१६ नवतितमोऽध्यायः

बलभद्रः कुरुश्रेष्ठ भगवान् रथमास्थितः

॥ अथ नवतितमोऽध्यायः ॥

श्रीशुक उवाच—

बलभद्रः कुरुश्रेष्ठ भगवान् रथमास्थितः ।

सुहृद्दिदृक्षुरुत्कण्ठः प्रययौ नन्दगोकुलम् ॥ १ ॥

पदरत्नावली

भगवत्सितकेशाविष्टस्य शेषावतारस्य बलभद्रस्य हरिमाहात्म्याविनाभूतं माहात्म्यं वर्णयत्यनेन प्रारिप्सितेनाध्यायत्रयेण । तत्र प्रथमे यमुनामदहरणलक्षणं विक्रमं वक्तुं बलस्य गोकुलगमनं वक्ति । द्वितीये द्विविदवधलक्षणं तृतीये कौरवगर्वनिर्वापणार्थं तत्पुराकर्षणलक्षणं वक्तुं दुर्योधनसुताहरणं वक्ति ॥ १ ॥

सत्यधर्मीया

बलभद्रस्य शुक्लकेशसम्भवत्वात्तद्बलादिमहत्त्वं हरिमहत्त्वकवलितमित्य-ध्यायत्रयेण तन्माहात्म्यं प्रतिपाद्यते । तत्रादौ स्वविरहमसहमानान्गोपालांल्लालयितुं गोकुलं गत इति वक्ति । बलभद्रः प्रलम्बघ्नः सुहृदस्तान्दिदृक्षुरुत्कण्ठ उत्कलिकावान् ॥ १ ॥

परिष्वक्तश्चिरोत्कण्ठैर्गोपैर्गोपीभिरेव च ।

रामोऽभिवाद्य पितरावाशीर्भिरभिनन्दितः ॥ २ ॥

पदरत्नावली

पितरौ यशोदानन्दगोपौ ॥

सत्यधर्मीया

गोपीभिर्गोपैश्च चिरमुत्कण्ठा यासां, चिरमुत्कण्ठा येषां ततः । पुमां-स्त्रियेत्येकशेषः । ताश्च ते च तैः । ताभ्यामभिनन्दितस्तोषितः ॥ २ ॥

चिरं नः पाहि दाशार्ह सानुगो जगदीश्वर ।

इत्यारोप्याङ्कमालिङ्ग्य नैत्रैः सिषिचतुर्जलैः ॥ ३ ॥

पदरत्नावली

इति समाप्ताभिवादनादिकर्माणं तं राममङ्कमारोप्य नेत्रेश्चक्षुर्नाडीनिर्गतैः । ‘नेत्रं नाड्यां तरोर्मूले’ इति यादवः ॥ ३ ॥

सत्यधर्मीया

तदभिनन्दनमभिनयेनाह– चिरमित्यादिना । इत्यभिनन्द्याङ्कमारोप्य नैत्रैर्नेत्रोत्थैर्जलैरानन्दजैः । नेत्रैरिति पाठेऽवान्तरकर्तृभिर्नयनैर्जलैः करणैः सिषिचतुरित्यर्थः

॥ ३ ॥

गोपवृद्धाश्च विधिवद् यविष्ठैरभिवादितः ।

यथावयो यथासख्यं यथासम्बन्धमात्मनः ॥ ४ ॥

पदरत्नावली

यविष्ठैः कनिष्ठैः ॥ ४ ॥

सत्यधर्मीया

स्वयं गोपवृद्धान्विधिवदभिवन्द्य । कनिष्ठैः स्वतो वयोऽवरैरभिवादितो नमस्कृतः । आत्मन इति सख्यसम्बन्धसम्बन्धी ॥ ४ ॥

समुपेत्याथ गोपाला हास्यहस्तग्रहादिभिः ।

विश्रान्तं सुखमासीनं पप्रच्छुः पर्युपासिताः ॥ ५ ॥

पदरत्नावली

हास्येन मन्दस्मितेन । हस्तग्रहेण । आदिशब्देन परिरम्भणादिकं गृह्यते

॥ ५ ॥

सत्यधर्मीया

हास्येन विनोदेन हस्तग्रह आदिर्येषां परिरम्भणादीनां तैः । परित उपासिता उपविष्टा ये ते ॥ ५ ॥

