०८ द्व्यशीतितमोऽध्यायः

एकदा तु सभामध्य आस्थितो मुनिभिर्वृतः

॥ अथ द्व्यशीतितमोऽध्यायः ॥

श्रीशुक उवाच—

एकदा तु सभामध्य आस्थितो मुनिभिर्वृतः ।

ब्राह्मणैः क्षत्रियैर्वैश्यैर्भ्रातृभिश्च युधिष्ठिरः ॥ १ ॥

पदरत्नावली

राजसूययज्ञार्थाय पाण्डवानां दिशां जयो जरासन्धवधश्च श्रीनारायण-प्रसादायत्त इति तन्माहात्म्यत्वेन प्रतिपादयत्यस्मिन्नध्याये । तत्रादौ युधिष्ठिर आगतं कृष्णं स्वचिकीर्षितं विज्ञापयति– एकदेति ॥ १ ॥

सत्यधर्मीया

दिक्चतुष्टयजयो जयादिभिश्चतुर्भिस्तत्रापि भीमसेनेन जरासुतमारणं तदनन्तरं क्रत्वारम्भसम्भारसम्पादनयत्नः । सर्वोऽप्ययं श्रीवासुदेवप्रसादादासादनीय इति प्रतिपाद्यतेऽत्राध्याये । तत्रादौ धर्मः स्वहार्दं हृषीकेशं प्रति विज्ञापयतीत्याह– एकदेति । स मुनिभिर्भ्रातृभिर्ब्राह्मणैर्वैश्यैः क्षत्रियैर्वृतः सभामध्य आस्थितो समन्वितो मनुनाऽऽलोचन-रूपमन्त्रेणेतः । पृथक् पृथगन्वयो वा ॥ १ ॥

आचार्यैः कुलवृद्धैश्च ज्ञातिसम्बन्धिबान्धवैः ।

सर्वेषामेव चैतेषामाभाष्येदमुवाच ह ॥ २ ॥

पदरत्नावली

आभाष्य अभिमुखीकृत्य । एतेषां सर्वेषां श्रोत्रादीन्द्रियतृप्तिजनकमिदं वक्ष्यमाणवचनमुवाच । हेत्यनेन कर्तव्यतां सूचयति ॥ २ ॥

दुर्घटभावदीपिका

एतेषां पूर्वोक्तानाम् । सर्वेषां च सर्वेषामपि । प्रधानं कृष्णमाभाष्य सम्बोध्येदं वक्ष्यमाणं कृष्णं प्रोवाच नान्यं प्रतीत्येतत्प्रमाणप्रसिद्धमिति । एतेनैतेषां सर्वेषा-मित्येतदनन्वितमिति दूषणं परास्तम् । प्रधानं कृष्णमिति पदयोः शेषेणान्वयस्योक्तत्वात् । एतेनैव सर्वेषामेवेत्येवकारो व्यर्थ इति दूषणं निरस्तम् । राजसूययागसिद्ध्यर्थं यथा कृष्णं प्रत्युक्तं तथाऽन्यं प्रत्यप्युक्तमिति भ्रमं वारयितुं कृष्णं प्रत्येवोक्तं नान्यं प्रतीति वक्तुमेवकारः सार्थक इत्यभ्युपगमात् ॥ २ ॥

सत्यधर्मीया

आचार्यैः परिवृतः । सर्वेषामेतेषां शृृण्वतां सतामाभाष्याभिमुखीकृत्य कृष्णमिदमुवाच । हेति विनैतन्मम मनःस्वास्थ्यं नेति सूचयति ॥ २ ॥

युधिष्ठिर उवाच—

क्रतुराजेन गोविन्द राजसूयेन पावनीः ।

यक्ष्ये विभूतीर्भवतस्तत् सम्पादय नः प्रभो ॥ ३ ॥

पदरत्नावली

पावनीः शुद्धिकरीर्भवतो विभूतीः सन्निधानविशेषस्थानेन्द्रादिदेवता यष्टुकामः

॥ ३ ॥

सत्यधर्मीया

हे गोविन्द राजसूयेन क्रतुराजेन भवतः पावनीर्विभूतीस्तद्यजनं नः सम्पादय साधय । न मम शक्तिरिति न वदेति वक्ति– प्रभो इति ॥ ३ ॥

त्वत्पादुके अविरतं परि ये चरन्ति ध्यायन्त्यभद्रनशने सुधियो गृणन्ति ।

विन्दन्ति ते कमलनाभ भवापवर्गमाशासते यदि त आशिष ईश नान्ये ॥ ४ ॥

पदरत्नावली

तत्कार्यं भवदनुग्रहेण एतद् दुःसाधनमित्याह त्वत्पादुकेति ॥ अभद्रनशने अशुभविध्वंसनसमर्थे । परिचरन्ति नित्यं पूजयन्ति । ‘व्यवहिताश्च’ इति छन्दसि व्यवधानेप्युप-सर्गाणां क्रियायोगः सिद्धः ‘प्र घान्वस्य महतो महानि’ इत्यादौ । अनेन भागवतस्य वेदतुल्य-त्वेनाध्येयत्वादौ तात्पर्यं दर्शयति । भवापवर्गं संसारत्यागं विन्दन्ति । ननु तर्हि नानेनाभीष्ट-सिद्धिरिति तत्राह– आशासत इति ॥ यदि ते सेवका आशासते ऐहिकसिद्धीः कामयन्ते तर्हि ता आपि विन्दन्ति । अन्ये अनुपासका नोभयं विन्दन्तीति भयं विन्दन्तीति शेषः ॥४॥

सत्यधर्मीया

राम आरामं गते सति या भरताराधिता सा साधितैहिकपारलौकिक-प्रजासाम्राज्याऽभूत्किल । दूरदूरवर्तिनि विश्वामित्रसत्रसाधकसाक्षात्तदात्मके त्वयि यशोदास्तनन्धये ममाशक्यं न किञ्चिदिति श्लोकत्रिकेण धर्मः कर्मानुष्ठेयमुक्त्वा तत्स्थितिं शंसति– त्वत्पादुकेति । ये जनास्त्वत्पादुकेऽभद्रनशनेऽभद्रस्य नशनं नाशो याभ्यां ते । छन्दसि परे व्यवहिताश्चेत्यादेर्न्या-विध्यत्प्रघान्वस्येत्यादाविव परीत्यस्य व्यवहितस्यापि चरन्तीत्याख्यातेनान्वयः । ततश्च क्रिया-योगादुपसर्गसंज्ञा सिद्ध्यति । परिचरन्ति कायकीं सेवां कुर्वन्ति । मनसा ध्यायन्ति वचसा गृणन्ति त आदौ सुधियो विषयवैचित्र्याद्बहुवचनम् । ज्ञानानि विन्दन्ति । अनन्तरं भवापवर्गं संसारत्यागं विन्दन्ति प्राप्नुवन्ति । हे कमलनाभ अच्प्रत्यन्वे त्यजिति योगविभागादच् । ये च यद्याशिष ऐहिकीः सम्पद आशासते काङ्क्षन्ति ते ता अपि विन्दन्ति । अन्ये निष्काम-सकामभक्त्यतिरिक्ता इदमदोऽपि न विन्दन्ति ये चैवमासते तेषामित आशातिरिक्तानथापि । यदित्यव्ययम् । या आशिष इतराः काङ्क्षितास्ता विन्दन्ति । ते चान्ये पूर्वोदीरितेतरे इति वा । ये च ज्ञाने सम्पन्ने ये ज्ञानिन इतो यद्यत आशिषो नाशासते तत ईशनानि । बहुवचनमाद्यर्थे । यदि ए अशब्दवाच्ये त्वयि आशा आस तर्हि स्वधामनियमनादीनि त एवात्र परत्र च विन्दन्तीति वा । काङ्क्षन्ति चेत्त्वामेवेत्यप्याह– यदि आसेति । आ आशिषोऽपेक्षणीया येषां त आशिषः साभिलाषाः पुरुषा अन्ये त एते न येषां ते त्वद्विषयिणी आशा आस आवर्तत । आसते असत आशिष आशास आन्ये त्वच्चेष्ट्ये सद्वर्गे नेति वेति योजयन्ति । अविरतमवौ सूर्ये रतम् । ‘ध्येयः सदा सवितृमण्डलमध्यवर्ती’ इत्यादेः । ‘अवयः शैलमेषार्का’ इत्यमरः । य आशिष आशासते त ईशनान्ये । ईप्रदमीशनं नियमनमीशनं तस्मादन्ये । सम्पत्करनियमन-विषयादन्य इत्यर्थः । हे ईश रमानियामक । यदितो येन यच्छब्दवाच्येन त्वया । इतोऽयं त्वामितो भक्तस्त्वान्ये नियम्ये आसते । आसते विनियामकमिति तलवकारटिप्पणे गत्यर्थस्य रूपमित्युक्तेरत्र प्राचिवृत्त्याऽस्माभिरुक्तेश्चानुसन्धेयम् । तस्याशिषत्वादितरस्याशास्पदार्थस्याशामेति स ईशनेन त्वन्नियमनेनैव चेष्ट्यसङ्घ एवासत इत्यावृत्त्याऽन्वयो वा । ‘यथा बाह्ये तथैवान्तस्ततो यदिति चोच्यत’ इति बृहदारण्यकभाष्योक्तेः ॥ ४ ॥

