१९ त्रिनवतितमोऽध्यायः

वृष्णिष्वासीद् यदुश्रेष्ठः श्रुतदेव इति श्रुतः

॥ अथ त्रिनवतितमोऽध्यायः ॥

श्रीशुक उवाच—

वृष्णिष्वासीद् यदुश्रेष्ठः श्रुतदेव इति श्रुतः ।

कृष्णैकभक्त्या पूर्णार्थः शान्तः कविरलम्पटः ॥ १ ॥

पदरत्नावली

‘यमैवेष वृणुते तेन लभ्यः’ इत्यादिश्रुत्यर्थदृढीकरणाय हरेर्भक्ति-प्रियत्वमाहात्म्यं वक्ति । तत्र श्रुतवेदबहुलाश्वविषयमितिहासं शुको वदति– वृष्णिष्विति ॥ भक्तिमन्तरेणान्यमर्थमनाकाङ्क्षमाणः पूर्णार्थ इत्युच्यते । कृष्णविषयगाथारचनात् कविः । अलम्पटः शब्दादिविषयेच्छारहितः ॥ १ ॥

सत्यधर्मीया

भक्तिमात्रलोभी भगवानिति श्रुतदेवबहुलाख्यायिकया शंसच्छुक-स्तत्पीठमारचयति– वृष्णिष्विति । ननु वृष्णयोऽपि यदुप्रभेदा एवातो यदुपदं न पदं योग्यस्यार्थस्येति चेत् । सत्यम् । ग्रन्थकृतोऽपि हृद्यं ग्रन्थयति तव नवाक्षेपः । तथाऽऽपि वक्ष्यामः । न तु यदुशब्दस्तज्जात्यवच्छिन्नपरो येन तवावसरः स्यात् । किन्तु यदस्ति तत उच्चत्वाद्यदुरित्यृग्भाष्योक्तेर्विद्यमानसर्ववरो हरिः श्रेष्ठो यस्येति वक्ष्यमाणकृष्णैकभक्तियुक्ति-मुपन्यस्य न्यस्यति सार्थक्यमिति विजानीहि । कृष्ण एका मुख्या भक्तिस्तया करणेन । पूर्णोऽर्थो यस्य सः । कविः शान्तः समाधाननिधानम् । अलम्पटो विषयाभिलाषशून्यः । कृष्णस्यासीद्द्विजश्रेष्ठ इति पाठे ब्रह्मन्नित्यादिवक्ष्यमाणं लग्नम् । एतत्पाठे तु तद्वृत्ते-स्तथोक्तिरित्यवधेयम् ॥ १ ॥

स उवास विदेहेषु मिथिलायां गृहाश्रमी१ ।

अनीहयाऽऽगताहार्यो निवर्तितजपक्रियः ॥ २ ॥

पदरत्नावली

मिथिलायां नगर्यां गृहाश्रमे स्थितः सभार्य इत्यर्थः । अनीहया अप्रयत्नेन आगताहार्यः प्राप्तप्राप्तव्यः प्राप्तभोज्यो वा । नितरां वर्तिता सहस्रनामादिजपक्रिया येन स तथा । ‘नित्यं नामनिकाययोः’ इति यादवः ॥ २ ॥

सत्यधर्मीया

स श्रुतदेवः । विदेहेषु तत्रापि मिथिलायां पत्तने देहाभिमानहीनजनेष्वेव गणनीय इत्यपि कटाक्षयति शुकः । मिथिलादयश्चेति निपातितः । गृहाश्रमी । गृहाश्रमे इति पाठे उत्तरत्रान्वयस्तस्य । अनीहयाऽनपेक्षया । आगतमहार्यं भोज्यमुपादेयं वा यस्य सः । तेन निवर्तिता नितरां प्रवर्तिता जपक्रिया येन सः । निवर्तिता जपक्रिया बहुलवं बहुला येन सः । यद्वक्ष्यति क्रियाश्चक्रे यथोचिता इति वा ॥ २ ॥

यावन्मात्रं त्वहरहर्दैवादुपनमत्ययम् ।

नाधिकं तपसा तुष्टः क्रियाश्चक्रे यथोचिताः ॥ ३ ॥

पदरत्नावली

ननु प्रयत्नाभावे कथं शरीरयात्राऽस्येत्यत्राह– यावदिति ॥ अनुदिनं यावन्मात्रमुपनमति दैवात् प्राप्तं भवति, अयं ततोऽधिकं नाकाङ्क्षते । तर्हि केनालम्बुद्धि? अत्राह– तपसेति ॥ ३ ॥

सत्यधर्मीया

यावन्मात्रं यावदेव । दैवाद्धरीच्छातः । उपनमति प्राप्तं भवति प्रवणं सत्तदेवाकाङ्क्षति नाधिकम् । तपसैव तुष्टो यथा सम्यक् उचिता वर्णाश्रमकालेषु ताः क्रियाः कर्माणि । यस्य स उवासेत्यन्वयः । दैवाद्यावन्मात्रमुपनमति तदुद्दिश्यैव स्वयमयमप्युपनमति ओमिति शब्दयुतो भवतीति वा ॥ ३ ॥

तथा तद्राष्ट्रपालोऽभूद् बहुलाश्व इति श्रुतः ।

मैथिलो निरहम्मान उभावप्यच्युतप्रियौ ॥ ४ ॥

पदरत्नावली

यथा श्रुतदेवः ॥ ४ ॥

सत्यधर्मीया

तद्राष्ट्रपालो विदेहेशः । अहंममेति निर्गतो मानो यस्य सः । एवमुभौ श्रुतदेवबहुलाश्वौ ॥ ४ ॥

तयोः प्रसन्नो भगवान् दारुकेणाहृतं रथम् ।

आरुह्य सहितो विप्रैर्नियतैर्ब्रह्मवादिभिः ॥ ५ ॥

पदरत्नावली

ततः किमायातम्? अत्राह– तयोरिति ॥ नियतैरेकान्तभक्तैः ॥५॥

सत्यधर्मीया

तयोस्तद्विषये तदुपरीति यावत् । विप्रैः सहकर्तव्यतया तद्धितसहित इति चेति न सहित इत्यतिरेकः ॥ ५ ॥

सहितः सात्वतश्रेष्ठो मुनिभिस्तत्वदर्शिभिः ।

कदाचित् कौरवश्रेष्ठ विदेहाय ययौ१ प्रभुः ॥ ६ ॥

सत्यधर्मीया

विदेहाय तं देशमुद्दिश्य ययौ ॥ ६ ॥

नारदो वामदेवोऽत्रिः कृष्णो रामोऽसितोऽरुणिः ।

अहं बृहस्पतिः कण्वो मैत्रेयश्च पराशरः ।

वसिष्ठः काश्यपश्चैव भरद्वाजोऽथ गौतमः ॥ ७ ॥

पदरत्नावली

मुनीनां नामानि निर्दिशति– नारद इत्यादिना ॥ ७ ॥

सत्यधर्मीया

कीर्तयतामार्तिनाशनानि नामानि तेषामिति तान्युदाहरति– नारद इति । कृष्णो मम पिता व्यासः । आरुणिरेवादिह्रस्वतायाम् । अयमरुणिरारुणेरितरो वा कश्चित् । अहं, पराशरो मम पितामहः । तत्र गोतमेति पाणिनिप्रोक्तेः स्वार्थिकेऽणि ज्ञेयः । तथा हि सूत्रम् । अत्रिभृगुकुत्सवसिष्ठगोतमाङ्गिरोभिश्चेति । श्रुतिरपि ‘अभित्वा गोतमागिरा’ इति । अतो गोतमेति सम्पुटम् ॥ ७ ॥

तत्र तत्र समायान्तं पौरा जानपदान्विताः ।

उपतस्थुः सार्घ्यहस्ता लोकाः सूर्यमिवोदितम् ॥ ८ ॥

पदरत्नावली

त उपतस्थुर्निषेवयाञ्चक्रुः ॥ ८ ॥

सत्यधर्मीया

तत्र स्थिताः स्वस्वदेश आयान्तं पौरा मुख्या उदितं सूर्यमुद्दिश्य लोका ज्ञानिनः सार्घ्यहस्ता उपस्थास्यन्तीव सार्घ्यादिहस्ता उपतस्थुः ॥ ८ ॥

