अयुते द्वे शतान्यष्टौ लीलया युधि निर्जिताः
॥ अथ त्र्यशीतितमोऽध्यायः ॥
श्रीशुक उवाच—
अयुते द्वे शतान्यष्टौ लीलया युधि निर्जिताः ।
विनिर्गता गिरिद्रोण्या१ मलिनो मलवाससः ॥ १ ॥
पदरत्नावली
जरासन्धरोधादिलक्षणतपसा प्रसन्नो भगवान् यज्ज्ञानसाध्यं स्वरूपं दर्शितवान् तद् उपासकानां भक्त्यतिशयजनानार्थं कृतमिति कृत्वा तन्माहात्म्यं कथयत्यस्मिन्नध्याये । तत्रादौ तत्सङ्ख्यां निर्दिशति– अयुतेति ॥ गिरिद्रोण्यां निरुद्धास्ततो विनिर्गताः ॥ १ ॥
सत्यधर्मीया
राजानः कियन्त इत्यत आह– अयुते द्वे इति । अयुते विंशति-सहस्रं द्वे सहस्रे तथाऽष्टौ शतानीत्याहत्य द्वाविंशत्सहस्राष्टशतसङ्ख्याः । अन्यथाऽयुते इति द्विवचनेन विंशत्सहस्रसम्पत्तेर्द्वे इत्यवक्तव्यं स्यात् । तेनैतत्सङ्ख्यामाख्यातवान् ग्रन्थकृदिति मन्तव्यम् । नृपा अयुतद्वयेन सोऽष्टविंशकैः शतैरपीति महाभारततात्पर्यनिर्णय आचार्या विवृतवन्त इति । मलिनोऽनङ्गाभ्यङ्गात् । मलवाससोऽधावनात् । गिरिद्रोण्या विनिर्गताः
॥ १ ॥
क्षुत्क्षामाः शुष्कवदनाः संरोधपरिकर्शिताः ।
ददृशुस्ते घनश्यामं पीतकौशेयवाससम् ॥ २ ॥
सत्यधर्मीया
संरोधेन निरोधेन । घनश्यामं मेघश्यामम् ॥ २ ॥
श्रीवत्साङ्कं चतुर्बाहुं पद्मपत्रनिभेक्षणम् ।
चारुप्रसन्नवदनं स्फुरन्मकरकुण्डलम् ॥ ३ ॥
सत्यधर्मीया
चतुर्बाहुमुपलक्षणतया वा तन्मात्रं तथादर्शनेन वेति चतुष्ट्वं भुजानां ज्ञेयम् ॥ ३ ॥
पद्महस्तं गदाशङ्खरथाङ्गैरुपलक्षितम् ।
किरीटहारकटककटिसूत्राङ्गदान्वितम् ॥ ४ ॥
भ्राजद्वरमणिग्रीवं निवीतं वनमालया ।
पिबन्त इव चक्षुर्भ्यां लिहन्त इव जिह्वया ॥ ५ ॥
पदरत्नावली
निवीतं पर्यासितम् ॥ ५ ॥
सत्यधर्मीया
निवीतं व्याप्तं कण्ठमारभ्य आपादम् । आपादलम्बिनीं कण्ठाद्वन-मालेति तां विदुरित्यादेः ॥ ४,५ ॥
जिघ्रन्त इव नासाभ्यामीहन्त इव चेतसा ।
प्रणेमुर्हतपाप्मानो मूर्धभिः पादयोर्हरेः ॥ ६ ॥
पदरत्नावली
चेतसा आलिङ्गनार्थमीहन्तश्चेष्टमाना इव ॥ ६ ॥
दुर्घटभावदीपिका
ईहन्त इव चेतसा, प्रणेमुर्हतपाप्मानो मूर्धभिरित्यस्य हतपाप्मान आलिङ्गनार्थं बाहुभ्यामीहन्त इव चेष्टन्त इव चेतसाऽन्तःकरणेन मूर्धभिर्मूर्धशब्दोपलक्षितशिर-आदिसप्ताङ्गैश्च प्रणेमुरित्यर्थः । एतेन मुख्यत एव मनोव्यापारस्य सम्भवात् । चेतसेहन्त इवेति कथनमयुक्तमिति चोद्यं पराकृतम् । आलिङ्गनार्थं बाहुभ्यामिति पदयोः शेषमङ्गीकृत्यालिङ्गनार्थं बाहुभ्यां चेष्टन्त इत्यर्थमुक्त्वा चेतसेत्यस्य प्रणेमुरित्यनेनान्वयस्योक्तत्वात् । एतेनैव मूर्ध्न एकत्वान् मूर्धभिरिति बहुवचनमनुपपन्नमिति चोद्यस्यानवकाशः । मूर्धशब्दोपलक्षितशिरआद्यङ्गानां बहुत्वात् ॥ ६ ॥
