दुर्योधनसुतां राजन् लक्षणां समितिञ्जयः
॥ अथ द्विनवतितमोऽध्यायः ॥
श्रीशुक उवाच—
दुर्योधनसुतां राजन् लक्षणां समितिञ्जयः ।
स्वयंवरस्थामहरत् साम्बो जाम्बवतीसुतः ॥ १ ॥
पदरत्नावली
समितिशब्देन सङ्गरसभे गृह्येते, उभे अपि शस्त्रेण वाचा जयतीति समितिञ्चयः । खश्प्रत्ययो मुमागमोऽनुस्वारश्च । ‘समितिः सङ्गरसभयोः’ इत्यभिधानम्
॥ १ ॥
सत्यधर्मीया
समितिञ्जय आजितेजा जाम्बवतीसुतः साम्बः स्वयंवरस्थां दुर्योधनसुतां नाम्ना लक्षणामहरत् ॥ १ ॥
कुरवः कुपिता ऊचुर्दुर्विनीतोऽयमर्भकः ।
कदर्थीकृत्य नः कन्यामकामामहरद् बलात् ॥ २ ॥
पदरत्नावली
अकामां कुमारकामविधुराम् ॥ २ ॥
सत्यधर्मीया
स्वयंवरे कन्ययैव वरो वरणीयो नान्यथेत्ययमन्यथाकृतेतिशिक्षणीय एतत्क्षण इति मुख्यामुख्यान्प्रतिवदन्तीति वदति– कुरव इति । दुर्विनीतोऽयमर्भकः साम्बो नः सर्वान्कदर्थीकृत्याकामां स्वमनाकाङ्क्षतीम् । यद्वक्ष्यति यत्प्रसादोपचिता इति । बलादहरदिति कुपिता एनं बध्नीतेति कुरव ऊचुः ॥ २ ॥
बध्नीतैनं दुर्विनीतं किं करिष्यन्ति वृष्णयः ।
येऽस्मत्प्रसादोपचितां दत्तां नो भुञ्जते महीम् ॥ ३ ॥
सत्यधर्मीया
ननु वृष्णयः कुप्येरन्नस्मभ्यम् इत्यत आहुः– य इति । अस्मत्प्रसादा-देवोपचिता अभिवृद्धा नोऽस्माभिर्दत्तां महीं भुञ्जते ते किं करिष्यन्ति ॥ ३ ॥
निगृहीतं सुतं श्रुत्वा यद्येष्यन्तीह वृष्णयः ।
भग्नदर्पाः शमं यान्ति शीर्णदन्ता इवाहयः ॥ ४ ॥
पदरत्नावली
निगृहीतं बद्धम् । शीर्णदन्ता भग्नदन्ताः ॥ ४ ॥
सत्यधर्मीया
निगृहीतमस्माभिः । सुतं श्रुत्वा यदि वृष्णय एष्यन्ति तर्हि शीर्णदन्ता अहयः सर्पा इव भग्नदर्पाः शमं यान्ति ॥ ४ ॥
इति कर्णं समालोक्य भूरिश्रवसुयोधनौ ।
सदुःशासनगान्धारौ दुर्मन्त्रैकान्तशीलिनौ ॥ ५ ॥
एतेऽतिक्रम्य विदुरं गान्धारीं च यशस्विनीम् ।
साम्बमारेभिरे बद्धुं कुरुवृद्धैरसङ्गताः ॥ ६ ॥
पदरत्नावली
एते इत्यवलोक्य साम्बं बद्धुमारेभिरे । असङ्गता विनाभूताः ॥ ६ ॥
दुर्घटभावदीपिका
कुरवः, कर्णं, सदुःशासनगांधारौ दुःशासनशकुनिभ्यां सहितौ दुर्मन्त्रैकान्तशीलिनावेकान्ते दुर्विचारकरणस्वभावौ । एकान्तशब्दस्य परनिपातश्छान्दसः । भूरिश्रवसुयोधनौ भूरिश्रवाः सुयोधनश्चेत्येतौ च समालोक्येत्यूचतुरिति पूर्वेणान्वयः । एते कर्णभूरिश्रवाः सुयोधनो दुःशासनो गान्धार इत्येते विदुरं यशस्विनीं गान्धारीं चातिक्रम्य कुरु-वृद्धैरसङ्गता असम्बद्धाः कुरुवृद्धव्यतिरिक्तकुरुभिः सङ्गताः सन्त इति यावत् । साम्बं बद्धुमारेभिर इति ॥ ५,६ ॥
सत्यधर्मीया
कर्णं समालोक्य । एतेन स चैतदालोचनमध्येऽवर्ततेति द्योत्यते । भूरिश्रवःशब्दपर्यायोऽयमकारान्तो भूरिश्रवशब्दः । दुःशासनश्च गान्धारश्च ताभ्यां सहितौ दुर्मन्त्रैकान्तशीलिनाविति भूरिश्रवसुयोधनविशेषणम् ।
वृद्धानामसम्मतमिदं बन्धनमिति दुर्मन्त्रोऽयमित्याह– एत इति । अन्यैः कुरुवृद्धैश्चासङ्गता अमिलिताः । साम्बं बद्धुमारेभिरे आरब्धवन्तः । निरनुस्वारपाठः प्रामादिकः ॥ ५,६ ॥
दृष्ट्वाऽनुधावतः साम्बो धार्तराष्ट्रान् महारथः ।
प्रगृह्य रुचिरं चापं तस्थौ सिंह इवैकलः ॥ ७ ॥
पदरत्नावली
एकलोऽपुरुषद्वितीयः ॥ ७ ॥
सत्यधर्मीया
महारथः साम्ब एकलः । अनुधावतः स्वपृष्टतो धार्तराष्ट्रान्दृष्ट्वा चापं प्रगृह्य सिंह इव तस्थौ । अनेन साम्बनिर्भीतता एकैकं प्रति प्रतिपक्षिबहुसन्निपातोऽधर्म इति च ध्वन्यते ॥ ७ ॥
