उपविष्टं सुधर्मायां कदाचित् क्षत्रियैर्वृतम्
॥ अथ एकोननवतितमोऽध्यायः ॥
श्रीशुक उवाच—
उपविष्टं सुधर्मायां कदाचित् क्षत्रियैर्वृतम् ।
विज्ञापयद् वेत्रपाणिर्द्वाःस्थोऽभ्येत्य जनार्दनम् ॥ १ ॥
पदरत्नावली
नृगस्य कृकलासदेहान्मोक्षकरणमाहात्म्यं हरेर्ब्राह्मणप्रियत्वं चार्थवादरूपेण कथयत्यस्मिन्नध्याये । तत्रादौ युधिष्ठिरस्य राज्यभ्रंशेन वनवासनिमित्तं वक्तुमुपक्रमते– उपविष्टमित्यादिना ॥ १ ॥
सत्यधर्मीया
राजमृगेन्द्रस्य नृगस्य विप्रशापोपयातकृकलासशरीरतो विमोचनतो भगवानेवमेव दुर्भगाङ्गविमोचनं चरतीति सूचयितुं तत्तथा देवनादेव नरपतिं धर्मं पराजित-मजितो गत्वा व्यधत्त तत्समाधिमित्यत्रार्थः प्रतिपाद्यते । तत्रादौ दौवारिकावेदितस्य तन्नि-वेदिताभिप्रायस्य विप्रस्य तत्प्रेषितस्यान्तःप्रवेशं शंसति शुक इति शंसति– श्रीशुक इति । विज्ञापयद्व्यज्ञापयत् । सुधर्मायां नाम्नेवार्थतोऽपि धर्मो येषामस्ति ते धर्मिणः । सु शोभमाना धर्मा यस्यां सेति विग्रहः । अतो न केवलत्वाभावादनिच् ॥ १ ॥
शक्रप्रस्थाद् द्विजः कश्चिदागत्य द्वारि तिष्ठति ।
प्रवेशितव्यो वा देव न वेति यदुसत्तम ॥ २ ॥
सत्यधर्मीया
विज्ञापनप्रकारमाह– शक्रप्रस्थादिति । हे देव यदुसत्तम । प्रवेशित-व्योऽन्तर्न वेति व्यज्ञापयदित्यन्वयः ॥ २ ॥
प्रवेशयेति कृष्णेन द्वाःस्थेनोक्तेन सत्वरम्१ ।
प्रवेशितः प्रणम्याह ब्राह्मणः पुरुषोत्तमम् ॥ ३ ॥
पदरत्नावली
कृष्णेन प्रवेशयेत्युक्तेन द्वाः स्थेन प्रवेशितः ॥ ३ ॥
सत्यधर्मीया
सत्वरमिति पाठः सरलः । सत्वर इति पाठे विप्रविशेषणम् ॥ ३ ॥
धर्मजो धार्तराष्ट्रेण मूढेनाधर्मचारिणा ।
अक्षैः पराजितो यातः सभार्यः सानुजो वनम् ॥ ४ ॥
सत्यधर्मीया
अक्षैर्दुरोदरैः पराजितः सानुजः सभार्यो वनं यात इति प्रणम्याहेत्यन्वयः
॥ ४ ॥
ब्राह्मणेनोदितां वाणीमित्याकर्ण्य सुदुःश्रवाम् ।
क्रोधोद्विग्नमनास्तूर्णमुत्तस्थे हरिरासनात् ॥ ५ ॥
पदरत्नावली
इति वाणीम् । सुष्ठु दुःश्रवां श्रोतुमशक्यां कर्णदुःसहमित्यर्थः ॥ ५ ॥
सत्यधर्मीया
अतिदुःसहश्रवणामिति दुःश्रवाम् । ईषद्दुःखीत्यादिना खल् । क्रोधो-द्विग्नमनाः स इव हरिरासनादुपतस्थे आसनं निरस्योद्युक्तोऽभूदित्यर्थः । उदोऽनूर्ध्वगमने कर्मणीत्यनूर्ध्वगमन एवात्मनेपदविधानात् ॥ ५ ॥
स रथं दारुकानीतमारुह्य सह सत्यया ।
महत्या सेनया सार्धं ययौ यत्र पृथासुताः ॥ ६ ॥
सत्यधर्मीया
सत्यया नामैकदेशे नामग्रहणम् । सत्या सत्यभामा । काचिमाचीत्यादि सुधाभिधानादिव महाभाष्ये वाक्ये वाक्यैकदेशं पदे पदैकदेशं प्रयुञ्जाना इत्युक्तेश्च ज्ञेयम् । यत्र पृथासुतास्तत्र ययौ । पृथासुता इत्यनेन पञ्चस्ववैषम्यं ध्वन्यते ॥ ६ ॥
वने वसन्तं राजानं ब्राह्मणैः परिवारितम् ।
दृष्ट्वाऽनुशोचत्१ सुभृशं सानुजं यदुनन्दनः ॥ ७ ॥
पदरत्नावली
अनुशोचद् अन्वशोचत् । शुच प्रकाशे इति धातोः शोकं प्राकाशयत्, न तु सत्यशोकः ॥ ७ ॥
सत्यधर्मीया
अन्वशोचदिति सुपठम् । अनुकुर्वंल्लोकेश एवमचरदिति भावः ॥ ७ ॥
व्यसनान्यनुभुक्तानि वर्णयित्वा परस्परम् ।
उषित्वा तत्र तां रात्रिं पाण्डवैः सह केशवः ॥ ८ ॥
पदरत्नावली
अनुभुक्तानि अनुभूतानि अन्योन्यव्यसनानि ॥ ८ ॥
सत्यधर्मीया
परस्परमिति समग्रां साल्ववधान्तां कथां सङ्गृह्णातीति ज्ञेयम् । तथैव वनपर्वोक्तेः ॥ ८ ॥
हेतुवाक्यैः समाश्वास्य धर्मराजं युधिष्ठिरम् ।
भीमसेनार्जुनौ चैव यमौ च यदुनन्दनः ॥ ९ ॥
पदरत्नावली
हेतुवाक्यैरितिहासविषयैर्वचनैः ॥ ९ ॥
दुर्घटभावदीपिका
हेतुवाक्यैरित्यस्य सुखदुःखादेः सर्वस्य नारायण एव हेतुः कारण-मिति प्रतिपादकवाक्यैरित्यर्थः ॥ ९ ॥
सत्यधर्मीया
हेतुवाक्यैर्दिष्टभुग्जन इत्यादिवचनैः ॥ ९ ॥
पाञ्चालीं द्रौपदीं साध्वीं सत्यभामासमन्वितः ।
आश्वास्य तामनुज्ञाप्य१ ब्राह्मणांश्च सहस्रशः ॥ १० ॥
पदरत्नावली
सत्यभामया द्रौपदीं समाश्वास्येत्यतः सत्यभामासमन्वित इत्युक्तम् ॥१०॥
सत्यधर्मीया
पाञ्चालीं साध्वीं द्रौपदीं समाश्वास्य । अनेन पृथानागमनं बोध्यते । तथैव वनपर्वाद्युक्तेः । सत्यभामासमन्वितः सहस्रशो ब्राह्मणानाशु आस्यत उपविश्यत इत्यननुज्ञाप्य शिक्षापूर्वमनुज्ञामकृत्वा विज्ञाप्येति यावत् । आश्वास्यैकतरानतिरेकोऽनेन ज्ञेयः । यद्वा धर्माद्याश्वसनं स्वयमेव चकार चकार च सत्यभामासमेतो द्रौपद्या इति विशेषसूचनाय पुनराश्वास्येत्युक्तिरिति ज्ञेयम् ॥ १० ॥
