०७ एकाशीतितमोऽध्यायः

इत्युदीरितमाकर्ण्य देवर्षेरुद्धवोऽब्रवीत्

॥ अथ एकाशीतितमोऽध्यायः ॥

श्रीशुक उवाच—

इत्युदीरितमाकर्ण्य देवर्षेरुद्धवोऽब्रवीत् ।

सभ्यानां मतमाज्ञाय कृष्णस्य च महामतिः॥ १ ॥

पदरत्नावली

एकान्तभक्तानां भक्त्यतिशयजननाय हरेर्बन्धुकृत्याचरणलक्षणमाहात्म्यं कथयति । तत्रादौ कृष्णकटाक्षसूचिततत्कार्यविशेष उद्धवः स्वां नीतिं वक्ति– इतीति ॥१॥

सत्यधर्मीया

बान्धवेषु सत्सु बान्धवैः सद्भिरेवं वर्तितव्यमिति लोकाञ्छिक्षयितुं हरिरिमामाटीकत धाटीं पाण्डवविषय इति प्रतिपाद्यतेऽत्र । तत्रादौ मन्त्रित्वान्न तूष्णीकेन भगवच्चित्तावगमयता मया स्थेयमित्युद्धवादुद्धवोऽवददिति वदति– इतीति । सभ्यानां सर्वेषां मतमाज्ञाय ज्ञात्वा कृष्णस्य च मतमाज्ञाय । तज्ज्ञानहेतुमाह– महामतिरिति । उद्धवोऽ-ब्रवीत् ॥ १ ॥

उद्धव उवाच—

यदुक्तम् ऋषिणा देव साचिव्यं यक्ष्यतस्त्वया ।

कार्यं पितृष्वसेयस्य रक्षा च शरणैषिणाम् ॥ २ ॥

पदरत्नावली

तद् भवाननुमोदतामिति देवर्षिणा यदुक्तं तस्यायमभिप्रायः । हे देव त्वया यक्ष्यतो यागं करिष्यतः पैतृष्वसेयस्य युधिष्ठिरस्य साचिव्यं साहाय्यं कार्यं कर्तव्यमिति । किञ्च शरणैषिणां राज्ञां रक्षा च कार्या ॥ २ ॥

सत्यधर्मीया

एका क्रिया व्द्यर्थकरीति लोकनायक अवश्यमनुष्ठेया भवतेति विज्ञाप-यति– यदिति । हे देव । ऋषिणा नारदेन ‘यक्ष्यतः पितृष्वसेयस्य धर्मराजस्य त्वया साचिव्यं साहाय्यं कार्यमिति’ यदुक्तं तत्कार्यमित्यावृत्त्याऽन्वयः । कार्यमिति कार्येति विपरिणतं सच्छरणैषिणां राज्ञां रक्षा च कार्येत्यन्वेति ॥ २ ॥

यष्टव्यं राजसूयेन दिक्चक्रजयिना विभो ।

अतो जरासुतवध उभयार्थो मतो हि मे ॥ ३ ॥

पदरत्नावली

कार्यद्वयसाधनोपायं वक्ति– यष्टव्यमिति ॥ तेन राज्ञा राजसूयेन यज्ञेन यष्टव्यम् । न ऋष्यादिनेव यागमात्रेण । तथापीत्थं कृत्येन भाव्यमित्याह– दिक्चक्रेति ॥ दिङ्मण्डलं जितवता । तत्रामृत्वा जरासन्धः करं न ददातीति यदतो जरासुतवध उभयेषामर्थः प्रयोजनम् ॥ ३ ॥

सत्यधर्मीया

दिक्चक्रजयिनाऽनेन विना त्वामिदमसाध्यमिति ध्वनयति । दिशां चक्रं मण्डलं तस्य जयोऽस्यास्ति तेन राजसूयेन यष्टव्यम् । राजसूययागः कर्तव्य इति यावत् । अत एतद्धेतोरस्मादिति वा । जरासुतवध उभयार्थो राजसूययागो राज्ञां रक्षणं चेत्युभय-प्रयोजनक इति मम मतः ॥ ३ ॥

अस्माकं च महानर्थो ह्येतेनैव भविष्यति ।

यशश्च तव गोविन्द राज्ञो बन्धाद् विमुच्यतः ॥ ४ ॥

पदरत्नावली

युधिष्ठिरकार्यं सिद्धवत्कृत्वा स्वकार्यमभिष्टौति– अस्माकमिति ॥ एतेन जरासन्धवधेन । विमुच्यतो विमोचयतः ॥ ४ ॥

सत्यधर्मीया

क्षित्यध्यक्षाणां रक्षणेन जरासुतमारणेन च नास्मद्दुःखहानिर्वा सुखमिति नेत्याह– अस्माकमिति । एतेन यागेन जरासन्धवधेन वा खलकृतशृृङ्खलाबन्धनेन वा महानर्थो भविष्यति । शत्रुमरणस्य तदुभयरूपत्वात् । राज्ञो जरासुतस्य बन्धाद्राज्ञ एतान् विमुच्यतो मोचयतस्तव गोविन्द यशो भविष्यति । स एवं स्थितश्चेत्तव किमपि नास्माकं कदाचिदेवं भवनं सम्भावितमिति भाषते । महांश्चासावनर्थश्चेति महानर्थश्च भविष्यति । तदमारणे पुनरेव स किञ्चित्त्वयि परोक्षेणोपद्रवं तनुयाद्दनुज इति भावः । जरासन्धवधे कृते उभयेषां राज्ञां धर्मस्य चेत्येषामुभयोर्वाऽर्थो मे मत इत्यपि योजयन्ति प्राचीनपद्यम् ॥ ४ ॥

सर्वैर्दुर्विषहो राजा नागायुतसमो बले ।

बलिनामपि चान्येषां भीमं समबलं विना ॥ ५ ॥

पदरत्नावली

दुर्बलैर्दुर्विषहोऽस्तु बलिनां सुविषह इत्यत उक्तम्– बलिनामिति । तर्हीदं दुःसाध्यम्? नेत्याह– भीमसेनेति ॥ ५ ॥

दुर्घटभावदीपिका

बले बलविषये नागायुतसमो राजा जरासन्धः । बलिनामपि राज्ञां सर्वैश्च सर्वप्रकारैरपि दुर्विषहो न केवलं बलिनां राज्ञां दुर्विषहः किन्तु समबलं जरासन्ध-हननानुकूलबलं भीमं विनाऽन्येषां बलिभ्यो राजभ्योऽन्येषां देवादीनामपि दुर्विषह इति । एतेन बलिनामपि दुर्विषह इत्यनेन दुर्बलानां दुर्विषह इत्यस्य कैमुत्यन्यायेन प्राप्तत्वात् । सर्वैरित्ये-तव्द्यर्थमिति चोद्यस्यानवकाशः । सर्वैरित्यस्य सर्वैदुर्बलैरित्यर्थ इत्यनङ्गीकारात् । एतेनैव बलिनां दुर्विषह इत्यनेनैव पूर्णत्वात् । अन्येषामित्येतव्द्यर्थमिति दूषणं पराकृतम् । बलिनां दुर्विषह इत्युक्ते बलिनां राज्ञामेव दुर्विषहो न तु देवानामिति भ्रमः स्यात्तं वारयितुमन्येषामित्युक्त-मित्यभ्युपागमात् । एतेनैव भीमस्य जरासन्धापेक्षयाऽधिकबलत्वात् । जरासन्धहननार्थं प्रवृत्तेर-योगाच्च । समबलं भीममिति कथनमयुक्तमिति शङ्का परास्ता । समबलमित्यस्य जरासन्ध-समबलमित्यर्थ इत्यनङ्गीकारात् ॥ ५ ॥