आनर्तधन्वकुरुजाङ्गलटङ्कमत्स्यपाञ्चालकुन्तिमधुकैकयकोसलार्णाः ।

अन्ये च तन्मुखसरोजमुदारहासस्निग्धेक्षणं नृप पपुर्दृशिभिर्नृनार्यः ॥ ९ ॥

सत्यधर्मीया

तत्र तत्रेत्युक्तदेशानपि नामनिर्देशपूर्वकमाह– आनर्तेति । टङ्कोऽपि देशविशेषः । केकयश्च अर्णो दशार्णः । तत्पदेन प्रवर्तकाप्रवर्तकास्तत्स्था ग्राह्याः । नृनार्यः नरा इति भवितव्यमेकशेषेणेति न वाच्यम् । तल्लक्षणश्चेदेवं विशेषविशेष इत्युक्तेर्नायं नृशब्दप्रकृतिरिति सम्भवात् । न च लाघवलङ्घनं श्लाघापादकमिति वाच्यम् । नृभिः सहिताश्च ता नार्यश्चेति विग्रहेणापत्रपा पतिभिः सहैव ता मिलिता अन्यैः पुम्भिरेव वा तस्थुरिति द्योतयामास व्यास इति ज्ञेयम् । ततश्चापारपारवश्यं तन्मुखसरोजनिरीक्षणक्षणे सर्वेषामविशेषेण द्योत्यते । तथाऽन्ये चोदारहासस्निग्धेक्षणं तन्मुखसरोजं पपुः । अनेन तत्तन्नयनानां भ्रमरसमता ध्वन्यते ॥ ९ ॥

तेभ्यः स्ववीक्षणनिरस्त१तमिस्रदृग्भ्यः क्षेमं त्रिलोकगुरुरर्थदृशं च यच्छन् ।

शृण्वन् दिगन्तधवलं स्वयशोऽशुभघ्नं गीतं सुरैर्नृभिरयाच्छनकैर्विदेहान् ॥ १० ॥

पदरत्नावली

सेवाफलमाह– तेभ्य इति ॥ स्ववीक्षणेन दर्शनेन विनष्टं तमिस्रं यस्याः सा तथा । विनष्टतमिस्रा निरस्ताज्ञाना दृक् ज्ञानं येषां ते तथा तेभ्यः पौरेभ्यः क्षेमं यच्छन्, अर्थदृशमपरोक्षज्ञानं च ददत् । एकस्मिन् दिगन्तऽप्यनन्यथागीयमानत्वाद् दिगन्तधवलम्

॥ १० ॥

सत्यधर्मीया

स्ववीक्षणनिरस्ततमिस्रदृग्भ्यः स्ववीक्षणेन स्वावलोकनेन निरस्तं तमिस्रमज्ञानं यस्याः सा दृक् परोक्षप्रेक्षा येषां ते । सु अत्यन्तमवीक्षणेनानवलोकनतो विषयाणामितरेषां निरस्तमित्यादिकमादिवत् । विनष्टेेति पाठोऽपीष्टः स्फुटार्थश्च । त्रिलोक-गुरुरर्थदृशां शाश्वतिकार्थस्वापरोक्षप्रेक्षां यच्छन्ननन्तरं क्षेममत्र परत्र मोक्षं यच्छन्निति चैष्य-न्नयत इति मन्तव्यम् । सुरैस्तथा नृभिर्गीतमशुभघ्नममङ्गलभङ्गदं स्वयशो दिगन्तधवलं दिशामन्ताः सर्वे धवला येन तत् । अनेनानुकृतं ‘दिक्षु यानाद्यशो व्याप्तमिति’ छान्दोग्य-भाष्योक्तं मानमिति मननीयम् । शृृण्वन्विदेहान् शनकैरध्वनोर्मध्ये व्रजज्जनव्रजसमुत्साहहानिर्न भाविनीति नीतिविन्मन्दंमन्दं जगामेति शनकैरित्यनेन सूच्यते । अयादगच्छत् । तत्र तन्त्रमाह– अयादिति । अयात्तदीयशुभावहदैवविशेषत इत्यप्यावृत्त्याऽर्थो बोध्यः ॥ १० ॥

तेऽच्युतं प्राप्तमाकर्ण्य पौरा जानपदा नृप ।

अभ्ययुर्मुदितास्तस्मै गृहीतार्हणपाणयः ॥ ११ ॥

सत्यधर्मीया

जानपदा जनाः प्रागेव चागत्य ग्रामगाः, पौरास्तत्रत्यास्तस्मा अच्युतायार्हणपाणयः सभाजनभाजनहस्तन्यस्तवस्तुका मुदिता अभ्ययुः ॥ ११ ॥

दृष्ट्वा तमुत्तमश्लोकं प्रीत्युत्फुल्लामलाशयाः ।

कधृताञ्जलिभिर्नेमुः श्रुतपूर्वं तथा मुनीन् ॥ १२ ॥

पदरत्नावली

कधृताञ्जलिभिरिति पाठे के मूधर्ि्न धृताञ्जलिपुणैरित्यर्थः ॥ १२ ॥

सत्यधर्मीया

प्रीत्या स्नेहविशेषेण भक्त्येति यावत् । उत्फुल्लो विकसितस्तदीयो गुणग्राहकामल आशयोऽन्तःकरणं येषां त इत्याशयः । कधृताञ्जलिभिः । केषु शिरस्सु धृता अञ्जलयो यैस्तैः । सहिता मुख्याः श्रुतपूर्वं यथा नेमुः । यावन्नयनालिनसञ्चरणं तावतीमव-निमभिव्याप्य व्यापकावस्थानाद्व्याप्यानां नमनावन्यभावाच्छिरोविरोच्यमानाञ्जलितयाऽवस्थान-मिति तात्पर्यम् । विधृताञ्जलिभिरिति वा उद्धृताञ्जलिभिरिति पाठः । तथा मुनीन्नारदादींश्च नेमुः ॥ १२ ॥

स्वानुग्रहाय सम्प्राप्तं सत्यभूतं जगद्गुरुम् ।

मैथिलः श्रुतदेवश्च पादयोः पेततुः प्रभोः ॥ १३ ॥

पदरत्नावली

सत्यभूतं निर्दोषानन्दज्ञानघनम् ॥ १३ ॥

सत्यधर्मीया

स्वानुग्रहाय तदर्थं सम्प्राप्तम् । सत्यभूतं ज्ञानानन्दमूर्तिम् । जगद्गुरुं विध्यादियवसावधि जगत्स्वामिनं मैथिलो राजा, श्रुतदेवः कश्चिद्यादवः पादयोर्युगपत् ॥१३॥

निमन्त्रयेतां दाशार्हमातिथ्येन सह द्विजैः ।

मैथिलः श्रुतदेवश्च युगपत् सन्नताञ्जली ॥ १४ ॥

पदरत्नावली

निमन्त्रयेतां भोजनार्थं क्षणं कृतवन्तौ । आतिथ्येन अतिथियोग्येन कर्मणा

॥ १४ ॥

सत्यधर्मीया

मिथिलः श्रुतदेवश्चेतौ सन्नताञ्जली सन्तौ, द्विजैः सह, दाशार्हम् । आतिथ्येनातिथियोग्यकर्मणा युगपदेकदा निमन्त्रयेताम् । अद्य नः पितरस्तुष्टा इत्यादेरी-क्षणक्षण एव क्षणं ददतुरित्यर्थः । आद्याष्टमी नवमी चाद्यायनं च विषुवं च दिनत्रयं चाद्यैव पिण्डपितृयज्ञमखस्य कालो दामोदरेण सहसा गृहमागतेनेति भारतोक्तेरावश्यकश्राद्धादौ दौहित्रादेः प्रवर्तनमिति व्याख्यातत्वात् ॥ १४ ॥