सुभद्रामभिमन्युं च रथमारोप्य केशवः ।
आजगाम वनाद् राजन् पुरीं द्वारवतीं प्रभुः ॥ ११ ॥
सत्यधर्मीया
सुभद्रां स्वसारमभिमन्युं स्वस्रीयम् ॥ ११ ॥
स प्रविश्य पुरीं दिव्यां पार्थविश्लेषदुर्मनाः ।
उवास पालयन् पृथ्वीं धर्मेणान्यांश्च कालयन्॥ १२ ॥
पदरत्नावली
अन्यान् भूकण्टकान् ॥ १२ ॥
सत्यधर्मीया
पार्थविश्लेषदुर्मना इव पृथ्वीम् । अन्यान् रिपून् पालयन् कालयंश्चोवाच
॥ १२ ॥
एकदोपवनं राजन् जग्मुर्यदुकुमारकाः ।
विहर्तुं साम्बप्रद्युम्नचारुभानुगदादयः ॥ १३ ॥
सत्यधर्मीया
प्रद्युम्नसाम्बचारुगदादयो यदुकुमारका एकदा विहर्तुमुपवनमपरिचितम् । जलं विचिन्वन्त इत्यानुकूल्यात् । जग्मुः । प्रह्व इत्यादिपिङ्गलनागसूत्रात् प्रकारो न बकार-गुरुत्वापादक इति लघुः पाठ्यः ॥ १३ ॥
क्रीडित्वा सुचिरं तत्र विचिन्वन्तः पिपासिताः ।
जलं निरुदके कूपे ददृशुः सत्त्वमद्भुतम् ॥ १४ ॥
पदरत्नावली
विचिन्वन्तोऽन्वेषणं कुर्वन्तः । सत्वं प्राणिनम् ॥ १४ ॥
सत्यधर्मीया
पिपासिता जलं विचिन्वन्तो निरुदककूपेऽद्भुतं सत्त्वं जन्तुं ददृशुः
॥ १४ ॥
कृकलासं गिरिनिभं वीक्ष्य विस्मितचेतसः ।
तस्य चोद्धरणे यत्नं चक्रुस्ते कृपयाऽन्विताः ॥ १५ ॥
पदरत्नावली
कृकं लासयति नर्तयतीति कृकलासः । ‘शिरःप्राग्रं कृकं विदुः’ इति च ॥ १५ ॥
सत्यधर्मीया
तत्स्वरूपं निरूपयन्ति– कृकलासमिति । गिरिनिभं कृकलासं कृकं शिराग्रं लासयति विलासयति नर्तयतीति यावत् । ‘शिरःप्राग्रं कृकं विदुः’ इति । लस शिल्पयोगे कर्मण्यण् । ‘सरटः कृकलासः स्यात्’ इत्यमरः । कृपया सहजदयया ॥ १५ ॥
चर्मभिस्तं तथा पाशैर्बद्ध्वा पतितमर्भकाः ।
नाशक्नुवन् समुद्धर्तुं कृष्णायाचख्युरुत्सुकाः ॥ १६ ॥
सत्यधर्मीया
चर्मभिस्तन्तुभिः पाशैश्च बद्ध्वा पतितं तं कृकलासं समुद्धर्र्तुं नाशक्नुवन् यदा तदाऽऽगत्योत्सुकाः कृष्णायाचख्युरचकथन् ॥ १६ ॥
तत्र गत्वाऽरविन्दाक्षो भगवान् विश्वभावनः ।
वीक्ष्योज्जहार वामेन तं करेण स लीलया ॥ १७ ॥
सत्यधर्मीया
स भगवान्विश्वभावनस्तत्र गत्वा वामेन करेण लीलया । अनेन वामकरबलस्यापि न समग्रस्य विनियोग इति ध्वन्यते । तथा मद्वधूरप्युद्धर्तुं क्षमेति च । वामभागस्य रामाभागत्वात् ॥ १७ ॥
स उत्तमश्लोककराभिमृष्टो विहाय सद्यः कृकलासरूपम् ।
सन्तप्तचामीकरचारुवर्णः स्वर्गोचितालङ्करणाम्बरस्रक् ॥ १८ ॥
सत्यधर्मीया
स नृग उत्तमश्लोकस्य करेणाभ्यवज्ञापूर्वकं मृष्टः स्पृष्टः सद्यः कृकलास-स्वरूपं विहायैतदन्तत्वाच्छापस्येति भावः । सन्तप्तं चामीकरं निष्टापिताष्टापदं तद्वद्वा ततोऽपि चारुवर्णो यस्य सः । स्वर्गे उचितास्तत्रत्ययोग्या अलङ्करणाम्बरस्रजो यस्य सः । ‘मुक्तिः स्वर्गः सुषुप्तिरित्याख्या मुक्तेरपि’ इति बृहदारण्यकभाष्योक्तेः ॥ १८ ॥
भूत्वा मुकुन्दस्य पदारविन्दं ननाम मूर्ध्ना पतितो धरण्याम् ।
पप्रच्छ विद्वानपि तस्य कर्म जनेषु विख्यापयितुं मुकुन्दः ॥ १९ ॥
सत्यधर्मीया
एतादृशो भूत्वा धरण्यां पतितः । मूर्ध्ना मुकुन्दस्य पदारविन्दं ननाम । मुकुन्दस्तस्य कर्म दुर्भगशरीररम्भकं तत्स्वरूपं जानन्नपि जने विख्यापयितुं तन्मुखतस्तं पप्रच्छ ॥ १९ ॥
श्रीभगवानुवाच—
कस्त्वं महाभाग वरेण्यरूपो देवोत्तमं त्वां गणयामि नूनम् ।
दशामिमां त्वं कतमेन कर्मणा सम्प्रापितो ह्यतदर्हः सुभद्रः ॥ २० ॥
आत्मानमाख्याहि विवित्सतां नो यन्मन्यसेऽङ्ग क्षममत्र वक्तुम् ॥ २१ ॥
पदरत्नावली
विवित्सतां ज्ञातुकामानाम् । यद् यदि ॥ २१ ॥
सत्यधर्मीया
हे महाभाग त्वं कः? कुतो विशेषात्कृतोऽयं प्रश्न इत्यत आह– वरेण्यरूप इति । मोहनाङ्गस् तवोहनं कथमित्यत आह । त्वां देवोत्तमं गणयामि नूनं निश्चय इति । अतदर्ह एतदयोग्यः सुभद्रोऽतिमङ्गलरूपः । इमां दशां कतमेन केन कर्मणा सम्प्रापितो नो विवित्सतां वेदितुकामानाम् । अङ्ग हे राजन् वक्तुं यत्क्षमं मन्यसे आत्मानं स्वमाख्याहि ॥ २०,२१ ॥
इति राजन् सुसम्पृष्टः कृष्णेनानन्तमूर्तिना ।
प्रतीतः प्रणिपत्याह किरीटेनार्कवर्चसा ॥ २२ ॥
सत्यधर्मीया
अनन्तमूर्तिना कृष्णेन पृष्टः प्रतीतो दातेति प्रसिद्धः । अर्कस्य वर्चस इव वर्चो यस्य तेन शिरसा । तत्र किरीटेनेति निमित्तोपन्यास इति ज्ञेयम् । किरीट-निमित्तकार्कवर्चःस्वशिरसेति यावत् । प्रणम्य । किरीटाघृष्टपीठवदित्यादेरर्कवर्चसा किरीटेनेति वा । अनन्तोऽबद्धः स्वयं यया सा मूर्तिर्यस्य तेनेति वा ॥ २२ ॥