सत्यधर्मीया

तत्र मया यदालोच्योच्यतेऽच्युत न तद्विना स मारयितुं शक्य इति तद्बलं लपित्वा स्वमनीषितं भाषते– सर्वैरिति । अन्येषां बलिनां स राजा दुर्विषहोऽ-सुसाध्यहननः । तत्र तन्त्रं बले नागायुतसम इति । तर्हि गर्हितमिदं गमनागमनमित्यतो नेत्याह– भीमं समबलं विनेति । समस्मिन्विषये बलं यस्य स तम् । एतद्धनने समं योग्यं बलं यस्य स तमिति वा । भीमसेनबलं विनेत्यपि क्वाचित्कः पाठः । तत्र बलोऽप्येकः सुशकैतद्धनन इत्युत्प्रेक्षितश्चेदपि नाशरीरगिरा प्रवर्ततेऽत्रेति विना तं त्यक्त्वा भीमसेनं विनेति तत्सुसहतामाहोद्धव इति विवृण्वते ॥ ५ ॥

द्वैरथे स तु जेतव्यो न शताक्षौहिणीयुतः ।

ब्रह्मण्योऽभ्यर्थितो विप्रैर्न प्रत्याख्याति कर्हिचित् ॥ ६ ॥

पदरत्नावली

द्वैरथे द्वन्द्वयुद्धे । तत्रोपायमाह– ब्रह्मण्य इति ॥ ६ ॥

सत्यधर्मीया

स तु जरासुतोऽपि । द्वैरथे द्वन्द्वयुद्ध एव जेतव्यः शक्यो जेतुं न तु शताक्षौहिणीयुतः । युङ्क्ते पुरत इति, शब्दश्रुदितिवत्कर्तरि क्विबन्तः । शताक्षौहिणीयुतः सकाशादपि न जेतुं शक्यः । बह्वक्षौहिणीयुतो न जेतव्य इति वा । ननु सदा ससेनः कथं तां त्यक्त्वोपयातः स्यादित्यत आह– ब्रह्मण्य इति । ब्राह्मणे साधुरिति स तथा । ब्रह्मिष्ठो विप्रैरभ्यर्थितः किञ्चिद्विषये याचितः कर्हिचिदपि न प्रत्याख्याति नेति न वदति ॥ ६ ॥

ब्रह्मवेषधरो भूत्वा तं भिक्षेत वृकोदरः ।

हनिष्यति न सन्देहो द्वैरथे तव सन्निधौ ॥ ७ ॥

पदरत्नावली

‘तीक्ष्णश्चैव प्रचण्डश्च वृको नामानलो मतः । स पाण्डवस्य जठरे तेन भीमो वृकोदरः’ इति । हनननिश्चये को हेतुरित्यत उक्तम्– तवेति ॥ त्वया सह गन्तव्यं तदर्थमित्यर्थः ॥ ७ ॥

सत्यधर्मीया

ब्रह्मवेषधरस्तस्य धरो भूत्वा वृकोदरस्तं जरासुतं भिक्षेत याचेत । स्वयाचनयाऽऽयातं तं स द्वैरथे हनिष्यति सन्देहः संशयो न । तत्रापीतिकर्तव्यान्तर-मस्तीत्याह– तव सन्निधाविति । तव सन्निधानं तद्बलोत्तेजकमिति भावः । नागायुत-बलश्चेत्तथाऽपि न मर्मज्ञस्य दृढाङ्गः स इति संशयपदमनिबन्धानो निबन्धानश्च सन्देहपदं समीचीनो देवतेतरासन्धित इति शोभनो देहो यस्य स न किन्तु जरासन्धितासमीचीन-देहवानित्यप्यर्थं कटाक्षितवानित्यवसेयम् । तवसन् तवेन प्रकाशेनैव सन्वर्तमानः । योगे योगे तवस्तरमित्यृग्भाष्ये तेजस्वितमम् । तट्टीकायां च । तव इति बलस्येव तेजसोऽपि नाम अन्तर्णीतमतुबर्थं चेत्युक्तेः । यथा तत्रास्मायेति विनिलोपस्तद्वत्तु इति सौत्रधातोः सर्वधातुभ्य इत्यसुनि गुणावादेशयोस्तवसुन्निति जाते सलोपे तवेति प्रकाशवाचीति ज्ञेयम् । छान्दोग्य-भाष्ये च ‘तवोरूपस्त्वगुच्यत’ इत्युक्तस्य श्रीवेदेशतीर्थीये प्रकाशरूप इत्युक्तेश्च । सकारान्तत्वेनाकारान्तत्वपक्षे औणादिकाकारप्रत्यये भर्गो भर्ग इत्यादिवद्रूपं ज्ञेयम् । तव सद्यस्मिन्निति तवसन्वा । निधिवन्निधिस्तद्रूपेऽपेक्षितदातरि त्वयि सतीति वा ॥ ७ ॥

निमित्तमात्रमीशस्य विश्वसर्गनिरोधयोः ।

हिरण्यगर्भः शर्वश्च कालाख्यारूपिणस्तव ॥ ८ ॥

पदरत्नावली

तत् कुत इति तत्राह– निमित्तमात्रमिति ॥ काल इत्याख्या रूपं सञ्ज्ञा अस्यास्तीति कालाख्यारूपी तस्य ॥ ८ ॥

दुर्घटभावदीपिका

कालाख्यरूपिणा काल इति सञ्ज्ञायुक्तं रूपमस्यास्तीति कालस्य रूपीतस्य कालस्य रूपिणा कालनमकरूपेण । संहारकस्येति यावत् । उपलक्षणमेतत् । रूप-विशेषेण स्रष्टुरित्यपि द्रष्टव्यम् । ईशस्य तव विश्वसर्गनिरोधयोर्हिरण्यगर्भः शर्वश्च निमित्तमात्रमिति

॥ ८ ॥

सत्यधर्मीया

अहो मोहो भवत उद्धव किमुद्धवतो मम सन्निधानं शंससीत्यत आह– निमित्तमात्रमिति । कालाख्यारूपिणः काल इत्याख्या च रूपं च ते स्तोऽस्येति कालाख्यारूपी कालरूपं च नाम चास्तीश तवेति भावः । यथोक्तं तत्त्वप्रकाशिकायां टीकाकृत्पादैः । परतन्त्रसंहर्तृत्वपरा श्रुतिरिति भावः । पारतत्र्यं च संहारद्वारत्वमिति भावेनाह– निमित्तेति । काल इत्याख्यारूपे यस्यासौ तथोक्तः । रूपस्य कालत्वं संहर्तृ-त्वादिगुणसम्पन्नत्वमिति । यस्यासाविति टीकाऽन्यार्थविवरणरूपिणी न तु बहुव्रीहिं कटाक्षितवतीति ज्ञेयम् । अन्यथा कालाख्यारूपस्येति भवेदिति भावः । अत एव भावबोधे रूपिण इति इनेरेवार्थ उक्तो न तु बहुव्रीहिरित्युक्तमिति ज्ञातव्यमित्युक्तम् । ईशस्य तव विश्वस्य सर्गनिरोधयोर्हिरण्यगर्भः शर्वश्च निमित्तमात्रं मुख्यस्त्वम् । अतस्त्वत्सन्निधान-मपेक्षितमिति भावः ॥ ८ ॥

