१४ अष्टाशीतितमोऽध्यायः

इति सूतोदितां वाणीमाकर्ण्य यदुनन्दनः

॥ अथ अष्टाशीतितमोऽध्यायः ॥

श्रीशुक उवाच—

इति सूतोदितां वाणीमाकर्ण्य यदुनन्दनः ।

पुनरात्तप्रहरणः सूतमाह रणाङ्गणे ॥ १ ॥

पदरत्नावली

यदून् नन्दयतीति यदुनन्दनः ॥ १ ॥

दुर्घटभावदीपिका

पुनारत्तप्रहरणः प्रद्युम्नः । हे सूत । य एष दंशितो धृतकार्मुको द्युमान् तं पश्य । वीरस्य द्युमतः पार्श्वं प्रति मां नयेति सूतमाह । सारथिमाहेति द्विरुक्ति-रवधारणार्था । एतेन सारथिमाहेत्येतत्सूतमाहेत्यनेन पुनरुक्तमिति चोद्यं प्रत्युक्तम् ॥ १ ॥

सत्यधर्मीया

यदुनन्दनो यदस्ति तत उच्चत्वादित्यादिवचनात्सर्वोच्चस्य कृष्णस्य नन्दनः पुत्रः सूतोदितां वाणीं श्रुत्वा पुनरात्तानि प्रहरणान्यान्युधानि येन स सन् रणाङ्गणे सूतमाह । स्वापहासकं दारुकदारकमाहेत्युक्तम् ॥ १ ॥

पश्य सूत द्युमानेष दंशितो धृतकार्मुकः ।

नय मां द्युमतः पार्श्वं वीरस्येत्याह सारथिम् ॥ २ ॥

पदरत्नावली

एष द्युमान् दंशितो रणाङ्गणे, आस्ते इति शेषः । ततः किम्? तत्राह– नयेति ॥ २ ॥

सत्यधर्मीया

तत्किमाकारमीरणमित्यत ईरयति– पश्येति । द्युमान्साल्वामात्यः । वीरस्य द्युमतः पार्श्वं मां नयेत्याह । पूर्ववन्न कुर्विति बोधनाय पुनः सारथिमितीर्ष्यावचनम्

॥ २ ॥

आद्रवन्तं स्वसैन्यानि द्युमन्तं रुग्मिणीसुतः ।

प्रतिहत्य रुषाऽविध्यन्नाराचैरष्टभिः स्मरन् ॥ ३ ॥

सत्यधर्मीया

प्रतिहत्याद्रवन्तं स्वसैन्यानि प्रति । स्वसैन्यान्याद्रावयन्तं वा । स्मरन् पुरानुभूतपराभवम् । अष्टभिर्नाराचै रुषाऽविद्ध्यत्तताड ॥ ३ ॥

चतुर्भिश्चतुरो वाहान् सूतमेकेन चाहनत् ।

द्वाभ्यां च केतुधनुषी द्युमतोऽन्येन वै शिरः ॥ ४ ॥

सत्यधर्मीया

उत्सृष्टानामष्टानां शराणां क्व क्व विनियोग इत्यत आह– चतुर्भिरिति । चतुरो वाहानश्वांश्चतुर्भिः शरैरेकदोन्मुच्यैवं पृथक् पृथग्लक्ष्यवेधकौशल्यमप्यस्तीत्याह– चतुर इति । सूतं चैकेनाहनद् अहन् । द्वाभ्यां केतुधनुषी । द्युमतोऽन्येन शिरोऽहनत् ॥ ४ ॥

गदः सात्यकिरक्रूरः साम्बश्च शुकसारणौ ।

वसुदेवोग्रसेनौ च जघ्नुः सौभपतेर्बलम् ॥ ५ ॥

सत्यधर्मीया

बलं सेनाम् ॥ ५ ॥

पेतुः समुद्रे बहवः साल्वेया भिन्नकन्धराः ।

एवं यदूनां साल्वानां निघ्नतामितरेतरम्॥ ६ ॥

सत्यधर्मीया

साल्वेयाः शुभ्रादिढक् ॥ ६ ॥

रणं त्रिनवरात्रं तु तुमुलं रोमहर्षणम् ।

इन्द्रप्रस्थं गतः कृष्ण आहूतो धर्मसूनुना ॥ ७ ॥

राजसूये निवृत्ते च शिशुपाले रणे हते ।

अलक्षयद् दुःशकुनान् घोरान् सङ्ग्रामशंसिनः ॥ ८ ॥

कुरुवृद्धाननुज्ञाप्य मुनींश्च ब्राह्मणैः सह ।

अन्वीयमानः सामात्यैः पाण्डवैर्निर्ययौ पुरात् ॥ ९ ॥

पदरत्नावली

त्रिनवरात्रं सप्तविंशद्रात्रम् । अस्मिन्नवसरे कृष्णागमनं वक्ति– इन्द्रप्रस्थ-मिति ॥ ७ ॥

सत्यधर्मीया

त्रिनवरात्रं सप्तविंशद्रात्रम् । सङ्ख्यापूर्वा रात्रिरिति नपुंसकलिङ्गता । रणम् । यद्यपि विश्वादौ रणः कोणघुणाजिष्विति पुल्लिङ्गे रणशब्द इत्युक्तं तथाऽपि कर्षापणस्वर्णसुवर्णव्रणचरणऋृणलवणापर्णतोरणोष्णानि नपुंसक इति लिङ्गानुशासनोक्ते स्तल्लिङ्गोऽपि । अस्त्रियां समरानीकरणा इति क्वाचित्कोऽमरोऽपि सङ्गच्छते । अत एवैतदज्ञानात्तत्प्रयोगाज्ञानाद्युद्धमिति पठन्ति । अभूदिति शेषः । शेषश्चक्रुरिति वा । धर्मसूनुनाऽऽहूतः कृत इन्द्रप्रस्थतो माधवासन्निधानं मत्वैव स आयात इति भावः । अलक्षयदपश्यत् । अन्वीयमान इति सर्वान्वयि । पुरादिन्द्रप्रस्थात् ॥ ७–९ ॥

स गत्वा किञ्चिदध्वानं स्थापयित्वा पुरौकसः ।

पृथासुताननुज्ञाप्य प्रणतानश्रुलोचनान् ॥ १० ॥

सत्यधर्मीया

किञ्चिदित्यव्ययम् । अश्रुलोचनान्विरहासहिष्णुतया ॥ १० ॥

सुवर्णशिबिकारूढैरवरोधवधूजनैः ।

गजाश्वरथपादातिसहस्रैरपि संवृतः१ ॥ ११ ॥

सत्यधर्मीया

अवरोधवध्वोऽन्तःपुरस्त्रियः ॥ ११ ॥

अन्वीतराजकटकः प्रतस्थे पश्चिमामुखः ।

साल्वोऽपि कुरुशार्दूल विमानेन खचारिणा ।

अपावृत्य रणाद् राष्ट्रं स्वमेवाभ्यर्दितो ययौ ॥ १२ ॥

पदरत्नावली

रणादपावृत्य रणं विहायेत्यर्थः ॥ १२ ॥

सत्यधर्मीया

अन्वीतराजकटकोऽन्वीतो राजकटकः सेना यं सः । ई इति प्रश्लिष्टस्येट ईटीत्यत्र ईधातोरिङो वा गत्यर्थस्य रूपम् । तत्र का वार्ता प्रवृत्तेत्यत आह– साल्वोऽपीति । अर्दित इत्यपावर्तनहेतुकीर्तनम् ॥ १२ ॥

गच्छमानस्य साल्वस्य साम्बोऽभिद्रुत्य पृष्ठतः ।

साल्वामात्यं क्षेमधूर्तिं बाणैर्निन्ये यमक्षयम् ॥ १३ ॥

सत्यधर्मीया

यमक्षयं नाशशून्यं स व्यज्ञासीत्तमपि यमक्षयं निन्य इत्यावृत्त्याऽ-प्यन्वयः ॥ १३ ॥

सेनापतिं विविन्दाख्यं साल्वस्याखिलवल्लभम् ।

निरुद्ध्य पथि गच्छन्तं प्रद्युम्नः प्राहरच्छरैः ॥ १४ ॥

पदरत्नावली

अखिलान् समस्तप्रकृतिजनाद् वल्लभं प्रियतमम् ॥ १४ ॥

सत्यधर्मीया

अखिलवल्लभं सर्वतः प्रीतिपात्रम् ॥ १४ ॥

प्रद्युम्नेनातिविद्धोऽसौ गृहीत्वा खङ्गचर्मणी ।

ससज्ज रौग्मिणेयेन तदभूद् रणमद्भुतम्॥ १५ ॥

पदरत्नावली

ससज्ज सङ्गतः ॥ १५ ॥

सत्यधर्मीया

ससज्ज समसज्जत । ततस्तद्रणमद्भुतमभूत् ॥ १५ ॥

मण्डलानि विचित्राणि चरतस्तस्य सङ्गरे ।

कृपाणेन यदुश्रेष्ठः शिरः कायादपाहरत् ॥ १६ ॥

सत्यधर्मीया

तस्य विविन्दस्य ॥ १६ ॥

विभ्रष्टमार्गा सा सेना हतप्रवरयूथपा ।

विदुद्राव यथाकामं प्राणत्राणपरायणा ॥ १७ ॥

सत्यधर्मीया

सा सेना साल्वसैन्यं प्राणत्राणपरायणा सती यथाकामं विदुद्राव । प्राणत्राणमेव परमयनं यस्याः सा । परमयनमिति व्युत्पत्तिमात्रप्रदर्शनपरम् । वस्तुतस्तु रूढ इति सञ्ज्ञारूपः स शब्द इति पूर्वपदात्सञ्ज्ञायामग इति णत्वम् । आश्रये तु पराभीष्टे परायणपदं विदुरिति शाश्वतः । ‘साकल्यासङ्गवचने परायणतुरायण’ इत्यमरः ॥ १७ ॥