सत्यधर्मीया
चेतसेहन्त ईहमानास्तत्र ध्यातुमिच्छन्तः । प्रणेमुरित्यत्र पूर्वत्र च सम्बध्यते । हतपाप्मानो मूर्धभिर्हरेः पादयोः प्रणेमुः ॥ ६ ॥
कृष्णसन्दर्शनाह्लादध्वस्तसंरोधनक्लमाः ।
प्रशशंसुर्हृषीकेशं गीर्भिः प्राञ्जलयो नृपाः॥ ७ ॥
सत्यधर्मीया
क्लमस्तन्द्री । प्राञ्जलयो नृपा गीर्भिः प्रशशंसुः । तत्प्रेरणयैवायाताभि-र्गीर्भिरिति बोधयितंु हृषीकेशमित्युक्तिः । षडशीतिः समानीताः शेषराजाश्चतुर्दशेति सभापर्व-वचनं तु मूर्धाभिषिक्तं नृपतिमिति पूर्वोक्तिबलात्प्र्रधानपुरुषपरमिति न विरुणद्धि । बाहुवत्प्रादिचतुष्टयं च ज्ञेयम् ॥ ७ ॥
राजान ऊचुः—
नमस्ते देवदेवेश प्रपन्नार्तिहराव्यय ।
प्रपन्नान् पाहि नः कृष्ण निर्विण्णान् घोरसंसृतेः ॥ ८ ॥
सत्यधर्मीया
अभिवन्दनपूर्वकं स्वाभीष्टं कृष्णं प्रति शंसन्ति– नम इति । इदं च मोचनं जातमन्यच्च त्वयाऽवश्यं कार्यमित्यपि विज्ञापयन्ति– घोरसंसृतेर्निर्विण्णान्प्रपन्नान्नः पाहीति ॥ ८ ॥
नैव नाथाभ्यसूयामो मागधं मधुसूदन ।
अनुग्रहो यद् भवतो राज्ञां राज्यच्युतिर्विभो ॥ ९ ॥
सत्यधर्मीया
माधव मागधोऽपि नागस्कृदस्माकमिति तत्कृतोपकृतिरियमदेशेनेतीशं प्रति वदन्ति– नेति । हे मधुसूदन । मागधं वयं नाभ्यसूयामस्तस्मै नासूयां कुर्मः । द्वितीयया प्रागसूयाविषय इदानीमेतद्धेतुत्वान्न सोऽसूयास्पदमिति द्योतयन्ति । भार्यामीर्ष्यति शिष्यं क्रुद्ध्यतीति शब्दशक्तिप्रकाशिकोक्तेर्द्वितीया वा । यद्यस्माद्राज्ञां राज्यच्युतिर्भवतोेऽनुग्रहस्तद्रूपिणी ॥ ९ ॥
राज्यैश्वर्यमदोन्नद्धा न श्रेयो विन्दते नृपाः ।
त्वन्मायामोहिता नित्या मन्यन्ते सम्पदश्चलाः ॥ १० ॥
पदरत्नावली
राज्यच्युतिः कथमनुग्रहोऽभूत्? अत्राह– राज्येति ॥ कुतो न विन्दत इति तत्राह– त्वन्मायामोहिता इति ॥ चलाः क्षणिकाः सम्पदो नित्याः शश्वद्रूपा मन्यन्ते यत् तस्मात् ॥ १० ॥
सत्यधर्मीया
सा कथं कथय तत्तद्रूपिणीत्यतो निरूपयन्ति– राज्येति । राज्यैश्वर्यमदेनोन्नद्धा नृपाः श्रेयो न विन्दते न लभन्ते । यद्वा श्रेयः कर्तृ न इति शेषः । तन्न विन्दत इति न मन्यन्त इत्यन्वयः । ये मन्यन्ते ताञ्छ्रेयो न विन्दत इति यत्तच्छब्दा-ध्याहारेणान्वयो वा । विन्दत इत्येकवचनाद्बिभ्यतो राज्यैश्वर्यमदोन्नद्ध इत्याद्येकवचनान्ततया पठतः परस्य क्रमातिक्रम इवान्वयास्फूर्तिश्चोपर्येव ज्ञायते । एवं मदो भवति तेषां कुत इत्यत आहुः– त्वन्मायामोहिता इति । साध्यान्तरं च दर्शयन्ति । चला अस्थिराः सम्पदो नित्या इति मन्यन्ते चेति ॥ १० ॥