पृष्टश्चाकथयत् स्वेषु प्रेमगद्गदया गिरा ।

कृष्णे कमलपत्राक्षे सन्न्यस्ताखिलराधसः ॥ ६ ॥

कच्चिन्नो बान्धवा राम सर्वे कुशलमासते ।

कच्चित् स्मरथ नो राम यूयं दारसुतान्विताः ॥ ७ ॥

पदरत्नावली

संन्यस्ताखिलराधसः समर्पितसमस्तसम्पदः ॥ ६ ॥

सत्यधर्मीया

स्वमात्रे स्वेषु गोपेष्वनामयं पृष्टस्तमकथयत् । ते च पुनः कमलपत्राक्षे कृष्णे सन्यस्तान्यलं समपिर्तान्यखिलानि राधांसि सिद्धयो यैस्ते । गोपा अपि पुनरितरा-नामयादिकं पृच्छन्तीत्याह । हे राम नः सर्वेषां बान्धवाः कुशलं यथा तथाऽऽसते कच्चित् । हे राम यूयं दारसुतान्विता नः स्मरथ कच्चिदिति विशेषाद्रामेति द्विसम्बोधनम् । नोरामयूयमिति पदमेकं वा । नो न विद्यन्ते रामाः सुन्दर्यो भार्या येषां ते च ते यूयं च प्राक् । इदानीं दारसुतान्विता इति स्मरणमनुपपन्नमिवेति तद्विषयः प्रश्नो युक्त इति वा

॥ ६,७ ॥

दिष्ट्या कंसो हतः पापो दिष्ट्या मुक्ताः सुहृज्जनाः ।

निहत्य निर्जित्य रिपून् दिष्ट्या दुर्गं समास्थिताः ॥ ८ ॥

सत्यधर्मीया

रिपून्कांश्चिन्निर्जित्येत्याह– साल्वदीन्कांश्चिन्निर्जित्य । दुर्गं द्वारकाम् ॥

गोप्यो हसन्त्यः पप्रच्छू रामसन्दर्शनादृताः ।

कच्चिदास्ते सुखं कृष्णः पुरस्त्रीजनवल्लभः ॥ ९ ॥

पदरत्नावली

रामसन्दर्शनेनादृता जातबहुमानाः ॥ ९ ॥

सत्यधर्मीया

रामसन्दर्शनेनादृतमादरणं यासां ताः । पुरस्त्रीजनवल्लभः । अनेनासूया ताभ्यो ध्वन्यते । तत्रापि जनशब्दो न तासां पुंवच्छक्तिमत्त्वेन तन्निघ्नतां कृष्णस्य कटाक्षयन्तीति च ॥ ९ ॥

कच्चित् स्मरति वा बन्धून् पितरं मातरं च सः ।

अपि वा स्मरतेऽस्माकमनुसेवां महाभुजः ॥ १० ॥

पदरत्नावली

अस्माकमनुसेवां स्मरते न वा ॥ १० ॥

सत्यधर्मीया

अनङ्गस्मरणात्, आदौ पितरं मातरमिति वक्तव्ये बन्धूनित्युक्तिः । महाभुजोऽस्माकमनुसेवामपि वा स्मरते कच्चित् । महाभुज इत्यपदेशेनानुजकर्म न रहस्यं विविच्य न प्रष्टव्यमित्यङ्गालिङ्गनं स्मरति किमित्यन्तर्भावाच्चित्तचाञ्चल्या चञ्चललोचना इति ज्ञेयम् ॥ १० ॥

मातरं पितरं भ्रातॄन् पतीन् पुत्रान् स्वसॄरपि ।

यदर्थेऽहिन्म दाशार्ह दुस्त्यजान् स्वजनान् प्रभो ॥ ११ ॥

पदरत्नावली

यस्य कुष्णस्यार्थे दृढस्नेहनिमित्तं मात्रादीन् स्वजनान् हिन्म अत्याक्ष्म । छान्दसप्रयोगः ॥ ११ ॥

