तत्र दुर्योधनो मानी परीतो भ्रातृभिः प्रियैः
॥ अथ षडशीतितमोऽध्यायः ॥
श्रीशुक उवाच—
तत्र दुर्योधनो मानी परीतो भ्रातृभिः प्रियैः ।
किरीटमाली न्यविशदसिहस्तः क्षिपन् रुषा ॥ १ ॥
पदरत्नावली
द्वित्रेष्वध्यायेषु साल्ववधमाहात्म्यं कथयति । तत्रादौ भूभारहरण-हेतुदुर्योधनस्य तेजः क्षतिं च वक्ति– तत्रेत्यादिना ॥ तत्र सभायाम् ॥ १ ॥
सत्यधर्मीया
साल्वादिवधो द्वित्रिष्वध्यायेषु निरूप्यते । तत्रादौ सर्वसर्वंसहाभार-भूतदुर्भूपतिहिंसासाधनं दुर्योधनमानहानिं तावदाह– तत्रेति । रुषा ज्ञातज्ञातिसम्पज्जनितया रुषा । असिहस्त इति तं क्षिपन्भ्रातृभिः प्रियैः परीतः । अनेन पाण्डवानामप्रियभ्रातृत्वं ध्वन्यते । किरीटं च माला चास्य स्त इति किरीटमाली । व्रीह्यादित्वादाकारान्ताद पीन्प्रत्ययः । परिस्फुरत्कुण्डलमौलिमालिनामित्येतद्व्याख्यासुधायां परिस्फुरत्कुण्डलमौलयश्च ते मालिनश्चेति विग्रह इत्यभिधाय यद्वा परिस्फुरन्त्यश्च ताः कुण्डलमौलिमालाश्चेति कर्मधारयं विधाय पश्चादिनिरुत्पाद्य इति । तथा तट्टिपणे ननु परिस्फुरन्त्य इत्यारभ्य सर्वबीजी सर्वकेशी नट इत्याद्यभियुक्तप्रयोगानुपपत्तिप्रसङ्गात्तदुपपादनार्थं प्रवृत्तात्सर्वादेः कर्मधारयादि-निरिति महाभाष्यवचनं चोपन्यस्य मध्ये शून्यमायिनोरित्यत्र द्वन्द्वात्तदन्तविध्यभ्युपगमेन प्रागिनिः समर्थित इति द्रष्टव्यमित्यन्तेनोक्तोचितप्रकारेण ज्ञेयः । किरीटं मलतेरिति णिनिर्वा । मल मल्ल धारणे । धत्त इति किरीटमाली । क्षिपन्मार्गान् मार्गार्थं वा ॥ १ ॥
स्थलेऽप्यगृह्णाद् वस्त्रान्तं हरिनीलोपलाचिते ।
स्थलं पुष्करिणीं मत्वा सर्वे तं जहसुर्जनाः ॥ २ ॥
पदरत्नावली
‘आचितं निचितं व्याप्तम्’ इति हलायुधः ॥ २ ॥
सत्यधर्मीया
स्थलेऽपि निर्जलप्रदेशे । हरिनीलोपलैरिन्द्रनीलमणिभिराचिते व्याप्ते । जलमिति भ्रमेण वस्त्रान्तमगृह्णाद् आर्द्रं भवेदित्युपरि धृतवान् । स्थलं पुष्करिणीं मत्वा एवं कृतवानिति सर्वे जनास्तं जहसुरपाहसन् ॥ २ ॥
आगच्छन्नेवमुर्वीशः पुरः पुष्करिणीं क्वचित् ।
विलोक्य स्फाटिकां भूमिं मन्वानो न्यपतज्जले१ ॥ ३ ॥
पदरत्नावली
पुरो ऽग्रतः । स्फटिकमणिनिबद्धाम् ॥ ३ ॥
सत्यधर्मीया
एवमेवागच्छन्क्वचित्पुष्करिणीं विलोक्य । स्फाटिकां स्फटिकस्येयं स्फाटिका णप्रत्ययान्तो, भूमिं मन्यमानो जले न्यपतत्पपात ॥ ३ ॥
जहास भीमस्तं दृष्ट्वा स्त्रियो भूपाश्च केचन ।
निवार्यमाणा अप्यङ्ग राज्ञा कृष्णानुमोदिताः ॥ ४ ॥
सत्यधर्मीया
