१३ सप्ताशीतितमोऽध्यायः

तथा वसति गोविन्दे शक्रप्रस्थे महात्मनि

॥ अथ सप्ताशीतितमोऽध्यायः ॥

श्रीशुक उवाच—

तथा वसति गोविन्दे शक्रप्रस्थे महात्मनि ।

महानुजे चैव नृपे कृतकृत्ये युधिष्ठिरे ॥ १ ॥

पदरत्नावली

तथा महोत्सवसमेतत्वेन ॥ १ ॥

सत्यधर्मीया

कृतकृत्ये अनुष्ठितेष्टौ ॥ १ ॥

आकर्ण्य साल्वः सङ्क्रुद्धो दमघोषसुतं हतम् ।

जरासन्धं च सुहृदं राजसूयं क्रतुं कृतम् ॥ २ ॥

ययौ द्वारावतीं साल्वो वैरं वृष्णिकृतं स्मरन् ।

समावसन्नन्तरिक्षे युयुधे भरतर्षभ ॥ ३ ॥

पदरत्नावली

साल्वः सङ्क्रुद्धः, अभूदिति शेषः । आगत्य चान्तरिक्षे तं विमानमावसन् तस्मिन् विमाने स्थितो युयुध इत्यन्वयः ॥ २,३ ॥

सत्यधर्मीया

दमघोषसुतं शिशुपालं जरासन्धं च सुहृदं हतमित्यन्वयः । आकर्ण्य साल्वः सङ्क्रुद्धः सन् द्वारावतीं ययौ । वृष्णिकृतवैरं स्मरन्साल्वोऽन्तरिक्षे समावसन् युयुधे

॥ २,३ ॥

पुरीं बभञ्जोपवनान्युद्यानानि च सर्वशः ।

सगोपुराणि द्वाराणि प्राकाराट्टालतोलिकाः ॥ ४ ॥

पदरत्नावली

सम्प्रहारप्रकारमाह– पुरीमिति ॥ अट्टालोऽट्टः । तोलिका वीथिकागृह-पङ्क्तिमध्यपद्धतिरित्यर्थः ॥ ४ ॥

सत्यधर्मीया

उपवनानि तथोद्यानानि तोलिकाः प्रतोलिका बभञ्ज ॥ ४ ॥

विहायसो विमानाग्य्रान्निपेतुः शस्त्रवृष्टयः ।

शैला द्रुमाश्चाशनयः सर्पा आसारशर्कराः ।

प्रचण्डश्चक्रवातोऽभूद् रजसाच्छादिता दिशः ॥ ५ ॥

पदरत्नावली

विहायस आकाशादासारो वेगवान् वर्षस्तत्सहिताः शर्करा क्षुद्रपाषाणाः । चक्रवातो मण्डलवायुः ॥ ५ ॥

सत्यधर्मीया

विहायस आकाशाद्विमानाग््रयाच्छस्त्रवृष्टयो निपेतुः । आसारो धारा-सम्पातः शर्कराः क्षुद्रपाषाणाः । यदानीतेन रजसा दिश आच्छादिताः । प्रचण्डश् चक्रवातो मण्डलानिलोऽभूत् ॥ ५ ॥

इत्यर्द्यमाना सौभेन कृष्णस्य नगरी भृशम् ।

नाभ्यपद्यत शं राजन् त्रिपुरेण यथा मही ॥ ६ ॥

पदरत्नावली

शं सुखम् ॥ ६ ॥

सत्यधर्मीया

इत्येवं नगरी द्वारावत्यर्द्यमाना शं नाभ्यपद्यत तदन्तर्गतो लोकः शं नाभ्यपद्यतेत्यर्थः । त्रिपुरेणेत्येकवचनेन कदाचित्त्रयाणामप्येकीभावविवक्षया । मही तत्स्था जनाः ॥ ६ ॥