तद् देवदेव भवतश्चरणारविन्दसेवानुभावमिह पश्यतु लोक एषः ।

ये त्वां भजन्ति न भजन्त्युत वोभयेषां निष्ठां प्रदर्शय विभो कुरुसृञ्जयानाम्

॥ ५ ॥

पदरत्नावली

यतो भवच्चरणसेवाफलमनुभवसिद्धमतो लोकोऽपि प्रत्यक्षप्रमाणोऽस्य माहात्म्यं दृग्विषयं करोत्वित्याह– तदिति ॥ अपि कृष्ण त्वमपि भजदभजतामुभयेषामपि जयलक्षणोत्कर्षं व्यवस्थापयेत्याह– ये त्वामिति ॥ ‘निष्ठोत्कर्षे व्यवस्थायां नाशेऽन्ते व्रतयाञ्चयोः’ इति यादवः । ‘अनुभावः प्रभावे स्यात्’ इति ॥ ५ ॥

दुर्घटभावदीपिका

हे देवदेव । इह कुरुसृञ्जयादिदेशेषु विद्यमान एषः सेवाधिकारी लोकस्तद्यस्य सेवया मोक्षादिफलदातृत्वेन श्रुत्यादिप्रमाणप्रमितस्य भवतश्चरणारविंदसेवानुभावं चरणारविन्दसेवाया अनुभावं फलजनकत्वासामर्थ्यं पश्यतु तत्पक्षेण जानातु । तदर्थम् । हे विभो । त्वं ये त्वां भजन्ति तेषां, ये त्वां न भजन्ति तेषामप्युभयेषां भजनाभजनोभय-विशिष्टानां च निष्ठां स्थितिं कुरु । सृञ्जयानामित्युपलक्षणम् । कुरुसृञ्जयादिदेशस्थिताधिकारि-लोकानां प्रदर्शयेति । अयं भावः । यद्यपि तव सेवया मोक्षादिफलदातृत्वं श्रुतितदनुकूलानु-मानाभ्यां प्रमितम् । तथाऽपि प्रत्यक्षानुकूलानुमानप्रमितत्वाभावात् कुुरसृञ्जयादिदेशस्थितलोकानां त्वत्सेवायां प्रवृत्तिर्न भवति । अतः सेवादिकार्यं प्रदर्शनीयमिति । एतेन पूर्वोत्तरार्धयोरनन्वय इति शङ्का परास्ता । तदर्थमिति शेषपूरणेनान्वयस्योक्तत्वात् । एतेनैव ये भजन्ति तेषामित्य-नेनैव पूर्णत्वाद् उभयेषामित्येतव्द्यर्थमिति दूषणमपाकृतम् । उभयेषामित्यनेन मध्यस्थानां गृहणात्

॥ ५ ॥

सत्यधर्मीया

यच्चरणारविन्दसम्बन्धात्पादुकाऽर्थसम्पादिकाऽऽसीत्तस्य साक्षाद्भगवत-श्चरणारविन्दसेवयाऽनुुभावं सामर्थ्यं प्रभावं वा । एष लोक इह पश्यतु । अनितरसुशकक्रतुकरणेन पश्यतु साक्षात्करोतु । मन्निदर्शनेनेदं दर्शयेति सामान्यमुखेन वक्ति– य इति । ये त्वां भजन्ति ये च न भजन्तीत्युभयेषां निष्ठां स्थितिं कुरुसृञ्जयानां प्रदर्शय । भजका उत्कर्षभाजोऽभजका अपकर्षभाज इति व्यवस्थां प्रदर्शय । सर्वसम्भावितमिति द्योतयितुं विभो इति ॥ ५ ॥

न ब्रह्मणः स्वपरभेदमतिस्तव स्यात् सर्वात्मनः समदृशः स्वसुखानुभूतेः ।

संसेवया सुरतरोरिव ते प्रसादः सेवानुरूप उदयो न विपर्ययोऽत्र ॥ ६ ॥

पदरत्नावली

सर्वसमस्य हरेर्वैषम्यं मयाऽऽपाद्यत इति बिभ्यदिव परिहरति– नेति ॥ ब्रह्मणः पूर्णस्य । सर्वात्मनः सर्वस्वामिनः । ननु ‘परा पूर्वेषां सख्या वृणक्ति’ इत्यादि कथ-मित्यत्राह– समदृश इति ॥ यथावस्तुदर्शितः । स्वरूपसुखस्यानुभूतिरनुभवः पूर्णानन्दोऽहमिति यस्य स तथा तस्य । अयमपि स्वपरबुद्ध्यभावे हेतुः । नन्वसुराणां दुःखोदयः सुराणां सुखोदय इत्ययं विशेषः कस्मात्? अत्राह– संसेवयेति ॥ उदयतीत्युदयः । अतोऽत्र जगति विपर्ययो न विषमो नोदेति ॥ ६ ॥

सत्यधर्मीया

तर्हि मम विषमता त्वयाऽऽपादीत्यत आह– नेति । ब्रह्मणस्तव स्वपर-भेदमतिरस्वे स्व इति परस्मिन्नपर इत्यन्यथामतिर्न स्यात् । तत्र निमित्तमाह । सर्वात्मनः सर्वस्वामिनः । समदृशस्तत्तद्योग्यतासाम्येन दृग्यस्य । स्वसुखानुभूतेः स्वरूपसुखानुभववतः । अनेन प्राप्यप्रयोजनाभावादेव न तव वैषम्यमिति । दृश्यते किल सतां शुभमसतामशुभमित्यत आह– संसेवयेति । तथा ते प्रसादः सुरतरोर्यथा सेवानुरूपस्तदनुगुण उदय उन्नतिः । ‘उदयः पूर्वपर्वते चोन्नतावपि’ इति विश्वः । तथा ते प्रसादः सेवानुरूपः । अत्र विपर्ययो वैषम्यघटको विपर्यासः स बाधिका फलमनधिकरूपमित्यादिरूपो नेति न विषमस्त्वमिति तत्त्वम् । समदृशः । नञ् योग्यतयाऽनिमान इत्यादिवत्प्रागन्वेति । असमदृशः समीचीनज्ञानरहितस्य । सु असुखानु-भूतेर्दुःखानुभवयोग्यस्यात्र परत्र च उदयोन ऊनो हीनो, विपर्ययस्तमआद्यनर्थरूपो भवतीत्यसद-सत्फलोक्तिपरतयाऽपि योजयन्ति । यः सु अपरोऽभिन्न इति भेदमतिरन्यथामतिः स्वपरः स्वाभिन्न इति, भेदो भेदवानिति मतिर्यस्य सोऽभेददर्शनाद्याति तथा भेदाभेदस्य दर्शनादित्याद्युक्तेः । तस्य समदृशस्त्वत्समोऽस्तीति समविषयिणी दृग्यस्य तस्य । पूर्ववदुर्वरितम् । समदृशः पण्डितस्य यस्य स्वः स्वतन्त्रपरस्तस्माद्विलक्षणोऽहमस्वतन्त्र इति भेदमतिस्तस्य न । ब्रह्मणः पूर्णस्य सर्वात्मनः स्वसुखानुभूतेस्तव सेवानुरूप उदयः सुरतरोः प्रसाद इव भवति नात्र विपर्यय इति वा ॥ ६ ॥

श्रीभगवानुवाच—

सम्यग् व्यवसितं राजन् भवता शत्रुकर्शन ।

कल्याणी येन ते कीर्तिर्लोकाननुभविष्यति ॥ ७ ॥

पदरत्नावली

येन व्यवसितेन क्रतुराजेन । अनुभविष्यति स त्वयाऽनुवर्त्यते ॥७॥

सत्यधर्मीया

हे शत्रुकर्शन राजन् । भवता व्यवसितं निश्चितं सम्यग् येन क्रतु-करणेन तव कल्याणी कीर्तिर्लोकान्सर्वाननुभविष्यति ज्ञास्यति । व्याप्ता भविष्यतीति यावत् । सुरते सर्वदा रुः शब्दो यस्येत्युपहसनं कृतं धर्मेणान्तस्तस्य शत्रुकर्शनेति सम्बोध-यन्नुपाहसत्प्राहुणिकमिति ज्ञेयम् । तन्मात्रं भावीत्यसूचयद्वा ॥ ७ ॥