निवार्यमाणा अपि कृष्णानुमोदिताः, भूभारावतारमूलमित्यनुमोदनं माधवस्येति ज्ञेयम् । भीमो जहास । ‘भूभारहरणे विष्णोः प्रधानाङ्गं हि मारुतिः । तस्याङ्गं प्रथमं वायुः’ इत्युक्तेर्हि सहेतुरयं हास इति ज्ञेयम् । स्त्रियो भूपाश्च केचन जहसुः ॥ ४ ॥
अजातशत्रुराकर्ण्य वस्त्रस्रग्भूषणादिकम् ।
सम्प्रेष्याह्वापयामास दूतैर्याेगेश्वरेण च१ ॥ ५ ॥
पदरत्नावली
योगेश्वरेण श्रीकृष्णेनानुज्ञातः । साम्ना सान्त्ववचनेन ॥ ५ ॥
सत्यधर्मीया
सम्प्रेष्य यत्र पतितस्तत्रैव दूतैर्योगेश्वरेण कृष्णेन च बोधित आह्वा-पया मासाकारयामास । आतामिति णिजन्तात्पुगागमः ॥ ५ ॥
तदनादृत्य सत्कारं व्रीडावनतकन्धरः ।
जाज्वल्यमानहृदयो न जगाम तदन्तिकम् ॥ ६ ॥
सत्यधर्मीया
सत्कारं धर्मप्रेषितं भूषणादिकमनादृत्य न्यक्कृत्य । व्रीडया व्रीडेन वा । नता कन्धरा यस्य सः । जाज्वल्यमानं हृदयं यस्य सः । यतस्ततस्तदन्तिकं धर्मसमीपं न जगाम ॥ ६ ॥
स व्रीडितोऽवाग्वदनो रुषा ज्वलन् निष्क्रम्य तूष्णीं प्रययौ गजाह्वयम् ।
हाहेति शब्दः सुमहानभूत् सतामजातशत्रु१र्विमना इवाभवत् ॥ ७ ॥
सत्यधर्मीया
व्रीडितः पातायातव्रीडावान् । अवाग्वदनो हसतो विलोक्यावाक्कृतं वदनं यस्य । केऽपि न न्यवारयन्निति रुषा ज्वलन्निष्क्रम्य परस्परम् । ततस्तूष्णीं किमप्य-वदन्गजाह्वयं प्रययौ । तदा सुमहान्हाहेति शब्दोऽभूत् । मरणकारणमिदमेवेति हेतिशब्द आयुधध्वनिरभूत् । हा इति हाहेतिशब्द इत्यावृत्त्याऽप्यन्वेतव्यम् । अजातशत्रुर्विमना दुर्मना इवाभवत् । इवेत्यनेन यद्भावि तद्भवत्येवेत्यपि चामरपामरमिति निष्कर्षोऽन्तरङ्गतोऽस्या-स्तीति ध्वन्यते ॥ ७ ॥
बभूव तूष्णीं भगवान् भुवो भरं जिहीर्षुरात्मेहितमात्मनि स्मरन् ।
तदाऽऽविरासीज्जगदीशसन्निधौ मुनिः सुराराधितपादपङ्कजः ॥ ८ ॥
पदरत्नावली
आत्मना स्वेनैवेहितं चेष्टितम् । आत्मनि मनसि स्मरन्, भद्रमिति शेषः । तत्र कथान्तरं वक्तंु नारदागमनमाह– तदेति ॥ ८ ॥
सत्यधर्मीया
किमिति मतिमान्कृष्णः स्वयं तत्समाधिनाऽतनुताधिं धर्मराजस्य दृष्ट्वाऽपीत्यत आह– बभूवेति । आत्मनि मनस्यात्मेहितं स्वेप्सितमिति स्मरन् । तत्कुत इत्यत आह– भुवो भरं जिहीर्षुर् हर्तुकाम इति भगवांस्तूष्णीं बभूव यदा तदा सुराराधित-पादपङ्कजो मुनिर्जगदीशसन्निधावाविरासीत् । सुराराधितपादपङ्कजस्त्वं जगदीशेति सन्निधौ समीपे आविरासीत्प्रादुरभूदिति वा । सुराराधितपादपं कल्पवृक्षमिव विद्यमानब्रह्मसुतो मुनि-रुपेत्येत्युत्तरेणान्वयः । नारदो यद्यपि पूर्वं सबल एवायातस्तथाऽपि बहुकालं नैकत्र स्थातेति गत्वाऽऽगतिरूह्या । यथोक्तं सभापर्वणि–