गायन्ति ते विशदकर्मगृहेषु देव्यो राज्ञां स्वशत्रुवधमात्मविमोक्षणं च ।

गोप्यश्च कुञ्जरपतेर्जनकात्मजायाः पित्रोश्च लब्धशरणा मुनयो वयं च ॥ ९ ॥

पदरत्नावली

हे कृष्ण, तत्रेदं कर्म लोकक्षेमकरमिति भावेनाह– गायन्तीति ॥ राज्ञां देव्यो महिष्यः, चशब्दाद् देव्यः, गृहेषु ते तवेदं कर्म गायन्ति । इदमिति किम्? तत्राह– स्वशत्र्विति ॥ आत्मनः स्वामिनो निरोधान्मोक्षणम् । कथं गायन्तीत्यतो लुप्तोपमामाह– गोप्य इति ॥ चशब्दो यथावचनः । गोप्यः यथा कुञ्जरपतेर्गजेन्द्रस्य नक्राद् विमोक्षणं नक्राख्यशत्रुवधं च । यद्वा कुवलयापीडस्यात्मविमोक्षणं शरीरवियोगलक्षणं मरणं चाणूरादिस्वशत्रुवधं च । जनकात्मजायाः सीताया रावणबन्धाद् विमोक्षणं रावणवधं च मुनयो वाल्मीक्यादयो वयं च यथा पित्रोर्देवकीवसुदेवयोः कंसविहितशृङ्खलाया विमोक्षणं कंसाख्यशत्रुवधं गायामस्तथेत्यर्थः । देव्यो देवस्त्रियो गृहेषु विमानेषु स्थित्वा मोक्षणमित्यादि वा ॥ ९ ॥

सत्यधर्मीया

तव तु नानेनानर्थो नाप्यर्थः । एतावत्तु स्यात्तेन च लोकोद्धार इत्यवश्यमिदमनुष्ठेयं कृष्णेत्याह– गायन्तीति । देव्यो भट्टारिकाः । ‘देवी भट्टारिकायां स्यात्’ इति विश्वः । ‘राजा भट्टारक’ इति तदुपयुक्तामरः । राजराजीवाक्ष्यो, गृहेषु ते विशदं यथा तथा कर्म गायन्ति । विशदं कर्मेति वा । स्वशत्रुवधं तथा राज्ञां पतीनां विमोक्षणं च गायन्तीति कर्मपदार्थविवरणम् । यथा देवास्तव कर्मादि विगायन्ति तथा देव्यः स्वशत्रुवधं राज्ञां विमोक्षणं च गायन्तीति दृष्टान्तदार्ष्टान्तिकतया योजनं वा । गोप्यो लब्धशरणा मुनयो वयं च कुञ्जरपतेर्गजेन्द्रस्य चक्रतो नक्रतो विमोक्षणं, जनकात्मजायाः सीताया विमोक्षणं क्षणदाचरतः पित्रोर्देवकीवसुदेवयोः कंसाद्यथा विमोक्षणं गायामस्तथा गायन्तीत्यन्वयः । अवतारान्तरनैर्विशेष्यबोधनार्थं तापसरामावतारचरितोक्तिः । कुञ्जरपते-र्नरकात्तस्य सुप्रतीकनायकत्वात् । हे जनक जगज्जनक या आत्मजायास्तदर्थं तपः-करणात्तत्त्वेन व्यपदेशस्तासां कशेर्वादिषोडशसहस्रयोषितां तथा या गोप्यस्तासां विमोक्षणं शङ्खचूडव्योमादितः । जनकेत्युक्त्योपजिहासति पितृत्वमुद्धवस्तयोः । कुञ्जरपतेः कुवलया-पीडस्य । जनकश्च वसुदेवश्च तस्यात्मना प्रयत्नेन कंसाद्रक्षिता जाया भार्येति देवकी ताभ्यां सहितौ च । आः अव्ययम् । आः सततं सन्तापकोपौ वा । ‘आः स्यात्सन्तापकोपयोः’ इति विश्वः । तौ च पितरौ च यशोदानन्दौ च तयोर्विमोक्षणं कंसात्तृणावर्तादजगरादिति वा

॥ ९ ॥

जरासन्धवधः कृष्ण भूर्यर्थायोपकल्प्यते ।

प्रायः कालविपाकेन१ तव चाभिमतः क्रतुः ॥ १० ॥

पदरत्नावली

किं बहुनोक्तेन ? अयं जरासन्धवधोऽनेकप्रयोजनोपेत इत्याह– जरासन्धेति ॥ भूभारहरणार्थत्वेनावतीर्णत्वात् तत्र कालान्तरे दुर्योधनादिभारावरोपणहेतुत्वेनाभिमतः क्रतुरित्याह– प्राय इति ॥ १० ॥

सत्यधर्मीया

स्वोक्तमुभयार्थायेत्येतत्तन्मात्रार्थकं नेति स्वयं तद्व्याकुर्वन्नाह– जरासन्धवध इति । हे कृष्ण भूर्यर्थाय शिशुपालादिभूपानां मूलभूतजरासन्धवधे वधः सुलभ इति बहुप्रयोजनाय । कालविपाकेन दुष्टराजन्यमरणकालपरिपाकेन । तव चायं क्रतुरभिमतः । प्रायः पाकविपाकेनेति क्वचित्पाठः । पच्यतेऽनेनेति पाकः कर्म तद्विपाकः फलोन्मुखता तेन पाकविपाकेनेति स्फुटार्थम् । तत्कर्मादिकं न स्वतः फलदं तव सामर्थ्येनैवेति ध्वनयितुं तव चेत्याद्युक्तिः ॥ १० ॥

श्रीशुक उवाच—

इत्युद्धववचो राजन् सर्वतोभद्रमच्युतः ।

देवर्षिर्यदुवृद्धाश्च रामश्च प्रत्यपूजयन् ॥ ११ ॥

पदरत्नावली

सर्वतोभद्रं सर्वप्रकारेण भद्रम् ॥ ११ ॥

सत्यधर्मीया

उद्धववचनं श्रुत्वा माधवः किमचीचरदिति राजमानससंशयं स्वयं शुकः परिहरन्वक्तीति वक्ति– श्रीशुक इति । सर्वतो भद्रं सर्वप्रकारेणापि मङ्गलरूपमित्युद्धव-वचोऽच्युतो देवर्षिर्नारदो यदुवृद्धा उग्रसेनादयो रामो बलश्च प्रत्यपूजयन् आनर्चुर्युक्तमिति श्लाघाञ्चक्रिर इति यावत् । यदुवृद्धा इत्यनेन बालानभिमतिं ध्वनयति ॥ ११ ॥