नृग उवाच—
नृगो नाम नरेन्द्रोऽहमिक्ष्वाकुतनयः प्रभो ।
दानिषु ख्यायमानेषु यदि ते कर्णमस्पृशम् ॥ २३ ॥
पदरत्नावली
तव कर्णमस्पृशं तर्हि ज्ञातंु योग्य इत्यर्थः ॥ २३ ॥
दुर्घटभावदीपिका
हे प्रभो समर्थ नाथ स्वामिन् । अहमिक्ष्वाकुतनय इक्ष्वाकुराजपुत्रो नरेन्द्रो राजा । मम नाम नृग इति । यदि यद्यपि नारदादिभिर्दानिषु दानशूरेषु ख्यायमानेषु कथ्यमानेषु सत्सु दानशूरत्वादहं ते कर्णमस्पृशं सर्वभूतात्मसाक्षिणः सर्वभूतान्तःकरण-साक्षात्कारवतः । कालेनाव्याहृतदृशस्तेऽविदितं किं, न किमपि इत्येतन्नु निश्चितम् । अथापि तवाज्ञया यत्कर्म वक्ष्य इति । एतेन यदीत्येतदनन्वितमिति दूषणं प्रत्युक्तम् । अध्याहृते-नापीत्यनेनान्वयस्योक्तत्वात् । एतेनैव दानशूरेष्विति वक्तव्यं दानिष्विति कथनमयुक्तमिति चोद्यं परिहृतम् । दानिष्विति दानशब्दस्य अर्शआद्यजन्तत्वमङ्गीकृत्य दानशूरेष्विति तात्पर्यार्थस्योक्त-त्वात् ॥ २३ ॥
सत्यधर्मीया
इक्ष्वाकुतनयस्तद्वंशसम्भवः । दानेषु लोककृतेषु ख्यायमानेषु कीर्त्य-मानेषु तत्कर्तृत्वेन ते कर्णं यद्यस्पृशं तर्हि स्मर्तुं योग्योऽसीति भावः । दानिष्वाख्याय-मानेष्वित्यविषमार्थः पाठः । ददतीति दानाः कर्तरि ल्युट् दातृषु । स च बाहुलकः ॥२३॥
किन्नु तेऽविदितं नाथ सर्वभूतात्मसाक्षिणः ।
कालेनाव्याहतदृशो वक्ष्येऽथापि तवाज्ञया ॥ २४ ॥
पदरत्नावली
अन्यथाऽपि ज्ञातंु शक्य इत्याह– किन्न्विति ॥ २४ ॥
सत्यधर्मीया
हे नाथ ते अविदितं किन्नु किमपि न । तत्र हेतुमाह– सर्व-भूतात्मसाक्षिण इति । सर्वभूतानामन्तरात्मा च साक्षी चेति तस्य । अत एव कालेनाव्याहताऽप्रतिहता दृक् ज्ञानं यस्य तस्य । अथाऽपि तवाज्ञया वक्ष्ये ॥ २४ ॥
यावन्त्यः सिकता भूमेर्यावन्त्यो दिवि तारकाः ।
यावन्त्यो वर्षधाराश्च तावतीरददां स्म१ गाः ॥ २५ ॥
पदरत्नावली
सिकता रजांसि । अददास्म अददाम् । दा दाने इति धातुः । सुडागम-श्चान्दसः ॥ २५ ॥
सत्यधर्मीया
भूमेर्यावन्तः सिकता वालुका दिवि यावन्त्यस्तारका यावंत्यो वर्षधाराश्च तावतीर्गाः स्म सुकृतं स्मृत्वाऽहमददाम् । अददास्मेति पाठोऽथाऽपि तवाज्ञया ददावहमिति पूर्वोत्तराननुगुणश्छान्दससुडागमाभ्युपगमश्च तत्रेति न सरसः । बहुषु पुस्तकेषु तथाऽदर्शनात् । परस्परं गोष्ठे मेलनेन कलहो न च दौरात्म्यमित्यत्र प्रकाशमानता स्वत इति । तथा पयो-धरावत्यश्च । बाहुल्यं च सर्वत्र सममिति क्रमाद्दृष्टान्तत्रयोक्तिरिति विना वलयं न शयः समीचीनोऽजाजातुषवलयो वा धार्य इति नीतिवदयं समाधिरिति किञ्चित्सन्तोष्टव्यम् ॥ २५ ॥
पयस्विनीस्तरुणीः शीलरूपगुणोपपन्ना कपिला हेमशृङ्गाः ।
न्यायार्जिता रूप्यखुराः सवत्सा दुकूलमालाभरणा ददावहम् ॥ २६ ॥
सत्यधर्मीया
विशदं तद्गुणानाह– पयस्विनीरिति । क्षीरवतीस्तरुणीस्तारुण्यो-पेताः । तरुणतुलनानां चेत्युक्तेर्ङीष् । शीलं सत्स्वभावश्च रूपं च गुणा इतरे च तैरुपपन्नाः कपिलाः प्रायः । ‘आगच्छ शबलेत्येवं सा तु श्रुश्राव गौः स्वरम्’ इति रामायणोक्तेः । नाममात्रपरमत्वे सर्वाः कपिला इति वा । सवत्सा गृष्टय इत्यर्थः । अहं ददौ ॥ २६ ॥
स्वलङ्कृतेभ्यो गुणशीलवद्भ्यः सीदत्कुटुम्बेभ्य ऋतव्रतेभ्यः ।
तपःश्रुतब्रह्मवदान्यवद्भ्यः प्रादां युवभ्यो द्विजपुङ्गवेभ्यः ॥ २७ ॥
दुर्घटभावदीपिका
तपःश्रुतब्रह्मवदान्यवद्भ्य इत्यस्य तपश्च, श्रुतं च ब्रह्मवदान्या नारायणदानशूरा ऋषयश्च श्रुतवदान्यास् तपःश्रुतब्रह्मवदान्या येषां सन्तीति तपःश्रुतब्रह्मवदा-न्यवन्तस्तेभ्य इत्यर्थः । अत्र प्रतिगृण्हीतब्राह्मणानां कैमुत्यन्यायेन सम्यक् ब्रह्मोपदेष्टृत्वं साधयितुं तच्छिष्याणां सम्यग्ब्रह्मोपदेष्टृत्वमुक्तमिति ज्ञेयम् ॥ २७ ॥
सत्यधर्मीया
ऋतव्रतेभ्यो ब्रह्मनिष्ठेभ्यः सत्यव्रतेभ्यो वा । तपश्च श्रुतं च, ब्रह्म-वदान्या वेददातारोऽध्ययनकर्तार इति शिष्याश्च सन्ति येषां ते तथा तेभ्यः । युवभ्यो द्विजपुङ्गवेभ्यः प्रादाम् ॥ २७ ॥
गोभूहिरण्यायतनाश्वहस्तिनः कन्याः सदासीस्तिलरूप्यशय्याः ।
वासांसि रत्नानि परिच्छदान् रथानिष्टं च यज्ञैश्चरितं च पूर्तैः ॥ २८ ॥
दुर्घटभावदीपिका
