११ पञ्चाशीतितमोऽध्यायः

अजातशत्रोस्तं दृष्ट्वा राजसूयमहोदयम्

॥ अथ पञ्चाशीतितमोऽध्यायः ॥

राजोवाच—

अजातशत्रोस्तं दृष्ट्वा राजसूयमहोदयम् ।

सर्वे मुमुदिरे ब्रह्मन् देवा ये च समागताः ॥ १ ॥

पदरत्नावली

अनेनानन्तराध्यायोक्तमेव प्रश्नपूर्वकं विस्तृत्य कथयति– अजातशत्रो-रित्यादिना ॥ १ ॥

सत्यधर्मीया

क्वचित्पुस्तके राज्ञा सभाजिता इति श्लोकोत्तरं ‘दुर्योधनमृते पापं कलिं कुरुकुलामयम् । यो न सेहे श्रियं स्फीतां दृष्ट्वा पाण्डुसुतस्य ताम् ॥’ इति श्लोको वर्तते । तत्पक्षे सर्वे तुतुषुः कुतः, कुतो दुर्योधनो न तुतोषेति कारणमजानानो राजा पृच्छति– अजातशत्रोरिति । बहुषु पुस्तकेषु न श्लोक इति पक्षे दुर्योधनो नैव तुतोषेति किंवदन्तीं श्रुत्वा राजा तत्कारणं पृच्छति राजेतीत्यवतारणमिति ज्ञेयम् । समागताः सर्वे राजानो ये च समागता देवा ब्रह्माद्याः ॥ १ ॥

दुर्योधनं वर्जयित्वा राजान ऋषयः सुराः ।

इति श्रुतं नो भगवंस्तत्र कारणमुच्यताम् ॥ २ ॥

दुर्घटभावदीपिका

सुरा इत्यस्य भूसुरा ब्राह्मणा इत्यर्थः । एतेन सुरा इत्येतद्देवा इत्यनेन पुनरुक्तमिति चोद्यस्यानवकाशः । सुरा इत्यस्य भूशब्दाध्याहारेण ब्राह्मणा इत्यर्थ-स्योक्तत्वात् ॥ २ ॥

सत्यधर्मीया

इति श्रुतमुपपादितरीत्या । तत्र तदसहने कारणं त्वयोच्यताम् ॥ २ ॥

श्रीशुक उवाच—

पितामहस्य ते यज्ञे राजसूये महात्मनः ।

बान्धवाः परिचर्यायां तस्यासन् प्रेमबन्धनाः ॥ ३ ॥

सत्यधर्मीया

ते पितामहस्य महात्मनो धर्मस्य यज्ञे राजसूये तन्नामके प्रेमबन्धनाः प्रेम्णैव बन्धनं येषां ते स्नेहबद्धा बान्धवास्तस्य परिचर्यायामासन् ॥ ३ ॥

भीमो महानसाध्यक्षो धनाध्यक्षः सुयोधनः ।

सहदेवस्तु पूजायां नकुलो द्रव्यसाधने ॥ ४ ॥

सत्यधर्मीया

के के कां कां चक्रुरित्यतो विशदमुपदिशति– भीम इति । महान-साध्यक्षो रसवतीनियन्ता । सुयोधनो धनाध्यक्षः । पूजायामागतानाम् । द्रव्यसाधने तन्मेलने

॥ ४ ॥

सतां शुश्रूषणे जिष्णुः कृष्णः पादावनेजने ।

परिवेषणे द्रुपदजा कर्णो दाने महामनाः ॥ ५ ॥

सत्यधर्मीया

सतां शुश्रूषणे सेवायाम् । पादावनेजने पादप्रक्षालने । द्रुपदजा द्रौपदी । महामनाः स्वतो दाता ॥ ५ ॥

युयुधानो विकर्णश्च हार्दिक्यो विदुरादयः ।

बाह्लीकपुत्रा भूर्याद्या ये च सन्तर्दनादयः ॥ ६ ॥

सत्यधर्मीया

विकर्णो दुर्योधनानुजः भूर्याद्या भूरिर्भूरिश्रवाः शल इति त्रयः । सन्तर्दन आदिर्येषां ते ॥ ६ ॥

