भूयोऽहं श्रोतुमिच्छामि रामस्याद्भुतकर्मणः
॥ अथ एकनवतितमोऽध्यायः ॥
राजोवाच—
भूयोऽहं श्रोतुमिच्छामि रामस्याद्भुतकर्मणः ।
अनन्तस्याप्रमेयस्य यदन्यत् कृतवान् प्रभुः ॥ १ ॥
पदरत्नावली
अनन्तस्य शेषस्य । एन विष्णुना प्रमेयस्य ज्ञेयस्य ॥ १ ॥
सत्यधर्मीया
प्रभू रामो यदन्यत्कृतवांस्तस्यानन्तस्य नाम्नाऽप्रमेयस्य सम्यग्ज्ञातुमयोग्य-स्याद्भुतकर्मणो रामस्य तद्भूयः । तदीयतया भूय इत्युक्तिर्न तु प्राक् प्रोक्तस्यैव शुश्रूषयेति ॥१॥
श्रीशुक उवाच—
नरकस्य सखा कश्चिद् विविदो नाम वानरः ।
सुग्रीवसचिवः सोऽथ भ्राता मैन्दस्य वीर्यवान् ॥ २ ॥
सत्यधर्मीया
बलबलं लपन्नृपं प्रति तदुपयुक्तं वक्ति । हे नर विशिष्टमनुष्य । देवांश भविष्यच्छेषांशेति वा । कस्य सखेत्यान्तरङ्गिकः प्रश्नः । तस्योत्तरं नरकस्य सखेति । नरकस्येति । द्विविदो विविद इति नामनी । तत्र यथावृत्ताविच्छित्ति ते ज्ञेये ॥ २ ॥
सख्युः सोऽपचितिं कुर्वन् वानरो राष्ट्रविप्लवम् ।
पुरग्रामाकरान् घोषानदहद् वह्निमुत्सृजन् ॥ ३ ॥
पदरत्नावली
सख्युर्नरकस्यापचितिं निष्कृतिम् ॥ ३,४ ॥
सत्यधर्मीया
सख्युर्नरकस्य । अपचितिमेवमपचारेण तदनृणताम् । राष्ट्रविप्लव-मित्युक्तं विशदयति– पुरेत्यादिना ॥ ३ ॥
क्वचित् स शैलानुत्पाट्य तैर्देशान् समचूर्णयत् ।
आनर्तान् सुतरामेत्य यत्रास्ते शत्रुहा हरिः ॥ ४ ॥
सत्यधर्मीया
तैः शैलैः । तत्रापि सुतरामानर्तान् । तत्र तन्त्रं यत्र शत्रुहा हरिरिति । अशत्रुर्मित्रं नरकस्तं हन्तीत्यशत्रुहा हरिर्यत्रास्त इत्यानर्तदेशस्यार्तिदाननिदानमनेन सूचयतीति वा । शत्रुहेति छेदपक्षे तन्मौर्ख्यं निरवधीति द्योत्यते ॥ ४ ॥
क्वचित् समुद्रमध्यस्थो दोर्भ्यामुद्धृत्य तज्जलम् ।
देशान् नागायुतप्राणो वेलाकूलानमज्जयत् ॥ ५ ॥
पदरत्नावली
वेलया समुद्रजलाभिवृध्द्या कूलान् नीचभूमीः । समुद्रतीरनिकट-वर्तिदेशाननाशयदित्यर्थः ॥ ५ ॥
सत्यधर्मीया
तज्जलं समुद्रोदकम् । दोर्भ्यां तदानीन्तनः स इति महद्भ्यां, नागायुतप्राणस्तत्समसामर्थ्यो वेलया नीरविकारेण सहितानि कूलानि तीराणि येषां तान् । वेलया तीरेण सहितानि कूलानि प्रतीराणि च येषां तानि वा । वेला काले जलधरे तीरनीरविकारयोः । ‘कूलं कूपे तटाके च सैन्यपृष्टप्रतीरयोः’ इत्युभयत्र विश्वः । अमज्जय-न्मज्जयामास ॥ ५ ॥