सत्यधर्मीया

धर्मशापेनास्थिरान्तराः स्त्रिय इति योषित आच्छाद्यं प्रमेयं पृच्छन्ति– मातरमिति । पतीन्स्वान् । पुत्रानस्मत्पतिवृद्धभ्रातृपुत्रान् स्वसॄॄरपि । किञ्चिद्दुस्त्यजा-न्स्वजनानन्यांश्च । हे दाशार्ह बल । यदर्थं वयमहिन्म । हिनोतेर्लङ् उत्तमपुरुषबहुवचने श्नौ लोपश्चास्यान्यतरस्यां म्वोरिति प्रत्ययोकारलोपेऽडागमे चाहिनवम् अहिन्व अहिन्म । पक्षेऽहिनवम् अहिनुव अहिनुमेति रूपाणि । अत्याक्ष्म । भर्तृत्याग एको मुख्य इतरस्तु ममतात्यागमात्ररूप इति विवेकः । प्रभो इत्यनेनेतः परं वाऽनुजं प्रेरयित्वा सन्मार्गं कर्तुं बलमस्ति बलस्येति सूचयन्ति ॥ ११ ॥

ता नः सद्यः परित्यज्य गतः सञ्छिन्नसौहृदः ।

कथं नु तादृशं स्त्रीभिर्न श्रद्धीयेत भाषितम् ॥ १२ ॥

पदरत्नावली

स्त्रीभिस्तादृशं गुडजिह्विकालक्षणं भाषितं कथं नु न श्रद्धीयेत श्रद्धेयमेवेत्यर्थः

॥ १२ ॥

दुर्घटभावदीपिका

कृष्णः सञ्छिन्नसौहृदः सन् सद्यः सहसा ता न परित्यज्य गतोऽतः स्त्रीभिस्तादृशं छिन्नसौहृदत्वादिदोषविशिष्टकृष्णसम्बन्धि भाषितं वाक्यं कथं नु कथञ्चिदपि न श्रद्धीयेत न श्रद्धेयमिति । एतेन स्त्रीभिस्तादृशं भाषितं न श्रद्धीयेतेति वक्तव्यम् । कथं नु श्रद्धीयेत किन्तु श्रद्धीयेतैवेति कथनमनुपपन्नमिति दूषणं परास्तम् । कथञ्चिदित्यस्य कथम-पीत्यर्थकत्वमङ्गीकृत्य कथञ्चिदपि न श्रद्धीयेतेत्यर्थस्योक्तत्वात् ॥ १२ ॥

सत्यधर्मीया

तास्तादृशीः सद्यः परित्यज्य सञ्च्छिन्नसौहृदः । ननु कथं सञ्छिन्न-सौहृद इति । हृद्भगसिन्ध्वन्ते पूर्वपदस्य चेत्युभयपदवृद्धौ सौहार्दमिति भाव्यमिति चेत् । अत्राह दुर्घटवृत्तिकारः । सञ्ज्ञापूर्वकविधेरनित्यत्वाद्धृद्भगेत्युभयपदवृद्धेरप्राप्तेः । तद्धितेष्वचा-मादेरित्यादिवृद्धिरेवेति । अर्थवतो ग्रहणे नानर्थकस्येति परिभाषायाः ‘स्वं रूपं शब्दस्या-शब्दसञ्ज्ञा’ इत्यत्र रूपग्रहणेन ज्ञापितत्वाद्धृद्भगेति सूत्रेऽर्थवत एव हृच्छब्दस्योपादाना-त्सुहृद्दुर्हृदौ मित्रामित्रयोरिति निपातिते सुहृच्छब्दे समुदायस्यैवार्थवत्त्वेन तदवयवहृच्छब्द-स्यानर्थकत्वात्तस्योभयपदवृद्धिर्न भवति किन्त्वादिवृद्धिरेवेति । चान्द्रास्तु हृद्भगेत्यत्र प्रति-पदोक्त हृच्छब्दस्यैव हृदयपर्यायस्य ग्रहणं न तु हृदयस्यं हृल्लेखयदण्लासेष्वित्युक्तहृदादेशस्य सौहृदमित्यादौ हृदादेश एव मन्यन्ते । अत एव ‘क्षणभिन्नसौहृद’ इति कुमारसम्भवप्रयोगः । ‘सौहार्दं सौहृदं तथा’ इति द्विरूपकोशः । छिन्नं सौहृदं सौहार्दं येन सः । वञ्चकवचः श्रुत्वा कथं यूयमनुयातास्तन्मार्गमित्यत आहुः– कथं न्विति । तादृशं भाषितं स्त्रीभिर्न श्रद्धीयेत । श्रदित्यव्ययपूर्वकाद्धाञः कर्मणि लिङ् । न विश्वसनीयं स्यादित्यर्थः । स्त्रीभिरित्यनेनानधि-कृद्वेदादिका वयमनिपुणा इति विश्वासः सम्भवतीति ध्वन्यते ॥ १२ ॥