निरूपिता महायज्ञे नानाकर्मसु ते तदा१ ।

प्रवर्तन्ते स्म राजेन्द्र राज्ञः प्रियचिकीर्षया ॥ ७ ॥

दुर्घटभावदीपिका

महायज्ञे विशारदा दक्षा धर्मराजेन निरूपिता राज्ञः प्रियचिकीर्षया नानाकर्म कर्तुं प्रवर्तन्ते स्मेति । एतेन कुत्र प्रवर्तन्त इति शङ्कापरिहारार्थं नानाकर्मणीति वक्तव्यम् । तदभावान्न्यूनतेति शङ्कानवकाशः । कर्तुमिति शब्दाध्याहारेण नानाकर्म कर्तंु प्रवर्तन्त इत्यर्थस्योक्तत्वात् ॥ ७ ॥

सत्यधर्मीया

प्रवर्तन्ते स्म प्रावर्तन्त ॥ ७ ॥

ऋत्विक्सदस्यबहुवित्सु सुहृत्तमेषु स्वेष्टेषु२ सूनृतमहार्हणदक्षिणाभिः ।

चैद्ये च सात्वतपतेश्चरणं प्रविष्टे चक्रुस्ततस्त्ववभृथस्नपनं द्युनद्याम् ॥ ८ ॥

पदरत्नावली

ऋत्विजश्च सदस्याश्च बहुविदश्च ते तथा । तेषु तत्समेषु सुहृत्तमेषु स्विष्टेषु सुपूजितेषु सत्सु । ततः कालव्यवधानमन्तरेण ॥ ८ ॥

सत्यधर्मीया

ऋत्विजश्च सदस्याश्च ते च ते बहुविदश्च तेषु । तथा सुहृत्तमेषु च सूनृतं वचो, महार्हणं दक्षिणातिरिक्तं, दक्षिणाभिः स्वेष्टेषु सम्यग्जितेषु सत्सु । चैद्ये शिशुपाले सात्त्वतपतेः श्रीकृष्णस्य चरणं चक्रं निमित्तीकृत्य प्रविष्टेऽन्तर्निविष्टे सत्यतो न चैद्यदेहस्थितं ज्योतिर्वासुदेवं समाविशदिति विसंवादः । ततोऽन्तरायापायानन्तरम् । ‘शान्तविघ्नः सुसंरम्भ’ इति सभापर्वोक्तेः । यद्वा चरणादीनामङ्गानामभेदाच्चरणमित्युक्तमिति । अतोऽपि न विसंवादः । द्युनद्यामवभृथस्नपनं चक्रुः ॥ ८ ॥

मृदङ्गशङ्खपणवधुन्धुर्या१नकगोमुखाः ।

वादित्राणि विचित्राणि नेदुरारान्महोत्सवे ॥ ९ ॥

पदरत्नावली

आराद् दूरे समीपे च ॥ ९१३ ॥

सत्यधर्मीया

धुन्धुर्यानकगोमुखा मृदङ्गादिकम् । धुन्धुरीति वाद्यविशेषः । आराद्दूरे दिवि भुवि समीपे च ॥ ९ ॥

नर्तक्यो ननृतुर्हृष्टा गायका यूथशो जगुः ।

वीणावेणुतलोन्नादस्तेषां स दिवमस्पृशत् ॥ १० ॥

सत्यधर्मीया

गायका यूथशः सङ्घशो जगुः । वीणावेणुतलानामुन्नादो दिवं सहस्र-धनुःप्रमाणोत्तरप्रदेशमस्पृशत् ॥ १० ॥

चित्रध्वजपताकाढ्यै२रिभेन्द्रस्यन्दनादिभिः ।

स्वलङ्कृतैर्भटैर्भूपा निर्ययू रुग्ममालिनः ॥ ११ ॥

सत्यधर्मीया

चित्रध्वजपताकाढ्यैरिति पताकाग्य्रैरिति वा पाठौ । भटैः सह रुग्ममालिनो रुग्मात्ममाला येषामस्ति ते व्रीह्यादिः ॥ ११ ॥

यदुसृञ्जयकाम्बोजाः कुरुकोसलकेकयाः ।

कम्पयन्तो भुवं सैन्यैर्यजमानपुरःसराः ॥ १२ ॥

दुर्घटभावदीपिका

यजमानपुरःसरैरित्यस्य यजमानापेक्षया पुरःसरैर्गच्छद्भिरित्यर्थः । अनेन यजमानपुरोभागे यदुसंृजयादीनां सैन्यानि, पृष्ठभागे यदुसंृजादय इत्युक्तं भवति ॥ १२ ॥