अथादिशत् प्रयाणाय भगवान् देवकीसुतः ।

भृत्यान् दारुकजैत्रादीननुज्ञाप्य गुरून् विभुः ॥ १२ ॥

सत्यधर्मीया

गुरून्वसुदेवादीननुज्ञाप्य विज्ञाप्य । दारुकजैत्रादीननुज्ञाप्याज्ञाप्य ॥ १२ ॥

स निर्गत्यावरोधान् स्वान्१ ससुतान् सपरिच्छदान् ।

सङ्कर्षणमनुज्ञाप्य यदुराजं च शत्रुहा ।

सूतोपनीतं स्वरथमारुहद् गरुडध्वजम् ॥ १३ ॥

सत्यधर्मीया

स्वानवरोधान्दारान्ससुतान्सपरिच्छदान् । स निर्गम्यावरोधात्स्वादिति पाठेऽन्तःपुरान्निर्गम्य बहिरागत्येत्यर्थः । निर्गम्य बहिर्गमयित्वा । सङ्कर्षणं यदुराजमुग्रसेनं च नगरं गन्तुमनुज्ञाप्य सूतेन दारुकेणोपनीतं गरुडध्वजं रथमारुरोह । अत्र नारदागमनमिव स्पष्टम् । ‘गुरुवद्भूतगुरवे प्राहिणोद्दूतमञ्जसा । शीघ्रगेन रथेनाशु’ इति सभापर्वणि । अयात-यत्स्वसारथिमिति महाभारततात्पर्यनिर्णये चोक्तेः सारथ्यागमनं ज्ञेयम् ॥ १३ ॥

ततो रथद्विपभटसादिनायकैः करालया परिवृत आत्मसेनया ।

मृदङ्गभेर्यानकशङ्खगोमुखैः सङ्घुष्टया वै ककुभो निराक्रमत् ॥ १४ ॥

पदरत्नावली

ततः किमभूदिति तत्राह– तत इति ॥ ककुभो दिशः सङ्घुष्टया सङ्घोषयन्त्या ॥ १४ ॥

सत्यधर्मीया

रथाश्च द्विपा गजाश्च भटाः पत्तयश्च सादिनोऽश्वारोहा इव गजारोहास्त इव रथारोहाश्च तेषां नायकाः प्रवर्तकास्तैः । ‘सादी तुरगमातङ्गरथारोहेषु कथ्यत’ इति विश्वः । करालयाऽरिकठोरयाऽऽत्मसेनया परिवृतः मृदङ्गादिभिः । ककुभो दिशः । सङ्घुष्टया घोषयन्त्या । निराक्रमत् ॥ १४ ॥

प्रियाश्च काश्चन शिबिकाभिरच्युतं सहात्मजाः पतिमनु सुव्रता ययुः ।

वराम्बराभरणविलेपनस्रजः सुसंवृता नृभिरसिचर्मपाणिभिः ॥ १५ ॥

पदरत्नावली

प्रियाश्चाच्युतं पतिमनुययुः । वस्त्रैः सुसंवृता असिचर्मपाणिभिर्नृभिः परिवृताः

॥ १५ ॥

सत्यधर्मीया

काश्चन प्रियाः सहात्मजाः सुव्रता अच्युतं पतिमनु शिबिकाभिः । वराम्बरभूषणविलेपनैः सह स्रजो यासां ताः । असिचर्मपाणिभिर्नृभिः सुसंवृता ययुः ॥ १५ ॥

नरोष्ट्रगोमहिषखराश्वतर्यनःकरेणुभिः परिजनवारयोषितः ।

स्वलङ्कृताः पटकुटिकम्बलाम्बराद्युपस्करा ययुरधियुज्य सर्वशः ॥ १६ ॥

पदरत्नावली

ततो बहिर्नरोष्ट्रादिभिः परिवृताः । परिजनयुतवारयोषितश्च । पटकुट्यो वस्त्रनिर्मितमन्दिराणि । पटकुटिकम्बलाम्बराणि आदिर्येषां ते तथा । ते च उपस्कराः परिकरा येषां ते तथा । अधियुज्य संयुज्यारोप्य वा ॥ १६ ॥

सत्यधर्मीया

नरादिगोमहिषखरैस्तथाऽश्वतरीभिर्गर्दभाद्बडबायां जाताभिरनोभिः शकटैः करेणुभिरिभीभिरिभैर्वा । स्वलङ्कृताः परिजनयोषितो वारयोषितो वेश्याश्च । पटकुटिर्वस्त्रमात्रकृतं गृहं शिबिरं कम्बलाम्बराणि अन्तः कम्बलसहितान्यम्बराणि तदात्मकाः कुटिका आदयो येषां ते च त उपस्कराश्च परिच्छदा यासां ताः । सर्वशः स्वसर्वपदार्थान्नरोष्ट्रादिभिरधियुज्य तदुपर्यारोप्येत्यर्थः ॥ १६ ॥

बलं बृहद्ध्वजपटच्छत्रचामरैर्वरायुधाभरणकिरीटवर्मभिः ।

दिवांऽशुभिस्तुमुलरवं बभौ रवेर्यथाऽर्णवः क्षुभिततिमिङ्गिलोर्मिभिः ॥ १७ ॥

पदरत्नावली

रवेरंशुभिर्दिवा दिनं यथा भाति । बृहद्ध्वजपटादेरुदाहरणमिदम् । क्षुभिततिमिङ्गिलोर्मिभिरर्णवो यथेति नरोष्ट्रादेर्निदर्शनम् ॥ १७ ॥

सत्यधर्मीया

तद्बृहद्बलं दिवा यथा खेंऽशुभिः किरणैस्तथा बभौ । ध्वजपटाश्च छत्राणि च चामराश्च तैर्वरायुधाभरणकिरीटवर्मभिः, क्षुभिततिमिङ्गिला ऊर्मयश्च तैस्ताभिर्वाऽर्णव इव च । ध्वजेत्यादिकस्य तिमिङ्गिलोर्मीणां चोपमानोपमेयभावः । तथांऽशूनां वरायुधाभरणकिरीटवर्मणां स इति विवेकः । क्रमविवक्षयाऽक्रमेण स वा ज्ञेयः ॥ १७ ॥

अथो मुनिर्यदुपतिना सभाजितः प्रणम्य तं हृदि निदधद् विहायसा ।

निशम्यागाद् व्यवसितमाहृतार्हणो मुकुन्दसन्दर्शननिवर्तेन्द्रियः ॥ १८ ॥

पदरत्नावली

हरेर्व्यवसितं निश्चितं निशम्यागात् ॥ १८ ॥

सत्यधर्मीया

अथो स्वाभिप्रेतप्रयाणानन्तरम् । मुनिर्यदुपतिना सभाजितस्तं प्रणम्य तं हृदि निदधद्दधानो व्यवसितं निश्चितं निशम्य । विहायसाऽऽकाशेन । मुकुन्दसन्दर्शननिर्वृतेन्द्रियो मुकुन्दस्य सन्दर्शनं तेन निर्वृतानि सुखितानीन्द्रियाणि यस्य सः । एतत्सुखनिर्वृतेन्द्रियत्वे निदर्शनमनेनैव दर्शयति– मुकुन्दसन्दर्शननिर्वृतेन्द्रिय इति । मुकुन्दस्य निधिविशेषस्य दर्शनेन निर्वृतेन्द्रियो धनाशावानिवेति । ‘मुकुन्दकुन्दनीलाश्च’ इत्यमरः । आहृतार्हण आहृतं मनसा कृष्णार्पितमर्हणं पूजा येन सः । अगात् । यः सभाजितः सभा जिता प्राप्ता सुधर्मा येन सः । तेन यदुपतिनाऽऽहृतं सम्पादितमर्हणं येनेति स वा ॥ १८ ॥