मृगतृष्णां यथा बाला मन्यन्ते उदकाशयम् ।
एवं वैकारिकीं मायामयुक्ता वस्तु चक्षते॥ ११ ॥
पदरत्नावली
एतमर्थं निदर्शयति– मृगतृष्णामिति ॥ मृगतृष्णामम्बरप्रदेशसंसृष्टदिवाकर- करनिकरं दृष्ट्वा । उदकाशयं जलाधारं जलपूरितमित्यर्थः । एवमयुक्ता मनोयोगाकुशला अज्ञा वैकारिकीं विकारोपेतामनित्यां मायाम्, ‘गोअश्वं महिमेत्याचक्षते’ इति श्रुतेर्महिमानं सम्पल्लक्षणं वस्तु प्रतिहतिरहितं नित्यं चक्षते पश्यन्ति ॥ ११ ॥
दुर्घटभावदीपिका
बाला मृगतृष्णां मृगतृष्णास्थानमुदकाशयमुदकस्थानं यथा मन्यन्त इत्यर्थः । एतेन मृगतृष्णामुदकं मन्यन्त इति वक्तव्यम् उदकाशयं मन्यन्त इति कथनमनु-पपन्नमिति चोद्यं निरस्तम् । मृगतृष्णाशब्देन मृगतृष्णास्थानस्य गृहीतत्वात् ॥ ११ ॥
सत्यधर्मीया
स्वोक्तं दृष्टान्तप्रदर्शनेन दृढीकृत्य दार्ष्टान्तिके पर्यवसाययन्ति– मृग-तृष्णामिति । यथा बाला अज्ञा मृगतृष्णामातपफेनमुदकाशयं जलाशयं मन्यन्ते । तथा वैकारिकीं च विकारोपेतामत एवानित्यां मायां मयस्य सम्बन्धिनीं मायामिव नश्वरतमां सम्पदमिति शेषः । वस्तु शाश्वतिकीं चक्षते पश्यन्ति । कुत इत्यत आहुः । अशोधं न वा गतम् । अयुक्ता अयोगकुशला इति ॥ ११ ॥
वयं पुरा श्रीमदनष्टबुद्धयो जिहीर्षयाऽस्या इतरेतरस्पृधः ।
**घ्नन्तः प्रजाः स्वा अपि निर्घृणाः प्रभो मृत्युं परं त्वामगणय्य१ दुर्मदाः **
॥ १२ ॥
पदरत्नावली
अस्या जगत्याः । ये वयं पुरःस्थितं मृत्युं त्वामगणय्य स्थिताः
॥ १२ ॥
सत्यधर्मीया
अन्य एवमित्यहमपि मन्ये, न किल तथा भवन्त इत्यतो वदन्ति– वयमिति । पुरा त्वद्दर्शनात्प्राक् । श्रीमदनष्टबुद्धयः श्रीमदेन नष्टाऽदर्शनं गता बुद्धिः सद्बुद्धिर्येषां ते तथा । अस्याः श्रियो जिहीर्षया हर्तुमिच्छयेतरेतरं स्पृद्येषां त इति ते । स्वा अपि प्रजा घ्नन्तो हरन्तः । तत्र तन्त्रं निर्घृणा दुर्मदा इति । बाधकाभाव एवमेव करणं गुणावहमित्यत आहुः– प्रभविति । परमनतिक्रमणीयं मृत्युं त्वामगणय्य । अगणय्येति पुरेत्युक्तं किलेदानीं कथमित्यतोऽप्यनेनैव तद्दशां शंसंति– वयमिति । श्रीमन्तश्च तेऽनष्टबुद्धयश्च अस्या बन्धकीभूतसम्पदो जिहीर्षया त्यागेच्छयेतरेतरस्पृधस्तदपेक्षया प्राग्वयं त्यजाम इतीतरेतरस्पर्धाः स्वा अपि प्रजा अपत्यादीन्घ्नन्तोऽत्यन्तबन्धुनिधनं त्याग एवेत्युक्तेस्त्यजन्तो निर्घृणास्तेषु घृणारहिताः पुरा यथा परं मृत्युमगणय्य दुर्मदा न तथेदानीमिति वा । त्वां विगणय्येति पाठः सरलः ॥ १२ ॥
