२१ पञ्चनवतितमोऽध्यायः

सरस्वत्यास्तटे राजन् ऋषयः सत्रमासत

॥ अथ पञ्चनवतितमोऽध्यायः ॥

श्रीशुक उवाच—

सरस्वत्यास्तटे राजन् ऋषयः सत्रमासत ।

वितर्कः समभूत् तेषां त्रिष्वधीशेषु को महान् ॥ १ ॥

पदरत्नावली

विष्णोः समोऽधिको अस्तीति संशयनिरासाय तस्य भक्तानुकम्पित्व-प्रकटनाय च मुमुक्षुभिः क्षमागुण एवापाद्यस्तत्प्रसादजनक इति द्योतनाय च तस्मिन् निरतिशय-भक्तिजननाय चास्याध्यायस्य प्रारम्भः । तत्रादौ मुनीनां सत्रसमये जिज्ञासाप्रकारं वक्ति– सरस्वत्या इति ॥ वितर्को जिज्ञासा । त्रिषु ब्रह्मादिष्वधीशेषु अधिकेश्वरेषु को महानुत्तमः

॥ १ ॥

सत्यधर्मीया

शापप्रसादयोरीशा ब्रह्मविष्णुशिवादय इत्यतीतेऽध्याये प्रस्तुतेषु त्रिषु क एक उत्तमः किंवा सम इति सन्दिग्धबुद्धीनां मुनीनां सत्रे सत्र आसीनानामिदमपदेशेन निर्णयः सम्पादनीय इति मतिमतां व्यापारमुपपादयत्यत्र । तत्रादौ विचारणाय चतुराननतनयं प्रेषयामासुर्ऋषय इति भाषते– सरस्वत्या इति । ऋषयः सत्रमासत क्रतुमुद्दिश्य स्थिता-स्तमकुर्वन्निति यावत् । तेषामृषीणां त्रिष्वधीशेषु को महानिति वितर्कः समभूत् । तज्जिज्ञासया तज्ज्ञप्त्यै प्रेषयामासुरिति वा ॥ १ ॥

तस्य जिज्ञासया ते वै भृगुं ब्रह्मसुतं नृप ।

तज्ज्ञप्त्यै प्रेषयामासुः सोऽभ्यगाद् ब्रह्मणः सभाम् ॥ २ ॥

पदरत्नावली

तस्याधिकस्य । वा इत्यनेन लोकसंशयनिरासाय मन्दाधिकारिणां दृढ-निश्चयाय, न स्वार्थं, परिज्ञातवेदान्तार्थत्वात् स्वेषामिति निर्धारयति ॥ २ ॥

दुर्घटभावदीपिका

हे नृप ते । ऋषयस्तस्य महतो जिज्ञासया ज्ञानेच्छया । तत्ज्ञप्त्यै तस्य भृगोर्महतो ज्ञप्त्यै । ब्रह्मसुतं भृगुं प्रेषयामासुः । स भृगुर्ब्रह्मणः सभामध्यगादित्येतद्वै प्रमाणप्रसिद्धमिति । एतेन तस्य जिज्ञासयेत्यनेनैव तत्ज्ञप्त्याप्त्या इत्यर्थस्य लाभात् तत्ज्ञप्त्यै इत्येतत्पुनरुक्तमिति दूषणस्यानवकाशः । तस्य जिज्ञासयेत्यनेन स्वकर्तृकमहत्कर्मज्ञानार्थमित्यर्थ एवार्थाल्लब्धो न तु भगुकर्तृकमहत्कर्मकज्ञानार्थमित्यर्थः । अतो भृगुकर्तृकमहत्कर्मकज्ञानार्थ-मित्यर्थलाभार्थं ज्ञप्त्यै इत्युक्तमिति स्वीकरणात् ॥ २ ॥

सत्यधर्मीया

ते तस्य जिज्ञासया को गत्वाऽवगच्छेदिति ज्ञातुमिच्छया निश्चितं भृगुं ब्रह्मसुतम् । अनेन तस्य परीक्षणे शक्तिरस्तीति सूच्यते । तज्ज्ञप्त्यै महत्त्वज्ञानाय प्रेषया-मासुः । स भृगुरादौ ब्रह्मणः सभामभ्यगात् । वा इत्यनेन ते च विदिततत्त्वाः परार्थं यत्नं कृतवन्त इति सूचयति । त्रिष्वीशेष्विति वक्तव्ये त्रिष्वधीशेष्वित्युक्त्याऽधिकश्चेशोऽधीशा-स्तेष्वित्यान्तरङ्गिकभावः सूच्यते । किञ्च स्वपितेति पितामहं महन्तं वदेदयमिति तन्निःस्पृह-ताप्ततानिश्चयो वा सूच्यते । तस्यैकस्यैव भृगोर्वरुणाद्विधेश्च जननमिति न भृगुर्वै वारुणिरिति विरुणद्धीति ध्येयम् ॥ २ ॥