ते तं जिघृक्षवः क्रुद्धं तिष्ठ तिष्ठेति वादिनः ।
आसाद्य धन्विनो बाणैः कर्णमुख्याः समाकिरन् ॥ ८ ॥
पदरत्नावली
जिघृक्षवः ग्रहीतुकामाः ॥ ८ ॥
सत्यधर्मीया
ते कर्णमुख्या धन्विनस्तमासाद्य प्राप्य तिष्ठ तिष्ठेति वादिनस्तं जिघृक्षवः क्रुद्धमवाकिरन् ॥ ८ ॥
सोऽतिबद्धः कुरुश्रेष्ठ कुरुभिर्यदुनन्दनः ।
नामृष्यत् तत्परिभवं दण्डाहत इवोरगः ॥ ९ ॥
सत्यधर्मीया
तत्परिभवं तेभ्यः परिभवम् । स चासौ परिभवश्चेति वा तम् ॥९॥
विष्फार्य सुमहच्चापं सर्वान् विव्याध सायकैः ।
कर्णादीन् सहयाग्रण्यांस्तावद्भिर्युगपत् पृथक् ॥ १० ॥
पदरत्नावली
हयानामग्रण्यमग्रणीभवं कर्म तेन सह वर्तन्त इति सहयाग्रण्याः, तान् । यावन्तस्तावद्भिः शरैः ॥ १० ॥
दुर्घटभावदीपिका
सहयाग्रण्यानित्यस्य हयापेक्षया पुरो गन्तारः पदातयो हयाग्रण्यो हयाग्रणीनामायुधसहितहस्तचालनादिव्यापारा हयाग्रण्यास्तैः सहितानित्यर्थः ॥ १० ॥
सत्यधर्मीया
सहिता हयाग्रणीषु सादिश्रेष्ठेषु भवास्तत्कूटघटितास्तैरिति सह य अग्रण्यास्तान् । दिगादियत् । तावद्भिस्तेषां यावन्तस्तत्समसङ्खयैर्युगपत्पृथक् च सायकै-र्विव्याध ॥ १० ॥
चतुर्भिश्चतुरो वाहानेकैकेन च सारथीन् ।
रथिनश्च महेष्वासास्तस्य तत् तेऽभ्यपूजयन् ॥ ११ ॥
पदरत्नावली
एतदेव विवृणोति– चतुर्भिरिति ॥ साम्बस्य तत् कर्म सन्दृश्य कुरवः किमकुर्वन् ? अत्राह– महेष्वासा इति ॥ ११ ॥
सत्यधर्मीया
चतुर्भिरिति चतुर इति च, यो यस्य सुतः स तदीयं धनमर्हतीत्यत्र सार्वत्रिकव्यवहारौपयिकता वीप्सायां यथा तथा चतुरश्चतुरश्चतुर्भिश्चतुर्भिरित्यर्थकम् । तथा सारथीनेकैकेनेति च ज्ञेयम् । ते तस्य तदभ्यपूजयन् ॥ ११ ॥
तं तु ते विरथं चक्रुश्चत्वारश्चतुरो हयान् ।
एकस्तु सारथिं जघ्ने चिच्छेदान्यः शरासनम् ॥ १२ ॥
पदरत्नावली
अत्र साम्बस्य पराजयो नास्तीति भावेनाह– चत्वार इति ॥ १२ ॥
सत्यधर्मीया
ते चत्वारश्चतुरो हयान्हत्वा तं विरथं चक्रुः । एकः सारथिं जघ्नेऽन्य एतत्पञ्चकान्यतमः शरासनं चिच्छेद । एतेन कर्णः भूरिश्रवाः सुयोधनो दुःशासनः सौबल इति पञ्चैवान्यः कः षष्ठ इति परास्तम् । एतद्भीतेरेव परः कर्णादीन् षड्रथानिति पपाठ । भूरिः शलसुयोधना इति पाठेऽन्योऽन्य एवेति न क्लेशः ॥ १२ ॥
ते तथा विरथं कृत्वा कृच्छ्रेण कुरवो युधि ।
कुमारं गृह्य कन्यां च स्वपुरं जयिनोऽविशन् ॥ १३ ॥
पदरत्नावली
गृह्य गृहीत्वा । जयिनो जेतुकामा एव न तु लब्धजया इति तात्पर्यार्थः
॥ १३ ॥
सत्यधर्मीया
विरथमित्युपलक्षणम् । विशरं विवाहं विसारथिं कृत्वा । बहव एकं च नानायासेनेत्याह– कृच्छ्रेणेति । गृह्य सङ्गृह्य कन्यां च लक्षणां जयिनः स्वपुरीमविशन् ॥
तच्छ्रुत्वा नारदोक्तेन राजन् सञ्जातमन्यवः ।
कुरून् प्रत्युद्यमं चक्रुरुग्रसेनप्रचोदिताः ॥ १४ ॥
पदरत्नावली
नारदोक्तेन नारदवचनेन ॥ १४ ॥
सत्यधर्मीया
भावे क्तः । नारदस्योक्तेन वचनेन । तत्साम्बबन्धादिकं श्रुत्वा ॥१४॥
सान्त्वयित्वा तु तान् रामः सङ्क्रुद्धान् वृष्णिपुङ्गवान् ।
नैच्छत् कुरूणां वृष्णीनां कलिं कलहशङ्कितः ॥ १५ ॥
पदरत्नावली
कलिं विरोधम् ॥ १५ ॥
सत्यधर्मीया
तान्कुपितानुग्रसेनादीन् । कुरूणां वृष्णीनां च कलिं युद्धं नैच्छत् । तत्र तन्त्रं कलहशङ्कित इति । अत्रोद्यमं श्रुत्वा पुनर्बालेन कलहं कुर्युरनार्या इति शङ्कितः । कलिरन्त्ययुगे युधीति विश्वः ॥ १५ ॥
जगाम हास्तिनपुरं रथेनादित्यवर्चसा ।