ऋषीणां पितृदेवानां सुहृदामपि नः प्रभो ।

सर्वेषामपि१ भूतानामीप्सितः क्रतुराडयम् ॥ ८ ॥

पदरत्नावली

न केवलं तवाभीष्टोऽयमृष्यादीनां सर्वेषां हृदयङ्गम इत्याह– ऋषीणामिति

॥ ८ ॥

सत्यधर्मीया

अनेनेयतां तोष इति भाषते । ऋषीणां, पितरश्च पितृपितामहप्रपिता-महाद्याः । तथा पितामहाद्यास्तु पितरो नाम कीर्तिता इत्यैैतरेयभाष्योक्तेः । देवाश्च तेषां सुहृदां नश्च सर्वेषां भूतानामयं क्रतुराडीप्सित इति भवता व्यवसितं सम्यगित्यन्वयः ॥८॥

विजित्य नृपतीन् सर्वान् कृत्वा च जगतीं वशे ।

सम्भृत्य सर्वसम्भारानाहरस्व महाक्रतुम् ॥ ९ ॥

पदरत्नावली

तत्रेत्थम्भावमाह– विजित्येति ॥ सर्वसम्भारान् सम्भृत्य सम्पाद्य । आहरस्व कुरुष्व ॥ ९ ॥

सत्यधर्मीया

परन्त्वेवं कृत्वा तत्कुर्विति तत्पूर्वरङ्गमाह– विजित्येति । सर्वान्नृपती-न्विजित्य जगतीं भूमिं वशे कृत्वा सर्वसम्भारांस्तदुपयुक्तपदार्थान्सम्भृत्यैकदा सम्पाद्य महाक्रतुमाहरस्व । अनेनात्मगामि तत्फलमिति लपितं भवति । तन्महाफलस्य भीमै-कलभ्यत्वविवक्षायां हे स्व आहर कुर्वित्यर्थः । उक्तं चाचार्यैः–

‘कर्ता हि तस्य परमेष्ठिपदं प्रयाति यद्यन्यसद्गुणवरैः परमेष्ठितुल्यः ।

भीमे मखस्य फलमभ्यधिकं विधातुम्’ इत्यारभ्य,

‘असाधारणहेतुश्च भीम एव प्रकीर्तितः ।

यज्ञस्यास्य जरासन्धवधात्कर्णजयादपि ।

जयाच्च कीचकादीनामन्यैर्जेतुमशक्यतः । स्वेत्याप्तत्वस्फोरणाय ॥ ९ ॥

एते तु भ्रातरो राजन् लोकपालांशसम्भवाः ।

वशेऽस्मि तव ताताहं दुर्जयो योऽकृतात्मभिः ॥ १० ॥

पदरत्नावली

साम्प्रतं सर्वजयो दुःशको नेति भावेनाह– एत इति ॥ लोकपालांशैः सम्भवो येषां ते तथा । योऽहमकृतात्मभिरनुत्पादितमत्प्रसादैः ॥ १० ॥

सत्यधर्मीया

कथं भवतीदं कथय मधुनाथेत्यतः कथयति– एत इति । तव भ्रातर एते चत्वारो लोकपालांशसम्भवा लोकपालानां वाय्वादीनामंशास्तेभ्यः सम्भवन्तीति ते तथा । ननु वायोरिन्द्रस्य लोकपालत्वमिति भीमार्जुनयोस्तदंशसम्भवत्वं घटेत न घटेत नकुल-सहदेवयोरश्विनोरतथात्वादिति चेत् । तयोरपीन्द्रपदप्राप्तेः क्रमेण तथात्वसम्भवात् ।

‘अतीतेन्द्रा एव ते विष्णुषष्ठाः ।

पूर्वेन्द्रोऽसौ यज्ञनामा रमेशः ।

स वै कृष्णो वायुरथ द्वितीयः ।

स भीमसेनो धर्म आसीत्तृतीयः ।

युधिष्ठिरोऽसावथ नासत्यदस्रौ क्रमात्तावेतौ माद्रवतीसुतौ च ।

पुरन्दरः षष्ठ उतात्र सप्तमः स एवैको फल्गुनो ह्येत इन्द्रा’ इति द्वादशे ।

तथाऽष्टादशेऽध्याये– पूर्वेन्द्रान्मारुतवृषनासत्यांश्चतुरः स्थितानिति । अकृतात्मभिर्योऽहं दुर्जयः स तात तव वशे स्थितोऽस्मि ॥ १० ॥

न कश्चिन्मत्परं लोके तेजसा यशसा श्रिया ।

विभूतिभिर्नाभिभवेद्१ देवोऽपि किमु पार्थिवाः ॥ ११ ॥

पदरत्नावली

भवतो दुर्जयत्वेन किमस्काकमिति तत्राह– नेति ॥ मत्परं मद्भक्तम् । विभूतिभिरुपस्करसम्पद्भिः ॥ ११ ॥

दुर्घटभावदीपिका

तेजसा प्रभया । यशसा कीर्त्या । श्रिया कान्त्या । विभूतिभिः सम्पद्भिर्विभवैरुपस्करसम्पद्भिरपि । मत्परं मत्परो मदपेक्षयोत्कृष्टः कश्चिद्देवोऽपि लोकविशेषेऽपि नास्ति । पार्थिवा न सन्तीति किमु वक्तव्यमिति । एतेन मत्पर इति वक्तव्यम् । मत्परमिति कथनमयुक्तमिति दूषणं निराकृतम् । लिङ्गव्यत्ययेन परमित्युक्तमित्यभ्युपगमात् । एतेनैव लोक इत्येतद्व्यर्थमिति चोद्यं परास्तम् । भूम्यादिलोके त्वत्परस्याभावेऽपि लोकविशेषे त्वत्परोऽस्तीति किं न स्यादित्याशङ्कापरिहारार्थं लोकविशेषेऽपि त्वत्परो नास्तीति वक्तुं लोक इत्युक्त-मित्यूरीकरणात् ॥ ११ ॥

सत्यधर्मीया

भातृलोकपालांशसम्भवत्वं स्वतोऽप्रयोजकं त्वद्दुर्जयत्वेऽपि मम किमित्यतः सामान्यतः स्वभक्तानामिदं भाग्यमित्याह– नेति । कश्चिदपि देवो मत्परं मदासक्तमहं परो यस्य स तं वा । लोके तेजआदिभिर्विभूतिभिर्विविधभूविषयिणीभिरूतिभिः स्वाभिप्रायैस्ताभिर्वा नाभिभवेन्न तिरस्कुर्यात् । पार्थिवाः पृथिवीपतयो न तिरस्कुर्युरिति किमु व्यवहार्यमिति भावः । विभ्विति भावप्रधानं वा । विभुत्वविषयाभिरूतिभिरभिप्रायैरिति वा

॥ ११ ॥

श्रीशुक उवाच—

निशम्य भगवद्गीतं प्रीत्युत्फुल्लमुखाम्बुजः ।

भ्रातॄन् दिग्विजयेऽयुङ्क्त विष्णुतेजोपब्रंहितान् ॥ १२ ॥

पदरत्नावली

विष्णोस्तेजसा प्रभावेणोपबृंहितान् परिपूरितान् ॥ १२ ॥

सत्यधर्मीया

भगवद्गीतं सम्यग्व्यवसितमित्यारभ्य किमु पार्थिवा इत्यन्तेन भगवतोक्तं निशम्य । प्रीत्युत्फुल्लं मुखाम्बुजं यस्य स धर्मः । विष्णुतेजोपबृंहितान् विष्णोस्तेजसा कृष्णस्य सामर्थ्यविशेषेणोपबंृहितानित्यर्थः । कश्चिदर्थव्यपाश्रयः । मां हि पार्थ व्यपाश्रित्य मदपाश्रय इत्यादिवदपेत्युपार्थकम् । सान्तत्वाकारन्तत्वनयेन तेजःशब्दपर्यायोऽयं तेजशब्दः । विस्तृतं प्रागोधोदकमुपस्कुरुत इत्यादितत्त्वसुबोधिन्याद्युदाहरणपूर्वकमस्माभिरनुसन्धेयम् । श्रीधरीये तेजोपबंृहितानिति सन्धिरार्ष इति व्याख्यानं, स्वकृत ‘‘मां हि पार्थ व्यपाश्रित्य’’ इत्यादिगीताव्याख्यानस्य ‘‘तेऽपि मां व्यपाश्रित्य संसेव्य व्यपाश्रय’’ आश्रय एव व्यपाश्रय इत्यादेर्विस्मृतिविजृम्भितमिति मन्तव्यम् । अनन्यगतिकत्व एवैवमङ्गीकार्यत्वात् । भातॄॄंश्चतुरो दिग्विजयेऽयुङ्क्त न्ययुङ्क्त ॥ १२ ॥

