२० चतुर्नवतितमोऽध्यायः

देवासुरमनुष्येषु ये भजन्त्यशिवं शिवम्

॥ अथ चतुर्नवतितमोऽध्यायः ॥

राजोवाच—

देवासुरमनुष्येषु ये भजन्त्यशिवं शिवम् ।

प्रायस्ते धनिनो ब्रह्मन् न तु लक्ष्मीपतिं हरिम् ॥ १ ॥

पदरत्नावली

शिवं भजन् तामसाद्यन्यतमो विष्णुं निषेवमाणः सात्विक एव, शिव-स्याप्यन्यापरिहार्यापत्तिसमुच्छित्तिकरो नारायणः, किमुतेतरेषामित्यर्थसारं वृकासुराख्यायिकया ख्यापयति । तत्र राजा आख्यायिकामुत्थापयितुं पृच्छति– देवासुरेति ॥ दिगम्बरत्वेन लोक-दृष्ट्या अशिवमशुद्धत्वेन प्रतीयमानम् । निर्धनं वा । ‘शिवो लोके पद्मरागे हरे काले शिवे जले’ इत्यतः पद्मरागराहित्येन निर्धनत्वं लक्ष्यते । अशिवमलीकमनर्गलम्, सर्ववरप्रदमित्यर्थः । लक्ष्मीपतिमित्यनेन धनित्वमुपलक्षयति । तथापि तद्भक्ता धनिनो न भवन्ति ॥ १ ॥

दुर्घटभावदीपिका

हे ब्रह्मन् । देवासुरमनुष्येषु येऽशिवमाद्धरेः शिवं मङ्गलं यस्य तम् । हर्यधीनभाग्यसम्पन्नमिति यावत् । शिवं रुद्रं भजन्ति ते प्रायो धनिनो भवन्ति । ये लक्ष्मीपतिं लक्ष्म्यास्तदपेक्षयाऽत्युत्तममाया भाग्यदेवतायाः पतिम् । पराधीनभाग्यमिति यावत् । हरिं भजन्ते ते प्रायो धनिनो न तु नैव भवन्तीति । एतेन रुद्रस्य भगवदनुग्रहेण परममङ्गल-रूपत्वाद्भागवतोत्तमेन परीक्षिद्राजेनाशिवं शिवमिति शिवस्यामङ्गलत्वकथनमयुक्तमिति शङ्काऽ-नवकाशः । अशिवमित्यस्यामङ्गलमित्यर्थ इत्यनङ्गीकारात् ॥ १ ॥

सत्यधर्मीया

श्रुतश्रुतदेवसद्वर्त्मोपदेश इव श्रुतेश्वरप्रतचित्तः परीक्षित्स्वपरीक्षितकारणं तदाननतो निर्णिनीषुः पृच्छति । पृष्टः शुको वृषवाहवृकासुराख्यानेन समाधत्ते तमित्ये-तदध्याये प्रतिपाद्यते । तत्रादौ राजा वदतीति वदति– राजेति । देवासुरमनुष्येष्वधिकारिषु येऽशिवं सर्वौत्तम्येनार्हणानर्हं स्मशानवासित्वादेर्वाऽशिवं शिवं भजन्ति प्रायस्ते धनिनः । लक्ष्मीपतिं हरिं भजन्ति ते तु प्रायो न धनिनः । लक्ष्मीपतिमिति धनिकतां कटाक्षयति– अशिवमिति । शिवं सुखं तन्न विद्यते यस्य स इत्यसम्पत्कतां लक्षयति । प्राय इति ॥ स्वस्मिन्न तथेति स्वयं स्वसदृशाश्च केचिद्व्यावर्त्या इत्यभिप्रैति ॥ १ ॥

एतद् वेदितुमिच्छामि सन्देहोऽत्र महान् हि नः ।

विरुद्धशीलयोः प्रभ्वोर्विरुद्धां भजतोर्गतिम् ॥ २ ॥

पदरत्नावली

एतद् धनित्वाधनित्वतत्त्वम् । सन्देहे तन्निरासप्रयत्नो घटते तदभावे व्यर्थ इत्यत्राह– सन्देह इति ॥ न चायमौपचारिक इत्याह– महानिति ॥ सन्देहबीजान्तरमाह– विरुद्धेति ॥ श्मशाने पिशाचगणैः परिवृतत्वेनाटनशीलं रुद्रस्य, इन्द्रादिदेवैः परीतत्वेनावस्थानं हरेः, असुरादीनामपि वरदानेच्छावत्त्वेन गतित्वमाश्रयत्वम् ईशानस्य, देवादीनां समृद्धिचिकीर्षुत्वेन हरेः । तथा चात्र प्रभ्वोः समर्थयोर्विषये महानस्माकं सन्देहोऽस्ति । हि यस्मात् । तन्निरसनप्रयासः सार्थक इत्यर्थः ॥ २ ॥

सत्यधर्मीया

विरुद्धशीलयोः कपालवैजयन्तीमालयोरित्यादिविरुद्धस्वभावयोर्विरुद्धां गतिं सुरासुराद्यधिकारिवैशेष्येण विलक्षणगतिं भजतोः प्रभ्वोः समर्थयोरनयोरर्थे महानितरातार्यपरः सन्देहो न मदादीनां हि यतोऽस्ति तत एतद्वेदितुमिच्छामि ॥ २ ॥

श्रीशुक उवाच—

शिवः शक्तियुतः शश्वत् त्रिलिङ्गो गुणसंवृतः ।

वैकारिकस्तैजसश्च तामसश्चेत्यहं त्रिधा ॥ ३ ॥

ततो विकारा अभवन् षोडशामीषु पञ्चसु ।

उपाधावन् विभूतीनां सर्वासामश्नुते गतिम् ॥ ४ ॥

हरिस्तु निर्गुणः साक्षात् पुरुषः प्रकृतेः परः ।

स सर्वदृगुपद्रष्टा तं भजन् निर्गुणो भवेत् ॥ ५ ॥

पदरत्नावली

जीवानां त्रैविध्यं केनाप्यनभिभूतं प्रमितं देवासुरमनुष्येष्वित्यनेन सूचितम् । तत्र शिवः स्वल्पसम्पृक्तसत्वेन बहुलेन तमसा रजसा च स्पृष्टत्वेन तदनुसृतस्वभावत्वेन हरिनियतप्रकृतिबद्धत्वेन तत्तत्प्राणिस्वभावसेवानुगुणफलदानक्लृप्तत्वेनावश इव तादृशं फलं वितरति । हरिस्तु स्वाधीनसत्वादिगुणत्वेन तत्प्रवर्तकत्वेन तच्छक्त्यनुपहतशक्तित्वेन प्रकृतिपरत्वेन तन्निर्मित-शरीररहितत्वेन तत्स्वभावाभावेन कूटस्थत्वेन नित्यनिर्दोषज्ञानानन्दतनुत्वेन स्वसेवकेभ्यः स्वानुगुणं फलं प्रयच्छतीति भावेन परिहरति– शिव इत्यादिना ॥ शक्तियुतः प्रकृतिसम्बद्धः । अत एव शश्वत् त्रीणि लिङ्गानि वैकारिकादीनि यस्य स तथा । ननु प्रकृतेरेकत्वेन तत्सम्बन्धेनैक-विध्यमेवोचितं न त्रैविध्यम् । अन्यथा चातुर्विध्यं किं न स्यादित्यत उक्तम्– गुणसंवृत इति ॥ गुणानां त्रित्वात् तत्सम्बन्धेन त्रित्वं युक्तं न चातुर्विध्यादिकम् । सूचितं त्रैविध्यं स्पष्टयति– वैकारिक इति ॥ अहम् अहङ्कारात्मको रुद्रः ॥