ब्राह्मणैः कुलवृद्धैश्च वृतश्चन्द्र इव ग्रहैः ॥ १६ ॥
सत्यधर्मीया
चन्द्रो ग्रहैर्यथा वृतस्तथा ब्राह्मणैः कुलवृद्धैश्च वृत आदित्यवर्चसा रथेन हास्तिनपुरं जगाम ॥ १६ ॥
गत्वा गजाह्वयं रामो बाह्योपवनमाश्रितः ।
उद्धवं प्रेषयामास धृतराष्ट्राय शान्तये ॥ १७ ॥
सोऽभिवन्द्याम्बिकापुत्रं भीष्मं द्रोणं च बाह्लिकम् ।
दुर्योधनं च विधिवदब्रवीद् राममागतम् ॥ १८ ॥
दुर्घटभावदीपिका
रामो धृतराष्ट्राय धृतराष्ट्रप्रीतये शान्तये विरोधशान्तये उद्धवं प्रेषयामासेति । एतेन धृतराष्ट्रायेति चतुर्थ्यनुपपन्नेति शङ्काऽनवकाशः । धृतराष्ट्रशब्देन धृतराष्ट्रप्रीतिं गृहीत्वा धृतराष्ट्रायेति चतुर्थी तादर्थ्य इत्यभ्युपगमात् ॥ १७ ॥
सत्यधर्मीया
गत्वा, सोऽभिवन्द्येति श्लोकद्वयमेकान्वयि । उद्धवं शान्तये समाधानार्थमम्बिकापुत्रं प्रति प्रेषयामासेत्यन्वयः । उद्धवो धृतराष्ट्रायाभिवन्द्य तमनुकूलयितंु तथा भीष्मादींश्चाभिवन्द्य धृतराष्ट्रादायन्त इति धृतराष्ट्रायास्तैः शान्तिस्तस्यै वा । सकर्मकत्वान्न धृतराष्ट्रायेति चतुर्थीसम्भवो द्विकर्मकत्वाद्धृतराष्ट्रमिति च वक्तव्यमिति परास्तम् । दुर्योधन उद्धवतो वयोमहीयानिति सूच्यते ॥ १७,१८ ॥
तेऽतिप्रीताः समाकर्ण्य प्राप्तं रामं सुहृत्तमम् ।
तमर्चयित्वाऽभिययुः सर्वे मङ्गलपाणयः ॥ १९ ॥
सत्यधर्मीया
तेऽपि बालकृतकलहा अपि तं तत आगतमुद्धवम् । मङ्गलं तत्साधनं पाणिषु येषां ते ॥ १९ ॥
तं सङ्गम्य यथान्यायं गामर्घ्यं च न्यवेदयन् ।
तेषां ये तत्प्रभावज्ञाः प्रणेमुः शिरसा बलम् ॥ २० ॥
सत्यधर्मीया
तेषां मध्ये ये तत्प्रभावज्ञास्ते प्रणेमुः । तत्प्रभावज्ञाः स चासौ प्रभुश्च तत्प्रभुस्तस्मिन् बलविषये येऽज्ञास्ते न नेमुरित्यप्यर्थः । तेषां य इत्यनेन बोध्यते ॥२०॥
बन्धून् कुशलिनः श्रुत्वा पृष्ट्वा शिवमनामयम् ।
परस्परमथो रामो बभाषेऽविक्लवं वचः ॥ २१ ॥
पदरत्नावली
परस्परं शिवं सुखम् । अनामयमारोग्यम् । अविक्लवं धार्ष्ट्ययुक्तम्
॥ २१ ॥
सत्यधर्मीया
शिवं सुखं पृष्ट्वा । शिवं मोक्षे सुखे भद्रे सलिलेऽथेति विश्वः । अनामयमारोग्यं च परस्परं पृष्ट्वाऽविक्लवं वचो बभाषे ॥ २१ ॥
उग्रसेनः क्षितीशेशो यद् व आज्ञापयत् प्रभुः ।
तदव्यग्रधियः श्रुत्वा कुरुध्वं मा विलम्बितम् ॥ २२ ॥
सत्यधर्मीया
क्षितीशेश उग्रसेनो यद् व आज्ञापयत्तदव्यग्रधियः श्रुत्वा मा विलम्बितं सत्वरं कुरुध्वम् ॥ २२ ॥
यद् यूयं बहवस्त्वेकं जित्वाऽधर्मेण धार्मिकम् ।
अबध्नीताथ तन्मृष्ये बन्धूनामिष्टकाम्यया ॥ २३ ॥
पदरत्नावली
अधर्मेणावध्नीत बन्धनमकार्ष्ट । मृष्ये सहेयम् ॥ २३ ॥
सत्यधर्मीया
यूूयं बहवोऽधर्मेण धार्मिकं साम्बमेकं जित्वाऽबध्नीत तन्मृष्ये सहे । तत्र हेतुर्बन्धूनामिष्टकाम्ययेति ॥ २३ ॥
वीर्यशौर्यबलोन्नद्धमात्मशक्तिसमं वचः ।
कुरवो बलदेवस्य निशम्योचुः प्रकोपिताः ॥ २४ ॥
सत्यधर्मीया
आत्मशक्तिसमं वचनं न च तथा विरचनमिति नास्मीत्यात्मशक्त्यनु- रूपम् । प्रकोपिता एतद्वाक्यायातकोपाः ॥ २४ ॥
अहो महच्चित्रमिदं कालगत्या१ दुरत्ययम् ।
आरुरुक्षत्युपानद् वै शिरो मुकुटसेवितम्॥ २५ ॥
पदरत्नावली
आरुरुक्षति आरोढुमिच्छति ॥ २५ ॥