सत्यधर्मीया

यजमानो धर्मराजः पुरःसरो येषां ते तैः ॥ १२ ॥

सदस्यर्त्विग्द्विजश्रेष्ठा ब्रह्मघोषेण भूयसा ।

देवर्षिपितृगन्धर्वास्तुष्टुवुः पुष्पवर्षिणः ॥ १३ ॥

सत्यधर्मीया

ब्रह्मघोषो वेदघोषस्तेन ॥ १३ ॥

स्वलङ्कृता नरा नार्यो गन्धस्रग्भूषणाम्बरैः ।

विलिम्पन्तोऽभिषिञ्चन्तो विजह्रुर्विविधै रसैः ॥ १४ ॥

पदरत्नावली

रसैश्च हरिद्रादिरागजलैः ॥ १४ ॥

सत्यधर्मीया

विविधै रसैर्हरिद्राकुङ्कुमकेसरजलैर्विलिम्पन्त्यश्च विलिम्पन्त एनमभि-षिञ्चन्तः ॥ १४ ॥

तैलगोरसगन्धोदहरिद्रासान्द्रकुङ्कुमैः ।

पुम्भिर्लिप्ताः प्रलिम्पन्त्यो विजह्रुर्वारयोषितः ॥ १५ ॥

पदरत्नावली

एतदेवाह– तैलेत्यादिना ॥ १५ ॥

सत्यधर्मीया

तैलं गन्धोदः पुम्भिः परैर्लिप्ताः स्वयं प्रतिलिम्पन्त्यो वारयोषितो वेश्या विजह्रुः ॥ १५ ॥

गुप्ता नृभिर्निरगमन्नुपलब्धुमेतद् देव्यो यथा दिवि विमानवरैर्नृदेव्यः ।

ता मातुलेयसखिभिः परिषिच्यमानाः सव्रीडहासविकसद्वदना विरेजुः ॥१६॥

पदरत्नावली

नृदेव्यो राज्ञ्य एतदुपलब्धंु चक्षुर्विषयं स्थलं निरगमन्नित्यन्वयः । देव्यो देवस्त्रियः । मातुलेयैः सखिभिश्च ॥ १६ ॥

सत्यधर्मीया

नृदेव्यो राजराजीवाक्ष्यः । नृभिर्भटैर्गुप्ता देव्यः । यथा विमानवरै-र्दिव्यागमंस्तथा । एतदुपलब्धुं चक्षुर्विषयं कर्तुं निरगमन् यास्ता मातुलेयैर्मातुलपुत्रैः सखिभिश्च परिषिच्यमानाः प्रागुक्ततैलादिभिः । सव्रीडं हासेन विकसद्वदनं यासां ताः सत्यो विरेजुः ॥ १६ ॥

ता देवरानुत सखीन् सिषिचुर्दृतीभिः क्लिन्नाम्बरा विवृतगात्रकुचोरुमध्याः ।

**औत्सुक्यमुक्तकबरच्यवमानमाल्याः क्षोभं दधुर्मलधियां रुचिरैः समेताः **

॥ १७ ॥

पदरत्नावली

दृतीभिर्जलसेचनपात्रैः । मलधियां विषयाविष्टानाम् । रुचिरैर्भूषणैः समेताः

॥ १७,१८ ॥

सत्यधर्मीया

ता देवरान्पतिभ्रातृन् दृतीभिश्चर्मपुटैः । यद्यपि दृतिश्चर्मपुटे स इति विश्वस्तथाऽपि क्तिचि कृदिकारङीषि दृतीत्यपि भवतीति ज्ञेयम् । सखींश्च सखीनपि सिषिचुः । ताश्चैतादृश्य इति शंसति । क्लिन्नाम्बराः क्लिन्नं जलादिनाऽङ्गसंलग्नं चाम्बरं यासां ताः । अत एव विवृतगात्रकुचोरुमध्या गात्राणीतराङ्गानि च कुचाश्चोरवश्च मध्यानि च गात्रकुचोरुमध्यं विवृतं प्रकाशितं गात्रकुचोरुमध्यं यासां ताः । औत्सुक्यान्मुक्ताश्च ते कबराश्च केशपाशास्तेभ्यश्च्यवमानानि गलन्ति माल्यानि माला वा प्रसूनानि वा यासां ताः । रुचिरैरलङ्कारैः समेता किञ्चित्समेता मिलिता मलधियां कामिनां क्षोभं चित्तचाञ्चल्यं दधुः