राज्ञां दूतमुवाचेदं१ भगवान् प्रीणयन्२ गिरा ।

मा भैष्ट दूत भद्रं वो घातयिष्यामि मागधम् ॥ १९ ॥

पदरत्नावली

प्रेम स्नेहं यातीति प्रेमया । सोमपाशब्दवद् रूपं नेयम् ॥ १९ ॥

सत्यधर्मीया

प्रीणयन् गिरेति सरलः पाठः । प्रेमया गिरेति पाठे प्रेम यातीति प्रेमया विश्वपाशब्दवद्रूपं ज्ञेयमिति । यत्प्रयोजनार्थमयमायातस्तान् राज्ञ उद्दिश्योक्तिरिति मन्तव्यम् । रिपुं घातयिष्यामि । अनेन हन्ताऽन्यो वर्तत इति ध्वनयति । मा भैष्टेत्यन्वयः ॥ १९ ॥

इत्युक्तः प्रस्थितो दूतो यथावदवदन्नृपान् ।

तेऽपि सन्दर्शनं शौरेः प्रत्यैक्षन्त मुमुक्षवः ॥ २० ॥

सत्यधर्मीया

यथावद् भगवदुक्त्यव्यत्यासेन । मुमुक्षव इदानीमेकं तदानीमेक-मित्युभयविधमोक्षमिच्छन्तीति ते तथा ॥ २० ॥

आनर्तसौवीरमरूंस्तीर्त्वा विनशनं हरिः ।

नदीर्गिरीनतीयाय पुरग्रामव्रजाकरान् ॥ २१ ॥

पदरत्नावली

विनशनं कुरुक्षेत्रम् । आकरं रत्नाद्युत्पत्तिस्थानम् ॥ २१ ॥

सत्यधर्मीया

विनशनं कुरुक्षेत्रम् । आनर्तादयो देशाः । पुराणि पत्तनानि ग्रामा-न्बहुजनावासान् । व्रजा गोपालालयाः । आकराः खनयस्तानतीयायातिक्रम्य ॥ २१ ॥

ततो दृषद्वतीं तीर्त्वा मुकुन्दोऽथ सरस्वतीम् ।

पाञ्चालानथ मत्स्यांश्च शक्रप्रस्थमथागमत् ॥ २२ ॥

पदरत्नावली

दृषद्वतीं चक्रनदीम् ॥ २२ ॥

सत्यधर्मीया

दृषद्वतीं गण्डिकामिति केचित् । चक्रनदीति पूर्वे । पाञ्चालान् मत्स्यांश्चातीयाय शक्रप्रस्थमिन्द्रप्रस्थमागमत् ॥ २२ ॥

तमुपागतमाकर्ण्य प्रीतो दुर्दर्शनं नृणाम् ।

अजातशत्रुर्निरगात् सोपाध्यायः सुहृद्वृतः ॥ २३ ॥

सत्यधर्मीया

नृणां सामान्यपुरुषाणां दुर्दर्शनं दुःसाध्यं दर्शनं मोचकं ज्ञानं यस्य स तम् । सोपाध्यायः सहाचार्यः सुहृद्वृतो निरागाद् ग्रामादिति शेषः ॥ २३ ॥

गीतवादित्रघोषेण ब्रह्मघोषेण भूयसा ।

अभ्ययात् स हृषीकेशं प्राणाः प्राणमिवागतम् ॥ २४ ॥

दुर्घटभावदीपिका

प्राणाः प्राणमिवागतमित्यस्य प्राणा दासभूताः प्राणा आगतं प्राणं मुख्यप्राणमिव मुख्यप्राणं प्रति यथा गच्छन्ति तथेति ॥ २४ ॥

सत्यधर्मीया

ब्रह्मघोषेण वेदघोषेण । प्राणा इन्द्रियाणि प्राणं मुख्यप्राणं यथा तथा हृषीकेशम् । अनेन तत्प्रेरणयैव सर्वव्यापार इति द्योत्यते । अभ्ययात्सम्मुखमगमत् ॥२४॥

दृष्ट्वा विक्लिन्नहृदयः कृष्णस्नेहेन पाण्डवः ।

चिराद्१ दृष्टं प्रियतमं सस्वजे स्म पुनः पुनः ॥ २५ ॥

सत्यधर्मीया

विक्लिन्नं द्रवद्धृदयं यस्य सः । तत्र निमित्तमाह– कृष्णस्नेहेनेति । चिराद्दृष्टं विभक्तिप्रतिरूपकमव्ययम् । बहुदिनव्यवहितत्वाद् वाऽदृष्टं कृष्णम् । चिरादृष्टमिति पाठोऽपि सुन्दरः । चिरमदृष्टस्तमिति तदर्थः । पुनः पुनः परिष्वङ्गे हेतूक्तिः ॥ २५ ॥

दोर्भ्यां परिष्वज्य रमालयालयं मुकुन्दगात्रं नृपतिर्हताशुभः ।

लेभे परां निर्वृतिमश्रुलोचनो हृष्यत्तनुर्विस्मृतलोकविभ्रमः ॥ २६ ॥

पदरत्नावली

रमा श्रीरालया भूस्तयोरालयं श्रीधराश्रयमित्यर्थः । विस्मृतो लोके विद्यमानो विविधभ्रमो येन स तथा ॥ २६ ॥

दुर्घटभावदीपिका

रमालयालयमित्यस्य रमाया अतिशयेनाश्रयमित्यर्थः । एतेन रमालयमित्यनेनैव पूर्णत्वात् । आलयशब्दो व्यर्थ इति चोद्यं प्रत्युक्तम् । द्विर्वचनमतिशयार्थ इत्यङ्गीकृत्य रमाया अतिशयिताश्रयमित्यर्थस्योक्तत्वात् ॥ २६ ॥

सत्यधर्मीया

नृपती राजा । स्वदोर्भ्यां रमालयालयं रमाया आलयो गृहं तद्रूपस्य श्रीवत्सस्यालय आश्रयस्तम् । अलयः कदापि तद्विरहविरहित आलयः श्रीवत्सो यस्मिंस्तदिति वा । रमामलालयमिति पाठस्तु बहुकोशेष्वदर्शनादेतदर्थाप्रतिभाननिदानकः । मुकुन्दगात्रं परिष्वज्य हताशुभः सन् अश्रूण्यानन्दजानि लोचनयोर्यस्य सः । हृष्यन्ती तनुः । तनुशब्देन रोमाञ्चो लक्ष्यते । यस्य सः । विस्मृतो लोकविभ्रमो व्यापारो येन सः । विस्मृतेतरबहिर्व्यापारः । परां निर्वृतिं महानन्दं लेभे । परां निर्वृतिं स्वरूपानन्दं परिष्वज्य