‘अन्तर्वेदी प्रविविशुः सत्कारार्हा महर्षयः ।
नारदप्रमुखास्तथा ………’ इति ॥ ८ ॥
उपेत्य नारदः सर्वैः सदस्यैः परिपूजितः ।
कृष्णेनाभ्यर्चितः सम्यगुपविष्टो नृपान्तिके ॥ ९ ॥
सत्यधर्मीया
कृष्णेन लोकमनुकुर्वता ॥ ९ ॥
उवाच धर्मराजस्तं प्रणिपत्य यथाविधि ।
भवान् सर्वत्रगो ब्रह्मन् सर्वकालेष्वसङ्गतः ॥ १० ॥
नृपाणां शौर्ययुक्तानां सर्वमण्डलवासिनाम् ।
इदानीं कतमः शूरो नित्योद्योगेन वर्तते ॥ ११ ॥
सत्यधर्मीया
सर्वत्रगोऽन्तात्यन्तेत्यत्र सर्वत्र पन्नयोरुपसङ्ख्यानमित्युक्तेर्गमेर्डः । सर्वत्र गच्छतीति स तथा । एतस्मिन्काले गन्तव्यमेतस्मिन्काले न गन्तव्यमित्यसज्यमानत्वात् । कतमोऽखण्डशब्दः । स्वार्थेऽयं प्रत्ययः । को नित्योद्योगेन वर्तते वदेति शेेषः । वा बहूनां जातिपरिप्रश्ने डतमच् । बहूनां मध्ये निर्धारणे डतमच् वा स्यात् । किमादीनीं द्विबह्वर्थे प्रत्ययविधानादुपाधिग्रहणमनर्थकम् । किं कारणम् । बहिर्धारणं निर्धारणमिति । यावता द्वयोरेकस्यैव बहिर्धारणं भवति । अपर आह । बहूनां जातिपरिप्रश्ने डतमजित्यत्र बहुग्रहण-मनर्थकम् । किं कारणम् । किमित्येतत्परिप्रश्ने वर्तते । परिप्रश्नश्चानिर्ज्ञातेऽनिर्ज्ञातं च बहुषु । द्व्येकयोः पुनर्निर्ज्ञातम् । निर्ज्ञातत्वाद् द्व्येकयोः परिप्रश्नो न परिप्रश्नाभावात्किमेव नास्ति कुतः प्रत्यय इति महाभाष्ये उपाध्यानर्थक्यमिति । अयं भावः । द्वयोरित्यनर्थकम् । बहूनामपि निर्धारणे डतच इष्टत्वात् । अजातिपरिप्रश्नेऽपि कतमशब्ददर्शनाद् वा बहूनामित्यत्र जाति-परिप्रश्नग्रहणं न कर्तव्यम् । अथवा द्वयोरित्यस्य निर्धारणषष्ठ्यन्तत्वादेकस्येति न वक्तव्यम् । बहुग्रहणमिति । डतमच उत्सर्गस्य द्वयोरेकस्य निर्धारणे डतरचोऽपवादस्य विधा बहूनामेव निर्धारणे डतमच् भविष्यतीत्यर्थः । किं कारणम् । किमेतदित्यादि परिहारग्रन्थः । किमः सङ्ख्यापरिमाणे डति चेत्यत्रत्य एवायं ग्रन्थ इत्याहुः । न हीह सङ्ख्याग्रहणमस्ति । येनास्य ग्रन्थस्योपयोगः स्यात् । अत्यन्तासम्बद्धश्चेहायं ग्रन्थः । एकद्विविषयस्यापि परिप्रश्नस्य सम्भवात् । को भवान्कतरो भवतोः कट इतीति च जातिपरिप्रश्न इत्यस्य प्रत्याख्यानात्तथा व्याख्यानाच्च । कतमाकतमर्क् इति छान्दोग्यपरभाष्ये ।