विरोदोद्धारः– अहो इति ॥ अत्र श्रीधरव्याख्यातपुस्तकेषु कालगत्या दुरत्यया इति पाठो दृश्यते । स तु दुरतिक्रमार्थकदुरत्ययशब्दविशिष्टकालगत्येत्यङ्गीकारे प्रथमातृतीययो-र्विशेषणविशेष्यत्वानुपपत्त्या दुरत्ययेति तृतीयाभासेन भ्रान्तिकल्पित एव । न हि दुरत्ययेति तृतीया भवति । दुरत्ययेति प्रथमापत्त्या दुरतीत्युपसर्गायोपपदायधातोरसम्भवप्रसङ्गात् । तस्मा-दन्यत्र स्थितस्य दुरत्ययमिति पाठस्यैवौचित्यम् । तथापाठस्याग्रहेणाङ्गीकारे त्वित्थं योजना द्रष्टव्या । अहो इति शब्दो मिथः कुरून्प्रति संबुध्यर्थकः । आश्चर्यार्थकत्वे तदर्थकत्वपदसद्भावेन पुनरुक्ततापत्तेः । दुरत्ययेत्यत्र अतसातत्यगमने इति धातोर् अति तु सन्ततं निरन्तरम् । ज्ञातुमिति यावत् । गत्यर्थानां ज्ञानार्थत्यवात् । योग्या अत्यादुःशब्दस्य दुर्निषेधे च दुःखेत्युक्ते-र्निषेधार्तकत्वाद् दुरत्या नाम दुर्ज्ञेयेत्यर्थः । तादृश्या कालगत्या इदं कुरुभ्य उग्रसेनाज्ञापनं महच्चित्रम् आश्चर्यम् । वै इति शब्देनोक्तमर्थमर्थान्तरोपन्यासेन दृढयति आरुरुक्षतीति ॥ उपानत् पदारक्षा मुकुटसेवितं किरीटस्थापनयोग्यं सत्किरीटं वा शिर आरुरुक्षती आरोढुमिच्छतीति । नन्वेवमर्थसद्भावादेव भ्रान्तिकल्पितत्वाभावः पाठस्य कथं न स्यादिति चेन्न । टीका हि दुर्गमार्थज्ञापिका । तस्यां चेदृशदुर्गमार्थस्य ज्ञापानाभावाद् भ्रान्तेः सौस्थ्यादिति भावः ॥ २५ ॥
॥ इति श्रीभागवतटिप्पण्यां द्विनवतितमोऽध्यायः ॥ १०–९२ ॥
दुर्घटभावदीपिका
उपानद् उपानट्सदृश उग्रसेनादिर्मुकुटसेवितं शिर इवोत्तम-मस्मत्स्थानमारुरुक्षत्यारोढुमिच्छतीति यत्तदिदमपेक्षणम् । कालगत्या दुष्कालगमनेन प्राप्तुं दुरत्ययमतिक्रमणरहितमहो आश्चर्यं महच्चित्रं महाश्चर्यमित्येतद्वै प्रसिद्धमिति । एतेन पूर्वोत्तरार्धयो-रनन्वय इति चोद्यं प्रत्युक्तम् । इति यत्तदिति पदानां शेषेणान्वयस्योक्तत्वात् । एतेनैव महच्चित्रमित्यनेनैव महाश्चर्यस्योक्तत्वादहो इत्येतद्व्यर्थमिति चोद्यं पराकृतम् । अतिमहाश्चर्यत्वं वक्तुमहो महच्चित्रमित्युक्तमित्यभ्युपगमात् ॥ २५ ॥
सत्यधर्मीया
कालगत्या दुरत्ययं दुःसाधातिक्रमं महच्चित्रमिदमहोऽत्याश्चर्ये । मुकुट-सेवितं शिर उपानत्पादत्राणमारुरुक्षत्यारोढुमिच्छति । होढ इत्यपवादेन नहोध इत्युपानत् । न हीत्युपधादीर्घः । णह बन्धने । उपानह्यति पादमित्युपानत् । पादूरुपानत्स्त्रीत्यमरः
॥ २५ ॥
एते यौनेयसम्बन्धाः सहशय्यासनाशनाः ।
वृष्णयस्तुल्यतां नीता अस्मद्दत्तनृपासनाः ॥ २६ ॥
चामरव्यजने शङ्खमातपत्रं च पाण्डुरम् ।
किरीटमासनं मह्यां१ भुञ्जन्त्यस्मदुपेक्षया ॥ २७ ॥
पदरत्नावली
यौनेयेन योनिनिमित्तेन सम्बन्धो येषान्ते । ततः किम्? अत्राह– सहेति ॥ अस्मद्दत्तेत्युक्तं विवृणोति– चामरेति ॥ मह्यं महनीयमासनं भुञ्जन्ति भजन्ति, अन्योपद्रवमन्तरेण रक्षन्ति । भुजोऽनवन इति पाणिनिः ॥ २६,२७ ॥
दुर्घटभावदीपिका
अस्मद्दत्तनृपासना इत्युक्तस्य विवरणमात्रं क्रियते । मह्यमस्माभिर्दत्ते चामरव्यजनेऽस्माभिर्दत्तं शङ्खपाण्डुरमातपत्रं किरीटमासनं चास्मदुपेक्षया अस्मत्कर्तृकसमीचीन-दृष्ट्या भुञ्जन्तीति । एतेनास्माभिर्दत्तमित्यादिकं वक्तव्यं तन्नास्तीति न्यूनतेति चोद्यं परिहृतम् । मह्यमित्यस्य व्यत्ययेनास्माभिरित्यर्थः । दत्तेत्यादेः शेष इति चाङ्गीकारात् । एतेनैवास्म-त्कृपादृष्ट्येति वक्तव्यमस्मदुपेक्षयेति कथनमनुपपन्नमिति चोद्यं प्रत्युक्तम् । अस्मदुपेक्षयेत्यस्य कृपादृष्ट्येत्यत्र तात्पर्यमिति स्वीकरणात् ॥ २६,२७ ॥
सत्यधर्मीया
