१० चतुरशीतितमोऽध्यायः

एवं युधिष्ठिरो राजा जरासन्धवधं प्रभो

॥ अथ चतुरशीतितमोऽध्यायः ॥

श्रीशुक उवाच—

एवं युधिष्ठिरो राजा जरासन्धवधं प्रभो ।

कृष्णस्य चानुभावं तं श्रुत्वा प्रीतस्तमब्रवीत् ॥ १ ॥

पदरत्नावली

श्रोतृमनोहरं क्षमाजनकं वीरवीर्यवर्धनं हरेः समवृत्तिनिदर्शनं शिशुपालवधं निगदत्यस्मिन्नध्याये । तत्रादौ युधिष्ठिरो भगवन्तं स्तुत्वा तदनुज्ञया राजसूयप्रारम्भणं वक्ति एवमित्यादिना ॥ १ ॥

दुर्घटभावदीपिका

हे प्रभो राजा युधिष्ठिरः । एवं पूर्वोक्तरीत्या जरासन्धवधादिभि-र्व्यक्तं कृष्णस्यानुभावं सामर्थ्यम् । जरासंधवधानुकूलकार्याभिव्यक्तानुभावं च श्रुत्वा प्रीतः सन् तं कृष्णमब्रवीदिति । एतेन जरासंधवधादीत्येतदनन्वितमिति दूषणं परास्तम् । अभिव्यक्तमिति शेषं पूरयित्वाऽन्वयस्योक्तत्वात् । एतेनैव चशब्दो व्यर्थ इति दूषणं परास्तम् । चशब्दस्यानुक्त-समुच्चयार्थत्वमङ्गीकृत्य जरासंधवधानुकूलकार्याभिव्यक्तानुभावं चेत्यर्थस्योक्तत्वात् ॥ १ ॥

सत्यधर्मीया

केशवतो मागधवधं श्रुत्वा धर्मः सद्यः किमकरोदकरोन्न वा सव-मित्यतः श्रेयःसाधनत्वेनेदं तथा शिशुपालसंहारं निगदत्यस्मिन्नध्याये । अत्रैव भ्रातृदिग्विजय-प्रेषणवृत्तमनुसन्धेयम् । जरासन्धवधं श्रुत्वा कृष्णतः, कृष्णस्य चानुभावं भ्रातृभ्यां च श्रुत्वा प्रीतस्तं कृष्णमब्रवीत् ॥ १ ॥

युधिष्ठिर उवाच—

यस्य त्रिलोकगुरवः सर्वलोकमहेश्वराः ।

वहन्ति दुर्लभं लब्ध्वा शिरसैवानुशासनम् ॥ २ ॥

पदरत्नावली

यस्य तव । त्रिलोकगुरवो ब्रह्मादयः ॥ २ ॥

सत्यधर्मीया

यस्य तव त्रिलोकगुरवः । लोकशब्दस्तत्समुदायपरः । ततश्च त्र्यवयवो लोकस्तस्य गुरव इति विग्रहे न समाहारद्विग्वादिप्रसङ्गः । यथोक्तं मनोरमायाम् । दिक्सङ्ख्ये सञ्ज्ञायां नियमार्थमिति । कथं तर्हि त्रिलोकनाथेन सतां मखद्विष इति कालिदासः । त्रिलोकस्यासञ्ज्ञात्वात् । न च समाहारद्विगुः । द्विगोरिति ङीप्प्रसङ्गात् । न च पात्राद्यत्वं कल्प्यम् । यस्य त्रिलोकीगणनापरा स्यादित्यादिप्रयोगविरोधात् । न चोत्तर-पदेति समासः । त्रिपदतत्पुरुषस्येह दुर्लभत्वात् । अत्रोच्यते । लोकशब्दोऽत्र लोक-समुदायपरः । त्र्यवयवो लोकस्त्रिलोकः । शाखपार्थिवादिः । एतच्च द्विगोर्लुगनपत्य इति सूत्रभाष्य एव स्पष्टम् । एतेन नवरसरुचिरामित्यादि व्याख्यातमिति इह कस्मान्न भवति । त्रैविद्यः पञ्चनदः षट्कुल इत्यारभ्य किं तर्हि षण्णां कुलं षट्कुलं षट्कुले भवः षट्कुल इतीत्यन्तं च तत् । लोकानां गुरवो लोकगुरवस्त्रयाणां लोकगुरवस्त्रिलोकगुरव इति वा । सर्वलोकमहेश्वरा ब्रह्मरुद्रेेन्द्रादयो, दुर्लभमनुशासनं तव लब्ध्वाऽहोऽस्मद्भाग्यमित्यनुमान्य शिरसा वहन्ति । न विलम्बमवलम्बन्ते इत्येवकारेणाह । सर्वलोकमहेश्वरश्चासावश्च स भवानित्युत्तरेणान्वयः । यद्वा त्रिलोकस्य गौर्ज्ञानं येन स त्रिलोकगुर्वेदस्तस्य रवो यस्य स्तावकत्वेन स त्रिलोकगुरव इति वा । अन्वयनं तु पूर्ववत् । गोस्त्रियोरुपसर्जनस्येति ह्रस्व इति नार्थतोऽन्यतरातिरेकः ॥ २ ॥

स भवानरविन्दाक्ष दीनानामीशमानिनाम् ।

धत्तेऽनुशासनं भूमंस्तदत्यन्तविडम्बनम् ॥ ३ ॥

पदरत्नावली

ईशमानिनाम् ईश्वरोऽहमहं भोगीत्याद्यभिमानवताम् । दीनानाम् आत्मतत्व-ज्ञानाभावात् कोष्टगत्या कृपणानाम् । अनुशासनं दुर्मार्गप्रवृत्तिपरित्यागेन सन्मार्गप्रवर्तनम्

॥ ३ ॥

दुर्घटभावदीपिका

हे अरविन्दाक्ष भूमन् कृष्ण । स भवान् ईशमानिनां वयमीदृशाः शत्रुसंहारादौ समर्था इति मनोऽभिमानो येषां ते ईशमानिनस्तेषाम् । दीनानामसमर्थानामस्माक-मनुशासनं कार्यं धत्ते करोतीति यत्तदस्मत्कार्यकरणमत्यन्तविडम्बनं दैत्यानामत्यन्तमोहकमिति । एतेन सर्वलोकमहेश्वरा ब्रह्मादयो यथा भगवदाज्ञां शिरसा वहन्ति तथा भगवता धर्मराजाज्ञायाः शिरसा वहनस्याकृतत्वात् सर्वलोकमहेश्वरा ब्रह्मादयो यस्यानुशासनं शिरसा वहन्ति स भवा-नस्माकमनुशासनं धत्त इति कथनमयुक्तमिति चोद्यं पराकृतम् । अस्माकमनुशासनं धत्त इत्यस्यास्माकमाज्ञां शिरसा धत्त इत्यर्थ इत्यनङ्गीकारात् । कृष्णस्य ब्रह्मादिसाम्यं कार्यकर्तृत्वेनैव न त्वाज्ञायाः शिरसा वहनेनेति द्रष्टव्यम् ॥ ३ ॥