देवोऽपि द्वारकामेत्य वेगेन गरुडध्वजः ।

ददर्श नगरीं भग्नप्रासादाट्टालगोपुराम् ॥ १८ ॥

सत्यधर्मीया

गरुडध्वजो देवोऽपि वेगेन द्वारकामेत्य भग्नप्राकारगोपुरां पुरीं ददर्श

॥ १८ ॥

विशीर्णतोरणां रुग्णतुङ्गसालप्रतोलिकाम् ।

विध्वस्तोपवनोद्यानां प्रस्तरापूर्णदीर्घिकाम् ॥ १९ ॥

पदरत्नावली

सालः प्राकारः । ‘प्रतोली विशिखा रथ्या’ इति हलायुधः । प्रतोलिरेव प्रतोलिका । प्रस्तरापूर्णदीर्घिकां पाषाणपूरितपरिखाम्, गन्तुमिति शेषः ॥ १९ ॥

सत्यधर्मीया

विशीर्णतोरणां, रुग्णा भग्नाः । तुङ्गेत्युभयान्वयि । सालः प्राकारः । सालः पादपमात्रे स्यात्प्राकार इति विश्वः । प्रतोल्येव प्रतोलिका यस्यां सा ताम् । प्रस्तरैः पाषाणैरापूरिता दीर्घेव दीर्घिका । स्वार्थे सञ्ज्ञायां कन् । वापी वा परिखा यस्यां सा ताम् । वापी तु दीर्घिकेत्यर्थः । ग्रामीणजनानुपयोगिपयोविधानमनेन द्योत्यत इवान्तर्गमनमार्गार्थमिति च द्योत्यते ॥ १९ ॥

निःस्वाध्यायवषट्कारामालोक्य द्वारकापुरीम् ।

अपृच्छत् कृतवर्माणं किमेतदिति दुर्मनाः ॥ २० ॥

सत्यधर्मीया

निर्गताः स्वाध्यायो वेदाध्ययनं वषट्कारा नित्याग्निहोत्राङ्गानि यस्यां सा । बहिः सम्मुखमागतं कृतवर्माणं दुर्मना इव । एतदेव किमित्यपृच्छत् ॥ २० ॥

तेनोक्तं सर्वमाकर्ण्य साल्वराजविचेष्टितम् ।

प्रतिजज्ञे यदुपतिः शृण्वतां सर्वसात्वताम् ॥ २१ ॥

सत्यधर्मीया

तेन कृतवर्मणा ॥ २१ ॥

अनुद्रुत्य तमद्यैव सौभं हत्वा दुरात्मकम् ।

सौभं निपात्य जलधौ प्रवेक्ष्ये द्वारकामिति ॥ २२ ॥

सत्यधर्मीया

प्रतिश्रवप्रकारांस्ताञ्छ्रावयतीति वक्ति– अनुद्रुत्येति । सौभं दुरात्मकमनुद्रुत्याद्यैव तं हत्वा सौभं तद्विमानं जलधौ समुद्रे निपात्य द्वारकां पुरीं प्रवेक्ष्येऽह-मिति । प्रवेक्ष्ये द्वारकामित्युक्तिस्वारस्यात् । केचिद् इदानीं तन्मार्गतो गत्वा तमहत्वा न प्रवेक्ष्ये इति भावमाविर्भावयन्ति ॥ २२ ॥

स रथं सैन्य१सुग्रीवमेघपुष्पबलाहकैः ।

युक्तं बहुप्रहरणमग्रावस्थितदारुकम् ॥ २३ ॥

सत्यधर्मीया

शैब्येत्यपि पठन्ति । अग्रेऽवस्थितो दारुको यस्य तम् ॥ २३ ॥

आरुह्य भगवान् विष्णुर्गरुडध्वजमुत्तमम् ।

प्रययौ सौभपदवीं मनोमारुतरंहसा ॥ २४ ॥

सत्यधर्मीया

गरुडो ध्वजे यस्य तम् । पूर्वं मनः प्रययौ गन्तव्यमिति मनश्चकार । अनन्तरं सौभपदवीं साल्वमार्गं मारुतरंहसा समीरसमवेगेन प्रययौ । मनोवन्मारुतं निःशब्दं रंहस्तेनेति वा । पक्षद्वन्द्वेऽपि प्रतिद्वन्द्वस्य पलायनं वा निलायनं वा न भवेदिति निःसङ्गमनं नीरुतं च तदिति मन्तव्यम् । मनोवन्मारुतं प्रमाणोक्तं रंहो यत्तेनेति वा । ‘मानोक्तत्त्वाच्च मारुत’ इत्यृग्भाष्योक्तेः । अतोऽपि नैकतरातिरेकः ॥ २४ ॥

तथा गत्वा सुदूरं तमम्भोधेः कुक्षिमाश्रितम् ।

ददर्श सौभं तन्मध्ये साल्वं च समलङ्कृतम् ॥ २५ ॥

सत्यधर्मीया

कुक्षिं मध्यम् । सौभं ददर्श । तन्मध्ये सौभान्तः । समलङ्कृतं साल्वं च ददर्शेत्यन्वयः । प्रद्युम्नादिभिः समलङ्कृतं मलमङ्कं तत्सहितं कृतमित्यर्थः । हतप्रायेत्यादेः ॥

साल्वश्च कृष्णमालोक्य हतप्रायबलेश्वरः ।

प्राहरत् कृष्णसूताय शक्तिं भीमां दृढां मृधे ॥ २६ ॥

सत्यधर्मीया

हतप्रायं हतभूयिष्ठं यद्बलं तस्येश्वरः स्वामी । कृष्णसूताय कृष्णेन सु सम्यक् ऊतो रक्षितस्तस्मै । एतेन शक्तेरशक्तता द्योत्यते । विरम्योपस्थितिकत्वात् तत्सूता-येत्यनुक्तिर् दारुकाय ॥ २६ ॥

तामापतन्तीं नभसि महोल्कामिव रंहसा ।

भासयन्तीं दिशः शौरिः सायकैः शतधाऽच्छिनत् ॥ २७ ॥

सत्यधर्मीया

महोल्कामिव रंहसाऽऽपतन्तीं दिशो भासयन्तीं तां शक्तिं शतधा शतप्रकारेणाच्छिनत् ॥ २७ ॥

तं च षोडशभिर्बाणैर्विद्ध्वा सौभं च खेचरम् ।

आविद्ध्यच्छरसन्दोहैः खं सूर्य इव रश्मिभिः ॥ २८ ॥

सत्यधर्मीया

षोडशभिः सूर्यो रश्मिभिर्यथा पूरयति तथा शरसन्दोहैराविद्ध्यत् । तमोधाम दुरासदमिति प्रागुक्तेरनुरूपं निरूपितनिदर्शनं तथा शराणां च प्रकाशपुञ्जत्वादिति मन्तव्यम् । प्रागेव षोडशशरविसर्जनं तव षोडशश्राद्धानि सत्वरं भवन्तीति ध्वनयितुमिति च । शरसन्दोहैः स्वहस्तगृहीतोदकसन्दोहैस्तथा रश्मिभिश्चेति दृष्टान्तेऽपि योजयन्ति । तथा हि ऋग्भाष्यटीकयोः । आददानः प्रयाति । एते हीदं सर्वमाददाना यन्तीति । आदित्याज्जायते वृष्टिरित्यादेः । आकाशे नीलिमोदेति श्रुतेस्तमोधाम्नः सौभस्य चोपमानुपमेति ज्ञेयम् । शराश्च किरणानुकाराः कृष्णश्च रविसमः ॥ २८ ॥