सहदेवं दक्षिणस्यामादिशत् सह सृञ्जयैः ।

दिशि प्रतीच्यां नकुलमुदीच्यां सव्यसाचिनम् ।

प्राच्यां वृकोदरं राजन्१ कैकयैः सह मद्रकैः ॥ १३ ॥

सत्यधर्मीया

तद्विनियोगक्रममाह– सहदेवमिति । दक्षिणस्यां दिशि सहदेवं सृञ्जयैः सहकारिभिः सह, प्रतीच्यां नकुलं मत्स्यैः सहोदीच्यां कैकयैः सह सव्यसाचिनमर्जुनं प्राच्यां मद्रैः सह वृकोदरं भीममित्यन्वयः । वृकोदरं मत्स्यैरिति पाठः । सह राजन्कैकयैरिति पाठेऽन्यतमस्य निःसहायतापत्तेः ॥ १३ ॥

ते विजित्य नृपान् वीरानाजह्रुर्दिव्यमञ्जसा ।

अजातशत्रवे भूरि द्रविणं नृप यक्ष्यते ॥ १४ ॥

पदरत्नावली

यक्ष्यते यष्टुकामाय ॥ १४ ॥

सत्यधर्मीया

ये वीरा आरब्धान्तगामिनस्तानपि नृपांस्ते विजित्य । यक्ष्यते यष्टुकामायाजातशत्रवे धर्माय दिव्यं द्रविणमञ्जसाऽऽजह्रुः ॥ १४ ॥

श्रुत्वाऽजितं जरासन्धं नृपतेर्ध्यायतो हरिः ।

आहोपायं तमेवाद्य उद्धवो यमुवाच ह ॥ १५ ॥

तात्पर्यम्

अजितं जरासन्धं भगवत एव श्रुत्वा । तथा हि सभापर्वणि पश्चाद्दिग्विजयोक्तेः । ‘पूर्वाः कथाः परं ब्रूयुः पराः पूर्वं तथैैव च ॥ मोहनार्थाय दुष्टानां सर्वं व्यत्यासमिष्यते । विस्तारे तु तदुक्तं स्यात्त-द्ग्राह्यमविरोधतः । संक्षेपोक्तविरोधे तु +++(तन् न ग्राह्यम्,)+++ गुणोक्तिश्च सतां यथा ॥ इति शब्दनिर्णये ॥ जरासन्धं निहत्यैव पाण्डवैस्तु दिशो जिताः । प्रसादाद्वासुदेवस्य राजसूयः क्रतुः कृतः ॥ इति मात्स्ये ॥ १५ ॥

पदरत्नावली

अत्र दिग्विजये जरासन्धो जितो मारितो वेति तत्प्रसङ्गो नाकर्णित इति राज्ञो हार्दां शङ्कां परिहरन्निव दिग्विजयात् प्रागेव तद्वधो वृत्त इति नात्र प्रसक्त इति वृत्तं तद्धन-नमनुवदति– श्रुत्वेति ॥ ननु दिशां जयादनन्तरं तद्वधः किं न स्यात्, यथास्थितमन्यथाऽनूद्यते किमर्थम्, इति चेन्न । निर्णयग्रन्थविरोधात् । ननु पूर्वापरभावे किं प्रमाणं किञ्च प्रयोजनमिति चेत् । उच्यते । ‘पूर्वोः कथाः परं ब्रूयुः पराः पूर्वं तथैव च । मोहनार्थाय दुष्टानां सर्वव्यत्यास इष्यते ॥’ इत्यादि वाक्यम् । किञ्च ‘जरासन्धं निहत्यैव पाण्डवैस्तु दिशो जिताः’ इत्यादि स्पष्टवचनम् । भगवत एव जरासन्धमजितं श्रुत्वा तज्जयः कथमिति ध्यायतो युधिष्ठिरस्य उद्धवो यमुपायमुवाच तमाह हरिरित्यन्वयः ॥ १५ ॥

सत्यधर्मीया

अत्रोत्तमक्रमं विहायाधमक्रमं धरता मया दिग्विजयजराकुमारमारणादि-कथाऽत्र व्यत्यस्य कथिता । मानानुसारेणैतदर्थो ज्ञेय इत्यसूसुचद्बादरायण इति । श्रुत्वाऽ-जितं जरासन्धमिति श्लोकेऽपेक्षितमनुवर्त्य स्वयं व्याख्याय सभापर्वं स्मारयित्वा पौर्वापर्योक्तिप्रयोजनं च शब्दनिर्णयमानाननतः प्रदर्श्य जरासन्धवधानन्तरमेव दिग्विजय इत्यर्थस्थेम्ने मानान्तरसंवादं च दर्शयति– अजितमिति । अजितं जरासन्धम् । भगवद्गीतमित्यस्यानु-वृत्तिः । तस्य षष्ठ्यन्तता । नलोपः प्रातिपदिकान्तस्येत्यादिवदिति सूचयितुं भगवदित्युक्तिः । ‘‘सर्वं वाक्यं’’ इति नयेन वाऽध्याहारेण वैवेत्यस्य तेन योजनेति दर्शयितुं भगवत एवे-त्युक्तिः । श्रुत्वा । न भीमादिभिरित्येवकारव्यावर्त्यं ज्ञेयम् । तथा सभापर्वणि पश्चा-द्दिग्विजयोक्तेरित्युक्तिस्तद्वाक्यानुक्तिश्च ग्रन्थबाहुल्यदरतो न त्वनादरत इति ज्ञेयम् ।

‘घातयित्वा जरासन्धं बुद्धिपूर्वमरिन्दमः ।

धर्मराजमनुप्राप्य पृथां कृष्णां च भारत ।

सुभद्रां भीमसेनं च फल्गुनं यमजौ तथा ।

धौम्यमामन्त्रयित्वा तु प्रययौ स्वां पुरं प्रति ।

दुर्हृदामप्रहर्षाय सुहृदां नन्दनाय च ।

विजयस्ते ध्रुवं पार्थ प्रियं काममवाप्स्यसि ।

इत्युक्तः स ययौ पार्थः सैन्येन महता वृतः ।

अग्निदत्तेन दिव्येन रथेनाद्भुततेजसा ।

तथैव भीमसेनोऽपि यमौ च पुरुषर्षभौ ।

ससैन्याः प्रययुः सर्वे धर्मराजेन पूजिताः ।

दिशं धनपतेरिष्टामजयत्पाकशासनः ।

भीमसेनस्तथा प्राचीं सहदेवस्तु दक्षिणाम् ।

प्रतीचीं नकुलो राजन्दिशं व्यजयतास्त्रवित् ।

खाण्डवप्रस्थमध्यस्थो धर्मराजो युधिष्ठिरः ।

आसीत्परमया लक्ष्म्या सुहृद्गणवृतः प्रभुः ॥’

इत्यादौ ग्रन्थबाहुल्ये । आचार्या अपि । क्व राजसूयमद्येत्यारभ्यैकविंशेऽध्याये बहुना ग्रन्थेनाभ्यधुः ।

एवं पश्चाज् जरासन्ध-वधानन्तरं दिग्-विजयस्योक्तेर् व्यत्यासेन
व्यासेन शंसने किं निमित्तम्?

इत्य् अत आह– पूर्वाः कथा इति ।
पूर्वाः पूर्वम् ईरयितव्याः कथाः
परम् अनन्तरं ब्रूयुः ।
एतेन नैकत्र तत्राप्य् एक एवेहेति नेति सूचयति । तथैव परा उत्तरत्र वक्तव्याः पूर्वं ब्रूयुर् इत्य् अन्वेति ।

प्रयोजनं चैतद् इत्य् आह– मोहनार्थायेति
मोहनम् एव अर्थस् तद्-अर्थम् ।
तद्-अधिकरण आह ।

दुष्टानां तमो-योग्यानां सर्वं व्यत्यास एवम् इष्यत इति ।
नामादि-सर्व-व्यत्यासः, शतं दुर्योधनादींस् ते धनञ्जय-शरैर् हतान् प्रदर्शयिष्य इत्य्-आदौ
भीम-शरैर् हतान् इति वक्तव्य
एवम् उक्तिर्
इति सर्व-व्यत्यासः ।

केचित् तु समग्र-ग्रन्थार्थ-व्यत्यास
इति “शैवादिभ्यः पुरा” इत्य् आद्य्-अर्थम् अभ्यधुः ।
तर्हि भागवतस्यैव भारतस्यापि तत्-कृतत्वाविशेषाद्

एतद्-अनुसारेण तद्-अर्थो वा,
तद्-अनुसारेणैतदर्थो वा ज्ञेय

इत्य् अनिर्णयो वा,

तद्-उत्तरत्वेन तद्-व्याख्या-रूपत्वाद् एतद्-अनुरोधेन तद्-अर्थ एव ज्ञेय

इति च प्राप्ते तत्राह– विस्तार इति ।
विस्तर एव विस्तारः ।
तर एव तार इतिवत् प्रज्ञाद्य्-अण् ।
शब्दतो विस्तृते ग्रन्थ इत्य् अर्थः ।
यद् उक्तं स्यात् तद् एवाविरोधतो ऽप्रतिरोधात् ।
सङ्क्षिप्योक्तेर् ग्रन्थस्यैतद्-अप्रतिमल्लत्वात् ।