॥ १७ ॥

स सम्राड् रथमारूढः सदश्वं रुग्ममालिनम् ।

व्यरोचत स्वपत्नीभिः क्रियाभिः क्रतुराडिव ॥ १८ ॥

सत्यधर्मीया

सदश्वं रुग्ममालिनं रथं स सम्राट् । क्रियाभिः क्रतुराट् प्रस्तुत-राजसूयादिरिव स्वपत्नीभिः स्वकर्तृकयज्ञफलभोक्त्रीभिरारूढो व्यरोचत । रुग्ममालिनमिति न सरसलग्नं विशेष्येणेति तद्विशेषणाश्वपदार्थेन सम्बद्ध्यते । रुग्ममालिसमीचीनाश्वोपेतमित्यर्थः । पूर्वं विवृतमेतत्सजातीयस्थानप्रदर्शनेनास्माभिरेतत्प्रकारस्ततोऽनुसन्धेयः ॥ १८ ॥

पत्नीसंयाजावभृथ्यैश्चरित्वा ते तमृत्विजः ।

आचान्तं स्नापयाञ्चक्रुर्गङ्गायां सह कृष्णया ॥ १९ ॥

पदरत्नावली

पत्नीसंयाजावभृथ्याख्येष्टिभिश्चरित्वा कृत्वा ॥ १९,२० ॥

सत्यधर्मीया

पत्नीसंयाजो यागविशेषो जाघन्यादिनिवर्त्यः । आवभृथ्यैर् अवभृथ-सम्बद्धिकर्मभिस्तदादिकं चरित्वा कृत्वा । ते ऋृत्विज आचान्तं कृताचमनम् । गङ्गायां सह कृष्णया स्नापयाञ्चकु्रः ॥ १९ ॥

दिवि दुन्दुभयो नेदुर्नरदुन्दुभिभिः समम् ।

मुमुचुः पुष्पवर्षाणि देवर्षिपितृमानवाः ॥ २० ॥

सत्यधर्मीया

दिवि दुन्दुभयो नेदुः स्वयमेवावाद्यन्त । नरदुन्दुभिरत्रेतरवादितैः समं साकम् ॥ २० ॥

सस्नुस्तत्र ततः सर्वे वर्णाश्रमयुता जनाः ।

अथ राजाऽहते क्षौमे परिधाय स्वलङ्कृतः ॥ २१ ॥

पदरत्नावली

अहते अधौते ॥ २१ ॥

सत्यधर्मीया

आहते आहूते वा नूतने क्षौमे परिधाय वसित्वा ॥ २१ ॥

ऋत्विक्सदस्यविप्रादीनानर्च्याभरणाम्बरैः ।

बन्धून् ज्ञातीन् नृपान् मित्र१सुहृदोऽन्यांश्च सर्वशः ॥ २२ ॥

सत्यधर्मीया

मित्रसुहृदोऽन्यांश्चेति पाठो हि मित्रम् । मित्रानिति पाठे मित्राणामित्यर्थः । आनर्चापूजयत् ॥ २२ ॥

अभीक्ष्णं पूजयामास नारायणपरो नृपः ॥ २३ ॥

सत्यधर्मीया

नारायणपर इत्यनेनर्त्विगादिषु सन्निहितो भगवांस्तुष्यत्वित्यनुसन्धानं तस्य ध्वन्यते ॥ २३ ॥

सर्वे जनाः सुररुचो मणिकुण्डलस्रगुष्णीषकञ्चुकदुकूलमहार्घ्यहाराः ।

नार्यश्च कुण्डलयुगालकवृन्दजुष्टवक्त्रश्रियः कनकमेखलया विरेजुः ॥ २४ ॥

सत्यधर्मीया

कुण्डलयुगैरलकवृन्दैर्जुष्टं च तद्वक्त्रं च तस्य श्रीर्यासां ताः । कनकमेखलया च विरेजुः ॥ २४ ॥

