा जीवा अपरिमिताः सन्ति । मूले तात्पर्ये च तनुभृतोऽपरिमिता इति चोक्तिर्जीवादिति श्रौतपदं जात्यभिप्रायमिति सूचयति । प्राणादन्ये जीवास्तदधीनोत्पत्त्यादिमन्तस्तर्हि किं जीवस्वातन्त्र्यं मन्वानेनायुष्मता सर्वेषां तदाशास्यते किं वा केषाञ्चिन् नोभयमप्यभयदम् । अनवस्थितेरसम्भवाच्च नेतर इत्यादिना द्वितीयपक्षोऽनुपपन्नः । आद्यस्त्वात्मत्वेनापि प्रत्यवस्थानसम्भवादप्यनुपपन्नः । तर्हि प्राणाधीनत्वं कथमुच्यत इत्यतो भगवदनु प्राण इतरोत्तर इति नानुपपत्तिरिति भावेन । तर्ह्यपरिमिताः सन्तीति समुप्तं बीजं सफलीकुर्वन् व्याख्याति– हे सर्व पूर्णेति । अनेन सर्व तत इति पदद्वयमिति बोधितं भवति । सर्वं समाप्नोषि ततोऽसि सर्वः । सर्वः शर्व इत्यादेः । एकमेवाद्वितीयम् । एकं परं ज्योतिरनन्यमद्वयमित्यादिर्यो नियमो नियमयति विधिनिषेधेभ्यां जीवमिति स वेदस्तदनुयायिनी स्मृतिश्च स जीवानां शास्यता नेत्यर्थे न हि किन्तु स्वगतहरिरूपगुणकर्माभेदस्य तथेश्वरान्तरस्य निषेधे ।
ननु प्राणः सर्वज्ञः सर्वेश्वर इति युष्माभिरप्यङ्गीकृतमेवेत्यत आह– अतत्तन्त्रस्येति । तस्य तन्त्रं तत्तन्त्रं नेत्यतत्तन्त्रं, हर्यनधीनस्तस्य निषेधे । वर्तत इति शेेषः । ननूदाहृतवेदो नावेदयति नियम्यासत्त्वं स्वगतभेदहीनतां च स्पष्टमित्यतो ब्रुवते च तथेति मूलं प्रवृत्तम् । तद्व्याचष्टे– अतोऽन्यदिति । ननु यदि ब्रुवत इत्यनेन विस्पष्टवादिनीनामतोऽन्यदार्त-मित्यादीनामित्यादिनियम इत्यत्रत्यादिशब्देनेदंमुद्रणरहितेन ग्रहणसम्भवे किमति विरम्य व्याकरणव्यापरणमिति चेत् । सत्यम् । अस्पष्टवादिनीनां श्रुतिस्मृतीनामेव ग्रहणमादिपदेनेति स्यात् । इदमुद्रणं नेति च न । मूल एव न शास्यतेति च नियमो ब्रुवते चेत्यस्यैव तद्रूपत्वात्तत्सजातीयग्रहणमिति सूचयितुं यथामूलं व्याकरोदाचार्य इत्युपपत्तेः । अतो भगवतोऽन्यज्जीवजातमार्तं दुःखि । आर्तिदाता चैतच्छब्दार्थ इति तत्सुखित्ववत्तदतन्त्रनिषेधे तन्नियम्यसिद्धिः । यदि नाम न तस्य वशे सकलं कथमेव तु नित्यसुखं न भवेदिति युक्तिरत्र ध्येया । नेह नानाऽस्ति किञ्चनेति स्वगतभेदनिषेधे । मुक्तोपसृप्यव्यपदेशात् हेयोपादेयरहित इत्यादिवद्भावप्रधानो निर्देशः । इह भगवति गुणकर्मादौ च नाना नानात्वं भेदो नास्ति । इह भगवति किञ्चन किमपि गुणकर्मादिकं नाना भिन्नं नास्तीति सुधाकृत-व्याख्यानद्वयेऽपि स्वगतभेदराहित्यबोधकताऽस्य ज्ञेया । न तत्समश्चेत्यंशेन समश्चेदतत्तन्त्र एव भवेत् । अन्यथा समत्वव्याहतेः । स नेति नास्त्यतत्तन्त्र इति सूचयति । अधिकश्च न दृश्यत इत्यंशेनेशान्तरनिषेधं शंसति । इत्यादीत्यविभक्तिको निर्देशः । इत्यादयः । तथा ब्रुवते चेत्यनेन इत्यादय इत्यस्य तथा ब्रुवते चेति मूलेनान्वय इति सूचयति ।
प्राणस्वातन्त्र्यवचनस्य तथा भगवत्स्वातन्त्र्यावगमकागमस्य च ब्रह्माण्डवचनेन व्यवस्थां दर्शयति– स्वतन्त्र इति । प्राणपतेर्मुख्यप्राणस्वामिनः । प्रभोरखण्डेशस्य विष्णोः सकाशा-त्कश्चिदपरः स्वतन्त्रो न नास्ति । तत्र निदर्शनमाह– यथेति । जगत्याधिकारिकादिके । प्राणाद्ब्रह्मणो वायोश्च सकाशात्परोऽन्यः कश्चित्क्वचिद्देशे काले वा यथा नास्ति । तत्रान्तरङ्गिकं तन्त्रं चित्तत्सदृशी संवित्क्वेति । प्रलयेऽपि प्रतिभातपरावरोऽतिरोहित-विज्ञानादित्यादेः । यथा प्राणो रमा चेत्येतावित्यध्याहृतेनान्वयः । प्रागत्रान्यत्र चाधिकारश्च तद्धानिरिति सुधाद्युदाहरणेन विवृतमस्माभिरनुसन्धेयम् । विष्णोः पृथक् स्वतन्त्रतया तं विना । स्वतन्त्राविति नेरितौ नोक्तौ । प्राणस्वातन्त्र्यप्रतिपादकागमेनेति शेषः । तथा सरस्वत्यादिजगदपि न प्राणमतिहाय स्वतन्त्रमिति स स्वावरस्वतन्त्र इति तदर्थ इति नाव्यवस्थितिरिति भावः ।
भवतु भगवती तथा प्राणश्च भगवदधीनौ । जगति कश्चिदतन्नियम्यः स्यात् । अतीता-नागताश्चैव यावन्तः परमाणवः । ततोऽप्यनन्तगुणिता जीवानां राशयः पृथगित्यादेस्तदियत्ता-भावान्महानुभावः कश्चित्स्यादित्यतोऽर्धाङ्गीकारेण परिहरति– यद्युच्यन्त इति । पुरुषा बहवो यदि यद्यप्युच्यन्ते तथाऽपि तदित्येवम्भावकं चेत्सत्यम् । तद्विशदमाह– असङ्ख्याताः प्राणतन्त्रा इति । प्राणस्य तन्त्रं नियमनं येषां ते प्राणाधीना इति तदपरमित्यङ्गीकृतं नाङ्गीकृतं च तत्स्वातन्त्र्यमित्यर्धाभ्युपगमः । प्राणस्यैतद्वशे सर्वमित्यादयोऽत्र भवन्ति । ननु केचिदेकमेवाद्वितीयमित्याद्या नियम्यद्वितीयवस्तुव्युदस्तिपराः सन्त्यतस्तद्विरोध इत्यत आह– नेति । नियम्यनिषेधकास्ते त्वच्छङ्किता न भवन्ति । अनियम्या नेत्युक्तिरित्यादेरनियम्येति साधु । वैयाकरणाः कथं वदन्तीत्यतोऽप्ययाह न नियम्यनिषेधका इति । नियतिरूपस्य प्रतिषेधका न भवन्तीत्यर्थः । को भावस्तर्हि तदागमानामित्यतस्तदाह । एकाद्वितीयेत्यादि-शब्दघटिता एकमेवाद्वितीयमित्याद्याः श्रुतय इति । यदि न नियम्यनिषेधिकास्तर्हि किं विधात्र्य इत्यत आह– किन्त्विति । ईशान्तरस्य वारका निवारकाः । क्षिपकादिषूप-सङ्ख्यानान्नेत्वम् । एवं प्रागुत्तरत्र चैतत्सजातीये नेहनानेत्यर्थमाह । तथा स्वगतभेदस्य स्वस्मिन्भेदः स्वगतानि गुणकर्मादीनि तैश्च, भेदस्येति वारका इति वा निषेध इति पाश्चात्येन पौरस्त्येन वा समस्तेनावृत्तेनैकदेशोत्कीर्तनेनान्वयः । न तत्समश्चेत्यर्थमाह । तदतन्त्र-निषेधका इति समोऽप्युत्तमश्चातन्त्राविति तदैककण्ठ्यं मानस्य ज्ञेयम् ।
ननु तात्पर्ये स्वगतभेदस्येति क्रमः, श्रुतिग्रहणसमयेऽतोऽन्यदार्तमित्यादिः क्रमः । माने च किन्त्वीशान्तवारकाः । तथा स्वगतभेदस्यातत्तन्त्रनिषेधका इति कुतो व्यत्यासस्तथैव किन्न निरदिक्षन्महेक्ष इति चेत् । सत्यम् । अनिष्टतौल्येन कस्य कुत्र निर्देशेऽपि किमिति तथा निर्देशोपपत्तेः । यद्यपि प्रागुदाहृतोऽयं श्लोकस्तथाऽपि तत्र न मानाननतोऽर्थ उक्त इत्यत्र तेनार्थमेकादिपदानामाह– स्वरूपमिति । कृष्णः स्वरूपमस्मरत् । स्मरणं चात्रानु-भवरूपम् । स्वरूपमित्यनुरोधेन न्यदिति, भावनिर्वृतिमिति पाठे भावनिवृत्तीति वक्तव्यमिति चेत् । सत्यम् । न स्वरूपपदेनैकमित्यस्येवान्वयं वदामो येन तवानुयोगावसरः स्यात् किन्तु स्वशब्दप्रकृतस्वमिति विशेष्यस्येति तस्य पुल्लिङ्गतयाऽनन्यं भावनिर्वृतिमिति विशेषणं तस्येति सम्भवात् । अतत्तन्त्रस्य राहित्याद्धेतोरनन्यं न विद्यतेऽन्योऽनधीनो यस्य सोऽनन्यस्तं स्वमस्मरत् । तदनन्यवध्यामित्यत्रेव तच्छब्दः स्वपर्यायः । तादृशस्य स्वसदृशस्योज्झिते-र्हानाद्राहित्यात् । अद्वयं न विद्यते द्वयं सदृशं वस्तु यस्येत्यद्वयस्तम् । परवल्लिङ्गमिति स्वरूपविशेषणं वा । नित्यनिर्वृत्या निमित्तेन भावनिर्वृतिः । भावात्स्वभावादेव निर्वृतिः सुखं यस्य स तम् । भावान्निवृत्तिस्तां तदात्मकमस्मरदिति बहुव्रीहिं केचिद्व्याचक्षते । भाव-निर्वृतमिति पाठो ललितार्थः । इदं वासुदेवे नासम्भवीत्याह– ईश्वरमिति । एकाद्वयपदस्य मानेनार्थान्तरमाह– अधिकस्येति । एकेत्येकस्यार्थोऽधिकस्य समस्यापि वर्जनादिति । अद्वयपदार्थो हि स्वतन्त्रस्य वर्जनादिति । चोऽवधारण इति । तद्व्यावर्त्यमाह न शास्य-जनवर्जनादिति । यद्वा समस्य राहित्यादद्वितीयः । स्वतन्त्रस्य सु अतन्त्रोऽतन्त्रस्तस्य वर्जनादनन्यः । ए चैकश्चासौ कः सुखात्मक इति भावनिर्वृतिरेकः स्वगतभेदहीन इति पूर्वोक्तार्थसर्वसङ्ग्रहसूचकश्च । एक इति न्यायदीपिकाद्युदाहृत्य प्राग्व्युत्पादितमनुसन्धेयम् ॥
ततश्चायं श्लोकार्थः ॥ हे शून्यतुल निःसीम । अनपरस्य । उपसर्गाश्च द्योतका इति पक्षे
अनधातुरेव प्रकृष्टाननवद्वाचीति प्राणात्परस्तस्य । यस्य परमस्य । सन्दधतः सकलो-त्पत्त्यादि विधातुर्धारकस्य वा । अत्र जीवसमुदाये । व्ययतो विशेषेणायते स इति व्ययन् व्ययमानस्तस्य सर्वज्ञस्य वायोरिवापरः स्वतन्त्रोऽन्यो नास्ति । तद्वद्रमा प्राणोऽन्यो वा त्वां विना स्वतन्त्रो नास्ति त्वमेव स्वतन्त्रः । हे सर्व पूर्ण । यदि यद्यपि तनुभृतोऽपरिमिता ध्रुवा जीवाः सन्तीति सत्यं तेऽपि व्ययतो यतस्ततो मुख्यप्राणादेव तनुभृतो देहादिमन्त इति परतन्त्रा एव । न चैकमेवाद्वितीयमित्यादिर्नियमो वेदः सावधारणप्रयोग इति, केचिदस्तीति कथं परनियम्यनिषेधो नेत्युच्यत इति वाच्यम् । नियम उक्तरूपः शास्यता नेति न वदति । न केवलमयं नियम एवं किन्त्वन्येऽपि अतोऽन्यदार्तमित्याद्यास्तथा स्वतन्त्रादिर्नेति ब्रुवते च । तथा च बहुसंवादाच्चास्मदुक्त एवार्थो नापरोऽपरमात्रप्रतिषेधरूप इति सर्वसम्भावकम् । अत्रयस्येति गुणत्रयरहितस्येति । न च पश्यसि परदोषमात्मदोषं न पश्यसीत्याभाणकविषयाः कथं न हि भवन्तः । अत्र जीवसमुदाये । यस्येति तात्पर्यकृद्विवृतस्यैकपदतयाऽर्थकथने कथं न तद्विरोधवचना अन्यान् प्रति तद्व्युत्पादका इति वाच्यम् । अन्यत्राचार्यैरेतत्पदस्य तथा व्याख्यातत्वादत्राप्यर्थविशेषलाभलोभेन कटाक्षितो भवत्येषोऽर्थ इति व्युदपादि । तव सौमनस्येदमस्तु माऽस्तु न चेन्नाग्रहिणो वयम् ॥
कृष्णपक्षे ॥ सरीसृपनारी काचिद्वक्ति । हे शून्यतुल असदृश । परमस्य महाज्ञानस्य । यद्यप्यपरिमिता ध्रुवा नित्या यस्य सकाशात्तनुभृतो भवन्ति स को ब्रह्माऽपि । चिदपरश्चिता ज्ञानेनापरोऽनुत्तमः । चिदपरा यस्य स इति वा । हे सर्व इदानीं सर्वति हिनस्तीति वेति सर्व । ततस्तव न शास्यतेति नियमो न शिक्षणीयोऽन्येन तवेति । न वक्ताऽस्तीति भावः । न नहि नियम एव । न नार्या भार्या इति स्तुतिसमयश्च प्रस्तुत इति वदन्तमेवमिति न वद । ब्रुवते च तथा । एकः शास्ता न द्वितीयोऽस्ति शास्ता । एतस्य वा अक्षरस्य प्रशासने गार्गीत्यादयो वेदा ब्रुवते । इतः परं परस्य वक्तुरभावात्त्वयाऽप्यत्यागेनान्योऽ-स्मादस्मन्मान्यस्येत्याह । परस्य रिपुवद्भवतो भवतः सन्दधतोऽस्मद्गर्भाधानकर्तुः पोषकस्य वाऽत्रैतद्दशायां, व्ययतो नाशतः कश्चित्परो व्यापारो न हि न भवेत् । हे चिदपरोन अपरे चिता ज्ञानेनोना यस्मात्स तत्सम्बुद्धिः । तर्हि गर्हितं किं मच्छिक्षणं कञ्जाक्षि इत्यतोऽ-प्याह– न शास्यतेति न हीति । मम स्वभाव एवायमेतन्मध्ये मृतिः स्थितिर्वेति न वदैवं ब्रुवते लोका इत्याह । नियमो नितरां यम इति ब्रुवते । एकाकिनो मृतौ किमित्यतो नेत्य-प्याह । अपरिमिता बहवस्तनुभृतः । सन्तीति शेषः । नैतर्ह्येवैते सङ्गताः किन्तु परम्परात इत्यप्याह– ध्रुवा इति । एतस्य मरणे सर्वमरणं भवतीति तात्पर्यम् । गोपीजना वाऽऽहु-रित्याह– न हीति । अनपरस्यास्मत्प्राणपतेः परमस्य कश्चिदपरोऽन्यो नियमोऽस्मत्सदृशो न हि । सन्दधतो गर्भाधानं कुर्वतस्तव सकाशात्तनुभृतो व्ययतो विलक्षणशुभदैवात् । भवेयुरिति शेषः। शिक्षा च यथायोग्यं कर्तव्येत्याहुः । न शास्यतेति न ब्रुवते किन्तु यथा व्ययतो व्ययो न भवेत्तथा ब्रुवते च । व्ययतो दुर्दैवान्न सन्दधतस्तव सकाशाच्चापत्योत्पत्त्या-देरपरिमिता ध्रुवाः कीलानि प्रतिबन्धाः । प्रकारभेदाद्बहुवचनम् । भवेयुरिति वा । ध्रुवः कील इति विश्वः ॥
ततश्चायं श्रुत्यर्थः ॥ तुल्यशून्यस्य तव सकाशादपरः स्वतन्त्रोऽत्र जीवसमूहे प्राणादन्यः परो यदत्र तथा भवेत् । सन्धिन्सन्धारक सन्धा प्रतिज्ञाऽस्यास्तीति सन्धी । मतुबर्थश्च तत्पूरणरूपातिशयः सत्यप्रतिज्ञेति वा । शिखादित्वात् । अमिता जीवसङ्घाः प्राणाधीनाः । हे भूमन् । ते वशे स प्राणः प्रकृतिश्च विद्येते ॥ ३१ ॥ (१७)
अजन परिमुच्यतेऽत्र भवात् सततात्
सममनुजानता ततमनन्तमदुष्टतया ।
न घटत उद्भवः प्रकृतिपूरुषयोरजयो
रुभययुजोर्भवन्त्यसुभृतो जलबुद्बुदवत् ॥ ३२ ॥
तात्पर्यम्
अनन्तमदुष्टतयाऽनुजानताऽऽचार्येण सतताद्भवात्परिमुच्यते ॥ अबद्धश्च प्रकृतिपरेशौ विनाऽन्यो न विद्यते । यतस्तयोरेवोद्भवो न घटते । ततस्तयोरजयोरसुभृत उद्भवन्ति ॥ देशतः कालतश्च यत्र परमस्तत्र प्रकृतिर्यत्र प्रकृतिस्तत्र परम इत्युभययुजोः ॥
मुच्यते तत्वसंबुद्धादाचार्यात्पुरुषो भवात् । एतावेव स्वतोऽबद्धौ परमः प्रकृतिस्तथेति कलापश्रुतिः ॥
सम्यग्ज्ञानवदाचार्यान्मुच्यते पुरुषो भवात् । द्वावेव नित्यमुक्तौ तु प्रकृतिः परमस्तथेति वामने ॥
देशतः कालतश्चैव समव्याप्तावुभावजौ ॥ ताभ्यामुभययोगाभ्यां जायन्ते पुरुषाः पर इति कौण्ठरव्यश्रुतिः ॥ ३२–१८ ॥
पदरत्नावली
हे अजन लोकविलक्षण जन्मरहितेति वा । सममेकप्रकारतया ततं व्याप्त-मनन्तमदुष्टतया निदोषत्वेनानुजानता सम्यग्ज्ञानवता आचार्येणोपदिष्टमार्गेण अत्र जगति ज्ञानवान् पुरुषः सततात् सन्ततमज्ञानकल्पिताद् भवात् संसारात् परिमुच्यते सम्यङ् मुक्तो भवति । कथमनुजानतेति तत्राह– नेति ॥ अजशब्दस्यानेकवृत्तित्वेनानिश्चय इत्यतः प्रकृतिपुरुषयोरिति ॥ तयोरुद्भव उत्पत्तिर्न घटत इति यतस्ततः प्रकृतिपुरुषौ विनाऽन्यो बन्धरहितो न विद्यते । मुख्यतोऽजशब्दप्रवृत्तिनिमित्तान्यथानुपपत्त्या न घटत इत्युक्तं भवति । तदुभययोः प्रकृतिपुरुषयो-र्युजोर् योगयोर् असुभृतो जीवा भवन्ति । देशतः कालतश्च यत्र परमस्तत्र प्रकृतिर्यत्र प्रकृतिस्तत्र परम इत्युभययुजोः । तत्र दृष्टान्तः– जलबुद्बुदवत् । जलबुद्बुदानि यथोत्पद्यन्ते तथेति । ‘सम्यग्ज्ञानवदाचार्यान्मुच्यते पुरुषो भवात् । द्वावेव नित्यमुक्तौ तु परमः प्रकृतिस्तथा’ इति स्मृतेः ॥ ३२ ॥
सत्यधर्मीया
अजन परिमुच्यत इति श्लोकं निगूढार्थं स्वयं व्याकृत्य तं प्रकाश-यति– अनन्तमिति । अनुजानतेति विशेष्यसापेक्षमिति मानानुसारेणाध्याहृत्य योजयति । अनन्तमबद्धमपरिच्छिन्नं वा । हरिमदुष्टतया समं स्वयोग्यतायोग्यं यथा तथाऽनुजानताऽऽ-चार्येण तत्सदुपदेशोद्दीपितज्ञानात्सततात्सन्ततमनुवृत्ताद्भवात्परिमुच्यतेऽधिकारी । ननु सर्वेऽपि शुको मुक्तो वामदेवश्च मुक्तो न मुमुक्षुर्न वै मुक्तिरित्येषा परमार्थतः । विमुक्तश्च विमुच्यत इत्यादेर्जीवा मुक्ता एव न जातुचित्संसारिण इति क्व नामाचार्योपदेशः क्व च तज्जन्यज्ञानेन मोक्ष इत्यत उत्तरार्धं समीकुर्वन्किञ्चित्पीठमारचयति– अबद्धेति । प्रकृतिश्च परेशश्च तौ विनाऽबद्धः कश्चिदन्यो न विद्यते । यतस्तयोः प्रकृतिपरयोरेवोद्भवस्तदादिर्न घटते । ततस्तयोरजयोरजा चाजश्च तयोः सकाशादितरे । अनेनोद्भवो न घटतेऽतोऽ-जयोरित्यन्वये न पुनरुक्तिरिति सूच्यते । असुभृतः प्राणिन उद्भवन्त्युत्पद्यन्ते । एतौ विना सर्वेषामुत्पत्त्यादिमत्त्वेन संसृतिनिःसृतिराचार्योपदेशसन्निवेशमिति विशेषेणेत्युक्तं युक्तमिति भावः । उभययुजोरित्यर्थमाह– देशत इति । युजोरित्येवोक्तौ युज्यते सदेति युजौ तयो-रित्युक्तौ सहभावः प्रतीयते । तेन चेप्सितार्थसिद्धिर्भवति । तथाऽपि स्वे महिमि्न प्रतिष्ठित इति तत्रावस्थिती रमायास्तथा गुणतोऽपि व्याप्तिः प्रसक्ता । सा तु समनेत्यादि-प्रमाद्रणबाधितेत्युभयपदमशितेऽपि लशुने न शान्तो व्याधिरिति यद्बाधितं तदेवोभयं गृहीतं चेदित्यतो व्याख्यानतो मानानुयानाच्च विशेषार्थप्रतिपत्तिरिति भावेन व्याख्याति– देशत इति । देशतः कालतश्च यत्र यस्मिन् देशे यत्र काले च परमस्तत्र प्रकृतिरेवमन्यत्रापीत्युभययुजो-रित्यादिव्याख्याने च मानमाह– सम्यगिति । सम्यगित्युपदेशादिसाधनक्षमता ज्ञानस्याभि-प्रैति । सम्यग्ज्ञानमस्यास्तीति स चासावाचार्यश्चेति तस्मात्तदुपदेशलब्धोपलब्धेः सम्यग्ज्ञानेन ज्ञानपूर्वकमिति यावत् । वदतीति वदो वाग्मी स चासावाचार्यश्च तस्मादिति वा । पुरुषो भवान् मुच्यते । प्रकृतिस्तथा परमेश्वरश्चेति द्वावेव नित्यमुक्तौ । तुशब्दो हर्यधीनमुक्तता रमायास्तद्रमणस्य स्वत इति विशेषसूचकः । श्रुत्यन्तरसमाख्यामाख्याति– देशत इति । समव्याप्तावुभावजौ । उभययोगाभ्यामुभाभ्यामुभयाभ्यां नित्यत्वसर्वगतत्वाभ्यां योगः सम्बन्धो ययोस्ताभ्यां परे पुरुषा जायन्त उत्पद्यन्ते । अत्र द्वावेतौ नित्यमुक्तावित्यादिभाष्योक्तानि मानान्यनुसन्धेयानि ॥
ततश्चायं श्लोकार्थः ॥ हे अजन अपामर महाज्ञानेति यावत् । जनो हि जननं तन्न विद्यते यस्येत्यर्थ इति केचित् । अत्र जीवजाते । यः पुरुषस्तमनन्तं हरिमदुष्टतयाऽनुसृत्य योग्यतामनु स्वाचार्यपरम्परामनुसृत्य जानताऽऽचार्येण तदुपदेशजज्ञानात् । आचार्याद्ध्येव विद्या विदिता साधिष्ठं प्रापयतीत्यादेः । सततात्सन्ततानुस्यूताद्भवात्संसारान्मुच्यते । बद्धमुक्तव्यवस्थया परिमोचनयुक्तत्वं युक्तमित्याह– नेति । उद्भवस्तदादिः प्रकृतिपुरुषयोर्यतो न घटते ततोऽजयोर्लक्ष्मीनारायणयोः सकाशादसुभृतः प्राणिनो जलबुद्बुदवज्जलबुद्बुदानीव ।
अनेन देहास्थिरतां ध्वनयति । चतुर्थाष्टकसप्तमाध्यायविंशे वर्गे खिले चक्षुश्च श्रोत्रं चेत्यारभ्यैतच्छरीरं जलबुद्बुदोपममित्युक्तेस्तादृशशरीरवता प्रयुक्ता बुद्बुदसमता तेषामनित्यत्वादिति ज्ञेयम् ॥
कृष्णपक्षे ॥ नागाङ्गना वक्ति । हे अज । सततात्सन्ततात्सम मया सहित । मनुजानत सकलमानवानत । सममनुज सम्यगमनुज देवेति । अनतात प्राणपितः । अत्रभवत्तत्र-भवच्छब्दौ पूज्यार्थ इत्युक्तेः । पूज्यान्न परिमुच्यते । तदा स तमनन्तं नान्तोऽनन्तस्तं नाशाभावं नाप न प्रापत् । अधुना न दौष्ट्यं गतमिति न वद स्वमिन्निति विज्ञापयति । अदुष्टतयोद्भवा पुनरुत्पत्तिर्न घटते विना मरणं न पुनरुद्भवघटनेति मृतिसमयोऽयं नेति तात्पर्यम् । उरुभययुजोर् उरुणा भयेन युज्येते इति तौ तयोः । प्रकृतिश्चाहिमहिषी च पुरुषश्च कालियश्च तयोः सकाशाज्जलबुद्बुदवदसुभृतः प्राणिनो भवन्तीति काकुर् न भवन्तीत्ये-वातो मुञ्च मुञ्च । हे अ त्वं जयेत्येवास्मदुचितापचितिरिति भावः । न कोपस्तवैवं दुष्फल-पर्यवसायीति व्यतिरेकनिदर्शनं दर्शयन्ति– नेति । घटतः कलशादुद्भवतीत्युद्भवः कुम्भ-सम्भवो स यथा नहुषं सर्पमेव प्रसर्पत्कोपपरवशश्च न तथा भगवन्भवानिति । तमनन्तं बलरामं परिमुच्य त्यक्त्त्वा भवान्नातति । ते सकाशादुद्भवो महामङ्गलं न घटते तस्या-स्मन्नाथत्वात्तदभावादेवैवम्भाव इति भावः । इतरत्समम् । अजयाऽस्मत्सपत्न््नया तया रमया सहितादत्रभवात्त्वत्तः । हे अनन्तम बहुसंविद्बहुसम्पद्वा । अदुष्टो कृष्णः । प्रकृतिश्च गोपी-जनश्च पुरुषश्च भवांश्च । रमणेन रमणं चैकदैकस्या एव प्रमदाया इति चैकवचनमुपपद्यते । एवं पूर्वत्राप्यनुसन्धेयम् । उरुभययुजोस्तवापि भूतिभीतिरस्तीति भामिनीभावः । जलबुद्बुद-वदसुभृतोऽपत्यानि न भवन्ति । अत उद्भवो महामङ्गलं घटते काकुर्वा । नञ आवृत्त्याऽ-न्वयो वा । नैवमनिर्घृणस्त्वमित्यप्याहुः । त्वं घटत उद्भवोऽगस्त्य इन्द्रद्युम्नविषये यथा तथा नेति । नहुषविषय एतज्जटाकूटघटितभृगुशाप इति । यद्यपि–