इष्टं च यज्ञैश्चरितं च पूर्तैरित्यस्य मया यज्ञैर्ब्रह्म इष्टं पूजितम् पूर्तैः पूर्तशब्दोपलक्षितसत्कर्मभिर्ब्रह्म चरितं ज्ञातं चेत्यर्थः । एतेन यज्ञा इष्टा इति वक्तव्यं यज्ञैरिष्ट-मिति कथनमयुक्तमिति चोद्यं परिहृतम् । यज्ञैरिष्टमित्यस्य यज्ञाः कृता इत्यर्थमनङ्गीकृत्य ब्रह्मेति शेषपूरणेन यज्ञैर्ब्रह्म पूजितमित्यर्थस्योक्तत्वात् । एतेनैव पूर्तानि चरितानीति वक्तव्यम् । पूर्तैश्चरितमिति कथनमयुक्तमिति चोद्यं परास्तम् । पूर्तैश्चरितमित्यस्य पूर्तानि कृतानीत्यर्थमनङ्गी-कृत्य चरितमिति चरधातोर्गत्यर्थत्वेन ज्ञानार्थत्वमङ्गीकृत्य कर्मणा ज्ञानमातनोतीत्यादिश्रुत्यनु-सारेण पूर्तशब्दोपलक्षितकर्मभिर्ब्रह्म ज्ञातमित्यर्थस्योक्तत्वात् ॥ २८ ॥
सत्यधर्मीया
न केवलं गोमात्रवितरणं किन्त्वेतदादेरित्याह– गोभूहिरण्येति । हिरण्यं सुवर्णम्, आयतनानि गृहाः, अश्वाः, हस्तिनो गजाः, सदासीः कन्याः, तिलाश्च रूप्यं रजतं च शय्याश्च ताः । परिच्छदानितरान् । यज्ञैरिष्टम् पूर्तैश् चरितं वापीकूपादि कृतम् ॥ २८ ॥
कस्यचिद् द्विजमुख्यस्य भ्रष्टा गौर्मम गोधने ।
संसृष्टाऽविदुषा सा च मया दत्ता द्विजातये ॥ २९ ॥
पदरत्नावली
भ्रष्टा अभ्यस्तदेशं विहायान्यदेशं गता । संसृष्टा सङ्कुलिता । अविदुषा अजानता ॥ २९ ॥
सत्यधर्मीया
प्रकृतमनुसरति– कस्येति । कस्यचित्प्रोषितस्य ब्राह्मणस्य भ्रष्टा रक्ष्यका-लक्ष्यतया । यथोक्तं दानधर्मे । ‘नृगस्ततोऽब्रवीत्कृष्णं ब्राह्मणस्याग्निहोत्रिणः । प्रोषितस्य परिभ्रष्टा गौरेका मम गोधने । गवां सहस्रेे सङ्ख्याता तदा सा पशुपैर्मम । सा ब्राह्मणाय मे दत्तेत्यादि । मम गोधने संसृष्टा मिलिता सा च सैव द्विजातयेऽन्यस्मै मया दत्ता । न मनःपूर्वकं स्वामिन्नित्याह– अविदुषेति ॥ २९ ॥
तां नीयमानां तत्स्वामी दृष्ट्वोवाच ममेति तम् ।
ममेति प्रतिगृह्याह नृगो मे दत्तवानिति ॥ ३० ॥
पदरत्नावली
तस्या गोः स्वामी पूर्वतनो नाथः । अन्यः प्रतिग्रहीता ममेति प्रतिगृह्या-ब्रवीत् ॥ ३० ॥
सत्यधर्मीया
तत्स्वामी प्राक् प्रतिगृहीता । तमिदानीं गृहीतवन्तम् । तां हस्ते प्रतिगृह्य नृगो मे दत्तवानतो ममेत्याह ॥ ३० ॥
विप्रौ विवदमानौ मामूचतुः स्वार्थसाधकौ ।
भवान् दाताऽपहर्तेति तच्छ्रुत्वा मेऽभवद् भ्रमः ॥ ३१ ॥
पदरत्नावली
विवदमानौ विप्रतिपद्यमानौ । भासनोपसम्भाषाज्ञानयत्नविमत्युपमन्त्रणेषु वद इत्यत आत्मनेपदम् । भ्रमः सम्भ्रमः ॥ ३१ ॥
सत्यधर्मीया
विवदमानौ । विमत्यर्थे भासनेत्यात्मनेपदविधानाद् विप्रति पद्यमानौ । भवान् दाताऽन्येभ्यो तदपहर्ता चेति मामूचतुः । मम भ्रमः कर्तव्यमौढ्यमभवत् ॥ ३१ ॥
अनुनीतावुभौ विप्रौ धर्मकृच्छ्रं गतेन मे ।
गवां लक्षं प्रगृह्णीतां दास्याम्येषा प्रदीयताम् ॥ ३२ ॥
सत्यधर्मीया
मे मया प्रगृह्णीतामन्यतरेणैषैकला कपिला प्रदीयतामित्यनुनीतौ सान्त्वितौ ॥ ३२ ॥
भवन्तावनुगृह्णीतां किङ्करस्याविजानतः ।
समुद्धरत मां कृच्छ्रात् पतन्तं निरयेऽशुचौ ॥ ३३ ॥
पाङ्घरी श्रीनिवासाचार्यकृत
विरोदोद्धारः
भवन्ताविति ॥ अत्र किङ्करस्येति षष्ट्याऽन्वयेन पूर्वापरगोष्वतिगृहीतारौ प्रति भाषणात् समुद्धरतेति बहुवचनानुपपत्या च विरोधोऽत उच्यते । अत्र भवन्तौ इति पदद्वयं तौ उभौ अविजानतो ऽज्ञस्य किङ्करस्य आज्ञाछारकदासस्य भवं भद्रं प्रति कल्याणमुद्दिश्येत्यर्थः । अनुगृह्णीताम् अनुग्रहं कुरुताम् । यद्वा । भवमनुकल्याणमन•क्ष्य गृह्णीतां मयोक्तम् । नो नियुतमयुतं वेति शेषः । किमेवं प्रार्थयस इत्यत आह ॥ समुद्धरतमिति ॥ युवाम् अशुचौ निरये पतन्तं माम् आ कृच्छ्राद् अतिशयितसङ्कटात समुद्धरतम् । पारयतं मामिति तु अपपाठः । तथैव प्रायः पाठदर्शने तु मत् तोषो हन्यतेऽनेनेति मुद्धा खेदस् तेन सहितः समुद्ध इत्येकं विप्रं प्रति संबुद्धिः । रकारस्याग्निबीजत्वेन लक्षणया तज्जन्यतापं तनोति विस्तारयतीति अपरं विप्रं प्रति संबुद्धिः । एकः सखेदोऽन्यः सन्तप्त इत्यर्थः । हेतौ उभौ अशुचौ निरयं पतन्तं माम् अनुगृह्णीतामित्यन्वयः । अतो नासङ्गतिविरोधौ ॥ ३३ ॥
सत्यधर्मीया
अशुचौ निरये पतन्तं समुद्धरत । भवन्ताविति द्वयोः प्रसक्तत्वेऽपि तत्प्रसक्तभिया म्रियमाणस्य परिभ्रमन्नेव यमदूताविति तावेवानेकतया भाताविति बहुवचनम् । एकैकोत्तरानुरोधेन । समुद्धरतमाम् । अत्यन्तं समुद्धरत्विति वा । अथवा यूयं मां समुद्धरत गुरावात्मनीत्यादेरिति वा भवन्तौ वर्तमाने काले । भवन्ति वर्तमान इति कौमुदी । समुद्धरतम् । आमिति छेदः ॥ ३३ ॥