कथं नु गृह्णन्त्यनवस्थितात्मनो वचः कृतघ्नस्य मुधा परस्त्रियः ।

कृष्णस्य वैचित्रकथस्य सुन्दरस्मितावलोकोच्छ्वसितस्मरातुराः ॥ १३ ॥

पदरत्नावली

अस्मदन्या नैव श्रद्धधत इत्याहुः– कथमिति ॥ परस्त्रियोऽस्मदन्यस्त्रियः । अन्यत्र उत्तमस्त्रियः । अनवस्थितात्मनश्चञ्चलमनसः । अन्यत्र सङ्गरहितस्य । कृतघ्नस्यानुप-कारिणः । अन्यत्र कारिणो विनाशिनः । कृष्णस्य पुमधीनस्य । अन्यत्र पूर्णानन्दस्य । मुधा वचः कथं न गृह्णन्ति । अन्यत्र वचो मुधा कथं न गृह्णन्तीत्यर्थः । वैचित्रा नानाविधाः कथा वाक्यप्रबन्धा यस्य स तथा तस्य । उभयत्र समम् । कीदृश्यः? सुन्दरस्मितावलोकेनोच्छ्वसिते-नोद्धतेन स्मरेणातुराः । अन्यत्र निरन्तरस्मरणपरवत्यः ॥ १३ ॥

दुर्घटभावदीपिका

परस्त्रियः पराग्राह्यग्राह्यवाक्यविचारे उत्तमाः । कुशला इति यावत् । स्त्रियोऽनवस्थितात्मनोऽव्यवस्थितान्तःकरणस्य कृतघ्नस्य कृष्णस्य मुधाऽर्थव्यभिचारिवचः कथं नु गृण्हन्ति । ग्रहणं न कार्यमेवेति यावत् । अथाऽपि चित्रकथस्य कृष्णस्य सुंदरस्मितावलो-कोच्छ्वसितस्मरातुराः सुंदरस्मितावलोकाभ्यामुच्छ्वसितोऽभिवृद्धो यः स्मरः कामस्तेन पीडिताः सत्यो वचो गृण्हन्तीत्येतद्वै प्रसिद्धमिति । एतेन पूर्वोत्तरार्धयोरनन्वय इति शङ्काऽनवकाशः । अथाऽपीति शेषपूरणेनान्वयस्योक्तत्वात् ॥ १३ ॥

सत्यधर्मीया

अनेका गोपिकास्तत्र काश्चित्काश्चित्प्रतिपादयन्ति– कथमिति । अपरस्त्रियोऽस्मदन्याः कामिन्योऽनुत्तमा इत्यान्तरङ्गिको भावः । अनवस्थित आत्मा चञ्चलं चेतो यस्य तस्य । असंलग्नो विषयेष्वात्मा यस्य तस्येति वा । कृतघ्नस्यानुपकृतिमतः । कृतमितरहिंसितं स्वयं हन्तीति समीकरोतीति यावत् । तस्य । ‘कृतं युगेऽपि पर्याप्ते विहिते हिंसिते फल’ इति विश्वः । मुधावचः कथं नु गृह्णन्ति न कथञ्चिदपि स्वीकुर्वन्ति । न तदुदितमनुतिष्ठन्तीति यावत् । मुधा कथं गृह्णन्ति । निरर्थकमनृतमिति यावत् । कथं गृह्णन्ति । यथार्थमेव मन्वते तन्वङ्ग्य इति । ता अपि सुशीला ललना अप्येव मनेन भवेयुरित्यन्या आहुः– कृष्णस्येति । चित्रकथस्य बहुभाषिणो विचित्रकथस्य च कृष्णस्य तन्नाम्नो मलिनस्य । सुन्दरस्मितावलोकेनोच्छ्वसित उज्जृम्भितो यः स्मरस्तेनातुराः परस्त्रियः सुरनार्योऽपि कथं नु न गृह्णन्ति गृह्णीयुरेव । एवं सति वयं किं तरुपत्राणि, च वा इति, मुहुर्मुहुः सुरस्त्रिय इत्यादिप्रसिद्धिद्योतकः । सुन्दरस्मितावलोकोच्छ्वसित हे स्मर त्वम् आः शतशो ऽस्मादृश्यः परस्त्रियस्तत्परवशाः सत्यः । पूर्वश्लोकान्नञोऽनुकर्षः । नातुर्नान्व-गच्छन्निति, स्मरेति यासां वचस्तदपि मुधाऽभूदिति वा ॥ १३ ॥