सत्यधर्मीया

यदाद्भुत्यज्ञापनायेदमुपन्यस्तं तदिदानीमाह– स इति । हे भूमन् । स भवांश्चतुराननशासनकर्ताऽपि । ईशमानिनां वस्तुतस्त्वनीशानाम् । दीनानामस्माकमनुशासनं कृष्णैवं कुर्वित्यादिकं धत्ते विधत्ते । तत्कार्यकरणेन तत्कारणं ज्ञेयमिति यत्तदत्यन्तविडम्बनम्

॥ ३ ॥

न ह्येकस्याद्वितीयस्य ब्रह्मणः परमात्मनः ।

कर्मभिर्वर्धते तेजो ह्रसते च यथा रवेः ॥ ४ ॥

पदरत्नावली

प्रेक्षावत इव हरेरनुशासनादिप्रवृत्तिः स्वप्रयोजनोद्देशपूर्विकेत्यकृतार्थत्वप्रसङ्ग इति तत्राह– न हीति ॥ तेजः प्रभावलक्षणा प्रभा । कर्मभिः शुभाशुभलक्षणैः । ‘न कर्मणा वर्धते नो कनीयान्’ इति श्रुतेः । एकस्यापि समाधिकसद्भावे तौ किं न स्यातामिति तत्राह– अद्वितीयस्येति ॥ अस्यापि परिच्छिन्नत्वे कथमिति मन्दाशङ्कां परिहरति– ब्रह्मण इति ॥ बहिस्तथाऽस्तु, अन्तः परिच्छिन्न इति तत्राह– परमात्मन इति ॥ आत्मनो जीवात् परत्वेन पूर्णत्वेन मीयमानस्य परमात्मन इत्यर्थः । रवेः प्रभामन्दोष्णत्वादिविशेषः कालोपाधिको न स्वाभाविक इति भवत्येवं निदर्शनम् । हरेस्तूक्तविशेषणसामर्थ्यात् सोऽपि नेत्यवगमयितव्यम्

॥ ४ ॥

सत्यधर्मीया

न कनीयसा कृतेन कर्मणा नीचत्वं तथा महीयसा महीयस्त्वं तवेति व्यतिरेकदृष्टान्तेनाचष्टे– न हीति । एकस्य प्रधानस्याद्वितीयस्य समाधिकशून्यस्य । ब्रह्मणो गुणपूर्णस्य । परमात्मनो विशिष्टचेतनस्य । कर्मभिरुत्तमैस्तेजो न हि वर्धते तथा दूत्यादि-भिर्न ह्रसते च । रवेर्यथा दिवा वर्धते ह्रसते रात्राविति । अथवा कालाद्युपाधिकृतमुत्तेजन-मनुत्तेजनं स्वाभाविकं रवेरिवेत्यन्वयो वा । सर्वं श्रुतिप्रतीकरूपमिति न कृत्यचिन्ता कर्तव्या । न कर्मणा वर्धते नो कनीयानित्यादेः ॥ ४ ॥

न च तेऽजित भक्तानां ममाहमिति माधव ।

त्वं तवेति च नानाधीः पशूनामिव वैकृता ॥ ५ ॥

पदरत्नावली

हरेरद्वितीयत्वं किं पुनर्न्यायेनाह– न चेति ॥ हे अजित माधव लक्ष्मीपते ते तव भक्तानां पुत्रादौ ममेति देहादावहमिति देहान्तरे त्वमिति तदीयक्षेत्रादौ तवेति नानाधी-र्नास्ति । च शब्दः सर्वत्रेश्वरसत्तां पश्यतामित्यस्मिन्नर्थे वर्तते । कीदृशी नानाधीः? यथा पशूनां संस्काररहितानां बुद्धिर्वैकृता विविधप्रकारा । स्वार्थे तद्धितः ॥ ५ ॥

सत्यधर्मीया

हे अजित माधव तव भक्तानां ममाहं त्वं तव इति नानाविधा धीर्देहेऽहमिति पुत्रादौ ममेति तथा परदेहे त्वमिति तदीयदायादौ तवेति नास्ति । तर्हि सा क्वास्तीत्यत आह । पशूनां तत्प्रायाणां यथा प्राकृता । भावे क्ते विकृतं विकृतिस्तस्यैयं वैकृता । णप्रत्ययः । विकारसम्बन्धिनी, विकृतेरियमिति वा, नाना धीर्वर्तते न तथेति । चस्तव तु नास्तीति किं वक्तव्यमिति कैमुत्यसूचकः । माधव निःस्वस्वामिक तेजित-भक्तानां तेजिता उत्तेजिताश्च ते भक्ताश्च तेषाम् । विशेष्ये विशेष्यार्थविशेषानर्पकं सत्तेजित-पदं तद्विशेषणे भक्तौ परमधार्मिक इत्यादाविवोत्तेजितत्वमुद्रिक्तत्वं समर्पयत् सार्थकमिति मन्तव्यम् । अच्छिन्नभक्तिमतामिति यावत् ॥ ५ ॥

इत्युक्त्वा यज्ञिये१ काले वव्रे युक्तान् स ऋत्विजः ।

कृष्णानुमोदितः पार्थो ब्राह्मणान् ब्रह्मवादिनः ॥ ६ ॥

पदरत्नावली

याज्ञिये यज्ञकरणयोग्ये । युक्तान् कल्पोक्तन्यायवेदिनः ॥ ६ ॥

सत्यधर्मीया

यज्ञिये यज्ञोचिते काले । कार्तिके जरासन्धवधस्तदनन्तरं दिग्विजय-स्तदुपरितने काले माघादिपञ्चकैकतमे ।

‘कार्तिकस्य तु मासस्य प्रवृत्तं प्रथमेऽहनि ।

चतुर्दश्यां निशायां वै निवृत्तो मागध… ॥’ इत्यादिना सभापर्वोक्तेः ।

यज्ञर्त्विग्भ्यां घखञाविति तत्कर्मार्हतीत्यर्थे घे तस्येयादेशे यज्ञियमिति भवति । तत्कर्मार्हं तु यज्ञियमित्यमरः । याज्ञिय इति पाठे पुनः स्वार्थेऽण्प्रत्ययः । युक्तान्योग्यान्यान्ब्रह्मवादिनो ब्राह्मणान्कृष्णानुमोदितो वव्रे सङ्कल्पपूर्वकमवृणोत् ॥ ६ ॥

द्वैपायनो भरद्वाजः सुमन्तुर्गौतमोऽसितः ।

वसिष्ठश्च्यवनः कण्वो मैत्रेयः कवषस्त्रितः ॥ ७ ॥

विश्वामित्रो वामदेवः सुमतिर्जैमिनिः क्रतुः ।

पैलः पराशरो गर्गो वैशम्पायन एव च ॥ ८ ॥

दुर्घटभावदीपिका

वैशम्पायन एव चेत्यस्य यः पुराणादौ प्रसिद्धः स एव वैशम्पायन इत्यर्थः । एतेनैवशब्दो व्यर्थ इति दूषणं पराकृतम् । अप्रसिद्धवैशम्पायनव्यावृत्त्यर्थं यः पुराणादौ प्रसिद्धः स इति पदानां शेषेण यः पुराणादौ प्रसिद्धः स एव वैशम्पायन इति वक्तुमेवशब्दः प्रयुक्त इति स्वीकरणात् ॥ ८ ॥