ततो भृगुर्महातेजा मैत्रावरुणमब्रवीत् ।
निमीलयस्व नयने जटां यावद्विशामि ते ॥
न चापि दर्शनं तस्य चकार स भृगुस्तदा ।
वरदानप्रभावज्ञो नहुषस्य महात्मनः ॥
अगस्त्यस्य तदा क्रुद्धो वामेनाभ्यहनच्छिरः ।
तस्मिंच्छिरस्यभिहते स जटान्तर्गतो भृगुः ॥
शशाप बलवत्क्रुद्ध इत्यादिना भारते दानधर्म उक्तम् । तथाऽपि तदादलोचनमूलमिव तत्पादताडनं तच्छिरस्येवेति न घटत उद्भव इवेति घटते । विस्तरदरतो नानुपूर्वीतस्ते श्लोका धृताः स ततोऽनुसन्धेयः । इत उतावकाशो नास्तीत्यप्याह । अजन यदि अत्र भवात्सततात्सन्ततं वनादिष्वेतत्सहभवात्त्वतः परिमुच्यते गोपीकुलम् । तर्ह्यसुभृतस् तन्मात्र-धारिण एते जलबुद्बुदवद्भवन्ति । रुभययुजो रोस्तव वचनं शब्दाद्भयं तद्युजोः प्रकृतिर्गोपी पुरुषश्च गोपः स्वपतिस्तयोः सकाशादुद्भवोऽसुभृतः प्राणिनो न घटत इत्यहोऽजयः पराजय एवास्माकमिति । त्वच्छब्दमोहान्न तत्रैदपि घटत इति भावः ॥
ततश्चायं श्रुत्यर्थः ॥ तत्त्वसम्बुद्धात् तत्त्वं परमपरं च सम्बुद्धं येन स तत्त्वसम्बुद्ध-स्तस्मात्तदुपदेशजज्ञानात्पुरुषोऽधिकारी भवान्मुच्यते । सर्वे बद्धाश्चेदबद्धो मोचकः क इत्यत आह– एतावेवेति । स्वतःस्वसामर्थ्येन परमो हरिरबद्धः प्रकृतिश्च स्वतःस्वतन्त्राद्धरित एव नित्यमबद्धेति द्वावबद्धावित्युक्तिरिति ध्वनयितुं नित्याबद्धावित्यनुक्त्वा स्वतोऽबद्धावित्युक्तिः । परः स्वो हरिरुद्दाम इति वचनात्तन्नामा हरिः ॥ ३२ ॥ (१८)
त्वयि त इमे ततो विबुधनामगुणाः परमे
अमृत इवार्णवे मधु निलिल्युरशेषरसाः ।
**नृषु तव मायया स्वगतया कुशलं **
त्वयि सुधियोऽङ्ग भेदमनुविधातुमनु प्रभवः ।
कथमनुवर्तिनां भवभयं तव भ्रुकुटी सृजति मुहुर्नृणाम् ॥ ३३ ॥
तात्पर्यम्
हे तत ओ । त इमे विबुधनामार्थभूता गुणास्त्वयि निलिल्युः । परमेऽमृतार्णवे मधुन्यशेषरसा इव । अतः पूर्णगुणत्वाद्भवतो नृणां मध्ये सुधियः । तव मायया त्वदिच्छयैव । त्वयि कुशलं विधातुं प्रभवः । तत्र च कुशलं भेद एव । सर्वस्मादन्यो विशिष्टगुणः पर इति दर्शनम् ॥ स्वगतया सुष्टु अन्यैरनवगतया । तथा त्वत्प्रसादादनुवर्तिनां कथं मुहुर्भवभयं भ्रुकुटी सृजति ॥ यो नः पिता जनिता यो विधाता धामानि वेद भुवनानि विश्वा ।
यो देवानां नामधा एक एव तं सम्प्रश्नं भुवना यन्त्यन्या । त आयजन्त द्रविणं समस्मा ऋषयः पूर्व जरितारो न भूना । असूर्ते सूर्ते रजसि निषत्ते ये भूतानि समकृण्वन्निमानि । इत्यादिश्रुतिः ॥
ब्रह्मेशेन्द्रादिसन्नाम्नां येऽर्थभूता गुणा मताः । पूर्तीशीतृत्वद्रष्टृत्व प्रमुखास्ते हरेः सदा । अतस्तु सर्वनामाऽसौ सर्वकर्ता च केशव इति पाद्मे ॥ आनन्दत्वादनामासावुत्कृष्ट-त्वादुनामकः । एतन्नामद्वयं विष्णोर्ज्ञात्वा पापैः प्रमुच्यते इति स्कान्दे ॥
अन्याविज्ञातया विष्णोः शक्त्यैव कुशलं जनाः । कुर्वन्ति कुशलेषूच्चं भेददर्शनमेव च । पूर्णानन्दादिसम्पत्तिं विष्णोर्ज्ञात्वेतरेषु च । तदपेक्ष्य विप्लुण्मात्रत्वज्ञानं तद्भेददर्शनम् । अनाद्यनन्तभेदोऽयं स्वभावः परजीवयोः । स्वतो वा परतो वापि न कदाचित्प्रणश्यति । एवं ज्ञानवतां विष्णुर्बहुजन्म न दास्यति । अनुवृत्तिर्यद्यनल्पा स हि सर्वेश्वर प्रभुरिति प्रमाणसंहितायाम् ॥ यः पिता जनिता चैव कल्पको नित्यपोषकः । प्रापकः सर्वदेवानां पदानां पुरुषोत्तमः । सर्वदेवाभिधावाच्यो भूतभव्यभवत्प्रभुः । विचार्यः सर्ववेदैश्च ब्रह्मा-द्याश्च यजन्ति च । त्रिगुणात्मकस्य स्रष्टारस् तथाऽपि न यजन्ति तम् । यतः पूर्णेश-शक्त्यैव तेषां यजनमिष्यते । अतः सर्वेश्वरो विष्णुरेक एव महागुणः ॥ इति महा-संहितायाम् ॥ ३३–१९ ॥
पदरत्नावली
मधुनि निलिल्युरिति वक्तव्ये मधु निलिल्युरिति पाठो गाथाभङ्गभयात् समाने लोप इति न्यायाच्च कृतः । ततो इति पाठोऽपि वैलक्षण्यज्ञापनायाकारि । तत तात पितरित्यर्थः । ततेति तातेति श्रुतिः । अ उ आनन्दपूर्णत्वादनामा सर्वस्मादुत्कृष्टत्वादुनामा । ‘आनन्दत्वादनामाऽसावुत्कृष्टत्वादुनामकः । एतन्नामद्वयं विष्णोर्ज्ञात्वा पापैः प्रमुच्यते’ इति स्मृतेः । तयोः सन्धिः । ओ इत्यनेन नाम्नोर्नामिनश्चाभेद उनाम्नः सम्बुद्धिरसूचि । ये ‘गुणाः श्रुताः सुविरुद्धाश्च देवे सन्ति’ इत्यादौ श्रुतौ प्रतीतास्त इमे विबुधनामगुणा विबुधानामिन्द्रादीनां नाम्नोऽर्थभूताः परमैश्वर्यादिगुणा अमृते नित्यमुक्ते परमे त्वयि निलिल्युर्निलीनतया स्थिताः । कस्मिन् के इव ? मधुन्यर्णवे मकरन्दमधुलक्षणसमुद्रेऽशेषगुणपुष्परसा इव । यतोऽशेषगुणाकरो भवानतो नृषु सुधियः, निर्धारणे सप्तमी, नृणां मध्ये सम्यग्ज्ञानिनः स्वगतया सुष्ठु अन्यैरनवगतया मायया स्वेच्छया त्वयि भेदं समस्तादन्यो विशिष्टगुणः पर इति भेददर्शनलक्षणठ कुशलमनु-विधातुमनुप्रभवः सम्यक् समर्थाः । अनेनाज्ञानिनां निलीना ज्ञानिनामभिव्यक्ता गुणा इत्यतस्तेषां सद्भावो दर्शित इति । तदुक्तम्– ‘अन्याविज्ञातया विष्णोः शक्त्यैव कुशलं जनाः । कुर्वन्ति कुशलेषूच्चभेददर्शनमेव तु । पूर्णानन्दादिसम्पत्तिं विष्णोर्ज्ञात्वेतरेषु च । तदपेक्ष्य विप्लुण्मात्रज्ञानं तद्भेददर्शनम् । अनाद्यनन्तो भेदोऽयं स्वभावः परजीवयोः । स्वतो वा परतो वाऽपि न कदाचित् प्रणश्यति । एवं ज्ञानवतां विष्णुर्बहुजन्म न दास्यति । अनुवृत्तिर्यद्यनल्पा स हि सर्वेश्वरः प्रभुः’ इति । अनेन चरमचरणस्यार्थो विवृतः । तथा हि । यथा तव गुणविधानसामर्थ्यं तथानुकूलभूतत्वत्प्रसादानुवर्तिनां मुहुर्निरन्तरं सेवमानानां तव भ्रुकुटी भवभयं कथं सृजति ? न कथमपि, प्रत्युत निर्मूलयतीत्यर्थः । ‘यं पाता जनिता चैव कल्पको नित्यपोषकः । प्रापकः सर्वदेवानां पदानां पुरुषोत्तमः । सर्वदेवाभिधावाच्यो भूतभव्यभवत्प्रभुः । विचार्यः सर्वदेवेशैस्तं ब्रह्माद्या यजन्ति च । त्रिगुणात्मकस्रष्टारस्तथापि न यजन्ति तम् । यतः पूर्णेशशक्त्यैव तेषां यजनमिष्यते । अतः सर्वेश्वरो विष्णुरेक एव महागुणः’ इत्यनेन ब्रह्मादीनामखण्डगुणत्वं स्वातन्त्र्येण सर्वकर्तृत्वमित्यादिकमपहस्तितमिति ज्ञातव्यम् । ‘ब्रह्मेशेन्द्रादिसन्नाम्नां येऽर्थभूता गुणा मताः । पूर्तीशितृत्वद्रष्टृत्वप्रमुखास्ते हरेः सदा । अतस्तु सर्वनामाऽसौ सर्वकर्ता च केशवः’ इत्यादिस्मृतीनां चार्थत्वेनायं श्लोकः सन्दृब्ध इति ध्येयम् ॥ ३३ ॥
दुर्घटभावदीपिका
परमे क्षीरसमुद्रापेक्षयोत्तमेऽमृतेऽर्णवे अरश्च हवै ण्यश्च सुधासमुद्रा-वित्यादि श्रुतिप्रसिद्धारण्याख्यसुधासमुद्रे इव यथाऽशेषरसा निलिल्युर्यथा वा मधुनि प्रसिद्ध-मधुन्यशेषरसा निलिल्युरित्यर्थः । एतेन मधुनीत्यनेनैव पूर्णत्वाद् अमृतेऽर्णव इत्येतद्व्यर्थमिति दूषणस्यानवकाशः । दृष्टान्तान्तरप्रतिपादनार्थम् अमृतेऽर्णव इव इत्युक्तमित्यभ्युपगमात् । एतेनैवा-मृतेऽर्णव इत्यनेनैव पूर्णत्वात्परम इत्येतद्व्यर्थमिति चोद्यस्यानवकाशः । अमृतेऽर्णव इत्युक्तेऽमृत-शब्दस्य क्षीरवाचित्वस्यापि भावात्क्षीरसमुद्र इति भ्रान्तिः स्यात् । तन्निवारणार्थं क्षीरसमुद्रो-त्तमारण्याख्यसुधासमुद्रलाभार्थं परम इत्युक्तमिति स्वीकरणात् ॥ ३३ ॥
सत्यधर्मीया
त्वयि त इमे ततो विबुधनामगुणा इति श्लोके तत इति पञ्चम्यन्तता तथा नामगुणा इत्यत्र द्वन्द्व इति भ्रमं भ्रंशयन्क्रियान्वयप्रदर्शनपूर्वकं विविक्षितमर्थमाह– हे ततेति । तत ओ इति पदद्वयं, त इति षष्ठ्यन्तमिति दर्शयितुमन्वयं दर्शयति– त इम इति । विबुधानां यानि नामानि तेषां येऽर्था गुणास्ते त्वयि परमेऽमृतार्णवे मधुन्यशेषरसा इव निलिल्युरित्यन्वयः । ततः किमित्यतः पूर्वार्धार्थ उत्तरार्धार्थसाधक इति हृदि कृत्वा व्याचष्टे– अत इति । अतः पूर्णगुणवत्त्वादिति हेतूक्तिः । नृष्विति सप्तमी निर्धारण इत्याह– नृणां मध्य इति । सुधियस्तवेति समानाधिकरणं षष्ठ्यन्तं प्रथमाबहुवचनान्तं सत्प्रभव इत्यस्य विशेषणं च । न माया त्वियमित्याह– तव मायया त्वदिच्छयैवेति । त्वयि कुशलं विधातुं प्रभवः । किं तत्कुशलमित्यत आह– तत्र कुशलं भेद एवेति । अनेन मूले कुशलं भेदमिति सामानाधिकरण्यं सूचितम् । तद्रूपं कुशलमित्यर्थः । एतेनापि सम्पन्नः कोऽर्थ इत्यत आह । सर्वस्मादन्यो विशिष्टगुणः पर इति यद्दर्शनं तत्कुशलं विधातुं सम्पादयितुं प्रभव इति । स्वगतयेत्यात्मगतता मायाया उच्यत उच्यते च त्वन्माययेति कथमित्यतस्तदनूद्य व्याचष्टे– स्वगतया सुष्टु अन्यैरनवगतयेति । अन्यैरिति योग्यलाभः । स्वशब्दो नायमखण्डशब्दः किन्तु सुपूर्वमगतपदम् । तच्चोपसर्गधातुलीनार्थद्योतकत्वपक्षे गम्ऌधातोरवगमार्थत्वमभिप्रेत्यैवं व्याख्यातम् । यथा तवेच्छया कुशलं तथा तत्प्रसादा-दिच्छाविशेषादनुवर्तिनाम् । अनेनानुवर्तनं तदिच्छामात्रसाध्यमिति सूचितं भवति । तव भ्रुकुटी मुहुर्भवभयं कथं सृजति न सृजत्येवेति ।
स्वोक्तार्थे मानमाह– ब्रह्मेशेन्द्रादीति । ब्रह्मा चेशश्चेन्द्रश्चादयो येषां तेषां सन्ति यानि नामानि तेषां येऽर्थभूता गुणा मताः । ते क इत्यत आह । पूर्तीशितृत्वद्रष्टृत्वानि प्रमुखानि येषां ते । पूर्तिर्गुणैर्ब्रह्मपदार्थो, द्रष्टृत्वमिन्द्रपदार्थः । तथा चैतरेयोपनिषत् । इदमदर्शमिति । ऋग्भाष्याद्युक्तैतदनुक्तप्रवृत्तिनिमित्तोपलक्षणमिदमिति ज्ञेयम् । इन्द्रः स परमैश्वर्यादिदमुद्दिश्य-वद्रतेः । ददर्शेदं दीप्तिमत्त्वादिदं रातीति वा भवेदिति तत् । आदिशब्देन सूर्यादिनामानीव प्रमुखशब्देन सूरिगम्यत्वादिप्रवृत्तिनिमित्तानि च ग्राह्याणि । अतः पूर्णगुणत्वादिनिमित्त-सद्भावात् । तुरसावेवेति सम्बध्यतेऽवधारणार्थः सन् सर्वनामा । क्रियानामान्यपि तस्यै-वेत्यर्थात्सूचयितुमाह– सर्वकर्ता च केशव इति । तान्यप्येतान्यपि तानीति ज्ञापनाय कण्ठतोऽनुक्तिः । हे तत ओ इति भङ्गी प्रदर्शिता । तत्र हे तत व्याप्तेति वा तातेति वा । तताभ्यां क्षुरिति श्रौतप्रयोगात्तत्स्फुटार्थमिति ।
ओ इत्यर्थं मानत एव दर्शयति– आनन्दत्वादिति । आनन्दत्वात्सुखरूपत्वात् । अ इति नाम यस्यासावनामा । अ इत्यत्रैकांशस्य व्याख्यां विधायोकारार्थमाह । उत्कृष्ट-त्वाद्धेतोर्निरुपसृष्टोकारेण सर्वोत्कृष्टतैवोच्यत इति ज्ञेयम् । उ इति नाम यस्य स उनामा । एतन्नामद्वयमकारोकारात्मकं विष्णोर्ज्ञात्वा स्थितः पुमान्सर्वपापैः प्रमुच्यते मुक्तो भवति । अकारो वासुदेवः स्यादित्युक्तेः । विष्णावेष त्वनव्यय इति विश्वाद् अशब्दोऽयम् । तथा उकारोऽपि उनामक इत्युक्तेः ।
अ उ इति स्थित आद्गुण इति । तर्हि वृद्धिरेचीति वृद्धौ तताविति भाव्यमिति चेत्सत्यम् । ओमाङोरित्येतावन्मात्रपूर्तौ यच्चमचकथद्ग्रन्थकृत्तेनोक्तादन्यत्रापि पररूपमन्वशा-सदिति पररूपसम्भवात् । यथोक्तं गुणोततामित्यनुव्याख्यानसुधायाम् । ननु गुणोततामिति कथम् । वृद्धिरेचीति भवितव्यम् । मैवम् । ओमाङोश्चेति चशब्देनान्यत्रापि पररूपत्वानु-शासनादिति । तट्टिप्पणे च चकारोऽधिकविधानार्थः । तेन शकन्ध्वादिषु पररूपं भविष्य-तीति न्यासकारेणोक्तत्वादित्युक्तेः । तथा चैतरेयभाष्ये ।
अकारः प्रथमं नाम विष्णोः सर्वगुणान्ब्रुवन् ।
सर्वदोषविरुद्धत्वाद्गुणानामन्यतामपि ॥
विष्णोर्वदति जीवेभ्यो जडेभ्यश्चैव सर्वदा ।
अभावं चैव दोषाणां सर्वेषां केशवे वदेत् ॥
सम्यग्वक्तृत्वतस्तस्मादकारो विष्णुनाम हि । इत्यारभ्य ।
अकारनामा नान्योऽस्ति तमृते पुरुषोत्तमम् ।
ब्रह्मरुद्रादिनामानि ब्रह्मादिष्वप्यमुख्यतः ॥
वर्तते न त्वकारोऽयं वर्तते केशवं विना ।
नारायणादिनामानि नृणां नामक्रियास्वपि ॥
विहितान्यकारो नैवायं विहितस्तमृते विभुम् ॥ इति गर्भीकृत्य ।
तस्माद इति नामैतद्विष्णोः केवलमेव हि ।
विशेषतोऽस्य व्याख्यानं बृहतीनां सहस्रकम् ॥
तस्मात्प्रीतो भवेद्विष्णुः शंसनादस्य सर्वदा ।
तस्माद्यज्ञेऽपि वा शंसेदयज्ञेऽपि रहः पुमान् ॥
ध्यात्वा नारायणं देवं विष्णोरत्र हि तत्परम् ॥
इति ब्रह्मसार इत्यन्तेन नामता निपातता च वर्णितेति न नामत्वे तद्वैसंवाद्यमिति ज्ञेयम् । गीतिर्गीताभाष्ये श्रुतौ च । अम् अः पुराणऋषिर्व्यास इत्युक्तेश्च । उः शम्भुः समुदाहृत इत्युक्तेः सर्वनामा । यो देवानां नामधा । नामानि सर्वाणि यमित्यादेरत्राप्यु-नामेत्युक्तेश्चोकारोऽपि नामेति ज्ञेयम् । ततो ऽ उ इति स्थिते अ उ इत्यत्र गुणे तत ओ इति स्थिते पररूपे एङ्ह्रस्वादिति सुलोपे च इह ओ इति भवतीति ज्ञेयम् ।
स्वगतयेति स्वव्याख्याने मानं संवादकं वदति– अन्याविज्ञातयेति । सु इति प्रतिरूपं वेति । अगतेत्यस्याज्ञातेति । मायेत्यस्य शक्तीति । कुशलं नाम किमित्यतो न साधारणं तदित्यप्याह– कुशलेषूच्चं भेददर्शनमेव चेति । पूर्णानन्दादिसम्पत्तिं विष्णोर्ज्ञात्वा तदितरेषु तदपेक्ष्य तत्पूर्णानन्दादिकमपेक्ष्यानन्दादेर्विप्लुण्मात्रत्वज्ञानं यत्तत्कुशलशब्दं भेददर्शनम् । न स चागन्तुक इत्याह– अनाद्यनन्त इति । स्वभावत्वे हेतूक्तिरनाद्यनन्त इति । तदेवो-पपादयति– स्वत इति । एवं ज्ञानवतां किं फलमित्यतो लपति– एवमिति । तत्रे-त्थम्भावान्तरमाह– अनुवृत्तिरिति । यद्यनुवृत्तिरनल्पा तर्हि बहुजन्म न दास्यतीत्यन्वयः ।
यो नः पितेति श्लोकमूलत्वेनोपात्तश्रुतिव्याख्यानरूपिणीं स्मृतिमुदाहरति– यः पितेति । पितेत्यस्य जनितेत्यस्य च नः सर्वेषां न दत्तपुत्रपितृवत्पिता किन्तु जनिता जनकः । सर्वाणि भुवनानि तद्गतधामानि च वेदेत्यर्थ इति तत्त्वप्रकाशिकाया अत्र पितेत्युक्तिरेव मूल-मिति मन्तव्यम् । पिता दत्तपुत्रपितृवदेव न किन्तु जनितेति मन्त्रगतपदानुवादः स्मृताविति न जनितामन्त्रविरोधः । कल्पक इति नित्यपोषक इति च विधातेत्यर्थः । धाञ् पोषणार्थ-श्चेति विपूर्वकत्वात्कल्पकश्चेति सम्भवतीति । देवानां सर्वेषां सर्वपदप्रापकश्च । यो देवानां नामधेत्यस्यार्थमाह– सर्वेति । देवानामभिधा नामानि ताभिर्वाच्यो भूतादिप्रभुश्च । तं विचार्य सर्ववेदैः, प्रश्नं तद्विषयं यजन्ति । तद्ब्रह्मादिकार्यं तदशक्ततां च साकल्यविषये तत्रापि स्वत इत्याह । तथाऽपि तं न यजन्ति यतः पूर्णेशशक्त्यैव तेषां यजनमिष्यते प्रामाणिकैः । अतः सर्वेश्वर एक एव । महागुण इति हेतूपन्यासः ॥
ततश्चायं श्लोकार्थः ॥ हे तत व्याप्त तात वा । हे ओ आनन्दपूर्णोत्कृष्ट च । त इमे विबुधनामगुणा विबुधानां नामानि तेषां गुणा अर्थभूताः पूर्णत्वादयः मधु मधुनि । मधुनि निलिल्युरिति वक्तव्ये समाने लोप इति वृत्तिविच्छित्तिभिया निलोपो, गुहाशयां निहिते-त्यादिवज्ज्ञेय इति केचित् । वस्तुतस्तु मधुनि लिल्युर्निलिल्युरित्यर्थः । मधुन्यानन्दात्मके । मध्वित्यानन्द उद्दिष्ट इत्यादेः । परमेऽगाधेऽमृते नित्यमुक्ते मुख्यामृते वाऽशेषरसा नद्या-द्युदकान्यर्णवे यथा निलीयन्ते तथेति । भगवति निलीयता नाम ब्रह्मादिशब्दप्रवृत्तिनिमित्तानां तदधीनतेति तात्पर्यम् । अतो गुणपूर्णत्वान्नृषु नृणां मध्ये ये सुधियस्ते सुधियस्तव स्वगतयाऽत्यन्तमन्यैरनवगतया मायया शक्त्येच्छया वा । त्वयि कुशलं भेदकधर्ममिति वाऽनु स्वयोग्यतामनुसृत्य ज्ञातुमनुहीनाः प्रभवः समर्था भवन्ति । तव सर्वदेवानामार्थगुण-स्वाम्यान्निरवधिकतद्वत्त्वात्त्वदिच्छयैव सुधियस्त्वयि चोक्तभेददर्शनरूपकुशलवन्तो भवन्ति नान्यथेति तात्पर्यम् । एवं भेदज्ञानिनां मुहुर्मुहुरनुवर्तिनां नृणां तव भ्रुकृटीकटाक्षो भवभयं कथं सृजति न सृजत्येव । निर्मूल्य संसारं मुक्तिं वितरतीति भावः । मधुन्यर्णवे मकरन्द-समुद्रेऽशेषपुष्परसा इति वा ॥
कृष्णपक्षे ॥ हे विबुध तत ओ । ते परोक्षा इमेऽस्मदनुभूता गुणा अमृते नित्यमुक्ते परमे मधुन्यर्णवे तद्रूपसमुद्रेऽशेषकुसुमरसा इव लिल्युर्नाम प्रसिद्धम् । हे स्वग स्वस्मि-न्नवस्थित, शोभनगोवर्धन वा । तया माययाऽङ्गभेदं कालियकलेवरभङ्गमनुविधातुं कर्तुमेव तव सुधिय उपहासो नृषु मनुष्येष्वनुप्रभवो हीनतयोत्पत्तिरिति त्वय्येवेदं कुशलम् । नायमनु-वर्तीति गच्छतु अनुवर्तिनां किं करोषि समवर्तीत्वमिच्छानुसारेणेत्यत आहुः– कथमिति । नृणामनुवर्तिनामेतदादीनामपि । हे भव मङ्गलात्मन् । तव भृकुटी कथं भयं सृजति अति-सृजति । दंशदन्दशूक इति विषविषमता ममासीदिति न वदेतीरयन्ति– त्वयीति । हे विबुध हे इमे च । अमस्याज्ञस्यास्माकं राज्ञो गुणाः । अशेषयन्ति स्वसम्बन्धेनेतरानित्य-शेषास्ते च ते । रसाश्च ते परमेऽमृते तद्रूपेऽर्णवे तत्समे त्वयि मधु यथा भवति तथा निलिल्युरस्वकार्यकारिणः सन्तो निलीनाः । शेषो रसो वरो, रसः सारो वरः श्रेष्ठ इति गीताभाष्योक्तेः । न विद्यते स एषां ते नागा अर्णवे निलिल्युर्निममज्जुः । कस्मिन् कथम्भूते नः परमे मृते सति ।
गोपिकापक्षे । तव येऽविबुधस्याज्ञस्येव नामानि जारचोरेत्यादीनि गुणास्तदर्था जारत्व-चोरत्वादयः परमेऽमृते त्वय्येवेति । किञ्च नृषु स्वगता या माया कापट्यं तेनैव योऽनुप्रभव उत्पत्तिमांस्तस्य तव सुधियः सकाशादकुशलमक्षेम इति त्वयि सत्यपि नृणां पश्यतां सतामप्यङ्गभेदमनुविधातुं तेऽनुप्रभवः समर्था इति तेषामशेषरसाः श्रृङ्गारहासादिरसा अर्णवे निलिल्युरिव द्रष्टृविरहात् । भवतु मम किमिति न वद तव स्वभाव एतादृश इति दयेयु-रित्याहुः– कथमिति । एवं मुहुरनुवर्तिनां तव भृकुटी भवभयं भवाद्भयं यस्य स तं मन्मथं कथं सृजति न तं वर्धयति । तमनुप्रभवस्तदाद्योपलब्धिर्यस्तस्येयमनु विधा प्रकार इति वा । आद्योपलब्धौ स्थाने च प्रभव इति विश्वः ॥
ततश्चायं श्रुत्यर्थः ॥
यो नः पिता जनिता यो विधाता धामानि वेद भुवनानि विश्वा ।
यो देवानां नामधा एक एव तं सम्प्रश्नं भुवना यन्त्यन्या ॥
त आयजन्त द्रविणं समस्मा ऋषयः पूर्वे जरितारो न भूना ।
असूर्ते सूर्ते रजसि निषत्ते ये भूतानि समकृण्वन्निमानि ॥
परो दिवा पर एना पृथिव्याः परो देवेभिरसुरैर्यदस्ति ।
कंस्विद्गर्भं प्रथमं दध्र आपो यत्र देवाः समपश्यन्त विश्वे ॥