किं नस्तत्कथया गोप्यः कथाः कथयतापराः ।

यात्यस्माभिर्विना कालो यदि तस्य तथैव नः ॥ १४ ॥

पदरत्नावली

हरये प्रेम्णा कम्पन्त्यो मिथो जल्पन्ति– किं न इति ॥ हे गोग्यो ऽपराः कथाः कथयत । तस्य कृष्णस्य कथया नः किं प्रयोजनम्? तस्य कृष्णस्य यद्यस्माभिर्विना कालो याति तथा तर्हि तेन विना नः कालोऽपि यातीत्यन्वयः ॥ १४ ॥

सत्यधर्मीया

पुनः खण्डिता नायिक्यो नायकमलक्षयन्त्य इव वदन्ति– किमिति । हे गोप्यः । तत्कथया नः किं किं प्रयोजनम् । अपराः सप्रयोजनाः कथाः कथयत । दुस्त्यजास्तत्कथा इत्यत आहुः– यातीति । अस्माभिर्विना । पृथाग्विनानानेत्यादिना तृतीया । तस्यास्मान्हित्वा स्थितस्य यदि कालो गच्छति । नोऽस्माकमपि तं विहाय स्थितानां कालो गच्छतीति किं तदाशयेत्याशयः । खण्डिताः प्रतिखण्डिताहङ्काराः काश्चि-दनेनैव श्लोकेनाहुरित्याह । तत्कथया कृष्णोऽस्मांस्त्यक्त्वा गत इत्यादिकया किम् । अपरा अः परोऽत्त्युत्तम इति यासां ता अपराः कथयत । नो विना भगवता सहैव । वृद्धो यूनेत्यादिवत् । कालो याति । तत्त्यागे त्यागः प्राणानां तत्क्षणे भवेदिति भावः । भवत्य-निर्वाहादस्माकं तत्सहभावो भामिन्यः, तस्य तु कथमित्यत आहुः– यथैव नस्तथैवेति । यदितस्य याभिरस्माभिरितस्य तस्यापि कालो याति । अन्यथा व्याप्त्यनवक्लृप्त्यापत्तेः ॥१४॥

श्रीशुक उवाच—

इति प्रहसितं शौरेर्जल्पितं चानुवीक्षितम् ।

गतिं प्रेमपरिष्वङ्गं स्मरन्त्यो रुरुदुः स्त्रियः ॥ १५ ॥

पदरत्नावली

शुकः स्त्रीणां धैर्यशिथिलं वचनं वज्रधारोपममिति लोकसिद्धमित्याशयेनाह– इतीति ॥ इत्थमुक्त्वा शौरेः कृष्णस्य प्रहसितादि च स्मरन्त्यो रुरुदुरित्यन्वयः ॥ १५ ॥

सत्यधर्मीया

एतावत्पर्यन्तं स्थगनमना विधाय तत्स्मरणपरवत्य एवं चक्रुरित्याह– इतीति । शौरेः प्रहसितं तथा जल्पितं चानुवीक्षितं वीक्षणं तथा गतिं प्रेमपरिष्वङ्गं परिस्मरन्त्यः स्त्रियो रुरुदुरित्यन्वयः ॥ १५ ॥