साल्वः शौरेस्तु दोः सव्यं सशार्ङ्गं शार्ङ्गधन्वनः ।

बिभेद न्यपतद् हस्ताच्छार्ङ्गमासीत् तदद्भुतम् ॥ २९ ॥

पदरत्नावली

सव्यं हस्तम् ॥ २९ ॥

सत्यधर्मीया

शार्ङ्गधन्वनः शौरेः सशार्ङ्गं दोः सव्यमिति पदम् । सव्यं वामं दोर्हस्तम् । भुजबाहुप्रवेष्टो दोरित्यस्त्रियां वदन्नमरः पामरः । ककुद्दोषणीति भाष्यात् । प्रयोगाश्च दक्षिणं दोर्निशाचर इत्याद्याः । बिभेद । तद्धस्तात् तत्ताडितात् शार्ङ्गं न्यपतत् । तत्पतनमद्भुतमाश्चर्यकरमभूत् । ततः सव्यमिति पाठे यत्सव्यं बिभेद तस्माद्धस्तादित्यन्वयः । तथैव तन्मथनेन कीर्तिर्मम स्यात्किन्तु वर्धनं कृत्वा मर्दनं कार्यमित्येतत्कार्यं कृतमीशेनेति ज्ञेयम् ॥ २९ ॥

हाहाकारो महानासीद् यदूनां तत्र पश्यताम् ।

विनद्य सौभराडुच्चैरिदमाह जनार्दनम् ॥ ३० ॥

सत्यधर्मीया

तत्र पश्यतां यदूनां महान् हाहाकार आसीत् । सौभराट् साल्व उच्चैर्विनद्य जनार्दनमिदमाह ॥ ३० ॥

यत् त्वया युधि दुर्बुद्धे भ्रातरौ मे महाबलौ ।

निहतौ हंसडिभकौ यमुनायां दुरात्मना ।

यद् भूयो मूढ नः सख्युर्भार्याऽप्यपहृता त्वया ॥ ३१ ॥

पदरत्नावली

सख्युर्भार्या शिशुपालस्य संक्लृप्ता रुक्मिणी ॥ ३१ ॥

सत्यधर्मीया

यमुनायामित्यनेन न न्यायतः किन्त्वन्यायत इति कटाक्षयति । भूयः पुनः शृृणु । नः सख्युः शिशुपालस्य भार्या तत्त्वेन कर्तुं निश्चिता ॥ ३१ ॥

यच्च मन्द सभामध्ये दमधोषसुतः सखा ।

व्यापादितः क्षत्रियाणां पश्यतां हतचेतसाम् ॥ ३२ ॥

सत्यधर्मीया

मम सखा दमघोषसुतः शिशुपालः । सभामध्य इत्यनेन रणाङ्गणे मारणं योद्धृधर्मिष्ठतां ध्वनयति । हतचेतसामश्विनां क्षत्रियाणां पश्यतां व्यापादितो हिंसितः

॥ ३२ ॥

तं त्वाऽद्य निशितैर्बाणैरपराजितमानिनम् ।

नयाम्यपुनरावृत्तिं यदि तिष्ठेर्ममाग्रतः ॥ ३३ ॥

पदरत्नावली

अपुनरावृत्तिं मरणं यमगृहं वा ॥ ३३ ॥

सत्यधर्मीया

तमेतादृशाधर्मनिरतम् । अपराजित इत्यात्मानं मन्यत इत्यपराजित-मानी । स इति मानोऽहङ्कारोऽस्यास्तीति वा । यदि ममाग्रतोऽग्रे तिष्ठेस्तर्हि निशितैर्बाणै-स्त्वा त्वामपुनरावृत्तिं न विद्यते पुनरावृत्तिर्यस्मात्तं यमलोकं नयामि । हे अपराजित अनिनं प्राणवन्तं माम् । नय । अहं पुनरावृत्तिं पुनरावृत्तेरमी (अम्यपुनरावृत्तिम् अपुनरावृत्तेर् अमी इति स्याद्वा ।) अमो गमनमस्यास्तीत्यमी । अम गत्यादिष्विति स्मरणादित्यावृत्त्याऽन्वयेन जयः पङ्कस्तम्भ इत्यनिर्णयकृतं वचनमिति शूरस्वभावोद्योत्यते ॥ ३३ ॥

इति तेनोदितां वाणीमाकर्ण्य मधुसूदनः ।

प्राहार्दितो बाणगणैः पुनरात्तशरासनः ॥ ३४ ॥

सत्यधर्मीया

बाणगणैरर्दितस्तथाऽऽत्मानं दर्शयन्पुनरात्तशरासनः प्राह ॥ ३४ ॥

वृथा त्वं कत्थसे मन्द न यस्यास्त्यतिकौतुकम् ।

पौरुषं दर्शय त्वं नः शूराणां फल्गु भाषणम् ॥ ३५ ॥

पदरत्नावली

यस्य तवातिकौतुकमिति व्याख्यातं वीर्यं नास्ति स त्वं वृथा कत्थसे । पौरुषमस्ति चेद् दर्शय । शूराणां च भाषणं फल्गु मितं वीर्यप्रकटनं बह्वित्यर्थः । यद्वा शूराणां पौरुषं दर्शय, भाषणं फल्गु तुच्छं विकत्थनमित्यर्थः ॥ ३५ ॥

दुर्घटभावदीपिका

शूराणां फल्गु भाषणमित्यस्य शूराणां भाषणं फल्गु हेयमित्यर्थः ॥ अयं भावः । शूरा वीर्यमेव प्रकटयन्ति भाषणं न कुर्वन्तीति । एतेनासमर्थानामेव भाषण-मकार्यकारि न तु समर्थानाम् । अतः शूराणां भाषणं फल्ग्वकार्यकारीति कथनमयुक्तमिति चोद्यं परास्तम् । शूराणां भाषणमकार्यकारीत्यर्थ इत्यनङ्गीकारात् ॥ ३५ ॥

सत्यधर्मीया

यस्यातिकौतुकं न नास्ति बले । ततो वृथा कत्थसे । नस्तत्पौरुष-मप्रकाशितमस्ति चेन्नः प्रति प्रकाशय । शूराणां भाषणं यत्तत्फल्गु । अकिञ्चित्करमिति वा

॥ ३५ ॥

इत्युक्त्वा भगवान् साल्वं गदया भीमवेगया ।

तताड जत्रौ संरब्धः स चकम्पे वमन्नसृक् ॥ ३६ ॥

सत्यधर्मीया

स साल्वोऽसृक् रक्तं वमन् चकम्पे ॥ ३६ ॥

ततः साल्वः समुत्पत्य खड्गेनानकदुन्दुभेः ।

उत्कृत्य शिर आदाय खस्थं सौभं समाविशत् ॥ ३७ ॥

पदरत्नावली

साल्वस्य शक्तिप्रकटनाय तन्मायाप्रकारमाह– तत इति ॥ ३७ ॥

दुर्घटभावदीपिका

ततस्तदनन्तरं साल्वः समुत्पत्य खड्गेन । मायाकल्पितस्यानक-दुन्दुभेः शिर उत्कृत्य कृष्णपुरतः कलेवरं स्थापयित्वा शिर आदाय खस्थमाकाशस्थितं सौभं समाविशदिति । एतेन वसुदेवशिरच्छेदादेरभावाद् आनकदुन्दुभेः शिर उत्कृत्येत्यादिकथन-मयुक्तमिति दूषणं प्रत्युक्तम् । मायाकल्पितेत्यस्य शेषेण साल्वो मायासामर्थ्येनाविद्यमान-वसुदेवदेहतच्छिरच्छेदादिकं प्रदर्शितवानित्यत्रोच्यत इत्यङ्गीकारात् ॥ ३७ ॥

सत्यधर्मीया

ततः स्वस्थतानन्तरं साल्वः समुत्पत्यानकदुन्दुभेः शिर उत्कृत्यादायैव पुनः खस्थं सौभं समाविशत् । अनेनावहानिर्वाहान्मायामतनुत दानव इति भावः सूचित इति ज्ञेयम् । अथ मां पुरुषः कश्चिद्द्वारकानिलयोऽब्रवीत् । त्वरितो रथमारोप्य सौहृदादिव भारतेत्यारभ्य, ततो मुहूर्तात्प्रतिलभ्य सञ्ज्ञामहं तदा वीर महाविमर्दे । न तत्र सौभं न रिपुं न साल्वं पश्यामि वृद्धं पितरं चापीत्यन्तेन वनपर्ववचनेनात्र विशेषो ज्ञेयः ॥ ३७ ॥

ततो मुहूर्तात् प्रकृतावुपस्थितस्तत्रानुतिष्ठत् स्वजनानुसङ्गतः१ ।

महानुभावस्तदबुद्ध्यतासुरीं मायां स साल्वप्रकृतां मयोदिताम् ॥ ३८ ॥

तात्पर्यम्

जानन् साल्वकृतां मायामजानन्निव केशवः । अन्ववर्तत किञ्चित् तं ततस्तामहरद्विभुः ॥ एवमेव तु सर्वत्र परमात्मा सनातनः । विद्धश्च रुधिरस्रावी कथञ्चिदजयत्परम् । इत्यादि दर्शयेद्विष्णुर्मोहयन्मायया जगत् । चिदानन्दघनस्यास्य कुतो वेधादि सद्गतेः ॥ इति ब्रह्माण्डे ॥