न तस्मै ब्रह्मणे स्तोत्रं चक्रे सत्वपरीक्षया ।

तस्मै चुक्रोध भगवान् प्रज्वलन् स्वेन तेजसा ॥ ३ ॥

सत्यधर्मीया

सत्त्वं शमस्तत्परीक्षया । तस्मै ब्रह्मणे । स्तोत्रं न च चक्रे । स्वेन तेजसा प्रज्वलन् । भगवान्ब्रह्मा तस्मै चुक्रोध । अन्तरेवेति भावः ॥ ३ ॥

स आत्मन्युत्थितं मन्युमात्मजायात्मनः प्रभुः ।

अशीशमद् यथा वह्निं शमयेद् वारिणा प्रभुः ॥ ४ ॥

पदरत्नावली

आत्मनः स्वस्यात्मनि मनसि आत्मजाय भृगवे उत्थितं मन्युमशीशमत् शान्तं कृतवान् । प्रभुः समर्थः । प्रभुर् भृगोः पितृत्वेन स्वामी ॥ ४ ॥

सत्यधर्मीया

स आत्मनः स्वस्यात्मनि मनसि, व्यतिक्रमोऽनेन कृत इत्यात्म-जायोत्थितमन्युमशीशमत् शमयामास । बहिर्न प्रकाशितवान् । प्रभुरिति तन्निगरणावगमवतो हेतुकसामर्थ्यमाह । लोके प्रभुर्वह्निनाशनमर्मज्ञ इति जनो वारिणा शमयेत्तथेति । अप्रभुर-समर्थो बालोऽपीति यावत् । वारिणा वह्निं यथाऽनायासेन शमयेत्तथाऽशीशमदिति शमना-नायासता सत्येवमन्वये ज्ञापिता भवतीति वा ज्ञेयम् ॥ ४ ॥

ततः कैलासमगमत् स तं देवो महेश्वरः ।

परिरब्धुं समारेभे उत्थाय भ्रातरं मुदा ॥ ५ ॥

पदरत्नावली

महेश्वर इति साङ्केतिकं नाम । अन्वर्थाङ्गीकारे प्रकृतानुपपत्तेः । भ्रातरं मुदेति भ्रातृशब्दप्रयोगाच्च ॥ ५ ॥

सत्यधर्मीया

ततस्तदनन्तरम् । अनुबन्धं परिरम्भणे भणति– भ्रातरमिति ॥ ५ ॥

नैच्छत् तमशुभाचार इति देवश्चुकोप ह ।

शूलमुद्यम्य तं हन्तुमारेभे तिग्मलोचनः ॥ ६ ॥

पदरत्नावली

श्मशानवासित्वेनाशुभाचार इति मत्वा ॥ ६ ॥

सत्यधर्मीया

अशुभाचारः श्मशानवेश्मा कपालपाणिरिति सोऽशुभाचार इति तं परिरम्भं नैच्छत् । तिग्मलोचनो देवस्तस्मै चुकोप । शूलमुद्यम्य हन्तुमारेभे च ॥ ६ ॥

पतित्वा पादयोर्देवी शमयामास१ तं गिरा ।

इति कृच्छ्रात् ततो मुक्तः कैलासाद् रजताचलात् ॥ ७ ॥

मुनिर्जगाम वैकुण्ठं यत्र देवो जनार्दनः ।

शयानं श्रिय उत्सङ्गे पदा वक्षस्यताडयत् ॥ ८ ॥

सत्यधर्मीया

देवी पार्वती । पादयोः पतित्वा गिरा तं हरं सान्त्वयामास । कृछ्रा-त्कष्टात्ततः पार्वतीप्रार्थनातो मुक्तः सन् । रजताचलात्कैलासात् । यत्र जनार्दनो देवस्तं वैकुण्ठं जगाम । श्रियो रमाया उत्सङ्गेऽङ्के शयानं तमिव सन्तं पदा वक्षस्यताडयत्तताड