त एव कृष्णाद्य गभीररंहसा अनन्तवीर्येण विचालिताः श्रियः ।
कालेन तद् वै भवतोऽनुकम्पया विनष्टदर्पाश्चरणौ स्मरामहे ॥ १३ ॥
पदरत्नावली
ते च वयं कालेन श्रियो विचालिता अभूम । तत् तस्माद् भवतोऽनुकम्पया चरणौ स्मरामहे ॥ १३ ॥
सत्यधर्मीया
इदानीं दानवारिं हरिं प्रति स्वां संसारसारत्वमत्यतदनास्थामिव तदास्थां सूचयन्तः स्वस्थितिमधुनातनीं विज्ञापयन्ति– त एवेति । हे कृष्णेत्यन्वयः । त एव प्राक् प्रमत्ता वयमद्य गभीररंहसा गभीरमितराशक्यं कुण्ठनमिति गभीरं रंहो यस्य तेन कालेन करणेन तथाऽनन्तवीर्येण कर्त्रा त्वया । अनन्तस्तन्नामा विः पक्षी ईर्यः प्रेर्यो वाह इति यावत् । येन स तेन । हे अनन्ताबद्ध । वीर्येणेति पूर्ववत् । श्रियो विचालिताः । भवतः संसृतेरपि तद्विचालनं जातप्रायं वै । भवत इत्यावृत्तमन्वेति । भवतोऽनुकम्पया विनष्टदर्पा गभीररंहसाऽनन्तवीर्येण कालेन श्रियो विचालिता भवतोऽनुकम्पया विनष्टदर्पा इति तत्तस्मात् । भवत इत्यत्राप्यन्वेति । तव चरणौ स्मरामह इति वा । अन्तर्लापिप्रोक्तं स्पष्टयन्ति– त एवेति । आद्यगेति वा । हे आद्यग । आद्य इत्युपजीव्य इति गम्यतेऽवगम्यत इति तत्सम्बुद्धिः । चतुर्मुखान्तर्गत वा । प्राग्दुरन्तवीर्येण कालेन श्रियो विचालिताः सम्पदो गता इत्यर्थः। इदानीं कालेऽरंहसा कृतकार्यतयाऽवेगेन भवतो न भीर्यत्ततः । शिष्टं पूर्ववत् ॥१३॥
अथो न राज्यं मृगतृष्णरूपितं देहेन शश्वत्पतता रजोभुवा ।
उपासितव्यं स्पृहयामहे विभो क्रियाफलं प्रेत्य च कर्णरोचनम् ॥ १४ ॥
पदरत्नावली
रजोभुवा रजोगुणोत्पन्नेन शश्वत् पतता देहेन राज्यं नोपासितव्यमिति स्पृहयामहे । प्रेत्य यत् क्रियाफलं स्वर्गादि तदपि न कामयामहे । कीदृशम्? कर्णरोचनम् । श्रवणसुखजनकमापातरमणीयमित्यर्थः ॥ १४ ॥
सत्यधर्मीया
ऐहिकं राज्यादिकं पारत्रिकं स्वर्गादिकं च नेच्छाम इति विज्ञापयन्ति– अथो इति । अथो त्वच्चरणस्मरणानन्तरम् । मृगतृष्णादृष्टान्तत्वेनास्तीत्यर्शआद्यच् । तदिति रूपितं निरूपितम् । रजोभुवा रजसो भवतीति रजोभूस्तेन । शश्वत्पतता । सुप्सुपेति समासः । सार्वकालिकपतनयोग्यतया स्थितेन । पतनस्यायं काल इति देह्यनिर्णयात्सर्वकालः पतनकाल इति शश्वत्पतन् यस्तेनेति भावः । राज्यमत्र नोपासितव्यमिति स्पृहयामहे । तथा प्रेत्य च यत्कर्णरोचनं श्रवणमात्रमनोहरं क्रियाफलं ज्योतिरादिफलं स्वर्गादिकं न स्पृहया महे