प्रद्युम्नो भगवान् वीक्ष्य मथ्यमाना निजाः प्रजाः ।

मा भैष्टेत्यभ्यधाद् धीरो१ वाचः पित्रोरनुस्मरन् ॥ ७ ॥

सत्यधर्मीया

पित्रो रामकृष्णयोः ॥ ७ ॥

सात्यकिश्चारुदेष्णश्च साम्बोऽक्रूरः सहानुजैः ।

हार्दिक्यो भानुविन्दश्च गदश्च शुकसारणौ ॥ ८ ॥

सत्यधर्मीया

हार्दिक्यः कृतवर्मा ॥ ८ ॥

अपरे च महेष्वासा रथयूथपयूथपाः ।

निर्ययुर्दंशिता गुप्ता रथनागाश्वपत्तिभिः ॥ ९ ॥

सत्यधर्मीया

रथयूथपानां यूथपाः । दंशिताः कवचिनः । रथनागाश्वपत्तिभिर्गुप्ताः

॥ ९ ॥

ततः प्रववृते युद्धं साल्वानां यदुभिः सह ।

यथाऽसुराणां विबुधैस्तुमुलं लोमहर्षणम्१ ॥ १० ॥

सत्यधर्मीया

तुमुलं विबुधैरसुराणां यथा तथा साल्वानां यदुभिः सह युद्धं प्रववृते

॥ १० ॥

तां च सौभपतेर्मायां दिव्यास्त्रै रुग्मिणीसुतः ।

क्षणेन नाशयामास नैशं तम इवोष्णगुः ॥ ११ ॥

पदरत्नावली

उष्णा गावो यस्य स उष्णगुः सूर्यः ॥ ११ ॥

सत्यधर्मीया

नैशं निशासम्बन्धि तमोऽन्धकारः । उष्णगुरुष्णा गावो यस्य स उष्णगुः सविता ॥ ११ ॥

विव्याध पञ्चविंशत्या स्वर्णपुङ्खैरयोमुखैः ।

साल्वस्य ध्वजिनीपालं शरैः सन्नतपर्वभिः ॥ १२ ॥

सत्यधर्मीया

रुग्मिणीसुतोऽयोमुखैः पञ्चविंशत्या । साल्वस्य ध्वजिनी सेना तत्पालं तन्नायकं, सन्नतपर्वभिः शरैः शतेन साल्वमताडयत् ॥ १२ ॥

शतेनाताडयत् साल्वमेकैकेनास्य सैनिकान् ।

विव्याध दशभिर्नेतॄन् वाहनानि त्रिभिस्त्रिभिः ॥ १३ ॥

सत्यधर्मीया

एकैकेनास्य साल्वस्य सैनिकानताडयत् । नेतॄॄन्सैनिकान् दशभिर्वाहनानि त्रिभिस्त्रिभिः ॥ १३ ॥

तदद्भुतं महत्कर्म प्रद्युम्नस्य महात्मनः ।

दृष्ट्वा तं पूजयामासुः सर्वेऽस्य पुरवासिनः ॥ १४ ॥

पदरत्नावली

अस्य प्रद्युम्नस्य ॥ १४,१५ ॥

सत्यधर्मीया

अस्य प्रद्युम्नस्येत्यन्वयः । तं पूजयामासुः ॥ १४ ॥

बहुरूपैकरूपं तद् दृश्यते न च दृश्यते ।

मयमायाकृतं यानं दुर्विभाव्यं जनैरभूत् ॥ १५ ॥

सत्यधर्मीया

विमानमाहात्म्यमाह– बहुरूपेति । एकदा बहुरूपमनेकाकारं किञ्च सुवर्णात्मकं च । बह्वेकरूपेति वक्तुं शक्ये बहुरूपैकरूपमिति प्राह तस्य सुवर्णात्मकतामभि प्रैति । ‘बहुरूपं च पुरुटं कार्तस्वरमितीर्यत’ इति काठकभाष्योक्तेः । एकं रूपमेकाकारं कदाचिद् द्दृश्यते न दृश्यते कदाचित् । मयमायाकृतं जनैर्दुर्विभाव्यमभूत् ॥ १५ ॥