नान्यां प्रतीच्छे वै राजन्नित्युक्त्वा स्वाम्यपाक्रमत् ।
नान्यं गवामप्ययुत१मिच्छामीत्यपरो ययौ ॥ ३४ ॥
पदरत्नावली
अपाक्रमदपगतवान् ॥ ३४ ॥
विरोदोद्धारः– पूर्वं राज्ञा गोलक्षग्रहणे प्रार्थितत्वात् । लक्षशब्दस्य च स्त्रीलिङ्गत्वाभावात् । अत्रैकवचनस्त्रीलिङ्गान्यशब्दसद्भावाद् विरोध एकः । उत्तरार्धे च पुुल्लिङ्गैकवचनान्यशब्दस्य नपुंसकायुतशब्दविशेषणत्वायोगाद् द्वितीयः । अयुतस्य प्रार्थनाभावाच्च तृतीयः । अतोऽर्थान्तर-मुच्यते । हे राजन् अहं नान्यामिच्छे इत्येकं पदम् । अन्या न भवतीति नान्या तां प्रथमां गामेवेत्यर्थः । अत्र नञ्समासेनानन्यामिति भवितव्येऽपि न समासोपगमाद्युक्तता । प्रतीच्छे गृहीष्ये इत्युक्त्वा अस्वामी गोस्वामी न भूत्वा लामलब्धेत्यर्थः । अपाक्रमाज् जगाम । अथवा । पूर्वान्वये जगामेति शेषः । तत्र हेतुर् अस्वामीति वा । यद्वा । स्वामी राजा अन्यमपि विप्रं प्रति गवामयुतं दशसहस्रं दातुमित्यर्थः । अपां कर्मनामसु पाठात् । प्रार्थनकर्मणा अक्रमद् उपससर्प अपरोऽपि ब्राह्मणः नेत्युक्त्वा ययौ इत्यर्थसम्भवेन न कश्चिदपि विरोधः ॥ ३४ ॥
॥ इति श्रीभागवतटिप्पण्यां सप्ताशीतितमोऽध्यायः ॥ १०–८९ ॥
सत्यधर्मीया
हे राजन् अन्यां मदीयां तत्प्रति, इच्छ इत्युक्त्वा स्वामी सहजश्रेष्ठः । यथोक्तं दानधर्मेषु–
न राजन् प्रतिगृह्णामि शक्तोऽहं स्वस्य मार्गणे ।
सैव गौर्दीयतां शीघ्रं ममेति मधुसूदन ।
न जग्राह यमौ चापि तदा स ब्राह्मणर्षभः ॥ इत्यादि ।
ननु रामायणे–
‘ततः सङ्गाद्गतो धेनुः सवत्सा स्पर्शिताऽनघे’ति । ‘दत्ता नृगेण’ इति,
‘तथाऽस्मै राजभवनद्वारि न प्राप्तौ नृगशासनम् ।
अहोरात्राण्यनेकानि वसन्तौ क्रोधमीयतुः ।
ऊचतुश्च महात्मानौ तावुभौ द्विजसत्तमौ ।
क्रुद्धौ परमसन्तप्तौ वाक्यं घोराभिसंहितम् ।
अर्थिनां कार्यसिद्ध्यर्थं यस्मात् त्वं नैषि दर्शनम् ।
अदृश्यः सर्वभूतानां कृकलासो भविष्यति ॥
बहुवर्षसहस्राणि…………..’ इत्यारभ्य
‘उत्पत्स्यते हि लोकेऽस्मिन् यदूनां कीर्तिवर्धनः ।
वासुदेव इति ख्यातो विष्णुः पुरुषविग्रहः ।
स ते मोक्षयिता शापाद्………….’
इत्यन्तेन तद्दर्शनं शापप्रदानं चोच्यते । कथमत्र गोस्पर्शनमिव दर्शनं शापनिरूपणमिति चेत् । सत्यम् । एतयोर्ग्रन्थयोरुत्तरतयाऽस्पर्शितयेति छेदेनैतदैककण्ठ्यसम्भवात् ।
अपाक्रमदपससार । नान्यद्गवामयुतमिति पाठः सरलः । नान्यमिति क्वाचित्के । अन्यं कलहकारिणं प्रति गवामयुतम् । अयुतं द्विलक्षादिर्बहुसङ्ख्यापरः । अपिशब्दस्वार-स्यात् । अन्यथा लक्ष्यमित्यस्वारस्यापत्तेः । न नेच्छामीत्युक्त्वेत्यन्वयः । वैराजन् वैरेण द्वितीय ब्राह्मणवैरेणाजन्तीत्यजन् क्षिपन् शापं दददिति यावदिति वा । अतो न तदनुक्ति-न्यौन्यम् । अनार्धधातुकत्वाद्व्यादेशाभावः ॥ ३४ ॥
ततोऽहं कालयोगेन मृतः परममायया ।
एतस्मिन्नन्तरे याम्यैर्दूतैर्नीतो यमक्षयम् ॥ ३५ ॥
पदरत्नावली
याम्यैर्यमस्य विद्यमानैः ॥ ३५ ॥
सत्यधर्मीया
हे परम । तव मायया परमयाऽपरिहार्यतया परमत्वं तस्या वा याम्यै-र्यमनियमकृद्भिरिति तत्सम्बन्धिभिर्दूतैर्यमक्षयं संयमिनीं नीतः ॥ ३५ ॥
यमेन पृष्टस्तत्राहं देवदेव जगत्पते ।
त्वं पूर्वमशुभं भुङ्क्ष१ उताहो नृपते शुभम् ॥ ३६ ॥
नान्तं दानस्य धर्मस्य पश्य लोकांश्च भास्वतः ।
पूर्वमेवाशुभं भुञ्ज इति प्राह पतेति सः ॥ ३७ ॥
पदरत्नावली
भुंक्ष्व भोक्ष्यसे । तव दानस्य धर्मस्यान्तं नास्ति तज्जन्यलोकान् पश्येत्युक्तोऽहं प्रागशुभं भुञ्जे इत्यवदम् । इत्युक्ते स यमस्तर्हि पतेति मां प्राह ॥३६,३७॥
दुर्घटभावदीपिका
अत्र पश्यामीत्यादीनां शेषः । देवदेव जगत्पते हे कृष्ण नृपते । तव दानस्य धर्मस्यान्तं न पश्यामि । अतस्त्वया बहुशुभं भोक्तव्यम् । ब्राह्मणाय दत्तगौर-ज्ञानेनान्यस्मै ब्राह्मणाय दातुं गृहीताऽतोऽशुभं च भोक्तव्यम् । तत्र तयोर्मध्ये त्वमिच्छानुसारेण शुभं शुभकर्मसाध्यान् भास्वतो लोकांश्च लोकान्वा । पूर्वं भुङ्क्ष्वेति यावत् । उताहोऽथवा पूर्वमशुभं भुङ्क्ष्वेति यमेन पृष्टो वक्ताऽहं पूर्वमशुभमेव भुञ्ज इत्यवदमनन्तरं स यमः पतेति प्राहेति
॥ ३६,३७ ॥
सत्यधर्मीया