सत्यधर्मीया

तन्नामानि वर्णयतामाकर्णयतां चाशुभहराणीति कीर्तयति– द्वैपायन इति । वामदेवपदोत्तरं वा भरद्वाजपदोत्तरं वा सुमन्तुरिति सुमतिरिति यथायथं पठनीयम्

॥ ७,८ ॥

अथर्वा काश्यपो धौम्यो रामो भार्गव आसुरिः ।

वीतिहोत्रो मधुच्छन्दा वीरसेनोऽकृतव्रणः ॥ ९ ॥

सत्यधर्मीया

भार्गवः परशुरामः । दाशरथिरामव्यावृत्तये भार्गव इति । ‘रामो भार्गवेय’ इति बह्वृचब्राह्मणम् । आसुरिः सन् । अकृतव्रणपर्यन्तानेतानृत्विगादित्वेन वव्रे ॥ ९ ॥

उपहूतास्तथा चान्ये द्रोणभीष्मकृपादयः ।

धृतराष्ट्रः सहसुतो विदुरश्च महामतिः ॥ १० ॥

पदरत्नावली

उपाहूता मुनयो तथाऽन्ये अनुपाहूता अपि तत्राजग्मुः । तत्र द्रोणादयोऽ-प्युपाहूताः ॥ १० ॥

सत्यधर्मीया

उपहूता इति ॥ परिचितचरविवक्षयोक्तिः । अन्येऽनुपहूता मुनयश्च । सहसुतः सुतैः सहितः ॥ १० ॥

ब्राह्मणाः क्षत्रिया वैश्याः शूद्रा यज्ञदिदृक्षवः ।

तत्रेयुः सर्वराजानो राज्ञां प्रकृतयो नृप ॥ ११ ॥

सत्यधर्मीया

यज्ञं दिदृक्षवो यज्ञदिदृक्षवः । न लोकेति निषेधात् । सर्वराजानस्तथा राज्ञां प्रकृतयश्चेयुराजग्मुः । तत्तद्दिग्विजये तेषां तत्तद्राजत्वमवबुद्धम् । धर्मस्तु सर्ववर्य इति सर्वे पञ्चापि राजानश्चेति, सर्वे च ते राजानश्च, सर्वराजा नोऽस्माकमितीयुरिति वा ॥११॥

ततस्तद् देवयजनं ब्राह्मणाः स्वर्णलाङ्गलैः ।

कृष्ट्वा तत्र यथान्यायं दीक्षयाञ्चक्रिरे नृपम् ॥ १२ ॥

पदरत्नावली

यत्र यज्ञकरणमभीष्टतमं तद् देवयजनं स्वर्णलाङ्गलैः सुवर्णमयहलैः कृष्ट्वोल्लिख्य संशोध्य शालां कृत्वा तत्र यथान्यायं नृपं दीक्षयाञ्चक्रुरित्यन्वयः ॥ १२ ॥

सत्यधर्मीया

स्वर्णलाङ्गलैर्हेमहलैः । देवानां यजनं यजेति तत्स्थलात्कृष्ट्वा कर्षणेन वसुधां संशोध्य यथान्यायं वेद्याद्यान्कृत्वा तत्र नृपं दीक्षयाञ्चक्रिरे दीक्षासंस्कृतं चक्रुः ॥१२॥

हैमः किलोपकरणो वरुणस्य यथा पुरा ।

इन्द्रादयो लोकपाला विरिञ्चभवसंयुताः ॥ १३ ॥

पदरत्नावली

वरुणस्य यज्ञे । वरुणमनूक्तं समाहृत्य तात्पर्यात् पुनरुक्तं करोति– इन्द्रादय इति ॥ १३ ॥

सत्यधर्मीया

यथा वरुणस्य हैमो हेममयः । उपक्रियतेऽनेनेत्युपकरणस्तथाऽभूदिति शेषः । विरिञ्चभवाभ्यां संयुता इति ते । तथेन्द्रादयो लोकपालाः ॥ १३ ॥

सगणाः सिद्धगन्धर्वा विद्याधरमहोरगाः ।

मुनयो यक्षरक्षांसि खगाः किन्नरचारणाः ॥ १४ ॥

सत्यधर्मीया

सगणाः सिद्धगन्धर्वाः ॥ १४ ॥

राजानश्च समाहूता राजपत्न्यश्च सर्वशः ।

राजसूयं समीयुः स्म राज्ञः पाण्डुसुतस्य वै ॥ १५ ॥

सत्यधर्मीया

सर्वशः समाहूता इत्यविशेषेण करणं सूचयति ॥ १५ ॥

मेनिरे कृष्णभक्तस्य सूपपन्नमविस्मिताः ।

अयाजयन् महाराज याजका देववर्चसः ॥ १६ ॥

राजसूयेन विधिवत् प्रचेतसमिवामराः ।

सूत्ये१ऽहन्यवनीपालो२ याजकान् सदसस्पतीन् ॥ १७ ॥

अपूजयन् महाभागान् यथावत् सुसमाहितः ।

सदस्याग्रार्हणार्हं वै विमृशन्तः सभासदः ॥ १८ ॥

नाध्यगच्छन्ननैकान्त्यात् सहदेवस्तदाऽब्रवीत् ।

अर्हति ह्यच्युतः श्रैष्ठ्यं भगवान् सात्वतां पतिः ॥ १९ ॥

पदरत्नावली

प्रेचेतसं वरुणम् । सूत्ये सोमाभिषवसम्बन्धिन्यहनि, पशुसंज्ञपनदिवसे वा । अग्रार्हणार्हम् अग्रपूजास्वीकारयोग्यं विमृशन्तो विचारयन्तः । अनैकान्त्यान्नानाबुद्धित्वात्, सर्वेषां गुणानामेकत्वानियमाद्वा । अच्युतः गुणतः स्वरूपतो वा नक्षीणः । श्रैष्ट्यं गुणज्येष्ठयोग्याग्रपूजनम् । ‘गुणाः श्रुताः सुविरुद्धाश्च देवे सन्ति’ इत्यादिश्रुतिवाक्यं हिना सूचयति । सात्वतास्तन्त्रप्रणेतारः, एतेषां पतिः स्वामी गतिश्च । इदं चाग्रपूजायोग्यत्वे लिङ्गम्