क्वचिद् भूमौ क्वचिद् व्योमि्न क्वचित् सिन्धौ क्वचिद् गिरौ ।

अलातचक्रवद् भ्राम्यत् सौभं तद् दुरवस्थितम् ॥ १६ ॥

पदरत्नावली

दुरवस्थितं नैकत्र स्थितमभूदिति शेषः ॥ १६ ॥

सत्यधर्मीया

अलातचक्रमिवोल्कामण्डलमिव भ्राम्यद् दुर्विभाव्यं दुरवस्थितं दुःसाध्यैकत्रावस्थानमभूत् ॥ १६ ॥

यत्र यत्रोपलक्ष्येत तस्य सौभस्य सैनिकः ।

साल्वस्ततस्ततोऽमुञ्चन् शरान् सात्वतयूथपाः ॥ १७ ॥

पदरत्नावली

तस्य सौभस्य सैनिकः सेनासहितः साल्वो यत्र यत्रोपलक्ष्येत सात्वतयूथपास्ततः शरानमुञ्चन्नित्यन्वयः ॥ १७ ॥

सत्यधर्मीया

सात्वतयूथपा यत्र यत्र तस्य सौभस्य तत्स्थत्वात्तस्यात्मसम्बन्धी सैनिकः सेनासमवेतः साल्वश्चोपलक्ष्येत दृश्येत ततस्ततस्तत्र तत्र शरानमुञ्चन् । सौभस्थसैनिक इति पाठे सैनिकानामपि तत्रोपवेशो ज्ञेयः ॥ १७ ॥

शरैरग्न्यर्कसङ्काशैराशीविषदुरासदैः ।

पीड्यमानः पुरानीकः१ साल्वोऽमुह्यत् परैरिति ॥ १८ ॥

पदरत्नावली

इति परैः शरैः प्रपीड्यमानः पुरः स्थितानीकः ॥ १८ ॥

दुर्घटभावदीपिका

पुरानीकः सौभपुरःस्थितसैन्यः साल्वः परैर्यादवैरग्न्यर्कसङ्काशैराशी-विषदुरासदैः शरैः पीड्यमानः सन् अमुह्यदिति यत्तच्चित्रमिति । एतेनेतिशब्दो व्यर्थ इति दूषणं प्रत्युक्तम् । इतिशब्दात्परं यत्तच्चित्रमिति पदानां शेषेणार्थस्योक्तत्वात् ॥ १८ ॥

सत्यधर्मीया

आशीविषवद्दुरासदो दुष्प्राप्यः । पीड्यमानः पुरानीकः पुरःस्थिता-त्मसेनाः । पीड्यमानपुरानीक इति पाठे पीड्यमानानि पुरमनीकानि च यस्येत्यर्थः । पाट्य-मानपुरानीक इति पाठस्तु स्फुटार्थः । परैर्यदुभिरित्यमुह्यन्मोहितोऽभूत् ॥ १८ ॥

साल्वानीकपशस्त्रौघैर्विष्णुवीरा१ भृशार्दिताः ।

न तत्यजू रणं स्वंस्वं लोकद्वयजिगीषवः ॥ १९ ॥

पदरत्नावली

साल्वस्यानीकपाः सेनानायकाः । तेषां शस्त्राणामोधैः ॥ १९ ॥

सत्यधर्मीया

विष्णुवीराः सात्यक्यादयः । भृशार्दिता अपि रणं लोकद्वयजिगीषवो व्यवस्थया स्वं स्वं न तत्यजुः ॥ १९ ॥

साल्वामात्यो द्युमान्नाम प्रद्युम्नात् प्राक् प्रपीडितः ।

आसाद्य गदया गुर्व्या व्याहत्य व्यनदद् बली॥ २० ॥

सत्यधर्मीया

आसाद्यानन्तरम् ॥ २० ॥

प्रद्युम्नं गदया शीर्णवक्षःस्थलमरिन्दमम् ।

अपोवाह रणात् सूतो धर्मविद् दारुकात्मजः ॥ २१ ॥

पदरत्नावली

‘रथिनि प्राणसन्दिग्धे सारथी रथमाहरेत् । जीवयेद् युद्धतः साधु युद्धकर्मविशारदः ॥’ इति युद्धधर्मवित् ॥ २१ ॥