ततोऽहङ्कारात् षोडश विकाराः, अभवन्निति शेषः । पञ्चभूतानि दशेन्द्रियाण्येकं मनः । ननु किमायातं प्रकृत इति तत्राह– अमीष्विति ॥ यो भूतानां मध्ये अमीषु पञ्चस्वाकाशादि-ष्वधिष्ठानप्रकारेषु निधाय्य शिवमुपाधावन् सेवमानो भवति स पुरुषस्तस्मात् सर्वासां विभूतीनां गतिं सेवानुसारेण फलमश्नुते । अत्र ग्रन्थबाहुल्यभयाद् विशेषविशदीकरणादुपरम्यते ॥

तुशब्देन सत्वादिगुणराहित्यमेव न तु ज्ञानादिगुणराहित्यं विवक्ष्यते । तथात्वे सर्व-दृगित्याद्यनुपपन्नं स्यात् । हरिरविनश्वरं फलं ददाति रुद्रस्त्वनित्यं दुःखोदर्कं ददातीत्यादि विशेषं वा दर्शयति । उपद्रष्टा साक्षी, सर्वेभ्यो द्रष्टृभ्योऽधिकं द्रष्टा वा । ‘नान्योऽतोऽस्ति द्रष्टा’ इति श्रुतेः ॥ ३५ ॥

दुर्घटभावदीपिका

यस्माच्छिवो शश्वत्सर्वदा शक्तियुक्तो भगवच्छक्तियुक्तस्त्रिलिङ्ग-स्त्र्यहङ्कारदेहो गुणसंवृतः सत्त्वादिगुणयुक्तः, कारणात् षोडश पञ्चभूतानि दशेन्द्रियाणि मनश्चेति षोडशविकाराः कार्याणि शिवादभवन् । अतोऽमीषु वर्त्मसु षोडशविकारसम्बन्धिविषयभोग-प्रकारेषूपाधावन्नानाप्रकारविषयभोगेच्छां कुर्वन्पुरुषः शिवमुपधावन् भजन्सर्वासां विभूतीनामैश्वर्याणां गतिं प्रभेदमश्नुते प्राप्नोति । नन्वहङ्कारस्य त्रित्वाभावात्त्रिलिङ्ग इत्यनुपपन्नमित्यत आह– वैकारिक इति ॥ यतोऽहमहङ्कारो वैकारिकस्तैजसश्च तामसश्चेति त्रिधाऽतस्त्रिलिङ्ग इत्यननु-पपन्नमिति शेषः । अनेन शिवो हरिशक्त्या स्वाधीनानि नश्वरैश्वर्याणि तत्कामनया स्वभक्तेभ्यो ददातीत्युक्तं भवति । तुशब्दो यस्मादित्यर्थे । यस्मात्स हरिः प्रकृतेर्जडाजडप्रकृतेः पर उत्तमोऽत एव साक्षान्मुख्यतो निर्गुणः प्रकृतिकार्यसत्त्वादिगुणरहितः पुरुषः स्वतन्त्रपुरुषः सर्वदृगुपद्रष्टा सर्वसाक्षात्कारविशिष्टेभ्यो रमादिभ्योऽधिकद्रष्टा । उपलक्षणमेतत् । अप्राकृतसकलसम्पन्नगुणः । तस्मात्तं भगवन्तं भजन्निर्गुणः सत्त्वादिगुणकार्यनश्वरैश्वर्यरहितः । उपलक्षणमेतत् । अप्राकृत-मित्यैश्वर्यसहितश्च भवेत् । अनेन हरेर्नित्यैश्वर्यमित्युक्तं भवति । एतेन सर्वदृगुपद्रष्टेति पुनरुक्त-मिति चोद्यं परिहृतम् । सर्वदृगुपद्रष्टेति भिन्नं पदमित्यङ्गीकृत्य पदद्वयेनापि सर्वद्रष्टृत्वमुच्यत इत्यनङ्गीकारात् ॥ ३५ ॥

सत्यधर्मीया

शिवेनैवङ्करणे प्रयोजकमिदमित्याह– शिव इति । शक्तिः प्रकृतिस्तया युतो युक्तस्तद्बद्ध इति यावत् । त्रीणि लिङ्गानि यस्य सः । गुणसंवृतः सत्त्वादिगुणयुतः । इदं तूत्तरत्रवक्ष्यमाणप्रकारत्रयसम्भावकमिति मन्तव्यम् । मुक्तावेतस्य शेषतयाऽवशेषा-दित्युक्तिः । त्रैविध्यं शृृङ्गिग्राहकतयाऽऽह । अहमहङ्कारतत्त्वात्मा पदार्थो वैकारिकस्तैजस-स्तामसश्चेति त्रिधेति । अतस्त्रिलिङ्गः शिव इति प्रकृत्यादिसंवृत इति सोऽशाश्वतिकैश्वर्य-मीश्वरो वितरतीति तात्पर्यम् । अहङ्कार इत्याद्यनुक्त्वोक्त्वा चाहं त्रिधेति शिवात्मकतां स्फोरयतीत्यान्तरङ्गिकोऽर्थः ॥

ततोऽहंतत्त्वात् । षोडश विकारा दशेन्द्रियाणि पञ्चभूतानि मन एकमिति । अमीष्वे-तत्सम्बन्धिषु वर्त्मसु मार्गेषु संसार इति यावत् । उपाधावन्विवशः शिवो धावन्सर्वासां विभूतीनां प्रति सम्पदां गतिमश्नुते । किञ्चित्सत्त्वेन तदधिकरजसा ततोऽधिकतमसा च सम्पृक्तो हर इति तमुपाधावन्सेवमानो मानवोऽपि सर्वासां विभूतीनाम् । बहुवचनमाद्यर्थे । सुखदुःखादिप्रकृतिविलासानां गतिमश्नुते । ततस्तदनन्तरं तासां गतिं निवृत्तिमश्नुत इत्यावृत्त्या दातृप्रतिगृहीतृस्वभावावेदनं कृतमिति ज्ञेयम् ॥

न तु लक्ष्मीपतिं हरिमित्युत्तरयितुमुपोद्धातमभिधत्ते– हरिस्त्विति । प्रकृतेः परः । मुक्ता अपि तथेत्यत उक्तं– साक्षादिति । निर्गुणः स्वव्यतिरिक्तगुणा वा गुणाः सत्त्वाद्यास्तद्रहित इति वा । सर्वदृक् सर्वज्ञः । तं यो भजन्ननन्तरमुपद्रष्टाऽपरोक्षतो जानाति स निर्गुणः सत्त्वादिविकलो लिङ्गभङ्गयुक् मुक्त इति यावत् । भवेत् ॥ ३५ ॥