अत एवाह– सङ्क्षेपोक्तम् इति ।
विरोधे तु = विस्तर-ग्रन्थे प्रतिरोधे,
“सङ्क्षेपोक्तं ने"ति शेषः । न ग्राह्यम् । तुर् एवार्थकः ।
अविरोधतो ऽविरोधे तत्-संवाद-सहित इति यावत् । ग्राह्यम् ।

तत्रापि परम-प्रमेये ऽवश्यम् एवं स्वीकर्तव्यम् इत्य् आह–
यथा सतां गुणोक्तिः स्याद् इति ।
श्रीदामानं कृष्ण उवाह इत्य् उक्तौ
भगवतो न गुणः प्रतीयते
ऽतस् तत्र विभक्ति-व्यत्यासः ।

प्रस्तुते च

भीमादिभिर् जरासन्धम् अजितं श्रुत्वा

इत्य् उक्तौ न हि भीम-माहात्म्यं सेत्स्यति । तद्-अज्ञाने ऽनर्थः स्याद् इति सतां गुणोक्तिर् यथा स्यात् तथा तद् ग्राह्यम् इत्य् अन्वयः । एकत्वाद् इति न सम्यग् उत्तरित-किञ्चिन्-नाशिकां कर्षन्तं प्रति आह– जरासन्धम् इति । पाण्डवैर् जरासन्धं निहत्यैव दिशो जिताः । वासुदेव-प्रसादाद् राजसूयः क्रतुः पाण्डवैः कृत इति मात्स्योक्तेश् च । स-संवादित्वाद् भारतस्य प्रतिरोध-त्वात् तद्-अनुसारेण भागवतार्थो वध-रूप-प्रयोजनम् उद्दिश्य राजसूयम् उपाक्रमत् तत् कर्तुम् आलुलोच इति । अत्र निर्णय आचार्योक्ता भारताद्य्-अनुसारिण्यो बाणासुर-समराद्याः कथा एतत्-प्राक्तन्यो ऽनुसन्धेयाः ।

ततश्चायं श्लोकार्थः ॥ स्वस्मादेव जरासन्धं कैश्चिदप्यजितमपराजितं श्रुत्वा ध्यायतस्त्यागो वा यागस्य वरः, करणं न विना जराशरीरजमरणं स सेत्स्यतीति कथं कर्तव्यमिति ध्यानं गतवतो नृपतेराद्ये प्रथमभाविनि कार्ये उद्धवो यमुपायं तदानीमुवाच तमेवाद्याह– हेति । तस्यैव स्वादिसर्वसम्मतत्वमाह ॥ १५ ॥

भीमसेनोऽर्जुनः कृष्णो ब्रह्मलिङ्गधरास्ततः ।

जग्मुर्गिरिव्रजं तात बृहद्रथसुतो यतः ॥ १६ ॥

पदरत्नावली

हेतिसूचितमितहासं स्पष्टयति– भीमसेन इत्यादिना ॥ ब्राह्मणलिङ्गधरा ब्राह्मणलक्षणानि बिभ्राणाः । यतो यत्र ॥ १६ ॥

सत्यधर्मीया

यतो यस्मिन्बृहद्रथसुतो वर्तते तं गिरिव्रजम् । तत उद्धवालोचनतः । ब्रह्मलिङ्गधरा भीमसेनोऽर्जुनः कृष्ण इति त्रयो जग्मुः ॥ १६ ॥

तं गत्वाऽऽतिथ्यवेलायां गृहेषु गृहमेधिनाम् ।

ब्रह्मण्यं समयाचन्त राजन्या ब्रह्मलिङ्गिनः ॥ १७ ॥

पदरत्नावली

आतिथ्यवेलायामतिथिपूजासमये, आदित्ये दिनमध्यं गाहमान इत्यर्थः

॥ १७ ॥

सत्यधर्मीया

गृहमेधिनां गृहस्थाश्रमिणां गृहेष्वातिथ्यवेलायां मध्याह्नवेलायां मध्याह्न-समये । ब्रह्मलिङ्गिनो ब्रह्मणां ब्राह्मणानां लिङ्गं येषामस्तीति ते राजन्याः क्षत्रियाः सन्तोऽपीति न कापट्यं निन्दितं चेदपि प्रयोजनवशात्कृतमिति द्योत्यते । गत्वा समयाचन्त । सम् अयाचन्तेति द्विपदे । पूर्वमालोचितं सारं ययाचिरे । यथोक्तं काठकभाष्यादौ ।

‘हीनत्वादखिलैर्दोषैस्साररूपत्वतो हरिः ।

हंस इत्युच्यते…….. …….. ……॥’ इति ।

सं स्वकार्यसाधकं व्यापारमिति वा । ‘सः कोपे वारणे स स्यात्तथा शूलिनि साधक’ इति विश्वः । नाज्ञावज्ञानं सम्भवतीत्याह– ब्रह्मण्यमिति ॥ १७ ॥

राजन् विध्द्यतिथीनस्मानर्थिनो गृहमागतान् ।

तन्नः प्रयच्छ भद्रं ते यद् वयं कामयामहे ॥ १८ ॥

सत्यधर्मीया

हे राजन् । तव गृहमागतान्नोऽर्थिनोऽर्थकांक्षिणोऽतिथीन्विद्धि जानीहि । तत्तस्माद्वयं यत्कामायामहे तन्नः प्रयच्छ । वेषधारिभी रीतिरेतादृशी लोकेऽनुष्ठेयेति बोधयितुं तदाशिष आशासते– ते भद्रमिति । तव मङ्गलमस्त्विति बहिरान्तरङ्गिकस्तु ते भद्रं नः प्रयच्छेति । मयि किमपि नास्ति किं कुर्यामित्यत आहुः– अर्थिनोऽर्थवतस्तव गृहमाग-तानिति । अतो नातिथ्यर्थ्यन्यतरातिरेक इति योजना ॥ १८ ॥

किं दुर्मर्षं तितिक्षूणां किमकार्यमसाधुभिः ।

किं न देयं वदान्यानां कः परः समदर्शिनाम्॥ १९ ॥

पदरत्नावली

दुर्मर्षं दुस्सहम् । परः शत्रुः । ‘परोऽरिपरमात्मनोः’ इति ॥ १९ ॥

दुर्घटभावदीपिका

मद्वियोगं सोढुं शक्यो, यो दातुं योग्यः स एव पदार्थः । यः शत्रुर्न भवति तस्मै देयोऽतो देयपदार्थो विशिष्य निर्देष्टव्यः । भवतां स्वरूपं च वक्तव्यम् । इत्या-शङ्काऽत्र परिह्रियते– किं दुर्मर्षमिति ॥ असाधुभिरकार्यं किं, न किमपि । सर्वं कार्यमेवेति दृष्टान्तार्थमुक्तम् ॥ १९ ॥

सत्यधर्मीया

स्वयाचितवितरणस्थिरतां जनयन्तस्तं निदर्शनप्रदर्शनमुखेन श्लोकत्रिकेण प्रोत्साहयन्ति– किं दुर्मर्षमिति ॥ तितिक्षूणामिति । सहनशालिनां दुर्मर्षं दुःसहं किं, ते सर्वं सहन्ते । वदान्यानां दातॄणामदेयं किं न किमपि । समये ते प्राणमपि ददतीति भावः । समदर्शिनां सर्वत्र सर्वत्राता हरिरिति समतीनां परः शत्रुः कः । न योग्यतामतिहाय समदर्शिनामस्तीत्यर्थः । बहुजीवजातसहितपर्वतदाहादि न तुष्टितो दुष्टं भवतेति सामान्य-वचनेनान्तरङ्गतस्तन्मर्म स्पृशन्त इव शंसति । असाधुभिरकार्यं किं न किमपि सर्वं निषिद्ध-मपि सन्नद्धाः कर्तुमसाधव इति भाव इति ॥ १९ ॥

योऽनित्येन शरीरेण सतां गेयं यशो ध्रुवम् ।

नाचिनोति स्वयं कल्पः स वाच्यः शोच्य एव सः ॥ २० ॥

पदरत्नावली

आचिनोति सञ्चिनोति उपार्जितं करोति । वाच्यो निन्द्यः ॥ २० ॥

सत्यधर्मीया

योऽधिकार्यनित्येन शरीरेण स्वयं कल्पः शक्तः सन् सतां गेयम् । कृत्यानां कर्तरि वेति स्मरणात् षष्ठी । ध्रुवं शाश्वतिकं यशो नाचिनोति नापार्जयति स दुर्जन इह वाच्यो निन्द्यः परत्र नरकादोै शोच्यश्च ॥ २० ॥