पदरत्नावली

श्रीकृष्णः साल्वसृष्टां मायामवलोक्य किमकरोत्? अत्राह– तत इति ॥ ततो वसुदेवशिरोहरणानन्तरं मुहूर्तकालं तत्र युद्धे अनुतिष्ठन् अन्वतिष्ठद् अन्ववर्तत । कीदृशः? प्रकृतौ चिदानन्दघनस्वभावे उपस्थितोऽपि साल्वमायां जानन्नपि प्रकृतावुप प्रकृतिसमीपे स्थितोऽजानन्निव । पुनः किं चकारेति तत्राह ततो मुहूर्तान्महानुभावो ऽपरिमितप्रभावः स हरिः स्वजनस्य स्वभक्तजनस्यानुकूलात् सङ्गतः वचनप्रसङ्गात् तद् वसुदेवशिरोहरणमबुद्ध्यत । कथं तद् ? अत्राह– आसुरीमिति ॥ साल्वेन प्रकृतां प्रयुक्ताम् । मूलबलमाह– मयेति ॥ मयेनासुररक्षणायोदितामुपदिष्टामित्यर्थः । तदुक्तम्– ‘जानन् साल्वकृतां मायामजानन्निव केशवः । अन्ववर्तन किञ्चित्तु’ इति । बुद्ध्वा किं कृतम्? अत्राह– प्रकृताविति ॥ कृती च्छेदने इति धातोर् बुद्ध्वा मायायाः प्रकृतौ निर्मूलने सम्यक् स्थितः, अभूदिति शेषः । ‘ततस्तामाहरद् विभुः’ इति वचनात् । अज्ञानप्रकटनं कस्मात्? अत्राह– प्रकृताविति ॥ प्रकृतिनिर्मित-शरीरस्थत्वाद् असुरजनमोहनार्थत्वाच्च । ‘एवमेव तु सर्वत्र परमात्मा सनातनः । विद्धश्च रुधिरस्रावी कथञ्चिदजयत् परम् । इत्यादि दर्शयेद् विष्णुर्मोहयन् मायया जगत् ॥’ इति । चिदानन्दघनस्वभाव इत्येतत् कुत इति चेन्न । ‘चिदानन्दघनस्यास्य कुतो वेधादि सम्भवेत्’ इत्यस्मात् । स्वजनानुसङ्गत इतीदमपि ‘सद्गतेः’ इति सिद्धम् । ‘यदचरस्तन्वा वावृधानो बलानीन्द्र प्रब्रुवाणो जनेषु । मायेत् सा ते यानि युद्धान्याहुर्नाद्य शत्रुं न पुरा विवित्से’ इत्यादि-श्रुतिसिद्धोऽयमित्यर्थः । तथा हि? हे इन्द्र तन्वा वावृधानः स्वरूपेण भृशं वर्धमानस्त्वं बलानि वीर्याणि विक्रमलक्षणानि अचरो ऽकृतेति यत् स्वजनेषु प्रब्रुवाणः, वर्तस इति शेषः । तस्मात् स्वभावरहस्यं स्वजना जानन्तीत्यर्थः । शाल्वादिशत्रुणा क्रियमाणानि यानि युद्धान्याहुः पुराणादौ एतानि त्वामुद्दिश्य सा मयोदिता माया इद् इन्द्रजाललक्षणैव । त्वं पुरा प्रथमतो मूहूर्तं शत्रुमुखत्रोटनान्मायां न विवित्से न ज्ञातवानसि । अद्याधुना विवित्से । ननु पश्चात् सा सिद्धाऽभूदित्यर्थः ॥ ३८ ॥

दुर्घटभावदीपिका

ततः कल्पितवसुदेवशिरोहरणानन्तरम् । स महानुभावः कृष्णः । प्रकृतौ प्रकृतिनिर्मितदेहे । उप सम्यक् स्थितः । प्राकृतदेहबंध इति यावत् । पुरुष इव मोहित इति इव तत्र तस्मिन्स्थले । स्वजनानुसङ्गतः सन्मूहूर्तात्तूष्णीमतिष्ठत् । तदनन्तरं मयोदितां साल्वप्रकृतां साल्वेन प्रकर्षेण कृतामासुरीं मायामबुद्ध्यतेति प्रदर्श्य मायामहरदिति । एतेन प्रकृतावुपस्थित इत्येतद्व्यर्थमिति दूषणं परास्तम् । प्रकृतावुपस्थित इत्यनन्तरं पुरुष इव मोहित इतीवेति पदयोः शेषेण प्राकृतदेहबंधपुरुषवन्मोहित इवेत्यर्थ उच्यत इत्यङ्गीकारात् । एतेनैव तदित्येतदनन्वितमिति दूषणं परास्तम् । अध्याहृतेन समस्तेनानंतरमिति शब्देन तदित्यस्यान्वय इत्यङ्गीकारात् । एतेनैव भगवतो मायाविषये पूर्वमज्ञानस्याभावात् तदनन्तरं मायामबुध्यतेति प्रदर्शनमात्रं न तु तदनन्तरमायाबोध इत्युच्यत इति स्वीकरणात् । एतेनैव जानन्साल्वकृतां मायामजानन्निव केशवोऽन्ववर्तत । किञ्चित्तु ततस्तामहरदिति वक्तव्यम् । तन्नास्तीति न्यूनतेति शङ्काऽनवकाशः । मायामहरदित्यस्य शेष इत्यूरीकरणात् ॥

ता० अर्थः । ततो मुहूर्तादित्यस्य कृष्णः साल्वकृतमायया मोहित इवातिष्ठदित्येवार्थो वक्तव्यः न तु साल्वकृतमायया मोहितोऽतिष्ठदित्यभिप्रेत्य । कृष्णस्य साल्वकृतमायया मोहो नास्तीत्यत्र स्मृतिमुदाहरति– जानन्निति ॥ केशवः साल्वकृतमायां जानन्नप्यजानन्प्राकृतपुरुष इव किञ्चित्तु कदाचित्कालमेव मायामन्ववर्तत । तदनन्तरं विभुस्तां मायामहरत् । परमात्मा सनातनो विष्णुर्माययेच्छया जगन्मोहयंस्तु मोहयन्नेव । एवमेव साल्वयुद्धवदेव । सर्वत्र कृष्णस्य मोहोक्तिविषयेषु सर्वयुद्धेषु । विद्धो रुधिरस्रावी च परं कथंचिदजयदित्यादि दर्शयेत् । भगवतो बंधादिकं किं न स्यादित्याशङ्कापरिहारार्थं परमात्मेत्यादिहेत्वन्तरं चाह– चिदानंदघनस्येति ॥ चिदानंदघनस्य सद्गतेरस्य विष्णोर्वधादि कुतः । कृष्णस्य साल्वकृतमायामोहो नास्तीत्यत्र श्रुतिं चाह– यदचर इति ॥ हे इन्द्र परमैश्वर्यादिसम्पन्न कृष्ण । तन्वा स्वरूपशरीरेण वृधानोऽति-शयेन सर्वदा वर्धमानस्त्वं यद्यस्मात्कारणाद्यानि बलानि महाबलसाध्यातीतानागतवर्तमानजग-त्सृष्ट्याद्यसाध्यकार्याण्यचरः कृतवानसि । तानि बलानि जनेषु श्रीब्रह्मरुद्रादिभक्तजनेषु प्रब्रुवाणो प्रकृष्टतया वेदार्थतयेति यावत् । ब्रुवाणो वर्तसे । तस्मात्कारणाद्यानि युद्धानि युद्धकालिक-साल्वादिकृतवसुदेवशिरोहरणादीनि तानि । शत्रुं साल्वादिशत्रोः । सा प्रसिद्धा मायेन्द्र-द्रजाललक्षणमायैव मायाकार्याण्येवेति पुरा प्रथमतो मुहूर्तादिकालयर्पन्तं न विवित्से न ज्ञात-वानसि । अथ पश्चात् । मुहूर्तादिकालानन्तरमिति यावत् । ज्ञातवानसि । यल्लोकानां ज्ञानं सा ते माया त्वदिच्छाजन्यमोह एवेति ज्ञानिन आहुरित्येतन्नु निश्चितमिति । अयं भावः । यस्मा-त्कारणाज्जगत्सृष्ट्यादिकर्तृत्वेन श्रीब्रह्मरुद्राद्युपदेष्टृत्वेन च कृष्णस्य सर्वज्ञत्वं सिद्धं तस्मा-त्कारणात्कृष्णस्य साल्वादिकृतमायामोहो वक्तुं न शक्यते किं त्विच्छया मायामोहप्रदर्शन-मात्रमिति वक्तव्यमिति ॥ ३८ ॥