॥ १७–१९ ॥

सत्यधर्मीया

कृष्णभक्तस्येदं सूपपन्नमित्यविस्मिताः । यस्य कृष्णः कारिता तस्येदं नाद्भुतमिति विस्मयहीनाः । देववर्चसो याजका भरद्वाजादयः प्रचेतसं वरुणममरा इवा-याजयन् । सूत्येऽहनि सोमाभिषवणदिने । सुत्या सञ्ज्ञायामिति क्यप् । साऽस्यास्तीति सूत्यम् । सौत्य इति पाठो क्वचिद्दृश्यते । स च दृश्यः । सदसस्पतीन्याजकांश्च यथावत्त-त्तद्योग्यतामनतिक्रम्यापूजयन् । सत्सु महेन्द्रदिषूत्तमेषु किं वरुणवरणं निदर्शन इति चेत् । अश्रान्तमालोच्य श्रान्तोऽसि । हेम्नः समुद्रजत्वात्प्राय इतरेषां ततस्तदाप्तिरिति तदधिपतिग्रह उचित इत्यवेहि । हैमः किलोपकरणो वरुणस्येत्युक्तेः । सूपपन्नं सुयुक्तं सूपा द्विदलविकृताः पदार्थाः पन्नाः सम्पन्नाः पूर्णाः पतिता यथेच्छं यत्र तं मेनिर इति वा । सभासदः सदस्याग्रार्हणार्हं प्रथमतः पूजनीयं विमृशन्तोऽपि नाध्यगच्छन् अयमिति न निर्णयं जग्मुः । तत्र तन्त्रमनैकान्त्यादिति । बह्व्यो बुद्धयो मतभेदादिति मत्यनवस्थितेः । यद्वा बहूनां महतां समूहमिदमित्थमित्यङ्गुलिनिर्देशासम्भवमूलकादनैकान्त्यात् । यदा तदा सहदेवोऽब्रवीत् । सात्वन्तः सात्वततन्त्रप्रणेतारस्तेषां पतिर्यादवानां वाऽच्युतो गुणतः क्षणतो देशतश्च्युति-प्रच्युतो भगवान् श्रैष्ठ्यं तत्प्रयोजकाग्रपूजामर्हति नाच्युतत्वाद्धिः प्रसिद्धतां सूचयति

॥ १६–१९ ॥

एष वै देवताः सर्वा देशकालधनादयः ।

यदात्मकमिदं विश्वं क्रतवश्च यदात्मकाः ॥ २० ॥

पदरत्नावली

‘इन्द्रो वै सर्वेषां श्रेष्ठः’ ‘अग्निर्वै देवानां मुखम्’ इत्यादेरिन्द्रादिषु सत्स्वस्य कथं सम्भवो भवतीति तत्राह– एष वा इति ॥ यो देवानामिति श्रुतिं वा इत्यनेन गृह्णाति । अचेतनमपि तदधीनसत्ताकमित्याह– देशेति ॥ किं बहुना? सर्वमपि तद्व्याप्तमित्याह– यदात्मकमिति ॥ तात्पर्यात् पुनरुक्तं करोति– क्रतव इति ॥ २० ॥

सत्यधर्मीया

‘इन्द्रो वै सर्वेषां श्रेष्ठः’ । ‘एको रुद्रो न द्वितीयाय तस्थे’ । ‘ब्रह्मा देवानां प्रथमः सम्बभूव’ । ‘अगि्नर्वै देवानां मुखम्’ इत्यादाविन्द्रादीनां श्रैष्ठ्यं प्रतीयते । तत्कथं कथयसि कृष्णश्रैष्ठ्यमित्यतस्तत्तन्नामाऽयमेवेति मनसि कृत्वा समाधत्ते– एष इति । एषः सर्वदेवतास्तत्तच्छब्दवाच्योऽयमेवेत्यर्थः । सर्वं तदधीनमित्याह– देशेति । ‘द्रव्यं कर्म च’ इत्यादिकं वैशब्देन कटाक्षयति । इदं विश्वं यदात्मकं यत्स्वामिकं यदर्थमियं क्रिया । सोऽपि यत्स्वामिक इत्याह– क्रतव इति । यदात्मका यत्स्वामिका वराहादिरूपिणो यस्या-त्मानस्तनव इति । यज्ञतनुर्वराह इत्यादेः ॥ २० ॥

अग्निराहुतयो मन्त्राः साङ्ख्यं योगश्च यत्परः ।

एक एवाद्वितीयोऽसावैतदात्म्यमिदं जगत् ॥ २१ ॥

पदरत्नावली

साङ्ख्यं यथार्थज्ञानम् । योगः कर्मलक्षणः। यः परो विषयो यस्य स तथा । उपसंहरति– एक इति ॥ एतदात्माधीनम् ॥ २१ ॥

सत्यधर्मीया

आदिपदग्राह्यं किञ्चिद्विविच्याह– अग्निराहुतय इति । शुद्धात्मतत्त्व-विज्ञानं साङ्ख्यं योगोऽपि समाध्यादिः कर्म वा । यत्पर इत्यग्न्यादियोग्यान्वयि । ऐतदात्म्यं ष्यञ् स्वार्थे ॥ २१ ॥

आत्मनाऽऽत्माश्रयः सभ्याः सृजत्यवति हन्त्यजः ।

विविधानीह कर्माणि जनयन् ह्यनपेक्षया ॥ २२ ॥

पदरत्नावली

हे सभ्याः । ऐतदात्म्यविवरणम्– आत्मनेति ॥ उक्तार्थसमर्थनम्– सृजतीत्यादि ॥ २२ ॥

सत्यधर्मीया

एवमनैकान्त्य एकान्तोक्तिं कः शृृणोति करोति वेत्यत आह ॥ हे सभ्या इति । ऐतदात्म्यमिदं रूपमित्याह– आत्मनाऽऽत्माश्रय इति । स्वयं स्वस्याश्रयः स्वयमेवात्मनां जीवानामाश्रय इति वा । उक्तार्थसर्वस्वसम्भावनामुन्मूलयितुमाह । अज उत्पत्तिरहितोऽनपेक्षया विना फलापेक्षां विविधानि कर्माणि जनयन्सृजत्यवति हन्ति उत्पादयति पालयति संहरतीति ॥ २२ ॥

ईहते यदयं सर्वं श्रेयो धर्मादिलक्षणम् ।

तस्मात् कृष्णाय महते दीयतां परमार्हणम् ॥ २३ ॥

पदरत्नावली

फलहेतुत्वाच्चायमेवात्र योग्यतम इत्याह– यदयमिति ॥ २३ ॥

सत्यधर्मीया

यद्यतोऽयं धर्मादिलक्षणं चिन्हं यस्य तच्छ्रेय ईहते दातुमिच्छति । दाता फलस्यायमेव तस्मात् । महते मदुपपादितप्रकारेण महात्मने । कृष्णाय परमार्हण-मग्रपूजा दीयताम् । विविधानि कर्माणि यदपेक्षया निरीक्ष्य जनयन्कुर्वन् अयं धर्मादिलक्षणं श्रेयस्तदर्थमीहते यदुद्देश्येन तस्मात्तस्मै दीयतामिति वा ॥ २३ ॥

एवं चेत् सर्वभूतानामात्मनश्चार्हणं भवेत् ।

सर्वभूतात्मभूताय कृष्णायानन्यदर्शिने ॥ २४ ॥

देयं शान्ताय पूर्णाय दत्तस्यानन्त्यमिच्छता ॥ २५ ॥

पदरत्नावली

एतत्तृप्तौ सर्वं तृप्तं स्यादिति भावेनाह– एवं चेति ॥ स्वस्मादन्यस्य स्वातन्त्र्यं न पश्यतीत्यनन्यदर्शी । तस्मै ॥ २४ ॥