हरिश्चन्द्रो रन्तिदेव उञ्छवृत्तिः शिबिर्बलिः ।

व्याधः कपोतो बहवो ह्यध्रुवेण ध्रुवं गताः ॥ २१ ॥

पदरत्नावली

अधु्रवेण शरीरेण ॥ २१ ॥

सत्यधर्मीया

हरिश्चन्द्रश्चण्डालतामुपयातोऽपि हर्षेण हरिं भजञ्जनैः सहायोऽध्या-वासिभिरुत्तमां गतिं भेजे । रन्तिदेवोऽष्टचत्वारिंशद्दिनान्यलब्धोदकान्नः कथञ्चिल्लब्धतत्को हरये पुल्कसवेषधारिणे तदपि दत्वा सद्गतिं गतः । उञ्छवृत्तिर्मुद्गलोऽतिथिसन्तर्पणं सीद-त्सुदत्यादिकुटुम्बोऽपि कृत्वा हरिं यातः । शिबिः परीक्षार्थमागताग्नीन्द्रात्मकयोः कपो-तश्येनयोः स्वम•सं श्येनाय दत्वा कपोतमरक्षत् । बलिस्तु सर्वस्वं सर्वस्वामिने दत्वा बद्धो न चुक्रोश तस्मै । कपोतः कपोत्या सह स्वमांसं दत्वा परमात्मानमाप । स तद्गृहीतमांसो व्याधोऽपि निर्विण्णो निषण्णो महाप्रस्थाने दावदग्धदेहो हरिपुरमाप । धर्मव्याधो वा । एवं बहवोऽन्ये दधीचिप्रभृतयोऽध्रुवेण ध्रुवं हरिं गता इति न विविच्यास्माभिरुक्तमतो यत्कामयामहे तत्प्रयच्छ । हिराहैतत्प्रसिद्धिम् ॥ २१ ॥

श्रीशुक उवाच—

स्वरैराकृतिभिस्तांस्तु प्रकोष्ठैर्ज्याहतैरपि ।

राजन्यबन्धून् विज्ञाय दृष्टपूर्वानचिन्तयत् ॥ २२ ॥

सत्यधर्मीया

स्वरैराकृतिभिर्ज्या मौर्वी तद्धतैस्तद्गुणकिणैः । प्रकोष्ठैः कूर्परादधरप्रदेशैः । प्रकोष्ठः कूर्परादधरप्रदेशे चापीति विश्वः । तान् राजन्यबन्धून्विज्ञायोहयित्वा दृष्टपूर्वान् दृष्टा-दृष्टपूर्वांस्ताननन्तरमचिन्तयत् । सामान्यत एते मया दृष्टा इत्यस्मरत् ॥ २२ ॥

राजन्यबन्धवो ह्येते ब्रह्मलिङ्गानि बिभ्रति ।

ददामि भिक्षितं तेभ्य आत्मानमपि दुस्त्यजम् ॥ २३ ॥

सत्यधर्मीया

एते राजन्यबन्धवः क्षत्रिया ब्रह्मलिङ्गानि ब्राह्मणचिह्नानि बिभ्रति धरन्ति । ज्ञातैतत्को न नेति वक्तुमहं क्षम इत्याह । तेभ्यो भिक्षितं ददामीति । न प्रकटितस्तैरभिप्रायः प्रायो दुर्देयो भवेन्न निश्चयो मया कार्य इति तदपि दास्ये किमन्यदिति भावेन चेतस्यालोच्य सङ्कल्पयति– दुस्त्यजमात्मानं शरीरमिति । एभ्य इति वक्तव्ये तेभ्य इति वचनेनाधुनाऽप्यप्रकाशवचनमिव स्मृतत्वनिश्चयं ध्वनयति ॥ २३ ॥

बलेर्नः श्रूयते कीर्तिर्वितता दिक्ष्वकल्मषा ।

ऐश्वर्याद् भ्रंशितस्यापि विप्रव्याजेन विष्णुना ॥ २४ ॥

श्रियं जिहीर्षतेन्द्रस्य विष्णवे द्विजरूपिणे ।

जानन्नपि महीं प्रादाद् वार्यमाणोऽपि दैत्यराट् ॥ २५ ॥

पदरत्नावली

श्रूयते किं श्रूयत एव हीति योज्यम् । इन्द्रस्य श्रियं बलाज्जिहीर्षता हर्तुकामेन विष्णुना ऐश्वर्याद् भ्रंशितस्य वार्यमाणः, शुक्रेणेति शेषः ॥ २४२५ ॥

सत्यधर्मीया

यो दैत्यराड्वार्यमाणः शुक्रेण ‘‘सर्वस्वं विष्णवे दत्वा मूढ वर्तिष्यते कथम्’ इति वार्यमाणः । कपटवटुरयमिति जानन्नपि महीं द्विजरूपिणे विष्णवे प्रादात् । तदर्थं श्रियं तत्काले बलिसम्बन्धिनीं सम्पदं जिहीर्षता हर्तुकामेन विप्रव्याजेन ब्राह्मणापदेशिना विष्णुनैश्वर्याद्भ्रंशितस्यापि बलेः कीर्तिरकल्मषा स्वच्छा । नोऽस्माभिः प्रथम उदितान् हरिश्चन्द्रादीन्परित्यज्य बलिमात्रग्रहणे किन्निमित्तमिति चेत् । तदा कपटवेषिणे बलिर्दत्तावानेतर्ह्येते तथेति दानवतया च तद्ग्रहणसम्भवादिति ज्ञेयम् । वितता दिक्षु श्रूयतेऽतो भिक्षितं ददामीत्यन्वयः । नो बलेर् इत्यप्यन्वयः ॥ २४,२५ ॥

जीवता ब्राह्मणार्थाय कोऽन्वर्थः क्षत्रबन्धुना ।

देहेन पतमानेन नेहता विपुलं यशः ॥ २६ ॥

पदरत्नावली

यः क्षत्रबन्धुः पतमानेन देहेन विपुलं यशो नेहतां नेहते नापादयति तेन ब्राह्मणार्थाय जीवता क्षत्रबन्धुना कोन्वर्थो भवति न कोऽपीति विचिन्त्य ॥ २६ ॥

दुर्घटभावदीपिका

स क्षत्रियो जीवताऽल्पकाले जीवताऽत एव पतमानेन देहेन ब्राह्मणार्थाय ब्राह्मणप्रयोजनाय । विपुलं यशः विपुलकीर्तिसम्पादकमसाध्यं कर्म नेहतां न कुर्यात् । तेन क्षत्रबन्धुना कोऽर्थो न कोऽपीत्येतन्नु निश्चितमिति । एतेन सर्वक्षत्रियाणां देहस्य ब्राह्मणप्रयोजनानुकूलजीवनविशिष्टत्वाभावाद् ब्राह्मणार्थाय जीवता देहेनेति कथनमनुपपन्नमिति शङ्काऽनवकाशः । ब्राह्मणार्थायेत्यस्य जीवतेत्यनेनान्वय इत्यनङ्गीकारात् ॥ २६ ॥

सत्यधर्मीया

न दुष्कर इति पुनरालेचयति– जीवतेति । जीवता क्षत्रबन्धुना पतमानेन पतता देहेन ब्राह्मणार्थाय तदर्थं विपुलं यशो नेहताऽनीहमानेनार्थः को नु सम्पादितः स्यान्न कोऽपि ॥ २६ ॥

इत्युदारमतिः प्राह कृष्णार्जुनवृकोदरान् ।

हे विप्रा व्रियतां कामो ददान्यात्मशिरोऽपि वः ॥ २७ ॥

सत्यधर्मीया

प्रकाशं शंसति– इतीति । इत्येवमालोच्य । कृष्णार्जुनवृकोदरान् प्रति । हे विप्राः । कामः काम्यो युष्माभिर्व्रियताम् । ओयत्वेन सम्प्रतिपन्नमपि सम्प्रति दास्यामीत्याह– व आत्मशिरोऽपीति ॥ २७ ॥

श्रीकृष्ण उवाच—

युद्धं नो देहि राजेन्द्र द्वन्द्वशो यदि मन्यसे ।

युद्धार्थिनो वयं प्राप्ता राजन्या नान्नकाङ्क्षिणः ॥ २८ ॥

पदरत्नावली

द्वन्द्वशो युद्धं द्वन्द्वयुद्धम् ॥ २८ ॥

सत्यधर्मीया

तत्प्रतिश्रुतं श्रुत्वा जातप्रायमिदमुपायतोऽभिप्रेतमिति मतिमान् श्रीकृष्णः स्वाशयं प्रकाशयति– युद्धमिति । हे राजेन्द्र । वयमन्नकाङ्क्षिणोऽर्थिनो न किन्तु युद्धार्थिनो राजन्याः प्राप्ताः । चेदित्थं वित्तवृत्तोऽपि मन्यसेऽस्मभ्यं देयं तर्हि द्वन्द्वशो युद्धं देहि । त्रयाणां मध्य एकतम एकस्त्वमेक इति द्वन्द्वश इत्यर्थः ॥ २८ ॥