ननु वा बहूनां जातिपरिप्रश्ने डतमच् तर्ह्यत्र न जातिबहुत्वं कथं डतमच्प्रयोगः । नैष दोेषः । जातेः परिप्रश्नो जातिपरिप्रश्न इति विग्रहे जातिव्यक्तेर्बहुत्वोपपत्तेः । अतो न जातिश्च परिप्रश्नश्चेति विगृह्यते । ननु जातेः परिप्रश्न इति विग्रहे कथं कतमः कट इत्याद्युदाहरणम् । तत्रापि कटादिजातावेव व्यक्तिबहुत्वाभिप्रायेण परिप्रश्न इत्यस्मिन्विग्रहे कतमः कट इत्यद्युदाहरण-मुपपन्नमिति विग्रहान्तरग्रहणेन समाध्यभिधानं महीनमहीयसश्चरणे यत्र तत्र शरासनस्थिरासनं क्व कर्तव्यमित्याभाणकमनुकरोतीति मन्तव्यम् । न च सूत्रमात्रविवृतिपरोऽयं ग्रन्थ इति शक्यं वक्तुम् । यथोत्तरं मुनीनां प्रामाण्यमित्यङ्गीकृतिभङ्गीभङ्गापदापत्तेः । अत एव कौमुद्यां जातिपरिप्रश्न इति प्रख्यातमित्याकर इत्युक्तमिति दिक् । आस्माकीनव्याख्यायां तु कतमः क इत्येवोक्तमिति तथा व्याख्यातम् ॥ ११ ॥
इति तेनोदितां वाणीमाकर्ण्य मुनिरब्रवत् ॥ १२ ॥
सत्यधर्मीया
तेन धर्मेण ॥ १२ ॥
नारद उवाच—
भग्नदर्पा नृपाः सर्वे कृष्णेनाप्रतिमौजसा ।
वसन्ति विषये स्वे स्वे नष्टचेष्टा गतश्रियः ॥ १३ ॥
सत्यधर्मीया
भग्नदर्पाः स्वे स्वे विषये स्वस्वदेशे ॥ १३ ॥
एक एव महोत्साहः क्षत्रियाणां दुराग्रही ।
जातः साल्वेषु नृपतिर्बहुपादातिवाहनः ॥ १४ ॥
सत्यधर्मीया
दुर्दुष्टश्चासावाग्रहोऽभिनिवेशश्च सोऽस्यास्तीति स तथा । साल्वेषु तद्देशेषु । नृपती राजा बहुपादातिवाहनो जातः । दुराग्रहवान्वर्तत इत्यर्थः ॥ १४ ॥
भ्रातर्युपरते युद्धे विष्णुना लोकजिष्णुना ।
ब्रह्मदत्तसुते हंसे यमुनायां महात्मना ॥ १५ ॥
सत्यधर्मीया
भ्रातरि हंसे । ब्रह्मदत्तसुत इति भ्रातृत्वानुबन्धसूचकम् । उपरते मृते सति ॥ १५ ॥
कृष्णद्विडेत्य राज्ञोऽसौ रुग्म्यादीन् कुण्डिने पुरे ।
समाजं कारयामास भ्रातुरानृण्यकाङ्क्षया ॥ १६ ॥
पदरत्नावली
रुक्म्यादीन् राज्ञः । समाजं सम्मेलनम् । आनृण्यमृणाभावकरणम्
॥ १६ ॥
सत्यधर्मीया
इति कृष्णद्विट् तद्द्वेषी । रुग्म्यादीन् राज्ञ एत्य भ्रातुर्हंसस्यानृण्य-काङ्क्षया हरिं हत्वा तदृणापहारेच्छया । समाजं मेलनम् ॥ २६ ॥
शिशुपालद्रुममुखैर्दन्तवक्रपुरःसरैः ।
पराजितेषु सङ्ग्रामे जरासन्धादिषु प्रभो ॥ १७ ॥
पदरत्नावली
शिशुपालद्रुमदुर्मुखैः सह जरासन्धादिषु युद्धे पराजितेषु सत्सु ॥१७॥
सत्यधर्मीया
जरासन्धादिषु शिशुपालद्रुममुख्यैः सह पराजितेषु सत्सूर्वरितैर्दन्तवक्र-पुरःसरैः साकम् ॥ १७ ॥
साल्वः प्रतिज्ञामकरोच्छृण्वतां सर्वभूभुजाम् ।
अयादवीं क्ष्मां करिष्ये पश्यन्तु मम पौरुषम् ॥ १८ ॥
सत्यधर्मीया
सर्वभूभुजां शृृण्वतां, क्ष्मां महीमयादवीं यादवा न विद्यन्ते यस्यां साऽयादवी तां करिष्ये । मम पौरुषं भवन्तः पश्यन्त्विति प्रतिज्ञामकरोत् ॥ १८ ॥
