अथोषस्युपवृत्तायां कुक्कुटान् कूजतोऽशपन्
॥ अथ अशीतितमोऽध्यायः ॥
श्रीशुक उवाच—
अथोषस्युपवृत्तायां कुक्कुटान् कूजतोऽशपन् ।
गृहीतकण्ठ्यः पतिभिर्माधव्यो विरहातुराः ॥ १ ॥
पदरत्नावली
राज्ञां दैनन्दिननित्यनियमप्रकारं कथयत्यस्मिन्नध्याये । तत्रादौ माधवीनां ग्राम्यधर्मलौल्यातिशयं कथयति– अथेत्यादिना ॥ १ ॥
सत्यधर्मीया
दैनन्दिनीं जनमनुकुर्वतो जनार्दनस्य चर्यां कथयत्यस्मिन्नध्याये । तत्रादौ भगवदङ्गालिङ्गनविरहकातराणां तरुणीनामितरासां ग्राम्यधर्माशां रुग्मिण्या उपलक्षणया सत्यायाश्च नटनं च कथयति– अथेति । उषसि प्रातःसन्ध्यायाम् । सकारान्तः स्त्रीलिङ्गोऽयं सन्ध्यावाची दस्रभार्यावाचिशब्दवज्ज्ञेयः । तमश्विनावूचतुरुषसं स्तुहीति स उषसं तुष्टावेति ब्राह्मणम् । सूर्यो देवीमुषसं रोचमानमित्यादेः । उषः प्रत्युषसी क्लीबं पितृप्रस्वां च योषितीत्यमरभानुः । उपवृत्तायां सन्निहितायां कूजन्तः कुक्कुटांस्ताम्रचूडान् पतिभिः कृष्णगृहीताकारविशेषैरिति पतिभिः । गृहीताः कण्ठा यासां ता यैः स्वयं गृहीतकण्ठ्यः । प्रेषणार्थमन्यगृहीतकण्ठ्य इवापद्रुता इत्यप्यान्तरङ्गिको भावः । माधव्यो माधवयोषितो विरहातुरा अशपन् आचुक्रुशुः । न पतयोऽन्येऽन्याश्च यादवयोषित इति सरसम् । प्रक्रमातिक्रमात् ॥ १ ॥
वयांस्यरूरुवन् कृष्णं बोधयन्तीव बन्दिनः ।
गायत्स्वलिष्वदभ्रेषु मन्दारवनवायुभिः ॥ २ ॥
पदरत्नावली
वयांसि कोकिलादीनि । बन्दिनः कृष्णं बोधयन्तीवोपतस्थुः । नित्योद्बुद्धत्वादिवेति । मन्दारवनवायुभिः पारिजातवनवायुभिः सह ॥ २ ॥
दुर्घटभावदीपिका
मन्दारवनवायुभिरुद्बुद्धेष्वदभ्रेष्वलिषु गायत्सु सत्सूत्द्बुद्धानि बन्दिन इव कृष्णं बोधयन्ति– वयांस्यरूरुवन्निति ॥ एतेन मन्दारवनवायुभिरित्येतदनन्वितमिति दूषणं निरस्तम् । उद्बुद्धेष्विति शेषपूरणेनान्वयस्योक्तत्वात् । एतेनैवालिषु गायत्स्वित्येतदनन्वितमिति दूषणं परिहृतम् । उद्बुद्धानीति शेषं कृत्वाऽन्वयस्याभिहितत्वात् ॥ २ ॥
सत्यधर्मीया
अदभ्रेषु मन्दारवनवायुभिः पारिजातवनानिलैः सहालिषु गायत्सु वयांसीतरे पक्षिणो बन्दिनः स्तुतिपाठका बोधयन्तीवारूरुवन् अशब्दयन् ॥ २ ॥
मुहूर्तं तं तु वैदर्भी नामृष्यदपि शोभनम् ।
परिरम्भणविश्लेषात् प्रियबाह्वन्तरं गता ॥ ३ ॥
पदरत्नावली
तं मुहूर्तोपलक्षितकालम् । प्रियस्य कृष्णस्य बाह्वन्तरं वक्षः स्थलम्
॥ ३ ॥
सत्यधर्मीया
शोभनं सत्क्रियोपयोगित्वान्मङ्गलरूपमपि तं मुहूर्तं मङ्गलदेवी वैदर्भी नामृष्यन्न सेहे । कीदृशी प्रियस्य बाव्होरन्तरम् । अथाप्लुतोऽम्भस्यमल इति वक्ष्यमाण त्वात् ॥ ३ ॥
ब्राह्मे मुहूर्ते उत्थाय वार्युपस्पृश्य माधवः ।
दध्यौ प्रसन्नकरणः स्वात्मानं तमसः परम् ॥ ४ ॥
पदरत्नावली
नित्यप्रसन्नान्तःकरण आत्मानं स्वयमेव ॥ ४ ॥
सत्यधर्मीया
तमसः परमिति । नाज्ञानहानायेदं ज्ञानम् । तथाऽऽत्मानमिति न स्वभिन्नं किन्तु स्वमेवेति भावमावेदयति । प्रसन्नानि करणानीन्द्रियाणि यस्य स दध्यौ । तमश्चाज्ञानं तन्मूलभूतप्रकृतिरिति वा ॥ ४ ॥
एक परं ज्योतिरनन्यमद्वयं स्वसंस्थया नित्यनिरस्तकल्मषम् ।
ब्रह्माख्यमस्योद्भवनादिहेतुभिः स्वलक्षणैर्लक्षितभावनिर्वृतिम् ॥ ५ ॥
पदरत्नावली
इतरवस्तुभ्य आत्मानं व्यावर्तयति– एकमिति ॥ एकं मुख्यं स्वरूपभेदशून्यं वा । आदित्यादिज्योतिभ्यः परं विलक्षणम् । ‘परं ज्योतिरुपसम्पद्य’ इति श्रुतिः । अनन्यम् अन्याधीनस्वभावरहितम् । न अन्यः स्वतन्त्रो यस्मात् स तथा तं वा । अद्वयमसदृशम् । स्वसंस्थया स्वव्यवस्थया स्वमहिम्ना स्वाकारेण वा नित्यनिरस्तदोषम् । किं तस्य नामधेयम्? अत्राह– ब्रह्माख्यमिति ॥ स्वलक्षणैः स्वरूपलक्षणैर् व्यावर्तकधर्मैः । अस्य जगत उद्भवनादिहेतुभिः सृष्ट्यादिहेतुभिर् लक्षितभावनिर्वृतिः स्वरूपानन्दो यस्य स तथा तम् । ‘यदेष आकाश आनन्दो न स्यात्’ इति श्रुतेः ॥ ५ ॥
दुर्घटभावदीपिका
ब्रह्माख्यं ब्रह्मसञ्ज्ञिकं स्वलक्षणैः स्वतन्त्रविष्णुलक्षणविशिष्टैरस्य जगत उद्भवनादि हेतुभिरुद्भवनादिकारणैरुपविशेषैर्लक्षितभावनिर्वृतिं लक्षिताऽनुमिता भावनिर्वृतिः स्वरूपानन्दो यस्य तमिति । अयं भावः । भगवान् जगत्सृष्ट्याद्यर्थं स्वस्वरूपनानारूपाणि गृह्णाति । तत्र कारणान्तराभावाद् आनन्दोद्रेक एव कारणमतो जगत्सृष्ट्याद्यर्थं नानारूप-ग्रहणेनानन्दोद्रेकोऽनुमीयत इति ॥ ५ ॥
सत्यधर्मीया
इतरविलक्षण आत्मा स इति निर्धारयितुं तल्लक्षणानि स्वरूपभूतान्याह– एकमिति । एकं मुख्यं गुणकर्मभिरभिन्नं वा । परंज्योतिः । परमित्यव्ययं ज्योतिभ्यः सूर्यादिप्रकाशकार्थेभ्यः परमिति । परञ्ज्योतिश्चासावनन्यश्चेति पदमेकम् । आत्मपदान्वयनाय रूपादिपदाध्याहारक्लेशासाधकत्वात् । परञ्ज्योतिरुपसम्पद्येत्यादेः । स्वानधीनवस्तुहीनत्वान्न विद्यतेऽन्यः स्वानधीनो यस्येति विग्रहः । अद्वयं समाधिकरहितम् । तन्त्रभागवतवचनमाचार्यैः श्रुतिगीताव्याख्यावसरे वक्ष्यमाणं, स्वरूपमस्मरत्कृष्ण एकं स्वस्मिन्न भेदतः ।
अतत्तन्त्रस्य राहित्यादनन्यं सदृशोज्झितेः ।
अद्वयं नित्यनिर्वृत्या भावनिर्वृतमीश्वरम् ॥ इत्यनुसन्धेयम् ।
स्वसंस्थया स्वरूपस्थित्या । नित्यं निरस्ताः कल्मषा येन तम् । ब्र्रह्मेत्याख्या यस्य स तम् । अस्य जगतः । उद्भवनमुत्पत्तिस्तदेवादिर्यस्य जन्माद्यष्टकस्य हेतुभिः स्वलक्षणैः स्वरूपधर्मैर्लक्षितो भावो निर्वृतिश्च भावो ज्ञानं निर्वृतिरानन्दश्च ते यस्य स तम् । अत्रात्मेति विशेष्यमिति भावनिर्वृतीति क्वाचित्कः पाठो नादरणीयः । अत एव यत्तत्परञ्ज्योतिरिति पाठो लेखकहस्ते व्यत्यस्थित इति ज्ञेयम् । मानम् एकं स्वस्मिन्नभेदत इति विवृतेः । तथोक्तं सुधापरिमले पूर्वश्लोकोक्तात्मविशेषत्वाद्भावनिर्वृतमित्युक्तम् । ज्योतिरित्यस्यापि ज्योतिरूपमित्यर्थः । अत एवानन्यमिति साधु । अत एवानन्यदिति स्यादिति । जन्मादिकारणत्वादिकं स्वरूपलक्षणं न तटस्थमित्यत्र तदेतदनुपपन्नमित्यारभ्य तस्मात् सूत्रकारस्यैवायमभिप्रायो यज्जन्मादिकारणत्वं ब्रह्मणः स्वरूपान्तर्गतमेव लक्षणमिति । तथा च तदीयविस्पष्टवाक्यान्तरबलादस्यापि सूत्रस्य स्वरूपलक्षणपरत्वमेवेत्यन्तग्रन्थसुधाऽनुसन्धेया ॥ ५ ॥