सत्यधर्मीया

ततो मुहूर्तात्प्रकृतावुपस्थित इति श्लोके मुहूर्तपर्यन्तं साल्वनिर्मित-मायायाऽनवगमो भगवतोऽवगम्यते । न चैतज्ज्ञानमूर्तौ सम्भवतीत्यतो मानेनैव तदवमानयन् तत्प्रसक्तं चान्यदपि दर्शयन्विष्णुर्न तथा मन्तव्य इत्यधिकमंशमवश्यवक्तव्यं वक्ति– जानन्निति । साल्वकृतां वसुदेवशिरःकर्तनं तत्प्रदर्शनं चेत्येतद्रूपां मायामैन्द्रजालिकीं जानन् किञ्चित्सार्धघटिका-द्वयात्मकं कालम् । मुहूर्तशब्दः क्षणमात्रपरः । मुहूर्तमष्टभागे स्याद्धटिका द्वितीयेऽपि चेति बृहदारण्यकभाष्ये, तथा महाभारततात्पर्यनिर्णये चेताः क्रीडया क्षणमहं समर इत्युक्तेश्च ज्ञेयः । केशवो ब्रह्मरुद्रप्रवर्तको ब्रह्मलक्ष्मीप्रवर्तको वाऽजानन्निवान्ववर्ततानुससार । तत एवं प्रदर्शनानन्तरं तां मायामहरत् । एतदसम्भावनामुन्मूलयति– विभुरिति । सर्वत्र न केवलमेतद्रूप एव किन्तु मत्स्यादिसर्वरूपेषु । सनातनः पुराणपुरुषो वेदनादसहितो वा परमात्मा । एवमेवाविद्धादिरप्यज्ञवद् विद्धादिवद्दर्शयतीति दर्शयति । विद्धः । चोऽप्यर्थे । तुशब्दो रूपसर्वसाम्यरूपविशेषसूचकः । विद्धः शस्त्रादिना । रुधिरं स्रावयतीति स तथा । कथञ्चिद्वञ्चनादिना परमजयज्जितवान् । इत्यादि । मायया स्वेच्छया जगदसन् मोहयन्विष्णुर्दर्शयेत् । अनेन मोहनमेतत्फलं परमफलं तम इति सूचितं भवति । किन्न कथ्यते वास्तवमिदमितीत्यत आह– चिदानन्देति । चिदानन्द-घनस्यास्य श्रीकृष्णस्य कुतो वेधादि स्यात् । अनेन बिभेद न्यपतद्धस्तात् । प्राहार्दितो बाणगणैरिति विवृततात्पर्यकमिति चानुसन्धेयम् ।

तात्पर्यम्

यदचरस्तन्वा वावृधानो बलानीन्द्र प्रब्रुवाणो जनेषु । मायेत्साते यानि युद्धान्याहुर्नाद्य शत्रंु ननु पुरा विवित्से ॥ इत्याद्यबाधश्रुतिः ॥ ३८ ॥

ब्रह्माण्डपुराणं नाविश्वसनीयमिति श्रुतिमूलमालपति– यदचर इति । महेन्द्रो यानि युद्धानि रणानि एवमादियुतानि । आहुः । शत्रुं शत्रुवद्विद्यमानां मायां पुरा मुहूर्तपर्यन्तं न विवित्से त्वं न जानासि । विद ज्ञानेऽस्मात्थासः से आदेश इडागमाभावात्मनेपदत्वे च छान्दसे । यद्वा लाभार्थत्वाद्धातूनामनेकार्थताया विन्दतेर्ज्ञानार्थत्वे भाष्यमतेन क्रियादिनियमादिडभावमात्रमार्षं व्याघ्रभूत्यादिमतेऽप्यनिट्कारिकायामगणनात्तन्मात्रं तथेति ज्ञेयम् । अवगतोऽसि । ओदानीं पश्चाद्विवित्से । न तु जनेषु । जनैर्यदचरः । चर गतिभक्षणयोरिति स्मृतेर्गत्यर्थानां चावगत्यर्थ-त्वात् । सा तेऽज्ञत्वावगतिर्माया इन् मायैव । तन्मायात्वे हेतुमाह वेदपुरुषः– बलानीति । यतो भो हरे तेऽज्ञानाद्यनाकलने सामर्थ्यविशेषान्ब्रुवाणो विचित्रशक्तिः पुरुषः पुराण इत्यादि-वेदोऽस्ति । किञ्च तन्वा स्वमूर्त्यैव वावृधानोऽत्यभिवृद्धः । इदमपि सर्वत्र ततस्य न तत्तदमत्यादिः सम्भवतीत्यज्ञानाभावनिदानम् । आदिपदेन परो मात्रया तन्वा वृधान इत्याद्या च सङ्गृहीतेति ज्ञेयम् । नन्वष्टमाष्टकप्रथमाध्यायपञ्चदशवर्गीयां तां सुते कीर्तिमित्यारभ्यावर्गावसानं नैन्द्रत्वस्योक्तेः कथमियमाचार्यैरनुदाहार्योदाहृतेति । किञ्चाचार्यैरेव तां सुते कीर्तिं मघवन्महित्वेत्यादिसूक्तानि च तत्प्रमाणमिति महाभारततात्पर्यनिर्णये चरमेऽध्याये वायुमाहात्म्यावेदकतया च व्याकरणादत्रैवं कथं व्याकरणमिति चेन्न । किमपूर्वमप्राक्षः प्रेक्षावान् । सर्वे वेदा यत्पदमामनन्तीत्यादे-रिन्द्रादिसर्वपराणां भगवत्परत्वस्य यथा विचिकित्सनीयता तथेन्द्रोत्तमस्य वायोः प्रतिपाद्यत्वस्याथवा पूर्वेन्द्रोऽसावित्यादिना वायोरिन्द्रत्वस्याप्युक्तेस्तद्विवक्षया वा तत्परत्वोक्तेः सम्भवात्काऽत्रकथन्ता । द्वितीयाष्टकद्वितीयाध्यायषष्ठवर्गस्था भूषन्नयोधि बभ्रूषु नम्नत इत्यादिका तथाष्टमवर्गगा बत्थिे-त्यादिकाश्च ऋचश्चाग्निदेवताः श्रूयन्ते । तासामपि श्रीमद्भिः पठितानां निर्णये गतिरियमेव ज्ञेयम् ॥

तथा चायं श्लोकार्थः ॥ वसुदेवशिरोऽवलोक्य वासुदेवः किमकृतेत्यत आह– तत इति । ततस्तदवलोकनतः । प्रकृतौ स्वभावे । उपस्थितः सदा सन्नपि । प्रकृतौ तद्विषये उपत्वेनाधिकत्वेन स्थितोऽपीति वा । प्रकृतावुपस्थितस्तद्बद्ध इव । तत्र रणाङ्गणे । मुहूर्ता-न्मुहूर्तात्मकं कालमतति गच्छतीति आतयतीति वा स तथा सन् । अनुतिष्ठदन्वतिष्ठद् अन्ववर्तत । मुहूर्तात्तदात्मकं कालं वा । जनेषु प्रब्रुवाण इत्यंशशंसितार्थकं पदं स्वजनानुसङ्गत इति । स्वजनैरनुसङ्गतः । न केवलं स्वयमेव मायेयमिति व्यज्ञासीत् किन्तु तथा ज्ञातारो भक्ता अपि सन्ति तत्सङ्गत इत्यर्थः । एवं नटनप्रकटनेन किं फलमित्यतो वाऽऽह । स्वजना इत्यनुयोगः सम्बन्धस्तस्मात् । लोके लोकैरेवं मोहो शक्यत्याग इति सूचयितुमिति भावः । स्वस्य कथङ्कारं संविदित्यतोऽप्याह । स्वजनः स्वस्य जनो जननं यस्मात्स वसुदेवस्तेनानुगतः स च वर्तत इति ज्ञानवान्वा तदनुगतो वा महानुभावः । प्रकृतौ तन्मायाछेदने विषये । उपस्थितस्तथे-च्छावानभूद्यदा तदा मयोदितां मयोत्पादिताम् । अन्येन वचने वञ्चनं सम्भवतीत्यतोऽप्याह– मयोदितामिति । मयेनैवोपदिष्टां साल्वप्रकृतां तत्प्रदर्शितामासुरीं मायां साल्वोऽपि मायावीति तदुपोद्बलिता काचित्तदीयाऽप्येतन्मिलितेत्यासुरीमिति वा । मय एव कांश्चिद्दैवीं कांश्चिच्चासुरीं कृतवान्मायाम् । तन्मध्य इयमासुरीति तामिति वा सूचयितुमियमुक्तिः । तामबुद्ध्यत ज्ञातवान् । यदाऽबुद्ध्यत तदा प्रकृतावुक्तरूप उपस्थित इति वा योजना । ततस्तामहरत् । विभुरित्युक्ते-र्महानुभाव इति विभुपदार्थप्रदर्शनमिति ज्ञेयम् । अनुतिष्ठन्स्वजनेति पाठोऽपि स्फुटार्थः । पूर्वपाठेऽनुतिष्ठत्स्वजनानुसङ्गत इति पदमेकं वा । अनुतिष्ठन्तः स्वजना मुक्ता अमुक्ता ब्रह्मादयो वा तैरनुसङ्गतः ॥ ३८ ॥