॥ ७,८ ॥

तत उत्थाय भगवान् सह लक्ष्म्या सतां गतिः ।

स्वतल्पादवरुह्याशु ननाम शिरसा मुनिम् ॥ ९ ॥

सत्यधर्मीया

लक्ष्म्या सहोत्थाय स्वतल्पाच्छय्याया अवरुह्य तं मुनिं शिरसा ननाम

॥ ९ ॥

आह ते स्वागतं ब्रह्मन् निषीदात्रासने क्षणम् ।

अजानतामागसं नः क्षन्तुमर्हसि मानद ॥ १० ॥

पदरत्नावली

ते तुभ्यम् । निषीद उपविश । आगसमपराधम् ॥ १० ॥

सत्यधर्मीया

पदा ताडितः किमकरोद्धरिरित्यत ईरयति– आहेति । हे ब्रह्मन् । ते स्वागतम् । अत्रासने क्षणं निषीद । स्वस्मिंस्तेनाहते सत्यपीत्यप्यर्थः । अजानतामज्ञानां नोऽस्माकमागसमपराधसम्बन्धिनं कर्मविशेषमागसमागो वा क्षन्तुं मानदार्हसीत्याह । मा नद च प्रहारमात्रेणालं देव न शापादिशब्दं कुर्वित्यप्यर्थः ॥ १० ॥

पुनीहि सहलोकं मां लोकपालांश्च मद्गतान् ।

पादोदकेन भवतस्तीर्थानां तीर्थकारिणा ॥ ११ ॥

पदरत्नावली

अहमेव गतं गतिराश्रयो येषां ते मद्गतास्तान् । तीर्थकारिणा शुद्धिकारिणा । ‘तीर्थं शास्त्रेऽम्भसि पावने’ इति यादवः ॥ ११ ॥

सत्यधर्मीया

तीर्थानामपि तीर्थकारिणा तीर्थत्वकारिणा शुद्धिदेन भवतस्तव पादोद-केन मत्कृतावनेजनजलेन । सहलोकं मां तथा मद्गतान्मदन्तर्विद्यमानान् । विश्वम्भरत्वात् । लोकपालान् । अहं गतं गतिर्येषां तानिति वा । पुनीहि पवित्रय ॥ ११ ॥

अद्याहं भगवन् लक्ष्म्या आसमेकान्तभाजनम् ।

वत्स्यत्युरसि नो भूतिर्भवत्पादहतांहसि ॥ १२ ॥

पदरत्नावली

असुरजनमोहनायाह– ओति ॥ अद्याहं लक्ष्म्याः श्रिय एकान्तेन नियमेन भाजनं पात्रमासम् । भूतिर्लक्ष्मीः । ‘भूतिः श्रीजन्मभस्मसु’ इति च । नित्यकृतवासाऽपि अद्यप्रभृति वत्स्यति स्पष्टवासं करिष्यति । भवता नित्यशक्तेन पादेन ज्ञानेन हतं नष्टमंहो यस्मिंस्तत् तथा । नित्यसत्वज्ञानात्मकत्वेन दोषरहितमिति वा तस्मिन्निति तथा बाह्यार्थः । कथा यदि वाक्यार्थः ॥ १२ ॥

सत्यधर्मीया

साक्षान्मद्वक्षसि ताडने न तदेनश्शान्तिः स्यात्स्याच्च तत्फलं तम-आदिकम् । न मद्भक्तोऽयं तद्योग्य इति मतिः श्रीपतिः । जगज्जननीति जगति जननीनीतिः स्तनन्धैस्तत्पानकाले पदाघातेऽपि न रोषः किन्तु तोष इति तां स्वपोतभृगुचरणघातयोग्यां ततान । अथवाऽयं भृगुः सा भार्गवीति तन्मूलपुरुष इति रुषोरसि तदोकसि ताडनेऽपि न प्रत्यवेयात्स इति भाववान्हरिरेवं लीलां लालयंल्लपतीति लपति– अद्याहमित्यादिना । हे भगवन् । अद्याहं लक्ष्म्या एकान्तभाजनं बहिरप्रकाश्य रह एव तत्पात्रमासम् । किञ्चिल्लोक-मनुकुर्वन् भृगंु च मान्यं तन्वन्निव स्वं च ब्रह्मण्यदेवं दिदर्शयिषुर्भाषते ॥ भवत्पाद-हतांहसि– पादेन तत्स्पर्शेन हतमंहःपापं यस्य तत्तस्मिन् । उरसि भूतिर्महालक्ष्मीर्वत्स्यति