अथर्त्विजो महाशिक्षाः सदस्या ब्रह्मवादिनः ।

विप्रक्षत्रियविट्शूद्रा राजानो ये समागताः ॥ २५ ॥

सत्यधर्मीया

महती शिक्षा येषां ते तथा ॥ २५ ॥

देवर्षिपितृभूतानि लोकपालाः सहानुगाः ।

पूजितास्तमनुज्ञाप्य स्वधामानि ययुर्मुदा ॥ २६ ॥

सत्यधर्मीया

तं धर्मराजम् ॥ २६ ॥

हरिदासस्य राजर्षे राजसूयमहोदयम् ।

नैवातृप्यन् प्रशंसन्तः पिबन् मर्त्यो यथाऽमृतम् ॥ २७ ॥

सत्यधर्मीया

मर्त्योऽमृतं पिबंश्चेद्यथा न तृप्येत्तथा प्रशंसन्तो नैवातृप्यन् ॥ २७ ॥

ततो युधिष्ठिरो राजा सुहृत्सम्बन्धिबान्धवान् ।

प्रेम्णा निवारयामास कृष्णं च त्यागकातरः ॥ २८ ॥

सत्यधर्मीया

त्यागहेतुककातर्ययुतो विरहभीरुरिति यावत् ॥ २८ ॥

भगवानपि तत्राङ्ग न्यवात्सीत् तत्प्रियङ्करः ।

प्रस्थाप्य यदुवीरान् स्वान् साम्बादींस्तु कुशस्थलीम् ॥ २९ ॥

सत्यधर्मीया

तत्प्रियङ्करः साम्बादीन्यदुवीरान् कुशस्थलीं प्रति प्रस्थाप्य स्वयं तत्र न्यवात्सीत् ॥ २९ ॥

इत्थं राजा धर्मसुतो मनोरथमहार्णवम् ।

सुसमृद्धं समुत्तीर्य कृष्णेनासीद् गतज्वरः ॥ ३० ॥

दुर्घटभावदीपिका

मनोरथमहार्णवमित्यस्य मनोरथविषयप्राप्तिचिन्तामहार्णवमित्यर्थः । एतेन मनोरथनिष्ठत्वाभावान्मनोरथमहार्णवं समुत्तीर्येति कथनमयुक्तमिति चोद्यं प्रत्युक्तम् । मनोरथशब्देन मनोरथविषयप्राप्तिचिन्ताया ग्रहणात् ॥ ३० ॥

॥ इति श्रीभागवतटिप्पण्यां पञ्चाशीतितमोऽध्यायः ॥ १०–८५ ॥

सत्यधर्मीया

राजसूययागसम्पत्तिरूपमनोरथमहार्णवं कृष्णेन समुत्तीर्य गतज्वर आसीत् ॥

एकदाऽन्तःपुरे तस्य वीक्ष्य दुर्योधनः श्रियम् ।

अतप्यद् राजसूयस्य महित्वं चाच्युतात्मनः ॥ ३१ ॥

सत्यधर्मीया

अच्युतात्मनो हरिमनस्कस्य राजसूयस्य महित्वं महित्वमस्त्विति व्याख्यातं महत्त्वं तथा श्रियं च वीक्ष्यातप्यत्सन्तप्तोऽभूत् ॥ ३१ ॥

यस्मिन् नरेन्द्रदितिजेन्द्रसुरेन्द्रलक्ष्म्यो नाना विभान्ति किल विश्वसृजोपक्लृप्ताः ।

ताभिः पतिं द्रुपदराजसुतोपतस्थे यस्यां विषक्तहृदयः कुरुराज एषः ॥ ३२ ॥

पदरत्नावली

ताभिः श्रीभिः सहद्रुपदराजसुता पतिमुपतस्थ इत्यन्वयः ॥ ३२ ॥

सत्यधर्मीया

विश्वसृजा कृष्णेनोपक्लृप्ताः । नरेन्द्रदितिजेन्द्रसुरेन्द्रलक्ष्म्यः नानाः प्रातिस्विकमेतत्सम्पदो विभान्ति । ताभिः पतिं द्रुपदराजसुता यस्मिन्निन्द्रप्रस्थे उपतस्थे । यस्यां लक्ष्म्यां ताभिरित्युक्त्वा पुनर्यस्यामित्येकवचनप्रयोगतोऽयं कुरुराज एकैकस्यां विषक्त-हृदयोऽतप्यत् । एकैका सम्पद्व्यक्तिर्यदा तापदा किमु वक्तव्यं समवेताः सर्वा इति कैमुत्यं सूचयतीति मन्तव्यम् ॥ ३२ ॥