सङ्कर्षणस्ताः कृष्णस्य सन्देशैर्हृदयङ्गमैः ।

सान्त्वयामास भगवान् नानानुनयकोविदः ॥ १६ ॥

सत्यधर्मीया

हृदयङ्गमैर्मनोहरैः सन्देशैः स्वरतो वक्तुं योग्यैराज्ञावचनैर्नानानुनय-कोविदः । अनेनोक्तमनुक्तं च हरिणोक्त्वा तत्समाधिविधानसमर्थताऽस्य द्योत्यते । अनुनयः सान्त्वयामास ॥ १६ ॥

द्वौ मासौ तत्र चावात्सीन्मधुं माधवमेव च ।

रामः क्षपासु भगवान् गोपीनां रतिमावहन् ॥ १७ ॥

पदरत्नावली

मधुं माधवं वसन्तर्तुम् ॥ १७ ॥

सत्यधर्मीया

मधु चैत्रं माधवं वैशाखमाहत्य ऋतुमेकम् । क्षपासु रात्रिषु ॥१७॥

पूर्णचन्द्रकरामृष्टे कौमुदीगन्धवायुना ।

यमुनोपवने रेमे सेविते स्त्रीगणैर्वृतः ॥ १८ ॥

पदरत्नावली

कौमुदी कुमुद्वती तस्या गन्धेन सम्पृक्तेन वायुना सेविते ॥ १८ ॥

दुर्घटभावदीपिका

रामः पूर्णचन्द्रकरामृष्टे यमुनोपवने कौमुदीं गन्धवायुना कौमुद्यां चन्द्रिकायाः पुष्पादिगन्धयुक्तवायुना च सेविते स्थलविशेषे स्त्रीगणैर्वृतः सन् रेम इति । एतेन पूर्णचन्द्रकरामृष्ट इत्यनेन चन्द्रिकायाः सेवितत्वस्योक्तत्वात्कौमुद्या सेवित इत्येतत्पुनरुक्तमिति दूषणस्यानवकाशः । क्रीडास्थले चन्द्रिकैवाभूद्वृक्षच्छाया नाभूदिति ज्ञापनार्थं पूर्णचन्द्रिका-सेवितत्वमुक्तमित्यभ्युपगमात् ॥ १८ ॥

॥ इति श्रीभागवतटिप्पण्यां नवतितमोऽध्यायः ॥ १०–९० ॥

सत्यधर्मीया

कौमुदीनां कुमुद्वतीनां गन्धस्तेन सहायातो मातरिश्वा तेन सेविते यमुनोपवने स्त्रीगणैः कृष्णास्पृष्टैस्तदा प्रेषितैरिति वा वृद्धतयोपेक्षितैर्वा वृतः सन् रेमे ॥ १८ ॥

वरुणप्रेषिता देवी वारुणी वृक्षकोटरात् ।

पतन्ती तद्वनं सर्वं सौरभेणाध्यवासयत् ॥ १९ ॥

पदरत्नावली

अध्यवासयत् संस्कारोपेतमकरोत् ॥ १९ ॥

सत्यधर्मीया

वारुणी सुधासहोद्भूता मदिरा । सौरभेण स्वशोभनगन्धेनाध्यवासयत् सुरभिगन्धि चकार ॥ १९ ॥