तमिदद्गर्भं प्रथमं दध्र आपो यत्र देवाः समगच्छन्त विश्वे । अजस्य नाभावध्येकमर्पितं यस्मिन्विश्वानि भुवनानि तस्थुः । न तं विदाथ य इमा जजानान्यद्युष्माकमन्तरं बभूव । नीहारेण प्रावृता जल्प्या चासुतृप उक्थशासश्चरन्ति । यो नोऽस्माकं पिता । न स दत्तपुत्रपितृवत्पितेत्याह– जनितेति । जनितेत्येवेत्युक्ते पालकः कश्चिदन्यो वर्तेतेति स्यात्ततः पितेति । यश्च विधाता कर्ता भर्ता च यश्च विश्वा । डादेशः । एवमुत्तरत्रापीति ज्ञेयम् । समस्तानि भुवना भुवनानि सत्यलोकादीनि तदन्तर्गतानि धामानि च वेद । प्रापक इति मानानुसारेण वेदयति प्रापयति वेदेति । अन्तर्णीतणिजन्तो लाभार्थो विदधातुः । य एक एव देवानां नामधास्तत्प्रवृत्तिनिमित्तपौष्कल्येन तद्वानिति धारकः । तं सम्प्रश्नं सम्यक् प्रष्टव्यमन्या अन्यानि भुवना भुवनानि जीवा यन्ति प्रलये प्रविशन्ति मुक्ता भवन्ति ॥
ते प्रसिद्धा जरितारः स्तोतारः । वाय उक्थेभिर्जरन्ते त्वामच्छा जरितार इत्यृग्भाष्ये स्तुवन्ति शस्त्रैः स्तोतार इति टीकायां स्तोतृनामसु पाठादिति । तट्टिप्पणे च । रेफः कारुर्जरिता कीरुर्भानुः सूनू रुद्रो रदो नादश्चन्द्रः स्त्रुक् गौः कृपण्युरिति त्रयोदशस्तोतृनामसु पाठादित्यर्थ इत्युक्तेः । पूर्वे ऋषयः प्रथमप्रतिपत्तारो ब्रह्माद्याः । अस्मै हरये । संद्रविणं न्यायार्जितमिति समीचीनं द्रविणं, आ अयजन्त ददुः । ते च तत्रापि न स्वतन्त्रा इत्याह– भूना भूम्ना । तेन विना नेति । असूर्ते सुरा हरेर्गुणाः प्रोक्ता इत्यादेर्भगवद्गुणावगमकत्वेन सत्त्वं सूर्तम् । पृषोदरादिकार्यं दीर्घादिः । तदत्यन्तविरुद्धत्वादसूर्तं तमस्तस्मिन् । आदौ तदुदीरणं बहुत्वात् । असुरा बहुला इत्यादेः । सर्वेऽपि गुणा उत्पत्त्यनन्तरं मिश्रिताः प्रायश इत्यभिप्रायेणान्तरा सूर्तपदवाच्यसत्त्वनिवेश इति मन्तव्यम् । रजसि रजोगुणे च । निषत्ते नितरां सत्ता यस्य तत्तस्मिन्कार्योत्पत्त्यपेक्षया पूर्वभाविनीति यावत् । ये देवा धात्राद्या इमानि भूतानि समकृण्वन् सम्यग्जनयामासुः ॥
पूज्यमेतादृगित्याह– पर इति । दिवा दिवः परः । सान्तं वाऽव्ययं वा व्यत्ययेन परमिति वा । पृथिव्याश्च परम् । एनेति दिवः पृथिव्याश्च विशेषणम् । एतस्या इति तदर्थः । देवेभि-र्देवेभ्योऽसुरेभ्यश्च परं विलक्षणं यद्ब्रह्म तत् । त आजायजन्तेत्यतीतेनान्वयः । स आप आ पाति सर्वमित्यापो भगवान् । आप आपालनाद्विष्णुरित्युक्तेः । यत्र विश्वे देवाः संसारं मोक्षादिसाधनमपश्यन्त । तं कंस्वित्कञ्चिद्गर्भं ब्रह्माण्डाख्य प्रथमं दध्रे बभार जनयामासेति यावत् । अनूद्यान्वयं दर्शयति– तमिदिति । तमेव गर्भं तद्रूपं हिरण्यगर्भं विश्वे देवाः सम-गच्छन्त स्वगतिदं व्यजानन् ॥
तदेव विशदयति– अजस्येति । अजस्य हरेर्नाभावेकं पद्ममर्पितं भगवदिच्छया प्रादुर्भूतं यस्मिंश्च विश्वा भुवनान्यधि तस्थुः । पुष्करं लोकसारमित्यादेः । पद्ममर्पितं नान्यदिति । अधीति सप्तम्यर्थानुवादीति केचित् । तस्माद्ब्रह्मा जात इति यावत् । यश्चेमा इमानि कमलं, कमलभवं तथाऽन्याञ्जजानोत्पादयामास । हे ऋत्विजः । तं यूयं न विदाथ न जानथेति वेदपुरुषवाक्यम् । अन्यल्लोकविलक्षणं युष्माकमन्तरमन्तर्वर्त्यन्तः स्थित्वा रमणकृद्बभूव । कुतस्तज्ज्ञानाभाव इत्यत आह– नीहारेणेति । नीहारेण तुषारसमया । जल्प्या अन्यथा-ज्ञानहेतुर्या जल्पिः सा वाक् प्रकीर्तितेति तात्पर्यान्तरात् । दुर्वादिवचनतः प्रवृत्तास्तज्जनिता-ज्ञानावृता अत एवासुतृपः स्वप्राणमात्रतर्पकास्ते उक्थशास उक्थेन वायुना शाः शासनं येषां त उक्थशस उक्थशासः । सांहितिको दीर्घः । चरन्ति न तेषामुद्धतिरिति भावः । प्रावृता असुरादयोऽसुतृपा भवन्ति । उक्थशासः सन्तश्चरन्ति जानन्तीति वा ॥
ततेत्यर्थे यो नः पितेत्यादेः । परम इत्यादौ धामानीत्यादेः । विबुधेत्यादौ यो देवा-नामित्यादौ भुवना यन्त्येत्यादेः । सुधियस्तव मायेत्यादौ त आयजन्तेत्यादेः । भेदमनु-विधातुमित्यत्र परो दिवेत्यादेः । अमृतार्णव इत्यादौ कं स्विदित्यादितस्थुरित्यन्तस्य । स्वगतयेत्यत्र न तं विदाथेत्यादेरुदाहृतिरिति विवेको ज्ञेयः ॥ ३३ ॥ (१९)
इह भवच्चरणेषु सुजातभुवो जितहृषीकवायुभिरुदात्तमहत्तुरगैः ।
**य इह यतन्त्यमतिलोलमुपायविदो व्यसनशताब्धितारमपहाय गुरोश्चरणम् **
॥ ३४ ॥
वणिज इवोच्छ्वसन्त्यकृतकर्णधरा जलधौ स्वजनसुतात्मदारधनधामधराः ।
सुखशान्तिमति त्वयि हि सन्ति न तानि नृणां विभव उद्यति श्रयत आत्मनि
सर्वरसे ॥ ३५ ॥
तात्पर्यम्
भवच्चरणेषु सुष्ठु जातस्थाना उत्तमयोग्यतायुक्ताः । हृषीकाण्येव महत्तुरगाः । वायुरेवोदात्तः ॥ रथोपरि स्वीकरणादुदात्तः सारथिर्मतः ॥ इति व्यासनिरुक्तेः ॥ जयो विष्णोश्च वायोश्च भक्त्या तत्प्रीतिसाधनम् । जगदीशयोः कुतो ह्येनोः सर्वशक्त्योर्बलाज्जयः ॥ इति पवनविजये ॥ तेषां तानि साधनानि सुखस्यापि शान्तिमति पूर्णसुखे त्वयि न सन्ति ॥ गुर्वभावात् ॥ ३४ ॥
विभवे जीवन्मुक्ते गुरावुद्यति उपदिशति सति सर्वरसे परमात्मनि श्रयत एव ॥
यस्य देवे पराभक्तिर्यथा देवे तथा गुरौ । तस्यैते कथिता ह्यर्थाः प्रकाशन्ते महात्मनः । इति श्वेताश्वतरश्रुतिः ॥
देवा अपि सुयोगाढ्या यतन्तः सर्वसाधनैः । पुत्रदारादिभिस्सार्धं नोच्छ्वसंतीह संसृतौ । गुरोरनुग्रहमृते साधनं न हरेः प्रियम् । गुरूपदेशात्तु परं प्राप्नोत्येव न संशयः ॥ षण्णव-त्यङ्गुलो यस्तु तालास्यो दशतालकः । दशप्रादेशकः सप्तपादो हस्तचतुष्टयः । कलमत्र-याङ्गुलश्चैव वाग्मी सन्देहवर्जितः । वासुदेवैकशरणो गुरुरित्युच्यते बुधैः । गुरुलक्षण-सम्पूर्णः साक्षादेव चतुर्मुखः । ततः शेषेन्द्रवीन्द्राद्याः क्रमेणैव प्रकीर्तिताः । इत्यादि गुरुविवेके ॥ देवा योग्यतया जाता विष्णुपादाम्बुजाश्रयाः । तथाऽपि साधनैस्तेषां तत्प्राप्तिर्गुर्वनुग्रहात् ॥ इति तत्वोद्योगे ॥ ३५ ॥
पदरत्नावली
श्लोकद्वयस्यायमभिप्रायः । हे अजित भक्तभक्त्या वशीकृत । ‘जयो विष्णोश्च वायोश्च भक्त्या तत्प्रीतिसाधनम् । जगदीशयोः कुतोह्येनोः सर्वशक्त्योर्बलाज्जयः’ इति वचनाद् भक्तिलक्षणसाधनसामग््रया विष्णोः प्रसादो जयो नाम । हे हरे य इह संसारे व्यसन-शताब्धितारं गुरोश्चरणमपहाय हृषीकवायुभिरुदात्तमहत्तुरगैः कर्मणि यतन्तीत्यन्वयः । व्यसनानां शतमेवाब्धिर्व्यसनशताब्धिस्तं तारयतीति यस्तम् । षण्णवत्यङ्गुलो यस्त्वित्यादिलक्षणोपेतस्य गुरोश्चरणमिति सेवेह लक्ष्यते । तां सेवां त्यक्त्वा उदात्तः सारथिः, ‘रथोपरि स्वीकरणादुदात्तः सारथिर्मतः’ इति वचनात्, वायुरेवोदात्तो येषां ते तथा । पृथक्पदत्वं छान्दसम् । हृषीकाण्येव महान्तस्तुरगा महत्तुरगाः । महादेशाभावश्चान्दसः । ‘देवा अपि सुयोगाढ्या यतन्ते सर्वसाधनैः । पुत्रदारादिभिः सार्धं नोच्छवसन्तीह संसृतौ । गुरोरनुग्रहगृते साधनं न हरेः प्रियम् । गुरूपदेशात् तु हरिं प्राप्नोत्येव न संशयः’ इति श्रुत्यनुगृहीतः श्लोकोऽयम् ।
तैस्ते उच्छ्वसन्ति निःश्वसन्तीन्यन्वयः । अत्र दृष्टान्तः । जलधावकृतकर्णधरा अकृतः कर्णधरो यैस्ते तथा । वणिजः सायन्त्रिका इव यतमानाः । कीदृशाः ? स्वजनसुतात्म-दारधनधामधराः स्वजनसुतादिभरणोपेताः । आत्मा देहः । धाम गृहम् । जितहृषीक इत्येकं वा पदम् । उक्तमेव विवरणम् । ये च देवकल्पाः पुरुषा भवच्चरणेषु भवद्विषयेषु कर्मसु सुजात-भुवः सुष्ठु जातास्थाना उत्तमयोग्यतायुक्ता वायुसारथियुक्तहृषीकलक्षणतुरगैरमतिलोलं बुद्धिचाञ्चल्यं विना निष्कामत्वेन यतन्ति ते स्वजनादियुक्ता उच्छ्वसन्ति उत्कृष्टं श्वसन्ति प्राणन्ति जीवन्ती-त्यर्थः । श्वस प्राणन इति धातुः । किं कृत्वा ? गुरोश्चरणमपहाय । हानं त्यागमपाकृत्य, गुरुचरणनिषेवणं कृत्वेत्यर्थः । नास्त्यकृतः कृतेनेति श्रुतेरकृतो भगवानेव कर्णधारो येषां ते तथा, दवानुकूलकर्णधारा इत्यर्थः । ते उपायविदः सुयोगज्ञाः । किन्तु नृणां यानि विहितानि साधनानि सुखशान्तिमति त्वयि, सुखस्यापि शं सुखं दुःखमिश्ररहितसुखमित्यर्थः । तस्यान्तिमति पूर्तिमति पूर्णसुके इत्यर्थः । तस्मिन् त्वयि न सन्ति हि गुर्वभावात् । तस्माद् विभवे विगतसंसारे देहाभिमानरहिते जीवन्मुक्ते गुरावुद्यति साधनजातमुपदिशति सति सर्वरसे सर्वस्मात् सारभूते आत्मनि परमात्मनि श्रयत एव । तत्साधनसर्वस्वं तत्प्रीतिजनकत्वेन श्रीहरिं विषयीकरोतीत्यर्थः । ‘षण्णवत्यङ्गुलो यस्तु तालास्यो दशतालकः दशप्रादेशकः सप्तपदो हस्तचतुष्टयः । कलमत्र-याङ्गुलिश्चैव वाग्मी सन्देहवर्जितः । वासुदेवैकशरणो गुरुरित्युच्यते बुधैः । गुरुलक्षणसम्पूर्णः साक्षादेकश्चतुर्मुखः । ततः शेषेन्द्रवन्ह्याद्याः क्रमादेव प्रकीर्तिताः’ इत्यादि वाक्यमत्र प्रमाणम् । ‘देवा योग्यतया जाता विष्णुपादाम्बुजाश्रयाः । तथापि साधनैस्तेषां तत्प्राप्तिर्गुर्वनुग्रहात्’ इति च ॥ ३४–३५ ॥
दुर्घटभावदीपिका
भवच्चरणेषु सुजातभुव इत्यस्य भवच्चरणेषु सुष्टु भगवत्क्लृप्तस्थाना इत्यर्थः । उत्तमयोग्यतायुक्ता इति भावः । एतेन भवच्चरणेषु विद्यमानस्य स्थानस्य नित्यत्वा-द्भवच्चरणेषु सुजातस्थाना इति कथनमयुक्तमिति दूषणं परिहृतम् । भवच्चरणेषु सुजातभुव इत्यस्य भवच्चरणेषु सुष्टूत्पन्नस्थाना इत्यर्थ इत्यनङ्गीकारात् ॥
सुखाशान्तिमतीत्यत्र सुखशेति द्विर्ववचनमतिशयार्थेऽतिशब्दः पूर्तिवाची । ततश्च सुख-शान्तिमतीत्यस्यातिशयितसुखपूर्ण इत्यर्थः । अत्र सुखस्येति सुखशब्दः सुखमात्रपरः । सुख-स्येत्यतः परं सकाशादिति शेषः । सुखेत्यतः पूर्वमतिशयितेति शेषः । अन्तशब्दः पूर्तिवाची । पूर्णशब्दो मुख्यामुख्यन्यायेन महापूर्णवाची । ततश्च सुखमात्रसकाशादप्यतिशयितं यत्सुखं तस्य पूर्तेर्मतिर्महापूर्णसुख इत्यर्थः । एतेन सुखस्येत्येतदनन्वितमिति दूषणं परिहृतम् । सकाशा-दित्यस्यातिशयितेति समर्थप्रातिपदिकस्य च शेषमङ्गीकृत्यान्वयस्योक्तत्वात् ॥ ३४,३५ ॥
सत्यधर्मीया
इह भवच्चरणेष्विति श्लोकोऽप्रतीतार्थ इति स्वयं व्याख्याति– भव-च्चरणेष्विति । सहस्राक्षः सहस्रपात् । सर्वतः पाणिपादं तद् इत्यादेश्चरणेष्विति सम्भवति । सुजातभुव इति स्वयं व्याख्याय तात्पर्यमाह– सुष्ठु इति । सुष्ठु जाता भूर्येषां ते । भूशब्दः स्थानवाची । उत्तमयोग्यतायुक्ता इति । हृषीकाण्येव महत्तुरगाः । वायुरुदात्तः सारथि-रित्यर्थः । अन्वययोग्यताक्रमेण धृत्वाऽर्थं च प्रदर्श्य मूले भिन्नानामपि पदानां द्विरेफापकर-दम्पतीशुनच्छेपनाराशंसेत्यादिपदान्तरोपस्थापकत्वं लक्षणयेत्येकानुपूर्वीमदेकं पदं सम्पाद्यार्थो वर्णनीय इत्यनेन ध्वनयति । तत्प्रकारं श्लोकव्याकृत्यवसरे दर्शयिष्यामः । कथमुदात्तः सारथिरित्यत आह– रथेति । उद् ऊर्ध्वमात्तः स्वीकृत इत्युदात्तपदविग्रहः । रथस्योपरि स्वीकरणाद्रथिकेन । उदात्तः सारथिर्मत इति व्यासनिरुक्तेः । उदात्तः सारथिः । तर्ह्युदात्तजय इत्युक्तौ वायुजयेनाधिकारी बलवाननिलत इत्यायत इत्यतः प्रसङ्गसङ्गत्या विष्णोर्वायोश्च जय एवं रूप इति मानेनाह– जय इति । विष्णोर्वायोश्च जयो नाम भक्त्या तत्प्रीतिसाधनम् । कुत एवं पारिभाषिकताकल्पनमित्यत आह– जगदीशयोरिति । एनोरेतयोर्जगदीशयोः सर्व-शक्तयोर्बलात्कथं जयो वास्तविकः स्यादिति भावः । तच्छब्दपरामृश्यं दर्शयन्सुखशान्तीत्यस्य सुखस्याभाव इति भ्रमं वारयति– तेषामिति । अधिकारिणः सुखस्य साधनानि त्वयि न सन्तीत्यन्वयः । सुखादपि या शान्तिः शर्मातिशयितं सुखं सुखशान्तिः साऽस्यास्तीति सुखशान्तिमत्तस्मिन् । शान्तिः शर्मणि कल्याण इति विश्वः । पदद्वयतात्पर्यार्थमाह– पूर्ण-सुख इति । त्वत्प्रीतिसाधनानि नेत्यत्र हेतुमाह । गुर्वभावाद्गुरोश्चरणमपहायेत्यानुकूल्येन भगवद्विषये तेषां न प्रवृत्तिः । गुरूपदेशेनाप्रवृत्तेः । फलानुपलम्भकत्वात्त्वयि न सन्तीत्युक्तिः
॥ ३४ ॥
विभव इवेति पदमनूद्य व्याचष्टे– विभवे जीवन्मुक्त इति । अनेन विगत इव भवो यस्येति विभवपदविग्रहः सूचितः । गुरावित्यध्याहारः । उद्यतीत्यनूद्य प्रामाणिकं तत्पदार्थ-माह– उद्यत्युपदिशति सतीति । सर्वरस इत्यस्यार्थः परमात्मनीति । श्रयते तत्साधनं फलाधायि सच्छ्रयते । पूर्वं तानीत्युक्तेः श्रयन्त इति वक्तव्यं कथं श्रयत इति चेन्न । पूर्वं गुरूपदेशाभावे तानि अनैकान्तिकानीति तदुपदेशे ते चैकान्तिकानीति सूचनार्थं बहुवचनैक-वचने इति सम्भवात् । स्वोक्तेऽर्थे मानमाह– देवा अपीति । सुयोगाढ्याः । गुरूपदेश-मन्तरेत्यन्तरा पूरणीयम् ॥ सर्वसाधनैर्यतन्तो यतमाना न स्वमात्रपर्यवसायिसाधनसम्पन्नाः पुत्रदारादिभिः सार्धमिह संसृतावस्याः संसृतेः सकाशान्नोच्छ्वसन्ति नोर्ध्वं प्राणन्ति चेष्टन्ते न बहिष्कृततत्का भवन्तीति यावत् । द्वितीयार्थे तृतीयार्थे पञ्चम्यर्थे च सप्तमीति तात्पर्य-वचनादत्र सप्तमी पञ्चम्यर्थ इति ज्ञेयम् । गुरोरनुग्रहमृते गता द्वितीयोपपत्तिचिन्ता । साधनं हरेर्न प्रियम् । अत एव मूले श्रयत इत्युक्तिः । अधिकारी गुरूपदेशात् । तुः स्वयोग्यता-तारतम्येनेत्यर्थविशेषसूचकः ।
ननु गुरुः कीदृशः कश्च मुख्य इत्यतस्तल्लक्षणमाह– षण्णवत्यङ्गुल इति । स्वदेहाङ्गुलि-तालादयो ग्राह्याः । प्रायेण नैकरूपास्त इत्यभिप्रायेण बहुलक्षणोक्तिः । यः षण्णवत्यङ्गुलः स्वाङ्गुलिभिः षण्णवन्तिसङ्ख्याभिर्युतः । मध्यमाङ्गुल्या प्रसृतया प्रसारितेनाङ्गुष्ठेन च यत्परिमाणं स तालः । तालः करतलेऽङ्गुष्ठमध्यमाभ्यां च सम्मित इति विश्वः । तालप्•रिमितमास्यं यस्य यः । दशतालको विशिष्टकाये तत्परिमाणः । दशप्रादेशकः । प्रादेशो देशमात्रे स्यात्तर्जन्यङ्गुष्ठसम्मित इति विश्वः । सप्तपादः स्वपादेन तत्परिमाणः । हस्तानां चतुष्टयं बद्धमुष्टि च मानं यस्य सः । षण्णवत्यङ्गुलो वायुर्गुरुलक्षणसम्पूर्ण इति वक्ष्यमाण-त्वात् । प्रादेशतालगोकर्णितर्जन्यादियुते तते । अङ्गुष्ठे स कनिष्ठे स्याद्वितस्तिर्द्वादशाङ्गुल इत्युक्तेः परिमाणविशेषो ज्ञेयः । षण्णवत्यङ्गुल इत्यत्रत्याङ्गुलिप्रमाणमाह– कलमत्रयाङ्गुल इति । कलमा व्रीहिविशेषास्तेषां त्रयपरिमिताऽङ्गुलिर्यस्य सः । कलमो लेखनी चोरशालि-लाक्षाकरेषु चेति विश्वः । दीर्घास्तु कलमास्तिस्रास्तिर्यगष्टयवोदरा इति तन्त्रसारेऽपि तत्परि-माणोक्तेः कलमत्रयपरिमाणाङ्गुलः । अत एव स्त्रीलिङ्गोऽपि स शब्दः । वाग्मी कार्योप-युक्तभाषी । सन्देहवर्जित उपदेश्यार्थविषये । वासुदेव एवैकं मुख्यं शरणं रक्षिता यस्य स बुधैर्गुरुरित्युच्यते । न साधारणगुरुमात्रस्येदं लक्षणमिति भ्रमितव्यमिति तत्पर्यवसाययति– गुर्विति । गुरुलक्षणानि सम्पूर्णानि यस्मिंस्तैः सम्पूर्ण इति वा । साक्षान्मुख्यतश्चतुर्मख एव । ततस्तदनन्तरं, शेषवींद्राद्याः क्रमेणैव दशतालका इत्यादिना । शेषो दशतालकः । दशप्रादेशक इंद्र इत्यादिक्रमेणेति । इत्यादीत्यादिपदेन द्वात्रिंशल्लक्षणैर्युक्तस्तीक्ष्णं दष्टृंश्च सौम्यरुक् । घोररुक् चेति पुरुषः स सर्वज्ञ उदाहृत इत्यध्यात्मे । षण्णवत्यङ्गुलो यस्तु न्यग्रोधपरिमण्डलैः । सप्तपादश्चतुर्हस्तः स देवैरपि पूज्यत इति वायुप्रोक्त इति पञ्चमे पञ्चमाध्यायतात्पर्ये कथितम् । तथा असंशयः संशयच्छिद्गुरुरुक्तो मनीषिभिरित्यादिना कथितं च सङ्ग्राह्यमिति सूचयति । लिङ्गभूयस्त्वात्तद्धि बलीयस्तदपि, प्रदानवदेव हि तदुक्तमिति सूत्रभाष्यादितो विशेषोऽवसेयः । तानि त्वयि न सन्तीत्येतस्य स्वोक्तमर्थं मानेन द्रढयति ॥ देवा इति । योग्यतया विष्णुपादांबुजाश्रया देवा जाताः । तथाऽपि तेषां साधनैस्तत्प्राप्ति-र्भगवत्प्राप्तिर्गुर्वनुग्रहान्मुख्यगुरुब्रह्मानुग्रहात्साधनानि गुर्वनुग्रहेणैव सन्ति । अन्यथाऽविद्यमान-प्रायाणीति ॥
ततश्चायं श्लोकद्विकार्थः ॥ केचित्तु जितहृषीकादिपदं समस्तं विश्लेष्य हे अजितेति भगवत्संबोधनमिति व्याख्यातवन्तः । एकदा जयो विष्णोस्त्विति प्रस्तुतमानानुयानं मूलमिति कटाक्षयन्ति । हे जित भक्तभक्तिपरवश । जितहृषीकवायुभिरुदात्तमहत्तुरगैः । जितहृषीक-महत्तुरगोदात्तवायुरिति पदसम्पत्तिः । हृषीकाणीन्द्रियाण्याहुरित्यादेर्हृषीकाण्येव महत्तुरगाः । आन्महत इति नात्वम् । तस्यात एवानित्यत्वज्ञापनात् । तद्रूपाः । महान्तस्तुरगाश्च ते चोदात्तश्चासौ वायुश्च सारथ्यात्मा जितास्तैः । जयस्तु भक्तितः प्रीतिसम्पादनम् । इन्द्रिय-वायुजयादिसाधनैरिह भवच्चरणेषु । पादेष्विति केचित् । भवतश्चरणं ज्ञानं येषामस्ति त इति ज्ञानिषु भवद्विषयाचरणेषु कर्मस्विति वा । सुजातभुवः सुष्ठु जाता भूः स्थानं येषां ते त उत्तमयोग्यतायुक्ता ये देवास्तेऽपीह संसारादमतिलोलम् अमतिलोलतां चाञ्चल्यं विनोपायविदः सुयोगाढ्या यतन्ति यतन्ते । व्यसनानां शतं तदेव महाब्धिर्मार्गान्तरेणातार्यः समुद्रस्तं तारयतीति तत् । गुरोर्ब्रह्मणो वायोर्वा । जलधौ समुद्रेऽकृतकर्णधरा अकृतोऽसङ्गृहीतः कर्णधरः कर्णधारस्तु नाविक इत्यमरात्कर्णधारो यैस्ते । वणिजो व्यावहारिका वैश्या यथा जलधेर्नोच्छ्वसन्ति पारं न प्राप्नुवन्ति तथेति । स्वजनसुतात्मदारधनधामधरा इति समं दृष्टान्तदार्ष्टान्तिकयोस्तेषां धरा इति विग्रहः । द्वितीयान्तविग्रहे कर्मण्यण् । पिशाचनिशाचर-ग्रहास्तद्युताः । यान्यनुष्ठितानि साधनानि विना गुरुसमाराधनं न त्वत्प्रीतिजनकानीत्य-विद्यमानप्रायाणीत्यभिप्रायवानाह । नृणां देवोपलक्षितानामाधिकारिणां सुखसुखवति पूर्णसुख इति यावन् न सन्ति त्वत्प्रीतिजनकतया । एवं सति सन्ति तानीत्याह– विभव इति । विगतप्रायो दग्धपटायमान इति यावत् । स भवो यस्य तस्मिन्वायौ गुरावुद्येतीत्युद्यं-स्तस्मिन्नुपदिशति, सर्वरसे सर्वोत्तमे आत्मनि स्वामिनि त्वयि तत्साधनं श्रयते यदा तदाऽ-कृतकर्णधरा अकृतोऽकृत्रिमः कर्णधरः सायांत्रिको येषां ते वणिजोऽब्धिरिव संसृतेरुच्छ्व-सन्त्यूर्ध्वं गच्छन्तीत्यन्वयोऽपि ज्ञेयः । हिस्तात्पर्योदाहृतप्रमाणप्रसिद्धिद्योतकः ॥