यस्मिंस्तदा मधुरिपोर्महिषीसहस्रं श्रोणीभरेण शनकैः क्वणदङ्घ्रिशोभम् ।

वक्षःसुचारुकुचकुङ्कुमशोणहारं श्रीमन्मुखं च चलकुण्डलकुन्तलाढ्यम् ॥ ३३ ॥

सत्यधर्मीया

यस्मिन्पुरे । महिषीणां सहस्रं षोडशसहस्रं श्रोणीभरेण नितम्ब-बिम्बभरेण शनकैः क्वणन्तो मञ्जीरादिभिरङ्घ्रयः पादास्तैः शोभा यस्य तत् । व्यस्तं समस्तं वा । शनकैरिति चलनाबलत्वादिति भावः । वक्षःसुचारुकुचकुङ्कुमशोणहारं वक्षसि सुचारवः कुचास्तेषु कुङ्कुमा वा कुङ्कुमं वा तेन शोणो रक्तवर्णो हारो मुक्तामाला यस्य तत् । व्यधिकरणो बहुव्रीहिः । यद्वा यस्य वक्ष इत्यन्वयः । हारो मुक्तावलाविति विश्वः । कुङ्कुमो-पाधिकस्तत्र रक्तिमेति भावः । चलकुण्डलकुन्तलाढ्यं चलेत्युभयविशेषणम् । श्रीमन्ति मुखानि यस्य तत् । व्यभादिति वा तमुपतस्थ इति वा ॥ ३३ ॥

सभायां मयक्लृप्तायां क्वापि धर्मसुतो विराट् ।

वृतोऽनुजैर्बन्धुभिश्च कृष्णेनापि स्वचक्षुषा ॥ ३४ ॥

पदरत्नावली

स्वचक्षुषा स्वदृष्टिभूतेन ॥ ३४,३५ ॥

सत्यधर्मीया

विराजत इति विराट् । अधिराडिति पाठे नाधिः । स्वचक्षुषा तत्समेन । क्वापि कस्मिंश्चित्प्रदेशे कदाचिदिति वा ॥ ३४ ॥

आसीनः काञ्चने साक्षादासने मघवानिव ।

पारमेष्ठ्यश्रिया जुष्टः स्तूयमानश्च बन्दिभिः ॥ ३५ ॥

सत्यधर्मीया

साक्षान्मघवान्कृष्णः स इव । कर्मनिर्णयाद्युदाहृत्य स्कन्धान्तरे विवृत-मस्माभिरवलोकनीयम् । यस्य साक्षान्मघवानर्जुनः यश्च पारमेष्ठ्यश्रिया भाविस्वायम्भुवसम्पदा जुष्टो भीमश्च ताभ्यां पुनर्द्वाभ्यां चेत्यनुजैः साक्षान्मघवानिन्द्र इव । पारमेष्ठ्यश्रियाऽ-मुख्यतया राजसूयफलरूपसम्पदेति वा जुष्टः । बन्दिभिः स्तूयमानः ॥ ३५ ॥

उपास्यमानो विप्रेन्द्रैर्नानादेशसमागतैः ।

दोधूयमानो धवलैर्बालव्यजनसङ्कुलैः ।

रराज राजशार्दूलो दिवि देवपतिर्यथा ॥ ३६ ॥

॥ इति श्रीमद्भागवते दशमस्कन्धे पञ्चाशीतितमोऽध्यायः ॥

पदरत्नावली

वालव्यजनसङ्कुलैश्चामरस्तिमितवायुभिः । दोधूयमानो विज्यमानः ॥३६॥

॥ इति श्रीमद्भागवतटीकायां विजयध्वजतीर्थकृतायां पदरत्नावल्यां

दशमस्कन्धे उत्तरार्धे पञ्चाशीतितमोऽध्यायः (स.धर्म.१०–८५) ॥

सत्यधर्मीया

बालव्यजनानां सङ्कुलानि सङ्घास्तैर्दोधूयमानोऽतिशयेन वीज्यमानः दोधूयमान इति पाठे यङन्तात्कर्मणि शानच् । यङ्लुङन्ततायां (दोधूय्यमान इति भवितव्ये) तु एकयकारकः पाठ इति ज्ञेयम् । दिवि देवपतिर्यथा तथा रराज ॥ ३६ ॥

॥ इति श्रीसत्यधर्मयतिकृतायां भागवतटिप्पण्यां दशमस्कन्ध उत्तरार्धे पञ्चाशीतितमोऽध्यायः ॥