अथाप्लुतोऽम्भस्यमले यथाविधि क्रियाकलापं परिधाय वाससी ।
चकार सन्ध्योपगमादि सत्तमो हुतानलो ब्रह्म जजाप वाग्यतः ॥ ६ ॥
पदरत्नावली
सन्ध्योपगमादि सन्ध्योपासनादिकं क्रियाकलापं चकार । ब्रह्म जजाप नियतस्वाध्यायाध्ययनं कृतवान् गायत्रीं वा जप्तवान् ॥ ६ ॥
सत्यधर्मीया
अथ मन्त्रस्नानानुष्ठेयध्यानानन्तरम् । अमलेऽम्भस्याप्लुतः । अनेन तदनुद्धृता ध्वन्यते । यथाविधीति यथायथमन्वेति । क्रियाकलापं जले क्रियमाणक्रियासङ्घम् । ‘कलापः संहतौ बर्हे तूणीरे भूषणे हर’ इति विश्वः । चकार । अथ वाससी पीते वस्त्रे परिधाय वसित्वा सन्ध्योपगमस्तदुपस्थापनमादिर्यस्य तत्कर्म चकार । सन्ध्योपगमादीति क्रियाकलापपदेनान्वयनपक्षे वाससी परिधायेत्यादितो निधायान्वेतव्यम् । कलापशब्दः पुल्लिङ्गतया विभक्तिकतया निर्देशः । सन्ध्योपगमादीति स्वीकृत्य चान्वयो वा । सन्ध्योपगम आदिर्यस्मिन्कर्मणि तद्यथा भवति तथा चकारेति क्रियाविशेषणत्वेनान्वयो ज्ञेयः । सन्ध्योप-गम आदावादिर्येषां ते च ते सन्तश्च तच्छ्रेष्ठ इति पदमेकं वा । हुतोऽनलोऽग्निर्येन स सन् वाग्यतो यतवाक् ब्रह्म स्वाभिन्नहरिं वा गायत्रीं वा जजाप । नियतस्वाध्यायाध्ययनं कृतवानिति वा ।
ननूत्तरत्रोपस्थायार्कमुद्यन्तमिति श्रवणादयमनुदितहोम इति ज्ञायते । स च न युक्तः । बव्हृचब्राह्मणे पञ्चमपञ्चकपञ्चमाध्याय एकोनविंशतिखण्डमारभ्यैकविंशतिखण्डपर्यन्तमिति त्रिखण्डया तस्य दोषानाविष्कृत्य फलविलम्बस्य चाभिधानात् ।
तथा हि । वृषवृष्मो ह वातावत उवाच जातूकर्ण्यो वक्ताः स्मो वा इदं देवेभ्यो यद्वैतदग्निहोत्रमुभयेद्युरहूयतान्येद्युर्वाव तदेतर्हि हूयत इत्येतद्वहैनेवाय कुमारीगन्धर्वगृहीता वक्ताः स्मो वा इदं पितृभ्यो यद्वैतदग्निहोत्रमुभयेद्युरहूयतान्येद्युर्वाव तर्हि हूयत इत्येतद्वाऽग्निहोत्र-मन्येद्युर्हूयते यदस्तमिते सायं जुहोत्यनुदिते प्रातरथैतदग्निहोत्रमुभयेद्युर्हूयते यदस्तमिते सायं जुहोत्युदिते प्रातस्तस्मादुदिते होतव्यं चतुर्विंशे हवै संवत्सरेऽनुदितहोमी गायत्रीलोकमाप्नोति द्वादश उदितहोमी स यदा द्वौ संवत्सरावनुदिते जुहोत्यथ हास्येको हुतो भवत्यथ य उदिते जुहोति संवत्सरेणैव संवत्सरमाप्नोति । य एवं विद्वानुदिते जुहोति तस्मादुदिते होतव्यम् । एष हवा अहोरात्रयोस्तेजसि जुहोति योऽस्तमिते सायं जुहोत्युदिते प्रातरग्निना वै तेजसा रात्रिस्तेजस्वत्यादित्येन तेजसाहस्तेजस्वदहोरात्रयोर्हास्य तेजसि हुतं भवति । य एवं विद्वानुदिते जुहोति तस्मादुदिते होतव्यम् ॥
एते हवै संवत्सरस्य चक्रे यदहोरात्रे ताभ्यामेव तत्संवत्सरमेति स योऽनुदिते जुहोति यथैकतश्चक्रेण यायात्तादृक् तदथ य उदिते जुहोति यथोभयतश्चक्रेण यायात्क्षिप्रमध्वानं समश्नुवीते तादृक्तदेषाभियज्ञा गाथा गीयते । बृहद्रथन्तराभ्यामिदमेति युक्तं यद्भूतं भविष्यच्चापि सर्वं ताभ्यामियादग्निनाधाय धीरो दिवाऽन्यज्जुहुयान्नक्तमन्यदिति रथन्तरी वै रात्रिहर्बार्हतमग्निर्वै रथन्तरमादित्यो बृहदेते हवा एनं देवते ब्रध्नस्य विष्टपं स्वर्गं लोकं गमयतो य एवं विद्वानुदिते जुहोति तस्मादुदिते होतव्यं तदेषाभियज्ञगाथा गीयते । यथा ह वा स्थूरिणैकेन यायाद-कृत्वाऽन्यदुपयोजनाय एवं यान्ति ते बहवो जनासः पुरोदयाज्जुव्हति येऽग्निहोत्रमिति तां वा एतां देवतां प्रयन्तं सर्वमिदमनुप्रैति यदिदं किञ्चैतस्यै हीदं देवताया अनुचरत्सर्वं यदिदं किञ्च सैषा अनुचरवती देवता विन्दते हवा अनुचरं भवत्यस्यानुचरो य एवं वेद स वा एष एकातिथिः । स एष जुह्वत्सु वसति तददोगाथा भवत्यनेनसमेनसा सोभिशस्तादेनस्वतो वापाहरदेन एकातिथिमपसायं रुणद्धि बिसानिस्तेनो अपसो जहारेत्येष हवै एकातिथिः स एष जुह्वत्सु वसत्येतां वाव स देवतामपरुणद्धि यो तमग्निहोत्राय सन्नाग्निहोत्रं जुहोति तमेषा देवताप-रुद्धाऽपरुणद्ध्यस्माच्च लोकादमुष्माच्चोभाभ्यां योऽलमग्निहोत्राय सन्नाग्निहोत्रं जुहोति तस्माद्योऽल-मग्निहोत्राय स्याज्जुहुयात्तस्मादाहुर्न सायमतिथिरुपरुद्ध इत्येतद्ध स्म वैतद्विद्वान्नगरी जानश्रुतेय उदितहोमिनमैकादशाक्षं मानुतन्तव्यमुवाच । प्रजायामेनं विज्ञाता स्मो यदि विद्वान्वा जुहोत्य-विद्वान्वेति तस्यो(?) हैकादशाक्षै राष्ट्रमिव प्रजा बभूव राष्ट्रमिव हवा अस्य प्रजा भवति एवं विद्वानुदिते जुहोति तस्मादुदिते होतव्यम् ।
उद्यन्नु खलु वा आदित्य आहवनीयेन रश्मीन्सन्दधाति । स योऽनुदिते जुहोति यथा कुमाराय वा वत्साय वाऽजाताय स्तनं प्रतिदध्यात्तादृक्तदथ य उदिते जुहोति यथा कुमाराय वा वत्साय वा जाताय स्तनं प्रतिदध्यात्तादृक्ततमस्मै प्रतिधीयमानमुभयोर्लोकयोरन्नाद्य-मनुप्रतिधीयतेऽस्माच्च लोकादमुष्माच्चोभाभ्यां स योऽनुदिते जुहोति यथा पुरुषाय वा हस्तिने वा प्रयते हस्त आदध्यात्तादृक्तदथ य उदिते जुहोति यथा पुरुषाय वा हस्तिने वा प्रयते हस्त आदध्यात्तादृक्ततमेष एतेनैव हस्तेनोर्ध्वं हृत्वा स्वर्गे लोके आदधाति य एवं विद्वानुदिते जुहोति तस्मादुदिते होतव्यमुद्यन्नु खलु वा आदित्यः सर्वाणि भूतानि प्रणयति तस्मादेनं प्राण इत्याचक्षते प्राणे हास्य सम्प्रति हुतं भवति य एवं विद्वानुदिते जुहोति तस्मादुदिते होतव्यमेष हवै सत्यं वदन् सत्ये जुहोति योऽस्तमिते सायं जुहोत्युदिते प्रातर्भूर्भुवः स्वरो३मग्निर्ज्योतिर्ज्याेतिरग्निरिति सायं जुहोति भूर्भुवः स्वरों३सूर्यो ज्योतिर्ज्योतिः सूर्य इति प्रातः सत्यं हास्य वदतः सत्ये हुतं भवति य एवं विद्वानुदिते जुहोति तस्मादुदिते होतव्यम् । तदेषाऽभियज्ञगाथा गीयते । प्रातः प्रातरनृतं ते वदन्ति पुरोक्ष्याज्जुव्हति येऽग्निहोत्रं दिवा कीर्त्यमदिवा कीर्तयतः सूर्यो ज्योतिर्न तदा ज्योतिरेषामिति ।