निवृत्तेष्वश्वमेधेषु राजा युष्मत्पितामहः ।

शृण्वन् भगवतो धर्मानपृच्छदिदमच्युतम् ॥ ६ ॥

पदरत्नावली

न धनित्वं फलं ददातीत्यस्य कथं परिहार आगतः ? तं वक्तुमुपक्रमते– निवृत्तेष्विति ॥ ६ ॥

सत्यधर्मीया

युष्मत्पितामहो धर्मराजोऽश्वमेधेषु स्वकृतक्रतुषु निवृत्तेषु समाप्तेषु । ननु राजा वाजिमेधेनैकेनैव लोकप्रवेकमता दीप्सितेनेति ‘वाजिमेधेन यक्ष्यामि’ इत्यादि-नाऽवसीयतेऽतः कथमिदमश्वमेधेष्वित्यभिधानमिति चेत् । अत्र केचित् । उत्तमकल्पजल्पित-त्रिगुणद्रविणदक्षिणावितरणादेक एव यागोऽनेकफलयोगेन त्रितयात्मा जात इति तदुपपत्तेः । तथा ह्याश्वमेधपर्वणि–

सत्यवत्यात्मजो मुनिः …… ……… ।

युधिष्ठिरं समभ्येत्य वाग्मी वचनमब्रवीत् ।

अहीना नाम राजेंद्र क्रतुस्तेऽयं च कल्प्यताम् ।

बहुत्वात्काञ्चनस्यास्य ख्यातो बहुसुवर्णकः ।

एवमत्र महाराज त्रिगुणां दक्षिणां कुरु ।

त्रित्वं व्रजतु ते राजन्ब्राह्मणा ह्यत्र कारणम् ।

त्रीनश्वमेधानत्र त्वं सम्प्राप्य बहुदक्षिणान् ।

ज्ञातिवध्या कृतं पापं प्रहास्यति नराधिप । इति ।

एवञ्चेन्महाभारततात्पर्यनिर्णये–

तद्यज्ञपञ्चकमजस्त्रिगुणं स एभ्यः सद्दक्षिणां क्रतुपतिर्निखिलामवाप्य ।

चक्रेऽश्वमेधत्रयमेकमेकं तेषां हरिर्बहुसुवर्णकनामधेयम् ।

स एव मह्या हरिदैवतः क्रतुः पञ्चाश्वमेधात्मक उच्चकल्पः ।

दिने दिने स्वृद्धगुणो बभूव मुदावहो वत्सरपञ्चकं त्रयम् ॥

इत्युक्तेस्तद्दौर्मुख्यान्न तद्युक्तम् । तर्हि कथं कथयतोभयैककण्ठ्यमिति चेत् । शृृणु । इदमत्राकूतम् । पञ्चक्रतवः पञ्चभिः कृताः पञ्चानां तरतमभावेन फलाभाक्त्वात् । एकैककृतः क्रतुः संवत्सरत्रिकसमाप्तिक इव त्रिगुणदक्षिणाकश्चेति पञ्चदशात्मा भवति । कालोऽपि तत्समसंवत्सरात्मा । चक्रेऽश्वमेधत्रयमुत्तममेकमेकं तेषां हरिरिति समेषामितरेषां ज्ञायते राज्ञ इवाधिकारः । तथा पञ्चेन्द्रा इव राजत्स्विति वचनाच्च । भारते तु राजत्वादेतदग्रजत्वात्स एक एवोक्तः ।

आचार्यास्तु ‘समस्तशास्त्रार्थविनिर्णयोऽयं विशेषतो भारतवर्त्मचारि’ इति स्वोक्तं सुष्मूर्षवो ग्रन्थान्तरस्थमितरचतुःसवं न्यभान्त्सुः । ‘एकोऽपि गोविन्दकृतप्रणामो दशाश्वमेधावभृथेन तुल्य’ इत्यादेः । साक्षादधोक्षजेऽध्यक्षसिद्धे तद्बाहुविध्ये किमान्ध्यम् । दक्षिणादेस्त-द्विलक्षणताकारणत्ववर्णनं तु स्थूलदृष्टिविवक्षयेति सूचनार्थं तत्रानुक्तिः । न हि भारत-भारतीविषय एकः सव इतरप्रतिषेधे सहः । तत्राप्येतदुपलक्षणसम्भवात् । एकवचनं तु क्वाचित्कं जात्यभिप्रायम् । वासुदेवैकदैवताकत्वाद्वोपपन्नम् ।

एवमेव यादवाचार्या अपि प्रथमस्कन्धस्याष्टमे दशमे चाध्याये ‘याजयित्वाऽश्वमेधैस्तं त्रिभिरुत्तमकल्पकैः’ इति श्लोकद्विकस्य त्रिभिस्त्रिगुणफलैः पञ्चभिरिति शेेषः । पञ्चानां त्रिगुणफलत्वोपपादनायोत्तमकल्पकैरित्युक्तम् । दक्षिणादिविहितोत्तमकल्पयुतैरित्यर्थ इत्येत-द्व्याख्यायैतत्समाख्यात्वेनास्माभिरुदाहृतश्लोकमुदाहृतवन्तः । न च ‘तावत्याऽयोजितृप्त्या किमु वद भगवन् राजसूयाश्वमेध’ इति वायुस्तुती राजसूयसहितमश्वमेधमेकमभिदधती कथमध्वनीना स्यादिति शङ्क्यम् । राजसूयाश्चाश्वमेधाश्च तेषां समाहारः । स नपुंसकमिति नपुंसकतायां राजसूयाश्वमेधम् । तस्मिन्निति व्युत्पत्त्युपपत्त्या तस्याश्चैतत्सरण्यनुसरणसम्भवादित्यलम् । युष्मत्पितामह इत्यत्र युष्मदित्येकं विनेयं प्रत्युक्तिरनेकताऽस्यैकस्य गुणैरिति ध्वनयितुमिति ज्ञेयम् । भगवतः कृष्णाद्धर्मान्शृृण्वन्नच्युतं प्रतीदं त्वत्पृष्टमेव प्रमेयमपृच्छत्पप्रच्छ ॥ ६ ॥

स चाह भगवांस्तस्मै प्रीतः शुश्रूषवे प्रभुः ।

नृणां निःश्रेयसार्थाय योऽवतीर्णो यदोः कुले ॥ ७ ॥

पदरत्नावली

भूभारहरणाय प्रवृत्तेन धर्मकथनं क्वोपयुज्यत इत्यत्राह– नृणामिति ॥ अनेन न केवलमवतारप्रयोजनं भूभारहरणमपि तु नृणां संसारनिर्मूलनलक्षणनिःश्रेयसं चेत्युक्तं भवति ॥ ७ ॥

सत्यधर्मीया

यश्च यदोः कुले नृणां निःश्रेयसार्थाय मुक्तयेऽवतीर्णः सः शुश्रूषवे श्रोतुकामाय सेवमानाय च तस्मै प्रीतः प्राहावदत् । अवतारप्रयोजनं भूभारहरणमिव सन्निः-श्रेयसमिति चोक्तं भवत्यनेन ॥ ७ ॥