सायुज्यभाक् यथा लभते तथा लेभ इति लुप्तोपमा वा । कृतकृत्य आसीदित्यादिवत् ॥ २६ ॥

तं मातुलेयं परिरभ्य निर्वृतो भीमः स्मयन् प्रेमजलाकुलेन्द्रियः ।

यमौ किरीटी च सुहृत्तमं मुदा प्रवृद्धबाष्पाः परिरेभिरेऽच्युतम् ॥ २७ ॥

पदरत्नावली

प्रेमजलेनानन्दाश्रुजलेनाकुले नेत्रेन्द्रिये यस्य स तथा ॥ २७ ॥

सत्यधर्मीया

भीमस्तं मातुलेयं मातुलस्य स्त्री मातुली । मातुलोपाध्याययोरित्यादि-वार्तिकेनेन्द्रभवेत्यादिविहितस्यानुगागमस्य विकल्पविधानात्पुंयोगङीषि मातुली । ततः स्त्रीभ्यो ढगिति ढकीयादेशे तस्यापत्यं मातुलेय इति भवति । मातुलानी तु मातुलीत्युपयुक्तामरः । केचिद् वस्तुतस्तु शुभ्रादिगुणसन्निवेशाढ्ढकि ण््यादेशे रूपमित्याहुः । परिरभ्य । प्रेमजला-कुलमिन्द्रियं चक्षुर्यस्य सः । स्मयमानः । पुरत एतीति यन् सन् परिरभ्येत्यन्वयो वा । स्म तदीयगुणजातं स्मृत्वा निर्वृतः सुखितोऽभूदिति शेषः । स्मयोऽस्यास्तीति स्मयस्तद्व-दाचरन्निति वा । यमौ नकुलसहदेवौ तथा किरीटी अर्जुन इत्येते सुहृत्तममच्युतं मुदा । प्रवृद्धा बाष्पा येषां ते तथा । बाष्पेति निपातितः शब्दः । परिरेभे । ननु कानिष्ठ्या-दर्जुनानन्तरं यमौ वक्तव्यौ तत्कुतो व्यत्यास इति चेन्न । यथायथं पञ्चकगुणप्रपञ्चने तात्पर्यं ग्रन्थकृत इति सम्भवात् । हन्त तर्हि धर्मादनन्तरं भीमो धर्तव्यस्तेनासूचयन्ग्रन्थकृत्क्रमो ममाभिप्रेत इति पुनस्तदनुत्तार इति चेन्न । यमौ न साक्षान्मातृष्वस्रेयाविति किञ्चित्प्रेम-व्यत्यासः । कृष्णस्यामीष्वपि कश्चन सहोदरत्वात्सहोदरत्वकृतो वर्तेतेति सन्देहो नोहनीय इति तात्पर्यवानेवं प्रयुयोजेत्यवेहि । अत एव यक्षप्रश्ने नकुलोत्थापनविषयो धर्मप्रयत्नोऽप्य-स्मत्साचिव्यमचरदित्युक्तमुपपन्नम् ॥ २७ ॥

अर्जुनेन परिष्वक्तो यमाभ्यामभिवन्दितः ।

ब्राह्मणेभ्यो नमस्कृत्य वृद्धेभ्यश्च यथार्हतः ॥ २८ ॥

सत्यधर्मीया

क्रियातारतम्यमस्तीति क्रममनुस्मरंश्चाह– अर्जुनेनेति । अभिवन्दितो नमस्कृतः । वृद्धेभ्यो वयसा । ब्राह्मणेभ्योऽविशेषेण ॥ २८ ॥

मानिनो मानयामास कुरुसृञ्जयकेकयान् ।

सूतमागधगन्धर्वा बन्दिनश्चोपमन्त्रिणः ॥ २९ ॥

पदरत्नावली

उप समीपे समेत्य मन्त्रिण शीलाः ॥ २९ ॥

सत्यधर्मीया

मानिनः स्वप्राप्यमानवतः । मानित इति पाठे स्वयं मानितः प्रागित्यर्थः । उपमन्त्रिणो हासकाः ॥ २९ ॥

मृदङ्गशङ्खपटहवीणापणववेणुभिः ।

ब्राह्मणाश्चारविन्दाक्षं तुष्टुवुर्ननृतुर्जगुः ॥ ३० ॥

सत्यधर्मीया

सूतेत्याद्यानुपूर्व्यनुसारेण ननृतुर्जगुस्तुष्टुवुरिति वक्तव्यम् । तथाऽपि ब्राह्मणस्तवनस्य तदैहिकपारत्रिकफलोपलम्भकतया मुख्यत्वात्प्रागुक्तिः क्रममतिक्रम्येति ज्ञेयम् ॥ ३० ॥

एवं सुहृद्भिः पर्यस्तः पुण्यश्लोकशिखामणिः ।

संस्तूयमानो भगवान् विवेशालङ्कृतं पुरम् ॥ ३१ ॥

पदरत्नावली

पर्यस्तः परिवृतः ॥ ३१ ॥

सत्यधर्मीया

पर्यस्तः परिवीतः । पर्यस्तो यः प्रस्तुतो वैरी जरासुतासुतादिनिरस्त एवेति सुहृद्भिः संस्तूयमान इत्यन्वयो वा । अलङ्कृतं पुरं विवेश ॥ ३१ ॥

संसिक्तवर्त्म करिणां मदगन्धतोयैश्चित्रध्वजैः कनकतोरणपूर्णकुम्भैः ।

मृष्टात्मभिर्वरदुकूलविभूषणस्रग्गन्धैर्नृभिर्युवतिभिश्च विराजमानम् ॥ ३२ ॥

सत्यधर्मीया

धर्मधामानुवर्णयति– संसिक्तेति । करिणां मदस्य यो गन्ध आमोदो येषां तानि च तानि तोयानि दानोदकानीति यावत् । तैः संसिक्तं वर्त्म यस्य तत् । गन्धतोयपदं चन्दनाम्बुपरं चेन्न बरीभरीति सरसतामन्वयनेन करिपदमिति मननीयम् । मदस्य गन्धो हिंसनं प्रच्योतनमिति यावत् । तद्रूपतोयैरिति व्याकुर्वते । चित्रध्वजैः कनक-तोरणपूर्णकुम्भैर्विराजमानमित्यन्वयः । एवमुत्तरत्रापि । मृष्टा आत्मानो देहा यासां तास्ताभिर्युवतीभिस्तथा वरदुकूलविभूषणसहिताः स्रजो गन्धाश्च येषां तैर्विभूषणस्रग्गन्धै-र्नृभिश्च । वरदुकूलविभूषणस्रग्गन्धैर् मृष्टात्मभिर्युवतीभिर्नृभिश्च विराजमानमिति वा ॥ ३२ ॥