तं गन्धं मधुधाराया वायुनोपहृतं बलः ।

आघ्रायोपगतस्तत्र ललनाभिः पपौ समम् ॥ २० ॥

सत्यधर्मीया

मधुधाराया मद्यधारायाः । तत्र तद्वृक्षकोटरे निकरे ॥ २० ॥

नेदुर्दुन्दुभयो व्योमि्न ववृषुः कुसुमैर्मुदा ।

गन्धर्वा मुनयो रामं तद्वीर्यैरीडिरे मुदा ॥ २१ ॥

पदरत्नावली

ईडिरे तुष्टुवुः ॥ २१ ॥

सत्यधर्मीया

तद्वीर्यैः प्राक्कृतप्रलम्बरुग्मिवधादिसाधनैः ॥ २१ ॥

उपगीयमानचरितो वनिताभिर्हलायुधः ।

वनेषु व्यचरत् क्षीबो माहेन्द्र इव वारणः ॥ २२ ॥

पदरत्नावली

क्षीबो मद्यपानमत्तः ॥ २२ ॥

दुर्घटभावदीपिका

अत्रापेक्षितानां पदानां शेषः । एवं युध्यन् विविदः पुनरन्यं पर्वतं समुत्पाट्य जघ्ने । तस्मिन्पर्वते भगवता बलरामेण भग्ने जाते सति पुनरन्यं पर्वतं समुत्पाट्य जघ्ने । तस्मिन्पर्वते भग्ने जाते सति वनं निर्वृक्षं यथा भवति तथा सर्वतः सर्वान्वृक्षानाकृष्य जघ्ने । समस्तान्वृक्षान् छिन्नानकरोदिति । एतेन ग्रामो ग्रामो रमणीय इत्यादिवत्पूर्वं ते पर्वते भग्ने इति वक्तव्यम् । भग्ने भग्ने इति कथनमयुक्तमिति चोद्यं प्रत्युक्तम् । भग्ने भग्ने इति द्विर्वचन-मित्यनङ्गीकारात् ॥ २२ ॥

॥ इति श्रीभागवतटिप्पण्यां नवतितमोऽध्यायः ॥ १०–९० ॥

सत्यधर्मीया

क्षीबो मद्यपानमत्तः । माहेन्द्रो वारण ऐरावतः ॥ २२ ॥

शुभैककुण्डलो मत्तो वैजयन्त्या च मालया ।

बिभ्रत् स्मितमुखाम्भोजं स्वेदप्रालेयभूषितम् ॥ २३ ॥

पदरत्नावली

स्वेदप्रालेयेन घर्महिमजलेन घर्महिमजलेन भूषितम् ॥ २३ ॥

सत्यधर्मीया

प्रालेयं प्रलीयन्ते तत्र पदार्था इति प्रलयो हिममहीधरः । तत आगत इत्यण् । केकयेत्यादिनाऽयादेरियादेशे गुणे च प्रालेयं मिहिका । ‘प्रालेयं मिहिका च’ इत्यमरः । स्वेदमिहिकया भूषितं स्मितमुखाम्बोजं बिभ्रत् ॥ २३ ॥

स चाजुहाव यमुनां जलक्रीडार्थमीश्वरः ।

निजवाक्यमनादृत्य मत्त इत्यापगां बलः ॥ २४ ॥

अनागतां हलाग्रेण कुपितो विचकर्ष ह ।

पापे त्वं मामवज्ञाय यन्नायासि मयाऽऽहुता ॥ २५ ॥

पदरत्नावली

हे पापे आहुता आहूता ॥ २५ ॥

सत्यधर्मीया

स बल ईश्वरोऽनागतौ शिक्षादक्षता अनेन कटाक्षयति । जलक्रीडार्थं यमुनामाजुहाव । मत्तोऽनादृत्यानादृतामापगां हलाग्रेण विचकर्षाहूता । यद्वा हु दानादनय-रस्मात्कप्रत्यये धातूनामनेकार्थताया आकरणार्थकता ॥ २४,२५ ॥

नेष्ये त्वां लाङ्गलाग्रेण शतधा कामचारिणीम् ।

एवं निर्भर्त्सिता भीता यमुना यदुनन्दनम् ॥ २६ ॥

उवाच चकिता वाचं पतित्वा पादयोर्नृप ॥ २७ ॥

सत्यधर्मीया

कामचारिणीं यथेष्ठं चरन्तीं, लाङ्गलाग्रेण शतधा नेष्ये । एवं निर्भ-र्त्सिता चकिता भीता, अभीता सम्मुखमिता प्राप्ता । पादयोः पतित्वा वाचमुवाच । भीता चकिता प्रतिहतिं प्राप्तेति वा ॥ २६,२७ ॥

यमुनोवाच—

रामराम महाबाहो न जाने तव विक्रमम् ।

यस्यैकांशेन विधृता जगती जगतां पते ॥ २८ ॥

सत्यधर्मीया

यस्य तवैकांशेन शिरोरूपैकदेशेन । जगती भूमिर्विधृता ॥ २८ ॥

परं भावं भगवतो भगवन् मामजानतीम् ।

मोक्तुमर्हसि विश्वात्मन् प्रपन्नां भक्तवत्सल ॥ २९ ॥

पदरत्नावली

भावमभिप्रायं माहात्म्यं वा ॥ २९ ॥

सत्यधर्मीया

हे भगवंस्तव परं भावं महामहात्म्यमजानतीं मां प्रपन्नां, विश्वात्मन् भक्तवत्सल मोक्तुमर्हसि । इत्युवाचेत्यतीतेनान्वयः ॥ २९ ॥