श्रीभगवानुवाच—

यस्याहमनुगृह्णामि हरिष्ये तद्धनं शनैः ।

ततोऽधनं त्यजन्त्यस्य स्वजना दुःखदुःखिनम्१ ॥ ८ ॥

पदरत्नावली

अनुग्रहं कर्तुं शनैर् यावद्यावत् प्रेम वर्धते तावत्तावद् धनं हरिष्ये । धनस्य मदहेतुत्वादेतद्धरणम् । तत्फलमाह– तत इति ॥ अस्याधनस्य स्वजना दुःखदुःखितं दुःखातिशयोपेतमेनमधनं त्यजन्ति ॥ ८ ॥

सत्यधर्मीया

तदेव देववचनमाह– यस्येति । अहं यस्येति शैषिकी षष्ठी । यमनु-गृह्णाम्यनुग्रहं कर्तुं कामयामि तस्य शनैस्तद्धनं हरिष्ये । तद्धरणफलं लपति– तत इति । ततो द्रविणहरणानन्तरमधनं तद्रहितम् । अस्य स्वजना भार्यादयो दुःखदुःखं सञ्जातमस्येति तमतिदुःखं त्यजन्ति । द्रविणगणे सति गणो न चेज्जनत्यजनमिति भावः । न चानेनैव हेया इत्यप्याह– अस्यस्वजना इति । अस्या निरस्याश्च ते स्वजनाश्च ते ॥ ८ ॥

स यदा वितथोद्योगो निर्विण्णः स्याद् धनेहया ।

मत्परैः कृतमैत्रस्य करिष्ये तदनुग्रहम् ॥ ९ ॥

पदरत्नावली

ततो धनाभावात् स यदा धनेहया वितथोद्योगो निर्विण्णः स्यात् तदा मत्परैः कृतमैत्रस्य तस्यानुग्रहं मुक्तिलक्षणं करिष्य इत्यन्वयः ॥ ९ ॥

सत्यधर्मीया

स यदा धनेहया वितथोद्योगस्तथा फलपर्यवसायी नेति वितथो व्यर्थ उद्योग यस्य स सन् । धनेहया द्रव्येच्छया निर्विण्णः स्यात्सम्पादितवैराग्यो भवेत् । तथा मत्परैरहं परो येषां ते मत्परा एकान्तिनस्तैः कृतमैत्रस्य । तदनुग्रहं तेषां मत्पराणामुपरि क्रियमाणानुग्रहसदृशमनुग्रहं करिष्ये ॥ ९ ॥

तद् ब्रह्म परमं सूक्ष्मं चिन्मात्रं सदनन्तकम् ।

अतो मां सुदुराराध्यं हित्वाऽन्यान् भजते पुनः ॥ १० ॥

पदरत्नावली

यतोऽहं भजमानस्य धनं हरिष्यामि अतस्तत् परमं ब्रह्म वेदान्तवेद्यं सूक्ष्मं नित्याव्यक्तं चिन्मात्रं प्रकृतिप्राकृतवैकृतज्ञानशून्यं सत् प्रशस्तमनन्तकमन्तत्रयवर्जितं सुदुराराध्यं मां हित्वा अन्यान् भजते । परमब्रह्मत्वादयः सुदुराराध्यत्वे हेतवः ॥ १० ॥

सत्यधर्मीया

यतोऽहं धनहर्ताऽतस्तद्व्याप्तं, ब्रह्म गुणपूर्णं, परमं सर्वोत्कृष्टं, महामतिं बहुसम्पदं वा । सूक्ष्ममणुतरं, चिन्मात्रं ज्ञानधनं, सत्तन्नामकं साधुभावोपेतं वाऽनन्तक-मन्तत्रयातीतं सन्तोऽनन्तका अनसि विष्णुसुखा येन तं वा । इयत्या गुणायत्या सुदुराराध्यं मां हित्वाऽन्यान्मच्चेष्ट्यान् । अन्यान्क्षिप्रप्रगच्छदनच्छसुखप्रदान्सदाशिवादीन्भजते पुनर्भजत एव ॥ १० ॥

ततस्त आशुतोषेभ्यो लब्धराज्यश्रियोद्धताः ।

प्रमत्ता वरदान् देवान् विस्मरन्त्यवजानते ॥ ११ ॥

पदरत्नावली

अन्योपासकास्ते मद्धानवत् तान् देवानपि जहतीति भावेनाह– तत इति ॥ यतो मामवज्ञायान्यानुपासते, अत एव दोषात् ॥ ११ ॥

सत्यधर्मीया

एकवचनं जात्यभिप्रायमिति ममाभिप्राय इति तथा । यथा मत्त्याग-स्तथा तत्त्यागोऽपि मतोनासम्भवति तेषामित्याह– तत इति । सदाशिवाद्युपासकाः । आशुतोषेभ्यः सत्वरं तुष्यद्भ्यः । लब्धराज्यश्रिया उद्धताः प्रमत्ताः सन्तोऽल्पीयसि सम्पत्कालेऽपि तान्वरदान्देवान्विस्मरन्ति । न केवलं तन्मात्रं किन्त्ववजानते च ॥११॥

श्रीशुक उवाच—

शापप्रसादयोरीशा ब्रह्मविष्णुशिवादयः ।

सद्यः शापप्रसादोऽङ्ग शिवो ब्रह्मा च नाच्युतः ॥ १२ ॥

पदरत्नावली

देवेषु के शापप्रसादसमर्थास्तत्रापि सद्यःशापप्रसादाः क इति तत्राह– शापेति ॥ १२ ॥

सत्यधर्मीया

शृृङ्गग्राहिकया तान्वदेति वक्तुमवसरमवितरन्विलम्बासहनतः स्वयमेव शुको वक्ति– शापेति । ब्रह्मविष्णुशिवादयो ब्रह्मा च विष्णुश्च शिवश्च ब्रह्मविष्णुशिवास्ते च ते आदयश्च कारणनीत्यर्थः । उत्तरत्र त्रीष्वधीशेष्वित्युक्तिस्वारस्यात् । बहुष्वनियम इत्युक्ते-र्विष्णुशब्दो मध्ये निबद्धः । द्वन्द्वाद्यन्तत्वेन वाऽभ्यर्हितत्वेन वाऽऽदौ निर्देष्टव्यस्य विष्णु-शब्दस्य निबन्धनमुभयोरप्ययमुपजीव्यतया मध्यस्थस्तच्छब्दार्थो हरिरिति ध्वनयितुं वैवं निर्देशः । शापप्रसादयोरीशास्तद्दानस्वामिनः । प्रसादस्य पुरा प्रस्तुतत्वेऽपि शापपुरस्करणं तस्यैव भूयस्त्वख्यापनायेति ज्ञेयम् । तत्र विवेकमाह– सद्य इति । शापप्रसादः । सद्यः शापप्रसादौ यस्य सः । तात्कालिकशापप्रसादः शिवो ब्रह्मा च । सद्यः शापप्रसादविति निर्देशे हरहिरण्यगर्भसम्बन्धिनोः शापप्रसादयोः साम्यप्रतीतिः स्यात्सा च न सम्भवतीति ध्वनयितुं पृथङ्निर्देशः । अच्युतः सद्यः शापप्रसादकृन्न ॥ १२ ॥