कृष्णपक्षे ॥ कालियकामिन्याह– इहेति । हे उप सर्वाधिक । इहैतदवस्थायाम् । पदमेकं वा । इहावेतत्कामं हापयत इति तौ । ते पदाम्बुजम् । कृणु कुचेषु नः कृन्धि हृच्छयमित्युक्तेश्च । भवच्चरणौ च ताविषवः प्राणबाणायिताविति । तेषां सुजाता भुवो भूम््नयः स्थानानि यस्मिन्स तस्य । हे जितहृषीक हृषीकेश । उदात्त सारथे । महत्तुरगैरिवोपर्युपरि त्वरयोत्पतद्भिर्वायुभिः श्वासैर्विशिष्टस्य, ये आप्तास्तेऽमतिलोलं मतिचञ्चलताभावो यथा तथा । स्थानान्तरं प्रति गमनवेदितारोऽपहायेहेदमकृतकर्णधराः कर्णानां धरा हि कर्णवन्तस्तथा कृता धात्रा ते कृतकर्णधरास्ते न भवन्तीत्यकृतकर्णधणाः सरीसृपा इति यावत् । जलधौ यमुनायां स्वजनसुतात्मधनधामधरा आवृत्त्या दृष्टान्तेऽपि योजना ज्ञेया । वणिज इवोच्छ्वसन्ति श्वासोच्छ्वासान्कुर्वन्ति । यतन्ति स्थानान्तरं गन्तुं प्रयतन्ते ।
ननु गरुडभीत्याऽत्र विदितसङ्केतकृतनिकेतस्यान्यत्र गमने कथं न तदुपप्लवो भवेदित्यत आहुः । गुरोः सकलगुरोस्तव चरणं शिरश्चिन्हितम् । व्यसनशताब्धितारं विर्गरुडस्तेन कृतानि यान्यसनानि निरसनानि तेषां शतं बहु तदेवाब्धिस्तं तारयतीति तमाश्रित्यैव उपायविदस्त्वच्चरणचिन्हं दृष्ट्वा करोति न विनतातनय इत्युपायविद इत्यावृत्त्याऽन्वयः । मुख्यत इदं कारणमेतत्त्राण इत्याह । त्वयि सुखशान्तिमति सुखं यथा तथा शान्तिमति समाधानवति सतीति । नतान्युत्तानीकर्तुं यान्ति नेति नतानि शिरांसि वां सन्ति वर्तन्ते । त्वयि विभवेऽस्मद्विभवार्थमुद्यति सति । आत्मनि सर्वरसे आत्मनैव स्वापराधेनैव न विद्यमानाः सर्वरसा अङ्गबलानि यस्य स तस्मिन्नाथे विभवः श्रयते । विभववान्भवतीति भावः । तेन च नृणां तदाश्रितानामपि विभवः श्रयते । विभवो निभृतौ धन इति विश्वः ।
हे उदात्त सारथे कृष्ण । ये गुरोः पितुः पाण्डोश्चरणमपहाय त्यक्त्वाऽरमत्यन्तं व्यसन-शताब्धिता च बहुदुःखसमुद्रवत्ता च, ये च सु न विद्यन्ते जनादयो धरान्ता येषां ते । अकृतकर्णधरा अलब्धाग्रजकर्णाश्रया अकृतकर्णधरा जलधौ वणिज इव प्रागुच्छ्वसन्ति तमकुर्वन् । ते च । जितहृषीक भवच्चरणेषु सुजातभुवः सम्पादिताश्रयाः । वायुभि-स्तत्समैस्तुरगैस्तदादिना सैन्येन सहिताः । व्यसनशताब्धितारं गुरोर्भीष्मद्रोणादेरपि रणं युद्धमुद्दिश्यामतिलोलमुपायविदो यतन्ति येतिरे । नृणां सर्वरसे राजनि दुर्योधने (?) हे सुख सु शेभनं खं यस्य स तत्सम्बुद्धिः । शान्तिमति नाशं याते सति । आत्मनि त्वयि च विभवे तदर्थमेवमुद्यति सति सर्वो विभवस्तांश्छ्रयते । तदा स्वजनसुतात्मदारधनधाम कोशा-गारं च धरा भूमिश्च स्वजनैः सहिता येषां ते सन्त उच्छ्वसन्त्युत्कृष्टतया प्राणन्ति चेष्टन्त इति वा । एवं नृणां व्यसनशताब्धितारं गुरोस्तव चरणमहो इति वा । भवच्चरणेषु सुजातभुवो भवतश्चरणादन्यत्र गमनात्प्रादुर्भूतो य इः मन्मथस्तस्येषवो बाणास्तेषां सुजातभुवः सम्यग्विषयीभूतस्थानानि । उदात्तस्य तत्सारथेर्वसन्तस्य महत्तुरगैरुपर्युपर्यागमनत्वरावत्त्वेन तत्समैर्वायुभिर्मन्दगन्धवहैः । हे जितहृषिक । व्यसनशताब्धितारमुपायविदो गुरोस्तव चरण-मुद्दिश्य । स्वजनाश्च सुताश्चात्मानो दारा येषां तान् पतींश्च, धनानि धामानि च धरा भूमयश्च ता अपहाय, त्यक्त्वा यतन्ति । अकृतकर्णधरा वणिज इव जलधावुच्छ्वसन्ति । विभवे आत्मनि नितरामु सर्वरसे तद्रूपे त्वयि हे सुख शान्तिमति समाधानपरे उद्येती-त्युद्यंस्तस्मिन् । तानि व्यसनासनानि न सन्ति । नृणां विभवश्च ताञ्छ्रयत इति वा ॥
ततश्चायं श्रुत्यर्थः ॥ यस्याधिकारिणो, देवे परा भक्तिर्यथा देवे तथा तद्योग्यतानुसारेण गुरौ वायौ भवति । तस्याधिकारिण एत उक्ता अर्था महात्मनस्तस्य प्रकाशन्ते । अतो देवभक्तिरिव गुरुभक्तिरावश्यकीति भावः ॥ ३४,३५ ॥ (२०,२१)
इति सदजानतां मिथुनतो रतये चरतां
सुखयति को न्विहाद्य विजने स्वनिरस्तभगे ।
भुवि पुण्यतीर्थसदना ह्यृषयो
निविशन्त्यतस्तु भवतः पदाम्बुजं हृदाऽघभिदम् ।
दधति सकृन्मनस्त्वयि चिदात्मनि नित्यसुखे
न पुनरुपासते पुरुषसार हरावसथम् ॥ ३६ ॥
तात्पर्यम्
इति लोके दृश्यमानप्रकारेण । चरतां, विजने मोक्षविषये कः सुखयति । सुष्ठ्वनिरस्तभगे ॥ अतस्त्वामेव सन्तं ज्ञात्वा भवतः पदांबुजं हृदा निविशन्ति । हरावसथमहङ्कारं न कुर्वन्ति ॥
ब्रह्माज्ञात्वेति लोकप्रवृत्तिं प्रवर्ततां को नु मोक्षं ददाति ॥ अतो ब्रह्मोपासतेे साधु धीरा नाहम्भावस्तेषु रुद्राधिवास इति महारवश्रुतिः ॥
महाभाग्यं तु कैवल्यमज्ञानां कः प्रदास्यति । अतः सन्तो विजानन्ति हरिं ते त्वनहङ्कृताः ॥ इति स्कान्दे ॥ ३६–२२ ॥
पदरत्नावली
इति शब्दः प्रकारवचनः । इति लोके दृश्यमापप्रकारेण सद् ब्रह्म अजानतां ब्रह्माज्ञानिनां मिथुनतः स्त्रीपुंसभावेन रतये ग्राम्यधर्माय चरतां प्रवर्तमानानां कोनु पुरुषोऽद्य विजने मोक्षविषये सुखयति ? न कोऽपि मोक्षं ददातीत्यर्थः । कीदृशे विजने ? स्वनिरस्तभगे । सुष्ठु अनिरस्तो भग ऐश्वर्यादिगुणो यस्मिन् स तथा तस्मिन् । यतस्त्वदज्ञानिनां परमानन्दलक्षण-मोक्षाभावः, अतः भुवि स्थाने पुण्यं शुद्धिकरं तीर्थं शास्त्रमेव सदनं शरणं येषां ते तथा, ते ऋषयो देवादयस्त्वमिव सन्तं ज्ञात्वा भवतः पदाम्बुजं हृदा निविशन्ति । कीदृशम् ? अघभिदं पापनाशनम् । किञ्च मनो मननसमर्थमन्तःकरणं नित्यसुखे चिदात्मनि त्वयि दधति च । अत्र प्रधानसाधनमाहुः । हे पुरुषसार पुरुषोत्तम पुनश्च पश्चाद् हरस्य रुद्रस्यावसथमहङ्कारं सकृदपि नोपासते न कुर्वन्तीत्यर्थः । श्लोकार्थानुग्राहकस्मृतिस्तु ‘महाभाग्यं तु कैवल्यमज्ञानां कः प्रदास्यति । अतः सन्तो विजानन्ति हरिं ते त्वनहङ्कृताः ॥’ इति ॥ ३६ ॥
दुर्घटभावदीपिका
इह प्राणिवर्गे सन्निर्दुष्टं परं ब्रह्माजानतामजानतो मिथुनतो मिथुनी-भूय । स्त्रीयुक्तः सन्निति यावत् । रतये रमणसुखार्थ इति श्लोके दृश्यमानेन प्रकारेण । चरतां चरतः प्रवर्तमानान्प्राणिनोऽद्य भोगप्रवृत्तिकाले स्वनिरस्तभगे सु समीचीनोऽनिरस्तोऽतिरस्कृतो भग ऐश्वर्यं यत्र यस्मिन्विजने । जनशब्दो तस्याप्युपलक्षकः । उत्पत्तिनाशरहिते वैकुण्ठादि-स्थाने कः सुखयति न कोऽपीत्येतन्नु निश्चितमिति । एतेन सुखयतीति क्रियायाः सकर्मकत्वा-दजानत इत्यादिद्वितीयाबहुवचनं प्रयोक्तव्यमजानतामित्यादि षष्ठी बहुवचनप्रयोगोऽनुपपन्न इति दूषणस्यानवकाशः । अजानतामित्यादि षष्ठीबहुवचनं द्वितीयाबहुवचनादेश इत्यङ्गीकारात् । एते-नाद्येत्येतद्व्यर्थमिति दूषणं परास्तम् । कदाचिद्विषयभोगार्थं प्रवर्तमानानां वैराग्यज्ञानानन्तरमपि मोक्षसुखं न भविष्यतीति भ्रमवारणार्थं भोगकाले मोक्षसुखं न भवतीति वैराग्यानन्तरं मोक्षसुखं भविष्यतीति वक्तुमद्येत्युक्तमित्यभ्युपगमात् । विजन इत्यनेन वैकुण्ठादिस्थानं ग्राह्यम् । एतेन मोक्षस्थान इति वक्तव्यम् मोक्षविषय इति कथनमनुपपन्नमिति दूषणं प्रत्युक्तम् । विषयशब्देन स्थानस्यैव ग्रहणात् ॥ ३६ ॥
सत्यधर्मीया
इति सदजानतामिति श्लोके कस्य परामर्श इतिनेति न ज्ञायते तथाऽ-र्थोेऽप्यप्रतीत इत्यतस्तत्प्रदर्शनमुखेनार्थमाह– इतीति । लोके दृश्यमानो यः प्रकारस्तेन । चरतां विजने निर्जन इति भ्रमं परिहरन्नाह– विजने मोक्षविषय इति । विगतो गतानां पुनर्जनो जननं यस्मिन्स इति विग्रहः सप्तम्यर्थश्च विषयत्वमिति च सूचितमनेनेति ज्ञेयम् । कः सुखयति त्वदन्यः सुखयन्कश्चिन्नास्तीत्यर्थः । नायं स्वशब्दो येन स्वत एव निरस्तो भग ऐेश्वर्यादिर्यस्मिन्निति व्युत्पत्त्या निर्गुणतापत्तिरूपत्वं स्यान्न च तथेति सु, नञ्समाहृतोऽयं शब्द इति व्याचर्करीति– सुष्ठु अनिरस्तभग इति । सुष्ठ्वनिरस्तो भग ऐश्वर्यादिर्यस्मिन्निति विजनपदवाच्यमोक्षविशेषणम् । महाभाग्यं तु कैवल्यमिति वक्ष्यमाणत्वात् । कः सुख-यतीत्यज्ञानां मुक्त्यभावे किं प्रकृत इत्येतत्परिहारकमपेक्षितमध्याहृत्योभयत इत्यादिवाक्यं व्याकरोति । अतः सुखकान्तराभावात्त्वामेव सन्तं तज्ज्ञाननिदानं ज्ञात्वा भवतः पदाम्बुजं हृदा निविशन्ति । न तन्निवेशनं स्वसामर्थ्येनेति द्योतयितुं नेर्विश इति स्मारितात्मनेपदता नेति ज्ञेयम् । हरावसथं श्मशानमिति व्युदस्तये तदर्थमाह– अहङ्कारमिति । महत्तत्वं हिरण्यगर्भस्येव शिवस्याहङ्कारतत्त्वमात्रावसथरूपमिति हरावसथपदेन तद्ग्रहणं युक्तम् । शरीररूपमिति वा । ससर्ज शिवविग्रहमित्यादेर्न कुर्वन्ति । नायुक्तमिदमिति पुनरेतच्छ्लोक-मूलभूतां महारवश्रुतिं पठति– ब्रह्मेति । ब्रह्माज्ञात्वेति लोकप्रवृत्तिं प्रवर्ततां प्रवर्तमानानां मोक्षं को नु ब्रह्मातिरिक्तो ददाति । अतोऽन्यस्य वदान्यस्याभावाद्धीरा बुद्धिमन्तः साधु सम्यगुपासते । तेष्वेवम्भूतेषु रुद्राधिवासोऽहम्भावोऽहन्ता न नास्तीति तदर्थः । महद्भाग्यं यस्मिंस्तत्कैवल्यं मोक्षमज्ञानां कः प्रदास्यति । अतः सन्तो मुुमुक्षवोऽनहङ्कृता न विद्यतेऽह-ङ्कृतमहङ्कारो येषां ते सन्तो हरिं विजानन्ति । तुशब्दश्च जानतामपि नान्यो दाता हरेरिति विशेषसूचकः ॥
ततश्चायं श्लोकार्थः ॥ हे अद्य उपजीव्य पुरुषसार पुरुषोत्तम । आद्येति वा । इति लोके दृश्यमानप्रकारेण । मिथुनतः स्त्रीपुंसयोर्मिथुनीभावतः । रमणाय रतये, चरतां कर्म तदुपयोगि कुर्वताम् । सन्निर्दुष्टं ब्रह्माजानतामविदुषाम् । स्वनिरस्तभगे सु अनिरस्तो भग ऐश्वर्यं सर्वस्वादिर्यस्मिंस्तस्मिन्विजने मोक्षविषये को नु सुखयति न कोऽपि तदविद्वन्मुक्तिं वितरति । अत एतद्धेतोरिह भुवि पुण्यतीर्थसदनाः पुण्यं पुुण्यकरं तीर्थं शास्त्रं गङ्गादिकं वा सदनं स्थानं येषां ते ऋषयो ज्ञानिनो ब्रह्माद्या भवतः पदाम्बुजमघभिदमघानां भिदा भेदो येन तत्, उ एव हृदा निविशन्ति ध्यायन्तीति यावत् । तथा चिदात्मनि ज्ञानघने
नित्यसुखे । त्वां दातारं ज्ञात्वा सकृदेकवारं मनो दधति । सकृदिति, न सदा दधति किन्त्वेकदेति न तात्पर्यकं किन्तु कैमुत्यप्रदर्शकमिति ज्ञेयम् । हरावसथमहन्तां पुनर्नोपासते च ॥
कृष्णपक्षे ॥ काचित्कान्ता कृष्णं प्रति कृष्णाहिमोचन एवं भवति नो चेदित्थमिति विज्ञापयति– इत्येवं प्रकारेणेति । इहास्यामवस्थायाम् । संश्चासावजश्चेति सदज । ब्रह्म-व्यावृत्तये सदिति । सद्गतं वा विशरणक्षेपक वा सज्ज्ञान वा संश्चासावत्रैवान्यत्राजतीति स वा तत्सम्बुद्धिः । मिथुनतो रतये द्वन्द्वीभूय क्रीडार्थं च रतां काञ्चिदासक्तामानतां प्रवणां को नु त्वदितरः पुमान्सुखयति । ननु स्वजनो यत्नं करोति का चिन्ता कान्त इत्यत आह– जने स्वनिरस्तभग इति । जने सत्यपि स्वेनैव निरस्तो भगो यत्नो येन तस्मिन्सति । नायं बहिरापयति चेन्न यमुनाऽमुना सहिता हितावहा लोकानां, किं कर्तव्यमित्यतः स्वयं व्यवस्थामुक्त्वा दुरवस्थां त्याजयन्ती भाषते । हे पुरुषसार । आवसथं द्यवि अस्मिन्दिने । जुहूमसि द्यवि द्यवीत्यृग्व्याख्याभाष्यटीकयोर्दिने दिने स्वाव्हयाम इत्युक्तेः । यद्यपि वस्ते वस्ते रिवे दिव इत्यादीनि द्वादशनामानि तत्र वीप्सयैव गृहीतानि चेदप्येकस्माद्वस्तर्धियावय-मित्यत्रैवैकस्यापि द्यवीत्यस्यैकदिनवाचकत्वसम्भवात् । हर अपहर एनं बहिष्कारय । अत एतद्गमनात् पुण्यकरं यत्तीर्थं यमुनापानीयं तेन सन्तः सत्तावन्तोऽनाः प्राणा येषां ते सजीवाः सन्त ऋषयो ज्ञानिनो निविशन्ति निविशन्ते । पुनः पुनरनुभवन्तो निर्विषतानुभवात्तव पदाम्बुजमघभिदञ्च हृदा दधति । भवत इत्यावर्तते । सार्वविभक्तिकस्तसिः । भवं संसारम् । सकृच्चिदात्मनि नित्यसुखे मनश्चेत्ते पुनर्नोपासते । त्वा त्वामेवोपासते चेत्यन्वयः । इति सदेवं भवदिदमिति । उक्षासद्यावापृथिवीत्येतत्तत्त्वप्रकाशिकाभावबोधे सदित्यस्य भवत्कार्य-मिति व्याख्यानमित्युक्तेः । एतत्संसारोऽस्मत्कृतभाष्यदीपिकायुक्तिवात्यातोऽवसेयः । अजानतां ज्ञानहीनानां मिथुनतो रतये चरतां गोपीजनानां तान्विजने जनहीनेऽरण्ये स्वनिरस्तभगे स्वेन निरस्तो नितरामस्तङ्गतो भगः सूर्यो यस्मिंस्तस्मिस्तमसि रात्राविति यावत् । कः सुखयति । किमनन्तरं कुर्वन्ति त इत्यत आह । ऋषयो दीप्तिमन्तः प्राक् केचिद्भुव्येवानास्तृतायां निविशन्त्युपविशन्ति । पुण्यतीर्थसदनाश्च क्वचिद्भवन्ति । कुत एवमित्यत आह– अनुभवतः सङ्गमङ्गलानुभवादिति । अघभिदं पदाम्बुजं हृदा दधति च । आत्मनि स्वविषये नित्यसुखे त्वयि मनश्चिन् मनोऽपि सच्चेदुत्पन्नं तदा । पुरुषसार । हरावसथमहङ्कारं प्रागिव पुनर्नोपा-सते । ‘ऋषिर्वेदे वसिष्ठादौ दीधिताविति पठ्यत’ इति विश्वः । तव मनः पुनर्व्यावृत्तं चेत्ते हरावसथं वा निवासनिलयश्चितेति वचनात् श्मशानमुपासते मृता भवन्तीति । दूतीवाक्ये श्रीव्यासरामावतारदशकार्थतया स्फुटमस्माभिर्योजितं पद्यं वित्तमा वित्त तं ततः ॥
ततश्चायं श्रुत्यर्थः ॥ ब्रह्माज्ञात्वा गुरुद्वारा । इति लोके दृश्यमानप्रकारेण लोकप्रवृत्तिं प्रवर्ततां जनानां मोक्षं को नु ददाति । अत एतद्धेतोर्धीराः साधु ब्रह्मोपासते । तेषूपासकेषु रुद्राधिवासस्तदभिमन्यमानोऽहम्भावोऽहङ्कारो न, तस्यैवानर्थमूलत्वेन नोपासते पुनस्तमिति भावः ॥ ३६ ॥ (२२)
इदमप्यथो वदन्ति चेन्ननु तर्का
व्यभिचरन्ति क्वचित् क्वचिन्मृषा च ।
ततो भयदृग्व्यवहितये विकल्प उषितोऽन्वहमन्धपरम्परया
भ्रमति भारती च तवोरुवृत्तिभिरूढजवा ॥ ३७ ॥
न यदिदमग्र आस न भविष्यदतो निधना
दनिमित्तकमन्तरा त्वयि विभाति मृषैकरसे ।
अत उपगीयते द्रविणजातिविकल्पपथै
र्वितथमनोविलासमिदमित्यवयन्ति बुधाः ॥ ३८ ॥
तात्पर्यम्
इदम् अपि अपालकम् ईश्वरवर्जितम् । न मत्तोऽन्य ईश्वरश्चेतन-त्वादित्यादितर्कैर् वदन्ति चेत् । अथो इत्यनेन तदपि वचनं भगवत्प्रेरणयैव चेत्युक्तम् । ‘‘तस्मादथो अथेत्येतद्धेत्वर्थं समुदीरितम्’’ इति शब्दनिर्णये । असत्यमप्रतिष्ठं ते जगदाहुरनीश्वरम्’’ इति च । वेदोक्तो जीवव्यतिरिक्तेश्वरो न तर्कैरपनेतुं शक्यः । यतस्तर्का व्यभिचारिणः । मृषैव क्वचित्तर्कः । इष्टसाधनादितर्कस्तु व्यभिचारी । शरीरसम्मित आत्मा इत्यादि दर्शनपरिकल्पितस्तु मृषैव । ततो भयबुद्धीनां बुद्धि-व्यवहितये भवन्ति । न तु धीराणाम् । विकल्पः वेदविरुद्धकल्पना । अन्धपरम्पर-यैवान्वहमुषितः ॥ यस्माद्भारत्यपि भ्रमति बहुधा वदति ॥
बहूक्तिरन्यथाज्ञप्तिः परिवृत्तिश्च कथ्यते ।
भ्रम इत्येवविद्वद्भिस् तथा चङ्क्रमणं क्वचित् ॥ इति शब्दनिर्णये ॥
उरुवृत्तिभिरूढजवा अनन्तगुणकर्मत्वाद्भगवतः बहुगुणकर्माणि वक्तुं वेगवती वेदवाक् । अतो वेदेऽपि बहुधा वचनात्तदर्थनिर्णयाभावाद्विरुद्धकल्पना युक्ताऽसुराणाम् । यस्माद्गर्भ-स्थस्य जीवस्येश्वरत्वं नास्ति । अतो निधनानन्तरं च नरकादिगमनान्न विद्यते । अनिमित्तकं भगवन्निमित्तमेव तस्यान्तरा भाति मृषा त्वयि जीवे । न तु वस्तुतस्त्वं जीवः ॥ एकरसे प्रधानसारे । न च जीवो वस्तुतः सर्वोत्तमसारः ॥ मृषैव तथा मन्यन्ते । अतो भ्रान्त्या द्रविणवानभिजन्मवानित्यादिविरुद्धकल्पनापथैरुपगीयते ॥ यतो भवानेव द्रविणवान्यतश्च तपोदमाद्या अभिजन्मकारणभूता गुणाश्च भवत एव । अतो मिथ्यामनोविलासं जीवेश्वरत्वं बुधा अवयन्ति ॥
गुणा एवाभिजात्याख्यास्तद्वानेवाभिजातिमान् ।
अतोऽभिजात्यवान् विष्णुस्तदन्ये तूपचारतः ॥ इति शब्द निर्णये ॥
ये जीवमीशं प्रवदन्ति तर्कैस्तच्चेश्वरो वचनं सन्दधाति । नासीदादौ मरणे नोऽ-भविष्यन्मृषा ततो हीशितृत्वं स्वपेष्विति विपरीतश्रुतिः ॥
ये जगत्प्रवदन्त्यज्ञा जीवादन्येशवर्जितम् । तेषामपि तु तां वाचमीश एव ददात्यजः । न च तर्कैर्भवेदीशो जीवो वेदविरोधतः । व्यभिचारिणो यतस्तर्का इष्टसाधनगा अपि । क्वचित् क्वचिन्मृषा तर्काः कणादादिप्रदर्शिताः । तत्वनिर्णयभीरूणां व्यवधानकरास्ततः । नै व तु स्थिरबद्धीनां कुर्युस्ते बुद्धिचालनम् । पारम्पर्येण चाज्ञानामुक्त्या लोकेषु विस्तृतम् । पठ्यते चाप्यहरहर्न तु विद्वन्मुखोद्गतम् । अनन्तगुणकर्मत्वादीशस्यौक्तौ सुवेगिता । वक्त्यभेदमिवाज्ञानां नाभेदं कुत्रचिच्छ्रुतिः । एक आत्माद्वयेत्यादि-पदानामर्थनिर्णये ॥ न वर्तते श्रुतिर्यस्माद्गुणान्तरकुतूहलात् ॥ अथवा मोहनार्थाय सुरारीणामनर्हतः । कुत्रचिन्निर्णयवचः सुराणामर्थसिद्धये । न हीशितृत्वं गर्भस्थे नाप्यसौ निरयोपगे । मृषैव ईश्वराभेदः सर्वोत्कर्षश्च जीवगः । धनवत्वं च कर्तृत्वं बलवत्त्वं च विष्णवि । अतो जीवेश्वराभेदं मिथ्येति कवयो विदुः ॥ इति तन्त्रभागवते । जीवस्य जगतश्चैव यदीशाभेदतो वचः । अतात्विकं जगच्चेति विष्ण्वधीनत्ववाचकम् । अभेदस्तु कुतस्तस्य परमस्यावरेण तु । मिथ्यात्वं च कुतस्तस्य जगतो नित्यवर्तनात् ॥ इति वाराहे ॥ ३७,३८ ॥ २३,२४ ॥
पदरत्नावली
इदं जगत्, न पातीत्यपः पा पालन इति धातुः सोऽस्यास्तीत्यपि अनीश्वरमित्यर्थः । अपि गर्हितमत एवाप्रतिष्ठमिति वा । ‘अस्यमप्रतिष्ठं ते जगदाहुरनीश्वरम्’ इत्यादेः । न मत्तोऽन्य ईश्वरश्चेतनत्वादित्यादितर्कैर्वदन्ति चेदथो तस्मात् । कुतः ? सर्वात्मनैतदपि वचनं भगवत्प्रेरणयेत्यवगन्तव्यम् । तर्हि तर्कः प्रामाणिकः स्यादिति तत्राह– नन्विति । तर्का व्यभिचरन्ति नन्वित्यन्वयः । अत्र व्यभिचारित्वं पक्षधर्मत्वादिलक्षणाभावः । तथा हि । विशिष्टपक्षीकारस्य सिद्धान्तविरुद्धत्वादनुपपत्तिः, निर्विशेषेश्वरपक्षीकारे हेतोरसिद्धि-रित्यादिदूषणमुपेक्ष्याचार्यैः कालात्ययापदिष्टत्वं प्रादर्शि । वेदोक्तो जीवव्यतिरिक्तेश्वरो न तर्कैरपनेतुं शक्यः, यतस्तर्का व्यभिचारिण इति । ‘अनश्नन्नन्याऽभिचाकशीति’ इति श्रुतेः । जीवेश्वरौ विरुद्धधर्माक्रान्तत्वेन भिन्नौ छायातपवदित्यादेश्च । दूषणान्तरमाह– क्वचिदिति ॥ अभेदस्य सिद्धावसिद्धौ च तर्कस्य विशेषानापादकत्वेनाप्रयोजकत्वात् । अपिपासोः पयःपानवत् । भोजन-स्येष्टसाधनत्वतर्को ज्वरितादौ व्यभिचारित्वेन व्यर्थश्च । सर्वशरीरसमवेतसुखदुःखानुसन्धातृत्वेन कायपरिमाणोजीव इति क्षपणकदर्शनपरिकल्पितस्तर्कोऽपि मृषैव । अणुशरीरस्य कर्मादिवशाद् हस्त्यादिशरीरप्राप्तौ विकारित्वापत्तेः । ननु तर्हि तर्केभ्यः किं प्रयोजनम् ? अत्राह– तत इति ॥ यतो दुष्टास्ततो भयदृग्व्यवहितये भयबुद्धीनां बुद्धिव्यवधानाय तर्का भवन्ति न तु धीराणां विदुषाम् । ननु किमिति प्रवृत्ताः (तर्काः) इति तत्राह– विकल्प इति ॥ बिर्निषेधे पृथग्भावे इति वचनाद् विकल्पो वेदविरुद्धकल्पना जगतो मिथ्यात्वं जीवस्य ब्रह्मणोऽभेदो जगत् क्षणिकं षड्गुण ईश्वर इत्यादिलक्षणान्धपरम्परयैवान्वहमुषितः प्रवर्तितः । ‘अन्धेनैव नीयमाना यथाऽन्धाः’ इति श्रुतिः । अन्धपरम्परायाश्च कोऽवलम्ब इति तत्राह– भ्रमतीति ॥ भारती वेदवाणी च भ्रमति बहुधा वक्ति, तात्पर्यार्थावबोधाकुशलानज्ञानुद्दिश्येति शेषः, इति यस्मात् तस्मादन्धपरम्परा । ‘बहूक्ति-रन्यथाज्ञप्तिः परिवृत्तिश्च कथ्यते । भ्रम इत्येव विद्वद्भिस्तथा चङ्क्रमणं क्वचित्’ इत्यतो भ्रमस्य बहूक्तित्वं सिद्धम् । वेदस्य बहुधोक्तेः किं कारणम् ? अत्राह– तवोर्विति ॥ उरुशब्देनानन्तत्वं वृत्तिशब्देन गुणकर्माणि विवक्ष्यन्ते । भवतो गुणकर्मणामनन्तत्वात् तानि वक्तुमूढजवा त्वरावती वेदवाणी । अतो वेदेऽपि बहुधावचनात् तदर्थनिर्णयशक्त्यभावाद् योग्यतावशाद् विपरीतप्रतीतेश्च विरुद्धकल्पना युक्ताऽन्धपरम्परयाऽसुराणाम् ।