खण्डत्रिकार्थः सङ्गृह्य कथ्यते मन्दसंविदे ॥ वतावत्यस्यापत्यं वृषशुष्मो वृषस्य शुष्मो बलं यस्य स जातूकर्णस्य पौत्रो जातूकर्ण्योऽग्निहोत्रिणामयने कदाचित्प्रसङ्गादिदमुवाच । हे अग्निहोत्रिणः भवदीयमिदमाचरणं देवेभ्यो वयं वक्ताः स्मः । अस्मदोर् द्वयोश्चेत्युक्तेर्वयमित्युक्तम् । किं तदित्यत आह– एतदग्निहोत्रमित्यादिना । एतदग्निहोत्रं महर्षिभिरुभयेद्युरहूयत दिनद्वयेन हुतमासीत् । पूर्वदिनस्य रात्रावग्निमुद्दिश्य परदिनप्रातः सूर्यमुद्दिश्य च होम इत्येवं दिनद्विकाधानं कृतम् । कृतं च तदुल्लङ्घ्य मानवैरिदानीमन्येद्युरस्तमयादूर्ध्वमग्नये स्वाहेति पुनरपि सूर्योदयात्प्रागेव सूर्याय स्वाहेति होमः सूर्यायेत्येकस्यामेव रात्रौ होमद्वयमनुचितं क्रियत इति देवाग्रे कथयिष्यामि । बव्हृचवाक्यमत्र कुमारीवाक्यं चोदाहरति– एतदुहै वोवाचेति । काचन कुमारी गन्धर्वगृहीता केनचिद्गृहस्वामिना गन्धर्वेण गृहीता सती यक्षविशेषाविष्टा गन्धर्वगृहीतेति वा । इतरसामान्यकामिन्या वेदानधिकारात् प्रसङ्गादेतदेव । शिष्टं प्राग्वत् । पितृभ्य इति प्राक्तनविशेषः । तस्मादुदिते होतव्यमित्यन्तं स्फुटार्थम् ।
एवमेकस्मिन्दिन एव होमिनां निन्दां विधाय प्रकारान्तरेणोदिते होमं प्रशंसति– चतुर्विंश इति । अनुदितो होमोऽस्तीति सः । चतुर्विंशे तत्सङ्ख्यापूरके सवंत्सरे सोऽनुदितहोमेऽतीते गायत्रीलोकं तत्प्रवर्तकदेवताया लोकं प्राप्नोति । तावत्संवत्सरैस्तत्साधननिष्पत्तेः । उदितहोमी तु द्वादशे संवत्सरेऽतीते गायत्रीलोकमाप्नोति । उभयत्र युक्तिं वक्ति– स यदेति । सोऽनुदितहोमी यदा द्वौ संवत्सरावनुदिते जुहोति । अथास्यैकं हुतो हुतं भवतीति संवत्सरचतुर्विंशकेति सम्पद्यते द्वयोरेकः संवत्सरस्तस्मिन् गते फललाभः । यश्चोदिते जुहोति स संवत्सरेणैकेनैव संवत्सरमाप्नोति । य एवमुदिते जुहोति स विद्वान् संवत्सरसंवत्सरीकरणेन तत्फलभाक्त्वात् । निगमयति– तस्मा-दुदिते होतव्यमिति । प्रकारान्तरेण तं स्तौति– एष हवेति । एष उदितहोमी अहोरात्रयो-स्तेजसि जुहोति । तदुपपादयति– य इति । योऽस्तमितरवौ सायं जुहोति यश्च प्रातरुदिते जुहोति तस्य रात्रिरग्निना तदभिन्नेन तेजसा तेजस्वती भवति । तदहश्चादित्येन तेजसा तेजस्वद् भवत्यतोऽहोरात्रयोरस्योदितहोमिनस्तेजस्येव हुतं भवति । शिष्टं स्पष्टम् ॥
सदृष्टान्तं तदेव स्पष्टयति– एत इति । ये अहोरात्रे विद्येते ते संवत्सरस्य रथरूपस्य चक्रे ताभ्यां चक्राभ्यामेव स उदितहोमी तत्संवत्सरं स चासौ संवत्सरश्च तमेति । योऽनुदिते जुहोति स यथा एकत एकेन चक्रेण यायात् कश्चित्तादृक् । एकेन चक्रेणैकपार्श्वगेन सहितो रथो यथा मन्थरं गच्छति तथाऽयं विलम्बेन फलमाप्नोति । अत्र रथमेकचक्रमित्युक्तसूर्यरथ-व्यतिरिक्तो रथो ग्राह्य इति प्रायेण तथात्वमित्यभिप्रायाच्च न व्याप्त्यनाप्तिः । यथोक्तम् ऋग्भाष्यटीका-टिप्पणीषु । चक्रं रथस्य ये ममन्थुः । एकं चक्रं गिरोमूधर्ि्न अन्यदपरं च चक्रं चक्रस्थानीयाक्ष-प्रदेशः । सप्त युञ्जन्ति रथमेकचक्रमिति श्रुतौ सौररथस्यापरचक्राभावात् । अपरं चक्रमित्यस्याभि-प्रेतार्थमाह– चक्रस्थानीयमिति । यद्वक्ष्यति बृहद्रथान्तराभ्यामित्यादेः । य उदिते जुहोति यथोभयतश्चक्रेणोभाभ्यां यान् पुमान् क्षिप्रमध्वानं गन्तव्यं मार्गमश्नुवीते । तदुदितहोमकर्म तादृक् चक्रद्वन्द्वसहितरथगमनवत् ।
गाथाकथनेनोक्तं दृढयति– तदिति । तत्तस्मिन्कालद्वयहोमविषये । अभि सर्वैरपि यज्ञगाथा गीयते । तां चोदाहरति– बृहद्रथन्तराभ्यामिति । यद्भूतमतीतं भविष्यद्भावि चाद्वर्तमानमिति सर्वं जगद्बृहद्रथन्ताराभ्यां युक्तं याति । ताभ्यां बृहद्रथन्तराभ्यामियात् । सोमयागं नित्याहुतिरूपं वेयादनुष्ठेत् । एवमग्नीनाधाय धीरो वक्ष्यमाणबुद्धिरतो दिवान्यत्सूर्यदेवकं नक्तं रात्रावन्यदग्निदैवकं होमं जुहुयाद्दद्यात् । इतिशब्दो गाथासमाप्त्यर्थः । बृहद्रथन्तरशब्दार्थं ब्राह्मणं स्वयमेवाह । तत्र श्लोके बृहद्रथन्तरेत्युक्तिः, क्रमो रथन्तरी वै रात्रिरिति व्युत्क्रमेण व्याख्याने धरणमुभयोर-प्यावश्यकतासाम्यव्युत्पादनायेति ज्ञेयम् । रथन्तरी रात्रिर्वै प्रसिद्धा । अहः, बृहत इदं बार्हतम् । तद्देवते आह– अग्निरिति । रथन्तरदेवताऽग्निबृहदादित्य एते द्वे देवते एनमुदितहोमिनं ब्रध्नस्यादित्यस्य विष्टपं स्थानं स्वर्गलोकं गमयतः । अतो य एवमिति पूर्ववत् । प्रशस्योदित-होममेतदवश्यानुष्ठेयतायै निन्दाऽनुदितहोमस्यावश्यकीति तत्प्रतिपादिकां गाथां प्रतिज्ञायोदाहरति– तदिति । स्फुटम् ॥
यथेति । यथा लोके कश्चिन्मन्दमतिरेकेनास्थूरिरिति रथाश्वस्तैनैकेन । केचित् स्थूरिरिति वाजीति व्याचक्रुः । तन्न । अस्थूरित्वात् । गार्हपत्त्योपनिषदि पुरुषसम्मितोे वा एष यज्ञोऽस्थूरिः सर्वं ह्यस्थूरिणाभ्यश्नुत इत्यादिनिरवकाशज्ञापकात् । एकपार्श्ववर्तिना रथे योजिते नान्यदन्य-मश्वमुपयोजनाय योजयितुमकृत्वा स्वान्तरमसंयोज्य यायात् । उपयोजनाय उप समीपे । तत्किमात्मकं सामीप्यमित्यत आह– योजनायेति । एकायोजनव्यवहितं स्थानं यायादिति काकुः । इत्यावृत्त्याऽन्वयः । एवं बहवो जनासः । आज्जसेरसुगिति असुक् । जना य उदया-त्पुराग्निहोत्रं जुह्वति त एवं यन्तीत्यविवेकिन इत्यर्थः । उदितहोममाहात्म्योपयोगिबृहदिति प्रसक्तादित्यमाहात्म्यमाह– तामित्यादिना । यत्किञ्चेदं सर्वचराचरं तामेवादित्यानाम्नीं देवतां प्रयतीमुदयास्तमयौ यान्ती । अनु पश्चात्प्रैति प्रवर्तते । तथा च शाखान्तरे पठ्यते । योऽसौ तपन्नुदेति स सर्वेषां प्राणानादायोदेति । अथो योऽस्तमेति सर्वेषां प्राणानादायास्तमेतीति । सवितरि सत्युदिते चेष्टते न चेष्टते चास्तं गते लोक इति । एतस्या देवतायाः सर्वमनुचरं भृत्यरूपं सैषा पूषाख्या देवताऽनुचरवत्येतदात्मकभृत्ययुक्ता । एतज्ज्ञानं फललापेन स्तौति । एवं यः सर्वमनुचरं रवेर्वेदास्य वेदितुरनुचरो यथायोग्यं भृत्यवर्गो भवतीति ।
पुनः प्रकारान्तरेणादित्यदेवतास्तवनपूर्वकमुदितहोमं विधत्ते– एष इति । स एष आदित्य एकातिथिर् एकश्चासावतिथिश्च । एको ऽतिथिरिति वक्तव्य एकातिथिरिति वदन्वेदपुरुषः शास्त्रोदितोदितहोमाभावे पूर्वोक्तरीत्यैकातिथिरेव भवतीत्यर्थमपि सूचयामासेत्यवधेयम् । स एष जुह्वत्स्वग्निहोत्रिषु वसति प्रातरागत्य तिष्ठति ।
काञ्चिद्गाथामस्मिन्नेवार्थे कथयति– तददो गाथा भवतीति । तदादित्यैकातिथित्वविषये । अदोगाथेति पदमेकम् । असौ चासौ गाथा चेति विग्रहः । भवति वर्तते । का सेत्यतस्ता-मुदाहरति– अनेनसमिति । पुरा चारब्धे सप्तर्षिसंवादे कश्चित्पुमान् बिसस्तैन्यात्मकमपवादं प्राप्तमृषीणामग्रे परिहर्तंु स्वयं शपथं चकारेति तच्छपथोक्तिरूपिणी चेयं गाथेति माधवः । वस्तुतस्तु परस्परं मुनीनां साऽरुन्धती पशुसखश्च सखानामेव शपथः । यथोक्तमानुशासनिके मोक्षधर्र्मे–