न तत्र दैत्यं न पितुः कलेवरं प्रबुद्ध आत्मा तदपश्यदच्युतः ।

स्वप्ने यथा चाम्बरचारिणं रिपुं सौभस्थमालोक्य निहन्तुमुद्यतः ॥ ३९ ॥

पदरत्नावली

एतदेव स्पष्ट्यति– नेति ॥ अच्युतो ज्ञानच्युतिरहितस् तत् कलेवरं च नापश्यत् । प्रबुद्धः, मायामिति शेषः । आत्मा परमात्मा । निदर्शयति– स्वप्न इति ॥ यथा स्वप्ने करितुरगादीन् पश्यति ततः प्रबुद्धस्तान् पदार्थान् न पश्यति । बुद्ध्वा किं कृतम्? अत्राह– अम्बरचारिणमिति ॥ ३९ ॥

दुर्घटभावदीपिका

यथा स्वप्नात्प्रबुद्धपुरुषः स्वप्ने दृष्टान्यपदार्थान्न पश्यति तथाऽऽ-त्माऽच्युतः कृष्णः साल्वमायाहरणानन्तरं तत्र तस्मिन् स्थले दैत्यं दैत्यसाल्वकल्पितं पितुर्वसुदेवस्य तत्कलेवरं वियुक्तकलेवरं नापश्यदिति प्रदर्शयामास । अनन्तरमम्बरचारिणं सौभस्थं रिपुं साल्वमालोक्य निहन्तुमुद्यतश्चाभूदिति । एतेन खस्थं सौभं समाविशदिति पूर्वमुक्तत्वाद् अम्बरचारिणं सौभस्थं रिपुमालोक्येति वक्ष्यमाणत्वाच्च मायास्थले दैत्यसाल्व-प्रदर्शनप्रसक्तेरेवाभावान्मायास्थले दैत्यं नापश्यदिति कथनमयुक्तमिति शङ्काऽनवकाशः । दैत्य-मित्यस्य दैत्यसाल्वमित्यर्थ इत्यनङ्गीकारात् । एतेनैव मायाहरणात्पूर्वमपि साल्वकल्पितवसुदेव-कलेवरदर्शनाभावान्मायाहरणानन्तरं साल्वकल्पितवसुदेवकलेवरं नापश्यदिति वचनमनुपपन्नमिति दूषणं निरस्तम् । इति प्रदर्शयामासेत्यस्य शेषेण मायाहरणानन्तरं वसुदेवकलेवरं नापश्यदिति प्रदर्शयामासेत्यर्थस्योक्तत्वात् ॥ ३९ ॥

सत्यधर्मीया

प्रबोधप्रदर्शनानन्तरं का कथा प्रवृत्तेत्यतस्तां वक्ति– नेति । तत्र दैत्यं साल्वं नापश्यत् । पितुर्वसुदेवस्य कलेवरम् । आत्मा सर्वान्तर्यामी प्रबुद्धस्तद्वद्दर्शयित्वाऽच्युतः परपरिदर्शितमायाच्युतिप्रच्युतेः किञ्चित्साम्येन निदर्शनं दर्शयति– स्वप्ने यथेति । समदर्शनं स्वापि्नकानां मायिकानां च । परन्तु ते यथार्था एतेऽयथार्था इति विशेषो ज्ञेयः । अम्बर-चारिणमिति विशेष्ये न सरसान्वयि सत्सौभपदेन सशोभान्वयम् । अम्बरचारिसौभस्थं रिपुमालोक्य निहन्तुमुद्यतोऽभूदिति शेषः । पूर्वं तदेधनायैवायोधनेनोद्यमं चकार हरिरिति स एवं चकारेति ध्वन्यतेऽनेन । न तत्रेति परीक्षित्सम्बोधनपक्षे दैत्यं पितुः कलेवरं च नापश्यदिति युगपदन्वयेन वा नञ आवृत्त्याऽन्वयेन वाऽर्थो बोध्यः । न तांस्त्रायत इति न तत्रस्तत्सम्बोधनम् ॥३९॥

एवं वदन्ति राजर्षे ऋषयः खेचरान्विताः ।

यत् स्ववाचो विरुद्ध्यन्ते तन्नूनं ते स्मरन्ति नु ॥ ४० ॥

पदरत्नावली

तद्द्रष्टॄणामृष्यादीनामपि ज्ञानलोपो नास्ति किं पुनर्हरेरिति भावेनाह– एवमिति ॥ कथं वदन्तीत्यत्राह– यत् स्ववाच इति ॥ स्वस्य स्वतन्त्रस्य हरेर्वाचो वेदलक्षणा यन्मोहादिकं हरिविषयं प्रति विरुध्यन्ते विरोधवन्त्यो भवन्ति, हरेर्मोहादिकं न सहन्त इत्यर्थः, ‘अजस्यावक्रचेतसः’ इति श्रुतेः । नूनं तार्किका उपक्रमादिवेदतात्पर्यलिङ्गकोविदास्ते वैदिकास्त-न्मोहादिकं स्मरन्ति नु किम्? नैव स्मरन्तीत्यर्थः । येषां स्ववाचो विरुध्यन्ते हरेर्मोहादिवादिन्यः परस्परविरोधिन्यः स्युः, ते शास्त्रप्रणेतारस् तादृशीर्वाचः स्मरन्ति नु पुराणादौ? नैवेति वा

॥ ४० ॥

सत्यधर्मीया

श्लोकद्वयस्य तात्पर्यं स्वजनानुसङ्गत इत्युक्तस्वजनजल्पनानुवादमिषेण ग्रन्थकृदाहेत्याह– एवमिति । खेचरैर्देवैरन्विता युक्ता ऋषय एवं वदन्ति । तद्वचनं कुतः प्रमाणमित्यतस्त एतादृशास्तद्वचनं चैवमिति तान्विवेचयति– यदिति । यन्मोहादिकथनं प्रति, स्ववाचः स्वतन्त्रवाचो वेदा अपौरुषेयत्वाद्विरुद्ध्यन्ते न वस्तुतस्तदिति बाधन्ते तन्मोहादिकं ते ऋषयः खेचराश्च नूनं स्मरन्ति नु किन्तन्न स्मरन्तीति । एवं वदति यन्निर्मोहादिकं प्रति तेऽविरुद्ध्यन्ते तन् नु नुम इति स्मरन्तीत्यावृत्त्याऽन्वयोऽपि । नु नुमो लोप इत्याद्यृग्भाष्यमुदाहृत्य प्राग्विवृतमनुसन्धेयम् ॥ ४० ॥

क्व शोकमोहौ स्नेहो वा भयं वा येऽज्ञसंभवाः ।

क्व चाखण्डितविज्ञानज्ञानैश्वर्येश्वरोऽजितः ॥ ४१ ॥

पदरत्नावली

प्रत्युत विपरीतमेव वदन्तीत्याह– क्वेति ॥ ये शोकादयोऽज्ञानतः सम्भवो येषां ते तथा ॥ ४१ ॥

सत्यधर्मीया

द्वाभ्यां श्लोकाभ्यां पुनर्वदति– क्वेति । भयं शोकमोहौ स्नेहो वा । कीदृशा इत्यत आह– य इति । अज्ञसम्भवा अज्ञेेषु सम्भवाः सम्भावयितुं योग्याः क्व । अखण्डितं ज्ञानं विज्ञानं चैश्वर्यं चेत्येतानि यस्य स चासावीश्वरो रमारमणोऽजितः क्व । अत्यन्तविरोधादिति भावः ॥ ४१ ॥

यत्पादसेवार्जितयाऽऽत्मविद्यया हिन्वन्त्यनाद्यात्मविपर्ययग्रहम् ।

लभन्त आत्मीयमनन्तमैश्वरं कुतो नु मोहः परमस्य सद्गतेः ॥ ४२ ॥

पदरत्नावली

तदेव दृढयति– यत्पादेति ॥ आत्मविद्यया परमात्मज्ञानेन अनादि-कालेनात्मविपर्ययग्रहं मनसि स्थितमन्यथाज्ञानं हिन्वन्ति नाशयन्ति । न तावदेव किन्तु हरितत्वं च जानन्तीत्याह– लभन्त इति ॥ आत्मीयम् आत्मनः परमात्मनो विद्यमानं तमैश्वरमीश्वरत्वं लभन्ते जानन्ति । यद्वा स्वयोग्यमैश्वरम् ईश्वरानुगृहीतमनन्तं मोक्षं लभन्ते प्राप्नुवन्ति ॥४२॥