॥ १४ ॥
तन्नः समादिशोपायं येन ते चरणाब्जयोः ।
स्मृतिर्यथा न विरमेदपि संसरतामिह ॥ १५ ॥
पदरत्नावली
येनोपायेन ॥ १५ ॥
सत्यधर्मीया
हे सम श्रीरमासमेत । येन ते चरणाब्जयोरङ्कुरिता स्मृतिः संसरतामपि नो यथा न विरमेत्तथोपायमादिश । त्वत्प्रसादादेव सिद्धा सा सव्यापारीकरणीया त्वयेत्याशयः ॥ १५ ॥
कृष्णाय वासुदेवाय हरये परमात्मने ।
प्रणतक्लेशनाशाय गोविन्दाय नमो नमः ॥ १६ ॥
सत्यधर्मीया
नम इति प्रह्वत्वमेवार्हणं नातोऽन्यदस्मच्छक्यमित्यर्थात्सूचयन्तः साक्षात्कृतं नमन्ति– कृष्णायेति ॥ १६ ॥
श्रीशुक उवाच—
संस्तूयमानो भगवान् राजभिर्मुक्तबन्धनैः ।
तानाह करुणस्तात शरण्यः श्लक्ष्णया गिरा ॥ १७ ॥
सत्यधर्मीया
करुणयतीति करुणा, साऽस्यास्तीति वा करुणः ॥ १७ ॥
श्रीभगवानुवाच—
अद्य प्रभृति वो भूपा मय्यात्मन्यखिलेश्वरे ।
सुदृढा जायते भक्तिर्बाढमाशासितं तथा ॥ १८ ॥
पदरत्नावली
बाढमभिमतमाशंसितमाकाङ्क्षितं च जायते । ‘बाढं त्वभिमते भृशे’ इति च ॥ १८ ॥
सत्यधर्मीया
हे भूपाला अद्यप्रभृत्येतद्दिनमारभ्याखिलेश्वरेऽखण्डेशे आत्मनि सर्वान्तर्यामिणि मयि भक्तिः सुदृढा स्मरणोपयोगिनीति सुदृढा जायते । किञ्च तथाऽऽशासितं बहुकालमपेक्षितं संसृतिमोचनं च बाढं दृढं यथा स्यात्तथा जायते ॥ १८ ॥
दिष्ट्या व्यवसितं भूपा भवन्त ऋतभाषिणः ।
श्रियैश्वर्यमदोन्नाहं पश्य उन्मादनं१ नृणाम् ॥ १९ ॥
पदरत्नावली
भवतां व्यवसितं दिष्ट्या मङ्गलम् । तत्र हेतुः– भवन्त इति ॥ ऋतभाषिणो ब्रह्मवादिनो यथार्थवादिनो वा । अनुभावयति– श्रियेति ॥ यूयं श्रियैश्वर्य-मदानामुन्नाहमभिवृद्धिमुन्मादनं बुद्धिभ्रंशकरं पश्यत ॥ १९ ॥
सत्यधर्मीया
हे भूपाः । भवतां व्यवसितं दिष्ट्या शोभनं, भवन्तश्च ऋतभाषिणः । मृगतृष्णामित्यादिकमृतं भाषितुं शीलमेषामित्यृतभाषिणः । नृणामुन्मादनमुन्मादयती-त्युन्मादनस्तम् । श्रियैश्वर्यमदोन्नाहं श्रीः सम्पत्तया सहितं यत्तदुभयहेतुको यो मदस्तस्योन्नाह उच्छ्रयस्तं पश्ये पश्यामि अहमप्येवमवजाने । युष्मदीयैतदवलोकनफलं ममैवेत्यात्मनेपद-प्रयोगतो ध्वनयति । धातुमात्रत्वात् परस्मैपदिनाऽऽत्मगामिनि फल आत्मनेपदमिति पक्षमाश्रित्येदमुदितम् । पश्येति पाठः वयं पुरा श्रीमदनष्टबुद्धय इत्यादिना तैरेव स्वविदि-तत्वेनोक्तस्य पुनरुपदेशासम्भवादहमप्येवं पश्यामीत्यस्य सुलग्नत्वादलग्नः । ऋतभाषिण इत्यनुमोद्य पुनस्तथोक्त्यस्वारस्याच्च ॥ १९ ॥