सत्यधर्मीया

निगमयति– एवञ्चेदिति । एतत्तृप्तौ सर्वतृप्तिरिति सर्वभूतानां तथाऽऽत्म-नश्चार्हणं मान्यता लोके भवेत् । सर्वभूतात्मभूतायानन्यदर्शिने स्वभिन्नस्वातन्त्र्यादिकं न पश्यतीति तस्मै । इदानीं बह्वालोचनेऽपि स्वव्यतिरिक्तमर्हणीयं दर्शयितुं शीलमस्यास्तीत्य-न्यदर्शी स न भवतीत्यात्मानमेव दर्शयतीति यावत् तस्मै । दत्तस्यानन्त्यमिच्छता पुंसा शान्ताय सर्वसुखनिर्णायकाय पूर्णायैतदूनादानकृतमहत्त्वामहत्त्वहीनाय स्वतः पूर्णाय । न केवलमिदानीमेवायं दानपात्रं किन्तु सन्ततमिति द्योतयति पारोक्षोक्त्येति ज्ञेयम् ॥ २४,२५ ॥

श्रीशुक उवाच—

इत्युक्त्वा सहदेवोऽभूत् तूष्णीं कृष्णानुभाववित् ।

तच्छ्रुत्वा तुष्टुवुः सर्वे साधु साध्विति सत्तमाः ॥ २६ ॥

पदरत्नावली

देवैः सह वर्तत इति सहदेवो देवव्रतोऽपि ग्राह्यः । भारते तद्वचना-दग्रपूजादानाद्युक्तेः ॥ सत्तमा सतां श्रेष्ठाः ॥ २६ ॥

सत्यधर्मीया

सहदेव इत्युक्त्वा तूष्णीमभूत् । युक्तियुक्तं वचो ग्राह्यं बालादपीति सन्तो वसन्तस्तत्र सर्वमन्वमोदन्तेत्याह– तदिति । ननु भारते, ‘कस्मै भवान्मन्यते धर्मस्तस्मै कुरुनन्दन । उपनीयमानं युक्तं च तन्मे ब्रूहि पितामह ॥’ इत्यारभ्य ‘सदा हि न’ इत्यन्तग्रन्थेन भीष्मोक्त्यवगमात्सहदेवमात्रोक्तिरत्र । तथा–

‘जानमानोऽपि नृपतिः सर्वपूज्यतमं हरिम् ।

संशयं भूभृतां भेत्तुं भीष्मं प्रपच्छ धर्मवित् ।’

इत्यारभ्य ‘सन्ति राजान एव चेति धर्मपृष्टः ।’ इति पृष्टोऽब्रवीद्भीष्मः कृष्णं पूज्यतमं हरिमित्याचार्योक्तेश्च कथमिति चेत्सत्यम् । प्रथमवक्ता देवव्रतः सहदेवं प्रति सहदेवस्तु सभ्यान्प्रति वक्तेति वचनशाबल्येनार्थः सम्भावित इत्यनुक्ती सम्भवतः । उक्तं च तत्रैव भारते – ‘तस्मै भीष्माभ्यनुज्ञातः सहदेव’ इति । अत्र देवव्रतस्तत्र सहदेवश्च ग्राह्याविति न विरोधः। न च बादरायणे जामदग्न्ये च सति मूलपुरुषे गुरौ च साम्ये च भगवत्त्वेन कृष्णमेवायमपि किमित्यु-वाचेति वाच्यम् । देव एव देवव्रतं भाविकार्यविवक्षयाऽत्रैरयत्तथेश्वरः । न च तयोरपि कृतेऽग्रपूजने तत्सम्पद्येतेति वाच्यम् । विप्रत्वात्तयोः पूज्यता विहितैवेति न कलहः स्यात् । न स स्याच्चेच्छिशुपालसङ्कलनं न स्यात् । अतोऽवतारो यदर्थस्तदनिष्पत्तिरिति । अतोऽप्यवदन्नाचार्यः ।

‘यद्यप्येकस्त्रिधा विष्णुर्वसिष्ठभृगुवृष्णिषु ।

प्रादुर्भूतस्तथाऽप्येनं नृपा हि व्यासरामयोः ।

विप्रत्वान्न विरुद्ध्यन्ते तत एव हि युक्तताम् ।

मन्यन्ते न विरोधश्च तेषां तत्र हि तादृशः ।

अविवादे प्रसिद्धिश्च नैवास्य भवति क्वचित् ।

तस्मात् कृष्णाय दातव्यमिति भीष्मेण चिन्तितम् ।

कृष्णस्य दत्ते राजानो विवादं कुर्युरञ्जसा ।

विवादेन च कीर्तिः स्याद्वासुदेवस्य विस्तृता ।

ततः कृष्णायाग्रपूजा या दत्ता पार्थैर्जगत्पुरः ।

व्यासभार्गवयोः साक्षात्तदैक्यात्तदनन्तरम् ॥’ इति ।

सत्तमाः साधुश्रेष्ठाः साधु साध्विति तुष्टुवुः । कनीयानप्ययं महीयानिति स्तुतिं चक्रुः

॥ २६ ॥

श्रुत्वाऽनुजेरितं राजा ज्ञात्वा हार्दं सभासदाम् ।

समर्हयद् हृषीकेशं प्रीतः प्रणयविह्वलः ॥ २७ ॥

दुर्घटभावदीपिका

प्रणतश्चासौ विह्वलो भयग्रस्तश्च प्रणतविह्वल इत्यर्थः । एतेन प्रणतविह्वल इत्येतव्द्यर्थमिति दूषणस्यानवकाशः । धर्मराजस्यातिशयितकृष्णपरिचये विद्यमानेऽपि पूजाकाले तेजोविशेषं दृष्ट्वा भयग्रस्तः सन्नम्रो जात इति वक्तुं प्रणतविह्वल इत्यङ्गीकारात्

॥ २७ ॥

सत्यधर्मीया

अनुजेन सहदेवेनेरितं सभासदां च हार्दं प्रीतः प्रणयविह्वलो हृषीकेशं समर्हयत्समार्हयत् ॥ २७ ॥

तत्पादाववनिज्यापः शिरसा लोकपावनीः ।

सभार्यः सानुजामात्यः सकुटुम्बोऽवहन्मुदा ॥ २८ ॥

सत्यधर्मीया

तत्पादाववनिज्यापो लोकपावनीः शिरसा सभार्यः सभास्वामी । ‘अर्यः स्वामिवैश्ययोः’ इति स्मरणात् । सकुटुम्बः कुटुम्बसहितो दीक्षितत्वेन सहभार्य इति । भार्यायाः कुटुम्बात्पृथक्कृत्योक्तिरिति वा । अवहद्दधार ॥ २८ ॥

वासोभिः पीतकौशेयैर्भूषणैश्च महाधनैः ।

अर्हयित्वाऽश्रुपूर्णाक्षो नाशकत् समवेक्षितुम् ॥ २९ ॥

दुर्घटभावदीपिका

पात्रविदां श्रेष्ठाः सर्वे सदसस्पतयो यूयम् । यद्येन भाषणेनार्हणेऽग्र-पूजाविषये कृष्णो भवतां सम्मतो जातस्तद्बालस्य सहदेवस्य भाषितं भाषणयुक्तमिति मा मङ्ध्वं न जानीध्वमिति ॥ २९ ॥

सत्यधर्मीया

पीतकौशेयैर्वासोभिर्महाधनैरतुल्यमौल्यैर्भूषणैरर्हयित्वा सम्पूज्याश्रुपूर्णा-क्षस्तं समवेक्षितुं नाशकन्न शशाक ॥ २९ ॥