यौनेयो योनिसम्बन्धीयः । सम्बन्धाद् इतश्चानिञ इति ठक् । सह-शय्यासनाशनाः । वोपसर्जनस्येत्युक्तेः । तुल्यतामस्माभिर्नीताः । अस्मद्दत्तनृपासनाश्च ॥ पाण्डुरमिति शङ्खातपत्रोभयविशेषणम् । मह्यां भूमौ । मह्यमिति पाठे महनीयमासनम् । ऋॄॄहलोर्ण्यदिति ण्यत् । वृद्ध्यभावश्छान्दसः । अवृत्तविच्छित्तेर्माह्यमिति सुपठम् । भुञ्जन्ति भुञ्जते । अस्तु नाम यतः सम्बन्धिन इत्युपेक्षया । भुजोऽनवन इति स्मरणात्पालयन्तीत्यर्थे परस्मैपदता वा ॥ २६,२७ ॥
अलं यदूनां नरदेवलाञ्छनैर्दातृप्रतीपैः फणिनामिवामृतैः ।
येऽस्मत्प्रसादोपचिता हि यादवा आज्ञापयन्त्यद्य गतत्रपा बत ॥ २८ ॥
पदरत्नावली
दातॄणामस्माकं प्रतीपैर्विरोधिभिः । दत्तैरमृतैः क्षीरादिरसैर्विषात्मना परिणतैर्दातॄणां मरणप्रदत्वेन प्रतीपैः ॥ २८ ॥
सत्यधर्मीया
नरदेवलाञ्छनै राजचिह्नैः । फणिनां सर्पाणाममृतैः क्षीरैरिव दातृप्रतीपै-र्वितरितृविरोधिभिर्विषयतया परिणतैर्गतत्रपा निर्लज्जाः ॥ २८ ॥
कथमिन्द्रोऽपि कुरुभिर्भीष्मद्रोणार्जुनादिभिः ।
अदत्तमवरुन्धीत सिंहग्रस्त१ इवोरणः ॥ २९ ॥
पदरत्नावली
अवरुन्धीत प्राप्नोति । सिंहग्रस्तोरणो ऽविर्यथा कवलं न गृह्णाति । सिंहग्रस्तमिति पाठे कवलमादातुं न शक्तः ॥ २९ ॥
सत्यधर्मीया
इन्द्रोऽपि कुरुभिस्तानाह । भीष्मद्रोणार्जुनादिभिः । द्रोणस्य कौरवान्न-भोक्तृत्वात्तत्त्वेनोक्तिः । यद्यप्यर्जुनो नेष्टः । किन्तु द्विष्टस्तथाऽप्यन्यैः सह विरोधे तु वयं पञ्चोत्तरशतमितिवदुक्तिस्तथेति ज्ञेयम् । सिंहग्रस्तस्तत्कवलित उरणो मेषः पत्रादिकं यथा नावरुन्धते तथाऽदत्तं नावरुन्धीत न स्वीकुर्यात् । सिंहग्रस्तमिति पाठे उरणः सिंहग्रस्तं यथा नाद्यात्तथेति योजना ॥ २९ ॥
श्रीशुक उवाच—
जन्मबन्धुश्रियोन्नद्धमदास्ते भरतर्षभ ।
आश्राव्य रामं दुर्वाक्यैरटव्यां पुरमाविशन् ॥ ३० ॥
पदरत्नावली
अटव्यामुपवने स्थितं रामम् ॥ ३० ॥
सत्यधर्मीया
जन्मना बन्धुभिश्च सहिता श्रीस्तया । जन्मनैव बन्धुरिव भ्रातेव सहजेति यावत् । तया सम्पदेति वा । उन्नद्धो मदो येषां ते । दुर्वाक्यैरुक्तरूपाणि रामं श्रावयित्वा तदपि न पत्तनं नीत्वा किन्त्वटव्याम् । अधुना न समाधानाशा बलस्येत्याह– पुरमाविशन्निति ॥ ३० ॥
दृष्ट्वा कुरूणां दौःशील्यं श्रुत्वा वाच्यातिवाच्यताम्१ ।
अवोचत् कोपसंरब्धो दुष्प्रेक्ष्यः प्रहसन् मुहुः ॥ ३१ ॥
पदरत्नावली
वाच्यातिवाच्यतामपवादातिशयितामपवादताम् ॥ ३१ ॥
दुर्घटभावदीपिका
वाच्यातिवाच्यतामित्यस्य वाच्या गुणास्तानतिक्रम्य विद्यमानगुणा विरुद्धा ये दोषास्ते वाच्या वक्तव्याः प्रतिपाद्या यस्य वाक्यस्य तद्वाक्यमित्यर्थः । अत्र तल्प्रत्ययः स्वार्थे ॥ ३१ ॥
सत्यधर्मीया
कुरूणां दौःशील्यं स्वयं दृष्ट्वा तथा वाच्यातिवाच्यतां वाच्यमिति
शेषः । श्रुत्वाऽवाच्यानामर्थानामत्यन्तं वाच्यता यस्याः सा ताम् । दुष्प्रेक्ष्यः । तत्र तन्त्रं कोपसंरब्ध इति । मुहुः प्रहसन् उपहसन्नवोचत् ॥ ३१ ॥
नूनं नाम मदोन्नद्धाः शान्तिं नेच्छन्त्यसाधवः ।
तेषां हि प्रशमो दण्डः पशूनां लकुटो२ यथा ॥ ३२ ॥
पदरत्नावली
प्रशमः शान्तिकरः । लगुडो यष्टिः ॥ ३२ ॥
सत्यधर्मीया
लकुटस्तत्ताडनम् । प्रशमः शान्तिकरः ॥ ३२ ॥
अहो यदून् सुसंरब्धान् कृष्णं च कुपितं शनैः ।
सान्त्वयित्वाऽहमेतेषां शममिच्छन्निहागतः ॥ ३३ ॥
सत्यधर्मीया
कृष्णं च कुपितं पुत्रधर्षणाच्छनैः सान्तयित्वा । एतेषाम् ॥ ३३ ॥
त इमे मन्दमतयः कलहातिरताः खलाः ।