हैहयो नहुषो वेनो रावणो नरकोऽपरे ।
श्रीमदाद् ध्वंसिताः स्थानाद् देवदैत्यनरेश्वराः ॥ २० ॥
पदरत्नावली
कान् पश्याम इति तत्राह– हैहयेति ॥ ध्वंसिता भ्रंशिताः ॥ २० ॥
सत्यधर्मीया
के त्वयाऽऽलोकितास्तथाविधा इत्यतः कांश्चनाभिधत्ते– हैहय इति । कार्तवीर्यार्जुनः परशुरामेण, नहुषोऽगस्त्यजटास्थभृगुणा, वेनो ब्राह्मणैः, रावणो रामेण, नरको मयाऽपरे देवदैत्यनराश्च परैर्मदान्मदं निमित्तीकृत्य स्थानाद्विभ्रंशिताः । तद्द्वारा मृता इत्यर्थः ॥ २० ॥
सञ्चिन्तयत विज्ञाय देहाद्युत्पाद्यमन्तवत् ।
मां यजन्तोऽध्वरैर्यत्ताः प्रजा धर्मेण रक्षत ॥ २१ ॥
पदरत्नावली
शिक्षयति– सञ्चिन्तयतेति ॥ उत्पाद्यमुत्पत्तियोग्यमन्तवन्नाशवत् ॥२१॥
सत्यधर्मीया
एवं वर्तितव्यमिति ताञ्छिक्षयति– सञ्चिन्तयतेति । देहादिकमुत्पाद्यं पुनरुत्पत्तियोग्यमन्तवन्नाशवच्चेति विज्ञाय मां चिन्तयत । तत्रस्थां त्यक्त्वा मयि तां कुरुते-त्यर्थः । अध्वरैर्यजन्तः पूजयन्तो यत्ता प्रजा धर्मेण रक्षत । युक्ता इत्यप्रमत्ता इत्यर्थः ॥२१॥
सन्तन्वन्तः प्रजातन्तून् सुखदुःखे भवाभवौ ।
प्राप्ताप्राप्तं च सेवन्तो मच्चित्ता विचरिष्यथ ॥ २२ ॥
पदरत्नावली
भवाभवौ मङ्गलामङ्गले ॥ २२ ॥
दुर्घटभावदीपिका
सन्तन्वन्तः प्रजातन्तून् सन्तन्वन्तः प्राप्तं प्राप्तं, प्राप्ते प्राप्ते सुख-दुःखे, प्राप्तौ प्राप्तौ भवाभवौ मङ्गलामङ्गले च समत्वेन सेवंतः सन्तो विचरिष्यथेति । एतेन सुखदुःखे इत्यस्य द्विवचनान्तत्वात् प्राप्ते प्राप्ते इति वक्तव्यम् प्राप्तं प्राप्तमिति कथनमयुक्तमिति दूषणं निरस्तम् । प्राप्तं प्राप्तमिति वचनव्यत्ययश् छान्दस इत्यङ्गीकारात् । एतेनैव प्राप्तसुख-दुःखादिसेवनस्य सर्वैः क्रियमाणत्वात् । प्राप्तं प्राप्तं सुखदुःखं सेवन्त इति कथनमयुक्तमिति चोद्यं प्रत्युक्तम् । समत्वेनेत्यस्य शेषं स्वीकृत्य समत्वेन सेवन्त इत्यर्थस्योक्तत्वात् ॥ २२ ॥
सत्यधर्मीया
प्रजातन्तून् प्रजाः पुत्र्यस्तन्तून्पुत्रानिति वा । पुत्रपौत्रपरम्परां सन्तन्वन्तो विस्तारयन्तः । प्रजातन्तुमिति तैत्तिरीय एवमेव व्याख्यातत्वात् । सुखदुःखे, भवाभवौ मङ्गलामङ्गले प्राप्तमप्राप्तं च ईश्वरेच्छयेह यत्प्राप्तं तदेव सेवन्तः सेवमाना मच्चित्ता विचरिष्यथ ॥ २२ ॥