सत्यधर्मीया

द्युमतो गदया । शीर्णं वक्षस्थलं यस्य तम् । ‘सारथी रथिनं रक्षेत्’ इति धर्मवित् । नवीनस्य यन्तुरयं धर्मः कथमिति कथयेति कथयति– दारुकात्मज इति । परम्परातः सारथ्यं कुलकलितमिति भावः । रणात्तदङ्गणादपोवाहापनिनाय ॥ २१ ॥

लब्धसञ्ज्ञो मुहूर्तेन कार्ष्णिः सारथिमब्रवीत् ।

असाध्विदमहो सूत यद्रणान्मेऽपसर्पणम् ॥ २२ ॥

पदरत्नावली

उपसर्पणमपसरणम् ॥ २२ ॥

सत्यधर्मीया

कार्ष्णिः कृष्णसुतः ॥ २२ ॥

न यदूनां कुले जातः दृश्यते१ रणविच्युतः ।

विना मत् क्लीबचित्तेन सूतेन प्राप्तकिल्बिषात्॥ २३ ॥

पदरत्नावली

कुतोऽसाध्वित्यतस्तदाह– नेति ॥ मद्विना ॥ २३ ॥

सत्यधर्मीया

क्लीबचित्तेनाधीरधियेति यावत् । सूतेन त्वया प्राप्तकिल्बिषान् मद्विना यदूनां कुले जातो रणविच्युतो न दृश्यते ॥ २३ ॥

किं नु वक्ष्येऽभिसङ्गम्य पितरौ रामकेशवौ ।

युद्धाद् धर्म्यादपक्रान्तः पृष्टस्तत्रात्मनाऽक्षमम् ॥ २४ ॥

पदरत्नावली

धर्मसाधनाद् युद्धादपगतोऽहं पितृभ्यां पृष्टस्तत्र पित्रोरात्मना मया कृतमक्षमं किंनु कथं नु वक्ष्य इत्यन्वयः ॥ २४ ॥

दुर्घटभावदीपिका

धर्म्याद्धर्मादनपेताद्युद्धादपक्रान्तोऽहं, पितरौ रामकेशवावतिसङ्ग-म्यातिशयेन सङ्गम्य ताभ्यां पृष्टः सन् । आत्मना मया कृतं मम अक्षममयोग्यमपक्रमणाख्यं कर्म किं नु कथं वक्ष्य इति । यद्यप्यपक्रमणरूपं कर्म सारथिनैव कृतं तथाऽपि सारथि-स्वामित्वादात्मना कृतमित्युक्तम् । एतेनात्मनेत्येतदनन्वितमिति दूषणं परास्तम् । किं, नु इति शब्दद्वयं कथमित्यर्थे वर्तते इत्यभ्युपगमात् ॥ २४ ॥

सत्यधर्मीया

पितरौ रामकेशावभिगम्य । धर्म्याद्धर्मादनपेताद्युद्धादपक्रान्तोऽहं ताभ्यां दृष्ट आत्मना अक्षमं वक्तुं योग्यं किन्नु वक्ष्ये । रणापसरणमकारि मयेति हा सूतैवं कुतः कृतवानसि । किञ्चेदं ततोऽपि दुःसहमितो रणमरणं वरमित्याह ॥ २४ ॥

व्यक्तं मे कथयिष्यन्ति हसन्त्यो भ्रातृजामयः ।

क्लैब्यं कथं गतो वीर सहान्यैः कथ्यतां मृधे ॥ २५ ॥

पदरत्नावली

किञ्चेदं दुस्सहमित्याह– व्यक्तमिति ॥ जामयः सहोदर्यः । कथं कथयन्तीति तत्राह– क्लैब्यमिति ॥ हे वीर मृधेऽन्यैः सह कथं क्लैब्यं गतस्तत् कथ्यतामिति

॥ २५ ॥

दुर्घटभावदीपिका

भ्रातृजामयो भ्रातृभार्या हसन्त्यः सत्यः । हे वीर । तवान्यैः सह मृधे युद्धे प्रसक्ते सति क्लैब्यं क्लीबत्वं कथं केन प्रकारेण गतः स प्रकारः कथ्यतामिति । मे मां प्रति कथयिष्यन्ति वदिष्यन्तीति । एतेन तवान्यैरित्येतदनन्वितमिति दूषणमपास्तम् । सह प्रसक्ते सतीति पदानां शेषं कृत्वाऽन्वयस्योक्तत्वात् ॥ २५ ॥