॥ १२ ॥

श्रीवत्समिति नामापि जायतां पादलक्षणम् ॥ १३ ॥

पदरत्नावली

श्रिया सहितवत्समुरः श्रीवत्सम् । ‘उरो वत्सं च वक्षश्च भुजान्तरमुदीर्यते’ इत्युत्पलमालाभिधानम् । पादलक्षणं पादाङ्कः श्रीवत्समिति नाम जायतामित्यन्वयः ॥१३॥

सत्यधर्मीया

तव पादलक्षणः । करणे ल्युडन्तो लक्षणशब्द इति लक्षण इति सम्भवति । तदङ्क इत्यर्थः । श्रीवत्स इति मितिर्ज्ञानं येन तन्नाम यस्य स श्रीवत्समिति-नामेत्येकं पदम् । एवञ्चेत् श्रीवत्सो लाञ्छनं मतमित्युक्तपुल्लिङ्गनिर्वाह इव सामानाधिकरण्य-दौर्घट्यपरासस्तथा जायतामित्यस्य सुललितोऽन्वयश्च सम्भवतीति विभावनीयम् । अवैरं वैरं स्यात्ताडनेऽपि जलानुज्वलनसमर्थस्य योगिनोऽपि कलेवरकालिमेव किञ्चित्प्रारब्ध-वशा-द्व्याघाताद्यापात इति ध्येयम् । पादस्य लक्षणं लाञ्छनं यस्य स उरःप्रदेशः । श्रीवत्समिति श्रीवत्स इति नाम प्रसिद्धो जायतामित्यपि व्याकुर्वते । तत्र लिङ्गमतन्त्रमिति ज्ञेयम् ॥१३॥

श्रीशुक उवाच—

एवं ब्रुवाणे वैकुण्ठे भृगुस्तत्सार्द्रया१ गिरा ।

निर्वृतस्तर्पितस्तूष्णीं भक्त्युत्कण्ठोऽश्रुलोचनः ॥ १४ ॥

दुर्घटभावदीपिका

वैकुण्ठे एवं ब्रुवाणे । भृगुस्तत्सार्द्रया तेन वैकुण्ठेन । वैकुण्ठ-दययेति यावत् । सार्द्रया सम्यगार्द्रया गिरा तर्पितः पुष्टो निर्वृतः सुखपूर्णो भक्त्युत्कण्ठोऽ-श्रुलोचनः सन् तूष्णीं बभूवेति । एतेन तद्दयार्द्रयेति वक्तव्यं तत्सार्द्रयेत्यनुपपन्नमिति दूषणं परिहृतम् । तच्छब्देन तद्दयां गृहीत्वा सार्द्रयेति स्थिते वकारलोपे (?) सार्द्रयेति रूपं जात-मित्यङ्गीकृत्य तत्सार्द्रयेत्यस्य तद्दयया सम्यगार्द्रयेत्यर्थस्योक्तत्वात् । एतेनैव निर्वृतस्तर्पित इत्ये-तत्पुनरुक्तमिति चोद्यस्यानवकाशः । तर्पित इत्यस्य सुखविशिष्ट इत्यर्थ इत्यनङ्गीकारात् । एतेनैव तूष्णीमित्येतदनन्वितमिति दूषणं निरस्तम् । अध्याहृतेन बभूवेत्यनेनान्वय इत्यभ्युप-गमात् ॥ १४ ॥

॥ इति श्रीभागवतटिप्पण्यां पञ्चनवतितमोऽध्यायः ॥ १०–९५ ॥

सत्यधर्मीया

अनन्त एवं वदति सति स भृगुः किमतनोदिति राजसमाजसंशयं व्यंसयन्वैयासकिराह– एवमिति । श्लोकद्विकमेकान्वयि । वैकुण्ठे भगवत्येवं बुवाणे सति । न विद्यते भृगुर्हरः सत्कर्ता यस्य सः । ‘भृगुः शुक्रे प्रपाते च जमदग्नौ पिनाकिनीति विश्वः । तदित्यव्ययम् । तस्य सार्द्रयाऽऽर्द्रत्वसहितया । मन्द्रयेति पाठे गम्भीरयेत्यर्थः । गिरा वाण्या निर्वृतः सुखितस्तर्पितो भक्त्युत्कण्ठो भक्तेरुत्कण्ठो यस्य स तथा । अश्रुलोचन आनन्दबाष्पनेत्रः ॥ १४ ॥