तत्र तदवस्थायां हे देव देवस्तुत्य जगत्पते । यमेन, नृपते नृगराज । पूर्वं किमशुभं भुङ्क्ष इति चतुरस्रः पाठः परेणापि व्याख्यातः । भोक्ष्यसे पापफलं भोक्ष्यस इति यावत् । उताहोऽखण्डमव्ययम् । अथवेत्यर्थे । शुभं भोक्ष्यस इति पृष्टः । भुङ्क्ष्वेति पाठे व्यत्ययः ॥
तत्र किं बहुलं किञ्चाबहुलमिति मन्मानसीशङ्कां स्वयं किञ्चित्स्पष्टयन्किञ्चिदेतदर्थं यमो विदित्वा परिहरति– नान्तमिति । दानस्य तदायातस्य, धर्मस्य सुकृतस्यान्तमवसानं न पश्यामीत्युक्त्वा तत्साक्षिसिद्धं स्वोक्तप्रमेयं यमः करोति– पश्येति । तत्फलतया प्राप्या-न्भास्वतः प्रकाशमानान् लोकान्पश्य । अर्थात्पापफलं लघुतरमित्यसूचयदिति भावः । स्वोक्तिमुक्तीकरोति पूर्वमशुभमेव भुञ्जे इति । अवदम् । ततः स यमः पतेति मां प्राह । ‘अन्तः प्रान्तेऽन्तिके नाश’ इति विश्वः । ‘यमस्तु पूजयित्वा मां ततो वचनमब्रवीत् । नान्तः सङ्ख्यायते राजंस्तव पुण्यस्य कर्मणः । अस्ति चैवं कृतं पापमज्ञानात्तदपि ह्यणु ॥ चरस्व पापं पश्चाद्वा पूर्वं वा त्वं यथेच्छसि । रक्षिताऽस्मीति चोक्तं ते प्रतिज्ञा चावृता तव । ब्राह्मणस्वस्य चादानं द्विविधस्ते व्यतिक्रमः ॥ अश्रौषं पतितश्चाहं यमस्योच्यैः प्रभाषतः । वासुदेवः समुद्धर्ता भविता ते जनार्दनः । पूर्णे वर्षसहस्रान्ते क्षीणे कर्मणि दुष्कृते ॥’ इति दानधर्मेषूक्ते दानधर्मेषु तदशुभाल्पत्वं तथा ब्राह्मणोक्तमेव यमेनाप्युक्तमिति चावसेयम् ॥ ३६,३७ ॥
तावदद्राक्षमात्मानं कृकलासं पतन् प्रभो ।
ब्रह्मण्यस्य वदान्यस्य तव दासस्य केशव ॥ ३८ ॥
सत्यधर्मीया
कृकलासमात्मानं तावदेव तदेवाद्राक्षम् । ब्रह्मण्यस्य वदान्यस्य, तव दासस्येति वक्ष्यमाणस्मृत्यनाशकारणोदीरणम् ॥ ३८ ॥
स्मृतिर्नाद्यापि विध्वस्ता तव सन्दर्शनार्थिनः ।
देवदेव जगन्नाथ गोविन्द पुरुषोत्तम ॥ ३९ ॥
सत्यधर्मीया
अद्यापि स्मृतिर्न विध्वस्ता ॥ ३९ ॥
नारायण हृषीकेश पुण्यश्लोकाच्युताव्यय ।
अनुजानीहि मां कृष्ण यातुं देवगतिं प्रभो ॥ ४० ॥
पदरत्नावली
देवगतिं स्वर्गम् ॥ ४० ॥
सत्यधर्मीया
देवगतिं यमदेवोदिताम् ॥ ४० ॥
यत्र क्वापि सतश्चेतो भूयान्मे त्वत्पदास्पदम् ॥ ४१ ॥
पदरत्नावली
यत्र क्वापि योनिविशेषे सतः सम्भवतः ॥ ४१ ॥
सत्यधर्मीया
स्वाशासितमाशंसति– यत्रेति । चेतो मन इतो वा भूयादित्यपि कटाक्षितमावृत्त्या ॥ ४१ ॥
नमस्ते सर्वभावाय ब्रह्मणेऽनन्तशक्तये ।
कृष्णाय वासुदेवाय गोपानांपतये नमः ॥ ४२ ॥
पदरत्नावली
सर्वभावाय सम्पूर्णैश्वर्याय, सर्वोत्पादनकर्त्रे वा, अखण्डलीलाय वा
॥ ४२ ॥
सत्यधर्मीया
गोपानां पतये विश्वस्य गोपकत्वेन पतित्वोक्तिः क्रोशविषय इति षष्ठ्या आक्रोश इत्यलुक् । तेन घिसञ्ज्ञाकार्यं सम्भवतीति ज्ञेयम् ॥ ४२ ॥
इत्युक्त्वा तं परिक्रम्य पादौ स्पृष्ट्वा स्वमौलिना ।
अनुज्ञातो विमानाग्य्रमारुहत् पश्यतां नृणाम् ॥ ४३ ॥
दुर्घटभावदीपिका
पादौ स्पृष्ट्वा स्वमौलिनेत्यस्य स्वतन्त्रनारायणकिरीटसदृशेन किरीटेन पादौ स्पृष्ट्वेत्यर्थः । एतेन स्वमौलिनेत्यस्य स्वशब्दो व्यर्थः परमौलिप्रसक्तेरभावादिति दूषणं पराकृतम् । स्वमौलिनेत्यस्य स्वतन्त्रनारायणकिरीटसदृशेनेत्यर्थः । किरीटेनेत्यस्य शेष इति चाभ्युपगमात् ॥ ४३ ॥
सत्यधर्मीया
स्ववृत्तादिकमुक्त्वा तं कृष्णं स्वमौलिना पादौ स्पृष्ट्वा विमानं व्योमया-नमारुहत् । पश्यतां नृणामिति बहुप्रत्यक्षमिदमिति विश्वास्यतां द्योतयति ॥ ४३ ॥
कृष्णः परिजनं प्राह भगवान् देवकीसुतः ।
ब्रह्मण्यदेवो धर्मात्मा राजन्याननुशिक्षयन् ॥ ४४ ॥
पदरत्नावली
परिजनं परित उपासमानं जनम् ॥ ४४ ॥
सत्यधर्मीया
ब्रह्मण्यदेवो धर्मात्मा कृष्णः परिजनं स्वपरिवारजनम् । अपपरिवर्जन इत्युक्ते रहस्यमितीव राजन्यान् व्यवहिताननुशिक्षयन्परिजनद्वारा प्राह ॥ ४४ ॥
दुर्जरं बत ब्रह्मस्वं भुक्तमग्नेर्मनागपि ।
तेजीयसोऽपि किमुत राज्ञामीश्वरमानिनाम् ॥ ४५ ॥
पदरत्नावली
अग्नेरपि दुर्जरं जीर्णीकर्तुमशक्यम् । मनागल्पमपि । किं पुनरन्यस्येत्यर्थः
॥ ४५ ॥
दुर्घटभावदीपिका
मनागप्यल्पमपि भुक्तं ब्रह्मस्वं तेजीयसो ज्ञानिनोऽग्नेर्ज्ञानाग्नेरपि दुर्जरं जीर्णं कर्तुमशक्यम् । ईश्वरमानिनामहमीश्वर इति मानोऽभिमानो येषां त ईश्वरमानिनस्तेषाम् । अत एव ज्ञानाग्निशून्यानां राज्ञां दुर्जरमिति किमु वक्तव्यमित्येतद्बत आश्चर्यमिति । एतेन तेजीयस इत्यनेनैव पूर्णत्वादग्नेरित्येतद्व्यर्थमिति चोद्यं परिहृतम् । ज्ञानाग्निः सर्वकर्माणि भस्मसात्कु-रुतेऽर्जुनेत्यादिवचनसिद्धसर्वपापनाशनसामर्थ्यं ज्ञापयितुं ज्ञानस्याग्नित्वमग्निशब्देनोच्यत इत्यभ्युप-गमात् ॥ ४५ ॥