ततो व्यमुञ्चत् करुणो याचितो यमुनां बलः ।

विजगाह जलं स्त्रीभिः करेणुभिरिवेभराट् ॥ ३० ॥

सत्यधर्मीया

तत्प्रार्थनानन्तरम् । विजगाहे व्यलोडयत् ॥ ३० ॥

कामं विहृत्य सलिलादुत्तीर्णायासिताम्बरे ।

भूषणानि विचित्राणि ददौ कान्तिमतीं स्रजम्१ ॥ ३१ ॥

वसित्वा वाससी नीले मालामाबद्ध्य२ काञ्चनीम् ।

रेजे स्वलङ्कृतस्ताभिर्माहेन्द्र इव वारणः ॥ ३२ ॥

पदरत्नावली

असिताम्बरे नीलवस्त्रे ददौ, यमुनेति शेषः ॥ ३१ ॥

सत्यधर्मीया

असिताम्बरे । दातृप्रतिगृहीत्रानुकूल्यान्नीलचैले । असिता कृष्णा अम्बरे ददावित्यन्वयने न शेषः । नीलत्वं च तयोरनुवादेन लभ्यत इति वा । कृष्णायाः कालियमित्यादेः । ददौ कान्तिः शुभां स्रजमित्यपि पाठः । तत्र कान्तिर्लक्ष्मीः । यथोक्तं विष्णुपुराणे–

‘वरुणप्रहितां चास्मै मालामम्लानपङ्कजाम् ।

समुद्राभे तथा वस्त्रे नीले लक्ष्मीरयच्छत ॥’ इति ।

तथा हरिवंशे च बलं प्रति लक्ष्मीवचनम्–

‘जातरूपमयं चैकं कुण्डलं वज्रभूषणम् ।

आदिपद्मं च पद्माख्यं दिव्यं श्रवणभूषणम् ।

देवेमां प्रतिगृह्णीष्व पौराणीं भूषणक्रियाम् ॥’ इत्यादि ।

वस्त्रयोरुभयदातृकत्वसम्भवादविरोधः । काञ्चनीं स्वर्णमयीं वा चम्पकगुम्फितां वा । ‘काञ्चनः काञ्चनारे स्याच्चम्पके नागकेसर’ इति विश्वः ॥ ३१,३२ ॥

अद्यापि दृश्यते राजन् यमुनाऽऽकृष्टवर्त्मना ।

बलस्यानन्तवीर्यस्य वीर्यं सूचयतीव हि ॥ ३३ ॥

पदरत्नावली

आकृष्टेन वर्त्मना मार्गेण दृश्यते ॥ ३३ ॥

सत्यधर्मीया

सूचयती सूचयन्ती । आगमशासनस्यानित्यत्वान्न नुम् । लटि तु न क्लेशः ॥ ३३ ॥

एवं सर्वा निशा याता एकेव रमतो व्रजे ।

रामस्याक्षिप्तचित्तस्य माधुर्यैर्व्रजयोषिताम् ॥ ३४ ॥

॥ इति श्रीमद्भागवते दशमस्कन्धे नवतितमोऽध्यायः ॥

पदरत्नावली

एका निशेव । व्रजस्त्रीणां माधुर्यैः सौन्दर्यैः कर्णरम्यवचनैराक्षिप्तमाकृष्टं चित्तं यस्य स तथा तस्य ॥ ३४ ॥

॥ इति श्रीमद्भागवतटीकायां विजयध्वजतीर्थकृतायां पदरत्नावल्यां

दशमस्कन्धे उत्तरार्धे नवतितमोऽध्यायः (स.धर्म.१०–९०) ॥

सत्यधर्मीया

व्रजयोषितां माधुर्यैराक्षिप्तचित्तस्य रमतो रममाणस्य । सर्वा निशा मासद्वितयसम्बन्धिन्यो रात्र्य एकेव याताः सन्तोषातिशयेन ॥ ३४ ॥

॥ इति श्रीसत्यधर्मयतिकृतायां भागवतटिप्पण्यां दशमस्कन्ध उत्तरार्धेे

नवतितमोऽध्यायः ॥ १०–९० ॥