केन क्षुधापरीतानामस्माकं पापकर्मणि ।
नृशंसेनापनीतानि बिसान्याहारकाङ्क्षिणाम् ।
ते शङ्कमानास्त्वन्योन्यं प्रपच्छुर्द्विजसत्तमाः ।
त उचुः शपथं सर्वे कुर्म इत्यरिकर्शन ।
त उक्त्वा बाढमित्येवं सर्व एव तदासनम् ।
क्षुधार्ताः सुपरिश्रान्ताः शपथायोपचक्रमुः ॥
अत्रिः स गां स्पृशत्तु पादेनेत्यारभ्य देवतेष्वनमस्कारो बिसस्तैन्यं करोति य इत्यन्तेन । न चेयं गाथाऽन्यविषयेति न वस्तुतस्त्विति वचनं सम्भवतीति वाच्यम् । पुरा चारब्धे सप्तर्षिसंवाद इत्येतद्विषयताज्ञापकचिह्नस्यापह्नोतुमशक्यत्वात् । अतः कश्चित्पुमानित्यंशशंसनं कथाव्यत्यस्तेति मन्तव्यम् । योपसः कर्मणो बिसा निजाहारकमलमूलान्यपाहर्षीत् स स्तेन इत्येतत्पापं यायात् । किं तदित्यत आह– अनेनसमिति । योऽनेनसमपापं किञ्चिदेनसा केनचित्पातकेनाभिशस्तात् संयोज्य मृततुल्यं कुर्यात् तत्पापं बिसस्तेनो यायात् । कश्चिदेनस्वतः स्वतः पापवतो यदेनोऽपाहरत् स्वयं तत्पापनिपाताय स्वकृतगङ्गाश्रीरामसेत्वादिस्नानादिसुकृतं तस्मा अर्पयति कृष्णार्पणपूर्वकं गृहीत्वा वित्तं तस्य यः प्रत्यवायस्तं सायं सायङ्काले प्राप्तमेकातिथिं देशान्तरादसमये निरन्नं चैकमतिथिम् आ ईषत् । गुणश्छान्दसो वा । अर्यरुणद् अपारुणन् नान्नं गच्छेत्युपरुरोध । तेन निःसारणरूपोपरोधे नेय इत्यादि यथापूर्वम् । अपसोऽजहारेत्यत्र सोऽजहारेत्यन्वयो वा । बिसानिनाऽपहृतानि चेदित्थं पापपरम्परा ममागच्छत्विति शपथं चकारेति ।
प्रस्तुते किमायातमित्यतः सङ्गतिमावेदयति वेदपुरुषः– एष हवा इति । एष एकातिथिः । स क इत्यत आह– स इति । जुह्वत्स्वग्निहोत्रिषु होमं मदुदयानन्तरं मह्यं दधुरद्यैत इति वसति । स एतां देवतामेकमतिथिमिवापारुणन्निरुरोध । न तस्य सामर्थ्यं स किं कुर्यादित्यत आह– य इति । यश्चाग्निहोत्राय तदुदयानन्तरं होमायालं समर्थः सन्नप्यग्निहोत्रं न जुह्वति तं पुरुषमेषा देवता स्वयमेव मयि रुद्धा सती अस्माल्लोकात्तथामुष्मात्परस्ताच्च लोकादित्युभाभ्यामपारुणदुभयभ्रष्टं रुष्टा करोति । दार्ढ्याय पुनः सम्पुटीं तनोति– योऽलमिति । योऽग्निहोत्रायोक्तरूपायालं स्यात्स जुहुयात्तस्माद्धोमात्सायमनेनातिथिर्भुक्तभक्तो यथा नोपरुद्धस्तथेयं देवता प्रातरायाता नोपरुद्धेत्याहुः । अनेनैतद्विषये बहुसम्मतिरुक्ता वेदितव्या । एतद्विद्वान् जानश्रुतिस्तस्य पुत्रो राजजात इति नगरी ग्रामवासी । यद्वा जानश्रुतिः काचिद्राजपुत्री सा च कस्यचिदृषेर्भार्या तस्यां जातो जानश्रुतेय ऋषिर्नगरी मातू राजपुत्रीत्वान्नगरवासी । उदितहोमिनं कञ्चनैकादशाक्षं तन्नामकराजपौत्रम् । तत्पितृनामाप्याह– मानुतन्तव्यमिति । न च विनिगमनाविरहः । प्रथमप्राप्तेरेव तथात्वात् । मनुतन्तव्यापत्यमुद्दिश्योवाच । मनस्येवमालुलोच । किं तदित्यत आह– यदि विद्वानिति । यद्येवं विद्वान् जुहोति । अथवा विद्वानिति प्रजायां विद्वान् जुहोति चेत् प्रजाऽभिवृद्धा भवतीत्येनं तद्विषये विज्ञाताः स्मः ज्ञास्यामः । विद्वत्वाविद्वत्वविषये नः संशयोऽस्त्यतो विज्ञास्यामः । कार्येण कारणानुमानमिति तदाह– तस्येति । एकादशाक्षैर् बाह्यादीयन्त इतीकारान्तस्तस्य राष्ट्रमिव व्याप्ता प्रजा बभूव । एतदन्यथानुपपत्त्या चायं विद्वानिति जानीमः । निगमयन्नुपसंहरति । य एवं विद्वानुदिते जहोति तस्य प्रजा भवति । तस्मादुदिते होतव्यम् । अग्निसूर्यात्मकातिथिद्वय-भोजनमेवं होमे भवतीत्युदिते होतव्यमिति ।
प्रकारान्तरेणानुदितहोमोदितहोमनिन्दानिन्दे अभिनयेन दर्शयति– उद्यन्निति । स्वयमादित्य उद्यन्नेवोद्गच्छन्नेवाहवनीयेन तन्नाम्नाऽग्निना सह रश्मीन् स्वान् सन्दधाति संयोजयति । खलु वाक्यालङ्कारे । नु निश्चयेन । ‘खलु स्याद्वाक्यभूषायां नु निश्चय’ इति विश्वौ । स योऽधिकारी अनुदिते जुहोति स खलु निषेेध्यो मूढ इति यावत् । तत्र दृष्टान्तः । अजाताय कुमाराय गर्भगाय स्तनम् । तथाऽजाताय वत्साय योषिद्गौश्च प्रतिदध्यात्पातुं समर्पयेत्तत्सोऽनुदित-होमस्तादृगिति । अथ यश्चोदिते जुहोति कुमाराय वत्साय वा जाताय यथा स्तनं प्रतिदध्यात्त-त्तादृगस्मै प्रतिधीयमानमुभयोर्लोकयोरन्नाद्यमत्रान्नं परत्र सुखमनु प्रतिनिधीयते । उभयोर्लोकयोरिति स्वयं विवृणोति । अस्मादमुष्मादित्युभाभ्यामस्मिन्नमुष्मिन्नित्युभयोरित्यर्थः ।
पुनरप्यनन्दमभिनन्दनं चानुदितोदितहोमयोः सदृष्टान्तमाचष्टे– स इति । अनुदितहोमी पुरुषाय हस्तिन इति तयोरप्रयतेऽप्रसारिते करे आदध्यादन्नम् । तद्यथा तथा तादृगयं होमः यश्चोदिते जुहोति पुरुषाय वा हस्तिने वा तयोः प्रयते प्रसारिते हस्ते आदध्यात्तत्तादृक् तमेवं हविःप्रदमेष आदित्यः । एतेन हविर्ग्रहणार्थं प्रसारितेन करेणोर्ध्वं हृत्वा स्वर्गे लोके आदधाति । शिष्टं स्पष्टम् । उदितं होमं प्रशस्य सत्यं चायं होम इत्युक्त्वोपसंहरति– उद्यन्निति । उद्यन्नसावादित्यः सर्वाणि भूतानि प्रणयति चेष्टयति । प्रणयतीति प्राण इति व्युत्पत्त्या तन्नामाऽयमाहुरित्याह– तस्मादिति । एनमितमस्योदितहोतुः । प्राणे सम्प्रति हुतं साक्षाद्धस्तविन्यस्तमिति दत्तं वा हुतं वा भवत्यतो य एषः सत्यं वदन्निति सत्ये जुहोति । योऽस्तमिते सायं जुहोत्युदिते च प्रातर्जुहोत्येष पुमान् सत्ये जुहोति सायमग्नेः प्रातः सूर्यस्य सत्त्वान्मन्त्रोऽर्थवान् जात इति सत्ये होता भवतीति भावः । मन्त्रौ तावाह– भूर्भुवः स्वरोमिति । सायन्तनो मन्त्रो भूरादयो लोकास्तदभिमानिनो देवा ओमिममाहुतिमोङ्कुर्वन्तु स्वीकुर्वन्तु । ज्योतिरितरत्सोऽग्निर्देव एव । एवमेव सूर्यो ज्योतिः सूर्य इति प्रातर्मन्त्रः । इतरः प्रकाशात्मने रवये स्वाहुतमिदमस्तु । इति सत्यमुभयोः सत्ता तदेति सत्यं वदतोऽस्य होतुः । पूर्ववदुर्वरितम् । अनुदितहोमिनोऽनृतवादिन इति तन्निन्दनमिषेण भूषयन्तीमुदितहोमं न हि निन्दानयेन काञ्चिद्गाथां प्रतिश्रुत्य वक्ति– तदेषेति । ये उदयात्पुराऽग्निहोत्रं प्रातः प्रातरिति प्रारिप्सया कादाचित्कं नानुदिते सूर्ये उपा उपास्वन्तर्यामौ जुहुयाद्यादि त्वरेतानुदित उपाशंु जुहुयादुदितेऽन्तर्यामम् उभावनुदिते होतव्यमित्येक इति सौमपञ्चकीयमहरान्नप्रश्नोक्तम् उपास्वन्तर्यामहोमादिबव्हृचादीनां व्यावर्तयन्ति तेऽनृतं वदन्ति । सवितुरभावात्तदेत्याह । दिवा कीर्त्यमदिवा सवितुरनाविर्भावसमये कीर्तयन्तोऽसूर्यो ज्योतिः सूर्य इति कीर्तयन्तो येषां तदा सूर्यो न ज्योतिर्ज्योतिर्नेत्यनृतहोमिनस्तदुदिते होतव्यम् । अनेनानेनसां नाथः कुरुतात्करुणां गुरुः ॥ इमावेव श्लोकावुदाहृत्य सदाचारस्मृतिव्याकृतावानुदितहोमिनो माध्यन्दिना अत एव वाजसनेयब्राह्मण उदितहोमिनां विच्छिन्नमग्निहोत्रं मन्यामहे इत्युदितहोमनिन्दापूर्वकमनुदितहोमः समर्थित इति व्याख्यातवन्त आस्माकीना अनेके ।