इत्थं सभाजितं वीक्ष्य सर्वे प्राञ्जलयो जनाः ।

नमो जयेति नेमुस्तं खात् पेतुः पुष्पवृष्टयः ॥ ३० ॥

सत्यधर्मीया

तं कृष्णं जयेत्युक्त्वा नेमुः । खात्पुष्पवृष्टयः पेतुः ॥ ३० ॥

इत्थं निशम्य दमघोषसुतः स्वपीठादुत्थाय कृष्णगुणवर्णनजातमन्युः ।

उत्क्षिप्य बाहुमिदमाह सदस्यमर्षात् संश्रावयन् भगवते परुषाण्यभीतः ॥ ३१ ॥

सत्यधर्मीया

दमघोषसुतः शिशुपालः । कृष्णगुणवर्णनेनोत्पन्नकोपो भगवतेऽमर्षात्परुषाणि संश्रावयन् । अभीतो बाहुमुत्क्षिप्य सदसीदमाह ॥ ३१ ॥

ईशो दुरत्ययः काल इति सत्यवती श्रुतिः ।

वृद्धानामपि यद् बुद्धिर्बालवाक्यैर्विभिद्यते ॥ ३२ ॥

पदरत्नावली

‘ईशः कालो दुरत्ययः’ इति श्रुतिः सत्यवती अबाधितार्था । तदुप-पादयति– वृद्धानामिति ॥ ३२ ॥

सत्यधर्मीया

‘ईशः कालः दुरत्ययः’ इति श्रुतिः सत्यवती सत्यभूता । गतेरर्थ-वत्त्वमिति यथा । किं तद्याथार्थ्यं पश्यसीत्यत आह– वृद्धानामपीति । बालवाक्यैर्वृद्धानां ज्ञानेन वयसा च बुद्धिर्विभिद्यते भिन्ना भवत्यतः कालो बलीयान्कालो बलीयानिति साधुवाद इत्यादेः । सर्वेषां मौढ्यमेकदैवायातमिति भावः ॥ ३२ ॥

यूयं पात्रविदां श्रेष्ठा मा मङ्ध्वं बालभाषितम् ।

सदसस्पतयः सर्वे कृष्णो यत् सम्मतोऽर्हणे ॥ ३३ ॥

पदरत्नावली

मा मन्ध्वं हे सर्वे सदसस्पतयः । किं बालभाषितम्? तत्राह– कृष्ण इति ॥ ३३ ॥

सत्यधर्मीया

हे सदसस्पतयः पात्रविदां श्रेष्ठा यूयं सर्वे बालभाषितं सहदेवभाषितं मा मङ्ध्वं न जानीत न तथा कुरुत । किं तदित्यत आह– यत्सम्मतोऽर्हण इति । कृष्णोऽर्हणे सम्मत इति यत्तन्मा मङ्ध्वम् ॥ ३३ ॥

तपोविद्याव्रतधरान् ज्ञानविध्वस्तकल्मषान् ।

परमर्षीन् ब्रह्मनिष्ठान् लोकपालांश्च पूजितान् ॥ ३४ ॥

सत्यधर्मीया

तर्हि त्वमर्हितं वद भवत्ययं गर्हित इत्यतो नान्यत्र विचार्या अत्रैवार्या वर्तन्ते तानतिहायायं वृत इत्यभिधत्ते– तप इति । तपोविद्याव्रतानां धरतीति धरस्तान् । ज्ञानविध्वस्तपापान्ब्रह्मनिष्ठान्परमर्षीन्व्यासादींल्लोकपालान्महेन्द्रादीन् । नैतेऽपि तादृशा इत्यत आह– पूजितानिति । उभयान्वयीदम् ॥ ३४ ॥

सदसस्पतीनतिव्रज्य गोपोऽयं कुलपांसनः ।

यथा काकः पुरोडाशं सपर्यां कथमर्हति ॥ ३५ ॥

पदरत्नावली

अतिव्रज्यातिक्रम्य । कुलकर्मणि एते इत्याह– गोप इति ॥ ३५ ॥

सत्यधर्मीया

सदसस्पतींश्चातिव्रज्यातिक्रम्य । कुलपांसनः कुलधूलीकारकः । काकः पुरोडाशम् । ‘पुरोडाशो हविर्भेद’ इति विश्वः । पुरो दाश्यत इति पुरोडाशः । दाशृ दाने कर्मणि घञ् । पौराडाशपुरोडाशात्ष्ट्रन् इति निपातनाद्दस्य डत्वम् । यथा नार्हति तथाऽयं सपर्यामग्रपूजां कथमर्हति । श्रद्धाजाड्यकृतो काकः । कं चाकं च दुःखं च न विद्यते यस्येत्याद्यर्थः प्रकृताननुगुण इति न प्रदर्शितोऽस्माभिः प्रत्युत विरुद्धश्च ।

‘एवमुक्त्वा ततः कृष्णमब्रवीद्यदुनन्दनम् ।

शिशुपालस्यापराधान् क्षमेथास्त्वं महाबल ।

मत्कृते यदुशार्दूल विद्ध्येनं मे वरं प्रभो ।

श्रीकृष्णः–

‘अपराधशतं क्षाम्यं मया ह्यस्य पितृष्वसुः ।

पुत्रस्य ते वधार्हस्य मा त्वं शोके मनः कृथाः ॥’ इति सभापर्वोक्तेः ।

तथा स्थानान्तरे–

‘शृृण्वन्तु मे महीपाला येनैतत्क्षमितं मया ।

अपराधशतं क्षाम्यं मातुरस्यैव याचने ।

दत्तं मया याचितं च तद्वै पूर्णं च पार्थिवाः ।

अधुना मारयिष्यामि पश्यतां वो महीक्षिताम् ॥’

इत्यादेश्च दोषाविष्कारः । एवं तात्पर्यं चेदपराधस्तत्सहनं च सम्भवतः । सदभिप्रायस्तु क्व नामातीवदुर्वच इति ॥ ३५ ॥

वर्णाश्रमकुलापेतः सर्वधर्मबहिष्कृतः ।

स्वैरवर्ती गुणैर्हीनः सपर्यां कथमर्हति ॥ ३६ ॥

पदरत्नावली

एतदेव विवृणोति– वर्णेति ॥ ३६ ॥

सत्यधर्मीया

नन्दनन्दनं पुनःपुनर्निन्दति– वर्णेति । तदपेतत्त्वं तद्विहितधर्मा-ननुष्ठानत इति ज्ञेयम् । स्वैरवर्ती स्वेच्छाचारी गुणैर्हीनः ॥ ३६ ॥

ययातिनैषां हि कुलं शप्तं सद्भिर्विगर्हितम् ।

वृथा पानरतं मत्तं सपर्यां कथमर्हति ॥ ३७ ॥

पदरत्नावली

यदोर्वंशे जातत्वात् कथं कुलाभाव इति तत्राह– ययातिनेति ॥३७॥

सत्यधर्मीया

येषां कुलं ययातिना शप्तं जराया अग्रहणाग्रहतः । न केवलं शप्तं किन्तु सद्भिश्च विगर्हितम् । वृथा पानरतम् । यागविशेषे सुरापानमपि विहितं नेदं तथेति वृथेत्यनेन द्योतयति । कुलं, सपर्यां कथमर्हति ॥ ३७ ॥