आश्रमानृषिमुख्यानां कृत्वा भग्नवनस्पतीन् ।
अदूषयच्छकृन्मूत्रैरग्नीन् वैतानिकान् खलः ॥ ६ ॥
पदरत्नावली
वैतानिकान् यज्ञसम्बन्धिनः ॥ ६ ॥
सत्यधर्मीया
भग्ना वनस्पतयः पुष्पाणि विना फलवद्वृक्षा वृक्षमात्राणि वा येषां तान् । वैतानिकान् सवसम्बन्धिनः ॥ ६ ॥
पुरुषान् योषितो दृप्तः क्ष्माभृद्द्रोणीगुहासु सः ।
निक्षिप्य चाप्यधाच्छृङ्गैः पेशस्कारीव कीटकम् ॥ ७ ॥
पदरत्नावली
क्ष्माभृद्द्रोणीगुहासु पर्वतनितम्बगुहासु ॥ ७ ॥
सत्यधर्मीया
क्ष्माभृतां द्रोण्यो नितम्बास्तत्सम्बन्धिगुहासु निक्षिप्य शृृङ्गैरप्यधात् पिदधे । पेशस्कारी मृगविशेषः ॥ ७ ॥
तं देशं विप्रकुर्वन् वै धर्षयंश्च कुलस्त्रियः ।
श्रुत्वा सुललितं गीतं गिरिं रैवतकं ययौ ॥ ८ ॥
सत्यधर्मीया
रामसमीपे रामाभिः क्रियमाणं गीतम् ॥ ८ ॥
तत्रापश्यद् यदुपतिं रामं पुष्करमालिनम् ।
सुदर्शनीयसर्वाङ्गं ललनायूथमध्यगम् ॥ ९ ॥
सत्यधर्मीया
कमलमालोपेतम् ॥ ९ ॥
गायन्तं वारुणीं१ पीत्वा मदविह्वललोचनम् ।
विभ्राजमानं वपुषा प्रभिन्नमिव वारणम् ॥ १० ॥
पदरत्नावली
प्रभिन्नं मदजलस्राविणम् ॥ १० ॥
सत्यधर्मीया
प्रभिन्नं दानोदकस्राविगण्डम् ॥ १० ॥
दुष्टः शाखामृगः शाखामारूढः कम्पयन् द्रुमान् ।
चक्रे किलकिलाशब्दमात्मानं सम्प्रदर्शयन् ॥ ११ ॥
सत्यधर्मीया
किलकिलाशब्दम् । एवं किलकिलादय इति प्रागुदाहृततात्पर्यतोऽय-मनुकारशब्दो बोध्यः ॥ ११ ॥
तस्य धार्ष्ट्यं कपेर्वीक्ष्य तरुण्यो जातिचापलम् ।
हास्यप्रिया विजहसुर्बलदेवपरिग्रहाः ॥ १२ ॥
पदरत्नावली
कपिजातिचापलं दृष्ट्वा ॥ १२ ॥
सत्यधर्मीया
धार्ष्ट्यं वैय्यात्यम् । बलदेवस्य परिग्रहा भार्याः ॥ १२ ॥
ता हेलयामास कपिर्भ्रूक्षेपैः सम्मुखादिभिः ।
सन्दर्शयन् गुदं तासां रामस्य च निरीक्षतः ॥ १३ ॥
पदरत्नावली
हेलयामास अवज्ञाताश्चक्रे । सम्मुखादिभिः पुरः स्थित्यादिभिः ॥ १३ ॥
सत्यधर्मीया
गुदमप्रदर्शनीयमपानद्वारम् । निरीक्षतो निरीक्षमाणस्य ॥ १३ ॥
तं ग्राव्णा प्राहरत् क्रुद्धो बलः प्रहरतां वरः ।
स वञ्चयित्वा ग्रावाणं मदिराकलशं कपिः ॥ १४ ॥
सत्यधर्मीया
ग्राव्णा पाषाणेन । मदिराकलशं मद्यभाण्डम् ॥ १४ ॥