**उद्दीप्तदीपावलिभिः (दीपबलिभिः) प्रतिसद्मजालनिर्यातधूपरुचिरं **

**विलसत्पताकम् । **

मूर्धन्यहेमकलशै रजतोरुशृङ्गैर्जुष्टं ददर्श भवनैः कुरुराजधाम ॥ ३३ ॥

पदरत्नावली

चन्दनाम्बुसंसिक्तवर्त्म कुरुराजधाम ददर्शेत्यन्वयः । प्रतिसद्म प्रतिगृहम्

॥ ३३ ॥

सत्यधर्मीया

उद्दीप्तानां दीपानामावलिभिः पङ्क्तिभिः । उद्दीप्तैर्दीपैर्बलिभिः पूजोपहारा-दिभिरिति तत्पाठेऽर्थः । प्रतिसद्मान्वागारं जालैर्गवाक्षैर्निर्यातो धूप आगरवादिस्तेन रुचिरम् । विलसन्त्यः पताका यस्य तत् । मूर्धन्याः शिरसि भवा हेमकलशा येषां तानि तैः । राजतात्मकान्युरूणि शृृङ्गाणि कलशोपरि शिखराणि येषां तानि तैः । कलशजलान्तः किमपि न पतेदिति रजतशृृङ्गाणि कृतानीत्यर्थः । तेषां चातिलघुद्वारकत्वात्कलशोपरि तत्स्थापनमिति भावः । तद्वन्मूर्धन्यहेमकलशैर्भवनैरितरावान्तरगृहैर्जुष्टं कुरुराजधाम ददर्शा-पश्यत् ॥ ३३ ॥

प्राप्तं निशम्य नरलोचनपानपात्रमौत्सुक्यविश्लथितकेशदुकूलबन्धाः ।

सद्यो विसृज्य गृहकर्मपतीन् स्वतल्पे द्रष्टुं ययुर्युवतयः स्म नरेन्द्रमार्गे

॥ ३४ ॥

सत्यधर्मीया

नराणां लोचनानां पानस्य सादरं निरीक्षणस्य पात्रं विषयम् । नराणामियं रीतिश्चेद्रीतिर्नारीणां का कीर्तनीयेति नरपदेन ध्वनयति । नार्यश्च नराश्च पुंशेषो वा । यद्वा नरा देवास्तेषां लोचनपानपात्रं प्राप्तं निशम्य । औत्सुक्येन गमनलालस्येन विश्लथितो गलितः केशदुकूलबन्धो यासां ताः । सद्यः श्रवणसमनन्तरमेव । युवतयो गृहकर्मावश्यकं विसृज्य तथा स्वतल्पे पतीनपि विसृज्य नरेन्द्रमार्गे तं द्रष्टुं ययुः स्म । गृहकर्मपतीन् गृहकर्मणि पतींस्त-त्तदधिपतीन् विसृज्य स्वयमेव तत्तद्देयकुसुमादिकमतन्मार्गनिरीक्षणेन गृहीत्वेति यावत् । स्वतल्पे स्वास्तल्पानि भार्या यस्य तस्मिन्सङ्घे सद्यो विसृज्य । हे नरेन्द्र मार्ग एव प्राप्तं निशम्य गतवति सति युवतयोऽपि ययुरित्यन्वयो वा । एतेन नरलोचनपानपात्रमित्युक्तेर्दौर्मुख्यं तथा पत्नीभ्योऽपि पतीनामजाग्रत्त्वं जगदीश्वरविषये सम्भवदपहस्तितं वेदितव्यम् । ‘तल्पं तु शयनीये स्यात्तल्पमट्टकलत्रयोः’ इति विश्वः ॥ ३४ ॥

तस्मिन् सुसङ्कुल इभाश्वरथद्विपद्भिः कृष्णं सभार्यमुपलभ्य गृहाधिरूढाः ।

नार्यो विकीर्य कुसुमैर्मनसोपगुह्य सुस्वागतं विदधुरुच्छ्रितवीक्षितेन२ ॥३५॥

पदरत्नावली

उच्छ्रितवीक्षितेन समनिरीक्षणेन ॥ ३५ ॥

दुर्घटभावदीपिका

गृहाधिरूढाः प्रासादलक्षणगृहाधिरूढा नार्य इभाश्वरथैर्द्विपद्भिः ससंकुले तस्मिन्नरेन्द्रमार्गे सभार्यं कृष्णमुपलभ्य दृष्ट्वा कुसुमैर्विकीर्य मनसोपगुह्येत्स्मितवीक्षितेन स्मितं मन्दस्मितं तद्युक्तं वीक्षितं वीक्षणं स्मितवीक्षितमुत्कृष्टं च तत् स्मितवीक्षितं च तत्तेन मनसि कृष्णं सुस्वागतं विदधुरिति । एतेन सुसङ्कुल इति वक्तव्यं ससङ्कुल इति कथनमयुक्त इति चोद्यस्यानवकाशः । उकारस्य छान्दसाकारादेशे ससङ्कुला इति रूपं निष्पन्नमित्यभ्युपेत्य ससङ्कुल इत्यस्य सुसङ्कुल इत्यर्थ इत्युक्तत्वात् । एतेनैव मन्दस्मितवीक्षितेनेति वक्तव्ये उत्सिमतवीक्षितेनेति कथनमयुक्तमिति शङ्काऽनवकाशः । स्मितशब्देन मन्दस्मितं गृहीत-मुच्छब्दोक्तमुत्कृष्टवीक्षितस्य विशेषणमिति चाभ्युपगम् ॥ ३५ ॥

॥ इति श्रीभागवतटिप्पण्याम् एकाशीतितमोऽध्यायः ॥ १०–८१ ॥

सत्यधर्मीया

इभाश्वरथपदातिभिरस्मिन् राजमार्गे सुसङ्कुलेऽतिनिबिडे । स्वयं वध्वोऽध्वान-मचक्षाणा गृहाधिरूढाः स्वस्वगृहाधिरूढाः सभार्यं कृष्णमुपलभ्य दृष्ट्वा स्वागतमतिसमीचीनमागमनं तव स्वामिन्नित्यभिनयेन विदधुश्चक्रुर्दर्शयामासुरिति यावत् । एता गृहाण्येतानि भार्या इति आधि-र्गृहाधिः सरूढा यास्ता गृहाधिरूढा इति वा । अत एव किमकार्यमूभिरिति सुलग्ना ॥३५॥

ऊचुः स्त्रियः पथि निरीक्ष्य मुकुन्दपत्नीस्तारा यथोडुपसहाः किमकार्यमूभिः ।

यच्चक्षुषां पुरुषमौलिरुदारहासलीलावलोककलयोत्सवमातनोति ॥ ३६ ॥

पदरत्नावली

उडुपसहा उडुपेन चन्द्रेण सहितास्ताराः । अमूभिः किं शुभमकारि

॥ ३६ ॥

सत्यधर्मीया

स्त्रियो यथोडुपसहाश्चन्द्रसहितास्तारा अश्विन्याद्यास्तथा भासमाना मुकुन्दपत्नीः पथि निरीक्ष्य ऊचुः । किमाहुरित्यत आह– यच्चक्षुषामिति । यासां चक्षुषां पुरुषमौलिरुदारहासलीलावलोकस्य कलया लेशेनोत्सवमातनोति अमूभिस्ताभिः किं सुकृत-मकारि किं कृतं प्राक् सुकृतं तन्न विद्म इत्यूचुः ॥ ३६ ॥