परव्याख्याने श्रीधरीये च काण्वत्वादनुदितहोम इत्युक्तेरुदाहृतखण्डत्रिके खण्ड-मण्डनादनुदितहोमस्येति कथं निर्णय इति चेन्न । सर्ववर्णाः सर्वाश्रमाः सर्वधर्माः । यदा चानियता देवा विधिश्च स्वेच्छानियतस्तदा लोकमनुकुर्वतो हरेर्न वयमनुदितहोममात्रेण तत्त्वतस्तत्त्वमवधारयितुं धीराः । किन्तु पूर्णस्य न लभ्यं फलमिति यथायथं होमसम्भवात् । अन्यथा यादवानु-बन्धिनोऽसङ्ख्यास्तेषामेतदन्यतरत्वं कल्पनीयम् । अथवाऽऽश्वलायनादीनां कात्यायनादीनामनुबन्धो वा कल्पनीय इति बहुकल्पनीयं स्यात् । अत एवाद्वैतकालानले द्वितीयज्वालायामनुदित उदिते बाह्याहुतेर्निन्दितत्वात् समयपुरुषभेदात्तव्द्यवस्थाऽतिसुस्थेत्युक्त्वा त एके उदितानुदित-होमनिन्दाबलादुभयहोमयोः प्रयोगभेदेन वा शाखाविशेषाध्यतृपुरुषभेदेन वा व्यवस्था युक्तेति निष्कर्षो दुष्कर इति साम्मुग्ध्येनाभ्यदधुः । व्युत्क्रमेण वाऽन्वय इति न शङ्काशूक इति दिक् ॥
सोमे स्वमूले लसति तत्काले होमदाने तत्तोषस्तत्सन्निधाने जाम्बवत्प्रदर्शिततद्वंश्यरामाकारस्य तत्सम्माननं चावश्यकमित्येवं देवश्चकारेति केचिदुत्प्रेक्षयन्ति ॥ ६ ॥
उपस्थायार्कमुद्यन्तं तर्पयित्वाऽऽत्मनः कलाः ।
देवान् ऋषीन् पितॄन् वृद्धान् विप्रानभ्यर्च्य चात्मवान् ॥ ७ ॥
पदरत्नावली
स आत्मनः कलाः स्वसन्निधानविशेषोपेतान् । आत्मवान् स्वाधीनप्रयत्नः स्वाधीनमना वा ॥ ७ ॥
सत्यधर्मीया
उद्यन्तमर्कमुपस्थाय तदुपस्थानं विधायात्मनः कलाः सन्निधानविशेष-सहितान् देवर्ष्यादींस्तर्पयित्वाऽऽत्मवान् यतचित्तोऽभ्यर्च्य पूजयित्वा ॥ ७ ॥
धेनूनां रुग्मशृङ्गीणां साध्वीनां मौक्तिकस्रजाम् ।
पयस्विनीनां गृष्टीनां सवत्सानां सुवाससाम् ॥ ८ ॥
पदरत्नावली
साध्वीनां पादबन्धनादिक्रियानपेक्षाणाम् । गृष्टीनां प्रथमप्रसूतानाम् ॥८॥
सत्यधर्मीया
गृष्टीनामेकवारं प्रसूता गौर्गृष्टिरित्यभिधीयत इत्युक्तेः सकृत्प्रसूतानां धेनूनाम्
॥ ८ ॥
ददौ रौप्यखुराग्राणां क्षौमाजिनतिलैः सह ।
अलङ्कृतेभ्यो विप्रेभ्यो वद्वं वद्वं दिनेदिने ॥ ९ ॥
पदरत्नावली
वद्धं वद्धं द्वयं द्वयमेकैकस्मै विप्राय ॥ ९ ॥
सत्यधर्मीया
अलङ्कृतेभ्यो विप्रेभ्यो मनीषी ब्राह्मणेभ्यः वद्वम् । बद्धं बद्धमित्यप-पाठः । वद्वपदार्थो नवमे भरतमधिकृत्य प्रवृत्तग्रन्थविवरणे स्फुटं प्रदर्शितः । दिने दिने प्रतिदिनम् । एवं प्रतिग्रहमपि वद्वं शतकोटिसङ्ख्यात्मकमनुसन्धेयम् ॥ ९ ॥
गोविप्रदेवतावृद्धान् गुरुभूतानि सर्वशः ।
नमस्कृत्वाऽऽत्मसम्भूतिं मङ्गलानि समस्पृशत् ॥ १० ॥
पदरत्नावली
गोविप्रदेवता वयोवृद्धांश्च । गुरुभूतान्यश्वत्थादीनि नमस्कृत्य । एतत् सर्वं कीदृशम्? अत्राह– आत्मेति ॥ आत्मनः सम्भूतिं सन्निधेः प्रतिमाम् । मङ्गलानि तिलादीनि
॥ १० ॥
सत्यधर्मीया
गोविप्रदेवता नमस्कृत्वेति सर्वान्वयि । आत्मसम्भूतिं स्वप्रादुर्भावमपेक्ष्य वृद्धान् वयसा गुरुभूतान्यचलप्रतिमादीनि सर्वशो मङ्गलानि दधिपूर्वादीन्यस्पृशत्पस्पर्श ददाविति वा ॥ १० ॥
आत्मानं भूषयामास नरलोकविभूषणम् ।
वासोभिर्भूषणैः स्वीयैर्दिव्यस्रगनुलेपनैः ॥ ११ ॥
पदरत्नावली
नरलोकस्य मुक्तामुक्तस्य भूषणमलङ्कारभूतम् ॥ ११ ॥
सत्यधर्मीया
नरदेवास्तल्लोकविभूषणम् ॥ ११ ॥
अवेक्ष्याज्यं तथाऽऽदर्शं गोवृषद्विजदेवताः ।
कामिनां सर्ववर्णानां पौरान्तःपुरचारिणाम् ।
प्रादात् कामान् पृथक् कामैः प्रतोष्य प्रत्यनन्दत ॥ १२ ॥
पदरत्नावली
आदर्शं दर्पणम् । गवादींश्च प्रेक्ष्य । देवताः प्रतिष्ठिताः । कामिनामर्थिनां कामान् काम्यान् पदार्थान् । किं बहुना? सर्वान् कामैः पृथक् प्रतोष्य सन्तोषं जनयित्वा स्वयमपि प्रत्यनन्दत सन्तुष्टोऽभूदित्यन्वयः ॥ १२ ॥
सत्यधर्मीया
आदर्शं दर्पणम् । गा वृषान् द्विजान् देवताश्चावेक्ष्य सर्ववर्णानाम-विशेषेण कामिनां कामान् काम्यान् पृथक् पृथक्कामैः प्रतोष्य स्वयं प्रत्यनन्दत प्रत्यनन्दत्तु-तोष ॥ १२ ॥
संविभज्याग्रतो विप्रान् स्रक्ताम्बूलानुलेपनैः ।
सुहृदः प्रकृतीर्दारान् प्रायुङ्क्त च ततः स्वयम् ॥ १३ ॥
पदरत्नावली
द्रव्यसंविभागक्रममाह– संविभज्येति ॥ विप्रादीनुद्दिश्य स्रगादिभिः । तृतीया च द्वितीयार्थे । प्रायुङ्क्त स्वयं स्वीचकार ॥ १३ ॥
सत्यधर्मीया
अग्रतः प्राक् । स्रक्ताम्बूलानुलेपनैः सभाजयित्वा संविभज्य सुहृदः प्रकृतीर्दारान् भार्याः । ततः सर्वसत्क्रियानन्तरं स्वयं प्रायुङ्क्त स्वोपयुक्तं तैश्चकार ॥ १३ ॥
तावत् सूत उपानीय स्यन्दनं परमाद्भुतम् ।
सुग्रीवाद्यैर्हयैर्युक्तं प्रणम्यावस्थितोऽग्रतः॥ १४ ॥
पदरत्नावली
तावत् तदा ॥ १४ ॥
सत्यधर्मीया
तावत्सूतो दारुकः । सुग्रीवाद्यैश्चतुर्भिः ॥ १४ ॥
गृहीत्वा पाणिना पाणिं सारथे रथमारुहत् ।
सात्यक्युद्धवसंयुक्तः पूर्वाद्रिमिव भास्करः ॥ १५ ॥
सत्यधर्मीया
सात्यकिः शैनेय उद्धवश्च ताभ्यां संयुक्तः । पूर्वाद्रिमुदयपर्वतम् ॥१५॥
ईक्षितोऽन्तःपुरस्त्रीणां सव्रीडप्रेमवीक्षितैः ।
कृच्छ्राद् विसृष्टो निरगाज्जातहासो हरन् मनः ॥ १६ ॥
पदरत्नावली
स्त्रीणां मतः ॥ १६ ॥
दुर्घटभावदीपिका
अन्तःपुरस्त्रीणामीप्सितोऽपेक्षितोऽत एवान्तःपुरस्त्रीणां सव्रीडप्रेम-वीक्षितैर् व्रीडासहितप्रेमयुक्तावलोकनैर्युक्तः । अत एव जातहासोऽन्तःपुरस्त्रीभिः कृच्छ्राद्विसृष्टो त्यक्तः कृष्णोऽन्तःपुरस्त्रीणां मनोहरन्निरगादिति । एतेन सव्रीडप्रेमवीक्षितैरित्येतदनन्वितमिति दूषणं पराकृतम् । युक्त इति शेषेणान्वयस्योक्तत्वात् ॥ १६ ॥