अत्रैवोदाहरन्तीममितिहासं पुरातनम् ।

वृकासुराय गिरिशो वरं दत्वाऽऽप सङ्कटम् ॥ १३ ॥

पदरत्नावली

शिवः सद्यःशापप्रसाद इत्येतत् कथमित्यत्रेतिहासं वक्ति– अत्रेति

॥ १३ ॥

सत्यधर्मीया

इत्येवं प्रकारेण हासोपहासो येन तमितिहासमित्यर्थः । पुरातनं पुरात्स्वपुरात्कैलासनगर्या अतनं तत्त्यक्त्वा भ्रमणं येन तम् । वरमित्यस्य विशेषणमिति न पुरातनपदातिरेकः । इतिहासः पुरावृत्तमित्युक्तेः । वृकासुराय तस्यैव भस्मासुर इति नाम । सङ्कटं प्राणसंशयमाप । सद्यः शापप्रसादः सदाशिव इत्येतदितिहासमुखेन शंसति– अत्रा-पीति । उदाहरन्तीति बहुसम्मतिमाचष्टे ॥ १३ ॥

वृको नामासुरः पुत्रः शकुनेः पथि नारदम् ।

दृष्ट्वाऽऽशुतोषं पप्रच्छ देवेषु त्रिषु दुर्मतिः ॥ १४ ॥

सत्यधर्मीया

शकनेस्तन्नाम्नो दनुजस्य । पथि मार्गे । नारदं सुरमुनिं दृष्ट्वा । त्रिषु देवेषु हरिहरहिरण्यगर्भेषु । आशुतोषं सत्वरवरप्रदम् ॥ १४ ॥

स आदिदेश गिरिशमुपाधावस्व सिद्धये ।

सोऽल्पाभ्यां गुणदोषाभ्यामाशु तुष्यति कुप्यति ॥ १५ ॥

सत्यधर्मीया

नारदः सिद्धये फलार्थम् । गिरिशमुपधावस्व । स गिरिशोऽल्पाभ्यां गुणदोषाभ्यामाशु तुष्यति गुणेन । दोषेण त्वमुष्मै दोषिणे कुप्यति चेति दिदेश । पूर्वं शापप्रसादेत्यानुपूर्व्यनुरोधेन दोषगुणाभ्यां तथा कुप्यति तुष्यति चेति वक्तव्यं तथाऽपि प्रस्तुतस्तु गुणव्यापार इति द्योतनायैवमुक्तिः ॥ १५ ॥

दशास्यबाणयोस्तुष्टः स्तुवतोर्बन्दिनोरिव ।

ऐश्वर्यमतुलं दत्त्वा तत आप सुसङ्कटम् ॥ १६ ॥

सत्यधर्मीया

विश्वेश्वरविश्वासजननाय निदर्शनेन दर्शयति– दशास्यबाणयोरिति । बन्दिनोरिव स्तुवतोर्दशास्यबाणयोरुपरि तुष्टो वरं दत्वा । ततो वरदानात्सङ्कटं कैलासौ-त्कीलनपुरपालनारूपमाप । महतां स्वात्मक्लेशं सोढ्वोढ्वा परप्रयोजनभरं स्वभाव इति द्योतयितुमेतदुपन्यसनमिति भावः । अपसङ्कटं वरं दत्वा सङ्कटमापेत्यावृत्त्याऽन्वयः । नन्वेवं तर्हि रामायणे उत्तरकाण्डे कैलासोत्कीलनानन्तरं हरवरप्रदानोक्तिरेतद्विस्तर इति चेत् । तत्पूर्वमपि तपश्चर्यावरदानयोः पद्मपुराणोक्तिः । तथा हि तत् ।

रावणः कुम्भकर्णश्च हिमवत्पर्वतोत्तमे ।

महोग्रतपसा मां तु पूजयामासतुः प्रिये ।

रावणोऽतिदुष्टात्मा छित्वा नव शिरांसि माम् ।

अर्चयन्दशमं मौलिं छेत्तुमेच्छत….. ।

ततस्तमब्रुवंस्तुष्टो दृष्ट्वा तत्कर्म दारुणम् ।

वृणीष्व मे वरं वत्स यत्ते मनसि वर्तते

इत्यादितस्तत आप सङ्कटमितीति ॥ १६ ॥

इत्यादिष्टस्तमसुर उपाधावत् सुयन्त्रितः ।

केदार आत्मक्रव्येण जुह्वन्नग्निमुखं हरम् ॥ १७ ॥

पदरत्नावली

अग्निमुखमुद्दिश्य । जुह्वन्निति च्छान्दसः । जुहन् होमं कुर्वन् ॥१७॥

सत्यधर्मीया

इत्यादिष्टो नारदेनासुरो वृकः । सुयन्त्रितोऽतिगात्रसङ्कोचं प्राप्तः प्रह्वीभूत इति यावत् । तं हरम् । केदारे तन्नामकक्षेत्रे । अग्निर्मुखं यस्य तं हरमात्मक्रव्येण स्वमांसेन जुह्वन् । हु दानादनयोरस्माज्जुहोत्यादिभ्यः श्लुरिति श्लौ श्लाविति द्वित्वे कुहो-श्चुरिति कुत्वेन जकारे जुहोतेः शन्प्रत्यये हुश्ल्वोः सार्वधातुक इति यणादेशे जुह्वन्निति । लोकेऽपि तमुद्दिश्य होमं कुर्वन्नुपाधावदित्यन्वयः ॥ १७ ॥

देवोपलब्धिमप्राप्य निर्वेदात् सप्तमेऽहनि ।

शिरो जिहीर्षुरसिना स तीर्थक्लिन्नमूर्धजः ॥ १८ ॥

पदरत्नावली

देवोपलब्धिं देवदर्शनम् । असिना शिरो हर्तुकामोऽभूत् ॥ १८ ॥

सत्यधर्मीया

देवस्य महादेवस्योपलब्धिं दर्शनमप्राप्य षड्भिर्दिनैरिति शेषः । सप्तमेऽहनि तीर्थेन केदारतीरेण क्लिन्ना मूर्धजाः केशा यस्य सः । शिरः स्वस्य जिहीर्षुर्हर्तु-कामो यदाऽभूत् । एकपदे शिरो हर्तुमिच्छुर्जिहीर्षुः । न लोकेति षष्टीनिषेधाद् भिन्नपद-ताऽपीह सम्भाविनी ॥ १८ ॥

तदा महाकारुणिकः स धूर्जटिर्यथाऽवयव्यग्निरिवोत्थितोऽनलात् ।

निगृह्य दोर्भ्यां भुजयोर्न्यवारयत् तत्स्पर्शनाद् भूय उपाकृताकृतिः ॥ १९ ॥

पदरत्नावली

करचरणाद्यवयवी । उपाकृताकतिरुत्पन्नस्वरूपः ॥ १९ ॥

सत्यधर्मीया

महाकारुणिको धूर्जटिरनलादङ्गाररूपात् । अवयवी करचरणादि-मानग्निर्धृष्टद्युम्नादिरूपेणेव यथोत्थितो भवति तथोत्थितः । दोर्भ्यां स्वाभ्याम् भुजयोर्निगृह्य । न्यवारयत् शिरो न हरेति हरो निवारयामास । स च यथा पूर्वं तथा तत्स्पर्शनाद्भूय उपाकृताकृतिः सम्पन्नस्वकाकारसर्वस्वो वृक्णाङ्गसम्पतिमान्वृकोऽभूदिति भावः ॥ १९ ॥