सत्यधर्मीया
ब्रह्मस्वं मनागल्पं भुक्तम् । अग्नेः सर्वदाहकस्यापि दुर्जरं खलन्तः । जरयितुमसाध्विति । अन्यथा तेजीयसोऽपि साक्षाद्देवांशस्यापीश्वरमानिनामीश्वरोऽहमित्य-भिमानवतां राज्ञां दुर्जरमिति किमुत कुतो वक्तव्यं स्वत एव सिद्धमित्यर्थः ॥ ४५ ॥
नाहं हालाहलं मन्ये विषं यस्य प्रतिक्रिया ।
ब्रह्मस्वं हि विषं प्रोक्तं नास्य प्रतिनिधिर्भुवि ॥ ४६ ॥
पदरत्नावली
प्रतिविधिः प्रतिक्रिया नास्ति ॥ ४६ ॥
सत्यधर्मीया
प्रतिक्रिया परिहारोपायो यस्यास्ति तं हालाहलं हलहलं विषं न मन्ये । हालेव हलतीति हालाहलस्तम् । हल विलेखने । हालाहलं हलहलं हलहालं हलाहलमिति चतूरूपः कोशः । हाला सुरायामित्युपयुक्तविश्वः । तर्हि किं मनुषे विष-मितीत्यत आह– ब्रह्मस्वमिति । अस्य भुवि प्रतिनिधिः क्रिया न, तद्ब्रह्मस्वं विषं मन्ये । हीति प्रमेयप्रसिद्धतामाह ॥ ४६ ॥
हिनस्ति विषमत्तारमग्निरद्भिः प्रशाम्यति ।
कुलं समूलं दहति ब्रह्मस्वारणिपावकः ॥ ४७ ॥
पदरत्नावली
ब्रह्मस्वाख्यारणिजन्यपावकः ॥ ४७ ॥
दुर्घटभावदीपिका
ब्रह्मस्वारणिपावक इत्यस्य ब्रह्मस्वलक्षणारण्यजन्यपावक इत्यर्थः । एतेनारण्यजन्याग्नेर्बहुदाहकत्वेनानिवार्यत्वेन च प्रसिद्धत्वाद् एतस्यैव दृष्टान्तत्वेन वक्तव्ये अरणि-जन्याग्निदृष्टान्तकथनमयुक्तमिति चोद्यस्यानवकाशः । अरण्यशब्दस्थितयकारस्य छान्दसेकारादेशे अरणीति रूपं निष्पन्नमिति स्वीकृत्यारण्यपावक इत्यस्यारणिजनकपावक इत्यर्थस्योक्तत्वात्
॥ ४७ ॥
सत्यधर्मीया
विषविषमतामिव दाहस्य, दहनस्यापि नैतत्समसमर्थतेत्याह– हिन-स्तीति । विषमत्तारं भक्षकमेकं हिनस्ति नाशयति । अग्निश्चाद्भिः शाम्यतीति प्रतिनिध्युक्तेः । हिनस्ति चेत् स्पृष्टमेकम् । ब्रह्मस्वरूपोऽरणिजः पावकोऽग्निः समूलं कुलं दहतीति । प्रसिद्धाशुशुक्षिणिविलक्षणोऽयमग्निरित्यर्थः । ब्रह्मणो ब्राह्मणारणिसमतां तत्स्वस्य पावकसमतां च कटाक्षयत्यनेनेति ज्ञेयम् ॥ ४७ ॥
ब्रह्मस्वं दुरनुज्ञातं भुक्तं हन्ति त्रिपूरुषम् ।
प्रसह्य तु बलाद्१ भुक्तं दशपूर्वान् दशावरान् ॥ ४८ ॥
पदरत्नावली
दुरनुज्ञातमनुज्ञां विना भुक्तमननुज्ञातं वा । प्रसह्य अविचार्य ॥ ४८ ॥
दुर्घटभावदीपिका
कुलं समूलं दहतीत्युक्तं विवृणोति– ब्रह्मस्वमिति ॥ दुरनुज्ञात-मनुज्ञातं ब्रह्मस्वं भुङ्क्तं चेत्पुरुषं हन्ति । अतिबलात्प्रसह्य गृहीत्वा भुक्तं चेत्पूर्वान्दशपुरुषान् अपरान् दशपुरुषान् हन्तीति । एतेन प्रसह्येत्यनेन पूर्णत्वादतिबलादित्येतद्व्यर्थमिति दूषणं परास्तम् । प्रसह्येत्यस्य बलात्कारेण गृहीत्वेत्यर्थ इत्यनङ्गीकारात् ॥ ४८ ॥
सत्यधर्मीया
दुरनुज्ञातं दाक्षिण्याद् गृह्णासि चेद्गृहाणेत्येवमनुज्ञातं भुक्तं ब्रह्मस्वं त्रिपूरुषं स्वं पितरं पितामहं चेति त्रयाणां समाहारस्त्रिपुरुषं हन्ति । प्रसह्य भुक्तं स्वस्याति-बलात्सामर्थ्यात् पूर्वान्कुलजान्दश दश चापरान्भविष्यतश्च हन्ति इत्यन्वयः ॥ ४८ ॥
राजानो राजलक्ष्म्याश्च नात्मपातं प्रचक्षते ।
निरये येऽभिमन्यन्ते ब्रह्मस्वं साधु बालिशाः ॥ ४९ ॥
पदरत्नावली
राज्यलक्ष्म्या राजश्रियः पातं निरये आत्मपातं च न प्रचक्षते न पश्यन्ति । ये ब्रह्मस्वं साधु मन्यन्ते ते बालिशाः ॥ ४९ ॥
दुर्घटभावदीपिका
ये राजानो राजलक्ष्म्या भाग्यस्य मदेन बालिशा मूर्खाः सन्तो ब्रह्मस्वहरणं निरये नरके आत्मपातमात्मपतनसाधनं न चक्षते नैव पश्यन्ति ते ब्रह्मस्वं ब्रह्म-स्वहरणं साधु समीचीनमित्यभिमन्यन्ते निश्चयेन जानन्ति । उपलक्षणमेतत् । ब्रह्मस्वहरणं कुर्वन्ति चेति । एतेन राजलक्ष्म्या इत्येतदनन्वितमिति शङ्काऽनवकाशः । मदेनेति शेषपूरणे-नान्वस्योक्तत्वात् ॥ ४९ ॥
॥ इति श्रीभागवतटिप्पण्याम् एकोननवतितमोऽध्यायः ॥ १०–८९ ॥
सत्यधर्मीया
राजलक्ष्म्या राजसम्पदो हेतोर्निरये आत्मपातमेतद्भाविनं राजानो न प्रचक्षते न पश्यन्ति । निगमयति । ब्रह्मस्वं ये साध्विति मन्यन्ते ते । साध्वित्यत्राप्य-न्वेति । अत्यन्तं बालिशा मूर्खा इति ॥ ४९ ॥
गृह्णन्ति यावतः पांसून् रुदतामश्रुबिन्दवः ।