भगवांस्तदभिप्रेत्य तयोः प्रियचिकीर्षया ।

उभयोरविशद् गेहं रूपाभ्यां तदलक्षितः ॥ १५ ॥

पदरत्नावली

तदलक्षितस् ताभ्यां रूपाभ्यामलक्षितः, अज्ञातरूपद्वय इत्यर्थः ॥१५॥

सत्यधर्मीया

तदपौर्वापर्येणागमनं, तदुभयाभीप्सितम् । अभिप्रेत्य ज्ञात्वा । तयोः प्रियचिकीर्षयोभयो रूपाभ्यां गेहमाविशत् । तदलक्षितस्ताभ्यां श्रुतदेवबहुलाश्वाभ्यामलक्षितः । तत्रात्रापि तेनात्रापि तत्र गत इत्यलक्षितोऽज्ञातः ॥ १५ ॥

श्रोतुमप्यसतां दूरान् जनकः स्वगृहागतान् ।

आनीतेष्वासनार्ग्य्रेषु१ सुखासीनान् महामनाः ॥ १६ ॥

पदरत्नावली

अथ बहुलाश्व ईश्वरं पूजयाञ्चक्र इत्यन्वयः ॥ तान् नत्वा । कीदृशान् ? श्रोतुमपि दूरान् कर्णाविषयान् ॥ १६ ॥

दुर्घटभावदीपिका

महामना जनकोऽसतां श्रोतुमपि दुराशक्यान्स्वगृहागतान् आसना-र्घ्येषु । आसनार्घ्यशब्दः पूजासाधनमात्रोपलक्षकः । आसनार्घ्यादिसकलपूजासाधनेष्वानीतेषु सत्सु पूजास्वीकारार्थं सुखासीनानिति । एतेनासनार्घ्योपासीनेष्वित्येतदनन्वितमिति दूषणं प्रत्युक्तम् । पूजास्वीकारार्थमित्यस्य शेष इत्यभ्युपगमात् ॥ १६ ॥

सत्यधर्मीया

किमेकल एव हरिरगमदित्यतो मुनयोऽपि गता इति तन्महत्त्वमप्याह– श्रोतुमिति । असतामयोग्यानां श्रोतुमपि दूरान्दूरगान् । स्वगृहागतान् स्वकानीतेष्वासना-ग्य्रेष्वासनश्रेष्ठेषु सुखासीनान्सुखं यथा तथाऽऽसीनानुपविष्टान् ॥ १६ ॥

प्रवृद्धभक्त्युरूत्कर्षहृदयाश्राविलेक्षणः ।

नत्वा तदङ्घ्रीन् प्रक्षाल्य तदपो लोकपावनीः ॥ १७ ॥

पदरत्नावली

अतिवृद्धभक्त्युत्कर्षहृदयश्चास्राविलेक्षणश्च स तथा । अस्रं नेत्रजलम् ॥१७॥

सत्यधर्मीया

प्रवृद्धाया भक्तेरुरुरुत्कर्षो महातिशयस्तेन सहितं हृदयं यस्य स चासावश्राविले आनन्दबाष्पकलिते ईक्षणे यस्य स च महामना नत्वा तदङ्घ्रीन्हरिहरिदास-चरणान्प्रक्षाल्य तदपस्तदुदकानि । तत्स्वरूपं निरूपयति– लोकपावनीरिति । लोकान् पावयन्तीति तास्तथा ताः ॥ १७ ॥

सकुटुम्बो वहन् मूर्ध्नि पूजयाञ्चक्र ईश्वरम् ।

गन्धमाल्याम्बराकल्पधूपदीपार्ध्यगोवृषैः ॥ १८ ॥

पदरत्नावली

कैः साधनैः ? अत्राह– गन्धेति ॥ १८ ॥

सत्यधर्मीया

सकुटुम्बो मूधर्ि्न मूर्धनि वहन्सन्नीश्वरं पूजयाञ्चक्रे । तत्साधनं बोधयति– गन्धेति । गन्धाश्च तद्वद्द्रव्याण्याकल्पा अलङ्कारा गावो वृषाश्च तैर्गोश्रेष्ठैरिति वा ॥ १८ ॥

वाचा मधुरया प्रीणन्निदमाहान्नतर्पितान् ।

पादावङ्कगतौ विष्णोरामृजञ्छनकैर्मुदा ॥ १९ ॥

पदरत्नावली

आमृजन् संवाहनं कुर्वन् ॥ १९ ॥

सत्यधर्मीया

अन्नतर्पितान्भुक्तवतः प्रीणन् प्रीणयन्विष्णोः पादावङ्कगतौ स्वोत्सङ्ग-सङ्गिनौ शनकैर्मृजन् संवाहनं शनैः स्वयं रचयन्मुदेदं माधवं प्राह ॥ १९ ॥

राजोवाच—

भवान् वै सर्वजीवानामात्मा साक्षी सुहृद् विभुः ।

अयं१ नस्त्वत्पदाम्भोजं स्मरतां दर्शनं गतः ॥ २० ॥

पदरत्नावली

सुहृदिति यदथ तस्मात् ॥ २० ॥

सत्यधर्मीया

सर्वभावानां पदार्थानामात्मा स्वामी । साक्षी साक्षाद्द्रष्टा । सुहृद-निमित्तोपकर्ता । विभुर्व्यापी । अयं त्वं, त्वत्पदाम्भोजयुगं स्मरतां नो दर्शनं गतः । स्मरतां साक्षान्मन्मथ इति पूर्वोक्तेः सौन्दर्येण मन्मथत्वं गतस्त्वम् । अयं मच्छुभभागधेयं निमित्तीकृत्य दर्शनं गत इति चावृत्त्याऽर्थो ज्ञेयः ॥ २० ॥

स्ववचस्तद् ऋतं कर्तुमस्मद्दृग्गोचरो भवान् ।

यदा त्वेकान्तभक्तानामात्माऽनन्तोऽरजाः प्रियः ॥ २१ ॥

पदरत्नावली

दर्शने हेतुमाह– स्ववच इति ॥ भवान् ‘प्रियो हि ज्ञानिनोऽत्यर्थमहं स च मम प्रियः’ इति यत् स्ववचस् तद् ऋतं कर्तुमस्मद्दृग्गोचरोऽभूदित्यन्वयः । भक्तेनापि कृतज्ञेन भाव्यमिति भावेनाह– यदेति ॥ आत्मा स्वामी । अनन्तोऽन्तत्रयहीनः । अरजाः सात्विकः । त्वमेकान्तभक्तानां प्रिय इति यदा यस्मात् तस्मात् ॥ २१ ॥

दुर्घटभावदीपिका

स्ववचस्तदृतं कर्तुमित्यस्य तत्प्रसिद्धं स्ववचः ‘स्मरतां दर्शनं दास्य’ इति वेदादिरूपं स्ववचो ऋतं सत्यं कर्तुमित्यर्थः । एतेन दर्शनं दास्य इति पूर्वं भगवताऽनुक्तत्वात्स्ववचः सत्यं कर्तुमस्मद्दृग्गोचरो भवानिति कथनमनुपपन्नमिति चोद्यं परास्तम् । ‘श्रुतिःस्मृती हरेराज्ञा’ इत्यादि प्रमाणानुसारेण स्ववच इत्यनेन स्मरतां दर्शनं दास्य इत्यर्थप्रतिपादकवेदवचसो ग्रहणात् ॥ २१ ॥

सत्यधर्मीया

यदा यतः । आत्माऽनन्तोऽरजा रजोपलक्षितसकलकलङ्कविकलस्त्व-मेकान्तभक्तानां प्रियोऽतस्तत्स्ववचः ‘प्रियो हि ज्ञानिनोऽत्यर्थमहं स च मम प्रियः । अहं भक्तपराधीन’ इत्यादिवचनम् । ऋतं यथार्थं कर्तुमस्मदृग्गोचरो भवानभवत् ॥ २१ ॥