तमाह चाङ्गालमलं वृणीष्व मे यथानिकामं वितरामि ते वरम् ।

शिवेन जीवेन नृणां प्रपद्यतामहो त्वयाऽऽत्मा भृशमर्द्यते वृथा ॥ २० ॥

पदरत्नावली

यथानिकामं नितरां काममनतिक्रम्य । नृणां यत् प्रियतरं वस्तु स जीवः जीवनं प्राणधारणं तेन जीवेन प्रपद्यतां प्रपन्नो भवतु, भवानिति शेषः । केनेत्यत उक्तम्– शिवेन मयेति ॥ किञ्च जीवोऽसुधारणतत्परः । अनेन ‘पूर्वमायुः परीक्षेत पश्चाल्लक्षणमादिशेत्’ इति वचनाज्जीवनं सर्वस्मादभीष्टमित्युक्तं भवति । किञ्चात इति तत्राह– अहो इति ॥ आत्मा शरीरम् अर्द्यते हिंस्यते । अहो यस्मात् तस्मात् ॥ २० ॥

सत्यधर्मीया

तमुपाकृताकृतिम् । अङ्ग हे वृक अलमेतावत्या तवापाचित्या

पर्याप्तम् । मत्तोषस्य जातत्वादिति भावः । यथा यथापेक्षं वरं वृणीष्व ते वरं निकामं वितरामि । नृणां शिवेनौत्तरिकसुखसाधनेन जीवेन जीवनेन प्रपद्यतां भवान्प्रपन्नो भवतु । जीवन्नरो भद्रशतानि पश्यति । कल्याणी बत गाथेयं लौकिकी प्रतिभाति मे । एति जीवितमानन्दो नरं वर्षशतादपीत्यादेः । त्वयाऽऽत्मा देहो वृथा इत उत भाविनः कार्यस्या-भावात् किमर्थं भृशमर्द्यते हिंस्यते । अहो इति महादेवो न्यवारयदित्यन्वयः ॥ २० ॥

देवात् स वव्रे पापीयान् वरं भूतभयावहम् ।

यस्य पुंसः करं शीर्ष्णि धास्ये स म्रियतामिति ॥ २१ ॥

सत्यधर्मीया

स देवाद्भूतानां भयावहं वरं वव्रे । कुत एतादृशवरमवृणोत्स इत्यत आह– पापीयानिति । तत्प्रकारमाह– यस्येति । यस्य पुंसः शीर्ष्णि करं धास्ये स म्रिय-तामिति । पुंस इत्यनेनैतं हरं हत्वा तत्तरुणीं हर्तुकामोऽयमिति तद्दुर्भावो ध्वन्यते ॥ २१ ॥

तच्छ्रुत्वा भगवान् रुद्रो दुर्मना इव भारत ।

ओमिति प्रहसंस्तस्मै ददौ वरमृतं तथा ॥ २२ ॥

पदरत्नावली

ओमित्युक्त्वा प्रहसन् आत्मनो दैन्यमप्रकाशयन् ॥ २२ ॥

दुर्घटभावदीपिका

हे भारत । भगवान् रुद्रस्तद्वाक्यं श्रुत्वेवेषद्दुर्मना भूत्वा प्रहसन्स्व-वाक्यम् ऋतं सत्यं यथा स्यात्तथा भगवन्तं प्रार्थ्य तस्मै ओमिति वरं ददाविति । एतेन ऋतं यथेत्येतदनन्वितमिति दूषणं प्रत्युक्तम् । स्ववाक्यमित्यादीनां शेषेणार्थस्योक्तत्वात् ॥ २२ ॥

सत्यधर्मीया

एवं वरवरणं दुर्मना इव सन्हसन्निति बहिः, खेदोऽन्तः । ऋतं यथा स्यात्तथा तस्मै वरं ददौ ॥ २२ ॥

स तद्वरपरीक्षार्थं शम्भोः शीर्ष्णि वृकासुरः ।

स्वहस्तं दातुमारेभे सोऽबिभेत् स्वकृताच्छिवः ॥ २३ ॥

पदरत्नावली

अबिभेद् भीतवान् ॥ २३ ॥

सत्यधर्मीया

स चासौ वरश्च तस्य परीक्षार्थं याथार्थ्यायाथार्थ्यनिर्णयार्थम् । शम्भो-र्दातुः स्वहस्तं दातुमारेभे । स्वकृताद्वरवितरणरूपात्कर्मणः स सदाशिवो भीतोऽभूत् । अबिभेद् लङ् ॥ २३ ॥

तेनोपसृष्टः सन्त्रस्तः पराधावत् सवेपथुः ।

यावदन्तं दिवो भूमेः कोष्ठानामधरं भुवः ॥ २४ ॥

पदरत्नावली

उपसृष्ट उपद्रुतः । दिवोऽन्तमवसानम् । यावदस्ति भूमेः कोष्ठानां विवराणामवसानं च यावद् भुवोऽधरमधःस्थलं पातालं च यावत् तावत्पर्यन्तं पराधावत्

॥ २४ ॥

सत्यधर्मीया

तेन वृकेणोपसृष्ट उपद्रुतः सन्त्रस्तः सवेपथुः सकम्पो दिवो भूमेश्च कोष्टानां सुषिराणां यावदन्तं भुवोऽधरं पातालं पराधावत् ॥ २४ ॥

अजानन्तः प्रतिविधिं तूष्णीमासन् सुरेश्वराः ।

ततो वैकुण्ठमगमद् भास्वरं तमसः परम् ॥ २५ ॥

यत्र नारायणः साक्षान्न्यासिनां परमा गतिः ।

शान्तानां न्यस्तदण्डानां यतो नावर्तते गतः ॥ २६ ॥

पदरत्नावली

तल्लोकवासिनः शून्यप्रायाः किम् ? अत्राह– अजानन्त इति ॥ प्रतिविधिं प्रतिक्रियाम् ॥ २५–२६ ॥

सत्यधर्मीया

तत्प्रतिविधिं प्रतिक्रियामजानन्तः सुरेश्वरा ब्रह्माद्यास्तूष्णीमासन् । ततो वैकुण्ठं हरिमन्दिरं तमसः परं भास्वरमगमत् । हे अजेति ब्रह्माणं सम्बोध्य का गतिरिति मनस्यालुलोचानन्तरमनन्त इति प्रत्यभात् । अत एव वैकुण्ठगमनं सङ्गच्छते । तन्माहात्म्यमाह– यत्रेति । शान्तानां न्यस्तदण्डानां न्यासिनां सन्न्यासिनामकामानां वा परमा गतिः । नारायणो यत्रास्ते यतो गतश्च पुनर्नावर्तते पुमान् गतश्च यत्रैव वर्तते तं वैकुण्ठमगमदित्यन्वयः ॥ २६ ॥

तं तथा व्यसनं दृष्ट्वा भगवान् वृजिनार्दनः ।

दूरात् प्रत्युदितो भूप दारको योगमायया ॥ २७ ॥

पदरत्नावली

दारको बालब्रह्मचारी ॥ २७ ॥

सत्यधर्मीया

तथा व्यसनं यस्य तं हरम् । वृजिनार्दनो भगवान् । दूरादेव दारको योगमायया बालः सन्प्रत्युदितोऽभूत् ॥ २७ ॥