सत्यधर्मीया
सव्रीडानिव सव्रीडं यथा प्रेमवीक्षितैः स्नेहसहितकटाक्षवीक्षितैः । व्रीडश्च प्रेमा च व्रीडप्रेमे ताभ्यां सहितानि वीक्षितानि च तैर्वा । कृच्छ्रात् कष्टाद्विसृष्टस्तासा-मन्तःपुरस्त्रीणां मनो हरन् जातहासश्च निरगात् ॥ १६ ॥
सुधर्माख्यां सभां सर्वैर्वृष्णिभिः परिवारितः ।
प्राविशद् यन्निविष्टानां न सन्त्यङ्ग षडूर्मयः ॥ १७ ॥
पदरत्नावली
यन्निविष्टानां यत्र सभायामुपविष्टानामशनपानादिषडूर्मयो न सन्ति न बाधन्ते
॥ १७ ॥
सत्यधर्मीया
अङ्ग हे परीक्षित् । यन्निविष्टानां षडूर्मयोऽशनादयः षट् ऊर्मयो न सन्ति । तां सुधर्माख्यां वृष्णिभिः परिवारितः प्राविशत् । यो ग्रामः परिवारितः परितो वार्भिरितः संयुतः स तस्मिन् सुधर्माख्यां सभां प्राविशदिति वा ॥ १७ ॥
तत्रोपविष्टः परमासने विभुर्बभौ स्वभासा ककुभोऽवभासयन् ।
वृतो नृसिंहैर्यदुभिर्यदूत्तमो यथोडुराजो दिवि तारकागणैः ॥ १८ ॥
पदरत्नावली
नृसिंहैः पुरुषश्रेष्ठैः ॥ १८ ॥
सत्यधर्मीया
तत्र सुधर्मायां परमासने उत्तमासने उपविष्टः । परेषां मा संपत्तस्या असने निरसने । परेषां न आसनं मासनं तस्मिन् । तन्निराश्रयीभवनविषय इति यावत् । उपविष्टः स्वभासा ककुभो दिशोऽवभासयन् । यथा तारकगणैर्दिवि वृत उडुराजो भाति तथा नृसिंहैर्नरवरै-र्यदुभिर्वृतो यदूत्तमो बभौ ॥ १८ ॥
तत्राथ मन्त्रिणो१ राजन् नानाहास्यरसैर्विभुम् ।
उपतस्थुर्नटाचार्या नर्तक्यस्ताण्डवैः समम् ॥ १९ ॥
पदरत्नावली
नानाविधैर्हास्यैर्हसनविषयै रसै रागजनकवचनैः ॥ १९ ॥
सत्यधर्मीया
उपमन्त्रिण इति पाठे विदूषका इत्यर्थः । तत्राथ मन्त्रिण इति पाठे द्वितीयाबहुवचनम् । विभुं तथा मन्त्रिणश्च । हास्यरसैर्हासासादकवचनैरुपतस्थुरुपासाञ्चकुः । नटाचार्या इतरनटशिक्षकास्तद्गुरवो नर्तक्योऽप्सरसश्च ताण्डवैः सममुपतस्थुः ॥ १९ ॥
मृदङ्गवीणामुरजवेणुतालदरस्वनैः ।
ननृतुर्जगुस्तुष्टुवुश्च सूतमागधबन्दिनः ॥ २० ॥
पदरत्नावली
नटादयो ननृतुः सूतादयो जगुः ॥ २० ॥
सत्यधर्मीया
मृदङ्गः किञ्चिन्महान् । मुरजः किञ्चित्सङ्कुचितमुखस्तद्विशेषः । ‘मृदङ्गा मुरजाभेदा’ इत्यमरः । मृदेवाङ्गं यस्य स मृदङ्गो घटवाद्यं वा । तालस्तलसम्बन्धी दरः शङ्खश्च तेषां स्वनैः । तालतलेति पाठे तालं कांस्यस्य वाद्यभाण्डम् । ‘वाद्यभाण्डे तु कांस्यस्य तालम्’ इति विश्वः । नटादयो ननृतुर्मन्त्र्यादयस्तुष्टुवुः ॥ २० ॥
तत्रस्था ब्राह्मणाः केचिदासीना ब्रह्मवादिनः ।
पूर्वेषां पुण्ययशसां राज्ञां चाकथयन् कथाः ॥ २१ ॥
पदरत्नावली
गानानन्तरं कः प्रसङ्ग इत्यत्राह– तत्रस्था इति ॥ ष्ठा गतिनिवृत्तिवाचिना शयित्वमुपविष्ठत्वं वा सूच्यते, अत्र तयोः को विवक्ष्यत इत्यत्र उक्तम्– आसीना इति
॥ २१ ॥
सत्यधर्मीया
तत्रस्थाः सुप्सुपेति समासः । ब्राह्मणा ब्रह्मवादिन आसीनाश्च पुण्य-यशसां पूर्वेषां राज्ञां कथाश्चाकथयन् ॥ २१ ॥
तत्रैकः पुरुषो राजन्नागतोऽपूर्वदर्शनः ।
विज्ञापितो भगवते प्रतीहारैः प्रवेशितः ॥ २२ ॥
पदरत्नावली
तत्र तस्यामवस्थायाम् ॥ २२ ॥
सत्यधर्मीया
अपूर्वदर्शनो न विद्यते पूर्वं दर्शनं यस्य सः नूतनः कदाऽप्यदृष्टः कश्चित्पुरुष आगतः । प्रतीहारैः प्रतिहारैः । प्रतीहारप्रतिहाराविति द्विरूपकोशः । द्वारपालै-र्भगवते विज्ञापितः पुनस्तदाज्ञया तैरन्तःप्रवेशितः ॥ २२ ॥
स नमस्कृत्य कृष्णाय परेशाय कृताञ्जलिः ।
राज्ञामावेदयद् दुःखं जरासन्धोपरोधजम् ॥ २३ ॥
पदरत्नावली
जरासन्धेन कृत उपरोधो निरोधस्तस्माज्जातम् ॥ २३ ॥
सत्यधर्मीया
स पुरुषः । परेशाय कृष्णाय नमस्कृत्य तमनुकूलयितुं कृताञ्जलिः सन् राज्ञां जरासन्धोपरोधजं तन्निरोधाज्जातं दुःखमावेदयन्निवेदयामास ॥ २३ ॥
ये तु दिग्विजये तस्य सन्नतिं नाययुर्नृपाः ।
प्रसह्य रुद्धास्तेनासन्नयुते द्वे गिरिव्रजे ॥ २४ ॥
पदरत्नावली
गिरिव्रजे नगरे ॥ २४ ॥
सत्यधर्मीया
ते च क इत्यत आह– ये त्विति । तस्य जरासुतस्य दिग्विजये ये सन्नतिं प्रावण्यं नाययुर्न गतवन्तस्ते तेन जरासन्धेनायुते द्वे सहस्रे चेत्याहत्य द्वाविंशति-सहस्राणि तथाऽष्टौ शतानीति शेषे तदुपर्यष्टशतसङ्ख्यालाभः । वक्ष्यति चैवम् । प्रसह्य बलात्कारेण गिरिव्रजे तन्नामके दुर्गे निरुद्धा आसंस्तेषां राज्ञामित्यन्वयः ॥ २४ ॥
राजान ऊचुः—
कृष्ण कृष्णाप्रमेयात्मन् प्रपन्नभयभञ्जन ।
वयं त्वां शरणं यामो भवभीताः पृथग्धियः ॥ २५ ॥
पदरत्नावली
पृथग्धियो यथार्थज्ञानशून्याः ॥ २५ ॥
सत्यधर्मीया
आगतः पुरुषोत्तमं प्रति तद्वचनमनुवदन्वदति– कृष्ण कृष्णेति । षट्श्लोक्या राज्ञां विज्ञापनं तत्र शरणवरणं त्रिभिरुभयविधभयानुवचनं द्वाभ्यां, कर्तव्यप्रार्थन-मेकेनेति विवेकः । अप्रमेय आत्मा मनो यस्य । प्रपन्नानां भयं भञ्जयतीति स तथा । भयस्य भञ्जनं येनेति वा । अनेनास्मद्भयं गतमिति निश्चित्य प्रवृत्ता वयमिति ध्वनयन्ति । अतो वयं भवभीताः । तत्र तन्त्रं पृथग्धिय इति मूर्खाः ॥ २५ ॥
लोको विकर्मनिरतः कुशले प्रमत्तः कर्मण्ययं त्वदुदिते भवदर्चने स्वे ।
यस्तावदस्य बलवानिह जीविताशां सद्यश्छिनत्त्यनिमिषाय नमोऽस्तु तस्मै ॥२६॥
पदरत्नावली
अयथार्थज्ञानी किं करोति किं च तस्य फलमिति तत्राह– लोक इति ॥ उक्तार्थोऽयम् ॥ २६ ॥
सत्यधर्मीया
तामेव धियं धिक्कुर्वन्ति तद्वच्चर्यावचनेन । विकर्मणि विपरीते कर्मणि । विना रतेरनिवर्त्यतां विनाऽनुग्रहं तवेति दर्शयति । त्वदुदिते पञ्चरात्रादौ भवदर्चने तद्रूपे कर्मणि सति प्रमत्तो यदतः स्वे कुशले स्वक्षेमविषयेऽपि अयं लोकः प्रमत्तः । यश्चैवमस्य लोकस्येह संसृतौ जीविताशां, सद्योऽपेक्षितोऽपेक्षणादिना तावच्छिनत्ति । प्रसादमनासाद्य स्थितस्य नापायपरिणामोपाय इत्यत्र हेतुमाह– बलवानिति । तस्मा अनिमिषाय देवाय कालात्मने वा मत्स्याद्यात्मने वा नमोऽस्तु । प्राग्वितत्य व्याकृतोऽयं श्लोकः ॥ २६ ॥
कालो भवान् जगदिदं कलयाऽवतीर्णः सद्रक्षणाय खलनिग्रहणाय चान्यत् ।
कश्चित् त्वदीयमतियाति निदेशमीश किं वा जनः सुकृतमृच्छति तन्न विद्मः ॥२७॥
पदरत्नावली