को नु त्वच्चरणाम्भोजमेवंविद् विसृजेत् प्रभो ।

निष्किञ्चनानां शान्तानां मुनीनां यस्त्वमात्मदः ॥ २२ ॥

पदरत्नावली

एवं विदुक्तार्थज्ञः को नु पुरुषो त्वच्चरणाम्भोजं विसृजेत् । कृतज्ञश्चेन्न मुञ्चतीत्यर्थः । एकान्तभक्तप्रियोऽयं किं ददातीति तत्राह– निष्किञ्चनानामिति ॥ २२ ॥

सत्यधर्मीया

शान्तानां निष्किञ्चनानां त्वद्विना तिलतुलं किञ्चन नास्ति येषां तेषां मुनीनां यस्त्वमात्मदः स्वदः सायुज्यद इति यावत् । एतादृशस्य तव चरणाम्भोजं को न्वेवंवित्को विसृजेन्न कोऽपि जह्यात् ॥ २२ ॥

योऽवतीर्य यदोर्वंशे नृणां संसरतामिह ।

यशो वितेने तच्छान्त्यै त्रैलोक्यविकृतापहः ॥ २३ ॥

पदरत्नावली

लोकोपकारायावतारो न तु स्वार्थायेत्याह– य इति । तच्छान्त्यै संसारोन्मूलनाय । त्रैलोक्यस्य विकृतान् विरोधिनोऽपहन्तीति त्रैलोक्यविकृतापहः । विकृतं दुष्कुतम्

॥ २३ ॥

सत्यधर्मीया

तच्छान्त्यै संसारोपशमाय । त्रैलोक्यविकृतं त्रैलोक्यस्य दुष्कृत-मपहन्तीति तद्यशो वितेने ॥ २३ ॥

नमस्तुभ्यं भगवते कृष्णायाकुण्ठमेधसे ।

नारायणाय ऋषये स्वशान्ततप ईयुषे ॥ २४ ॥

पदरत्नावली

शान्तं सुखपूर्तिः, तपोज्ञानं निर्दोषपूर्णानन्दज्ञानम् ईयुषे प्राप्तवते ॥२४॥

सत्यधर्मीया

स्वशान्तं स्वस्वरूपसुखनिर्णायकं तपो येषां तैरीयुषे प्राप्ताय ॥२४॥

दिनानि कतिचिद् भूमन् गृहे नो निवसन् निजैः ।

समेतः पादरजसा पुनीहीदं निमेः कुलम् ॥ २५ ॥

पदरत्नावली

राजा स्वगृहनिवासाय भगवन्तं प्रार्थयते– दिनानीत्यादिना ॥ २५ ॥

सत्यधर्मीया

निजैः स्वदासैः समेतः । हे सम इतस्तैर्युक्तः कतिचिद्दिनानि निवस-न्पादरजसा निमेः कुलं वंशं प्रस्तुतं गृहं वा पुनीहि ॥ २५ ॥

इत्युपामन्त्रितो राज्ञा भगवान् लोकभावनः ।

उवास कुर्वन् कल्याणं मिथिलानरयोषिताम् ॥ २६ ॥

पदरत्नावली

मिथिलायां विद्यमानानां नरयोषिताम् ॥ २६ ॥

सत्यधर्मीया

मिथिलानरयोषितां कल्याणं कुर्वन्नुवास ॥ २६ ॥

श्रुतदेवोऽच्युतं प्राप्तं स्वगृहं१ जनको यथा ।

मत्वा मुनींश्च सन्तुष्टो धुन्वन् वासो ननर्त ह ॥ २७ ॥

पदरत्नावली

तत्र श्रुतदेवेन किं नु कृतम्? अत्राह– श्रुतदेव इति ॥ स्वगृहान् प्राप्तमच्युतं मत्वा ज्ञात्वा ॥ २७ ॥

सत्यधर्मीया

श्रुत्वैतत्कः श्रुतदेवो द्विजदेव किमकार्षीदिति राजर्षिशङ्कावकाशमवितर-न्कविः कारुणिकः स्वयमेवाह– श्रुतदेव इति । यथा जनको बहुलाश्व आनर्च च तथा श्रुतदेवः प्राप्तमच्युतं मत्वा, यथा जनकः पिता वात्सल्यादायाति तथा प्राप्तमित्यप्यर्थः । मुनींश्च । ते च भगवद्रूपविशेषास्तत्तदाकारा इति तान् । भगवन्तमेवम्भूतं विलोक्य स्वयं तेेऽपि योगयोगेन तथेति । अत एव तदलक्षित इत्येवोक्तिः । वासो धुन्वन् । वासोविधूननं च सन्तोषविशेषवशाद् भवदपि, वासांसि जीर्णानीत्यादेर्न मम ममताऽत्रेति तथा । वस्त्र-मित्यनुक्त्वा वास इति वचनं च यो वासो गेहे तमपि धुन्वन्नयमिति देह इव गेहेऽपि नेहेति विशेषं ध्वनयतीति ध्येयम् । हेति भक्त्युत्कर्षमनुत्कर्षं धनस्य च सूचयति ॥ २७ ॥

तृणपीठे सशिष्यांस्तानास्तृतेषूपवेश्य सः ।

स्वागतेनाभिवन्द्याङ्घ्रिं सभार्योऽवनिजे मुदा ॥ २८ ॥

पदरत्नावली

तृणपीठे कटे अवनिजे प्रक्षालयामास ॥ २८ ॥

सत्यधर्मीया

तृणपीठे बृस्यादौ अवनिजे अवनिनिजे । श्लौ लिटि च वक्तव्य-मवनिनिज इति । तथाप्येवं वदन् आगतेन भगवता समेतानेतांस्तृणपीठ उपवेश्य । हे स्व स्वतन्त्रेति सम्बोध्यावनिजे धरावतारधरे श्रीहरिविषयेऽप्यचरत्तथेत्यप्यर्थं सूचयामासेति ज्ञेयम्

॥ २८ ॥

तदम्भसा महाभाग आत्मानं स्वगृहान्वयम् ।

स्नापयाञ्चक्र उद्धर्षो लब्धसर्वमनोरथः ॥ २९ ॥

सत्यधर्मीया

महाभागोऽयं सगृहान्वयं गृहादिसहितमात्मानं तदम्भसा प्रक्षालनजलेन स्नापयाञ्चक्रे । मित्वविकल्पाद्दीर्घोऽपि । उदुत्कृष्टो हर्षो यस्य सः ॥ २९ ॥

सिद्धार्हणोशीरशिवामृताम्भसा मृदा सुरभ्या तुलसीकुशाम्बुजैः ।

आराधयामास यथोपपन्नया सपर्यया सत्वविवर्धमानया ॥ ३० ॥

पदरत्नावली

सिद्धार्हणं सर्षपः । उशीरं वालव्यजनम्, जया वा । शिवा श्रेयसी, अमृता प्रसिद्धा, एताभिर्युक्तेन जलेन । सुरभ्यां सुगन्धया मृदा । सत्वेनात्मशक्त्या विवर्धमानया

॥ ३० ॥

सत्यधर्मीया

सिद्धार्थाः सितसर्षपा इति तच्छब्दपर्यायोऽयं सिद्धार्हणशब्दः । सिद्धार्ह-णानि सितसर्षपाश्चोशीराणि । शिवाऽऽमलकी शिवा । अभयामलकीत्यादिविश्वः । अमृता-म्भसा मधुरोदकेन । सर्वो द्वन्द्वो विभाषयैकवद्भावः । उत्तरपदलोपीसमासो वा । सुरभ्या मृदा कस्तूरिकादिकया सुरभ्या । स्वाभाविक्या कयाचिन्मृदा वा । अनेन निःश्रीकस्य कथं कस्तूरिकाप्राप्तिरिति निरस्तम् । तुलसी च कुशाश्चाम्बुजानि च तैः । यथोपपन्नया । ‘अपूज्या यत्र पूज्यन्त, इत्याद्युक्तानर्थानास्पदतया तत्तद्योग्यतानुरूपिण्येति यावत् । सत्त्व-विवर्धमानया सत्त्वेन स्वसाधुभावेन विवर्धमानया सपर्ययाऽऽराधयामास । अमृताऽमरलता वा