सत्यधर्मीया

यस्य पादयोः सेवयोपसत्त्याऽऽर्जिता सम्पादिता तयाऽऽत्मविद्यया ययाऽऽत्मविद्भवति वाऽऽत्मा स्वामीति विद्या तया । अनादिर्य आत्मनो मनसस्तत्सम्बन्धी यो विपर्ययग्रहोऽन्यथामतिस्तं हिन्वन्ति गमयन्ति नाशयन्तीति यावत् । किञ्च फलान्तरमपि प्राप्तवन्त इत्याह– लभन्त इति । आत्मीयं स्वयोग्यं लभ्यमनन्तमक्षयम् । नन्वात्मीयावाप्तौ कुत इतरापेक्षेत्यत आह– ऐश्वरमिति । तदनुग्रहत आगच्छदित्यैश्वरं सुखं मोक्षगं लभन्ते । ईश्वरत्वं स्वावरवरत्वं लभन्त इति वा । तस्य परमस्य सद्गतेः सत्प्राप्यस्य समीचीनज्ञानस्य वा मोहः कुतः । निर्हेतुक इत्यर्थः । प्रदर्शनं कुत इत्यतोऽप्याह– कुत इति । भूनिमित्तं देवत्वे देववच्चेष्टा मानुषत्वे तु मानुषीति । तथा नरवत्प्रवृत्तिरित्यादेः । धरिण्यामवतरणादेवं करण-मिति भावः । ननु ग्रन्थकृदेवं निर्णयं करिष्यति कुत आचार्यैर् अचारि अत्र पूर्वत्र जानन्साल्वकृतामित्यादिना इत्यारभ्य श्रुतिरित्यन्तेन ग्रन्थेन तात्पर्यवर्णनमिति चेत् । सत्यम् । लब्धवर्णोऽसि । एवं वदन्तीति शुकमुखतो वदन्व्यासः परोदीरितमेवावदत् । न किञ्चित्स्वमत-मूचे । तक्तिं रूपं वेति कश्चिद्विपश्चिच्छङ्केतातस्तद्वचनमस्माभिरुक्तं चेत्तत्संशयव्यंसनं भवतीति ब्रह्माण्डपुराणोक्तिः । तस्यास्य च मूलत्वेन श्रुत्युदाहरणं च मुदावहमिति सम्भवात् । तत्राप्यन्यत्र स्वप्रतिपादकत्वेनोदाहृतामेव ऋचमुदाहरन्नानन्दतीर्थोऽहममुख्यः प्रतिपाद्यस् तस्यापि हरिरेव मुख्योऽर्थ इति स्वनैष्कृष्ट्यप्रतिपादने विश्वविश्वसनीयता स्यादिति सूचयामासेत्यव-सेयम् । यदैतेषां न मोहः क्व स भगवत इति भावः । सम्मोहो मोहो मा न विद्यते ऊहाऽपि यस्य स इत्यूहागोचर इत्यर्थोऽपि ज्ञेयः ॥ ४२ ॥

इति तैरुदितां वाणीमाकर्ण्य कमलेक्षणः ।

ससौभं हन्तुमारेभे साल्वं कुरुकुलोद्वह ॥ ४३ ॥

सत्यधर्मीया

तैरागतैस्तैः स्वजनैरुदितां वाणीमाकर्ण्य श्रुत्वा कमलेक्षणः कमले जले ईक्षणमत्रैव पातयितव्यं पुरमित्यवलोकनं यस्य सः । यद्वक्ष्यति ततः समुद्रे न्यपतत्पुरमिति । सर्वावयवानामभेदादेवमुक्तिर्वा । स सौभं साल्वं हन्तुमारेभ आरब्धवान् आलुलोचेति यावत् ॥ ४३ ॥

ततो निशातमादाय चक्रं कृष्णः सुदर्शनम् ।

आग्नेयास्त्रेणाभिमन्त्र्य प्राहिणोत् सौभनाशनम् ॥ ४४ ॥

सत्यधर्मीया

सुदर्शनं सतां शुभदर्शनम् । निशातं चक्रमाग्नेयास्त्रेणाभिमन्त्र्य सौभ-नाशनमुद्दिश्य प्राहिणोत् । सौभेत्यादि चक्रविशेषणं वा । अग्निकलिभ्यामिति ढक् । ननु तदर्कशतसङ्काशमित्यत्र वक्ष्यमाणत्वात्तथाऽन्यत्रापि सुदर्शनमहाज्वालकोटिसूर्यसमप्रभेत्याद्युक्तेः स्वतस्तेजःपुञ्जस्य सुदर्शनस्य किमाग्नेयास्त्राभिमन्त्रणमिदमिति चेत् । सत्यम् । चक्रस्य कामोऽभिमानी । स च रुद्रपूर्वद्वेषीति तद्वरदृप्तं साल्वं तद्विमानं चैकदैव नाशयेन्न तेन तद्बललक्ष्यता । ततश्च न मम यशोविशेषः स्यादिति ।

किञ्च खाण्डववनदहनकालेऽर्जुनत्राता मयोऽसुरतक्षाऽस्वमुखपातं यात इति किञ्चिद्दुर्मनस्कमग्निं तन्निर्मितविमानदाहनेन सान्त्वयन्निवाथवा मम पुत्रस्त्रिनेत्र त्वया मदुपेक्षयैव क्षयं नीतो न तु तव शक्येव ममाशक्येति सर्वगर्वं भजेति देवावमतो वामदेवमानभङ्गाय तद्वरवित्तद्वितरणलब्धविमान-भङ्गेन वा मत्पुत्राघातकप्रसादसादितमग्नेराप इत्याद्युक्तत्वादप्यानिघ्नं कुर्विति वा सुदर्शनस्यानावरणे विश्वक्षयः स्यात्स न भवतीति तत्तेजोऽनुत्तेजनाय जनार्दनमिदमपदेशेनावरणमेतन्मात्रपर्याप्त्यै ततानेति वा तदिति ज्ञेयम् । ननु कङ्कशिशुपालादौ तन्मात्रपर्याप्तिस्तस्य च न जगद्भर्जनमिति चेन्न । तथैव सङ्कल्पनेन तत्त्यागसम्भवात् । अत्र त्वाग्नेयास्त्रेत्युक्तेरेतद्गमकत्वादिति दिक् । वनपर्वणि । आग्नेयमस्त्रं दयितं सर्वसाहं महाप्रभम् । योजयंस्तत्र धनुषेति भाषणं करपातायातापप्रथाप्रमथनाय तद्द्वाराऽभिमन्त्रणं चक्रे चक्र इत्यर्थकं ज्ञेयम् । अत एवाचार्या अरीन्द्रविभिन्नबन्धनमित्येव बबन्धुस्तुच्छत्वादाग्नेयाभिमन्त्रणं नोचुरिति ज्ञेयम् ॥ ४४ ॥

तन्नारायणहस्ताग्य्रान्मुक्तमाग्नेयमन्त्रितम् ।

जज्वालाब्रह्मसदनं ज्वालामालातिभीषणम् ॥ ४५ ॥

पदरत्नावली

आब्रह्मसदनं ब्रह्मलोकपर्यन्तम् ॥ ४५ ॥

सत्यधर्मीया

आब्रह्मसदनं सत्यलोकपर्यन्तम् । ज्वालामालाभिरतिभीषणं भयङ्करम् । भीषणां ज्वालामालामत्यादत्ते । अन्तरङ्गत्वेन भाष्यकृदिष्टेः । अनेन संहार्यासंहार्य-विवक्षयाऽऽदानानादाने सूच्येते ॥ ४५ ॥

ततो वैमानिकाः सर्वे ते विहाय विहायसम् ।

सुदर्शनोष्मणा तप्ता दुद्रुवुः सर्वतो दिशम् ॥ ४६ ॥

सत्यधर्मीया

वैमानिका देवा विहायसं नाकं विहाय । तत्र तन्त्रं सुदर्शनोष्मणा तप्ता इति । पराङ्मुखानां द्रवतां भीतिरिति द्योत्यते ॥ ४६ ॥

तदर्कशतसङ्काशं सौभं भित्त्वा द्विधा पुरम् ।

भूयो नारायणकरं प्राप भूप सुदर्शनम् ॥ ४७ ॥

पदरत्नावली

सौभं नाम पुरम् ॥ ४७ ॥

सत्यधर्मीया

पुरं सौभम् । तदर्कशतसङ्काशमित्यत्र शतशब्दो बहुत्ववचनः ॥ ४७ ॥

ततः समुद्रे न्यपतत् पुरं विच्छिन्नबन्धनम् ।

गदापाणिर्दुराधर्षः साल्वोऽपि प्रत्यदृश्यत ।

तां प्रेषयामास गदां कृष्णमुद्दिश्य दुर्मतिः ॥ ४८ ॥

सत्यधर्मीया

तां गदाम् । दुर्मतिर्गदाग्रजे गदा किमाधायिनीति मतिरहितः ॥४८॥

ततो रथं दैत्यबलोपनीतं संस्थाय साल्वो बहुशस्त्रसञ्चयम् ।

अवाकिरत् कृष्णाशिरस्यनन्तैर्महायुधैश्च व्यननद् हरिर्यथा ॥ ४९ ॥

पदरत्नावली

अनन्तैरनेकसङ्ख्यैः । हरिः सिंहः ॥ ४९ ॥

सत्यधर्मीया

दैत्यबलोपनीतं स्वकीयसेनानीतम् । अनन्तैर्बहुभिरप्रतिबद्धैर्वा । हरिः सिंहः ॥ ४९ ॥

तां गदां प्रेषितां तेन छित्त्वा बाणैस्त्रिधा हरिः ।

पाञ्चजन्यमुपाध्माय सिंहनादं व्यनीनदत् ॥ ५० ॥

सत्यधर्मीया

सिंहनादं साल्वकृतं प्रति स्वयं व्यनीनदत् । स्वार्थे णिच् । ननाद

॥ ५० ॥

तं शस्त्रपूगैः प्रहरन्तमोजसा साल्वं शरैः शौरिरमोघविक्रमः ।

विद्ध्वाऽच्छिनद् वर्म धनुः शिरोमणिं रथं च शत्रोर्गदया रुरोज ह ॥ ५१ ॥

तत्कृष्णहस्तेरितया विचूर्णितं पपात तोये गदया सहस्रधा ।

विसृज्य तं भूतलमास्थितो गदामुद्यम्य साल्वोऽच्युतमभ्यगाद् द्रुतम् ॥५२॥

पदरत्नावली

शिरोमणिं किरीटम् । रुरोज बिभेद । ह प्रसिद्धम् । ‘शतं सहस्रमयुतं नियुतं प्रयुतार्बुदे । न्यर्बृदं शङ्खवृन्दे च निखर्वं खर्वमर्बुदम्’ इति यादवः ॥ ५१ ॥