पुनः स्वसत्रमासाद्य मुनीनां ब्रह्मवादिनाम् ।

स्वानुभूतमशेषेण राजन् भृगुरवर्णयत् ॥ १५ ॥

सत्यधर्मीया

पुनः । स्वसत्रमित्यनेनैतस्यापि तत्राधिकारः सूचितः । मध्येऽध्वर-मध्वगमनं तत्त्वविवित्सापरवशतयाऽथवैतन्निश्चय एव प्रायश्चित्तरूप इति सम्भवति । भृगु-र्ब्रह्मवादिनां मुनीनां तान्प्रति स्वानुभूतं स्थानत्रयगमनानुभूतमशेषेणावर्णयत् ॥ १५ ॥

तं निशम्याथ मुनयो विस्मिता मुक्तसंशयाः ।

भूयांसं श्रद्दधुर्विष्णुं यतः शान्तिर्यतोऽभयम् ॥ १६ ॥

पदरत्नावली

भूयांसमत्युत्तमम् । यतो यस्माद् हरेः शान्तिर्मोक्षो मङ्गलं वा, पुंस इति शेषः ॥ १६ ॥

सत्यधर्मीया

मुनयस्तद्भृगुवाक्यं निशम्य श्रुत्वा विस्मिताः सन्तोऽथ मुक्तसंशयाः । यतो यत्र शान्तिः समाधानगुणः । यतो यस्माद्यत एतीति यंस्तस्य भृगोरभयं च तं विष्णुं भूयांसमतिश्रेष्ठं श्रद्धधुर्निश्चितवन्त इति यावत् ॥ १६ ॥

धर्मः साक्षाद् यतो ज्ञानं वैराग्यं च चतुर्विधम् ।

ऐश्वर्यं चाष्टधा यस्माद् यशश्चात्ममलापहम् ॥ १७ ॥

पदरत्नावली

एकान्तभक्तानां धर्मादिष्वनपेक्षालक्षणं वैराग्यमात्मनो मनसो मलनाशनम्

॥ १७ ॥

सत्यधर्मीया

यतो हरेः सकाशाद्धर्मो ज्ञानं चतुर्विधं वैराग्यं च । तच्चातुर्विध्यं च

‘‘वैराग्यमाद्यं यतमानसञ्ज्ञं क्वचिद्विरागो व्यतिरेकसञ्ज्ञः ।

एकेन्द्रियाख्यं हृदि रागसौक्ष्म्यं तस्याप्यभावस्तु वशीकृताख्यमिति’’

योगदीपिकोक्तेः ।

सामयिक्यः सञ्ज्ञा इति ज्ञेयम् । अष्टधैश्वर्यमणिमेत्यादिकम् । आत्ममलापहं यशश्च यस्माद्भवन्ति । साक्षात्स्वयोग्यतासादृश्येन । ‘साक्षात्प्रत्यक्षतुल्ययोः’ इत्यमरः । तं भूयांसं श्रद्दधुरिति वा ॥ १७ ॥

मुनीनां न्यस्तदण्डानां शान्तानां समचेतसाम् ।

अकिञ्चनानां साधूनां यमाहुः परमां गतिम् ॥ १८ ॥

सत्यधर्मीया

अनेकारिविवक्षया न्यस्तदण्डानामित्याद्युक्तिः । उत्तमास्तामरस-सम्भवादिकाः सम्भवत्सर्वस्वा यं परमां गतिमाहुः ॥ १८ ॥

सत्वं यस्य प्रिया मूर्तिर्ब्राह्मणास्त्विष्टदेवताः ।

भजन्त्यनाशिषः शान्ता यं वा निपुणबुद्धयः ॥ १९ ॥

पदरत्नावली

यस्य हरेः सत्वं गुणः प्रिया मूर्तिः प्रेष्ठप्रतिमा । यस्येष्टदेवता ब्राह्मणाः । अनाशिषो निष्कामाः ॥ १९ ॥

सत्यधर्मीया

यस्य सत्त्वं सत्त्वगुणः । प्रियेति प्रेष्ठमूर्तिः प्रतिमा । ब्राह्मणा इष्टदेवता अनाशिषो निष्कामा निपुणबुद्धयः कुशलमतयो यं भजन्ति ॥ १९ ॥

त्रिविधा मूर्तयस्तस्य राक्षसा असुराः सुराः ।

गुणास्तन्मायया सृष्टाः सत्वं तत्रार्यदर्शनम् ॥ २० ॥

पदरत्नावली

तत्र तेषु गुणेषु सत्वं नाम गुण आर्यं सर्वपूज्यं हरिं दर्शयतीत्यार्यदर्शनः, तद्विषयज्ञानोत्पादकः ॥ २० ॥