गृहीत्वा हेलयामास धूर्तस्तं कोपयन् भृशम् ।
भृशं निर्भिद्य कलशं वासांस्यास्फालयद् बलात् ॥ १५ ॥
सत्यधर्मीया
हेलयामासानादृतवान् । तं बलम् । कलशं स्वनीतम् । वासांसि योषितां नीतानि । आस्फालयत् पटपटेति शब्दापयामास । बलाद्बलात्कारेण ॥ १५ ॥
कदर्थीकृत्य बलवान् विप्रचक्रे बलोद्धतः१ ।
तस्याप्यविनयं दृष्ट्वा देशांश्च तदुपद्रुतान् ॥ १६ ॥
सत्यधर्मीया
विप्रचके विरुद्धं चक्रे । अपचकारेति यावत् । तस्य अविनयमपि दृष्ट्वा तदुपद्रुतान्देशांश्च दृष्ट्वा ॥ १६ ॥
क्रुद्धो मुसलमादत्त हलं चारिजिघांसया ।
विविदोऽपि महावीर्यः शैलमुत्पाट्य पाणिना ॥ १७ ॥
सत्यधर्मीया
क्रुद्धो रामोऽरिजिघांसया मुसलं हलं चादत्त । स कपिरपि न पलायित इति आलपति– विविदोऽपीति । तथा हि कस्त्यक्ष्यति सिद्धविद्यामिति । पूर्वं सेतुहेतोर्धरो धरोत्पाटनपाटववांस्तदानीमिदानीमपि तदेवातनोदित्याह– पाणिना शैलमुत्पाट्येति ॥१७॥
अभ्येत्य तरसा तेन बलं मूर्धन्यताडयत् ।
तं तु सङ्कर्षणो मूर्ध्नि पतन्तमचलं रुषा ॥ १८ ॥
सत्यधर्मीया
तरसा वेगेन बलेन वा ॥ १८ ॥
प्रतिजग्राह भगवान् मुसलेनाहनच्च तम् ।
मुसलाहतमस्तिष्को विरेजे रक्तधारया ॥ १९ ॥
सत्यधर्मीया
तमचलम् । मुसलेन जग्राह तेनैवाहनदहन् । मुसलेनाहतं मस्तिष्कं शिरोमांसग्रन्थिविशेषः । ‘मस्तिष्कं गोर्दं किट्टं मलोऽस्त्रियाम्’ इत्यमरः । मसी परिमाणो क्तिन् । मस्कगतौ । पृषोदरादितः षत्वादि ॥ १९ ॥
गिरिर्यथाऽऽगैरिकया प्रहारं नान्वचिन्तयत् ।
पुनरन्यं समुत्पाट्य कृत्वा निष्पत्रमोजसा ॥ २० ॥
पदरत्नावली
गैरिकया गिरिधातुरसधारया ॥ २० ॥
सत्यधर्मीया
गिरिः पर्वतो यथा । आगैरिकया रक्तधारयेति समस्तम्, धारयेति विश्लिष्टमन्वेतव्यम् । आ सम्यक् गैरिकं यस्याः स्रवकतया तया धारया राजत एवं रेज इत्यन्वयः । ‘गैरिकं तु विशेषत’ इत्यमरः । गैरिकाडनकासीसालोहसीसासहिङ्गुला । गन्धकोऽभ्रक इत्याद्या धातवो गिरिसम्भवा इत्यादेर्गिरौ भवमित्यर्थेऽध्यात्मादिष्ठञ् । यद्वा गिरिरेव गिरिकः । वेः क इतिवत्स्वार्थे, ततोऽण् । गौरिकं धातुरुक्मयोरित्युक्तेर्धातुरिति वा । प्रहारं बलमुसलकलितम् । निष्पन्न त्रुटितपत्रम् । अन्यथा मृदुलं तत्प्रहार आर्ति-पूर्तिकृत्स्यादिति छदच्छेदनम् ॥ २० ॥