॥ ३० ॥

स तर्कयामास कुतो ममापतद् गृहान्धकूपे पतितस्य सङ्गमः ।

यः सर्वतीर्थास्पदपादरेणुभिः कृष्णेन चाध्यात्मनिकेतभूसुरैः ॥ ३१ ॥

पदरत्नावली

सर्वतीर्थानामास्पदपादरेणुभिर् आश्रयचरणरेणुभिः । सह कृष्णेन । अध्यात्मा परमात्मा निकेतो निलय आश्रयो येषां ते अध्यात्मनिकेताः । तैर्भूसुरैर्ब्राह्मणैश्च यः सङ्गमः स गृहान्धकूपे पतितस्य मम कुतोऽपतत्? तस्मात् त्वत्पुण्यादभूदिति तर्कयामास अचिन्तयदित्यन्वयः ॥ ३१ ॥

सत्यधर्मीया

सर्वतीर्थास्पदौ यौ पादौ तयो रेेणवो धूल्यस्तैः करणैः कृष्णेन तथाऽ-ध्यात्माधिरधिकश्चासावात्मा च स एव निकेतं मन्दिरमाश्रय इति यावत् । येषां ते च ते भूसुराश्च तैः, केतं ज्ञानं येषां ते तैरिति वा । ‘केतंु कृण्वन्न केतव’ इत्यृक् टिप्पणे केतं चितं चितिरित्यादि तन्नामसु पाठादित्युक्तेः । पदं विप्रस्य दक्षिण इत्यादेः । सर्वतीर्थे-त्यादिकं कृष्णेनेत्यनेने वाध्यात्मेत्यादिनाऽप्यन्वेति । गृहान्धकूपे पतितस्य मम यः सङ्गमः स कुत आपतत् । इति स श्रुतदेवस्तर्कयामास । मयाचारि चारित्रं स तथाऽप्ययं सङ्गमः सुमङ्गलः कथं सम्प्राप्त इत्यचिन्तयदिति भावः । अत एवापतदित्युक्तिः ॥ ३१ ॥

सूपविष्टान् कृतातिथ्यान् श्रुतदेव उपस्थितः ।

सभार्यस्वजनापत्य उवाचाङ्घ्र्यभिमर्शनः१ ॥ ३२ ॥

पदरत्नावली

अङ्ध्य्रभिमर्शनं पादसम्मर्दनं कुर्वन् ॥ ३२ ॥

सत्यधर्मीया

उपस्थित उपोपविष्टोऽङ्घ्य्रोरभिमर्शनं मर्दनं येन स सन्नुवाच । अङ्घ्र्यभिमर्शनम् इति पाठेऽङ्घ्रिं चरणं चक्रमतिमृशति तथा तम् । चक्रपाणिमुवाचेत्यर्थः । वासवनीलेत्यादिवत् । पादसंवाहनं कुर्वन्निति वा । सभार्यस्वजनापत्यो भार्यया सहितानि स्वजना अपत्यानि यस्य सः । भार्या जायेत्यमरः । डुभृञ् धारणपोषणयोरिति बिभर्तेस्त्र्या-देर्वा ऋॄॄहलोर्ण्यद् इति भार्येति रूपम् । भृञोऽसञ्ज्ञायामित्यत्र तथा सञ्ज्ञायां समजनिषदे-त्यत्र च तदनुबन्धकग्रहणे नातदनुबन्धकस्येति परिभाषया भृञ एव ग्रहणमित्युक्तेः ॥३२॥

श्रुतदेव उवाच—

अद्य नो दर्शनं प्राप्तः परः परमपूरुषः ।

य इदं शक्तिभिः सृष्ट्वा विभजत्यात्मसत्तया ॥ ३३ ॥

पदरत्नावली

किमाहेत्याशङ्क्य कृष्णनामा वेदान्तप्रतिपाद्यः साक्षान्नारायण एव न देवदत्तादिष्वेक इति भावेनाह– ओति ॥ यः सत्वादिगुणसृष्टाभिः शक्तिभिर्महदादिभिरिदं जगत् सृष्ट्वा आत्मसत्तया ब्रह्मव्यतिरिक्तेन विविधाकारेण विभजति । ‘तत् सृष्ट्वा तदेवानुप्राविशत्’ इति श्रुतेः । स एवं परमपुरुषः श्रीकृष्णोऽद्य नो दर्शनं प्राप्तः, नान्य इति शेषः ॥३३॥

सत्यधर्मीया

यः शक्तिभिः कार्यवैचित्र्यात्कारणवैचित्र्यमिति बहुवचनम् । इदं जग-त्सृष्ट्वोत्पाद्यात्मसत्तया तत्स्वरूपस्थित्या विभजति स्वाधीनप्रवृत्त्यादिसत्तया वा विविधाकारं करोतीति वा । सः परः सर्वविलक्षणः परमपूरुषो क्षराक्षरपुरुषोत्तमः कदाऽपि दर्शनं नो प्राप्तः । सोऽप्यद्य दर्शनं प्राप्तः । अनेनालभ्यलाभो जात इति ध्वनयति । शक्यत्वाच्छक्तयो भार्या इत्यादेरभिमन्यमानप्रकृत्यादिकार्यगुणमहदादिभिरात्मसत्तया स्वस्वातन्त्र्याद्यात्मिकया विभजति विलक्षणमस्वतन्त्रं करोतीति यावदिति वा ॥ ३३ ॥

यथा शयानः पुरुषो मनसा चात्ममायया ।

सृष्ट्वा लोकं परं स्वाप्नमवरुद्ध्यावभासते ॥ ३४ ॥

पदरत्नावली

ननु सन् घटः सन् पट इति सदनुविद्धतया प्रतीतेर्ब्रह्मव्यतिरिक्तं जग-न्नास्तीत्याशङ्क्य सदृष्टान्तं परिहरति– यथेति ॥ यथा शयानः स्वपन् पुरुष आत्मनः परमात्मनो माययेच्छया प्रबोधितेन स्वमनोगतकरितुरगादिसंस्कारेणैव परं स्वव्यतिरिक्तं स्वाप्नं लोकं सृष्ट्वा अवरुध्य स्वविषयीकृत्य अवभासते पृथक् प्रकाशते तथा भवान् जगति स्थितोऽपि ततो व्यतिरिक्तमात्मानं प्रकाश्य तिष्ठतीत्यर्थः ॥ ३४ ॥

सत्यधर्मीया

सपक्षप्रदर्शनमुखेनास्वातन्त्र्यपक्षं दक्षीकरोति– यथेति । शयानः स्वप-न्पुरुषो जीवजातमात्ममाययाऽऽत्मनो भगवतो मायया ‘न तत्र रथा न रथयोगा न पन्थानो भवन्त्यथ रथान् रथयोगान्पथः सृजत’’ इत्यादेस्तत्सर्जनेच्छया । चेत्येवार्थे । तदुद्बोधितेनैव मनसा तद्वासनया परं स्वविलक्षणं परं जागरितादिविलक्षणं लोकं स्वमात्रविलोक्यं स्वाप्नं तत्कालभवं लोकं गजादि सृष्ट्वा मुख्यः सर्जनकृद्धरिरेतत्कर्मनिमित्तं वासना चोपादानमेवं सत्त्वादुपचारत उक्तिः । अवरुद्ध्यायं गजादिरिति विषयीकृत्य भासते । दृश्यवैलक्षण्येन द्रष्टृत्वेन भासते तथा । स्वसृष्टजगद्विलक्षणत्वेन भासमानो नो दर्शनं प्राप्त इत्यतीतेनान्वयः

॥ ३४ ॥

शृण्वतां गदतां शश्वद् दर्शिनामभिनन्दताम् ।

नृणां संवसतां नित्यं हृदिस्थो योऽमलात्मनाम् ॥ ३५ ॥

पदरत्नावली

अलौकिकसिद्धवस्तुसत्तायां किं प्रमाणमिति तत्राह– शृृण्वतामिति ॥ यः स्वकथां शृण्वतां गदतां हृदिस्थ इत्यनेन श्रवणवचने प्रमाणत्वेन ज्ञातव्ये इति दर्शितम् । शश्वद्दर्शिनामभिनन्दतां संवसताममलात्मनां नृणां नित्यं हृदिस्थ इत्यनेन प्रत्यक्षप्रमाणं दर्शितमिति