सत्यधर्मीया

सत्त्वस्य प्रियप्रतिमात्वव्यवस्थित्यै गुणत्रिकमुक्त्वा कार्यतः सत्त्ववर्यतां दर्शयति– त्रिविधा इति । तस्य तव मूर्तयस्त्रिविधाः । यतो गुणास्त्रिविधास्ततो मूर्तयो राक्षसा असुराः सुरा इति त्रिविधाः । तन्मायया मुख्यया तदिच्छयाऽमुख्यया प्रकृत्या च सृष्टाः । तत्र गुणत्रयमध्ये सत्त्वगुण, आर्यस्य जगदार्यस्य दर्शनं यस्मात्तत् । अर्यं स्वामिनं दर्शयतीति तत्तथा वा । अर्यः स्वामिवैश्ययोरिति निपातनात् ॥ २० ॥

श्रीशुक उवाच—

इत्थं सारस्वता विप्रा नृणां संशयनुत्तये ।

पुरुषस्य पदाम्भोजसेवया तद्गतिं गताः ॥ २१ ॥

पदरत्नावली

यत् फलावसायि तदेव प्रमाणपदवीमध्यास्ते इति भावेन फलमाह– इत्थमिति । सारस्वताः सरस्वतीतीरवासिन इत्थं नृणां संशयनिरासाय प्रवृत्ताः पुरुषस्य हरेर्मतिं ज्ञानं तेन वैकुण्ठं गताः ॥ २१ ॥

सत्यधर्मीया

सरस्वत्या इमे सारस्वताः । विप्रा इत्थं नृणामितरेषाम् । अनेन स्वयं निश्चिततत्त्वा अपि लोकोपकारार्थं प्रेषयामासुर्भृगुमिति ध्वन्यते । तद्गतिं पुरुषगतिम् । गताः ॥ २१ ॥

इत्येतन्मुनितनयस्य पद्मगर्भपीयूषं भवभयभित् परस्य पुंसः ।

सुश्लोकैः श्रवणपुटैः पिबन्नभीक्ष्णं पान्थोऽथ भ्रमणपरिश्रमं जहाति ॥ २२ ॥

॥ इति श्रीमद्भागवते दशमस्कन्धे पञ्चनवतितमोऽध्यायः ॥

पदरत्नावली

आख्यानफलमाह– इतीति ॥ मुनितनयस्य पद्मगर्भपीयूषं मुखकमलोदर-निःसृतसुधाधारोपचितं परस्य पुंसः सुश्लोकैराकलितमेतदाख्यानं श्रवणपुटैर् अभीक्ष्णं पिबन् यो वर्तते अथ स पान्थ इदं सुखसाधनमदो वेति परिभ्रमणेनेतस्ततः पर्यटनेन प्राप्तं परिश्रमं जहातीत्यन्वयः ॥ २२ ॥

॥ इति श्रीमद्भागवतटीकायां विजयध्वजतीर्थकृतायां पदरत्नावल्यां

दशमस्कन्धे उत्तरार्धे पञ्चनवतितमोऽध्यायः (स.धर्म.१०–९५) ॥

सत्यधर्मीया

इदमाख्यानं प्रहर्षणीयं श्रोत्रमिति तत्फलमभिलपति– इतीति । मुनेः श्रीव्यासस्य तनयः शुकस्तस्य । उपमानेनोपमेयग्रहः । पद्मवद्विद्यमानं यदाननं तस्य गर्भा-न्मध्यान्निःसृतं पीयूषममृतं तद्वत्सत् । परस्य पुंसः परमपुरुषस्य । सुश्लोकैर्यशोविशेषैः सहितमेतदाख्यानं भवभयं संसारात्त्रासं भिनत्तीति तत्तथा । श्रवणपुटैरभीक्ष्णमनेकवारं पिबन्पान्थः संसाराध्वगो भ्रमणपरिश्रमं पुनः पुनः कायापादककर्मनिमित्तपरिभ्रमश्रमं जहाति । मुक्तो भविष्यतीति यावत् ॥ २२ ॥

॥ इति श्रीसत्यधर्मयतिकृतायां भागवतटिप्पण्यां दशमस्कन्ध उत्तरार्धेे

पञ्चनवतितमोऽध्यायः ॥ १०–९५ ॥