उदासीनाश्च देहादावात्मारामा धृतव्रताः ।
मय्यावेश्य मनः सम्यङ् मामन्ते ब्रह्म यास्यथ ॥ २३ ॥
पदरत्नावली
आत्मारामत्वं विवृणोति– मयीति ॥ २३ ॥
सत्यधर्मीया
देहादावुदासीना आत्मारामाः स्वमनसैवारमन्ते तथा । प्राशस्त्यं यत्र मनसस्तत्रैव रममाणाः । धृतव्रता धृतं व्रतं यैस्ते । मयि मनः सम्यगावेश्यान्ते मां ब्रह्म यास्यथ ॥ २३ ॥
श्रीशुक उवाच—
इत्यादिश्य नृपान् कृष्णो भगवान् भुवनेश्वरः ।
तेषां न्ययुङ्क्त पुरुषान् स्त्रियो मज्जनकर्मणि ॥ २४ ॥
सत्यधर्मीया
कृष्णो भगवान् भुवनेश्वरो नृपानित्यादिश्य तेषां मज्जनकर्मणि मलिनाङ्गत्वादभ्यङ्गे पुरुषान्स्त्रियश्च न्ययुङ्क्त ॥ २४ ॥
सपर्यां कारयामास सहदेवेन भारत ।
नरदेवोचितैर्वस्त्रैर्भूषणैः स्रग्विलेपनैः ॥ २५ ॥
सत्यधर्मीया
सहदेवेन जरासुतसुतेन । नरदेवोचितैर्भूषणैः स्रग्विलेपनैर्वस्त्रैः सपर्यां कारयामास ॥ २५ ॥
भोजयित्वा वरान्नेन सुस्नातान् समलङ्कृतान् ।
भोगैश्च विविधैर्युक्तास्ताम्बूलाद्यैर्नृपोचितैः ॥ २६ ॥
पदरत्नावली
भोगैः स्रक्चन्दनादिलक्षणैः, धनैर्वा ॥ २६ ॥
सत्यधर्मीया
सुस्नातान्समलङ्कृतान्वरान्नेन भोजयित्वा भोगादिभिर्युक्तान्कारयामास
॥ २६ ॥
ते पूजिता मुकुन्देन राजानो मृष्टकुण्डलाः ।
विरेजुर्मोचिताः क्लेशात् प्रावृडन्ते यथा ग्रहाः ॥ २७ ॥
पदरत्नावली
ग्रहा आदित्यादयः ॥ २७ ॥
सत्यधर्मीया
प्रावृडन्ते वर्षाकालान्ते । ग्रहा मङ्गलाद्याः । भाविन्या मायाः सम्पद उचिता इत्यप्यर्थः ॥ २७ ॥
रथान् सदश्वानारोप्य मणिकाञ्चनभूषितान् ।
प्रीणय्य सूनृतैर्वाक्यैः स्वदेशान् प्रत्ययापयत् ॥ २८ ॥
पदरत्नावली
प्रीणय्य प्रीतिं जनयित्वा ॥ २८ ॥
सत्यधर्मीया
सदश्वान् रथान्सूनृतैर्वाक्यैः प्रीणय्य प्रीणयित्वा । स्वदेशान् स्वस्व-देशान् प्रत्ययापयत् ॥ २८ ॥
त एवं मोचिताः१ कृच्छ्रात् कृष्णेन सुमहात्मना ।
ययुस्तमेव ध्यायन्तः कृतानि च जगत्पतेः ॥ २९ ॥
पदरत्नावली
कृतानि कार्याणि ॥ २९ ॥
सत्यधर्मीया
तमेव तत्कृतानि च ध्यायन्तः ॥ २९ ॥
जगदुः प्रकृतिभ्यस्ते महापुरुषचेष्टितम् ।
यथाऽन्वशासद् भगवान् तथा चक्रुरतन्द्रिताः ॥ ३० ॥
पदरत्नावली
प्रकृतिभ्यो विश्वस्तभृत्येभ्यः ॥ ३० ॥
सत्यधर्मीया
प्रकृतिभ्यः स्वमन्त्रिभ्योऽतन्द्रिता अनालस्याः ॥ ३० ॥
जरासन्धं घातयित्वा भीमसेनेन केशवः ।
पार्थाभ्यां संयुतः प्रायात् सहदेवेन पूजितः ॥ ३१ ॥
सत्यधर्मीया