जीवस्येश्वरत्वे बाधकमाह– नेति ॥ इदमीश्वरत्वमग्रे उत्पत्तेः पूर्वं जीवेषु गर्भस्थेषु नास नास्ति नाभविष्यत् । यदि गर्भस्थ ईशो भवेत् तर्हि उत्तरत्राप्यभविष्यत्, न च तथेति यस्मादतो निधनान्मरणादनन्तरमपि नरकादिगमनान्न विद्यत इत्यर्थः । नन्वस्येशोऽहमिति किन्निमित्ता प्रतीतिः ? अत्राह– अनिमित्तकमिति ॥ अः विष्णुर्निमित्तं यस्य तद् अनिमित्तकं भगवन्निमित्तकमेव । तस्य जन्ममरणयोरन्तरा मध्ये त्वयि जीवे मृषैवेशितृत्वं भाति न तु वस्तुतस्त्वं जीवः । कुतः ? एकरसे प्रधानसारे । न च वस्तुतो जीवः सर्वोत्तमसारः । मृषैव तथा मन्यते । अतो भ्रान्तिरेव तथाज्ञाने प्रयोजिकेत्याह– अत इति ॥ यतो जीवः सर्वसारो न भूयादतो द्रविणजातिविकल्पपथैर्जीव उपमीयत इत्यन्वयः । भ्रान्त्या जीवो द्रविणवानभिजाति-मानित्यादिसाक्षिविरुद्धकल्पनामार्गैः कथ्यते, अज्ञैरिति शेषः । विद्वद्भिस्तु भवानेव द्रविणादि-मानित्युच्यते । कुतः ? यतस्तपोदमाद्या अभिजन्मकारणभूता गुणाश्च भवत एव । कथमेतदिति तत्राह– वितथेति ॥ यतोऽभिजात्यादिगुणास्तव मुख्या अत इदं जीवेश्वरत्वं बुधास्तत्वज्ञानिनो वितथमनोविलासं मिथ्यामनोविकारमित्यवयन्ति जानन्ति । ‘गुणा एवाभिजात्याख्यास्तद्वा-नेवाभिजातिमान् । अतोऽभिजात्यवान् विष्णुस्तदन्ये तूपचारतः’ इति वचनात् । ‘ये जगत् प्रवदन्त्यज्ञा जीवादन्येशवर्जितम् । तेषामपि तु तां वाचमीश एव ददात्यजः । न च तर्कैर्भवेदीशो जीवो वेदविरोधतः ॥’ इत्यादिस्मृत्यर्थत्वेन श्रुत्यन्तरमप्यूह्यम् ॥ ३७,३८ ॥
दुर्घटभावदीपिका
अनिमित्तकमन्तरा त्वयि विभाति मृषैकरस इत्यस्य मृषैकरसे त्वयि मिथ्याभूतप्रधानसारत्वे त्वदभेदविशिष्टे जीवेऽन्तरोत्पत्तिमरणकाले योऽन्तरा मध्यस्थितिकाल इति यावत् । कार्यविशेषे यदीश्वरत्वं विभाति तदनिमित्तकं भगवन्निमित्तकं भगवद्दत्तं भगवदधीन-मेवेत्यर्थः । एतेन जीवे यदीश्वरत्वं विभाति तदनिमित्तकमेवेत्यनेन पूर्णत्वान् मृषा त्वयीत्ये-तद्व्यर्थमिति दूषणं परास्तम् । तत्त्वमसीत्यादिवाक्येषु जीवेश्वराभेदस्योक्तत्वाज्जीवेश्वरत्वं नास्तीति कथमुच्यत इत्याशङ्कापरिहारार्थं तत्त्वमसीत्यादिवाक्येषु जीवेश्वराभेद एवोच्यत इत्यङ्गीकृत्य तत्त्वमसीत्यादिवाक्यतात्पर्याज्ञानां तत्त्वमसीत्यादिवाक्यैरविद्यमान एवाभेदः प्रतीयत इत्यभिप्रेत्य मृषा त्वयीत्यनेन मिथ्याभूतभगवदभेदविशिष्टत्वं जीवस्योच्यत इति स्वीकरणात् । एतेनैवा-भेदनिमित्ते त्वयि इति शब्दोक्ते जीवे मिथ्यात्वाभावान् मृषेत्येतत्त्वयीत्यस्य विशेषणं कथं स्यादिति दूषणस्यानवकाशः । मृषेत्यनेनोक्तं मिथ्यात्वं बुद्ध्या विवेकेन भगवदभेदे विशेषण-मित्यङ्गीकारात् । एतेनैव त्वयीति शब्दोक्तजीवस्य प्रधानसारत्वाभावादेकरस इत्येतदनुपपन्नमिति दूषणस्यानवकाशः । एकरस इत्येतत्त्वयीति शब्दार्थजीवविशेषणमित्यनङ्गीकृत्य बुद्ध्या विवेकेन त्वयीति शब्दार्थैकदेशभगवद्विशेषणमित्यभ्युपगमात् । एतेनैव सर्वकार्येषु स्थितिकालेऽपि जीवेश्वरस्याप्रतीतेरन्तरा यदीश्वरत्वं विभातीत्यनुपपन्नमिति चोद्यं प्रत्युक्तम् । कार्यविशेष इत्यध्याहृत्य कार्यविशेषे स्थितिकाले यदीश्वरत्वं प्रतीयत इत्यर्थस्योक्तत्वात् ॥ ३८ ॥
सत्यधर्मीया
दुरूहार्थोऽयं श्लोक इतीदम्पदादि धृत्वा व्याकरोति– इदमिति । अपीति नाव्ययमित्याह– अपालकमिति । पातीति पः । अकिञ्चिदुपदादप्यात इति योगविभागात्कः । पोऽस्यास्तीति पि न तदित्यपीतीदमित्यस्य विशेषणम् । स्वव्याख्यां स्वयं व्याख्याति– ईश्वरवर्जितमिति । तत्र मानं किमित्यतस्तर्का इति । बोधिततर्कणप्रकारमाह– नेति । अत्यसत्यतया प्राक् साध्यनिर्देशस्तत्रापि नञ इत्यवधेयम् । ईश्वरो न मदन्यश्चेतनत्वान्मद्वत् । विमता आत्मान ईश्वरान्न भिद्यन्ते आत्मत्वादीश्वरात्मवत् । इत्याद्यादिपदार्थः । मूलेऽन्वया-प्रतीत्या चेदित्यतः प्रागपेक्षितमध्याहृत्य व्याकरोति– इत्यादितर्कैर्वदन्ति चेदिति । नाय-मथोशब्द आनन्तर्यार्थो येन किमनन्तरमिति स्यादिति विवक्षितमर्थमुक्त्वा तत्र मानमाह– अथो इत्यनेनेति । तदपि वचनमनुमानप्रदर्शकं वचनमीश्वरोऽहमित्यादिकम् । अथो इत्यत्र ओदन्ततया प्रगृह्यसञ्ज्ञायां प्रकृतिभावः । तद्वचनं भगवत्प्रेरणयैवेत्यथो इत्यनेनोक्तमित्यन्वयः । अथोशब्दो हेत्वर्थक इति भावः । तस्मादथोऽथेत्येतत्त्रिकं समुदीरितमित्यन्वयः ।
वक्तारस्तु दानवा इत्यत्र गीतावाक्यं पठति– असत्यमिति । चशब्देन त आसुरा इत्यादि समुच्चिनोति । चेदिति शङ्कोत्तरं तदुत्तरत्वेनोक्तं तर्का इति न सङ्गतमित्यतोऽपेक्षित-मध्याहृत्य तद्योजयति । वेदोक्त इत्यनेन तत्तर्कशौष्क्यं तदावेदकवेदविरोधश्च तस्येति तदप्रामाण्यहेतुसूचनं कृतमिति ज्ञेयम् । नेत्यध्याहार इत्यन्वयसूचनेनासूचीति केचित् । वस्तुतस्तु न तात्पर्यकारैर्नन्वित्यखण्डान्वयः प्रदर्शित इति । न नु इति पदद्वयम् । नन्वि-त्यर्थेनुरपि भवति । नु प्रश्ने चाप्यनुनयेनु ज्ञानेऽप्यवधारण इति विश्वात् । मौलस्य नञो न तर्कैरित्यन्वयप्रदर्शनं भाष्यकृत्कृतमिति । तर्कैः शुष्कैरपनेतुं न शक्यः । अपनेतुमित्यनेन नैषा तर्केण मतिरापनेयेति स्मारयामास । कुतः क्रियते तर्काप्रतिष्ठेत्यतो यत इत्यध्या-हृत्यान्वयमाह– यत इति । उत्तरत्र क्वचित्तर्का इत्यन्वयप्रदर्शनेनैकं क्वचिदिति व्यभिचारिण इत्यनेनैकं च मृषापदेनान्वेतीति व्यवस्था सूचिता । क्वचिद्व्यभिचारिणः क्वचित्केच मृषैवेति नार्थसाधकास्त इति भावः । यद्द्वैविध्यं प्रतिज्ञातं तत्कथमित्यतः शृृङ्गिग्राहकयाऽऽह– इष्टेति ॥ इदमन्नमिष्टसाधनमन्नत्वात् । ह्यस्तनान्नवदिति विषसम्पृक्तान्ने व्यभिचारी । आदि-पदेनानिष्टसाधनतर्को ऽयंपरोहोऽनिष्टकण्टकप्रधनं कण्टकप्ररोहत्वात्सम्मतवदिति स्फोटिका-स्फोटकण्टकप्ररोहे व्यभिचारीति ग्राह्यः । तथा हि । पादे स्फोटिकायामपरामर्शेन गच्छतो लग्ने कण्टके भग्ने च स्फोटिकामुखे नायं कण्टकप्ररोहः सङ्कटकृत्किन्त्वनुकूलो जात इति जनव्यवहारः । तथा च प्रयोगः । देवदत्तात्मा तद्देह एव तत्र सर्वत्रैव च विद्यते, तत्रैव तत्र सर्वत्रैव स्वासाधारणगुणाधारतयोपलम्भात् । यो यत्र सर्वत्रैव च स्वासाधारणगुणाधार-तयोपलभ्यते स तत्रैव तत्र सर्वत्रैव च विद्यते । यथा देवदत्तग्रह एव तत्र सर्वत्रैव चोपलभ्यमानः स्वासाधारणभास्वरत्वादिगुणप्रदीपः । तथा चायं तथेति सुधोदितमनुमानं ज्ञेयम् । तत्रात्मनः कायपरिमाणत्वनिरासार्थं सूत्रं, एवं चात्माकार्त्स्न्यमितीति तत्रैवोक्ते-स्तथोत्तरत्रत्य, ‘न च पर्यायादप्यविरोधो विकारादिभ्यः । अन्त्यावस्थितेश्चोभयनित्यत्वाद-विशेषात्’ इति द्विसूत्रीविवृतौ तत्रैव, स्यादेतत् । यं यं देहमाप्नोत्यामत्मा तत्तत्परिमाणो भवति । अतो नोक्तदोष इत्याशङ्कानिरासार्थं सूत्रमित्यादीकृत्यैवमन्यत्रापि सूत्रानुपन्यासेन व्याख्यानेऽपि नैवमाशङ्कनीयमिति ज्ञापयितुमिदमभिहितमित्यन्तेन तथा भाष्यतत्त्वप्रकाशि-कोक्तयुक्तिबाधितत्वान्न मृषात्वमिति स्मरन्ति च ।
बालाग्रशतभागस्य शतधा कल्पितस्य च ।
भागो जीवः स विज्ञेयः स चानन्त्याय कल्पते ॥ इत्यादेः ।
उपपत्तिस्तूत्क्रान्तिसूत्रमारभ्य व्यतिरेकेत्यन्तसूत्रोक्ता तद्भाष्यटीकोक्ता ज्ञेया । इत्यादि-दुर्दर्शनैः कल्पितस्तु तर्को मृषैव ।
ननु किमेतद्दुस्तर्काणां प्रयोगे निमित्तमित्यतस्तद्धेतुसमर्पकं तथा फलं च सूचयितुं प्रवृत्तं ततो भयदृग्व्यवहितय इति तत्रापेक्षितमनुपेक्ष्य दृक्पदं देहलीदीपन्यायेनोभयान्वयीति हृदि निधाय व्याचष्टे तत इति । भयबुद्धीनां बुद्धिव्यवहितये भवन्ति । तर्का इति शेषः । मूले वाक्यसम्पत्तिर्भयदृग्व्यवहितय इति ध्येया । भं भयं यापयतीति भया । सा च सा दृक् चेति विग्रहो ज्ञेयः । भो भयं कथितैर्बुधैरित्यनेकार्थध्वनिपदमञ्जरी । व्यवहितिश्चानवधानं वा परमार्थविषयग्रहणव्यवधानं वा तस्यै । न ते केषां भवन्तीति तदाह न त्विति । धीराणां धिया रममाणानाम् । विकल्पनमर्थ इति प्रकृतसङ्गतमर्थमाह– विकल्पो वेदविरुद्ध-कल्पनेति । अनेन विरुद्ध उक्तमानविरुद्धः कल्प इति विग्रहं सूचयति । एकस्यैवं कल्पना नेत्याह– अन्धपरम्परयेति । अन्धानामज्ञानां परम्परयाऽन्वहम् उषित उपदेशपरम्परया वा सम्प्राप्तः । वस निवास इत्यतो यजादित्वात्सम्प्रसारणे शासिवशीति सस्य षत्वे वसति क्षुधेरिडिति विशेषविधानादिट् निष्ठायाम् । अन्वहमित्यन्यथाज्ञानिकल्पनाया अनिवर्त्यता-माह– भारतीति । न प्रकृतसङ्गतमित्यतः किञ्चिदध्याहृत्यार्थमाह– यस्मादिति । भारती वेदादिवाणी भ्रमति । तत्तद्योग्यतानुकूल्येन बव्हर्थदा यतोऽतश्चैवं कल्पनेति हेत्वन्तरसूच-कश्चः । अपिशब्दस्तत्प्रतीतार्थे तदसम्भवतासूचकः । स च न सरलोऽर्थ इति हृदयम् । भ्रमतीत्यस्य बहुधा भवतीति भवति कथमर्थ इत्यत आह– बहूक्तिरिति । बहूक्तिरन्यथा-ज्ञप्तिः परिवृत्तिर्भ्रमपदेन कथ्यते । परस्परं समुच्चये चः । एवकारस्य कथ्यत एवेत्यन्वयः । नायमेतत्त्रिकातिरेकव्यावर्तकः । तथा चङ्क्रमणं क्वचिदिति विरोधापत्तेः । चङ्क्रमणं गमनम् । उरुवृत्तिभिरूढजवेति दुर्गमार्थमित्यनूद्य व्याचष्टे । उरुवृत्तिभिरूढजवाऽनन्तगुणकर्मत्वात् । अनन्ता गुणा अनन्तानि च कर्माणि यस्य तस्माद्भगवतो, बहुगुणकर्माणि वक्तुं वेगोऽस्या अस्तीति वेगवती । वागिति भारतीपदव्याख्यानम् । भरतस्य वायोः पुत्रीति भारती वेदवाक् । यथोक्तं गिरेः सुतायाः पुष्पिण्या इति चतुर्थतात्पर्ये । गिरिः प्राणः समुद्दिष्ट-स्तत्सुता वेदवाक् स्मृतेति । वर्तयन्ति गुणानितीच्छाद्या गुणाः सर्जनादीनि चेति वृत्तय उर्व्यश्च ता वृत्तयश्च ताभिरिति विग्रहः सूचितः । तात्पर्ये तात्पर्यं पर्यवासायीतिना नानुुगुण्यम् ऊढो जवो यस्याः सेति मतुपा सूचयति । अनन्तैः स्ववाच्यैः कर्मभिर्गुणैर्निमित्तभूतैरूढजवा तान्वक्तुं जववतीत्यर्थः । विकल्पकल्पकता भारत्या उक्ता । तां किञ्चिदुपयुक्ताध्याहारेण विशदयति अत इति । बहुधावचनाद् बुद्धिदरिद्राणां तदर्थस्य वेदार्थस्येदमित्थमिति निर्णया-भावाद्विरुद्धाः कल्पना युक्ता असुराणाम् ।
न यदिदमग्र आसेति श्लोके जगन्मिथ्यात्वमुच्यत इति प्रतीयते । तच्च विश्वं सत्य-मित्याद्यागमबाधितमिति यथावद्व्याचष्टे यस्मादिति । यदित्यर्थोऽयम् । गर्भे तिष्ठतीति स तस्य जीवस्येश्वरत्वं नास्ति । अतोऽप्येतद्धेतोर्निधनानन्तरं मरणानन्तरं च नरकादिगमनान् न विद्यते । ईश्वरत्वमित्यनुवर्तते । अनिमित्तकमकारणमिति निवारयति– अनिमित्तकं भगवन्निमित्तकमिति । अः वासुदेवो निमित्तं यस्य तत्तस्य गर्भगत्वनरकादिगमनो-भयस्यान्तरा मध्ये मृषा त्वयि जीवे विभाति जीवे त्वयि न त्वीश्वरत्वं पूर्वोत्तरत्राविद्यमानं तज्जीवे कथमन्तरावकाशमासादयेत्तथा भाति चेन्मृषेति । तेन किं रूप इत्यत आह– न तु वस्तुतस्त्वं जीव इति । मूलानुवादेन न तु वस्तुतस्त्वं जीव इति विवरणमिति नार्थिकी पुनरुक्तिः । एकरस इत्यनूद्य तदर्थमुक्त्वा तस्य निषधमुखेनान्वयं दर्शयति– एकरसे प्रधान-सार इति । जीवो न च वस्तुतः सर्वोत्तमसारः । वस्तुत इत्यनेन भ्रान्त्या तथा भातीति सूचितं स्पष्टयति । मृषैव तथा मन्यन्ते । तथाऽतो भ्रान्त्या द्रविणमस्यास्तीति द्रविणवान् । एवमभिजनवानित्यादयो ये विरुद्धकल्पनायाः पन्थानस्तैरुपगीयते । ईश्वरोऽहमहंभोगी सिद्धोऽहं बलवान्सुखी । आढ्योऽभिजनवानस्मि कोऽन्योऽस्ति सदृशो मयेति । जीवे कुत इदं मृषेत्येतच्छङ्कापरिहाराय प्रवृत्तं वितथमनोविलासमिति वाक्यमपेक्षिताध्याहारेण व्याचष्टे– यतो भवानित्यादिना । बुधा यतो भवानेव द्रविणवान् यतश्च तपश्च, दमश्च तावाद्यौ येषां, गुणा अभिजन्मकारणीभूता गुणाश्च भवत एव । तत आभिजात्यं तवैव मुख्यम् । अत एतदङ्गीकृतं स्वेषां जीवानां यदीश्वरत्वं मिथ्या मनोविलासमयथार्थमानसिकज्ञानविषय इति बुधा अवयन्ति जानते । ततश्च मूले जातिपदं तपोदमाद्यार्थकत्वेन विवृतं भवति । तत्र मानमुक्त्वा तं द्रढयति– गुणा इति । गुणास्तपआद्या अभिजातिरित्याख्या येषां ते तथा तद्वांस्तपआदिमानेवाभिजातिमानतोऽभिजात्यवान्मुख्यत इत्यर्थः । तदन्ये तु तरतमभावे-नोपचारत आभिजात्यवन्त इत्यर्थः ।
श्लोकद्विकमूलश्रुतिमर्थापयति– य इति । जीवात्स्वस्मादन्येनेशेन वर्जितं जगद्येऽज्ञाः प्रवदन्ति तेषां तां वाचं मदन्यो न जगत्पतिरित्यादिवाचमज ईश एव ददाति तद्योग्यतानु-सारेण । अनुमानममानं शास्त्रयोनिरूपेश्वरनिरास इत्याह– न चेति । जीवस्तर्कैः शुष्कैरीशो न भवेत् । जीवभिन्नेश्वरास्तित्वावेदकवेदविरुद्धत्वात्कालात्ययापदिष्टत्वादिति भावः । ते चाविश्वसनीया इति न स्वेश्वरतासाधनायालमित्याह । यतस्तर्का इष्टसाधनगा व्यभिचारिण उपपादितचरम् । क्वचित्कणादादिप्रदर्शिता आत्मेत्यादयो मृषा च व्यवस्था तूक्ता । आदि-पदेन जैनादयः । अत एव तत्त्वप्रकाशिकायां जैनमतप्रसङ्गसन्निधापितमात्मन इत्याद्युक्तिः । तत्त्वनिर्णये विष्णुरेवाभिजात्यादिमानीश्वर इति निश्चयने बलविकलानां भीरूणां चलचित्तानां व्यवधानकराः परमतत्त्वाच्छादकाः । स्थिरबुद्धीनां बुद्धिचालनं नैवेत्यनेन व्यवधानकरा इत्यत्रापि बुद्धेरिति पूरणीयमिति सूचयति ।
के लोके एवं प्रकाशका इत्यत आह– पारम्पर्येणेति । अज्ञानामुक्त्या लोकेषु विस्तृतं यथा तथा पठ्यत इत्यन्वयः । तत्रापि यदा कदाचिन्नेत्याह– अहरह इति । एवमवयन्ते बुधा इति भ्रमं वारयति– न तु विद्वन्मुखोद्गतमिति । ईशस्यानन्तगुणकर्मत्वात्तदुक्तौ सुवेगीता । श्रुतेरिति शेषः । नन्वेकमेवाद्वितीयमित्याम्नाय एव वक्ति कथं निष्प्रमाणकं स्वेश्वरत्वमित्यत आह । अज्ञानामभेदमिव श्रुतिरेकमेवाद्वितीयमित्याद्येतज्जातीयका श्रुतिः कुत्रचिदपि नाभेदं वक्ति । तदेव विशदयति– एक इति । एक इत्यादिपदानामर्थनिर्णये उपक्रमादितात्पर्यलिङ्गैः सम्यङ्निरूप्यमाणे सैव श्रुतिर्न वर्तते । तदर्थेऽतो नाभेदं वक्ती-त्यन्वयः । तर्हि तस्या नैरर्थक्यादमानतेत्यत आह– गुणान्तरेति । अन्ये गुणा गुणान्तराणि । एक इति सार्वौत्तम्यमद्वितीयमिति समाधिकराहित्यमित्यादिप्रतिपादनकौ-तूहल्यादेतद्रूपार्थेन सार्थक्यादिति नामानता । न कुतोऽस्पष्टयत्सैतमर्थमित्यत आह– अथवेति । असुराणां मोहनार्थायास्पष्टवचनम् । स्पष्टने तद्गतिं को नु यायादिति भावः । तर्हि क्वचिन्न ते विष्णवित्यादौ कुतः स्पष्टनमित्यत आह– कुत्रचिदिति । सुराणां सत्स्वभावानाम् । अर्थस्यापातनिकस्य सिद्धये ज्ञानार्थम् । ईशितृत्वं गर्भस्थे न ह्यस्ति । निरयोपगे तदाद्युपगेऽप्यसावभेदो न ह्यस्ति । ईश्वरात्तव जीवाभेदो मृषा तथा सर्वोत्कर्षश्च तस्य मृषैवेत्यर्थः । धनवत्त्वादिकं च विष्णवि विष्णौ । अतो धनादिमत्त्वादेरपि जीवेश्वरा-भेदं मिथ्येति कवयो विदुः । जीवस्य जगतश्च यदीशाभेदतो वचः । षष्ठ्यर्थे तसिः । ईशाभेदस्य वचनं जगदतात्विकं चेति वचस्तु विष्ण्वधीनत्ववाचकम् । परमस्येति हेतुगर्भम् । अवरेण कुतोऽभेदः । विरुद्धधर्माधिकरणयोर्नाभेदो युज्यत इति भावः । तस्य जगतो नित्यवर्तनान्नित्यं क्रियाप्रवर्तनान्न मिथ्यात्वम् । कुतः स्यात् ॥
ततश्चायं श्लोकद्विकार्थः ॥ इदं जगदपि पः पाताऽस्त्यस्येति पि तन्न भवतीति तदपालकमीश्वरवर्जितम् । तर्कैर्न मत्तोऽन्य ईश्वरश्चेतनत्वादिभिर्वदन्ति पक्षादिविभाजकवचनैः साधयन्ति चेत्तर्हि तद्वचनमपि न साक्षात्स्वसामर्थ्येन किन्तु तद्योग्यतानुयायिभगवत्प्रेरणयै-वेत्याह– अथो इति । तर्का न समर्था अमुमर्र्थं साधयितुमित्याह– नेति । कुत इति तु शङ्कायामित इत्याह– तर्का व्यभिचारिण इति । क्वचिदिष्टानिष्टसाधनताविषये व्यभि-चरन्ति । तथा क्वचिदात्मात्मसमपरिमाणत्वादिविषये मृषा च मृषैव भवन्ति । वेदानाम-पौरुषेयतया बलवत्त्वात्तद्विरोधे तर्काप्रतिष्ठैवेति तात्पर्यम् । तर्हि तर्कणमेवं कुत इत्यत आह– भयदृग्व्यवहितय इति । ततो व्यभिचारितया मृषात्वेन च भया भं भीतिं यातीति सा च दृग्येषां ते भयदृशस्तेषाम् । दृक्शब्दो देहलीदीपन्यायेन व्यवहितपदेनापि योज्यः । भयदृग्व्यवहितय इति यथास्थितार्थाप्रतिभानायेत्यर्थो न तु भीरूणामिव धीराणामित्यर्थः ।
वेदविरुद्धास्तर्काः किं कारणका इत्यत आह– विकल्प उषित इति । विस्तृतो नेदानीन्तनः किन्त्वन्धपरम्परातः । अन्वहं नित्यम् । एकोऽन्धोऽपरमन्धंं प्रत्युपदिशति सोऽप्यन्यस्मा इति स एवैवं तर्कणहेतुरिति भावः । न केवलं बलमियदेव कारणान्तर-मप्यस्तीत्याह– भारती भ्रमति चेति । भरतस्य वायोरियमपत्यं भारती । तवोरुवृत्तिभि-रुरव उर्व्यो वा वृत्तयो जगत्प्रवृत्तयो यैस्ते गुणकर्मादयोऽनन्तास्तैर्वाच्यैरूढो वक्तुं कौतूहलं येन जवो यस्याः सा वेदवाणी भ्रमति तद्बुद्ध्यशुद्ध्या नानाविधानर्थान्वक्ति । यथावस्थितमर्थं वदन्त्या वेग एव तत्पातनिकार्थभ्रमकारणमिति भावः । यद्यत इदं स्वेश्वरत्वमग्रे गर्भे नास नाभूद् आस भविष्यन्नो भविष्यन्मरणादनन्तरं नरकादौ च न विद्यते । अतोऽप्ये-तद्धेतोरप्यनिमित्तकम् अः वासुदेव एव निमित्तं यस्य तदिदमन्तरा मध्ये मृषैव भाति । अत एकरसे मुख्यब्रह्मादिसारे भगवत्येव तत्पारमार्थिकम् । वस्तुतस्तु त्वं न जीव एव । एवं सत्यपि द्रविणजातिविकल्पपथैर्द्रविणं च जातिर्गुणादिकं चैतद्गोचरो विकल्पो द्रविण-वान्गुणादिमानिति तस्य विविधकल्पस्य कल्पनायाः पन्थानस्तैर्दुस्तर्कमार्गैरुपगीयते ईश्वरोऽह-महं भोगीति स्वात्मानं मन्यत इति यावत् । स्वकूटघटितैरेवमुपगीयते वा । एतन्मृषात्वे प्रमाणान्तरमप्याह– वितथमनोविलासमिति । वितथमनसि बाह्यान्तःकरणे विलासो यस्य तदिदं कल्पनमिति बुधा अवयन्ति जानते । अतो नेतिशब्दयोगाद्भाविनी प्रथमा सा च वितथमनोविलास इत्येवंरूपिणीति कथं वितथमनोविलासमित्युक्तिरिति निरस्तम् । तेषां प्रत्यक्षं चेद्युष्माभिः कथं मानतया कथनं युष्मत्प्रत्यक्षस्याभावादित्यतो बुधा इत्यव-गमयितारश्च तदुपदेशत इतरेषां तत्प्रत्यक्षज्ञानमिति भावः । अवपूर्वक इण् धातो रूपम् । कं विदधते कं वा निषेधतीत्युक्तेर्युष्मच्छब्दोऽत्र सर्वत्र भगवत्पर एवेति ज्ञेयं, ज्ञेयं च यत्र कुत्रचिद्विवरणे जीवे त्वयीत्यादिवचनं श्रुतयः स्वबुद्धिपद्धत्यानीतं जीवं संबोद्ध्य वदन्तीति प्रवृत्तमिति ॥