तस्मात् तं मामवज्ञाय दुर्भाषां मानिनोऽब्रुवन् ॥ ३४ ॥
सत्यधर्मीया
तमागतम् ॥ ३४ ॥
नोग्रसेनः किल विभुर्भोजवृष्ण्यन्धकेश्वरः ।
शक्रादयो लोकपाला यस्यादेशानुवर्तिनः ॥ ३५ ॥
सत्यधर्मीया
स्वयमप्युपहसति । यस्य शक्रादयो लोकपाला आदेशानुवर्तिनः । स भोजवृष्ण्यन्धकेश्वर उग्रसेनो नाम्ना । उग्रा सेना यस्य स इत्यर्थश्चन विभुर्नादेशसमर्थः किल ॥
सुधर्माऽऽक्रम्यते येन पारिजातोऽमराङ्घ्रिपः ।
आनीय भुज्यते सोऽसौ न किलाध्यासनार्हकः ॥ ३६ ॥
पदरत्नावली
सोऽसौ कृष्णः ॥ ३६ ॥
सत्यधर्मीया
अदत्तमवरुन्धीतेत्युत्तरयति– सुधर्मेति । येन सुधर्मा देवसभाऽऽ-क्रम्यते । अमराङ्घ्रिपः पारिजात आनीय येन भुज्यते सोऽसौ कृष्णोऽध्यासनार्हको न किल
॥ ३६ ॥
यस्य पादयुगं साक्षाच्छ्रीरुपास्तेऽखिलेश्वरी ।
स नार्हति किल श्रीशो नरदेवपरिच्छदान् ॥ ३७ ॥
सत्यधर्मीया
यस्य पादयुगं साक्षाच्छ्रीरुपास्ते । किं तन्महत्त्वमित्यत आह–अखिलेश्वरीति । श्रीशो नरदेवपरिच्छदान्नार्हति किल ॥ ३७ ॥
यस्याङ्घ्रिपङ्कजरजोऽखिललोकपालमौल्युत्तमैर्धृतमुपासिततीर्थतीर्थम् ।
**ब्रह्मा भवोऽहमपि यस्य कलाकलांशाः श्रद्धामहे सुचिरमस्य नृपासनं क्व **
॥ ३८ ॥
पदरत्नावली
श्रद्धामहे आकाङ्क्षामहे । सर्वैरुपासितं निषेवितं तीर्थं भागीरथी, अस्या अपि शुद्धिकरम् । अस्य कृष्णस्य ॥ ३८ ॥
सत्यधर्मीया
यस्याङ्घ्रिपङ्कजरजोऽखिललोकपालानां मौल्युत्तमैर्मुकुटश्रेष्ठैर्धृतम् । उपासितानि यानि तीर्थानि तानि तीर्थयति पवित्रयतीति तत्तथा । ब्रह्मा भवो रुद्रोऽहं च यस्य कलयांऽशस्य कलांशास्तदंशा भिन्ना यस्य तद्रजः सुचिरं श्रद्धामहे । न कण्डूतिवत्कण्डूयनव-दित्याह । विश्वस्य वर्तामहे । अस्य तस्य नृपासनं क्व क्व भवेत् ॥ ३८ ॥
भुज्यते कुुरुभिर्दत्तं भूखण्डं वृष्णिभिः किल ।
उपानहः किल वयं स्वयं तु कुरवः शिरः ॥ ३९ ॥
सत्यधर्मीया
वृष्णिभिः कुुरुभिर्दत्तं भूखण्डं भुज्यते किल । वयञ्चोपानहः किल । स्वयं तु कुरवः शिरः किल ॥ ३९ ॥
अहो ऐश्वर्यमत्तानां मत्तानामिव मानिनाम् ।
असम्बद्धा गिरो रूक्षाः कः सहेतानुशासिता ॥ ४० ॥
पदरत्नावली
अनुशासिता शिक्षाकरः ॥ ४० ॥
दुर्घटभावदीपिका
मत्तानां मधुपानेन मत्तानां गिर इव मानिनामहङ्कारविशिष्टानामैश्वर्य-मत्तानामैश्वर्यनिमित्तमदयुक्तानां कौरवाणामहो आश्चर्यकरा असम्बद्धा रुक्षा गिरः । श्रुत्वेति शेषः । श्रुत्वाऽनुशासिताऽनुशासनसमर्थः कः सहेत न कोऽपीति । एतेनाहो इत्येतदनन्वितमिति दूषणमपास्तम् । अहो इत्यस्य गिर इत्यनेनान्वयस्योक्तत्वात् ॥ ४० ॥
सत्यधर्मीया
मत्तानां स्वभावत ऐश्वर्येण च मत्तानाम् । मानिनामहङ्कारिणामसम्बद्धा रूक्षा गिरः कः सहेत । सहो न चेत्सहनमेव वरोहलधरेत्यत आह– अनुशासिता इति । शिक्षकः । तृना च न शासनकर्तृता कादाचित्कीति सूचयति ॥ ४० ॥
अद्य निष्कौरवां पृथ्वीं करिष्यामीत्यमर्षितः ।
गृहीत्वा हलमुत्तस्थौ दहन्निव जगत्त्रयम् ॥ ४१ ॥
सत्यधर्मीया
पृथ्वीं निष्कौरवां करिष्य इत्यमर्षितो हलं स्वायुधं, जगत्त्रयं दहन्निव गृहीत्वा उत्तस्थौ ॥ ४१ ॥
लाङ्गलाग्रेण नगरमुद्विदार्य गजाह्वयम् ।
विचकर्ष स गङ्गायां प्रहरिष्यन्नमर्षितः ॥ ४२ ॥
दुर्घटभावदीपिका
अमर्षितः स बलरामो गजाह्वयनगरं गङ्गायां प्रहरिष्यन्पातयिष्यन् लाङ्गलाग्रेणोद्विदार्य विचकर्षेति । एतेन गङ्गायां पातयन्निति कथनमयुक्तमिति चोद्यं निरस्तम् । प्रहरिष्यन्नित्यर्थस्य प्रहारं कुर्वन्नित्यर्थ इत्यनङ्गीकारात् ॥ ४२ ॥