पार्थाभ्यां भीमार्जुनाभ्याम् । प्रायाद् बृहद्रथरथेन । उक्तं च सभा पर्वणि–
‘शुशुभे रथवर्येऽसौ दुर्जयः सर्वधन्विभिः ।
शक्रविष्णू हि सङ्ग्रामे चेरतुस्तारकामये ।
रथेन तेन वै कृष्ण उपारुह्य ययौ तदा ॥’ इत्यादि ॥ ३१ ॥
ते गत्वा खाण्डवप्रस्थं शङ्खान् दध्मुर्जितारयः ।
हर्षयन्तः स्वसुहृदो दुर्हृदां चासुखावहाः ॥ ३२ ॥
पदरत्नावली
खाण्डवप्रस्थमिन्द्रप्रस्थम् । दुर्हृदां शत्रूणाम् ॥ ३२ ॥
सत्यधर्मीया
स्वसुहृदो धर्मादीन् । दुर्हृदां वैरिणाम् ॥ ३२ ॥
तच्छ्रुत्वा प्रीतमनस इन्द्रप्रस्थनिवासिनः ।
मेनिरे मागधं शान्तं राजा चाप्तमनोरथः ॥ ३३ ॥
पदरत्नावली
शान्तं मृतम् । प्राप्तमनोरथः, अभूदिति शेषः ॥ ३३–३५ ॥
॥ इति श्रीमद्भागवतटीकायां विजयध्वजतीर्थकृतायां पदरत्नावल्यां
दशमस्कन्धे उत्तरार्धे त्र्यशीतितमोऽध्यायः (स.धर्म.१०–८३) ॥
सत्यधर्मीया
शान्तं संहृतम् । अन्यथा नैवं शङ्खशब्दापनमिति भावः ॥ ३३ ॥
अभिवाद्याथ राजानं भीमार्जुनजनार्दनाः ।
सर्वमाश्रावयाञ्चक्रुरात्मना यदनुष्ठितम् ॥ ३४ ॥
दुर्घटभावदीपिका
आत्मना परमात्मना कृष्णेन यदनुष्ठितं तत्सर्वमाश्रावयांचक्रुरिति । एतेन भीमार्जुनजनार्दनैस्त्रिभिर्मिलितित्वाज्जरासन्धवधादेः कृतत्वाद् आत्मभिरिति वक्तव्यम् आत्मनेति कथनमयुक्तमिति चोद्यं निराकृतम् । कृष्णस्य परमात्मनस्तस्यैव मुख्यतो जरासन्ध-वधादिकर्तृत्वमिति ज्ञापयितुमात्मनेत्युक्तमित्यूरीकणात् ॥ ३४ ॥
॥ इति श्रीभागवतटिप्पण्यां त्र्यशीतितमोऽध्यायः ॥ १०–८३ ॥
सत्यधर्मीया
भीमार्जुनजनार्दनाः । जनार्दननमनं नटनमात्रमित्यभ्यर्हितस्यान्ते निबन्धेन ध्वनयति । राजानमभिवाद्यात्मना यदनुष्ठितं तत्सर्वम् । आत्मनेत्येकवचनोपपत्तिः प्राक्कृतानुसन्धेया । श्रावयाञ्चक्रुः ॥ ३४ ॥
निशम्य धर्मराजस्तु केशवेनानुकम्पितम् ।
आनन्दाश्रुकणान् मुञ्चन् प्रेम्णा नोवाच किञ्चन ॥ ३५ ॥
॥ इति श्रीमद्भागवते दशमस्कन्धे त्र्यशीतितमोऽध्यायः ॥
सत्यधर्मीया
केशवेनानुकम्पितं निशम्य । अनुकम्पित इति पाठः सरलः । यच्छ्रावयामासुस्तत्सर्वं निशम्य केशवेनैवमनुकम्पितो धर्मराजः प्रेम्णा तदीयेनानन्दाश्रुकणान् मुञ्चन् किञ्चन बाष्पकण्ठप्रतिरुद्धत्वान्न वक्तुं शक्तोऽभूदिति भावः । प्रेम्णाऽश्रुकणान्मुञ्चन् किञ्चन नोवाच । आननन्द च बाहुभ्यां बबन्ध आलिलिङ्ग इति यावदित्यप्यर्थः ॥ ३५ ॥
**॥ इति श्रीसत्यधर्मयतिकृतायां भागवतटिप्पण्यां **
दशमस्कन्ध उत्तरार्धे त्र्यशीतितमोऽध्यायः ॥ १०–८३ ॥