कृष्णपक्षे ॥ त्वां विना पालकान्तररहितं कालियकलेवरमिति तत्रैका विज्ञापयन्त्यन्या इति विज्ञापयति– इदमिति । इदमेतच्छरीरमपि पालकान्तररहितम् । ऊहयत किमहं हन्म्येनं किं वा नेतीत्यतस्ता एवं वदन्तीत्याह । तर्का अस्मदूहाः क्वचिद्व्यभिचरन्तीति वदन्ति । कुत इति चेदाहुरित्याह– चित्तादृशी नः क्वेति । हे तत । विकल्पो दक्षः सन्नुषितो जीवन्नुषितश्चेत्युभयदृग्व्यवहितये न जीवतीति दृशो, जीवतीति वेत्युभयदृशो व्यवहितये निर्णयायोषितो जनो ऽविकल्पो न समर्थः । ततोऽभयदृग्व्यहितय इति वा । विकल्पः सन्देह एवोषितो भयदृग्व्यहितिरभयमभयदृग्व्यवहितिर्भयं तस्मै विकल्प उषित इति वा । अहमन्धा अहङ्कारान्धास्तेषां परम्परा तया सहोषितोऽयमिति चित्क्वेत्यन्वयः ।
अधुना तदधिपो दृढो न वर्तते न वदेति वदति । तवोरुवृत्तिभिरूर्वादिप्रवृत्तिभिर्नर्तनै-रिति यावत् । ऊढो हि जवो यस्याः सोपर्युपरिभारेण वेगं वहन्ती भारती वाग्भ्रमति न सरलायाति । इदं न मृषा नु निश्चयः । हे ईचत रमायाचित । गोपाङ्गना वदन्ति । नो रात्रौ न त्यजेदिति तर्का व्यभिचरन्ति । ये च व्यभिचरन्ति व्यभिचारं कुर्वन्ति क्वचित्ते मृषैव वदन्ति । उभयदृग्व्यवहितये उभययोर्दृशोर्नेत्रयोर्व्यवधानार्थं भ्रमति भवान् । हे तत बन्धपरम्पर । सहापि न बुद्धिमानस्तीत्येवं सम्बोधनम् । या तूरुवृत्तिभिस्त्त्वदुपसृतिभि-रूढजवा त्वरावत्यायाता चेदपि सा भारती भारवदाचरतीति । क्वचित्क्वचिद्भ्रमति त्वत्त्यक्ता-स्मद्वच्चरति । अतो नो विकल्पः सन्देहो नोषितः । साऽप्यस्मद्वज्जातेति सन्देहोऽनया नीतया किं करोति न वेति निवृत्त इत्याशयः । इदमग्रेऽस्य स्त्रीजनस्याग्रे पुरः । हेऽनिमित्त निष्कारण । अतोऽस्मान्निधनादन्तरा विनाऽन्यद्भविष्यन्नासात एतद्धननात्त्वयि किं कं विभाति । यथा तावकानां त्वयि, अन्तरा कालियकलेवरमध्ये मृषा विभाति सति किं सुखं न तथा एकरसे एतदेकनायकके नागिनीकुले बुधा यन्ति । यमुनामिति शेषः । द्रविण-जातिविकल्पपथैरन्तरा विना द्रविणविकल्पो हरणं वा जातिविकल्पोऽपि तन्नाश एतस्य पन्थानो मार्गास्तैर्वितथमनोविलासं वितथं मनो यस्य वितथमनाः स चासौ बिलमसति गच्छतीति स बिलाशयस्तमव । अत इदमुपगीयते । येनानः शकटमविलासं सद्वितथं व्यत्यस्तकूबराक्षमास । यदग्रेऽस्मत्पुरत आस तद्यदि पुनर्न भविष्यच्चेन्न भविष्यति प्रकटम् । तदाऽनिमित्तकं परिदृश्यमानकारणरहितं निधनादन्तराऽस्मन्मरणं विना मृषैकरसे मिथ्या-मात्रवादिश्रेष्ठेऽन्यन्न विभाति । हे द्रविणजातिविकल्प द्रविणानां जातमस्यास्तीति द्रविण-जातीति वि अतीतः कल्पः वृक्षो येन तत्सम्बुद्धिः । विः श्रेष्ठातीतनानार्थ इति विश्वः । पथैस्त्वत्पदाङ्कैर्मार्गैः । पथशब्दोऽयम् । बुधा गोपीजना अवयन्ति जानते च । अतः प्रागेव दया विधेयेत्युपगीयत इति वा ॥
ततश्चायं श्रुत्यर्थः ॥ तर्कैरिष्टसाधनगैर्व्याभिचारिभिस्तर्कैर्जीवस्येश्वरत्वसाधकैर्मृषातर्कमूलकं यद्वचनमीश्वरोऽहमित्यादिकं तदीश्वर एव सन्दधाति प्रेरयति । तदीश्वरत्वमादौ गर्भगेऽर्भके नासीन्मरणे नरकादिपातेन नो भविष्यत् । स्वपेषु जीवेषु स्वापयोग्या अज्ञानिन इति स्वपा जीवास्तेष्वीशित्वमीशाभेदो मृषैव । हीति तात्पर्योदाहृतमानसिद्धतामस्यार्थस्य द्योतयति
॥ ३७,३८ ॥ (२३,२४)
उदगात् पुमाननुगीतगुणांश्च जुषन्
भजति सरूपतां तदनु जहासि जिहासि ताम् ।
अहिरिव त्वचं परमात्तभगां
महसि महीयसेऽष्टगुणोऽपरिमेयभगः ॥ ३९ ॥
तात्पर्यम्
श्रुतिषु तवानुगीतान् गुणान् जुषन् पुमानुदगादस्मत्संसारात्तव सरूपतां भजति । तदनु गुणस्मरणमनु गुणांश्च जुषन्निति, चशब्दः कर्माणि चेत्यस्मिन्नर्थे ॥ यच्चायं पुमानात्तभगां त्वयाऽपहृतभगां प्रातिस्विकीं पूर्वोक्तां द्विविधां कष्टां प्रकृतिं जहाति जिहाति हन्ति च तदपि त्वमेव जहासि जिहासि च । उतेति त्यागवधयोः समुच्चयार्थे ॥
जिहाति रावणं सङ्ख्ये राघवः परमास्त्रविदिति स्कान्दे ॥ स्वातन्त्र्यात्प्रकृतित्यागकर्ता नारायणः परः । यद्यप्यैषा जीवसंस्था हन्ता च भगवान्प्रभुः ॥ इति गारुडे ॥ महसि महीयसे पूजयसि पूज्यसे चात्मनैव ॥
स्मरन् ब्रह्मगुणान्नित्यं मुक्तो ब्रह्मस्वरूपताम् । दुर्भगां प्रकृतिं त्यक्त्वा हत्वा चान्यां दुरन्वयाम् । याति तच्च परेशानात्स हि पूज्योऽथ पूजकः । तस्मैकस्य स्वतन्त्रत्वात्स चानन्तगुणो विभुरिति कौशिकश्रृतिः ॥ ३९–२५ ॥
पदरत्नावली
अनुशब्दो विकल्पार्थः । श्रुतिष्वनुगीतगुणान् चशब्दात् तव कर्माणि च जुषन् । तदनु गुणस्मरणादनु उदगात्, संसारादिति शेषः । अस्मात् संसारान्मुक्तो भवतीत्यर्थः । तव सरूपतां च भजति । कश्चित् सायुज्यं कश्चित् सारूप्यं कश्चित् सालोक्यं च । यद्वा गुणस्मरणमनु गुणाननुकूलान् प्रातरादिकालविशेषान् जुषन् । यच्चायं पुमान् त्वया आत्तभगामपहृत-प्रयत्नलक्षणशक्तिं प्रातिस्विकीं पूर्वोक्तां द्विविधां नीचां तां प्रकृतिं जहाति त्यजति जिहाति हन्ति च । तदुभयमपि त्वमेव जहासि जिहासि च । उत त्यागवधयोः समुच्चयार्थः । ‘जिहाति रावणं सङ्ख्ये राघवः परमास्त्रवित्’ इति च । ‘स्वातन्त्र्यात् प्रकृतित्यागकर्ता नारायणः परः । यद्यप्येषा जीवसंस्था हन्ता च भगवान् प्रभुः ॥’ इति च । किञ्च महसि असुरजनमोहनाय शिवादीन् पूजयसि । महीयसे च सुरजनेन पूज्यसे च । अणिमाद्यष्टगुणो व्याप्तगुणो वा । अशू व्याप्ताविति धातुः । अपरिमेयभगो दुर्ज्ञेयपरमैश्वर्यादिगुणः ॥ ३९ ॥
सत्यधर्मीया
उदगात्पुमानिति श्लोके कांश्चित्पुरुषान्कश्चित्पुरुषो भजंस्तत्स्वरूपतां भजतीति न परमात्मपरता पदानामेतेषामिति प्रतीतिनिरासाय सोपस्कराणि वाक्यानि भवन्तीत्याद्युक्तेरध्याहारेण तत्प्रदर्शयन्व्याचष्टे ॥ श्रुतिष्वित्यादिना । श्रुतिष्वितिवत्त-वेत्यप्यध्याहारः । अनुगीतान्गुणान् अनुगीताश्च ते गुणाश्चेति विग्रहो मूल इति सूचितमनेन । जुषन्सेवामानोऽधिकार्युदगात् । संसारादिति शेेषः । तव स रूपतां सारूप्यसामीप्यादिकं च भजति । अनेनापवर्गदलद्वयमुक्तं वेदितव्यम् । तदन्विति मूलमनूद्य व्याचष्टे । गुण-स्मरणमनु । अन्विति पदमिति चासूचीति केचित् । केचित्त्वर्थकथनपरं तात्पर्यं तस्या-न्विति तमेवान्विति वा विग्रहेण पदमेकमिति । चशब्दसमुच्चेयाप्रतीतेरनुक्तकर्मसमुच्चायक इत्याह– गुणांश्च जुषन्निति । अत्रत्यश्चशब्दः कर्माणि चेत्यस्मिन्समुच्चेयेऽर्थे वर्तत इति शेष इति । कर्माणि च जुषन्नित्यन्वयः ।
त्वमुत जहासि जिहासि तामिति तच्छब्दः किंपरामर्शक इति न ज्ञायते व्यवधानेनोक्ता काऽपीत्यतो व्यवधानेनोक्तमजाद्वयं ग्राह्यम् । ततश्चोपक्रमोपसंहारयोरैकरूप्यरूपमहागुणलाभ इति हृदि निधाय विधाय व्याख्यां तामात्तभगामित्यादि समीकरोति– यच्चायं पुमानिति । अयं पुमान्भक्तस्तां पूर्वमुक्तां द्विविधामजां जय जय हन हनेत्युक्तेर्न भक्ततस्तत्त्यजनहनने किन्तु ते त्वदायत्ते इति । कुतः । त्वमेवैकां जहास्यान्यां जिहासि च । आत्तभगा चेन्न त्यागस्यापि योगः किमु हननस्येत्यतस्तदनूद्य व्याचष्टे– आत्तभगेति । आत्तोऽपहृतो भगो भाग्यं यस्याः सा ताम्् । योग्यतया त्वयेति लाभः । प्रातिस्विकीं प्रतिजीवं भवां द्विविधामजे द्वे प्रकृती दुष्टे इति प्रागुक्तेस्त्यजनहननयोग्ये इति द्विविधां कष्टां तत्प्रापिकां जहाति । जिहातीत्यनूद्य हन्तीति व्याख्यानं तदपि त्वमेव जहासि चेत्यन्वयः ।
उतशब्दस्य न विकल्पार्थतेति स्वयं व्याकरोति– उतेति त्यागवधयोः समुच्चयार्थ इति । उताप्यर्थविकल्पयोरिति विश्वादपिः सम्भावनान्वयसर्गगर्हासमुच्चयेष्वित्यपिः समुच्चयार्थक इति तदर्थक उतशब्दः समुच्चयार्थोऽत्रेति भावः । तद्वयोर् वधकर्ता त्वमेवेति तत्फलं जिहातीत्यनूद्य हन्तीति व्याख्यातमोहाग्गतावित्यस्य धात्वनेकार्थाद्धननार्थकतेति स्वाभिप्रेतेऽर्थे मानमाह– जिहातीति । परमास्त्रविद्राघवः सङ्ख्ये युध्ये रावणं जिहाति । तत्रेतरोऽर्थः सम्भावित इति स एवार्थ इत्यत्रोदाहरणं नासङ्गतमिति । तथा च गारुडे कौशिकश्रुतौ च हन्ता चेत्यर्थ उक्त इति च मन्तव्यम् । कथं कथयत व्यधिकरणाजात्यागहननकर्तृत्वं भगवत इत्यतो मानमाह– स्वातन्त्र्यादिति । प्रकृतित्यागकर्ता नारायणस्तत्र हेतुः स्वातन्त्र्यम् । यद्यप्येषा द्विविधा जीवसंस्था हन्ता च भगवान् तथाऽपि भगवत्ता हन्ता च व्यधिकरण-प्रयोजकीति भावः । तामप्यत्रत्यां कुर्वन्नयमेति दौर्घट्यमिति भावः । महसि पूजयसि पूजके स्थित्वा पूज्यसे पूज्ये स्थित्वा च । न कस्यापि तस्य स्वातन्त्र्यमित्याह– आत्मनैवेति । विशिष्टेऽर्थे श्रुतिमाह– स्मरन्निति । नित्यं ब्रह्मगुणांस्तथा कर्माणि च स्मरन्दुर्भगाम् । दुर्दुष्टाभावदुःखानां वाचकः परिकीर्तित इत्युक्तेः । अविद्यमानभगां प्रकृतिमेकां त्यक्त्वा दुरन्वयां दुर्दुखदोऽन्वयः सम्बन्धो यस्याः सा तामन्यां त्याज्यामतो भिन्नां हत्वा च ब्रह्मस-रूपतां याति । तत्त्यजनं हननं च परेशानादेव स्वस्य न स्वातन्त्र्यं तत्र । ननु पूर्वं नर्ते त्वत्क्रियत इति श्रुतिमूलश्लोकव्याकृतौ पूज्यत्वादिकं भगवत इति निष्टङ्कितम् । तेनैव महसि महीयस इत्यर्थो ज्ञातुं शक्य इति पुनरेतदंशोदाहरणं व्यर्थमिति चेन्न । तदर्थैतदर्थयोः श्रुति-रियं युक्त्युपन्यासमुखेन दार्ढ्ये हेतुरिति तदंशोदाहृतिः । तथा हि । स हि पूज्यः पूजकश्च । कुतः । इतस् तस्यैकस्य स्वतन्त्रात्वात् । न हेतुः स्वरूपासिद्ध इत्याह– स चानन्तगुणो विभुरिति ॥
ततश्चायं श्लोकार्थः ॥ हे परम सर्वोत्कृष्ट । यः पुमांस्तवानुगीतगुणान् श्रुतिप्रतिपादित-गुणान् । चात्कर्माणि च जुषन्स्मरन्निति यावत् । तदनु तद्गुणकर्मस्मरणानन्तरमेवोदगा-त्संसारादुद्गतो भवति । तदुद्गमनमेवंरूपमिति निरूपयति । त्वमेव द्विविधामजां जहास्येका-मन्यां च जिहासि हंसीति । स त्यजति हन्तीत्ययं शब्द्यत इति वाक्यशेषः । आत्तभगां त्वयाऽपहृतस्वैश्वर्याम् । तत्र निदर्शनमाह– अहिरिवेति । आत्तभगामिति त्वक्पदेनाप्य-न्वेति । यथाऽहिरात्तभगां मोचनकाले त्वचं यथा त्यजति । हननं त्यजनानन्तरभावीत्येकत्र निदर्शनमिति ज्ञेयम् । अष्टगुणोऽष्टौ सृष्टिस्थित्याद्यष्टकर्तृत्वादयो जन्माद्यस्य यत इत्यादि-नोक्ता गुणा यस्य सः । दुर्भागात्याजनं हापनं चातो युक्तमित्याह– अपरिमेयभग इति । अपरिमेयोऽसङ्ख्यो भग ऐश्वर्यादिर्यस्येति ।
कृष्णपक्षे ॥ नागाङ्गना काचिद्वक्ति । हे पर कृष्ण । योऽस्मत्पुनमाहिस्तं मा जहासि न त्यजसि चेत् । तदनु मा मां जिहासि हंसि न केवलं मां तां चान्यां मत्सपत्नीसंहतिमपि । यद्यप्यपरिमेयभगोऽष्टगुणो व्याप्तगुणः । अशु व्याप्तावस्मान्निष्ठायां यस्य च विभाषेतीडभावे शान्तत्वात् ष्टुत्वे चाष्ट इत्यकारान्तः शब्दः । किं दीयत एतत्त्यागे नागीत्यत आह । महस्येतदात्मकोत्सवे महीयसे नमनादिभिरस्मदादिभिः पूज्यस इति । मह उत्सवतेजसोरिति सान्तमेदिनी । अनु अहिः कालियोऽपि सरूपतां प्राचीनरूपसारूप्यं भजति । ज्योतिर्जन-पदेति सादेशः । आत्तभगां कान्तिमतीं त्वचं च भजति । एवं स्तुतोऽमूमुचदित्याह । अनुगीतानां गीर्भिर्गुणास्तान् जुषन्नष्टगुणोऽपरिमेयभगः पुमानुदगादिति तं त्यक्त्वोदगात् । उतैवं प्रसादानन्तरमहिः कालियः । (रूपेत्यत्र, रू उपेति पदद्वयम् । रुशब्दे इति धातोः रुशब्दः शब्दार्थकः । उपशब्दः दोषाख्यानपरः । तथा च दोषाख्यानपरेण शब्देनेत्यत्यर्थः) शब्देनोपदोषाख्यानपरेण स सहिताः सरूपास्तान्ता म्लानाननाः । आवर्त्यते च तांतेति । तकारोऽन्ते ये पदास्तांतास्तेन तदानुपूर्वीमन्तस्तच्छब्दोऽदितिर्दितिर्विनता चेति । तांता दित्यदितिविनता च तिस्रः, ति, दनुश्चैका तान्ता यस्य स तस्य भावः सरूपतान्तदनुत्वं भजति । कद्रुपुत्रत्वादेतत्त्यागस्तन्म्लानताहेतुरिति तत्त्वमयं भजतीति वा । उप सामर्थ्य-दाक्षिण्यदोषाख्यानात्ययेषु चेति विश्वः । अहिस्त्वचमिवात्तभगां भुक्तभोगामिति तां न जहासि चेज्जिहास्येव । हानहान्योर्न किञ्चिदन्तरमिति भावः । यदि त्वं मयानुगीतगुणाञ्जुष-न्नुदगात्कस्माच्चित्पर्वतादागत्य भवान्भजति तदनु सा सरूपतां स्मृतिमत्त्वेन पूर्वाङ्गसमानाङ्गं भजति । इतरद्यथापूर्वम् । श्रुत्यर्थस्तु तात्पर्यव्याख्यायामेव सङ्गत इति तत्रैव विवृतोऽनु-सन्धेयः ॥ ३९ ॥ (२५)
यदि न समु(त्स)च्चरन्ति यतयोऽपि हृदि कामजडाः१
दुरधिगमोऽसतां हृदि गतोऽस्मृतकण्ठमणिः ।
अनुतृप्तयोगिनामभयो भगवन्
अनवगतान्तकादनधिरूढपदाद् भवतः ॥ ४० ॥
तात्पर्यम्
अज्ञानामनवगतान्तकादनधिरूढब्रह्मपदात् ॥
स यथाकामो भवति । तत्क्रतुर्भवति । यत्क्रतुर्भवति तत्कर्म कुरुते । यत्कर्म कुरुते तदभिसम्पद्यते इति तु कामयमानोऽथाकामयमानो योऽकामो निष्काम आप्तकाम आत्मकामो न तस्य प्राणा उत्क्रामन्ति ब्रह्मैव सन् ब्रह्माप्येति इति श्रुतिः ॥
निषिद्धकामयुक्तानामसतां तु विशेषतः । दुर्ज्ञेयो भगवान्विष्णुर् हृदिस्थोऽस्मृतहार-वत् । अकामत्वेन भजतां ददात्यभयमन्तकात् । पूर्णानन्दादि तेऽश्नन्ति पूर्णानन्दादिकाः स्वतः । ब्रह्मणो ब्रह्मसम्पत्तिमत आह श्रुतिः स्फुटम् । न परब्रह्मतावाप्तिर्नते विष्णविति श्रुतेः । परमब्रह्मता चैषां ब्रह्मलोकात्परा गतिः । न परब्रह्मरूपत्वमेतमेवेति च श्रुतेः ॥ अन्येषां म्रियमाणानां प्राणा भागत एव तु । देवतास्वेकतां यान्ति भागवतोऽनुव्रजन्ति तम् । ज्ञानिनां मुच्यमानानां नैव यान्ति स्वदेवताः । तेनैव सह संयान्ति ततोऽ-नुत्क्रमणश्रुतिः ॥ इति ब्रह्मतर्के ॥ देवाश्च ऋषयश्चैव सुभक्त्या कामिनोऽपि तु । मुच्यन्ते नियामादेव पश्यन्ति च हरिं न न ॥ इति स्कान्दे ॥ ४०–२६ ॥
पदरत्नावली
यदि यतयोऽपि हृदि कामजडाज् जडशरीराविष्टकामान् न समुच्चरन्ति सम्यङ् नोद्गच्छन्ति नोत्थिता भवन्ति, विषयकामाः स्युरित्यर्थः । तर्हि हृदिगतोऽपि तेषामसताम-प्रशस्तकर्मणां पुंसां दुर्ज्ञेयः । अस्मृतकण्ठमणिरिति लुप्तोपमा । विस्मृतकण्ठमणिः पुरुषो यथा कण्ठस्थितं मणिं न जानाति तथेत्यर्थः । अनेन ‘स यथाकामो भवति तत्क्रतुर्भवति (यत्क्रतु-र्भवति) तत् कर्म कुरुते (यत् कर्म कुरुते) तदभिसम्पद्यते इति तु कामायमानः’ इत्येतद् विवृतम् । हे भगवन् अनुतृप्तयोगिनाम् अनुतृप्तानां विषयालम्बुद्धिं प्राप्तानाम्, निष्कामानामित्यर्थः । निवृत्तिमार्गस्थितानां पुंसां भवतोऽधीनाद् अनधिरूढपदादनारूढवैकुण्ठादिब्रह्मस्थानात्, अज्ञाना-मनयगताद् अज्ञातादन्तकात् कालादिलक्षणादभयोऽभयप्रदः । पूर्णानन्दलक्षणां मुक्तिं ददातीत्यर्थः । इन्द्रियाभिमानिदेवानां वियोगाभावलक्षणां च । अमुना च ‘अथाकामयमानो योऽकामो निष्काम आप्तकाम आत्मकामो न तस्य प्राणाह उत्क्रामन्ति ब्रह्मैव सन् ब्रह्माप्येति’ इति श्रुतिव्याख्यानं (कृतम्) । अस्याः श्रुतेर्विशेषार्थः ‘निषिद्धकामयुक्तानामसतां तु विशेषतः । दुर्ज्ञेयो भगवान् विष्णुर्हृदिस्थोऽस्मृतहारवत्’ इत्यादिवाक्यादेवावगन्तव्यः । ‘देवाश्च ऋषयश्चैव सुभक्त्या कामिनोऽपि तु’ इत्यादिना कामित्वे यतित्वमप्रयोजकमित्युक्तम् ॥ ४० ॥
दुर्घटभावदीपिका
हे भगवन् । अनुतृप्तयोगिनां येऽनुतृप्ता विषयकामनारहिता योगिनो भगवद्विषयकर्मज्ञानयोगिनस्तेषामनधिरूढपदादनधिरूढस्वामिकवैकुण्ठादिपदादत एव भगवतोऽ-धीनादनवगतान्तकादज्ञानिभिरनवगतोऽज्ञातो योऽन्तकस्तस्मादभयस्तन्निमित्तभयपरिहारक इति । एतेन भगवत इत्येतदनन्वितमिति दूषणं परास्तम् । अधीनादित्यस्य शेषमभ्युपेत्यान्वयस्योक्त-त्वात् ॥ ४० ॥
सत्यधर्मीया
यदि न समुच्चरन्तीति श्लोको गहनार्थ इति किञ्चिदध्याहृत्यान्वयं दर्शयित्वा मानेन व्याकरोति– अज्ञानामिति । अनधिरूढमप्राप्तं ब्रह्मपदं ब्रह्मणो भगवतः पदं वैकुण्ठरूपं येन सोऽनधिरूढब्रह्मपदः । अनवगतश्चासावन्तकश्चेति तस्मात् । केषामय-मनवगम इत्यतोऽज्ञानामिति । एतदन्तकानास्पदता वैकुण्ठादेरुच्यतेऽनेन । मानमुदाहरति– निषिद्धकामेति । निषिद्धेत्यनेन भगवदनुकूलकामना त्वकामनैवेति सूचयति । असतामित्य-ज्ञानामित्यध्याहारमूलमिति ज्ञेयम् । निषिद्धकामयुक्तानामसतां विशेषतो दुर्ज्ञेयः । कृत्यानां कर्तरि वेति षष्ठी युक्ता । न दूरेऽस्तीति तदज्ञेयतेत्याह– भगवान्विष्णुर्हृदिस्थितोऽपीति । तत्र निदर्शनमाह अस्मृतेति । अस्मृतहारेण तुल्यं वर्तत इति । तथेति । यथा कण्ठ-स्थापितविस्मृततत्कस्तथेति । अन्तकादभयमकामत्वेन स्वमात्रकामतया भजतां जनानां ददाति । ब्रह्मैव सन्ब्रह्माप्येतीत्यस्यार्थोऽनेन विवृतः । यतस्ते मुक्ताः पूर्णानन्दादिकाः स्वयोग्यानन्दाद्यात्मकास्ततः पूर्णानन्दाद्यश्नन्ति भुञ्जते । ब्रह्मणो योग्यतानुसारेण पूर्णस्य जीवस्य ब्रह्मसम्पत्तिम् । ब्रह्माप्येतीति श्रुतिः स्फुटमत आह । परब्रह्मताया अवाप्तिर्न तदर्थ इत्यर्थः । तत्र बाधमुपन्यस्यन्मानमाह– न ते विष्णविति श्रुतेरिति । न ते विष्णो जायमानो न जात इति श्रुतेर्न तदात्मता तदर्थः ।
ननु ब्रह्म वेद ब्रह्मैव भवतीति श्रुतेः का गतिरित्यत आह– परमब्रह्मतेति । एषां जीवानां परमब्रह्मता च ब्रह्मलोकात्स(त्य)प्तलोकात्परा गतिर्या सेत्यर्थः । कुतो न परब्रह्म-रूपत्वं श्रुत्यर्थ इत्यतः सावधृतिः श्रुतिरेवं जगाविति तां किञ्चिदंशं गृहीत्वा सूचयति– एतमेवेति चेति । एतमेव ब्रह्मेत्याचक्षत इति श्रुतेर्नान्येषां ब्रह्मता यदा तदा परमब्रह्मता नेति किं वाच्यमित्यर्थपरत्वेन नोक्तार्थविसंवादः । प्राणा उत्क्रामन्तीति श्रुत्यंशं प्रमाणशेषेण व्याचष्टे । अन्येषामज्ञानां म्रियमाणानाममुच्यमानानामिति यावत् । प्राणा इन्द्रियाभिमानिनो देवाः । देवतासु स्वांशिषु भागत एकतां यान्ति । प्राणास्तं तानमुच्यमानान्भागतः स्वांशि-प्रविष्टेतरभागैरनुव्रजन्ति ।