तत्र तत्रोपसङ्गम्य पौरा मङ्गलपाणयः ।

चक्रुः सपर्यां कृष्णाय श्रेणीमुख्या हतैनसः ॥ ३७ ॥

पदरत्नावली

श्रेणीमुख्या नगरप्रधानाः ॥ ३७ ॥

सत्यधर्मीया

मङ्गलानि शुभवस्तूनि पाणौ येषां ते । श्रेणीमुख्याः शिल्पश्रेष्ठाः । ‘श्रेणी स्यात्कारुसंहतोै’ इति विश्वः । प्रकृतिमुख्या वा । हतमेनोंऽहो येषां ते । मङ्गल-पाणयः कृष्णाय सपर्याञ्चक्रुः ॥ ३७ ॥

अन्तःपुरजनैः प्रीत्या मुकुन्दः फुल्ललोचनैः ।

ससम्भ्रमैरभ्युपेतः प्राविशद् राजमन्दिरम् ॥ ३८ ॥

सत्यधर्मीया

फुल्लानि लोचनानि येषां ते तैरन्तःपुरजनैः ससम्भ्रमैः प्रीत्याऽभ्युपेतः । मुकुन्दो राजमन्दिरं प्राविशत् ॥ ३८ ॥

पृथा विलोक्य भ्रात्रेयं कृष्णं त्रिभुवनेश्वरम् ।

प्रीतात्मोत्थाय पर्यङ्कात् सस्नुषा परिषस्वजे ॥ ३९ ॥

पदरत्नावली

भ्रात्रेयं भ्रातुः पुत्रम् ॥ ३९ ॥

सत्यधर्मीया

भ्रात्रेयं भ्रातृसुतं पृथा विलोक्य प्रीत आत्मा मनो यस्याः सा डाबन्तो वा । सस्नुषा सहद्रौपदी पर्यङ्कादुपविष्टादुत्थाय परिषस्वजे आलिलिङ्गे । उत्थानमात्रे स्नुषासाहित्यं नालिङ्गन इत्यपि वदन्ति । सहपुत्रा भारं वहति गर्दभीत्यादिवदिति समाधत्ते च पुत्रीसमतया साऽप्यालिलिङ्गे इति समे ॥ ३९ ॥

गोविन्दं गृहमानीय देवदेवेशमादृतः ।

पूजायां नाविदत् कृत्यं प्रमोदोपहतो नृपः ॥ ४० ॥

सत्यधर्मीया

प्रमोदेनोपहतो मोहित इति नृपः पूजायां तद्विषये किमाचमनं प्राक् प्राग्वा मधुपर्क इति कृत्यं नाविदन्न व्यजानात् ॥ ४० ॥

पितृष्वसुर्गुरुस्त्रीणां कृष्णश्चक्रेऽभिवादनम् ।

स्वयं च कृष्णया राजन् भगिन्या चाभिवादितः ॥ ४१ ॥

पदरत्नावली

भगिन्या सुभद्रया च ॥ ४१ ॥

सत्यधर्मीया

पितृष्वसुः कुन्त्याः । गुरुस्त्रीणां पुरोहिताद्यार्यभार्याणामभिवादनं कृष्ण-श्चक्रे । स्वयं कृष्णया द्रौपद्या तथा भगिन्या सुभद्रया चाभिवादितो नमस्कृतः ॥ ४१ ॥

श्वश्व्रा सञ्चोदिता कृष्णा कृष्णपत्नीः सुवर्चसः ।

आनर्च रुग्मिणीं सत्यां भद्रां जाम्बवतीं तथा ॥ ४२ ॥

पदरत्नावली

श्वश्व्रा पृथया ॥ ४२ ॥

सत्यधर्मीया

श्वश्व्रा कुन्त्या । कृष्णपत्नीरानर्च । लिट् । अपूजयत् । पत्नीरिति विशदयति– रुग्मिणीमित्यादिना ॥ ४२ ॥

कालिन्दीं मित्रविन्दां च शैब्यां नाग्नजितीं सतीम् ।

अन्याश्चाभ्यागता यास्ता वासःस्रङ्मण्डनादिभिः ॥ ४३ ॥

सत्यधर्मीया

अन्या भार्या अभ्यागताः सुवासिनीरिति वा । मण्डनादिभिरलङ्का-रादिभिः ॥ ४३ ॥

सुखं निवासयामास धर्मराजो जनार्दनम् ।

ससैन्यं सानुगामात्यं सभार्यं च नवं नवम् ॥ ४४ ॥

सत्यधर्मीया

नवं नवं नित्यनूतनं यथा तथा ॥ ४४ ॥

तर्पयित्वा खाण्डवेन वह्निं पाण्डवसंयुतः ।

मोचयित्वा मयं येन राज्ञो दिव्या सभाऽऽहृता ॥ ४५ ॥

पदरत्नावली

येन मयेन दिव्या सभा राज्ञ आहृता भगवदाज्ञया निर्माय दत्ता ॥४५॥

॥ इति श्रीमद्भागवतटीकायां विजयध्वजतीर्थकृतायां पदरत्नावल्यां

दशमस्कन्धे उत्तरार्धे एकाशीतितमोऽध्यायः (स.धर्म.१०–८१) ॥

सत्यधर्मीया

पाण्डवसंयुतः खाण्डवेन वनेन वन्हिं तर्पयित्वा स्थितो यो, येन च तद्दाहकालेऽन्तर्निविष्टं मयं दैतेयं तक्षाणं मयं प्रेरयित्वा राज्ञः सभा कारिताऽऽहृता दत्ता च तं सुखं निवासयामासेत्यतीतेनान्वयः । स उवासेत्युत्तरेण वाऽन्वयः ॥ ४५ ॥

उवास कतिचिन्मासान् राज्ञः प्रियचिकीर्षया ।

विहरन् रथमारुह्य फल्गुनेन भटैर्वृतः ॥ ४६ ॥

॥ इति श्रीमद्भागवते दशमस्कन्धे एकाशीतितमोऽध्यायः ॥

सत्यधर्मीया

राज्ञः प्रियचिकीर्षया कतिचिन्मासान्फल्गुनेन भटैर्वृतो रथमारुह्य विहर-न्नुवास । यद्यपि खाण्डववनदहनकाले षडवशेषितास्तथाऽपि तत्कृतकार्याभावात्पञ्चा-नामनुक्तिरिति ज्ञेयम् । ‘तस्य पूर्वं शिरोग्रस्तं पुच्छं तस्य निगीर्यते । निगीर्यमाणा साऽऽक्रामत्सुतं नागी मुमुक्षया । ऊर्ध्वमाचक्रमे सा तु पन्नगी पुत्रगर्धिनी । तस्याः शरेण तीक्ष्णेन पृथुधारेण पाण्डवः । शिरश्चिच्छेद गच्छन्त्यास्तमपश्यत् शचीपतिः । तं मुमोचयिषुर्वज्री वातवर्षेण पाण्डवम् । मोहयामास तत्कालमश्वसेनस्त्वमुच्यत । तक्षक-पुत्रोऽश्वसेनोऽयमेव कर्णतूणीरगः । तस्मिन्वने दह्यमाने षडग्निर्न ददाह च । अश्वसेनं मयं चैव चतुरः शार्ङिकांस्तथेत्यादिपर्वोक्तेः । ते च जरितार्यादयश्चत्वारः ॥ ४६ ॥

**॥ इति श्रीसत्यधर्मयतिकृतायां भागवतटिप्पण्यां दशमस्कन्ध उत्तरार्धे **

एकाशीतितमोऽध्यायः ॥ १०–८१ ॥