ब्रह्मर्षिसेवितान् देशान् हित्वैतेऽब्रह्मवर्चसः ।

समुद्रं दुर्गमाश्रित्य बाधन्ते दस्यवः प्रजाः ॥ ३८ ॥

पदरत्नावली

अब्रह्मवर्चसः गायत्रीजपसम्बन्धतेजोरहिताः । ब्रह्म वेदस्तत्सम्बन्ध-वर्चोयुक्तान् देशान् वा । समुद्रमित्यादिना दाशसाम्यमापादयति ॥ ३८ ॥

सत्यधर्मीया

ब्रह्मर्षिसेवितान्देशान्हित्वा त्यक्त्वाऽब्रह्मवर्चसो ब्रह्म च वेदश्च वर्चः सत्कान्तिश्च न विद्येते येषां ते तथा । अतो ब्रह्मास्तीत्यच्प्रसङ्गः । समुद्रं दुर्गं तद्रूप-माश्रित्य दस्यवश्चोरा यथेति लुप्तोपमा । प्रजा बाधन्तेऽत एव दस्यव इति वा ॥ ३८ ॥

एवमादीन्यभद्राणि बभाषे नष्टमङ्गलः ।

नोवाच किञ्चिद् भगवान् यथा सिंहः शिवारुतम् ॥ ३९ ॥

पदरत्नावली

शिवारुतं सृगालशब्दितम् ॥ ३९ ॥

सत्यधर्मीया

नष्टं मङ्गलं यस्य सः । भगवान्, सिंहः शिवारुतं श्रुत्वा न नादं करोति किन्तु घातयत्येव तथा किञ्चिन्नोवाच । शिवाश्च शृृगालयोषितः । अनेन न तत्रापि पुंरुतं किन्तु स्त्रीरुतमित्यलक्ष्यता ध्वन्यते । स्वरे च विशेषः । यथोक्तम् । ‘शृृगालाश्चापि टङ्कारैः प्रणेदुरशिवः शिवा’ इति तात्पर्ये । ‘स्वरस्तत्र शृृगालानां शिवानां चान्यथा स्वर’ इत्याग्नेये इत्युक्तेः ॥ ३९ ॥

भगवन्निन्दनं श्रुत्वा दुःसहं तत्सभासदः ।

कर्णौ पिधाय निर्जग्मुः शपन्तश्चेदिपं रुषा ॥ ४० ॥

सत्यधर्मीया

तत्सभासदोऽशक्ताश्चेदपि रुषा मनसि शपन्तः कर्णौ पिधाय निर्जग्मुः

॥ ४० ॥

निन्दां भगवतः शृण्वन् तत्परस्य जनस्य च ।

ततो नापैति यः सोऽपि यात्यधः सुकृताच्च्युतः ॥ ४१ ॥

पदरत्नावली

कुतो निर्गमनमिति तत्राह– निन्दामिति ॥ ४१ ॥

सत्यधर्मीया

अशक्तश्चेदपि न ततो गतवांश्चेतसाऽपि पापमात्रमिति गमनं विहित-मित्यत्र दण्डं प्रदर्श्याह– निन्दामिति । भगवतो निन्दां तथा तत्परस्य तदासक्तस्य तद्भृत्यजनस्य निन्दां शृृण्वन् ततस्तत्स्थलाद्यो नापैति नापगच्छति सोऽपि निन्दाकर्तृवत् सुकृताच्च्युतः सन्नधो याति । ततोऽधिकमिव व्यक्तं यान्ति तेषामनिन्दका इतिवत् ॥४१॥

ततः पाण्डुसुताः क्रुद्धा मत्स्यकैकेयसृञ्जयाः ।

उदायुधाः समुत्तस्थुः शिशुपालजिघांसवः ॥ ४२ ॥

सत्यधर्मीया

शिशुपालं जिघांसवः । न लोकेति षष्ठीप्रतिषेधात् ॥ ४२ ॥

ततश्चैद्यस्त्वसम्भ्रान्तो जगृहे खड्गचर्मणी ।

भर्त्सयन् कृष्णपक्षीयान् राज्ञः सदसि भारत ॥ ४३ ॥

सत्यधर्मीया

कृष्णपक्षहितकारिणः । पक्षे भवान्वा । राज्ञो नृपान् । राज्ञो धर्मराजस्य सदसीति वा ॥ ४३ ॥

तावदुत्थाय भगवांस्तान् निवार्य स्वयं रुषा ।

शिरः क्षुरान्तचक्रेण जहारापततो रिपोः ॥ ४४ ॥

पदरत्नावली

स्ववचनं सत्यं कर्तुं तावत् ततः पूर्वमेव कृष्णः क्षुरान्तचक्रेण क्षुरधार-सुदर्शनेन रिपोः शिरो जहारेत्यन्वयः ॥ ४४ ॥

सत्यधर्मीया

तावत्तन्मध्य एव तानुदायुधान्राज्ञो निवार्य स्वयं रुषा तदीयया निमित्तेन । आपततो रिपोः शिरः क्षुरान्तवद्विद्यमानारोपितेन चक्रेण जहार । ‘मयैव वध्यौ भवतं त्रिजन्मसु’ इत्याद्युक्तवचनं सत्यं कर्तंु तान्निवारितवानिति ज्ञेयम् ॥ ४४ ॥

शब्दः कोलाहलोऽथासी१च्छिशुपाले हते महान् ।

तत्राततायिनो भूपा दुद्रुवुर्जीवितैषिणः ॥ ४५ ॥

सत्यधर्मीया

तत्राततायिनः शिशुपालानुकूलाः । जीवितैषिण इति द्रवणकारणेरणम्

॥ ४५ ॥

चैद्यदेहोत्थितं ज्योतिर्वासुदेवमुपाविशत् ।

पश्यतां सर्वभूतानामुल्केन भुवि खाच्च्युता ॥ ४६ ॥

पदरत्नावली

ज्योतिर्जयचैतन्यात्मकम् । खादाकाशाच्च्युतोल्का भुवीव ॥ ४६ ॥

सत्यधर्मीया

खादाकाशाच्च्युतोल्का भुवि प्रविशति तथा चैैद्यस्थितं ज्योतिर्जयाह्वयं वासुदेवमुपाविशत् । सर्वप्रत्यक्षसिद्धमिदमित्याह– पश्यतां सर्वभूतानामिति । सभापर्र्वणि च–

‘ततश्चेदिपतेर्देहात्तेजोऽग्य्रं ददृशुर्नृपाः ।

उत्पतन्तं महाराज गगनादिव भास्करम् ।

ततः कमलपत्राक्षं कृष्णं लोकनमस्कृतम् ।

ववन्दे तत्तदा तेजो विवेश च नराधिप ॥’ इत्यादि ॥ ४६ ॥

जन्मत्रयानुगुणितवैरसंरब्धया धिया ।

ध्यायंस्तन्मयतां यातो भावो हि भवकारणम् ॥ ४७ ॥

पदरत्नावली

जन्मत्रयेऽनुगुणितेन संवर्धितेन वैरेण शत्रुभावेन विशिष्टेनेतरेण ज्ञानेन संरब्धया समुद्रिक्तया धिया ध्यायन् तन्मयतां द्वेषमयतामसुरो भगवत्प्रधानतां जयो यातः । तथा हि । भावो भक्तिर्भवकारणं माङ्गल्यकारणं भवति ॥ ४७ ॥