॥ ३५ ॥

सत्यधर्मीया

तदेतद्रूपमस्ति वस्तु चेत्तर्हि किं दूर आरात् । तत्रापि केषां केषां कथं कथमित्यत आह– शृृण्वतामिति । शृृण्वतां स्वचरितं गदतां व्याख्यातवताम् । अभिनन्दता- मनुमोदमानानाम् । शश्वदिति विश्वान्वयि । दर्शिनाम् । एवं संवसताममलात्मनां सन्मनसां नृणां स्त्रियश्च नरश्चेति नृणामधिकारिणां नित्यं हृदि स्थितः । हृद्युभ्यामिति सप्तम्या अलुक् ॥३५॥

हृदिस्थोऽप्यथ दूरस्थः कर्मविक्षिप्तचेतसाम् ।

आत्मशक्तिभिरग्राह्यो ह्यर्थाकारोऽगुणात्मकः ॥ ३६ ॥

पदरत्नावली

नन्वेवं तर्हि कस्मान्मादृशानां तज्ज्ञानाभाव इत्याशङ्क्योपासनाभावादुपासनं च कर्मप्रतिबद्धमिति भावेनाह– हृदिस्थ इति ॥ उपासकैरपि न स्वप्रयत्नेन ज्ञेयः किन्तु स्वप्रसादेनैवेत्याशयवानाह– आत्मेति ॥ आत्मनां जीवानां शक्तिभिः प्रयत्नादिलक्षणाभिरग्राह्यो न ज्ञेयः । मुह्यन्ति यं सूरय इत्यादि स्वोक्तिं स्मारयति हिशब्देन । देवदत्तवत् शरीरी चेत् कथमग्राह्य इत्यत्राह– अर्थाकार इति ॥ अर्थ्यत इत्यर्थ आनन्दः । ऋ गताविति धातुः । यद्वाऽर्थशब्देन ज्ञानं च । ज्ञानानन्ददेह इत्यर्थः । अर्थो वस्तु अप्रतिहतं तदाकार इति वा । कुत एवमङ्गीकार इत्यत्राह– अगुणात्मक इति ॥ सत्वादिगुणनिर्मितदेहवान् न भवति । एवं विधस्त्वमस्माकं दर्शनं प्राप्त इति पूर्वेणान्वयः ॥ ३६ ॥

दुर्घटभावदीपिका

आत्मशक्तिभिरात्मशक्त्यनुसारिप्रयत्नैरग्राह्यः किन्तु स्वप्रसादेनैव ग्राह्य इत्येतद्धि प्रमाणप्रसिद्धमित्यर्थः । एतेनार्थाकार इत्येतद्व्यर्थमिति दूषणं निरस्तम् । तत्तदर्थं विद्यमानेऽपीति शेषपूरणेनार्थस्योक्तत्वात् ॥ ३६ ॥

सत्यधर्मीया

यस्तद्वन्तिक इत्यंशशसितं प्रतिपाद्य यच्च दूरक इत्यंशार्थं प्रतिपाद-यति– हृदिस्थ इति । तत्राधिकारिणोऽमलात्मप्रतियोगिन आह– कर्मविक्षिप्तचेतसा-मिति ॥ हृदिस्थोऽपि दूरस्थः । तर्ह्यमलात्मभिरपि तच्छक्त्या गम्य इति नेत्याह– आत्म-शक्तिभिरिति । आत्मनां जीवानां शक्तिभिः सामर्थ्यैः प्रयत्नैरिति यावत् । अग्राह्यः । कुत इत्यतस्तद्विग्रह एवंविध इत्याह– अर्थाकार इति ॥ अगुणात्मक इति च । अर्थ्यत सर्वापेक्ष्य इति चानन्दादिः स एवाकारो मूर्तिर्यस्य । अगुणात्मकः सत्त्वाद्यविकृतदेहवान् । अकं दुःखम् । अरा इतरे च दोषास्तेषामर्थो यस्मान्निवृत्तिः स तथा गुणात्मक इति वा । अकस्याराः ्दुःखप्रापका दोषास्तेषामर्थो निवृत्तिः । अर्थ उपयाञ्चायामित्यतः कर्मणि घञ् । ‘अर्थोऽभिधेयरैवस्तु प्रयोजननिवृत्तिषु’ इत्यमरः । गुणा एवात्मा देहो यस्य सः । गुणा अप्रधाना आत्मान इतरे जीवा यस्मात्स तथा ॥ ३६ ॥

नमोऽस्तु तेऽध्यात्मविदां परात्मने सर्वात्मने स्वात्मविभक्तमूर्तये ।

सकारणाकारणलिङ्गमीयुषे स्वमाययाऽसंवृतदृष्टये नमः ॥ ३७ ॥

पदरत्नावली

एवं विधत्वान्मम नमनमन्तरेण त्वदुपासनं दुस्साध्यमिति भावेनाह– नम इति ॥ अध्यात्मविदां परमात्मादितत्वज्ञानिनां परामत्मने अशेषपुरुषार्थदात्रे । सर्वात्मने सर्व-व्यापिने । स्वात्मविभक्तमूर्तये स्वात्मनैव विभक्तस्वरूपाय । सकारणं जगत्, अकारणलिङ्गम् अकारणं कारणान्तरशून्यस्वरूपं प्रधानमेवं द्वे ईयुषे व्याप्तवते । स्वमायया स्वसामर्थ्येन असंवृतदृष्टयेऽव्यवहितज्ञानाय ॥ ३७ ॥

सत्यधर्मीया

अध्यात्मविदां स्वापरोक्षप्रेक्षावताम् । परमात्मने मुख्यस्वामिने । सर्वात्मने सर्वादानादिकर्त्रे । स्वात्मनैव विभक्ता मूर्तयो विशेषतो यस्य स तस्मै । सकारणस्य सादेः, अकारणस्य नित्यस्य च लिङ्गं लिङ्गित्वमुदञ्चनोपचयहेतुतामीयुषे गतवते । सकारणस्य लिङ्गं प्रादुर्भावादीनाम् । इदमाद्यवतारेऽकारणस्य कारणशून्यस्य लिङ्गं चिन्हं च । नृसिंहा-द्यवतारे चेयुष इति वा । स्वमायया प्रकृत्या । असंवृता दृष्टिर्ज्ञानं यस्य स तस्मै । स्वेच्छयैव संवृतानामज्ञानां दृष्टिर्यस्मात्स तस्मा इति वा । ते नमोऽस्तु । अधुना स्तुहि श्रुतिदेव किमुपरतवानित्यत आह– अस्तुत इति । अ ईषदेव स्तुतिर्यस्य तत्सम्बुद्धिः । कियती सा चेन्नायतीं भजते गुणानां गणनातीतेरिति भावः ॥ ३७ ॥

स त्वं शाधि स्वभृत्यान्नः किं चेश करवाम हे ।

एतदन्तो नृणां क्लेशो यद् भवानक्षिगोचरः१ ॥ ३८ ॥

पदरत्नावली

यद् यदा भवानक्षगोचरः स्यात्, एतदन्तोऽयमवधिर्यस्य स तथा । नृणां क्लेशः परिश्रमः ॥ ३८ ॥