विप्राणां हृतवित्तानां वदान्यानां कुटुम्बिनाम् ॥ ५० ॥
राजानो राजकुल्याश्च तावन्तोऽब्दान् निरङ्कुशाः ।
नरके तु विपच्यन्ते ब्रह्मदायापहारिणः ॥ ५१ ॥
सत्यधर्मीया
वदान्यानां पृष्टे दातॄणां महतामिति वा । कुटुम्बिनां, हृतवित्तानां, रुदतां विप्राणामश्रुबिन्दवो, यावतः पांसून्धूलीर्गृह्णाति तावतस्तत्सङ्ख्याकानब्दान्संवत्सरान्ब्रह्मदाया-पहारिणो राजानो राजकुल्यास्तद्वंशसम्भवाश्च निरङ्कुशा नरकेषु कुम्भीपाकादिषु पच्यन्ते । अतो बालिशाः ॥ ५०,५१ ॥
स्वदत्तां परदत्तां वा ब्रह्मवृत्तिं हरेत यः ।
षष्टिवर्षसहस्राणि विष्ठायां जायते कृमिः ॥ ५२ ॥
सत्यधर्मीया
यः स्वदत्तां परदत्तां वा वृत्तिं हरेत्सः षष्ठिवर्षसहस्राणि विष्टायां कृमिर्जायते ॥ ५२ ॥
न मे ब्रह्मधनं भूयाद् यज्जग्ध्वाऽल्पायुषो नृपाः ।
पराजिताश्च्युताः स्थानाद् भवन्त्युद्वेजिता नृपाः ॥ ५३ ॥
पदरत्नावली
यद् ब्रह्मस्वं जग्ध्वाऽल्पायुषो भवन्ति ॥ ५३ ॥
सत्यधर्मीया
यज्जग्ध्वा पराजिता अल्पायुषः स्थानाच्च्युता अरिभिरनृपा भवन्ति । तन्मे ब्रह्मधनं न भूयादित्यन्वयः । जग्ध्वेति ॥ ५३ ॥
विप्रं कृतागसमपि नैव द्रुह्यत मामकाः ।
घ्नन्तं बहु शपन्तं वा नमस्कुरुत नित्यशः ॥ ५४ ॥
पदरत्नावली
न द्रुह्यत द्राहं न कुरुत ॥ ५४ ॥
सत्यधर्मीया
स्वाञ्छिक्षयति– विप्रमिति । हे मामकाः । कृतागसमपि न द्रुह्यत । तेषां चातद्रोहरतत्वात्तद्द्वारेतरशिक्षणमेवेति द्योतयितुं न चतुर्थ्या निर्देश इति ज्ञेयम् । घ्नन्तं बहुशपन्तं वा नित्यशो नमस्कुरुत ॥ ५४ ॥
यथाऽहं प्रणमे विप्रान् सर्वकालं समाहितः ।
तथा नमत यूयं च योऽन्यथा मे स दण्डभाक् ॥ ५५ ॥
सत्यधर्मीया
सर्वकालं समाहितः सन् यथाऽहं विप्रान्प्रणमामि यूयं तथा नमत । योऽन्यथा न नमेत्स मे दण्डभाक् शिक्षार्हः । पूर्वं यूयमित्युक्त्वाऽन्ते स दण्डभागित्येक-वचनेन प्रायेणैते सुचेतस्काः । यत्र क्वापि यः कश्चिद्दुश्चित्तो वर्तेत चेत्स शिक्षणीयः स्यादिति द्योत्यते । अथवा स्वकीयास्वकीयभेदेन न शिक्षातारतम्यमपि त्वेकरूपिणी सेति सूचनायैवं निर्देशः ॥ ५५ ॥
ब्राह्मणार्थो ह्यपहृतो हर्तारं पातयत्यधः ।
अजानन्तमपि ह्येनं नृगं ब्राह्मणगौरिव ॥ ५६ ॥
सत्यधर्मीया
अनुभूतं निदर्शनीकृत्य स्वोक्तं दृढयति– ब्राह्मणार्थ इति । ब्राह्मणगौर् ब्राह्मणगवी । प्राचीनपक्षे ऋक्पूरब्धूः पथामिति, नवीनपक्षे अश्वादिगणे राजञ्छब्दपाठाट् टजनित्य इति ब्राह्मणगौरिति सम्भवति ॥ ५६ ॥
एवं विश्राव्य भगवान् मुकुन्दो द्वारकौकसः ।
पावनः सर्वलोकानां विवेश निजमन्दिरम् ॥ ५७ ॥
पदरत्नावली
सर्वलोकानां पावनः शुद्धिकर्ता ॥ ५७ ॥
॥ इति श्रीमद्भागवतटीकायां विजयध्वजतीर्थकृतायां पदरत्नावल्यां
दशमस्कन्धे उत्तरार्धे एकोननवतितमोऽध्यायः (स.धर्म.१०–८९) ॥
सत्यधर्मीया
द्वारकौकस एवं विश्राव्य श्रावयित्वा सर्वलोकानां पावनो निजमन्दिरं वनतो विवेश ॥ ५७ ॥
श्रीशुक उवाच—
सद्भिः समागमो राजन् कदाचिन्नाफलो भवेत् ।
विमुक्तो नरकाद् राजा नृगः साधुसमागमात् ॥ ५८ ॥
सत्यधर्मीया
पावन इत्युक्तं सामान्यतस्तथाविधाः सामान्या इत्युक्त्वा स्वतस्तथा सन्तं परीक्षितमपि शिक्षयति श्लोकत्रयेण शुक इत्याह– श्रीशुक इति । अफलो निष्फलः । नरकाद्दुर्योनेः ॥ ५८ ॥
साधूनां दर्शनं स्पर्शः१ कीर्तनं स्मरणं तथा ।
तीर्थानामिव पुण्यानां सर्वमेव हि पावनम् ॥ ५९ ॥
सत्यधर्मीया
पुण्यानां तीर्थानां गङ्गादीनां, यथा सर्वं दर्शनादिचतुष्टयम् । पावनं पावकं तथा साधूनां दर्शनं स्पर्शः कीर्तनमुच्चारः स्मरणं पावनम् । स्पर्शमिति पाठे लिङ्ग-शिष्यताशरणम् ॥ ५९ ॥
एतत् श्रुत्वा त्वया सन्तः सदोपास्याः परन्तप ।
ब्रह्मस्वं नैव हर्तव्यं यदीच्छसि परां गतिम् ॥ ६० ॥
॥ इति श्रीमद्भागवते दशमस्कन्धे एकोननवतितमोऽध्यायः ॥
सत्यधर्मीया
एतच्छ्रुत्वा हे परन्तप सन्तः सदा त्वयोपास्याः । यदि परां गतिमिच्छसि तर्हि ब्रह्मस्वं त्वया नैव हर्तव्यम् । मुमूर्षोरिव भवंतितीर्षोः राजर्षेरेतत्प्रसक्त्य-भावात्कथमचकथदृषिरेवमिति चेन्न । नैकमात्राधिकारिकं शास्त्रम् । न तत्राप्येक एवोप-विष्टः । तद्द्वाराऽव्यहितव्यवहितसच्छासनसम्भवात् ॥ ६० ॥
**॥ इति श्रीसत्यधर्मयतिकृतायां भगवतटिप्पण्यां दशमस्कन्ध उत्तरार्धेे **
एकोननवतितमोऽध्यायः ॥ १०–८९ ॥