मुच्यमानानां विषये तद्व्यापृतिमाह– ज्ञानिनामिति । मुच्यमानानां ज्ञानिनाम् । प्राणा इति शेषः । स्वदेवता भागेन नैव यान्ति तेनैव तैरेव मुच्यमानैरेव सह संयान्ति । ततोऽभिमानिभिः सह गमनाद्धेतोर्न तस्य प्राणा उत्क्रामन्तीति श्रुतिरुपपद्यते । अथवाऽ-नुत्क्रमणश्रुतिरनुत्क्रमणशब्दार्थः । अकामिनामुच्यते मोक्ष इति तर्हि देवाः कामिनः श्रूयन्तेऽतो न तेषामपवर्ग इत्यतो न तत्कामः काम इत्यकामा एव त इति मानेनाह– देवाश्चेति । देवा ऋषयश्च सुभक्त्या कामिनोऽपि कामिनां न मुक्तिरित्युक्तिरभक्तकामिपरेति सुभक्त्येति ध्वन्यते । यतो नियमात्ते हरिं न पश्यन्तीति न, द्वौ नञाविति नयेन पश्यन्त्ये-वेत्यर्थः । ततो मुच्यन्ते । विपर्ययमप्याह । ये न पश्यन्ति नियमान्नापरोक्षज्ञानिनस्ते कामिनो न मुच्यन्त इति । अमुमर्थं ध्वनयितुं पश्यन्त्येवेत्यनुक्त्वा न नेत्युक्तिरिति हृदयम् । विस्तरस्त्वत्र । उत्क्रान्तिमार्गौ देवानां न प्रायेण भविष्यत इत्याद्यनुव्याख्याभाष्यादितस्तथा ननु प्रायेणेत्युक्तत्वात्कदाचिद्देवानामुत्क्रान्तिमार्गावङ्गीकार्यौ तत्रोक्तयुक्तिविरोध इत्यत आह– जातानामिति । (जातानां मानुषे लोके देवानां तु कदाचन । उत्क्रान्तिमार्गौ भवतो न तदा नुक्तिरिष्यते ॥) यद्यपि भवतस्तथाऽपि न तदा मुक्तिरिष्यते किन्तु ब्रह्मणा सहैवातो नोक्तयुक्तिविरोधः । एतदुक्तं भवति । उत्क्रान्तिमार्गसामान्यमपेक्ष्यैव प्रायेणेत्युक्तम् । न तु मुक्तिकालीनावुत्क्रान्तिमार्गौ । तस्य व्यावर्त्यावमोक्षकालीनौ । युक्तिस्तु मुक्तिविषयेति न विरोध इतीति सुधातत्त्वप्रकाशिकातोऽनुसन्धेयः ॥
ततश्चायं श्लोकार्थः ॥ अपिशब्दो यतयोऽपीत्यन्वेति । यतयोऽपि संन्यासिनोऽपि यदि हृदि कामेन निषिद्धेच्छया जडाः सज्ज्ञानरहितास्तर्हि तेऽपि न समुच्चरन्ति तीर्णकामा न भवन्ति । तेषां कामिनां हृदि गतोऽपि हरिर्दुरधिगमो दुःसाध्यज्ञानं हृदि गतम् । कथमसु-साधमतो निदर्शनेनाह– अस्मृतकण्ठमणिरिति । लुप्तोपमा । नेत्यनुवृत्तस्य चक्र-न्नेत्यत्रेवेवार्थता वा । अस्मृतः कण्ठमणिर्येन स । मणिमिव । हे भगवन् । अनुतृप्त-योगिनामनुतृप्ताश्चाकामाश्च तेषाम् । भवतः सकाशादनधिरूढपदान्नाधिरूढमित्यनधिरूढं पदं वैकुण्ठादि येन स तस्मात्तत्राविद्यमानादिति यावत् । अनवगतान्तकादज्ञानामनवगतश्चा-सावन्तकश्च तस्मान्मृत्योरभयदः ॥
कृष्णपक्षे ॥ उपसंहरणसमय इति सत्यभामाप्रदानं सत्रा मणिना सत्राजिता कल्याण-दायीति शंसति– यदीति ॥ ये नयतयो गृहस्थाः । येषां च कण्ठाः सरन्ति तद्भूयिष्ठा इति तद्वदाचरन्तीत्युक्तिः । तेऽपि स्वहृद्येतादृङ्मणिं नादुर्न ददुर्न दध्रुरिति यावत् । दौर्लभ्य-मनेनाभ्यधायि । रत्नप्राप्तिः सवितुरित्यप्याह– यदिनसमुदिति । यश्चासाविनः सूर्यस्तेन समुदिति सत्राजिद्विशेषणम् । स मणिरसतामधिगमो हि प्राप्यो नेति । अस्मृतकण्ठ-मणिरस्मृतो विस्मृतो गृहे स्थापयित्वा गन्तुं, कण्ठमणिः श्यमन्तको येन स प्रसेन इत्यर्थः । गतः मृगयामिति शेषः । अनु तं प्रसेनमनु पुनरनुतृप्तयोगिनां तृप्तं तृप्तिस्तदनु हीनं यस्य सोऽनुतृप्तोऽतृप्तः क्षुधितः स चासौ योगी तत्पृष्टलग्न इति तत्सम्बन्धीति सिंहस्तेन आममागतं भयं यस्य स आ मभयो मृत इति यावत् । अनधिरूढपदादन्याविदितस्वपादचिन्हात् । तथाऽनवगतोऽन्तकः सिंहो वा भल्लूको वेत्यज्ञातं मृत्युं निमित्तीकृत्य । हे कामजड कामेन मणीच्छया जड कर्तव्याकर्तव्याज्ञ कृष्ण । भवत एवायं समुन्न स सन्तोषो न । तं हत्वा सत्राजितं त्वमेव दुःखिनं कृतवानसीति । असतां सरन्ति । वाच इति शेषः । असरंस्तदा यः स्वकीयो जातो यत यतस्व तमन्वेष्टुमित्यवादीत् । अतोऽनधिर्न विद्यतेऽधिरधिको यस्य स गतः । किमनुसृत्य गत इत्यत आह । ऊढपदाद्भूम्यूढपदं प्रेक्ष्येत्यर्थः । अनवो रामावतारकालिक इत्यनधुनातनो गतोऽवगतश्चासावन्तकः सिंहहिंसको जाम्बवांस्तमतति स तथा । इति भवतो मणिमनवगतान्तकादधिगतः प्राप्त इति वा । हृदिकामजडा हृदिकात्त-न्नाम्नो यादवादमति सुततयेति हृदिकामः कृतवर्मा । तावप्यक्रूरसुधन्वानावुपलक्षणीयौ । तेन जडा मूर्खीकृता अत एव तैः सहास्मृतः कण्ठमणिर्यया सा न तद्दाम्पत्येन गलमङ्गल-मङ्गलसूत्रमन्यस्मादित्यस्मृतकण्ठमणिमदुर्दत्तवन्तः । अनेन स्वकीयसम्मतिमाचष्टे । उच्चरन्तीति पाठः स्फुटार्थः ॥
अथ श्रुत्यर्थः ॥ शेषो मध्ये ज्ञातव्योऽस्तीतीतीतिना सूचितम् । तन्मेलनं च विना बृहदारण्यकचतुर्थाध्यायगतखण्डविलोकनं भवतीति विनेया योजयेयुर्योजने चैतत्स्थोऽयं खण्ड इति जानन्त्येवेति न नाम जगृहुराचार्या इति ज्ञेयम् । स यथा कामो भवति तत्क्रतुर्भवति यत्क्रतुर्भवति तत्कर्म कुरुते यत्कर्म कुरुते तदभिसम्पद्यते । पूरणीयोंऽशस्त्वयम् । तदेषः श्लोको भवति । तदेव सक्तः सह कर्मणैति लिङ्गं मनो यत्र निषक्तमस्य । प्राप्यान्तं कर्मण-स्तस्य यत्किञ्चेह करोत्ययम् । तस्मांल्लोकात्पुनरेत्यस्मै लोकाय कर्मण इति । इति तु कामयमानोऽथाकामयमानो योऽकामो निष्काम आप्तकाम आत्मकामो न तस्य प्राणा उत्क्रामन्ति ब्रह्मैव सन्ब्रह्माप्येतीति । स भगवान्यथा कामो भवति तथा कामो जीवो भवति । इत्थं कामोऽस्य भूयादिति भगवदिच्छावशादस्य कामो भवतीत्यर्थः । क्रतुरितीत्थं करिष्याम्येवेति निश्चयरूपः कामः स भगवदिच्छया हि भवति । कामेन मे काम आगादिति च श्रुतिः ।
‘अयोग्यकामराहित्यान्मुक्तो निष्काम उच्यते । अ इत्युक्तः परो विष्णुस्तत्कामोऽकाम ईरितः । तथा कामयमानः स योग्यकामस्य चापि तु । कादाचित्कसमुद्भूतेर्भगवत्कामनां विना । कामितस्याखिलस्याप्तेराप्तकामश्च मुक्तिगः । चिदानन्दात्मकं रूपं कामत्वेन भविष्यति । यतस्तेनैवात्मकाम इति मुक्तोऽभिधीयते । मुक्तस्य न पुनः प्राणा उत्क्रामन्ति कदाचन । जीवोऽपि ब्रह्मशब्दोक्तो जडाद्गुणबृहत्त्वतः । प्राप्नोति परमं ब्रह्म प्रलये जलये सदा । अन्यदा स्वेच्छया विष्णोः स्वरूपाद्बहिरेष्यति । स्वेच्छयाऽन्तर्बहिश्चैवं रमते मुक्त आत्मवान्’ इत्यादि च ।
न च मुक्तस्य कथञ्चिदाप्तकामता मुख्यतो, ब्रह्माप्येतीति वचनात्पूर्वब्रह्मशब्दो जीव-वाच्येव । यद्यज्ञाननाशात्परिज्ञानमात्रं तदा स्वस्य ब्रह्मता विजानातीत्येव स्यात् । न तु ब्रह्माप्येतीति मुक्तपरतयेयं श्रुतिर्बृहद्भाष्ये व्याख्याता । तत्कथमत्र हृदि कामजडा इति श्लोके तथा मुच्यमानानामित्यादिमानोक्तेश्च (अ)मुक्तप्रकरणीति भाति । एतन्मूलत्वेनोपन्यस्ताऽऽ-चार्यैरिति चेत् । सत्यम् । व्याख्यानान्तरमित्यदोषत्वात् । दृष्टचरी रीतिरियं सजातीय-स्थानान्तरे । तथा हि सुधायाम् । नन्वेवं तर्हि बृहद्भाष्ये मुक्तमात्रविषयमिदं वाक्यं व्याख्यातं यश्चेति विशेषणसमुच्चयपरमुक्तम् । अयमभिप्रायो भाष्यकारस्य । सर्वथा वाक्य-द्वयमेवेदं भिन्नविषयम् । एकवाक्यताश्रद्धायामपि मुक्तमात्रविषयमस्तु । तत्रानुपपत्ती-नामल्पत्वात् । नामुक्तमात्रविषयम् । अनुपपत्तिबाहुल्यादिति । मानुषादिहिरण्यगभ•न्तानाम-मुक्तानां चोत्तरोत्तरं शतगुणानन्दत्वं श्रुतिद्वयमाहेत्ययुक्तम् । मानुषानन्दनिर्देशे मुक्तज्ञापका-भावात् । न हि तत्राकामहतत्वमन्यद्वा किमपि श्रूयत इत्याशङ्कां निराकुर्वंच्छुत्यर्थं विवृणोति– राद्ध इत्यादिनाऽभिवीक्षत इत्यन्तेनेति । यथाकामो यद्विषयेच्छ्रुर्भवति स तत्क्रतुस्तद्विषयज्ञानवान्भवति । क्रतुशब्दश्च ज्ञाननामसु पठितः । क्रतो स्मर कृत स्मरेतीशावास्यभाष्ये स क्रतुर्ज्ञानरूपत्वादित्युक्तेः । यत्क्रतुर्भवति तत्कर्म तत्प्राप्तिहेतुभूतं कर्म कुरुते । यत्कर्म कुरुते तदभिसम्पद्यते तदनुगुणं फलं प्राप्नोति । तत्तत्रोक्तार्थे एष वक्ष्यमाणः श्लोको भवतीति प्रतिज्ञा । तमुपादत्ते– तदेवेति । अस्य संसारिजातस्य लिङ्गं शरीरं मनश्च यत्र यस्मिन्फले निषक्तं नितरां सक्तं तत्र सक्तः पुरुषस्तदेव फलं कर्मणा तत्साधनी-भूतस्वानुष्ठितकर्मणा सहैति गच्छति । इह लोके यत्किञ्च कर्म करोति तस्य कर्मणोऽन्त-मवसानं प्राप्य तस्मात्स्वकृतकर्मफलरूपाल्लोकात्स्वर्गादेः पुनरस्मै लोकायैत्यागच्छति । क्षीणे पुण्य इत्यादेः । किं कृत्यमत्रागमन इत्यत आह– कर्मण इति कर्मार्थं तत्कर्तुमिति यावत् । मुक्तामुक्तयोर्द्वयोरपि प्रकृतत्वाक्तिं परोऽयं मन्त्र इत्यत उपनिषत्स्वयमाह– इति त्विति । कामयमान इत्युक्तः संसारी यतोऽत्रोक्त इत्यर्थः । अथेति निवृत्तं संसारिप्रकरणमित्यर्थे । योऽकामो विष्णुतृष्णावान्निष्कामोऽयोग्यकामनाविकलोऽकामयानो योग्योऽपि कामः कदाचिदेव व्यक्तो न सदेत्यकामयमान इत्युच्यते । स्त्रीभिर्वा यानैर्वेत्यादेः । आप्तकामः प्राप्तप्राप्तव्यः । आत्मकाम आत्माऽऽदानादिकर्ता हरिरेव कामः काम्यो यस्य सः । एकान्तिनां न कस्य-चिदित्यादेः । एवम्भूतस्य तस्य मुक्तस्य मुक्त्यनन्तरं प्राणा न उत्क्रामन्ति पुनर्न म्रियन्त इत्यर्थः । प्रलये कथमित्यत आह । स मुक्तो ब्रह्मैव सञ्जडापेक्षया ब्रह्मैव किञ्चिद्बृंहितः सन्ब्रह्मापरिच्छिन्नगुणमप्येति प्रतिप्रलयं तदुदरं प्रविशतीत्यर्थः । अत्र विशेष ऐतरेयभाष्ये । म्रियमाणमिमं जीवं वासुदेवादिदेवताः । त्यक्त्वा भागेन संयान्ति भागतोऽनुव्रजन्ति तम् । गतैर्भागैरपि पुनर्विशेयुर्भोगसिद्धये । भोग्यलोकमनुप्राप्तं तस्मात्स्वप्नवदन्तरेत्यादिना बोध्यः । अमुक्तपरताऽपि भागान्तरे तथाऽथेत्यादिभागान्तरे, मुक्तपरताऽपि बृहदारण्यकभाष्येऽप्युक्तेति न तात्पर्यस्य च तस्य च वैसरण्यमित्यपि ज्ञेयमिति पल्लवेनालम् ॥ ४० ॥ (२६)
तदवगमार्थसितासितयो
र्गुणविगुणयोर्न हि देहभृतां सगिरः ।
अनुययुरत्र हंसकुलगीतपरम्परया ।
न तुषावरणा इव रजांसि
वान्ति वयसा सह यच्छ्रुतयस्त्वयि सफलं
पतन्ति न पतन्ति बन्धनाः ॥ ४१ ॥
तात्पर्यम्
परमेश्वरस्यावगमात्तदवगमा श्रीः । तया च गम्यत्वादर्थः परमस्तेन बद्धत्वात्सिता श्रीर्गुणात्मिका च ॥ सगिरः वाक्पूर्वकाणीन्द्रियाणि श्रियो विष्णोश्च नानु-कूल्येन ययुः । अनुययुश्च हंसकुलगीतपरम्परया । यथा तुषावृतानां तण्डुलानां रज-स्पृष्टिर्नास्ति । एवं रजोरूपान्मनुष्यान्न वान्ति श्रुतयः । वयसा सह महता कालेनापि । अतस्त्वयि सफलं पतन्ति न पतन्ति च विधिनिषेधरूपेण बन्धनात्मिकाः ॥
जानाति प्रकृतिर्विष्णुं ज्ञेयो विष्णुस्तु निर्गुणः ॥
तावुभौ न विजानन्ति ऋते ब्रह्मपरम्पराम् ॥ इति महोपनिषदि ॥
अन्ये सर्वे श्रिया बद्धाः श्रीर्बद्धा विष्णुनैव तु । बन्धश्च विष्णुतन्त्रत्वं मुक्तानां च श्रियस्तथा ॥ अमुक्तानां तु बद्धत्वं जन्ममृत्यादिदुःखिता ॥ हेयो बन्धश्च सैव स्यान्न तु स्वोच्चवशे स्थितिः ॥ गुणात्मिका च सा देवी विगुणः पुरुषोत्तमः । सैव विष्णुं विजानाति ज्ञेयो ज्ञाता च केशवः । न तावन्ये विजानन्ति विना हंसपरम्पराम् । तथाऽपि नैव जानन्ति मानुषा असुरास्तथा । निष्फलैवासुरे तस्माच्छ्रुतिर्बन्धाय केवला ॥ निषेधविध्युत्क्रमणात्तमस्येव विनिक्षिपेत् । निष्फला सफला चैव मानुषाणान्तु मध्यतः१ । सफलैव तु देवानां नियतं मुक्तिदायिनी ॥
श्रीगरुड उवाच–
के हंसाः कः परो हंसः के च पारावता गणाः ।
के च तित्तिरयस्तत्र के शुकाः के च वायसाः ॥
श्रीभगवानुवाच–
परो हंसोऽहमेवैको हंसा ब्रह्माण एव तु ।
पारावता देवतास्तु मुनयस्तित्तिराः स्मृताः ।
मानुषास्तु शुकाः प्रोक्ता आसुराश्चैव वायसाः ॥
प्राप्यं प्राप्तं यतो नित्यं पूर्णं सर्वोत्तमं मया ॥
अतः परमहंसोऽहं मदनन्तरमेव तु । यतः प्राप्तमिवाशेषं सर्वजीवोत्तमं शुभम् । अतो ब्रह्मपदे योग्या जीवा हंसाः प्रकीर्तताः । तेषां परम्पराप्राप्तं यैर्ज्ञानं नियमेन तु । ते मुच्यन्ते नैव चान्ये गुरुर्ब्रह्मा यतो नृणाम् ॥ दैवतं त्वहमेवैको मामवित्त्वा न मुच्यते । परं प्रति यतो नीचा ब्रह्माणः सर्वदेवताः । पारावतास्ततः प्रोक्तास् तैस्तीर्णा संसृतिर्यतः । तित्तिरा मुनयस्तस्मात्कासुखत्वात्तु मानुषाः । शुका इति समुदिष्टा वयोमात्रसुखत्वतः । वयसोऽन्ते तु दुःखित्वादसुरा वायसाः स्मृताः ॥ एवं पञ्चविधा जीवा षष्ठोऽहं परमेश्वरः ॥ न मत्समोऽधिको वापि कश्चिदस्ति द्विजोत्तम ॥ इति गारुडे ॥ ४१ ॥ २७ ॥
पदरत्नावली
देहभृतां जीवानां सगिरो गिरा वाचा सहिताः श्रोत्रादयो गुणविगुणयोस्तदव-गमार्थसितासितयोर्नानुययुरित्यन्वयः । द्वितीयार्थे षष्ठी । गुणरूपा श्रीर्विगुणो विष्णुस्तौ । पूर्वं प्रस्तुतो विष्णुस्तच्छब्देन परामृश्यते । तस्य हरेरवगमो यस्याः सा तदवगमा । तया श्रियाऽर्थ्यते ज्ञायते सम्यगिति अर्थः परमस्तेन सिता बद्धा सर्वदा तदधीनत्वेन वर्तत इति श्रीरसितोऽबद्धो नित्यमुक्तो विष्णुस्तौ श्रीश्रीधरौ नानुययुर् आनुकूल्येन यथास्थितरूपगुणविषयत्वेन न प्रापुः । तद्विषयीकरणोपायमाह– अत्रेति ॥ अत्र जीवराशौ । हंसकुलगीतपरम्परयेति । हंसानां ब्राह्मणानां कुलेन गीतस्योपदिष्टस्य ज्ञानस्य परम्परयेन्द्रियाण्यनुययुश्च श्रुतयश्चानुययुरित्युपसङ्ख्यानं कर्तव्यम् । अत्र रजांसीति रजःशब्दोपादानाद् रजोगुणप्रधाना मनुष्या उपलक्ष्यन्ते । तुषा आवरणं कवचं येषां ते तुषावरणास्तण्डुलपदार्था रजांसीव यथा धूलीर्न वान्ति न स्पृशन्तीत्यर्थः । तथा च श्रुतयो वयसा महता कालेन सह रजोरूपान् मनुष्यान् न वान्ति प्राप्तफलान् न कुर्वन्तीति यदतो बध्नन्तीति बन्धनाः । विधिनिषेधरूपेण पुरुषं बध्नन्त्यः श्रुतयः सात्विकानामर्थे त्वयि सफलं पतन्ति त्वद्गुणगणान् प्रकाश्य त्वदुपासकानां पुरुषार्थहेतवो भवन्ति । राजसानां बुद्धि-व्यामोहकत्वेन त्वयि न पतन्ति पुरुषार्थहेतवो न स्युरित्यर्थः । अनेन ‘अन्ये सर्वे श्रिया बद्धाः श्रीर्बद्धा विष्णुनैव तु । बन्धश्च विष्णुतन्त्रत्वं मुक्तानां च श्रियस्तथा ॥’ इति गारुडपुराणार्थोऽपि सङ्गृहीतः ॥ ४१ ॥
सत्यधर्मीया
तदवगमेति श्लोकार्थावगमाय तं व्याकरोति– परमेश्वरस्यावगमादिति । ततस्तदवगमा रमा तमवगच्छति हरिं जानातीति सा । तस्यावगमो यस्याः सेति तदवगमेति विग्रह इति सूचितम् । तथाऽर्यत इत्यर्थो मुख्य इति द्योतयितुं परम इत्युक्तिः । तेन तदव-गमार्थेन बद्धत्वात्सिता तदवगमा च साऽर्थसिता च । षिञ् बन्धन इति स्मरणात् । स्वय-मबद्ध इत्यपि तयोश्च लक्ष्मीनारायणयोर्गुणविगुणयोर्गुणाः सत्त्वाद्या अस्य नियम्यतया सन्तीति सगुणो, विगतास्त एव गुणा यस्मात्स विगुणस्तयोः । अनेन गुणशब्दोऽर्श-आद्यजित्युक्तं भवति । तदेवाभिप्रेत्याह– गुणात्मिका चेति । तत्स्वामिनीत्यर्थः । सगिरो गिरा सहिता वाक्पूर्वकाणीन्द्रियाणीत्यर्थकथनमात्रनिर्भरं वाक्यमिन्द्रियादय इत्यर्थः । श्रियो विष्णोश्चेति तदवगमार्थसितासितयोर्गुणविगुणयोरित्येतदर्थकथनम् । हंसकुलगीतपरम्परया विनेत्यध्याहृतेनान्वयोऽनेनासूचि । ब्रह्मकुलोपदेशं विनाऽऽनुकूल्येन नानुययुः । हंसकुल-गीतपरम्परया चेद्देहभृतामिन्द्रियादयोऽनुययुः । अत्र देहभृतामिति प्राणिमात्रस्य हंसोपदेशे-नेन्द्रियाणां श्रीश्रीधरानुकूल्येन गमनमिति प्रतीयते तच्च मानविरुद्धमिति तन्निरासाय प्रवृत्तं तस्मिन्नेव पद्ये न तुषावरणा इवेति वाक्यजातं तद्व्याचष्टे– यथेति । तुषा त्वचाऽऽवृतानां तण्डुलादीनां यथा रजःस्पृष्टिर्नास्ति तथा रजोरूपान्रजस्तमःप्रकृतीन्मनुष्यासुरादीन्वयसा बहुलेन कालेन सहापि श्रुतयो न वान्ति न स्पृशन्ति । यतः श्रुतयो हंसकुलगीतपरम्परात उत्तमान्वान्ति । अतस्त्वयि सफलं यथा तथा पतन्ति ज्ञानद्वारा मुक्तिदा भवन्ति ।
तदितरेषु तामसेषु न पतन्ति निष्फला भवन्तीति यावत् । यतो बन्धना बन्धयन्तीति बन्धना विधिनिषेधात्मकतया बन्धका न भवन्ति । ते तदुज्झिता इति तद्रूपश्रुतयस्तेषु न प्रवर्तन्त इत्याशयः । अतो बन्धनास्तमसि । निर्बन्धकर्त्र्यश्च भवन्ति । विधिनिषेधरूपेणेति मूलेऽध्याहार्य-मित्यनेनोक्तं भवति । मध्यमेषु सफलं पतन्ति चेति मिश्रफलप्रदा भवन्तीत्यर्थो ज्ञेयः ।
श्रीर्नित्यमुक्तेत्युक्तेः कथं सितता तस्या इत्यतः स्वोक्तार्थे मानमाह– अन्य इति । सर्वे ब्रह्माद्याः श्रीबद्धाः । सा तु विष्णुनैव । तुस्तु वक्ष्यमाणविशेषसूचकः । बद्धा । को हि प्रतीकारो नित्यमुक्तत्वे बन्धोक्तिरसम्बद्धेत्यत आह– बन्धश्चेति । विष्णुतन्त्रत्वं भगव-त्स्वोच्चाधीनत्वम् । मुक्तानां च श्रियस्तथा न संसारिवत्प्रकृतिबन्धः । श्रिय इति पूर्वं वक्तव्यम् । तथाऽपि मुक्तानां नास्ति बन्धः प्राकृत इत्यविवादमिति सपक्षीकर्तुं पूर्वं ग्रह इति हृदयम् । अमुक्तानां जन्ममृतीत्यादिभिर्या दुःखिता बद्धत्वं हेयो बन्धः सैव स्यान्न तु स्वोच्चवशे स्थिती रमाया मुक्तानामिवेति । सा देवी रमा गुणात्मिकेति गुणेत्युच्यते । विगुणपदं व्याख्याति– पुरुषोत्तमो विगुण इति । सैव रमैव विष्णुं विजानाति । महामर्क-मित्यादेर्ज्ञेयो ज्ञाता च केशवः । तौ सा च स च तौ श्रीश्रीधरौ । हंसपरम्परां ब्रह्मणा-मुपदेशं विनाऽन्ये न विजानन्ति । उपदेशेन ज्ञानमपि नैतेषामित्याह– तथाऽपीति । अतो नित्यसंसारिणां न लिङ्गभङ्ग इत्येकं, दर्शनमस्तीत्यपरम् । अस्मत्कृतललाललामायिनां पतये नम इति नमकव्याकृतौ लला नित्यविलासिनो मुक्ताः, अलला अविलासास्तामसाः, लला ललामिश्रा इति भूमिकां सम्पाद्य–
नित्योपलब्धिसूत्राच्च भाषणाट्टीकणादपि ।
नित्यसंसारिणां लिङ्गभङ्गोऽस्तीति सतां मतम् ॥
इत्यादिना सूत्रभाष्यटीकाद्युदाहरणपूर्वकं तत्स्थानं लिङ्गभङ्गहेतुं फलं सुखदुःखात्मकमिति वितत्योक्तमनुसन्धेयम् । मानुषास्तदतिरिक्ता एतत्पक्ष इत्यसुराश्च । अत एवासुर इत्ये-वोक्तिरिति ज्ञेयम् । केवलं बन्धाय भवति । विरोचनादौ हंसशंसनमप्यप्रयोजकं जातमिति तमोयोग्येषु सदुपदेशोऽपि नौपसद इव फलतीति तात्पर्यम् । निषेधविध्युत्क्रमाणादतिक्रमा-त्तमस्येव तान्विनिक्षिपेत् । पूर्वं बहुवचनेन प्रकृतत्वेऽप्यत्र श्रुतिरित्युक्तिः काचिदपि न फलाधायिनी तेषामिति ध्वनयितुमिति मन्तव्यम् । मानुषाणां निष्फला सफला च श्रुतिर्भवति । मध्यत उभयरूपं फलमिति मध्यतः । मध्यम इति पाठे सफलनिष्फलत्वरूप इत्यर्थः । श्रुतिर्देवानां नियतं मुक्तिदायिनीति सफलैव । पूर्वं हंसशब्देन सह पारावतादिशब्दान् श्रुत्वाऽज्ञाततदर्थो विनतातनयः पृच्छतीत्याह– गरुड उवाचेति । हंसाः के परो हंसश्च कः पारावता गणाः क इति संबंधः । तित्तिरयः के के च शुका वायसाश्च क इति । उत्तरयति– भगवानिति । यद्यपि कः परो हंस इति द्वितीयः प्रश्नस्तथाऽपि सर्वस्य स्वाधीनतास्फूर्त्यै पूर्वमुत्तरित इति ज्ञेयम् । अहमेक एव परो हंसः । हंसास्तु ब्रह्माणः । पारावता देवताः । मुनयस्तित्तिराः स्मृताः । अनेन तित्तिरिशब्दपर्यायता तित्तिरशब्दस्योक्ता भवति । मानुषास्तु शुका इति प्रोक्ता असुराश्चैव वायसाः ।