मेखलाजिनदण्डाद्यैस्तेजसाऽग्निरिव ज्वलन् ।

अभिवादयामास च तं कुशपाणिर्विनीतवत् ॥ २८ ॥

सत्यधर्मीया

ब्रह्मचर्याकारसाहितीमाह– मेखलेति । तं वृकं कुशपाणिर्विनीत-वदभिवादयामास ॥ २८ ॥

श्रीभगवानुवाच—

शाकुनेय भवान् व्यक्तं श्रान्तः किं दूरमागतः ।

क्षणं विश्रम्यतां पुंस आत्माऽयं सर्वकामधुक् ॥ २९ ॥

पदरत्नावली

आत्मा शरीरम् ॥ २९ ॥

सत्यधर्मीया

माधव आदौ मधुरया गिरा तं भ्रान्तं तन्वन्वक्ति– शाकुनेय इति । शकुनिकुमार भवान्किंदूरमागतः । कथं मम दूरगमनं ज्ञातं भवतेत्यत आह– व्यक्तं श्रान्त इति । क्षणं विश्रम्यताम् । भवतु भगवन्कायक्लेश इत्यत आह । अयमात्मा देहः सर्वकामं दोग्धीति स तथेति न श्रमणीय इत्यर्थः ॥ २९ ॥

यदि नः श्रवणायालं युष्मद्व्यवसितं विभो ।

भण्यतां पुरुषः साधो पुम्भिः स्वार्थः समीहते ॥ ३० ॥

पदरत्नावली

पुम्भिरर्थितम् ॥ ३० ॥

सत्यधर्मीया

युष्मद्व्यवसितं भवन्निश्चितं प्रमेयं नः श्रवणाय श्रोतुमलं चेद्भण्यताम् । किमेकस्य पुरतो वचनेन, कर्तव्यं करिष्यामीत्यतो लोके लोक एवं प्रवर्तत इति कीर्तयति । हे विभो साधो पुरुषः कार्यकर्ता पुम्भिः सहकारिभिः स्वार्थ उभयोः कलहे सति समीहते । अत उक्तं चेच्छ्रुणु अशक्यं चेत्तथा घटयाम इत्याशयः ॥ ३० ॥

श्रीशुक उवाच—

एवं भगवता पृष्टो वचसाऽमृतवर्षिणा ।

गतक्लमोऽब्रवीत् तस्मै यथापूर्वमनुष्ठितम् ॥ ३१ ॥

सत्यधर्मीया

अमृतवर्षिणा वचसैवं पृष्टोऽत एव गतक्लमो विगततन्द्रो यथापूर्वमनुष्ठितं तत्सर्वं तस्मै विष्णवे चोरमाणवकायेत्यप्यर्थः । न च तकारश्चागते चोर इति विश्वादि-पठितोऽकारान्तोऽत्र तस्मै चोरायेति कथं व्याख्यानान्तरमिति वाच्यम् । विश्वेदेवा स आगतेत्यृग्भाष्ये सर्वे चाथ विशां वानादिति विश्वशब्दं व्याख्याकृत्य सञ्ज्ञात्वात्सर्वनाम-कार्यत्वं कथमित्याशङ्क्य कस्मै देवाय हविषा विधेमेत्यृग्भाष्ये कशब्दः ‘कस्मै’ यथा भवेदित्युक्तेस्तत्रेवात्रापि तस्मा इति ज्ञेयम् । विस्तरस्तु तट्टीकाद्युदाहरणेन प्राक् षष्ठादौ कृतोऽनुसन्धेयः ॥ ३१ ॥

श्रीभगवानुवाच—

एवं चेत् तर्हि तद्वाक्यं वयं न श्रद्दधीमहि ।

यो दक्षशापात् पैशाच्यं प्राप्तः प्रेतपिशाचराट् ॥ ३२ ॥

पदरत्नावली

तस्य रुद्रस्य वाक्यम् । पैशाच्यं कर्म, श्मशानाटनलक्षणम् ॥ ३२ ॥

सत्यधर्मीया

एवं चेद्वयं तद्वाक्यं गिरीशवाक्यं न श्रद्दधीमहि न विश्वसिमः । तत्र हेतुमाह– य इति । दक्षशापात्पैशाच्यं पिशाचभावं प्राप्तः । आगन्तुकं चेत्कदाचिद-नङ्कूरणमपि स्यादित्यत आह– प्रेतपिशाचराडिति । सर्वदा तत्सहवासान्न तद्भावप्रच्युति-रिति ॥ ३२ ॥

रुषाक्रान्तशरीरोऽसौ न सत्यं वदते हरः ।

क्रोधयुक्ते कुतः सत्यं मूढोऽसि त्वं महासुर ॥ ३३ ॥

सत्यधर्मीया

रुषाक्रान्तशरीरो रुद्रश्च क्रोधसम्भव इत्यादेः । तदुद्भूतस्य भूतपतेः क्रोधान्ध्यं न दुर्घटमिति भावः । ततो हरो न सत्यं वदति । भासमानः सन्वक्ति । कोपेऽ-सति सत्यवचन इत्यत आह । क्रोधयुक्ते सत्यं कुतो हेतोः स्यादतो न सत्यं वदेदिति । हे महासुर त्वमसत्ये सत्यमिति भ्रान्तिमानिति मूढोऽसि ॥ ३३ ॥

यदि वस्तत्र विश्रम्भो दानवेन्द्र जगद्गुरौ ।

तर्ह्यङ्गापि स्वशिरसि हस्तन्यासः प्रदीयताम् ॥ ३४ ॥

पदरत्नावली

जगद्गुरौ जगद्गिरणशीले ॥ ३४ ॥

दुर्घटभावदीपिका

हे अङ्ग दानवेन्द्र । तत्र प्रसिद्धे जगद्गुरौ मयि यदि वो युष्माकं विस्रम्भो विश्वासो जातस्तर्हि स्वशिरस्यपि हस्तन्यासः प्रदीयताम् । हस्तन्यासानन्तरं शम्भो-र्वाक्यमसत्यमिति दृढनिर्णयो भविष्यतीति । एतेन जगद्गुरुत्वेन रुद्रविषयकविश्वासस्य स्व-शिरोहस्तप्रदानविरोधित्वाद् यदि जगद्गुरौ रुद्रे विश्वासस्तर्हि स्वशिरस्यपि हस्तन्यासः प्रदीय-तामिति कथनमयुक्तमिति चोद्यं प्रत्युक्तम् । जगद्गुरावित्यनेन स्वस्यैव ग्रहणं न तु रुद्र-स्येत्यभ्युपगमात् । एतेनैव स्वशिरसि हस्तदानानन्तरं रुद्रवाक्यमसत्यमिति दृढनिर्णयो भविष्यतीति वक्तव्यम् । तदभावान्न्यूनतेति शङ्काऽनवकाशः । शेषपूरणेनार्थस्योक्तत्वात् ॥३४॥

सत्यधर्मीया

हे दानवेन्द्र यदि जगद्गुरौ तत्त्वेन नारदोपदिष्टे । वो यदि विश्रभ्मो विश्वासः । व इति तत्सुमुखीकरणे बहुवचनम् । अङ्ग वृक तर्हि स्वशिरसि हस्तन्यासः प्रदीयताम् । त्वं त्वच्छिरोन्यस्तहस्तो भव ॥ ३४ ॥