॥ इति श्रीभागवतटिप्पण्यां सप्ताशीतितमोऽध्यायः ॥ १०–८७ ॥

सत्यधर्मीया

व्यक्तमिति । भ्रातृजामयो भ्रातृभार्या हसन्त्यः कथयिष्यन्ति । एतादृशा जयशालिनोऽस्मद्भर्तृभ्रातर इति । यद्वा भ्रातरश्च जामयः स्वसारश्च हसन्त्यः कथयन्ति येषां यासां च न हसनानुबन्धस्ते ता अप्यवमाननाय तं हसन्ति का कथा तदनुबन्धयुतानां भ्रातृभार्यादीनामिति भावः । यथोक्तमृग्भाष्यटीकाटिप्पणीषु । अम्बयो यन्त्यत्यध्वभिर्जामयः कारणत्वात्सहोदराः । जगतो जामयो यस्मात्सह ताभिर्विवर्धते । जामयो भगिन्यश्च । ‘जामिः श्वसृकुलस्त्रियः’ इति नानार्थरत्नमालोक्तेश्चेति । भ्रातृभार्येति व्याख्यायां कुलललनात्वेन तद्ग्रह इति ज्ञेयम् । तत्कथनमभिनयेनाह– क्लैब्यमिति । हे वीर । तवान्यैस्त्वद्वैरिभिर्मृधे क्लैब्यं कथं गतस्तत्कथ्यतामिति । यद्वा हे वीर । सारथ्यकर्मोपयुक्तवीरयुक्त दारुदारक मृधेऽन्यैर्वैरिभिः क्लैब्यं कथं गतः कथ्यताम् । बत खेदः

॥ २५ ॥

सूत उवाच—

धर्मं विजानताऽऽयुष्मन् कृतमेतन्मया विभो ।

सूतः कृच्छ्रगतं रक्षेद् रथिनं सारथिं रथी ॥ २६ ॥

पदरत्नावली

कोयं धर्म इति तत्राह– सूत इति ॥ २६ ॥

सत्यधर्मीया

सारथी रथिकं प्रति विज्ञापयति– धर्ममिति । हे आयुष्मन् । अनेन, नो चेत्तव मरणमेव भावीत्यरुन्तुदवचनं पर्यायतो ध्वनयामासेति ज्ञेयम् । धर्मं विजानता कृतम् । तमेवाविष्करोति– सूत इति । कृच्छ्रगतं रथिनं रक्षेत् । रथ्यपि कृच्छ्रगतं सारथिं रक्षेदिति विहितमिति ॥ २६ ॥

एतद् विदित्वाऽनुभवान्मयाऽद्यापोहितो रणात् ।

उपसृष्टः परेणेति मूर्च्छितो गदया हतः ॥ २७ ॥

॥ इति श्रीमद्भागवते दशमस्कन्धे सप्ताशीतितमोऽध्यायः ॥

पदरत्नावली

उपसृष्ट उपद्रुतः ॥ २७ ॥

॥ इति श्रीमद्भागवतटीकायां विजयध्वजतीर्थकृतायां पदरत्नावल्यां

दशमस्कन्धे उत्तरार्धे सप्ताशीतितमोऽध्यायः (स.धर्म.१०–८७) ॥

सत्यधर्मीया

मयैतद्विहितमित्याह– एतदिति । परेण गदया हतो मूर्छितो यतोऽत उपसृष्ट उपसर्गं पीडां प्राप्त इति मया रणादपोहितः । अतो धर्ममेव मया कृतम् । तन्मर्म त्वया विदितमिति भावः ॥ २७ ॥

॥ इति श्रीसत्यधर्मयतिकृतायां भागवतटिप्पण्यां

दशमस्कन्ध उत्तरार्धे सप्ताशीतितमोऽध्यायः ॥ १०–८७ ॥