सत्यधर्मीया

सोऽस्मन्नतस्त्वम् । स्वभृत्यांस्त्वद्दासान् । भृञः क्यपि, ह्रस्वस्य पिति कृति तुगिति तुकि भृत्येति भवति । नः शाधि शिक्षय । हे ईश ते किं करवाम । हे श्रुतदेव तव किमपेक्षितं वद तदनुपेक्षया कुर्म इत्यत आह– एतदन्त इति । नृणां क्लेशः सांसारिक एषोऽन्तोऽवधिर्यस्य सः । स क इत्यतस्तमवधिमभिधत्ते– यद्यदा भवानक्षि-गोचरश्चक्षुर्विषय इति । अक्षगोचर इति पाठ इन्द्रियगोचर इत्यर्थः । दर्शनस्पर्शनादि-स्तद्व्यापारो ज्ञेयः । त्वद्भृत्यानित्यनुक्त्वोक्त्वा स्वभृत्यानित्यात्मैव भृत्यो येषां ते वयम् । स्वयं दासास्तपस्विन इत्यादेरित्यप्यर्थ इति । याचना या च सा कार्याऽन्नविषयेऽ-न्येषामित्यप्याह– स्वभृत्यान्न इति । स्वभृत्यानां विना प्रयत्नमन्नं यस्मादित्यर्थः ॥३८॥

श्रीशुक उवाच—

तदुक्तमित्युपाकर्ण्य भगवान् प्रणतार्तिहा ।

गृहीत्वा पाणिना पाणिं प्रहसन् तमुवाच ह ॥ ३९ ॥

सत्यधर्मीया

प्रणतार्तिहा भगवान् । इति तदुक्तं श्रुतदेवोक्तमुपाकर्ण्य श्रुत्वा । स्वपाणिना पाणिं तस्य गृहीत्वा हसन् । पूर्णस्य मम, ते किं करवामेत्ययमूचिवानित्युपह-सन्नुवाच ॥ ३९ ॥

श्रीभगवानुवाच—

ब्रह्मंस्तेऽनुग्रहार्थाय सम्प्राप्तान् विद्ध्यमून् मुनीन् ।

सञ्चरन्ति मया लोकान् पुनन्तः पादरेणुभिः ॥ ४० ॥

पदरत्नावली

ब्रह्मन् तपस्विन् ॥ ४० ॥

सत्यधर्मीया

मां शाधीत्युक्तस्तदादरतोऽपि स्वादरमुदारं निरीक्ष्य तेषामृषीणां लोके विवेकिप्रवेकमानवमाननीयतायै कैश्चित्श्लोकैर्द्विजपूजनं मम भजनमिति तदेव श्रुतं श्रुतदेव चरेति शिक्षयति– ब्रह्मन्निति । यादवमध्ये वृत्त्या ब्राह्मणा अपि सन्तीति ब्रह्मन्नित्युक्तिः सूचयति । ब्राह्मण ते त्वदुपर्यनुगृहार्थाय । तदर्थममून्मुनीन्सम्प्राप्तान्विद्धि । मयाऽन्त-र्निहितेन सह लोकान्पादरेणुभिः पुनन्तः सञ्चरन्ति ॥ ४० ॥

देवाः क्षेत्राणि तीर्थानि दर्शनस्पर्शनार्चनैः ।

लोकान् पुनन्ति कालेन तदप्यर्हत्तमेक्षया ॥ ४१ ॥

पदरत्नावली

देवादिभ्यो यच्छुद्धत्वं तदर्हत्तमानां पूज्यानां ब्राह्मणादीनामीक्षया दर्शनेन । अपिशब्दोऽवधारणार्थः ॥ ४१ ॥

सत्यधर्मीया

तीर्थक्षेत्रादिभिः पावित्र्यं सेवितैर्भवेत्किमेतैरित्यतोऽस्ति विशेष इत्यनु-शास्ति । देवाः प्रतिमां प्रतिष्ठिताः, क्षेत्राणि कुरुजाङ्गलादीनि, तीर्थानि गङ्गादीनि दर्शन-स्पर्शनार्चनैः कालेन लोकानेतत्कुर्वाणान्पुनन्ति तत्तादृक् पावित्र्यमर्हत्तमानां नारदादीनामीक्ष-याऽवलोकनेन केवलेन भवति । अपिस्तदधिकफलसमुच्चयार्थः ॥ ४१ ॥

ब्राह्मणा जन्मनः श्रेष्ठाः सर्वेषां प्राणिनामिव ।

तपसा विद्यया तुष्ट्या किमु मत्कथया पुनः ॥ ४२ ॥

सत्यधर्मीया

विद्यमानगुणवर्णनेन तदुदीर्णतां वर्णयति– ब्राह्मणा इति । जन्मन इव एव । ब्राह्मणोऽस्य मुखमासीदित्यादेर्जन्मनः सकाशाच्छ्रेष्ठाः । जन्मत इत्यपि पठन्ति । सर्वेषां बाव्हादिजक्षत्रियादीनां प्राणिनां तन्मध्ये । जात्युत्तमेष्विदमपि सुवर्णसौगन्ध्य-न्यायेनास्ति चेक्तिं गदनीयं तदाधिक्यमित्यभिधत्ते– तपसेत्यादिना । तपसा, विद्यया, तुष्ट्या यदृच्छागततृप्त्या च श्रेष्ठा इति किम् । तत्रापि पुनर्मत्कथया । अतः श्रेष्ठा इति किं वाच्यमिति कैमुत्यद्वितयं ज्ञेयम् । क्रमादेकैकतः कैमुत्यानीति वा ॥ ४२ ॥

न ब्राह्मणान्मे दयितं रूपमेतच्चतुर्भुजम् ।

सर्ववेदमयो विप्रः सर्वदेवमयो ह्यहम् ॥ ४३ ॥

पदरत्नावली

ब्राह्मणभक्तिजननार्थमर्थवादमाह– न ब्राह्मणादिति ॥ ब्राह्मणस्योत्तमत्वे हेतुमाह– सर्वेति ॥ एवमप्यावयोर्विशेषोऽस्तीति हि शब्देनाह ॥ ४३ ॥

सत्यधर्मीया

तदवज्ञां कुर्वन्तोऽज्ञा इति तेषां स्वस्य च स्वरूपं निरूप्य व्यवस्थापयन्वक्ति– नेति । चत्वारो भुजा यस्येति तत् । अनेनागमनसमये भुजचतुष्टय-वानायात इति ज्ञायत इति केऽपि । विद्यमानस्थितिर्विशेषवित्त्यैकस्थितेति केऽपि । रूपं मे । ब्राह्मणान्न दयितं प्रेमपात्रम् । छिन्द्यां स्वबाहुमपि वः प्रतिकूलवृत्तिमित्युक्तेः । सर्ववेद-मयो विप्र इति तदनवमानहेतुः । अहं सर्वदेवमय इत्यावयोः स्थितिः । मदीयसर्वदेवमयत्वं यद्वेदैकवेद्यं तन्मयत्वात्तद्वित्त्वात्ते मान्या इति भावो नान्य इति । हिर्योऽन्यथा मे स दण्डभागिति तद्वचःसूचकः ॥ ४३ ॥

दुष्प्रज्ञा अविदित्वैनमवजानन्त्यसूयवः ।

गुरुं मां विप्रमात्मानमर्चादावितिदृष्टयः१ ॥ ४४ ॥

पदरत्नावली

असूयवो गुणेषु दोषाविष्करणशीला दुष्प्रज्ञा एवं गुरुं विप्रं मत्सन्निधान-पात्रमविदित्वा अवजानन्ति । आत्मानं मामर्चादाववजानन्ति । कथम्? अर्चैव हरिरितिदृष्टयः ॥

सत्यधर्मीया

तेभ्योऽसूयवस्तान्दुष्प्रज्ञाः । एवं मन्मार्गप्रदर्शको गुरुरित्यविदित्वा तं गुरुमवजानन्त्यपमानयन्ति । अर्चादौ प्रतिमादाविति हरिरेवेति दृष्टिर्येषां ते सन्तोऽसन्तो मामात्मानं स्वामिनमप्यवजानते । तत्ताद्रूप्यचिन्तनमेव ममावमानमिति भावः । अर्चादा-विज्यदृष्टय इत्यपि पठन्ति ॥ ४४ ॥