शब्दार्थमुक्त्वा तत्प्रवृत्तिनिमित्तान्याह– प्राप्यमिति । प्राप्यं सर्वोत्तमं तत्त्वं पूर्णं मया प्राप्तमिति परमहंसोऽहम् । अनेन परमं परमत्वं सर्वोत्तमत्वं हन्ति गच्छति समग्रं सं सम्पूर्णमिति परमहंसशब्दनिर्वचनं सूचितं भवति । सं सदेति नित्यमिति वा । मदनन्तरम् । कर्तर्यौणादिको हन्तेः सच्प्रत्यय इति केचित् । यतोऽशेषं स्वयोग्यतायोग्यं सर्वजीवोत्तमं तत्त्वं प्राप्तमतो ब्रह्मपदयोग्या जीवा हंसा इत्युच्यन्ते । ततश्च घ्नन्ति गच्छन्ति संसारत्वं गतं तत्त्वमिति हंसा इति निरुक्तिः सूचिता भवति । योग्यतया लाभः सर्वजीवस्येति ज्ञेयम् । तेषां हंसानां परम्परोपदेशेन तत्प्राप्तं भगवद्रूपं वस्तु यैर्ज्ञातं ते मुच्यन्ते । अन्ये तदुपदेश-लेशहीना न मुच्यन्ते ।
तत्र तन्त्रमाह– गुरुर्ब्रह्मा यतो नृणां देवादीनामिति । दैवतं देवस्त्वहमेव । अनेनैवकारस्य गुरुरेवेत्यप्यन्वयं सूचयति । दैवतमेतेषामितीदंमुद्र्रणाभावाद्गुरुत्वं मत्प्रत्तं तस्यापि दैवतमहमिति ध्वनयति । मामवित्त्वाऽविदित्वा स्थितः कश्चिदपि न मुच्यते । निरुच्य हंसपरमहंसशब्दावधुना पारावतं निरुच्य वक्ति– परं प्रतीति । यतः परं पूर्णं मां प्रति तथा ब्रह्मणश्चावताऽवमता येषां ते परावता एव पारावता इति व्युत्पत्तिः सूचिता । वर्णस्य वर्णयोर्लोप इत्युक्तेर्मलोपः । अवता च पराभूतता नीचतेति यावत् । अव ईषदर्थे परिभव इति विश्वः । निरुक्त्या रेफतकार इति केऽपि । यतः संसृतिस्तैस्तीर्णा ततो मुुनय-स्तित्तिरयस्तित्तिरा इतीरिताः । एतेन तरन्ति संसृतिमिति तित्तिरशब्दनिरुक्तिरुक्ता भवति । पृषोदरादितः सर्वसम्पत्तिर्ज्ञेया । शुकपदं निर्वक्ति– कासुखत्वादिति । स्वार्थे त्वप्रत्ययः । शम् । तृतीयोऽतिशय इत्युक्तेरुकारोऽतिशयं वदन्कुत्सितत्वे कशब्दार्थे समर्पयति । अति-कुत्सितं शमेषां ते शुका इति मानुषाः समुद्दिष्टा इति । स्वित्यानन्दः समुद्दिष्ट इत्युक्तेस्तथा तालव्याश्चैव दन्त्याश्च शं वेत्याद्युक्तेश्च शुशब्दः सुशब्दपर्याय इति शु सु आनन्दः कं कुत्सितं येषामिति । आह्वयगुह्यताबोधनाय ककारोऽन्ते निबद्ध इति च ज्ञेयम् । अन्यथा कशुरित्यवक्ष्यत् । वयोमात्रेण सुखित्वतो हेतोर्वयसोऽन्तेऽवसाने तमआदावतिदुःखित्वादसुरा वायसा इति स्मृताः । वयस इदं वायसम् । मत्वर्थेऽच् । तेदषामस्ति ते वायसा इति व्युत्पत्तिः सूचिता । चिरायुष्ट्वमेव तत्सुखदमिति तात्पर्यम् । एवं हंसपारावततित्तिर-शुकवायसा इति जीवाः पञ्चविधाः । षष्ठः परमेश्वरः परमहंसोऽहमेव । षष्ठत्वम् आरोहा-वरोहन्यायेनार्थाङ्गीकृतौ सममित्यादावादावुक्तिरत्रां तः । सम्भवत इति ज्ञेयम् । न मत्समोऽधिको वापि कश्चिदस्ति विद्यते । हे द्विजोत्तम गरुडेति ॥
ततश्चायं श्लोकार्थः ॥ अत्र जीवसमुदाये हंसकुलगीतपरम्परया हंसकुलं चतुर्मुख-सङ्घस्तस्य गीतानामुपदेशानां परम्परा तत्सङ्घस्तया विना तेषां देहभृतां सगिरो गिरासहिता वागिन्द्रियसहिता इतरे चक्षुरादयः । गुणविगुणयोर्गुणः सत्त्वाद्यभिमानिनी रमा । विगुण-स्तद्रहितो हरिश्चेति तयोः श्रीश्रीधरयोरनु आनुकूल्येनानुययुर्न ते तत्परा इति तात्पर्यम् । तौ कीदृशावित्यत आह– तदवगमार्थसितासितयोरिति । तस्य स्वपतेरवगमो यस्याः सा तदवगमा रमाऽर्यत इत्यर्थेन सिता षिञ् बन्धन इति स्मरणात् । तदवगमा च सार्थसिता चासितः स चेति तौ तयोर्यतो नानुययुः । अतः श्रुतयस्तानि रजांसि रजस्तमोरूपा-न्मानुषानसुरांश्च । बहुवचनमाद्यर्थ इत्याशयः । महीयसानेहसा न वान्ति श्रुतयो न गच्छन्ति फलदत्वेन स्वोपदेशेनेन्द्रियादीन्न कुर्वन्ति । क इव यथा तुषावरणास्तुष आवरणं येषां ते । तुषो धान्यत्वचि विख्यातः । धान्यत्वचः पुमांस्तुष इति विश्वामरौ । तण्डुलाद्या रजांसि धूलीरन्तो न वान्ति न गच्छन्ति । तथा मनुष्याणामसुराणां च न वेदोपदेशफललाभ इत्यर्थः । तर्हि क्व ते फलदा इत्यत आह– त्वयीति । हंसकुलगीतपरम्परया येषां सगिरस्त्वयि त्वामनुययुस्तेषु श्रुतयः सफलं पतन्ति । देवादीनां त एव मोक्षादिफलदा भवन्तीति यावत् । मध्यमेषु तु सफलं पतन्ति । चात्सुखदुःखात्मकमिश्रफला इत्याद्युक्ते-रुभयरूपफलदाः । अधमानां तु विधिनिषेधरूपेण न पतन्ति । श्रौतस्मार्तक्रियोज्झितास्त इति बन्धना बन्धयन्ति निर्बन्धयन्त्यध इति तद्रूपा न सुखलेशदा इत्यर्थः ॥
कृष्णपक्षे तु ॥ अकामानां कामिनीनां मोक्षदेत्यधोक्षजता । एवं सत्योऽपि सद्गतिं यान्तीत्युपसंहरन्त्येकाऽऽह– तदवगमार्थेति । सितासितयोः कृष्णरामयोर्गुणविगुणयोरप्रधान-प्रधानयोरुभयोर्विषये नो गिरोऽस्माभिरारोप्याः शब्दा न हि । किन्तु हे देहभृतांस । भृतत्वं काकनयननयेन देहांसान्वयि । पुष्टदेहमांसलांस । त्वय्येव पतन्ति । बलेऽनुपतन्तीह । ददातीति दस्तत्सम्बुद्धिर्वा । हे भृतांस पुष्टस्कन्धेति । जारत्वाद्यायाता दोषा रजांसि यथा तुषावरणास्तण्डुला रजांसि धूलीर्न वान्ति नागच्छन्ति । ताश्च सितासितयोः । शुक्लकृष्णे गती ह्येते जगतः शाश्वते मते । एकया यात्यनावृत्तिमन्ययाऽऽवर्ततेऽर्जुन । अनयोर्मार्गमध्ये प्रथमेन यथा तथाऽत्रापि वयसा गरुडेनोपलक्षणया शेषोऽपि पन्था ग्राह्यः । हे तदवगमार्थ तासामवगमो यस्य स चासावर्थश्च त्वमेव तत्त्वतोऽर्थ इति तत्सम्बुद्धिः । यच्छ्रुतयः श्रोत्रादीनि च त्वामेवानुययुरिति । हंसकुलानां गीतं यस्मिंस्तद्विमानं तत्परम्परया सफलं यथा तथा त्वामेवानुययुर्मुक्ता एष्यन्नयेनाभवन्निति वा । पुनः बन्धना बन्धनानि संसृत-यस्तासां न पतन्ति । इदानीमेव न किन्तु हंसकुलगीतपरम्परया हंसेनैतत्कल्पीयेन ब्रह्मणा सह गच्छतीति यत्कुलगीतं तत्परम्परया वान्ति गच्छन्तीति वा ॥
तथा चायं श्रुत्यर्थः ॥ प्रकृती रमा विष्णुं जानाति । विष्णुर्निर्गुणः सत्त्वादिरहित इति
ज्ञेयः । तावुभौ रमारमारमणौ ब्रह्मपरम्परां तदुपदेशमृते विनाऽन्ये न विजानन्तीति । तात्पर्यकृत्पादानुक्तवक्तृवक्त्रोर्ध्ववक्तृभिः कथं कथयतार्थोऽयं कथितश्चेति चेच्छृणु ।
व्युत्पित्स्वमत्सरजनैरर्थितैरिदमर्थताम् ।
नीताः श्लोका नाग्रहोऽत्र नेत्युक्तौ नेति चोच्यते ।
पुण्यश्लोकशिखारत्नखण्डेऽखण्डक्षमाभृता ।
कृष्णप्रस्तुतिमन्मूल आलापः किन्निमित्तकः ।
मूलरूपस्येति शङ्का काशितेति प्रकाशितः ।
एषोऽर्थो विन्दवो दीनबन्धवः शोधयन्त्वमुम् ॥ ४१ ॥ २७ ॥
श्रीभगवानुवाच–
इत्येतद् ब्रह्मणः पुत्रा आश्रुत्यात्मानुशासनम् ।
सनन्दनमथानर्चुर् हृदि१ ज्ञात्वाऽऽत्मनो गतिम् ॥ ४२ ॥
पदरत्नावली
इतिशब्द आदिवचनः । एवमादिश्रुत्या गीतमात्मानुशासनं ब्रह्मज्ञानमाश्रुत्य श्रुत्वा हृदि कृत्वा । आत्मनः परमात्मनो गतिं स्वरूपस्थितिं ज्ञात्वा ॥ ४२ ॥
सत्यधर्मीया
इत्येवमादिप्रकारेण । ब्रह्मणः पुत्रा आत्मानुशासनमात्मनोऽनुशासनं तज्ज्ञाननिदानमुपदेशमाश्रुत्यात्मन आप्यां गतिं ज्ञात्वा । अथ ज्ञानदानानन्तरं सनन्दनं नाम्ना नन्दनेन स्वसन्तोषणेन सहितमिति तमानर्चुरपूजयन् । हृदि ज्ञात्वेत्यन्वयः । सिद्धा इति सिद्धार्थः पाठः ॥ ४२ ॥
इत्यशेषसमाम्नायपुराणोपनिषद्रसः ।
समुद्धृतः पूर्वजैस्तैर्व्योमायनमहात्मभिः ॥ ४३ ॥
तात्पर्यम्
व्योमायनमहात्मभिर् ब्रह्माश्रयेषूत्तमैः ॥ ४३ ॥
पदरत्नावली
व्योमायनमहात्मभिर्ब्रह्माश्रयेषूत्तमैस्तैः पूर्वजैः सनकादिभिर् अशेषाणां समीचीनानामाम्नायानां पुराणानामुपनिषदां च रसः सार इति समुद्धृतः ॥ ४३ ॥
सत्यधर्मीया
इत्यशेषसमाम्नायेति श्लोके व्योमायनमहात्मभिर्व्योम गगनमयनमाश्रयो येषां ते च ते महात्मानश्च तेषां तेषु वा महात्मान इत्यर्थस्तु न प्रकृतसङ्गत इति व्योम-पदार्थमनूद्याह– व्योमायनेति । व्योम व्याप्ततयाऽसङ्गतया वा ब्रह्म तदयनं येषां त उत्तमैरिति वचनेन तेषु महात्मभिरिति विग्रहः सूचितः ॥
ततश्चायं श्लोकार्थः ॥ अशेषाः समाम्नायाः सन्त आगमा अशेषाणि च पुराणानि तथोपनिषदश्च तासां रसः सारः । आम्नायग्रहणेनोपनिषदां ग्रहणसम्भवेऽपि श्रुतिगीति मूलत्वेन बृहदारण्यकोप-निषदादिग्रहणं पृथक् कृतमिति भावमाविष्कर्र्तंु पृथग्ग्रह इति ज्ञेयम् । पूर्वजैर्ब्रह्मजैः, व्योम ब्रह्म तदेवायनमाश्रयो येषां तेषु महात्मानस्तैः सनकादिभिः । आकाशस्तल्लिङ्गादित्यादेः । समुद्धृतः । तत्पक्ष आम्नायपदेनैवोपनिषदां ग्रहणमिति ज्ञेयम् । उपनिषदिति रहस्यनामेत्युक्ते उपनिषद्रसो रहस्यप्रमेयसारः । उक्तं च मोक्षधर्मे सत्यस्योपनिषद्दम इत्यादि । अतो न ब्राह्मणपरिव्राजकन्यायेना-गतिकागतिरिति ध्येयम् ॥ ४३ ॥
त्वं चैतद् ब्रह्मदायाद श्रद्धयाऽऽत्मानुशासनम् ।
धारयन् भज१ मे कामं कामानां निधनं नृणाम् ॥ ४४ ॥
पदरत्नावली
ब्रह्मदायद ब्रह्मपुत्र नारद । काम्यानां निधनं नाशकरम् । यद्वा कामा-नामभीष्टानां फलानां निधनं कुलं गृहं वा । ‘निधनोऽस्त्री कुले नाशे निस्त्रिंशे क्रूरखड्गयोः’ इति यादवः ॥ ४४ ॥
दुर्घटभावदीपिका
हे ब्रह्मदायाद ब्रह्मपुत्र नारद । मयि नृणां मनुष्याणामपि कामा-नामिच्छतां निधनं नाशकं मत्कर्तृकं यदात्मानुशासनं भगवद्विषयकानुशासनं मनसि धारयन् काममिच्छानुसारेण श्रद्धया आत्मानं भजेति । एतेन नृणामित्येतद्व्यर्थमिति दूषणं परास्तम् । विषयेच्छाकरणस्वभावानां मनुष्याणामपि मत्कर्तृकात्मानुशासनश्रवणे विषयेच्छा गच्छतीति वक्तुं नृणामित्युक्तमिति स्वीकरणात् ॥ ४४ ॥
सत्यधर्मीया
नारदं प्रतीरयति– त्वं चेति । हे ब्रह्मदायाद चतुराननसुत । दायादौ सुतबान्धवाविति यादवः । विश्वश्च दायादो ज्ञातिपुत्रयोरिति । नारद त्वमात्मानुशासनं मे मत्कृतं स्वोपदेशं श्रद्धया धारयन्नृणां योग्यानाम् । कामानां निधनमित्यलुक् षष्ठ्यन्तं पदमेकम् । कामानां निधनं येन तम् । षष्ठ्या आक्रोश इत्यलुक् । कामं सर्वापेक्षितं मां भज । चर मे काममित्यपि दृष्टचरः पाठः । भाविकार्यानुगुणश्च । निधनोऽस्त्री कुले नाशे निस्त्रिंशे क्रूरखड्गयोरिति यादवः ॥ ४४ ॥
एवं स गुरुणाऽऽदिष्टो गृहीत्वा श्रद्धयाऽऽत्मवान् ।
पूूर्णः सद्यस्ततो राजन् प्राह वीरव्रतो गुरुम् ॥ ४५ ॥
पदरत्नावली
पूर्णः स्वतस्तृप्तः ॥ ४५ ॥
दुर्घटभावदीपिका
वीरव्रतः श्रेष्ठव्रत आत्मवान्सर्वदा भगवत्येवान्तःकरणवान् । एवं पूर्वोक्तरीत्या गुरुणा नारायणेनादिष्टः स नारदस्ततो नारायणात् । नारायणप्रसादादिति यावत् । सद्यः पूर्णो ज्ञानपूर्णः सन् सद्यो भगवदनुशासनं गृहीत्वा गुरुं नारायणं प्राहेति । एतेन तत इत्येतद्व्यर्थमिति दूषणं परास्तम् । उपदेशमात्रेण ज्ञानं न भवति किन्तु ज्ञानार्थं नारायण-प्रसादोऽप्यपेक्षित इति ज्ञापनार्थं तत इत्युक्तमित्यभ्युपगमात् ॥ ४५ ॥
सत्यधर्मीया
स नारदो गुरुणा भगवताऽऽदिष्ट आज्ञप्त आत्मवान्मनस्वी । श्रद्धया गृहीत्वाऽऽदेशं स्वीकृत्य पूर्णस्तृप्तः सद्यस्ततस्तदनुशासनमननानन्तरं वीरव्रतो व्रतविषये नियमात्यजनेन वीरताऽनुसन्धेया । गुरुं नारायणमाह । निष्कम्पव्रत इति वा ॥ ४५ ॥
नारद उवाच—
नमस्तस्मै भगवते कृष्णायामलमूर्तये ।
यो धाता सर्वभूूतानामभयो यस्य ते कलाः ॥ ४६ ॥
पदरत्नावली
सर्वभूतानां धाता धृतिपोषणयोः कर्ता । ये सर्वभूतानामिति प्रस्तुतास्ते जीवा यस्य तव कला प्रतिबिम्बांशाः ॥ ४६ ॥
सत्यधर्मीया
अमलमूर्तये मुमुक्षूपास्याकृतिमते । कृष्णाय भगवते । यानि, यस्य ते कला भिन्नांशास्तेषां सर्वभूतानां त्वं धाता पाता पोषकश्चाभयोऽभयदाता तस्मै नमः ॥४६॥
श्रीशुक उवाच—
इत्याद्यमृषिमामन्त्र्य तच्छिष्यांश्चामलात्मकान् ।
ततोऽगादाश्रमं साक्षात् पितुर्द्वैपायनस्य मे ॥ ४७ ॥
पदरत्नावली
ऋषिरूपत्वाद् ऋषिः ॥ ४७ ॥
सत्यधर्मीया
इत्येवामद्यं सर्वोपजीव्यं पुरातनं वाऽऽमन्त्र्य तच्छिष्यान्सनकादीना-मन्त्र्येत्यनुकर्षसूचकश्चः । मे साक्षात्पितुर्द्वैपायनस्याश्रममगात् ॥ ४७ ॥
सभाजितो भगवता कृतासनपरिग्रहः ।
तस्मै तद् वर्णयामास नारायणमुखाच्छ्रुतम् ॥ ४८ ॥
तात्पर्यम्
कथाः कथयतीशस्य व्यासस्यान्ते स नारदः । स्तुत्यर्थं तस्य देवस्य ज्ञापनाय न तु क्वचित् । पूर्णज्ञानामृतस्यास्य न तु ज्ञप्तिः पराद्भवेत् । ऋषिरूपी यतो विष्णुः स्वयमेव जनैः श्रुतः ॥ इति ब्राह्मे ॥ ४८ ॥
पदरत्नावली
अत्र नारदेन व्यासाय कथाकथनं स्तुत्यर्थं न तु ज्ञापनाय । ‘कथाः कथयती-शस्य व्यासस्यान्ते स नारदः । स्तुत्यर्थं तस्य देवस्य ज्ञानपाय न तु क्वचित्’ इत्यादि ॥४८॥
सत्यधर्मीया
सभाजित इति श्लोके बादरायणादरेण तथा तद्वर्णयामास व्यासेनामत-मुपदिदेश नारद इति प्रतीयते न तत्सम्भवति । तैर्विज्ञापितकार्यस्तु भगवान्पुरुषोत्तमः । अवतीर्णो महायोगी सत्यवत्यां पराशरादित्यादिविरोधादित्यत आह– कथा इति । ईशस्य व्यासस्य । र्ईशस्येत्यनेनादरणं लोकरीत्येति द्योत्यते । अन्ते निकटे नारदः कथाः कथयति । नाज्ञास्ता इत्याह– स्तुत्यर्थमिति । न तु ज्ञापनार्थायेति । तत्र तन्त्रमाह– पूर्णज्ञानामृतस्येति । पराज्ज्ञप्तिरन्यस्मान्न ज्ञप्तिर्भवेत् ॥
ततश्चायं श्लोकार्थः ॥ भगवता व्यासेन सभाजितः सत्कृतः । तद्विवृणोति ॥ कृतानस-परिग्रह इति । नारायणमुखाच्छ्रुतं यत्तद्वर्णयामास । स्तुत्यर्थमिति शेषः ॥ ४८ ॥
तदेतद् वर्णितं राजन् यश्च प्रश्नः कृतस्त्वया ।
येन ब्रह्मण्यनिर्देश्ये निर्गुणेऽपि मनश्चरेत् ॥ ४९ ॥
पदरत्नावली
त्वया यः प्रश्नः कृतस्तत्प्रश्नवचनमुद्दिश्यैतत्प्ररिहारवचनं वर्णितम् । येन वर्णितप्रकारेणानिर्देश्ये निर्गुणे ब्रह्मणि मनश्चरेत् तथेति ॥ ४९ ॥
सत्यधर्मीया
हे राजन् । त्वया यः प्रश्नः कृतस्तमुद्दिश्यैतन्मया येन वर्णित-प्रकारेणानिर्देश्ये निर्गुणे ब्रह्मण्यपि मनश्चरेत्तदेतद्वर्णितमित्यन्वयः ॥ ४९ ॥
**यो ह्यात्मा जगदादिमध्यनिधनो योऽव्यक्तजीवेश्वरो **
यः सृष्ट्वेदमनुप्रविष्ट ऋषिणा चक्रे पुनः संहिताम् ।
यं सम्पद्य जहात्यजामनुशयी सुप्तः कुलायं यथा तं
कैवल्यनिरस्तयोनिमभयं ध्यायेदजस्रं हरिम् ॥ ५० ॥
॥ इति श्रीमद्भागवते दशमस्कन्धे षण्णवतितमोऽध्यायः ॥
तात्पर्यम्
ऋषिणा ऋषिरूपेण ॥ ५० ॥
पदरत्नावली
उपासनार्थं स्वलक्षणैर्लक्षयति– यो हीति ॥ आत्मा जगत आदि-मध्यनिधनानि उत्पत्तिस्थितिसंहारा यस्मात् स तथा । यस्माच्चाव्यक्तजीवयोः प्रकृतिचेतनयो-रीश्वरः । यश्चेदं सृष्ट्वा अनुप्रविष्टः । यश्च ऋषिरूपेण पुराणसंहितां चक्रे । अनुशयी जीवो यं पुनः सम्पद्य प्राप्य अजां बन्धकशक्तिं जहाति । सुप्तः कुलायं शरीरादावभिमानं च यथा त्यजति (तथा) । तं कैवल्यनिरस्तयोनिं समाधिकाभावेन निराकृतकारणं हरिमजस्रं निरन्तरं ध्यायेदित्यन्वयः ॥ ५० ॥
॥ इति श्रीमद्भागवतटीकायां विजयध्वजतीर्थकृतायां पदरत्नावल्यां
दशमस्कन्धे उत्तरार्धे षण्णवतितमोऽध्यायः (स.धर्म.१०–९६) ॥
दुर्घटभावदीपिका
यं सम्पाद्य सुप्तो यथा कुलायं देहनिमित्तकदुःखं जहातीत्यभिमाना-भावात् तथा यं सम्पाद्यानुशयी जीवोऽजां प्रकृतिनिमित्तकदुःखं जहाति । प्रकृतेरभावात् । तं कैवल्यनिरस्तयोनिं कैवल्येन देहस्य केवलचिदानन्दात्मकत्वेन निरस्तयोनिं निरस्तकारणमत एवाभयं भयशून्यं हरिमजस्रं ध्यायेदिति । एतेन सुप्तिवेलायां देहत्यागाभावाद् यथा सुप्तः कुलायं जहाति तथा जीवोऽजां जहातीति कथनमनुपपन्नमिति दूषणं परास्तम् । कुलायाजाशब्दाभ्यां देहप्रकृत्योरग्रहणात् ॥ ५० ॥
॥ इति श्रीभागवतटिप्पण्यां षण्णवतितमोऽध्यायः ॥ १०–९६ ॥
सत्यधर्मीया
यो ह्यात्मेति श्लोके यः सृष्ट्वेदमनुप्रविष्ट ऋषिणा चक्र इत्यस्य ऋषिणाऽन्येन संहितां चक्रे कारयामासेति प्रतीयते । तच्चान्यानुपलब्धिबाधितमिव पुराण-संहितां चक्र इत्यादिमानबाधितमिति स्वयमाचार्यवर्यो ब्राह्मब्राह्मीपूर्वार्थसङ्गतैकसरण्यां वर्तमान- मित्यादौ मानमुदाहृत्य व्याख्याति– ऋषिरूपीति । स्वयं विष्णुर्जनैर्ऋषिरूपी यतः श्रुतस्तत ऋषिणा ऋषिरूपेण संहितां चक्र इत्यन्वयनेन व्यादर्शीति ज्ञेयम् । एतेनातीतपद्यगत-माद्यमृषिमित्यपि व्याख्यातमिति मन्तव्यम् ॥
ततश्चायं श्लोकार्थः । एवमुदाहृतश्रुतश्रावितगुणगणकत्वेन सदा चिन्तनीय इति तं तथा कथयित्वोपसंहरति– यो हीति । य आत्मा तच्छब्दवाच्यः । यद्वा या रमयोह्य आत्मा यस्य सः साऽपीत्थमिति निश्चेतुं न शक्नोतीति सैव तु श्रुतिरूपिणीत्युपक्रमतात्पर्यानुकूल्या-त्तात्पर्यं ज्ञेयम् । योऽहौ आत्मा देहो यस्य सोऽह्यात्मा सुप्त इति वा । जगदादिमध्यनिधनो जगत आदिरुत्पत्तिर्मध्यं स्थितिर्निधनं नाशश्च यस्मात्स तथा । यश्चाव्यक्तमक्षरतत्वं जीवाश्च क्षरद्देहा ब्रह्माद्यास्तेषामीश्वरः स्वामी । य इदं जगत्सष्ट्वाऽनुप्रविष्टः । तत्सृष्ट्वा तदेवानु-प्राविशादित्यादेः । ऋषिणा ज्ञानामृतनिभृतेन ऋषिरूपिणा । अम् अः पुराणर्षिर्व्यास इति श्रुतेः । पुनर्वेदव्यासानन्तरं संहितां पुराणसंहितां चक्रे कृतवान् । यत्प्रमेयं पूर्वकल्पे जगाद तदर्थकपुराणसंहितां चक्र इति वा । आ आदिमध्यनिधनानि यस्मात्सः । अश्चासावादि-मध्यानिधनश्च । णलुत्तमो वेति वा णित् । यं सम्पाद्य ध्यानादिनाऽन्तर्बिम्बितं प्राप्या-परोक्षीकृत्यानुशयी जीवः, सुप्तः पुमान्यथा कुलायमभिमतिरूपं दुष्फलनीडं त्यजति तथाऽजां जहाति प्रकृतिं त्यजति । तद्बाधानास्पदं स्वयं तदपसरणाद्भवति । निदर्शनानुसारेणैकस्या उक्तिः कण्ठतोऽपसरणमात्रं न हननमेतस्या इति बलीयस्त्वात्पूर्वोक्तप्रकारेणान्यां जिहाती-त्यप्यनुसन्धेयम् । तं कैवल्येन केवलत्वेन समाभ्यधिकराहित्येन हेतुना निरस्ता योनिः कारणं यस्य स तमभयं स्वयं तथेतरस्मिन्न विद्यते भयं यस्मात्तं प्रसादावसरे एतादृशं हरिमजस्रमहरहर्ध्यायेन् मुमुक्षुरिति शेषः ॥ ५० ॥
**॥ इति श्रीसत्यधर्मयतिकृतायां भागवतटिप्पण्यां दशमस्कन्ध उत्तरार्धे **
षण्णवतितमोऽध्यायः ॥ १०–९६ ॥