तेनाहनत् सुसंक्रुद्धस्तं बलः शतधाऽरुजत् ।
ततोऽन्यमुत्पाट्य जघ्ने तं चापि शतधाऽच्छिनत् ॥ २१ ॥
पदरत्नावली
अरुजच् चूर्णयामास ॥ २१ ॥
सत्यधर्मीया
अरुजद्बभञ्ज । अन्यं वृक्षं जघ्ने जघान ॥ २१ ॥
एवं युद्ध्यन् भगवता भग्ने भग्ने पुनः पुनः ।
आकृष्य सर्वतो वृक्षान् निर्वृक्षमकरोद् वनम् ॥ २२ ॥
सत्यधर्मीया
भग्ने भग्ने च वृक्षे सर्वतो वनावनेर्वृक्षानाकृष्य वनं निर्वृक्षमकरोत् ॥२२॥
ततोऽमुञ्चच्छिलावर्षं बलस्योपर्यमर्षितः ।
तत्सर्वं चूर्णयामास लीलया मुसलायुधः ॥ २३ ॥
सत्यधर्मीया
तत्सर्वं तदुत्सृष्टम् ॥ २३ ॥
स बाहू तालसङ्काशौ मुष्टीकृत्य कपीश्वरः ।
आसाद्य रोहिणीपुत्रं दोर्भ्यां वक्षस्यरूरुजत् ॥ २४ ॥
सत्यधर्मीया
वक्षसि अरूरुजद्बभञ्ज ॥ २४ ॥
यादवेन्द्रोऽपि तं दोर्भ्यां त्यक्त्वा मुसललाङ्गलौ ।
जत्रावताडयत् क्रुद्धः सोऽपतद् रुधिरं वमन् ॥ २५ ॥
सत्यधर्मीया
मुसललाङ्गलावित्युक्त्या स स्वायुधं न दधारातो मयाऽऽयुधधारण-मधिरणमधर्मदमिति तत्त्याग इति भावः । जत्रौ शत्रुमताडयत् । स द्विविदो रुधिरं वमन्पपात मृत इति यावत् ॥ २५ ॥
चकम्पे तेन पतता सकण्टकवनस्पतिः ।
पर्वतो नृपशार्दूल वायुना नौरिवाम्भसि ॥ २६ ॥
पदरत्नावली
सकण्टका वनस्पतयो यस्मिन् स तथा ॥ २६ ॥
सत्यधर्मीया
सकण्टका वनस्पतयो यस्मिन्स पर्वतो, वायुना नौर्नौकेव चकम्पेऽकम्पत
॥ २६ ॥
जयशब्दो नमःशब्दः साधु साध्विति चाम्बरे ।
सुरसिद्धमुनीन्द्राणामासीत् कुसुमवर्षिणाम् ॥ २७ ॥
सत्यधर्मीया
साधु साध्विति । चशब्दः शब्दशब्दस्य विश्लेषान्वयसूचकः । कुसुम-वर्षिणामित्यनेन तद्वर्षं जयादिशब्दं च चक्रुरिति सूच्यते ॥ २७ ॥
एवं निहत्य विविदं जगद्व्यतिकरावहम् ।
संस्तूयमानो भगवान् जनैः स्वपुरमाविशत् ॥ २८ ॥
॥ इति श्रीमद्भागवते दशमस्कन्धे एकनवतितमोऽध्यायः ॥
पदरत्नावली
जगद्व्यतिकरं नाशमावहति करोतीति जगद्व्यतिकरावहस्तम् ॥ २८ ॥
॥ इति श्रीमद्भागवतटीकायां विजयध्वजतीर्थकृतायां पदरत्नावल्यां
दशमस्कन्धे उत्तरार्धे एकनवतितमोऽध्यायः (स.धर्म.१०–९१) ॥
सत्यधर्मीया
जगतो व्यतिकरो नाशस्तमावहतीति तम् । स्वपुरं द्वारकाम् ॥२८॥
॥ इति श्रीसत्यधर्मयतिकृतायां भागवतटिप्पण्यां दशमस्कन्ध उत्तरार्धेे
एकनवतितमोऽध्यायः ॥ १०–९१ ॥