सत्यधर्मीया
विदार्य गङ्गायां प्रहरिष्यन्विचकर्ष ॥ ४२ ॥
जलयानमिवाघूर्णं गङ्गायां नगरं पतत् ।
आकृष्यमाणमालोक्य कौरवा जातसम्भ्रमाः ॥ ४३ ॥
सत्यधर्मीया
आघूर्णं चञ्चलं जलयानं नौकां पतदाकृष्यमाणं नगरं चावलोक्य । कौरवा जातसम्भ्रमा उत्पन्नभीतयः ॥ ४३ ॥
तमेव शरणं जग्मुः सकुटुम्बा जिजीषवः ।
सलक्षणं पुरस्कृत्य साम्बं प्राञ्जलयोऽब्रुवन् ॥ ४४ ॥
सत्यधर्मीया
जिजीषवः । छन्दच्छेदभिया विकारलोपः । जिजीविषवो जीवितुमिच्छवः । सलक्षणं लक्षणासहितं साम्बं पुरस्कृत्य । परिणयनिर्णायकहरिद्रादिलेपनलक्षणसहितं वा ॥४४॥
रामरामाखिलाधार प्रभावं न विदाम ते ।
मूढानां नः कुटुम्बीनां क्षन्तुमर्हस्यधीश्वर ॥ ४५ ॥
पदरत्नावली
कुटुम्बीनामिति दीर्घश्छान्दसः ॥ ४५ ॥
सत्यधर्मीया
हे राम राम ते प्रभावं न विदाम न जानीमः । कुटुम्बीनां मत्वर्थ
इकारः । मप्रत्ययः । त्वमप्यस्मत्समः । कुटुम्बवत्तयेत्यप्याहुः– कुटुम्बीति । ईनां कामानां त्वदिच्छानां प्रभावं न विदामेत्यन्वयः । इममर्थविशेषं सूचयितुं कुटुम्बिनामिति वक्तव्ये कुटुम्बीनामित्युक्तिरिति ज्ञेयम् । नोऽपराधमेतदुपरोधनजम् ॥ ४५ ॥
स्थित्युत्पत्तिलयानां त्वमेको हेतुर्निराश्रयः ।
लोकान् क्रीडनकानीश बहवस्ते१ वदन्ति हि ॥ ४६ ॥
पदरत्नावली
क्रीडनकान् क्रीडासाधनानि ॥ ४६ ॥
सत्यधर्मीया
अश्चासावाश्रयश्चेति आश्रयो नितरामाश्रयो यस्य सः । स्थित्यादिहेतु-ताऽऽवेशाशयनिवेशेनेति ज्ञेयम् । उत्पत्तिस्थितिलयानामिति वक्तव्ये पूर्वं सैवात्यावश्यकीति गृहीता स्थितिरिति वस्तुस्थितिः । हे ईश बहवो, लोकांस्ते क्रीडनकान्वदन्ति । हीति न शतमिति नीतिरिति मानसिद्धत्वात्ते च प्रेक्षावन्त इति कटाक्षयन्ति । क्रीडत इति तु सुगमार्थम् ॥ ४६ ॥
त्वमेव मूर्ध्नीदमनन्त लीलया भूमण्डलं बिभर्षि सहस्रमूर्धन् ।
अन्ते च यः स्वात्मनि रुद्धविश्वः शेषेऽद्वितीयः परिशिष्यमाणः ॥ ४७ ॥
पदरत्नावली
अन्ते जगत्संहारे परिशिष्यमाणोऽद्वितीयः शेषे ॥ ४७ ॥
सत्यधर्मीया
हे सहस्रमूर्धन् अनन्त । मूध््नर्येकतमे शिरसि । इदं भूमण्डलं बिभर्षि तदपि लीलया । अन्ते प्रलयकाले । स्वात्मनि स्वदेहे । रुद्धं विश्वं जगद्यस्य सः । स्वात्मनिरुद्धविश्व इति पदमेकं वा । यश्चाद्वितीयः समाभ्यधिकशून्यः । परिशिष्यमाणो निषेधशेषः । तेन हरिणा सह शेषे । सोऽपि सहितानितरस्तरुणीं विनेत्यप्याहुः– अचयो निःसमूह इति ॥ ४७ ॥
कोपस्तेऽखिलशिक्षार्थं न द्वेषान्न च मत्सरात् ।
बिभ्रतो भगवान् सत्त्वं स्थितिपालनतत्परः ॥ ४८ ॥
पदरत्नावली
जगद् बिभ्रतस्ते कोपोऽखिलशिक्षार्थम् । स त्वं स्थित्यादितत्परः । सद्भिरत्र हलधरे यथोचितं ग्राह्मनुचितमन्तर्यामिविषयमिति तात्पर्यमवगन्तव्यम् ॥ ४८ ॥
दुर्घटभावदीपिका
यतो भगवान् सत्त्वगुणेन । स्थितिपालनतत्परः स्थितिः सत्ता, पालनं रक्षणं, तदुभयतत्परोऽतः सत्त्वं सत्त्वगुणं बिभ्रतस्ते कोपः संहारार्थं न किंत्व-खिलशिक्षार्थम् । ननु संहारस्य कोपकार्यत्वाभावाद् द्वेषमात्सर्यलक्षणकारणाभावात्कोपस्योत्पत्ति-रेव न स्यादित्यत आह– न द्वेषादिति ॥ ते कोपो द्वेषादपकारेच्छालक्षणद्वेषान्न । लक्षणात्परेच्छयाऽ- सहद्विष्णुत्वरूपमत्सराच्च न किंत्वनुग्रहादिति । एतेन पूर्वार्धयोरनन्वय इति दूषणं परास्तम् । यदीत्यादीनां शेषेणान्वयस्योक्तत्वात् । एतेनैव ते कोपः संहारार्थं न किं त्वखिल-शिक्षार्थमिति वक्तव्यम् । केवलमखिलशिक्षार्थमिति कथनमयुक्तमिति चोद्यं परिहृतम् । संहारार्थ- मित्यादेर्नेत्यस्यावृत्तिरित्यङ्गीकारात् । एतेनैव कोपो द्वेषान्न मत्सरान्न किं त्वनुग्रहादिति वक्तव्यम् । द्वेषान्न मत्सरान्नेति निषेधमात्रकथनमयुक्तमिति चोद्यस्यानवकाशः । किं त्वनुग्रहादित्यस्य शेष इत्यङ्गीकारात् ॥ ४८ ॥