भगवानत्र किमर्थमवतीर्ण इति तत्राह– काल इति ॥ चशब्द एवार्थे समुच्चये वा । सतां रक्षणाय खलानां दुष्टानां निग्रहाय इदं जगद् अस्मिन् जगति कलयाऽवतीर्णो भगवानिति किं वदन्ती । एतद् द्वयं विना अन्यत् कार्यं किं? न किमपि । कुतः? कालः । तत्तत्काले तत्तत्कार्यसाधनसमर्थत्वात् । कः खलः को वा सन्निति विशिनष्टि– कश्चिदिति ॥ हे ईश कश्चिज्जनस्त्वदीयं निदेशमतियाति अतिक्रामति । स खलः किं सुखमृच्छति किं स्वित्? त्वदीयं निदेशमतियाति अधियाति सः सन् किं सुकृतमृच्छतीति वयं न विद्मः । एकः सुखच्छेदकं लोकमेकः सुखकरम् ऋच्छतीति भवान् वेत्तीति वाक्यार्थः । ‘अति स्यादधिकार्थोक्तौ प्रशंसायामतिक्रमे’ इति ॥ २७ ॥
दुर्घटभावदीपिका
हे ईश । कालः सज्जनरक्षणखलनिग्रहसमर्थो भवानिदं सज्जनखलरूपं जगदुद्दिश्यावतीर्णः । एतदेव विवृणोति– सद्रक्षणायेति ॥ सतां रक्षणाय खलानां निग्रहाय चावतीर्णः । सद्रक्षणखलनिग्रहाभ्यामन्यत्प्रयोजनं तवावतारस्य नास्ति । एवं सत्यपि यः कश्चि-ज्जरासन्धादिर्जनस्त्वदीयं निर्देशमतियाति । स जनः किंवा सुकृतं विपरीतं लक्षणया किंवा पापमृच्छति तत्पापं न विद्मः । यस्य पापस्य परिच्छेदो ज्ञातुं न शक्यत इति यावदिति । एतेनेदं जगदित्येतदनन्वितमिति दूषणं परिहृतम् । उद्दिश्येति शेषपूरणेनान्वयस्योक्तत्वात् । एतेनैवान्यदित्येतद्व्यर्थमिति चोद्यं परिहृतम् । विद्म इति नेत्याकर्षणेनान्यत्प्रयोजनं नेत्यर्थ-स्योक्तत्वात् ॥ २७ ॥
सत्यधर्मीया
यद्यहमीश्वरस्तर्हि किमर्थमत्रागममित्यतः स्वामिन् एतदर्थमेव नापरोऽर्थ-स्तव पूर्णस्येति वर्णयन्ति– काल इति । कालो भवांस्तद्रूपीदं जगदस्मिञ्जगति कलयाऽ-वतीर्णः सद्रक्षणाय यदन्यत्सद्रक्षणात् तस्मै खलनिग्रहाय चावतीर्णः । कश्चिज्जनः प्रागुक्तः पृथग्धीस्त्वदीयं निदेशं यत्करोषि यदश्नासीत्यादि गीतापञ्चरात्रादिगीतं निदेशमाज्ञामतिया-त्यतिक्रम्य वर्तते स किं सुकृतमृच्छति प्राप्नोतीति च ईश वयं न विद्मो न जानीमः । यद्वाऽन्यत् किं न किमपि तदुभयातिरिक्तं प्रयोजनं तव । किञ्च खलाखलफलं वयमे-तादृगिति न विद्म इति वदन्ति– क इति । चित्त्वदीयं चित्ते ज्ञानार्थमुक्तं तव निदेशं योऽतियाति स को जनः कुत्सितः सन्स किं सुकृतमृच्छति न प्राप्नोतीति तन्न विद्मः । तस्यापारत्वेन वर्णनासुशका वयमिति न जानीम इति भावः । जगज्जगति इ विस्मयावहया दंकलया पत्नी दं रमा तस्याः कलया रुग्मिण्यादिरूपिण्या सहावतीर्णः । हे शमीश । शमिति सुखवाच्यमव्ययम् । सुखेशनशील शमिनां शान्तिमतामीश वा । निदेऽप्रदे त्वयि सन्वाऽसन्वा कश्चित्कोऽपि सुकृतमृच्छति तन्न ऋच्छतीति वयं न विद्मः । किन्तु सुकृतदुष्कृतप्राप्ती त्वदायत्ते इति भावः । दं कलत्रं बुधैः प्रोक्तमित्यनेकार्थध्वनिपदमञ्जरी । ब्रह्मादयश्चेदपि तव निदेशातिक्रान्तिमन्तो यतोऽज्ञा इत्यपि विज्ञापयन्ति । कश्चित्कोऽपि हिरण्यगर्भो मः शिवोऽपि यन्नवित् (‘‘विद्मः’’ इत्यत्र वित्, मः, इति विभागेन लब्धोऽयमर्थः) । पृथक् पृथगन्वयः । अज्ञोऽतो निदेशमतिक्रान्तमिति चेत्सुकृतमृच्छति किं नेत्यर्थः । ‘को ब्रह्मा मः शिवे’, ‘मा रमायां च’ इति विश्वौ ॥ २७ ॥
स्वप्नायितं नृपसुखं परतन्त्रमीश शश्वद्भयेन मृतकेन धुरं वहामः ।
हित्वा यदात्मनि सुखं तदनीहलभ्यं क्लिश्यामहेऽतिकृपणास्तव माययेति ॥ २८ ॥
पदरत्नावली
स्वर्गादिसुखस्य निर्विषयत्वेन राज्यसुखात्परं न किमपीति केषाञ्चित् प्रवादस्तत्राह– स्वप्नायितमिति ॥ स्वप्नायितं स्वप्नवत् क्षणिकम् । तदपि न स्वाधीनमित्याह– परतन्त्रमिति ॥ तत्र तन्नित्यमित्याशयश्च । तन्मरणतयोपेतेन मृतकेन शवकल्पेन शरीरेण राज्यधुरं वहाम इत्यस्यान्यत् किं सुखमस्तीति । तर्हि तद्धानौ बह्वायासात् क्लेशः स्यादिति तत्राह– हित्वेति ॥ यदनीहलभ्यं निवृत्तिमार्गस्थैः साध्यमात्मनि सुखं तद् हित्वा कृपणा वयं क्लिश्यामहे । एवं विधं ज्ञानमस्ति चेत् किमिति क्लेश इत्यत उक्तम्– तवेति ॥ २८ ॥
सत्यधर्मीया
प्राप्ते राज्यसुखे सति किं संसृतितो भीतिरित्युच्यत इत्यतस्तत्राहुः– स्वप्नायितमिति । नृपसुखं नृपैः प्राप्यराज्यसुखं स्वप्नायितं स्वाप्नपदार्थसममस्थिरमित्यर्थः । न तत्र रथा इत्यादिना तत्पारतन्त्र्यं प्रतिपाद्यत इदं न तथेति नेत्याह– परतन्त्रमिति । तत्त्वतश्चलं सुखमुद्दिश्य शश्वद्भयेन सदा भूयिष्ठभयेन मृतकेन शवसदृशेन धुरं संसाराख्यरथधुरं वहामः । किमप्यपश्यन् भित्तिं गृहीत्वा रोदितीति तद्वर्त्मान्तरं नास्ति किं कर्तव्यमिति न स्वामिन्नित्याहुः– हित्वेति । आत्मनि स्वरूपसद् अनीहलभ्यं निष्कामकर्मसाध्यं बहिरन्त-रतोऽनीहोऽक्लिष्टकारीति त्वयैव निष्कामकर्म प्रसन्नेन लभ्यमित्यर्थः । तद्धित्वाऽतिकृपणाः क्लिश्यामहे । ज्ञात्वाऽपि तद्धित्वाऽनुष्ठानं विपरीतस्य कुत इत्यत इत इति वदन्ति– तव माययेति । अस्मत्कर्मानुसारिण्या तव बन्धकशक्त्याऽतिकृपणा इत्यन्वयः । हेतिकृपणाः परायुधेन स्वयं क्लिश्यन्तोऽरीनपि क्लेशयन्त इति क्लिश्याम इत्यर्थ इति वा ॥ २८ ॥
तन्नो भवान् प्रणतशोकहराङ्घ्रियुग्मो रुद्धान्१ वियुङ्क्ष्व मगधाधिपकर्मपाशात् ।
यो भूभुजोऽयुतमतङ्गजवीर्यमेको बिभ्रद् रुरोध भवने मृगराडिवावीः ॥ २९ ॥
पदरत्नावली
किमिदानीमावश्यकं तद् वद किं बहुसिद्धानुवादेनेति तत्राह– तन्न इति । वियुङ्क्ष्व वियोजय । अयुतमतङ्गजवीर्यमयुतगजपराक्रमं बिभ्रत् ॥ २९ ॥
सत्यधर्मीया
यस्मात्त्वं प्रणतशोकहरमङ्घ्रियुग्मं यस्य सः । यो मृगराट् सिंहोऽवी-र्मेषीरिव तथा । अयुतमतङ्गजा अयुतसङ्ख्या गजास्तेषां वीर्यं बिभ्रद्दधत् । अनेन स्वाशक्त्य-परिहृतिस्तदपहृतिस्तदपहृतिरिति ध्वनयन्ति स्म । भवने । भूभुुजोऽस्मान्रुद्धास्तंस्मा-न्मगधाधिपरूपात्कर्मपाशाद् बद्धानिति सुबद्धः पाठः । रुद्धानित्यप्यनिरुद्धः । त्वं नो नियुङ्क्ष्व । तथा भवभीता इति प्रागुक्तसंसारभयं च मोचयेति गदन्ति । भवानिति बहुवचनं प्राप्य नानायोनिभवनविवक्षया । संसारान्नियुङ्क्ष्व वियोजय । अनियमस्तु प्राग्व्युत्पादितोऽनु-सन्धेयः । यद्वा भवानित्यननुगुणो वियुङ्क्ष्वेति मध्यमपुरुष इतीव भवमोचनसूचनं नाचारि भवभीता इति वदद्भिरिति शङ्किता कृतान्वय एवमिति ज्ञेयम् ॥ २९ ॥
यो वै त्वया द्विनवकृत्व उदात्तचक्रो भग्नो मृधे खलु भवन्तमनन्तवीर्यम् ।
**जित्वा नृलोकनिरतं स तु रूढदर्पो युष्मत्प्रजाः क्षिपति चाशु च तद्विधेहि **
॥ ३० ॥