यद्यसत्यं वचः शम्भोः कथञ्चिद् दानवर्षभ ।

तदैैनं जह्यसद्वाचं न च वक्ताऽनृतं पुनः ॥ ३५ ॥

दुर्घटभावदीपिका

हे दानवर्षभ । यदि यदा शम्भोर्वचोऽसत्यमिति दृढनिर्णयो भविष्यति । असद्वाचमेनं शम्भुं जहि । तथात्वे शम्भुः पुनर्जन्मान्तरे कथञ्चिदप्यनृतं वक्ता न च नैव भविष्यतीति । एतेन शम्भुवाक्यस्य पाक्षिकसत्यत्वं स्वशिरोहस्तदानविरोध्यतो यदि शम्भोर्वचोऽसत्यमिति शम्भोर्वचनस्य पाक्षिकसत्यत्वकथनमयुक्तमिति चोद्यं प्रत्युक्तम् । यदीति-शब्दो यदेत्यर्थ इत्यङ्गीकारात् । एतेनैवासत्यवाक्यं सर्वदा सत्यमेव भवति । अतो यदा शम्भोर्वाक्यमसत्यमिति कथनमयुक्तमिति चोद्यं निरस्तम् । इति दृढनिर्णयो भविष्यतीति पदानां शेषेण यदा शम्भोर्वचोऽसत्यमिति दृढनिर्णयो भविष्यतीत्यर्थस्योक्तत्वात् । एतेनैव तदैनं जहीत्यत्र पूर्वोत्तरपदयोरनन्वय इति दूषणं परास्तम् । तथात्वे इत्यस्य शेषेणान्वयस्योक्तत्वात् । एतेनैव मरणानन्तरमनृतवक्तृत्वप्रसक्तेरभावादसद्वाचमेनं जहि तथात्वेऽनृतवक्ता न भविष्यतीत्यर्थ-स्योक्तत्वात् ॥ ३५ ॥

॥ इति श्रीभागवतटिप्पण्यां चतुर्नवतितमोऽध्यायः ॥ १०–९४ ॥

सत्यधर्मीया

यदि शम्भोर्वचोऽसत्यं त्वज्जीवनज्ञापितासत्यत्वकं कथञ्चिच्चेत् । दान-वर्षभ । तदैवैनमसद्वाचं जहि । पुनरेतद्व्यावृतो यथाऽनृतं न च वक्ता तथेति । अनद्यतने लङ् । जहीत्युक्तहननानन्तरं तस्यैवाभावान्न च वक्ताऽनृतं पुनरित्यसङ्गतमिति परास्तमनेन ॥३५॥

इत्थं भगवतश्चित्रैर्वचोभिश्च सुपेशलैः ।

भिन्नधीर्विस्मृतः शीर्ष्णि स्वहस्तं कुमतिर्व्यधात्॥ ३६ ॥

सत्यधर्मीया

भगवतश्चित्रैः सुपेशलैर्मनोहरैर्वचोभिर्भिन्नधीः कुमतिर्विस्मृतः । आदिकर्मणिकर्तरि चेति क्तः । स्मृतं भावे क्तः विगतं स्मृतं यस्मात्स सन् शीर्ष्णि स्वहस्तं व्यधात् ॥ ३६ ॥

अथापतद् भिन्नशिरा वज्राहत इव क्षणात् ।

जयशब्दो नमःशब्दः साधुशब्दोऽभवद् दिवि ॥ ३७ ॥

सत्यधर्मीया

वज्राहतः पर्वत इव वृत्रादिवद्वा, क्षणाद्भिन्नशिरा अपतत् । जयशब्दो नमःशब्दः साधुशब्दः साध्विति शब्दश्च दिव्यभवत् ॥ ३७ ॥

मुमुचुः पुष्पवर्षाणि हते पापे वृकासुरे ।

देवर्षिपितृगन्धर्वा मोचितः सङ्कटाच्छिवः ॥ ३८ ॥

सत्यधर्मीया

देवर्षिपितृगन्धर्वाः । पापे वृकेऽसुरे हते सति । वृष्ट्यन्त इति वर्षाणि कुसुमानि च तानि तानि च मुमुचुः । सङ्कटाच्छिवश्च मोचितः ॥ ३८ ॥

मुक्तं गिरिशमप्याह भगवान् पुरुषोत्तमः ।

अहो देव महादेव पापोऽयं स्वेन पाप्मना ॥ ३९ ॥

हतः को नु कुतश्चापि जन्तुर्वै कृतकिल्बिषः ।

क्षेमी स्यात् किमु विश्वेशे कृतपापो जगद्गुरौ ॥ ४० ॥

सत्यधर्मीया

हे महादेव स्वेन पाप्मनाऽयं हतः । अहो इति हेपर्यायः । को नु पुमान्कृतकिल्बिषो यादृशतादृशजनागस्कृत्कुतः क्षेमी स्यात् । जगद्गुरौ विश्वेशे कृतागस्कः क्षेमी स्यात्किमु नेत्यन्वयः । ‘अहो बतानुकम्पायां खेदे सम्बोधनेऽपि च’ इति विश्वः । एतेन कृतकिल्बिष इत्यादिना हेतूपन्यसनादाश्चर्यार्थकस्य तस्य न सरसावन्वयार्थाविति परास्तम् । न त्वच्छस्त्रहतो मच्छस्त्रहत इत्यहो इति वा । न ममाप्यायासो जात इत्यप्याह– महादेवोत्सवादेवेति ॥ ३९,४० ॥

य एवमव्याकृतशक्त्युदन्वतः परस्य साक्षात् परमात्मनो हरेः ।

गिरीशमोक्षं कथयेत् शृणोति वा विमुच्यते संसृतिभिस्तथाऽरिभिः ॥ ४१ ॥

॥ इति श्रीमद्भागवते दशमस्कन्धे चतुर्नवतितमोऽध्यायः ॥

पदरत्नावली

आख्यायिकाकथनादिफलमाह– य इति ॥ अव्याकृतनित्यशक्तिसमुद्रस्य । संसृतिभिः पुत्रमित्रादिबन्धनलक्षणाभिः ॥ ४१ ॥

॥ इति श्रीमद्भागवतटीकायां विजयध्वजतीर्थकृतायां पदरत्नावल्यां

दशमस्कन्धे उत्तरार्धे चतुर्नवतितमोऽध्यायः (स.धर्म.१०–९४) ॥

सत्यधर्मीया

विना फललपनं न जनः प्रवर्तत इति तदाह– य इति । अव्याकृत-शक्त्युदन्वतः स्वरूपभूतयेति नित्यया शक्त्योदन्वतः समुद्रस्य । परस्य साक्षात्परमात्मनो हरेः सकाशाद्गिरीशमोक्षं कथयेत् शृृणोति वा स संसृतिभिरागच्छन्तीभिस्तत्परम्पराभिस्तथाऽरिभि-र्वैरिभिश्च विमुच्यते ॥ ४० ॥

॥ इति श्रीसत्यधर्मयतिकृतायां भागवतटिप्पण्यां

दशमस्कन्ध उत्तरार्धेे चतुर्नवतितमोऽध्यायः ॥ १०–९४ ॥