सत्यधर्मीया
हे भगवंस्तव कोपो द्वेषान्मत्सरान्न । सत्त्वं बिभ्रतः स्थितिपालनतत्परः । तत्तत्स्थितिः स्वभावस्तत्पालनासक्तः ॥ ४८ ॥
नमस्ते सर्वभूतात्मन् सर्वशक्तिधराव्यय ।
विश्वकर्मन् नमस्तेऽस्तु त्वां वयं शरणं गताः ॥ ४९ ॥
एवं प्रपन्नैः संविग्नैर्वेपमानायनैर्बलः ।
प्रसादितः सम्प्रसन्नो मा भैष्टेत्यभयं ददौ ॥ ५० ॥
पदरत्नावली
विश्वस्य प्रपञ्चस्यानुग्रहार्थं कर्म विक्रमलक्षणो व्यापारो यस्य स तथा । तस्य सम्बुद्धिर् हे विश्वकर्मन् । संविग्नैर्भयसन्त्रस्तैः । वेपमानानां कम्पमानानामङ्गोपाङ्गा-नामयनैराश्रयैः ॥ ४९,५० ॥
दुर्घटभावदीपिका
वेपमानायनैरित्यस्य वेपमानैः कम्पमानैः कम्पमानभूम्याद्याश्रय-विशिष्टैश्चेत्यर्थः । एतेन वेपमानैरित्यनेनैव पूर्णत्वादयनैरित्येतद्व्यर्थमिति दूषणं परास्तम् । वेपमानशब्दस्यावृत्तिमङ्गीकृत्य कम्पमानत्वं कम्पमानभूम्याद्याश्रयविशिष्टत्वं चोच्यत इत्यभ्युप-गमात् ॥ ५० ॥
॥ इति श्रीभागवतटिप्पण्यां द्विनवतितमोऽध्यायः ॥ १०–९२ ॥
सत्यधर्मीया
सर्वस्य रुद्रस्य या शक्तिस्तत्समशक्तिमन् । सर्वो ह्येष रुद्रः । सर्वः कालञ्जरः शिव इति नामनिधानम् । तथैव सर्वभूत आत्मा देहो यस्य स तथा ॥ ४९,५०॥
दुर्योधनः पारिबर्हं कुञ्जरान् षष्टिहायनान् ।
ददौ द्विदशसाहस्रान् नियुतानि तुरङ्गमान् ॥ ५१ ॥
सत्यधर्मीया
द्वे दशसहस्रे येषां ते तान् कुञ्जरान् । तुरङ्गमान्नियुतानि ॥ ५१ ॥
रथानां षट्सहस्राणि रौग्माणां सूर्यवर्चसाम् ।
दासीनां निष्ककण्ठीनां सहस्रं दुहितृवत्सलः ॥ ५२ ॥
पदरत्नावली
रौक्मानि हेमचितान्याभरणानि एषां सन्तीति रौक्मिणस्तेषाम् ॥५२॥
सत्यधर्मीया
रुग्मैव रौग्मं तदेषामस्तीति तेषाम् । दुहितृवत्सलः । वर्णाधिक्यं वात्सल्याधिक्यं सूचयति ॥ ५२ ॥
प्रतिगृह्य तु तत्सर्वं भगवान् सात्वतर्षभः ।
ससुतः सस्नुषः प्रायात् सुहृद्भिरभिवन्दितः ॥ ५३ ॥
सत्यधर्मीया
सस्नुषः सलक्षणः ॥ ५३ ॥
ततः प्रविष्टः स्वपुरीं हलायुधः समेत्य बन्धूननुरक्तचेतसः ।
शशंस सर्वं यदुपुङ्गवानां मध्ये सभायां कुरुषु स्वचेष्टितम् ॥ ५४ ॥
सत्यधर्मीया
बन्धून् उग्रसेनादीन् । सभायां यदुपुङ्गवानां मध्ये । कुरुषु स्वचेष्टितं सर्वं शशंस ॥ ५४ ॥
अद्यापि वः पुरं ह्येतत् सूचयद् रामविक्रमम् ।
समुन्नतं दक्षिणतो गङ्गायां ननु दृश्यते ॥ ५५ ॥
॥ इति श्रीमद्भागवते दशमस्कन्धे द्विनवतितमोऽध्यायः ॥
पदरत्नावली
रामविक्रमो जलरेखावन्नश्वरो न किन्तु सर्वचक्षुर्विषय इत्याह– अद्यापीति ॥ रामविक्रमं सूचयद् गङ्गायां दक्षिणतः समुन्नतं दृश्यत इत्यन्वयः ॥ ५५ ॥
॥ इति श्रीमद्भागवतटीकायां विजयध्वजतीर्थकृतायां पदरत्नावल्यां
दशमस्कन्धे उत्तरार्धे द्विनवतितमोऽध्यायः (स.धर्म.१०–९२) ॥
सत्यधर्मीया
हे परीक्षित्परीक्षस्व तच्चिह्नमिति शंसति– अद्यापीति । दक्षिणतः समुन्नतम् । रामविक्रमं सूचयद्वः पुरमद्यापि दृश्यते ननु ॥ ५५ ॥
**॥ इति श्रीसत्यधर्मयतिकृतायां भागवतटिप्पण्यां **
दशमस्कन्ध उत्तरार्धे द्विनवतितमोऽध्यायः ॥ १०–९२ ॥