असौ वृकोदरः पार्थस्तस्य भ्राताऽर्जुनो ह्ययम् ।

अनयोर्मातुलेयं मां कृष्णं जानीहि ते रिपुम् ॥ २९ ॥

पदरत्नावली

वीप्सां त्रीन् प्रति स्पष्टयन्निर्दिशति– असाविति ॥ २९ ॥

सत्यधर्मीया

आच्छादितनिजरूपैरिच्छापूर्तिः सम्पादिताऽत उत्तरं वा यूयं किन्नामानः क्वत्यास्तद्वर्णयताकर्ण्य कर्तव्यं कुर्म इत्यत आह– असाविति । प्रथमत एतस्योक्तिः पुरत एतदाह्वानबीजावापरूपिणीति मन्तव्यम् । पार्थ इत्युभयान्वयि । अनयोर्मातुलेयं मातुलसुतं कृष्णं मां विद्धि जानीहि । प्राक्तनं स्मारयन्नीरयति– ते रिपुं सहजवैरिणमिति ॥ २९ ॥

एवमावेदितो राजा जहासोच्चैः स मागधः ।

आह चामर्षितो मन्दो युद्धं तर्हि ददामि वः ॥ ३० ॥

सत्यधर्मीया

एवमावेदितो निवेदितवृत्तान्तो मागधो राजोच्चैर्जहास । अहो वेषो महतां भवतामिति हासः । अमर्षितो मन्दो वो युद्धं तर्हि ददामीत्याह ॥ ३० ॥

न त्वया भीरुणा योत्स्ये युधि विक्लवचेतसा ।

मधुरां स्वां पुरीं त्यक्त्वा समुद्रं शरणं गतः ॥ ३१ ॥

सत्यधर्मीया

तत्र स्वयं गुणागुणोत्कीर्तनेनैकतमं रणधुरीणमन्वाचिनोति– नेति । त्वया युधि विक्लवचेतसा भीरुणा न योत्स्ये । भीरुत्वं तव जगद्विततमित्युक्तमुपपादयति– मधुरामिति । स्वपुरीं मधुरां त्यक्त्वा समुद्रं शरणं गृहं गतः । ततो भीरुरित्यर्थः ॥३१॥

अयं तु वयसाऽतुल्यो नातिसत्वो न मे समः ।

अर्जुनो नो भवेद् योद्धा भीमस्तुल्यबलो मम ॥ ३२ ॥

पदरत्नावली

अतुल्यः । नातिसत्वः न प्रशस्तपराक्रमः ॥ ३२–३४ ॥

सत्यधर्मीया

अयमर्जुनस्तु मम वयसाऽतुल्योऽसमः कनीयानिति यावत् । कनीयांश्चेत् किं बलीयानिति युद्धयस्वेति नेत्याह– नातिसत्व इति ॥ न विद्यतेऽतिसत्त्वं बलं यस्य स इति । इति स मे समः प्रतिमल्लो न भवेत् । स्वोक्तयोर्मध्य एकमर्था-न्निषिद्ध्यापरमुररीकृत्य परिशेषतः सिद्धमाह– मम भीमस्तुल्यबल इति ॥ ३२ ॥

इत्युक्त्वा भीमसेनाय दत्वा स महतीं गदाम् ।

द्वितीयां स्वयमादाय निर्जगाम पुराद् बहिः ॥ ३३ ॥

सत्यधर्मीया

वचनमात्रं न च रचनमेवमभूदित्यत आह– इतीति । द्वितीयां गदाम्

॥ ३३ ॥

ततः समरबले१ वीरौ संसक्तावितरेतरम्२ ।

जघ्नतुर्वज्रकल्पाभ्यां गदाभ्यां रणदुर्मदौ ॥ ३४ ॥

सत्यधर्मीया

ततः समरबले समराङ्गणे । समबलावित्यपि पठन्ति । इतरेतरं संसक्तौ मिलितौ वज्रकल्पाभ्यां तत्सदृशीभ्याम् । इतरेतराविति पाठे जघ्नतुरित्यनेनान्वयः ॥ ३४ ॥

मण्डलानि विचित्राणि सव्यं दक्षिणमेव च ।

चरतोः शुशुभे युद्धं नटयोरिव रङ्गिणोः ॥ ३५ ॥

पदरत्नावली

रङ्गिणो रङ्गगतयोर्मण्डलं वल्गतोर्वा ॥ ३५ ॥

सत्यधर्मीया

रङ्गिणो रङ्गस्थयोः । सव्यं दक्षिणप्रदेशमुद्दिश्याभिनयेन चरतोर्नटयोरिव मण्डलानि गदायुद्धविहितानि चरतोर्युद्धं शुशुभे । अनेनोभयोरपि भयोज्झितता द्योत्यते ॥३५॥

ततश्चटचटाशब्दो वज्रनिष्पेषसन्निभः ।

गदयोः क्षिप्तयो राजन् दन्तयोरिव दन्तिनोः ॥ ३६ ॥

सत्यधर्मीया

दन्तिनोर्गजयोर्दन्तयोः परस्परं सङ्घर्षे यथा तथा क्षिप्तयोर्गदयोः । वज्रनिष्पेषसन्निभश्चटचटेत्यनुकारशब्दः । उक्तं च तृतीयतात्पर्ये । ‘फट्कारश्चैव फूत्कारस्तथा किलकिलादयः । अनुकारशब्दा विज्ञेया ये चान्ये तादृशा मताः ॥’ इति । शुशुभ इत्यन्वयः । परस्परं रोगरूपयोरिति ध्वनिः ॥ ३६ ॥

ते वै गदे भुजजवेन निपात्यमाने अन्योन्यतोंऽसकटि१पादकरोरुजत्रून् ।

चूर्णीबभूवतुरुपेत्य यथार्कशाखे संयुद्ध्यतोर्द्विरदयोरिव दीप्तमन्योः ॥ ३७ ॥

पदरत्नावली

अन्योन्ययोः परस्परसङ्गतयोः सकटिपादकरोरुजत्रून् प्रति निपात्यमाने । अर्कस्य गुल्मस्य शाखे । दीप्तसन्ध्योः प्रकाशितसन्धिस्थानयोः ॥ ३७ ॥

दुर्घटभावदीपिका

यथाऽर्कशाखे संयुद्ध्यतोर्द्विरदयोरित्यस्य संयुद्ध्यतोर्द्विरदयोरर्कशाखे यथा तथैवेत्यर्थः । एतेन यथेत्यनेन पूर्णत्वाद् इवेत्येतद्व्यर्थमिति दूषणं परिहृतम् । इवेत्यस्य पूर्णार्थत्वमनङ्गीकृत्य तथैवेत्यर्थस्योक्तत्वात् ॥ ३७ ॥

॥ इति श्रीभागवतटिप्पण्यां द्व्यशीतितमोऽध्यायः ॥ १०–८२ ॥

सत्यधर्मीया

अन्योन्यतोंऽसकटिपादेति पाठः सरलो विरलार्थश्च । अन्योन्ययोः सकटिपादकरोरुजत्रूनिति पाठे विशेषाध्याहारेण वा मध्ये सहपूर्वपदसमासेन वा निर्वाहः कर्तव्यः । किञ्चोत्तरत्र स्तनांसक इत्यंसानुवादोऽप्येतदंशे वादानुकूलो न भवतीति क्लिष्टो मार्गः । ‘स्कन्धे ताभ्यां समाहत्य’ इति भारतोक्तेः । अन्योन्यतो भुजजवेन निपात्यमाने ते गदे । अंसकटि-पादकरोरुजत्रून् उपेत्य । स्पष्टप्रतिपत्त्यर्थं प्राण्यङ्गत्वैकवद्भावो नाश्रितः । अभिमानत्यागकृता-नङ्गत्वानुसन्धानं द्वयोरिति दर्शयितुं ग्रन्थकृद् एवं निर्दिदेशेति वाऽवसेयम् । दीप्तो मन्युः क्रोधो ययोस्तौ तयोः । संयुद्ध्यतोर्द्विरदयोर्गजयोरन्तरा स्थिते अर्कशाखे इव चूर्णीबभूवतुः । अनेनोभयोरभङ्गुरताऽङ्गयोरिति ध्वनिः । प्रतिध्वनिर्देहद्रढिम्न इति ज्ञेयम् ॥ ३७ ॥

इत्थं तयोः प्रहतयोर्गदयोर्नृवीरौ क्रुद्धौ स्वमुष्टिभिरयःस्पर्शैर्व्यपिष्टाम् ।

शब्दस्तयोः प्रहरतोर्घनयोरिवासीन्निर्घातवज्रपरुषस्तलताडनोत्थः ॥ ३८ ॥

पदरत्नावली

अयःस्पर्शैः स्वमुष्टिभिर्व्यपिष्टां विपेषतुर्जघ्नतुरित्यर्थः । प्रहतयोः सतोः । निर्घातवज्रवन्निष्ठुरः ॥ ३८ ॥