इति मूढः प्रतिज्ञाय तपसे प्राविशद् वनम् ।
गते तस्मिन् बहून् वर्षान् प्रतीक्ष्य तदुपागमम्॥ १९ ॥
सत्यधर्मीया
तपसे तत्कर्तुम् । तस्योपागमम् आगमनम् ॥ १९ ॥
तदनन्तरजोऽमात्यैरभिषिक्तो नृपार्थिभिः ।
तपस्तप्त्वा स नृपतिर्देवं पशुपतिं प्रभुम्॥ २० ॥
पदरत्नावली
तस्य साल्वस्यानन्तरजोऽनुजः ॥ २० ॥
सत्यधर्मीया
नृपार्थिभिर्नृपमर्थयन्त इति ते । णिनिः । तदनन्तरजः साक्षात्तद-वरजोऽमात्यैस्तदादिभिरभिषिक्तो नृपतिः साल्वस्तपः कृत्वा ॥ २० ॥
आराधयामास वने पांसुमुष्टिं सकृद् ग्रसन् ।
संवत्सरान्ते भगवान् सन्तुष्टः स उमापतिः ॥ २१ ॥
सत्यधर्मीया
सकृदेकदा । पांसुमुष्टिं पांशुमुष्टिमिति वा समर्थौ पाठौ । संवत्सरान्ते स आराधितः ॥ २१ ॥
वरेण छन्दयामास साल्वं शरणमागतम् ।
देवासुरमनुष्याणां गन्धर्वोरगक्षसाम् ॥ २२ ॥
पदरत्नावली
छन्दयामास तृप्तमकरोत् ॥ २२ ॥
सत्यधर्मीया
शरणमागतं साल्वं वरेण छन्दयामास । वरं वरयेत्यूचिवान् । स चायाचतेदमिति वदति– देवेति ॥ २२ ॥
अभेद्यं कामगं वव्रे स यानं वृष्णिभीषणम् ।
तथेति गिरिशादिष्टो मयः परपुरञ्जयः ॥ २३ ॥
सत्यधर्मीया
वृष्णिभीषणमिति स्वप्रतिश्रुतपारणार्थमिति मन्तव्यम् । कामगमभेद्यं यानं व्योमयानं वव्रे । तथा कुर्वित्यादिष्टो मयः परपुरञ्जयः सुरवर्धकिकृतपुरजययुतोऽसुरतक्षा ॥२३॥
पुरं निर्माय साल्वाय प्रादात् सौभमयस्मयम् ।
स लब्ध्वा कामगं यानं तमोधाम दुरासदम् ॥ २४ ॥
पदरत्नावली
अयस्मयम् अयोमयम् । अयस्मयादीनि छन्दसीति पाणिनिः । नील-रश्मिपुञ्जात्मकत्वात् तमोधामेत्युच्यते ॥ २४ ॥
सत्यधर्मीया
शिवशंसितः पुरं तद्रूपं सौभं नाम्ना तदात्मकमित्ययस्मयम् । अयस्मयादीनि छन्दसीति स्मरणादुभयसञ्ज्ञाकार्यं निपातनाज्ज्ञेयम् । यथोक्तं महाभाष्ये । वृद्धिरादैच् । कुत्वं कस्मान्न भवति । चोः कुः पदान्तत्वात् । कथं भसञ्ज्ञा । अयस्मयादीनि छन्दसीति छन्दसीत्युच्यते । न चेदं छन्दः । छन्दोवत्सूत्राणि भवन्ति । उभयसञ्ज्ञान्यपि छन्दसि दृश्यन्ते । तद्यथा । स सुष्टुभा स ऋक्वता गणेन । पदत्वात्कुत्वं भत्वाज्जस्त्वं न भवतीति । भसञ्ज्ञया न रुत्वोत्वे पदसञ्ज्ञया च तस्य विकार इति सुबन्तत्वेन मयट्चेति कार्यद्वयं ज्ञेयम् । अयोविकृतं निर्माय कृत्वा । प्रागेव नितरां माया यस्य निर्मायः स चासौ साल्वश्च तस्मा इति वा । मर्कटमधुपाननीतिर्जातेति भावः । तमोधाम । पश्यतामदृश्य-मन्धकारेणेत्यर्थः । उत्तरत्र स्वभर्तुस्तम एव धाम येन तदित्यप्यान्तराङ्गिको भावः । दुरासदमितरैः ॥ २४ ॥