सत्यधर्मीया

हिरण्यकशिपुहिरण्याक्षरावणकुम्भकर्णजन्मनी इदं चेति जन्मनां त्रयम् । तदनुगुणितं तत्सम्बन्धि तत्सञ्चितमिति यावत् । वैरं तेन संरब्धया धिया समुद्रिक्तया ध्यांयस्तन्मयतां द्वेषरूपतामेकोऽपरस्तत्प्रधानकतां जयो यातः । द्वयोरप्येकदेहगतयोः किं कृतं वैषम्यमित्यत आह– भाव इति । भावो भक्तिर्र्भवस्य मङ्गलस्य हि यतः कारणं तत-स्तद्वान्प्रविष्टः प्रविष्टश्चापरः क्रमात्तम इति मन्तव्यम् । अभावोऽभक्तिर्भवस्य संसृतेः कारणं तद्दुःखस्येत्यर्थः । अहिभवस्य वृत्रभवं यत्तमस्तस्य कारणमित्यपरत्रार्थ इत्यपि वर्णयन्ति

॥ ४७ ॥

वर्णितं तदुपाख्यानं मया ते बहुविस्तरम् ।

वैकुण्ठवासिनोर्जन्म विप्रशापात् पुनः पुनः ॥ ४८ ॥

पदरत्नावली

तयोरुपाख्यानम् । वैकुण्ठवासिनोर्जयविजययोर्विप्रशापात् पुनः पुनर्जन्म

॥ ४८ ॥

दुर्घटभावदीपिका

मया ते तदुपाख्यानं तयोः शिशुपालदन्तवक्त्रयोर्जयविजययो-रुपाख्यानमुपाख्येयस्थितिविशेषो बहुविस्तरं यथा भवति तथा वर्णितं वर्णितः । एतदेव विवृणोति– वैकुण्ठवासिनोरिति ॥ वैकुण्ठवासिनोर्जयविजययोर्विप्रशापाज्जातं पुनः पुनर्जन्म वर्णितमिति । एतेनोपाख्यानमिति तच्छब्दस्योपाख्यानमिति पदेन समस्तत्वाद्वैकुण्ठवासिनो-रित्येतदनन्वितमिति चोद्यस्यानवकाशः । तदुपाख्यानं किमित्याशङ्कापरिहारार्थं तदुपाख्यानं वर्णितमित्यस्य विवरणं वैकुण्ठवासिनोर्जन्मेत्यनेन क्रियत इत्यभ्युपगमात् ॥ ४८ ॥

सत्यधर्मीया

तदुपाख्यानं मया ते बहुविस्तरं वैकुण्ठवासिनोर्जयविजययोर्विप्रशा-पात्पुनः पुनर्जन्म च वर्णितं तृतीयसप्तमादौ ॥ ४८ ॥

ऋत्विग्भ्यः ससदस्येभ्यो दक्षिणां विपुलामदात् ।

सर्वान् सम्पूज्य विधिवच्चक्रेऽवभृथमेकराट् ॥ ४९ ॥

पदरत्नावली

भगवतेऽग्रपूजासमर्पणेन युधिष्ठिरः कृतकृत्यः किम्, उत ऋत्विगादिभ्योऽपि यथाविहितदक्षिणामदादिति तत्राह– ऋत्विग्भ्य इत्यादिना ॥ एकराट् चक्रवर्ती ॥ ४९ ॥

सत्यधर्मीया

विपुलां कल्पोक्ताम् । एकराट् चक्रवर्ती । अवभृतं चक्रे ॥ ४९ ॥

साधयित्वा क्रतुं राज्ञः कृष्णो योगेश्वरेश्वरः ।

हत्वा च चेदिपं तत्र विजहार यथासुखम् ॥ ५० ॥

सत्यधर्मीया

राज्ञः क्रतुं साधयित्वा यथासुखं विजहार ॥ ५० ॥

राजसूयावभृथ्येन स्नातो राजा युधिष्ठिरः ।

ब्रह्मक्षत्रसभामध्ये शुशुभे सुरराडिव ॥ ५१ ॥

पदरत्नावली

राजसूयावभृतविहितकर्मणा । ब्रह्मणां विप्राणां क्षत्राणां मण्डलेश्वराणाम् । सुरराडिन्द्रः ॥ ५१ ॥

दुर्घटभावदीपिका

राजसूयावभृथ्येन स्नात इत्यस्य राजसूयावभृथ्येन राजसूयावभृथस्नानं गोष्ठिविशेषेण सह कर्तव्यं कृत्वा स्नात इत्यर्थः । एतेन राजसूयावभृथ्येनेत्येतदनन्वितमिति चोद्यं परास्तम् । सह कर्तव्यं सर्वं कृत्वेति पदानां शेषेणान्वयस्योक्तत्वात् ॥ ५१ ॥

॥ इति श्रीभागवतटिप्पण्यां चतुरशीतितमोऽध्यायः ॥ १०–८४ ॥

सत्यधर्मीया

राजसूयावभृथविहितकर्मणा । सुरराडिन्द्रः ॥ ५१ ॥

राज्ञा सभाजिताः सर्वे सुरमानवखेचराः ।

कृष्णं क्रतुं च शंसन्तः स्वधामानि मुदा ययुः ॥ ५२ ॥

सत्यधर्मीया

खेचराश्चारणादयः ॥ ५२ ॥

य इदं कीर्तयेद् विष्णोः कर्म चैद्यवधादिकम् ।

राज्ञां मोक्षविधानं च सर्वपापैः प्रमुच्यते॥ ५३ ॥

॥ इति श्रीमद्भागवते दशमस्कन्धे चतुरशीतितमोऽध्यायः ॥

पदरत्नावली

बन्धुभूतशिशुपालवधलक्षणं हरेः कर्म न पुण्यसाधनं किन्तु तद्विपरीत-कारणमिति मन्दाशङ्कां परिहरन् फलमाह– इदमिति ॥ ५३ ॥

॥ इति श्रीमद्भागवतटीकायां विजयध्वजतीर्थकृतायां पदरत्नावल्यां

दशमस्कन्धे उत्तरार्धे चतुरशीतितमोऽध्यायः (स.धर्म.१०–८४) ॥

सत्यधर्मीया

यो राज्ञां मोक्षविधानं मागधप्रतिरुद्धानां मोक्षविधानं चैद्यवधादिकं च कीर्तयेत् स सर्वपापैः प्रमुच्यते । यद्यपि पद्य आद्यतो जातो राज्ञां मोक्ष इति स एवादौ वक्तव्यस्तथाऽपि श्रीकृष्णमहाविजय इति चैद्यवधादिकमित्यादावुदितमिति मन्तव्यम् ॥५३॥

**॥ इति श्रीसत्यधर्मयतिकृतायां भागवतटिप्पण्यां **

दशमस्कन्ध उत्तरार्धे चतुरशीतितमोऽध्यायः ॥ १०–८४ ॥