दुर्घटभावदीपिका

अमोघविक्रमः शौरिः कृष्ण ओजसा स्वनिष्ठयावत्सामर्थ्येन । शस्त्रपूगैः प्रहरन्तं साल्वं शरैर्विद्ध्वा शरैः शत्रोः साल्वस्य वर्म धनुःशिरोमणिं चाच्छिनद्रथं च गदया रुरोजेत्येतद्धि प्रमाणप्रसिद्धम् । शरैर्विचूर्णितमुद्यम्याच्युतं कृष्णं प्रति द्रुतमभ्यगादिति । एतेन शरैः संच्छिन्नं तद्वर्मादिकं पपातेति वक्तव्यम् । पूर्वश्लोके शरैर्वर्म धनुःशिरोमणिं चाच्छिन-दित्युक्तत्वाद् गदया विचूर्णितं तद्वर्मादिकं पपातेति कथनमयुक्तमिति चोद्यं परास्तम् । शरै-रित्यस्य शेषं विचूर्णितं तमित्यस्य छिन्नमित्यर्थं चाङ्गीकत्य शरैश्छिन्नं तद्वर्मादिकं पपातेत्यर्थ-स्योक्तत्वाद् एतेनैव गदया विचूर्णितो रथ इति वक्तव्यं, विचूर्णितमिति नपुंसकलिङ्गप्रयोगोऽनु-पपन्न इति दूषणमपास्तम् । विचूर्णितमित्येतदर्थवशाद्विचूर्णित इति विपरिणम्यत इति स्वीकृत्य गदया विचूर्णितो रथ इत्यर्थस्योक्तत्वात् ॥ ५१,५२ ॥

॥ इति श्रीभागवतटिप्पण्याम् अष्ठाशीतितमोऽध्यायः ॥ १०–८८ ॥

सत्यधर्मीया

वर्म कवचं शिरोमणिं किरीटं बभञ्ज । मुकुटत्रोटनेन किञ्चिदायु-रधुनाऽपि वर्तत इत्यसूचि । तन्मध्येऽब्धिमध्ये न कस्यचित्पात इति बोधयितुं सामन्ये नपुंसकमित्युक्तेस्तदित्युक्तम् । वर्मादिरथान्तचतुष्टयम् । तत्र गदया रथः, शरोघैर्वर्मादित्रितयं चेति मर्म ज्ञेयम् । रथे कश्चन भागोऽप्यवशिष्ट इति वा द्योतयितुं तदुक्तिः । अथवाऽव्ययं तदिति विचूर्णितं तं विसृज्येत्यन्वयोऽत्र ज्ञेयः । स चासौ कृष्णश्च तद्धस्तेरितया गदया सहस्रधा सद्यः पपात तोये तं विचूर्णितं विसृज्येत्यन्वयो वा ॥ ५१,५२ ॥

आधावतो भीमगदस्य बाहुं भल्लेन छित्त्वाऽथ रथाङ्गमद्भुतम् ।

वधाय साल्वस्य लयार्कसन्निभं बिभ्रद् बभौ सार्क इवोदयाचलः ॥ ५३ ॥

सत्यधर्मीया

भल्लेन छित्वेत्यत्र छे चेति तुगभावेन लाघवेन हस्तलाघवं सूचितवानिति ज्ञेयम् । लयार्काः प्रलयकालिकार्कास्तत्सन्निभं शोभाम् । अभूतोपमेयमतिशयाशया ज्ञेयम् । रथाङ्गं चक्रं बिभ्रद्धरिः सार्कोऽर्कं बिभ्रदुदयाचल इव बभौ । अनेनोदयपर्वतः स्वयं श्यामवर्ण इति ध्वन्यते । तमालद्रुमावलीसमवेतत्वादत्युच्चतया नीरदयुतत्वाद्वा नीलताऽचलस्येति वा ॥५३॥

जहार तेनैव शिरः सकुण्डलं किरीटयुक्तं पुरुमायिनो हरिः ।

वज्रेण वृत्रस्य यथा पुरन्दरो बभूव हाहेति वचस्तदा नृणाम् ॥ ५४ ॥

पदरत्नावली

पुरुमायिनोऽनेकशतमायावतः ॥ ५४ ॥

सत्यधर्मीया

तेनैव चक्रेणैव किरीटयुक्तं प्रच्छन्नादन्यत्किरीटं तद्युक्तं सकुण्डलं शिरो जहार । तदा नृणां देवानां तथाऽनृणां रक्षआदीनां हाहेति मोदे खेदेऽपि प्रायिकः शब्दः । अत एवाभाणकं हाहेति हसतीति । नृपत्नीसभाराजामनुष्यपूर्वेत्यत्रेव नृशब्दः सुखवाची चेदनृशब्दस्यासुखवाचकत्वं विनोपपादनायासं लभ्यत इति वा । उदाहृतं च प्राङ्नृशब्दस्य ऋग्भाष्याद्युदाहरणेनानुस्मर्तर्व्यम् ॥ ५४ ॥

तस्मिन् निपतिते पापे सौभे चाब्धौ निपातिते ।

देवदुन्दुभयो नेदुर्ववृर्षुः१ पुष्पवृष्टयः ॥ ५५ ॥

सत्यधर्मीया

पुष्पवृष्टयो ववृषुः । वृषिः सेचनार्थः पतिता इति यावत् । ववर्षुरिति पाठे वर्षस्नेहनमोचनयोरिति स्मृतस्य वर्षधातो रूपम् । एवं स्वपातेन स्नेहविशेषं चक्रुरि-वेत्यर्थः ॥ ५५ ॥

स्तूयमानो मुनिगणैः सूतमागधवन्दिभिः ।

आजगाम वृतः सैन्यैः पुरीं द्वारावतीं हरिः ॥ ५६ ॥

सत्यधर्मीया

सैन्यैः सेनासमवेतैः ॥ ५६ ॥

सम्प्रविश्य पुरीं रम्यां पताकाखण्डमण्डिताम् ।

अलङ्कृतामलङ्कारैः सिक्तसम्मृष्टचत्वराम् ॥ ५७ ॥

सत्यधर्मीया

पताकाभिरखण्डं यत्र यत्र स्थाप्यास्तत्र तत्रेति सर्वत्र मण्डिता-मलङ्कृताम् ॥ ५७ ॥

पूजितो यदुभिर्वृद्धैः पौरजानपदैस्तथा ।

रमयन् व्द्यष्टसाहस्रमहिषीः प्रेमविह्वलाः ।

उवास देवकीपुत्रः सानन्दं कुरुनन्दन ॥ ५८ ॥

॥ इति श्रीमद्भागवते दशमस्कन्धे अष्टाशीतितमोऽध्यायः ॥

पदरत्नावली

सानन्दम् आनन्दसहितमित्यर्थे विषयानन्दो, न स्वरूपानन्द इत्यर्थः स्यात् । सोऽनुपपन्नः । ‘विज्ञानमानन्दं ब्रह्म’ इति श्रुतेः ॥ ५८ ॥

॥ इति श्रीमद्भागवतटीकायां विजयध्वजतीर्थकृतायां पदरत्नावल्यां

दशमस्कन्धे उत्तरार्धे अष्टाशीतितमोऽध्यायः (स.धर्म.१०–८८) ॥

सत्यधर्मीया

प्रेमविह्वला द्व्यष्टसाहस्रमहिषी रमयन् । सानन्दमानन्दसहितं यथा तथा पूजित उवास ॥ ५८ ॥

॥ इति श्रीसत्यधर्मयतिकृतायां भगवतटिप्पण्यां दशमस्कन्ध उत्तरार्धेे अष्टाशीतितमोऽध्यायः ॥ १०–८८ ॥