आययौ स्वं जनपदं समग्रबलवाहनम् ।
इदानीं राजपुत्राणां स एवोद्योगवान् नृप ॥ २५ ॥
सत्यधर्मीया
समग्रबलवाहनं जनपदं देशम् । राजपुत्राणां मध्ये ॥ २५ ॥
इति धर्मसुतः श्रीमान् श्रुत्वा तन्नारदोदितम् ।
पार्श्वे भगवतः शौरेः शनैर्मुखमवैक्षत ॥ २६ ॥
सत्यधर्मीया
भगवतः शौरेः पार्श्वे नारदोदितं श्रुत्वा शनैर्भगवतो मुखमवैक्षत । स्वामिन्नयमेकः प्राघूर्णिकस्तवायात इति ॥ २६ ॥
निशम्य तद् वासुदेवो धैर्यसारो निराकुलः ।
किञ्चित् प्रहस्यास्तु नामेत्याह सा हि महात्मता ॥ २७ ॥
दुर्घटभावदीपिका
धैर्यसारो धैर्यश्रेष्ठविशिष्टः । अत एव निराकुलो वासुदेवस्तन्नारद-वाक्यं निशम्य किञ्चित्प्रहस्य साल्व उद्योगवानस्त्वहं तत्संहारं करिष्ये ममासाध्यं किम-स्तीत्येतन्नाम प्रसिद्धमित्याह । एवं कथमाहेत्यत आह– सेति ॥ यस्मात्स एवंविधवाक्य-प्रयोक्तृमहात्मता महात्मनां धर्मस्तस्मादेवमाहेति । एतेन नामेत्येतदनन्वितमिति दूषणं परिहृतम् । अहं तत्संहारमित्यादीनां शेषं कृत्वाऽन्वयस्योक्तत्वात् ॥ २७ ॥
॥ इति श्रीभागवतटिप्पण्यां षडशीतितमोऽध्यायः ॥ १०–८६ ॥
सत्यधर्मीया
तन्निशम्य नारदेरितं श्रुत्वा किञ्चित्प्रहस्यास्तु नाम । अनेनालक्ष्यता द्योत्यते । अत एव सामान्यार्थान्तरन्यासेन शंसति– सा हि महात्मतेति । श्रुत्वैवं धृतिस्थितिर् महात्मता महात्मत्वं तज्ज्ञापिकेत्यर्थः ॥ २७ ॥
पूजयित्वा ऋषिं सम्यक् सूनृतैर्गीर्भिरच्युतः ।
चिराभिलषितः सोऽपि प्राप्तः साध्वित्यचिन्तयत् ॥ २८ ॥
पदरत्नावली
सूनृतैः सूनृताभिः ॥ २८ ॥
सत्यधर्मीया
गीर्भिरच्युतो वचनं च रचनमिति वाक्च्युतिरहितः कृष्णः सूनृतै-र्वाक्यैर्मुनिं सम्यक् पूजयित्वा । सोऽपि चिराभिलषितो बहुदिनं वध्यत्वेनाकाङ्क्षितः प्राप्त इति साध्वित्यचिन्तयत् ॥ २८ ॥
उग्रसेनं यदुपतिं युयुधानं च माधवः ।
अक्रूरं कृतवर्माणमन्यांश्च यदुपुङ्गवान् ॥ २९ ॥
प्रेषयामास रक्षायै द्वारवत्याः स्वसैनिकान् ॥ ३० ॥
॥ इति श्रीमद्भागवते दशमस्कन्धे षडशीतितमोऽध्यायः ॥
पदरत्नावली
स्वसैनिकान् स्वसेनानायकान् ॥ ३० ॥
॥ इति श्रीमद्भागवतटीकायां विजयध्वजतीर्थकृतायां पदरत्नावल्यां
दशमस्कन्धे उत्तरार्धे षडशीतितमोऽध्यायः (स.धर्म.१०–८६) ॥
सत्यधर्मीया
अनन्तरमनन्तः स्वयं स्वपुरं गतवानुत कांश्चित्प्रैषिषदथवा स यत्रास्ते तत्र गत इत्यत आह– उग्रसेनमिति । स्वसैनिकान्सेनासमवेतान् ॥ २९-३० ॥
॥ इति श्रीसत्यधर्मयतिकृतायां भागवतटिप्पण्यां
दशमस्कन्ध उत्तरार्धेे षडशीतितमोऽध्यायः ॥ १०–८६ ॥