चराचरमिदं विश्वं भावये चास्य दैवतम् ।

मद्रूपाण्येभिरेतस्यां धत्ते विप्रो मदीक्षया ॥ ४५ ॥

पदरत्नावली

ब्राह्मणपूजया सर्वमपि पूजितं स्यादिति भावेनाह– चराचरमिति ॥ इदं चराचरं विश्वं भावये कल्पये, ब्रह्मणीति शेषः । अस्य ब्राह्मणस्य दैवतम्, अहमिति शेषः । विप्रस्य सर्ववेदमयत्वमुक्तं स्पष्टयति– मद्रूपाणीति ॥ विप्रो मदीक्षया मत्प्रतिमाप्रतिपादकत्वज्ञानेन एतस्यां, ‘सर्वे वेदा यत्पदमामनन्ति’ इत्यादि श्रुत्यां, ‘वायुना वै गौतम सूत्रेणायं च लोकः परश्च लोकः सर्वाणि च भूतानि सन्दृब्धानि भवन्ति’ इति श्रुतिसिद्धैरेभिश्चराचरैः सह मद्रूपाणि धत्ते ॥ ४५ ॥

सत्यधर्मीया

चराचरं विश्वं यस्मिंस्तं मामस्य विप्रस्य दैवतम् । अहं भावये । एतस्यां स्वतनुरूपश्रुतौ । एभिर्भूतैः सह विप्रो मेधावी । मदीक्षया सर्वत्र वर्तते हरिरितीक्षा-प्रेक्षतया मद्रूपाणि धत्ते तत्प्रतिपाद्यत्वेनानुसन्धत्ते । अतस्तदवज्ञाऽनर्थकरीति नार्थिना साऽनुष्ठेयेति भावः । अहमितीक्षा, दुरहं न स इति ईक्षा अमदीक्षा तयेत्यावृत्त्या योजयन्ति

॥ ४५ ॥

तस्माद् ब्रह्म ऋषीनेतान् ब्रह्मज्ञान् श्रद्धयाऽर्चय ।

एवंविदाऽर्चितोऽस्म्यद्धा नान्यथा सुविभूतिभिः ॥ ४६ ॥

पदरत्नावली

प्रतिपादनच्छलेन फलितमाह– तस्मादिति ॥ ४६ ॥

दुर्घटभावदीपिका

तस्माद्ब्राह्मणानां मदनुग्रहपात्रत्वादिगुणसम्पन्नत्वात्त्वं ब्रह्मज्ञानेतान् ब्रह्मर्षीन् एवंविधा ब्राह्मणा मदनुग्रहपात्रत्वादिगुणसम्पन्ना इति ज्ञानेन श्रद्धयाऽर्चय । एवं चेद्देहेऽहमर्चितोऽस्मि । अन्यथा ब्राह्मणपूजाभावे । सुविभूतिभिर्महैश्वर्यैरर्चितोऽप्यहमर्चितो नास्मीति । एतेनैवं चेदर्चितोऽस्मीति वक्तव्यं तत्रैवं चेदित्येतन्नास्तीति न्यूनतेति शङ्का परिहृता । एवमित्यस्यावृत्तिश्चेदित्यस्याध्याहार इत्यङ्गीकारात् ॥ ४६ ॥

॥ इति श्रीभागवतटिप्पण्यां त्रिनवतितमोऽध्यायः ॥ १०–९३ ॥

सत्यधर्मीया

यदर्थमत्यर्थमुपन्यसनं तं भावमाविष्करोति– तस्मादिति । एवं विधमाहात्म्यशालिन इति । हे ब्रह्म ब्रह्मन् श्रुतदेव । न च ब्रह्मा विप्रः प्रजापतिरित्यादेः पुल्लिङ्गब्रह्मशब्दस्य ब्राह्मणवाचकत्वात्कथं नपुंसकब्रह्मशब्दस्य तद्वाचकत्वमिति वाच्यम् । यत्र ब्रह्म च क्षत्रं चोभे भवत ओदन इति नपुंसकलिङ्गकस्य तस्य तद्वाचकत्वश्रुतेः काऽत्र कथन्ता । एतान्ब्रह्मज्ञानृषीन्नारदादीन् श्रद्धयाऽर्चय । अनेन पश्चात्कश्चिद्विपश्चित्सपर्या-विपर्यासोनाचारीति सूच्यते । एवंविदाऽनुसन्दधताऽर्चयाद्धा सम्यक् । अस्म्यहम् । अस्मी-त्यव्ययं तदर्थोऽहमिति । अर्चितः । अन्यथा सुविभूतिभिरपि नार्चितोऽहं स्यामिति तात्पर्यम् ॥ ४६ ॥

श्रीशुक उवाच—

स इत्थं प्रभुणाऽऽदिष्टः सहकृष्णान् द्विजोत्तमान् ।

आराध्यैकान्तभावेन मैथिलश्चापतुर्गतिम् ॥ ४७ ॥

सत्यधर्मीया

प्रभुणा । अनेनान्यथा चेत्तच्छिक्षणदक्षतां ध्वनयति । इत्थमादिष्टः । स श्रुतदेव आज्ञप्तः । तदादेशमूलमप्यालपति । आ सम्यक् फलोपलम्भकं दिष्टं दैवं यस्य स इति । सहकृष्णान्द्विजोत्तमान्बहिरबहिरपि तत्सहिता इति द्योतयितुमेवमुक्तिरिति । न सहयुक्त इत्युक्ताप्रधान्यं युक्तमिति मन्तव्यम् । एकान्तभावेनानन्यसाधारणभक्त्याऽऽराध्य मैथिलः श्रुतदेवश्च गतिं सद्गतिमापतुः । एष्यत्विति नीतेः ॥ ४७ ॥

एवं स्वभक्तयो राजन् भगवान् भक्तभक्तिमान् ।

उषित्वाऽऽदिश्य सन्मार्गं पुनर्द्वारावतीमगात् ॥ ४८ ॥

॥ इति श्रीमद्भागवते दशमस्कन्धे त्रिनवतितमोऽध्यायः ॥

पदरत्नावली

भक्तेषु प्रसादलक्षणस्नेहवान् ॥ ४८ ॥

॥ इति श्रीमद्भागवतटीकायां विजयध्वजतीर्थकृतायां पदरत्नावल्यां

दशमस्कन्धे उत्तरार्धे त्रिनवतितमोऽध्यायः (स.धर्म.१०–९३) ॥

सत्यधर्मीया

त्वमप्येवं कुरु नेतरथेति कुरुनन्दनं प्रति सम्बोधनतोऽर्थाद्बोधयन् शुक उपसंहरन्नाह– एवमिति । भक्तेषु भक्तिः प्रसादसौमुख्यहेतुः स्नेहस्तद्वान् । भक्तानां भक्ति-र्भागस्तरतमभावस्तद्वान् । तदनुगुणगुणदातेति यावदिति वा । सृष्ट्वा विभजत्यात्मसत्तयेति प्राक्चोक्तेः । दिनानि कतिचिदित्यादिना तदर्थिते इति कानिचिद्दिनान्युषित्वा सन्मार्गमादिश्य पुनर्द्वारावतीमगात् । ननु श्रुतदेवोदवसित एव वसन्, तमन्वशादिति ज्ञायते किं बहुलाश्वोऽ-तानीत्सभाजनव्यत्यासमथवाऽचरणेऽपि नायं योग्य इति तदनुक्तिरिति चेत् । चशब्देनेदं सर्वं समुच्चेयमिति सूचयामास । तथैवोपसंहरणं चेति सर्वं तत्राप्यनुसन्धेयम् । यद्वाऽयं विप्रो ब्रह्मन्नित्यादेस्तदुपदेशोऽनेन कारयितुं शक्य इत्यत्रोपदेश ईशेन कृत इति वा तत्रानुक्ति-सम्भवात् । अत्र स्वयमेव गृहीततत्तदाकार आकारित आयात इति स्वेच्छोपोद्बलिता इच्छोपात्तदेहा इमे मुनय इति वा ध्वनयितुमेतत्सदध्वोपदेश आवश्यक इति वा ज्ञेयम्

॥ ४८ ॥

**॥ इति श्रीसत्यधर्मयतिकृतायां भागवतटिप्पण्यां **

दशमस्कन्ध उत्तरार्धेे त्रिनवतितमोऽध्यायः ॥ १०–९३ ॥