सत्यधर्मीया

इत्थमभङ्गाङ्गसङ्गेन तयोर्धृतयोर्गदयोः प्रहरतोश्चूर्णितयोः सत्योः क्रुद्धौ नृवीरौ । अयःस्पर्शैरपि माषं नीत्या स्पर्शैः स्वमुष्टिभिर्व्यपिष्टां पिपेषतुः । घनयोर्मेघयोे-स्तत्सम्बन्धिनिर्घातवज्रपरुषस्तयोर्निष्ठुरः शब्द इव तलताडनोत्थः शब्द आसीत् ॥ ३८ ॥

तयोरेवं प्रहरतोः समशिक्षाबलौजसोः ।

निर्विशेषमभूद् युद्धमक्षीणजवयोर्नृप ॥ ३९ ॥

सत्यधर्मीया

समानि शिक्षाबलौजांसि ययोः । एवं प्रहरतोस्तयोरक्षीणजवयोर्युद्धं निर्विशेषं सममेवाभूत् ॥ ३९ ॥

शत्रोर्जन्ममृती विद्वान् जीवितं च जराकृतम् ।

पार्थमाप्याययन् स्वेन तेजसाऽचिन्तयद् हरिः ॥ ४० ॥

पदरत्नावली

जरया राक्षस्या कृतशरीरशकलसन्धानाज् जन्म तद्विघटनान्मरणं च जानन्

॥ ४० ॥

सत्यधर्मीया

शत्रोर्जन्म जरासन्धानविहितं तथा मृतिं तत्त्रोटनादिति जन्ममृती विद्वान् । जराकृतं तज्जीवितं विद्वान् । स्वेन तेजसा पार्थमाप्याययन्वर्धयन्पूरयन्निति यावत् । हरिरचिन्तयत् ‘‘अविदितं परेण यथा स्यात्तथा कथमयं मया बोधनीयः’’ इति विचारयामास

॥ ४० ॥

सञ्चित्यारिवधोपायं भीमस्यामोघदर्शनः ।

दर्शयामास विटपं पाटयन्निव सञ्ज्ञया ॥ ४१ ॥

पदरत्नावली

भीमस्यारिवधोपायं सञ्ज्ञया दर्शयामास । का सञ्ज्ञेत्याह– विटपमिति

॥ ४१ ॥

॥ इति श्रीमद्भागवतटीकायां विजयध्वजतीर्थकृतायां पदरत्नावल्यां

दशमस्कन्धे उत्तरार्धे द्व्यशीतितमोऽध्यायः (स.धर्म.१०–८२) ॥

सत्यधर्मीया

सञ्चिन्त्यैवं सूचनीयमित्यरिवधोपायं निश्चित्यामोघदर्शनोऽव्यर्थीभव-दवगमः । विटपं वृक्षशाखां पाटयन्निव सञ्ज्ञयैतत्पाटनरूपिण्याऽहं यथा शाखां पाटयामि तथैनं पाटयेति सङ्केतेन दर्शयामास । इदं, वार्यं पापो मया कृष्णयुक्तः स्यादनुरोधितुम् । प्राणेनेत्यारभ्य बलं भीमसेन जरासन्धे दर्शयाशु तदद्य वेत्यन्तानां सभापर्वश्लोकानां तात्पर्य-कथनमिति मन्तव्यम् ॥ ४१ ॥

तद् विज्ञाय महासत्वो भीमः प्रहरतां वरः ।

गृहीत्वा पादयोः शत्रुं पातयामास भूतले ॥ ४२ ॥

सत्यधर्मीया

तत्तन्मर्म विज्ञाय महासत्वः शत्रुं पादयोर्गृहीत्वा भूतले पातयामास ॥

एकं पादं पदाऽऽक्रम्य दोर्भ्यामन्यं प्रगृह्य सः ।

गुदतः पाटयामास शाखामिव मतङ्गजः ॥ ४३ ॥

सत्यधर्मीया

मतङ्गजो गजः । अनेन स कृष्णः शाखामित्यपि निदर्शनान्तरं ध्वन्यते । पदा स्वस्य, एकं पादं तस्याक्रम्यान्यं पादं दोर्भ्यां प्रगृृह्य गुदतो जरासन्धितप्रथमसन्धिस्थान-मारभ्य शिखास्थानपर्यन्तमर्यन्तराविदितं मर्मस्थानं पाटयामास ॥ ४३ ॥

एकपादोरुवृषणकटिपृष्ठस्तनांसके ।

एकबाह्वक्षिभ्रूकर्णे शकले१ ददृशुः प्रजाः ॥ ४४ ॥

सत्यधर्मीया

कटिपदेन तद्भागग्रहणम् । एकः पादादिर्ययोस्ते । एकाक्षिकर्णभ्रूबाहु-शकले इति सुपठम् । अन्यथाक्षिकारलाघवं कार्यं स्यात् । एतद्युते शकले प्रजा ददृशुः । समरवासरास्तु पञ्चदशसङ्ख्याः । यथोक्तं सभापर्वणि–

‘कार्तिकस्य तु मासस्य प्रवृत्तं प्रथमेऽहनि ।

चतुर्दश्यां निशायां वै निवृत्तो मागधः क्रमात्’ ॥ इत्यादि ।

विवृतं चाचार्यैः– ‘मानयित्वा वरं धातुर्दिवसान्दशपञ्च च’ इति ॥ ४४ ॥

हाहाकारो महानासीन्निहते मागधेश्वरे ।

पूजयामासतुर्भीमं परिरभ्य जयाच्युतौ ॥ ४५ ॥

सत्यधर्मीया

जयाच्युतौ जयश्चार्जुनश्चाच्युतश्च कृष्णश्च तौ भीमं परिरभ्य पूजया-मासतुः । परिरभ्यार्जुनाच्युतावित्युक्तावपि न वृत्तविच्छित्तिस्तथाऽपि किञ्चिदप्रसिद्धजयपद-सन्धानेन जयो वैरिविजयश्चाच्युतः कृष्णश्च पूजयामासतुः । तत्रैकोऽर्हणार्हं चकार चैकस्तु तच्चकारेत्यर्थविशेषं ध्वनयामास व्यास इत्यवसेयम् । कीर्त्यङ्गनालिङ्गित इति नाटकाद्युक्ते रिपुविजयपरिरम्भणं च गौणं ज्ञेयम् । नन्वभ्यर्हितमित्युक्तेरच्युतविजयाविति वक्तव्यमिति चेत् । सत्यम् । अच्युतो जरासन्धकृतच्युत्यभावो जयेति भीमं जयाच्युतौ परिरभ्य पूजया-मासतुरित्यपि शंसनीयस्य प्रमेयस्य तत्त्वात्तदनादरणेन निबबन्ध ग्रन्थकृदित्यवेहि । किं विदङ्गाद्यगताविति यावत् । च्युङ्गताविति स्मृतेः ॥ ४५ ॥

सहदेवं तत्तनयं भगवान् भूतभावनः ।

अभ्यषिञ्चदमेयात्मा मागधानां पतिं प्रभुः ।

मोचयामास राजन्यान् संरुद्धा मागधेन ये ॥ ४६ ॥

॥ इति श्रीमद्भागवते दशमस्कन्धे द्व्यशीतितमोऽध्यायः ॥

सत्यधर्मीया

तत्तनयं जरासुतसुतं मागधानां पतिं तत्त्वेन । अमेयात्मा प्रभुः सहदेवमभ्यषिञ्चत् । यद्यपि तस्याभिषेको जरासन्धाज्ञप्तः । यथोक्तं सभापर्वणि । एवमुक्त्वा जरासन्धः सहदेवाभिषेचनम् । आज्ञापयत्तदा राजेत्यादि । तथाऽऽचार्यैरपि । ‘राज्ये निजं चात्मजमभ्यषिञ्चत्’ इत्यभ्यधायि । तन्मारणानन्तरं तत्कृताभिषेकस्याकिञ्चित्करत्वा-त्कृष्णाभिषेक एव प्रयोजक इति तदुक्तिः । यथोक्तं पुनस्तत्रैव । अभ्यषिञ्चत तत्रैव जरासन्धात्मजं मुदेति । न च जरासन्धवद्दुरात्माऽभवत्स इति तदभिषेचनं हरिणा कृतमिति वाच्यम् । तस्य साधुत्वात् । यथोक्तमाचार्यैः । ‘पुरा ख्यातं पत्रतापाख्यरुद्रम्’ इति । मागधेन ये संरुद्धास्तान् राजन्यान्मोचयामास । मोक्षयामासेति पाठे नामधातुरिति ज्ञेयम् । न विद्यते नयो यस्य सोऽनयस्तस्मिन्मागधे मृते सति । सहदेवमाज्ञाप्य मोचयामास । मोचयामास नृपतीन्सहदेवेन केशव इति तत्रोक्तेः ॥ ४६ ॥

॥ इति श्रीसत्यधर्मयतिकृतायां भागवतटिप्पण्यां दशमस्कन्ध उत्तरार्धे

द्व्यशीतितमोऽध्यायः ॥ १०–८२ ॥