पदरत्नावली
उदात्तमुन्नतं चक्रं यस्य स उदात्तचक्रः । आशु च आश्वेव । तस्य प्रतिक्रियाम् ॥ ३० ॥
सत्यधर्मीया
उदात्तं चक्रं सुदर्शनं यस्य स यस्त्वं तेन त्वया । द्विनव-कृत्वोऽष्टादशवारम् । उदात्तं चक्रं सेना यस्य स इति मगधविशेषणं च । मृधे भग्नः खलुु । एकदा अनन्तवीर्यं भवन्तं नृलोकमनुवर्तिनं जित्वा जित इति विशेषसूचकस्तुः । स रूढो दर्पो यस्य स बह्वहङ्कृतः । युष्मत्प्रजाः क्षिपति च । आशु तत्संहरणं विधेहि कुरु । चक्र-मस्यास्तीति चक्रश्चक्रवत्कृष्णः । उदात्तश्चासौ चक्रश्च । उदात्तः सारिथिर्मत इति तात्पर्योक्तेः
॥ ३० ॥
इति मागधसंरुद्धा भवद्दर्शनकाङ्क्षिणः ।
प्रपन्नाः पादमूलं ते दीनानां शं विधीयताम् ॥ ३१ ॥
सत्यधर्मीया
पुरुषो भाषते ॥ इतीति । दीनानां शं सुखम् ॥ ३१ ॥
श्रीशुक उवाच—
राजदूते ब्रुवत्येवं देवर्षिः परमद्युतिः ।
बिभ्रत् पिङ्गजटाभारं प्रादुरासीद् यथा रविः ॥ ३२ ॥
सत्यधर्मीया
पिङ्गाश्च ता जटाश्च तासां भारस्तम् । ‘पिङ्गः पिशङ्गे पिङ्गी तु शय्यापिङ्गे तु चालक’ इति विश्वः । बिभ्रत् । महाद्युतिर्यथा रविस्तथा प्रादुरासीत् । पक्षी गरुडो यथा विस्तथाऽऽरेति वा ॥ ३२ ॥
गायन् गिरा मधुरया प्रियकर्माणि जन्म च ।
द्रावयन्नघसङ्घांश्च लोकान्निरमयन् भृशम् ॥ ३३ ॥
सत्यधर्मीया
प्रियस्य कर्माणि प्रियाणि च तानि कर्माणि च तथा जन्म । मधुरया गिरा । गीरत्र स्वरः । अघसङ्घांश्च द्रावयन् । लोकान्, नायं निर् किन्तु निः । तेन न ढ्रलोपशास्त्रप्रवृत्तिः । नितरां रमयन् प्रादुरासीदित्यन्वयः ॥ ३३ ॥
तं दृष्ट्वा भगवान् कृष्णः सर्वलोकेश्वरेश्वरः ।
ववन्द उत्थितः शीर्ष्णा ससभ्यः सानुगो मुदा ॥ ३४ ॥
**सत्यधर्मीया **
तं नारदं ससभ्यः सानुगश्चोत्थितः सञ्छीर्ष्णा ववन्दे ॥ ३४ ॥
सभाजयित्वा विधिवत् कृतासनपरिग्रहम् ।
बभाषे सूनृतैर्वाक्यैः श्रद्धया तर्पयन् मुनिम् ॥ ३५ ॥
सत्यधर्मीया
कृत आसनस्य परिग्रहो येन तम् । श्रद्धया भक्त्या बहिः । अन्त-स्तदीयया भक्त्या तं तर्पयन् सूनृतैर्वाक्यैर्बभाषे ॥ ३५ ॥
अपिस्विदद्य लोकानां त्रयाणामकुतोभयम् ।
ननु भूयान् भगवतो लोकान् पर्यटतो गुणः ॥ ३६ ॥
पदरत्नावली
अद्य त्रयाणां लोकानामकुतोभयमपिस्वित् कुतोऽपि भयं नास्ति हि? लोककुशलाकुशलजिज्ञासया पर्यटतो भवतो महान् गुणो भवतीत्याह– नन्विति ॥ ३६ ॥
सत्यधर्मीया
हे देवर्षे त्रयाणां लोकनामद्याकुतोभयं कुतोऽपि भयाभावोऽपिस्वित् किलेति पप्रच्छ । सामान्यन्यायेन तद्गुणं सम्मान्य वक्ति । लोकान्पर्यटतो जनस्य महान् गुणः कुशलाकुशलवार्तावित्याद्यात्मकः । तस्यास्तु मम किमित्यत आह– भगवतः पूज्यस्य तव स भूयान्ननु निश्चयः । सामानाधिकरण्येनान्वयो वा ॥ ३६ ॥
न हि तेऽविदितं किञ्चिद् लोकेष्वीश्वरकर्तृषु ।
अथ पृच्छामहे युष्मान् पाण्डवानां चिकीर्षितम् ॥ ३७ ॥
पदरत्नावली
पक्षिवत् पर्यटताऽज्ञेन मया किं प्रयोजनम्? अत्राह– नहीति ॥ ईश्वरः कर्ता येषां तथा तेषु । अथ तस्मात् ॥ ३७ ॥
दुर्घटभावदीपिका
ईश्वरकर्तृष्वीश्वरः कर्ता येषां ते ईश्वरकर्तारस्तेषु लोकेषु जनान्तः-करणेषु तेऽविदितं किञ्चित्किमपि न हि नैव । किन्तु यावदस्ति तत्सर्वं विदितमेवेति । एतेनेश्वरकर्तृष्वित्येतद्व्यर्थमिति दूषणं परास्तम् । सर्वजनसङ्ग्रहार्थमीश्वरकर्तृष्वित्युक्तमित्यङ्गी-कारात् । एतेनैव सर्वलोकान्तःकरणेष्विति वक्तव्यम् । सर्वलोकेष्विति कथनमयुक्तमिति चोद्यं प्रत्युक्तम् । लोकशब्देन लोकान्तःकरणानि गृह्यन्ते इत्यभ्युपगमात् ॥ ३७ ॥
सत्यधर्मीया
ईश्वरः कर्ता येषां तेषु । यद्यपि नद्यृतश्चेति कपा भाव्यम् । छान्दस-स्तदभावः । लोकेषु हिते हितविषये भवद्भिः किञ्चिदविदितं न । न हि तेऽप्यविदितं किं न किमपीत्यन्वयः । सत्येवं युष्मानित्यायुष्मन् विजानीहि सुलग्नमिति । हे मुनयः । अथ पाण्डवानां चिकीर्षितं किमिति युष्मान्पृच्छामः । शृृङ्गग्राहिकया पाण्डवानामनुगृह्णानः स्वस्य सर्वज्ञत्वेऽपि लोकनटनं कुर्वतो मम प्रश्न इति दध्वान । अन्यथा लोकैकदेशपाण्डव-चिकीर्षितप्रश्ने करणीये लोकन्पर्यटत इत्युक्तिः किञ्चिदवाङ्मुखी भूयादिति ज्ञेयम् ।
यद्वा पाण्डवचिकीर्षितत्वे प्रीतिं न वद लोकानटतो नाविदितमस्तीति तद्वेदने हेतूक्तिः । यत्र क्वचनाशनादिव्यासक्तचित्तस्य वार्तावित्तिः सम्भावितेति न प्रीतिं वक्तुं युक्तमिति न वदेति वा तथा सम्बोधयन् वक्ति– अथेति । न विद्यते थमन्नं तदपेक्षेति यावत् । यस्य तत्सम्बुद्धिः । उक्त्वा पृच्छतां वृत्तं कण्ठः शुष्क इति दुष्करं व्याकरणमिति नेत्याह– पृच्छामह इति । तव वक्तुं महे उत्सवे सत्येव मम पृच्छा प्रश्नोऽयमिति ममापि तद्वार्ता महे सत्येव पृच्छेयमिति वा । अटनमपि न घटितसहयायिजनस्य तवेति वक्तुं त इत्येकवचनम् । युष्मानिति बहुवचनं तत्पूज्यतया युज्यत इति तथोक्तिर्वा ॥ ३७ ॥
नारद उवाच—
दृष्टा मया ते बहुशो दुरत्यया माया विभो विश्वसृजश्च मायिनः ।
भूतेषु भूमन् चरतः स्वशक्तिभिर्वह्नेरिव च्छन्नरुचो रुचोऽद्भुताः ॥ ३८ ॥
पदरत्नावली
माया माहात्म्यानि । मायिनो नित्याख्याहतमाहात्म्यस्य । दारुषु च्छन्नरुचो वह्ने रुच इव तव रुचोऽप्यद्भुता अचिन्त्याः ॥ ३८ ॥
सत्यधर्मीया
नारदोऽपि तस्य स्थितिं कैश्चिच्छ्लोकैराकलय्य पृष्टं वक्तीति वक्ति– नारद इति । यो भवान्बहुशः पूर्णसुखस्तस्य ते बहुशः । शस् स्वार्थे । बहुला मायाः शक्तयो मया दृष्टास्तदतिक्रमणं च न विना त्वदनुग्रहमित्याह– दुरत्यया इति । विश्वसृजः प्रजासर्जकस्य । सा नौपाधिकीत्याह– मायिन इति । शिखादिः । विभवित्यादिकं तद्दुरत्ययतायां हेतुरिति मन्तव्यम् । सदेति शश्वत् । भूतेषु । चरतस्तव न तत्सम्बन्ध-बन्धनादिकं तवेत्याह– स्वशक्तिभिरिति । स्वरूपभूतशक्तिभिः । नैकाकिनश्चरणं तवेत्यप्याह । स्वशक्तिभिः ‘शक्यत्वाच्छक्तयो भार्या’ इत्युक्तेः श्रीभूदुर्गाभिः सहेति । न ता अपि स्वातन्त्र्येण किञ्चिदुदञ्चयितुं शक्ता इत्यपि वक्ति । सु अत्यन्तं न विद्यते शक्तिर्यासां ता इति स्वशक्तिभिरिति । स्वरूपशक्तयः कुतो न व्यक्ता इत्यत आह । छन्नरुच इति । काष्ठान्तर्गता रुचो रुचींषि यस्य तस्य वह्नेः । अद्भुता अपि रुचो यथा ता न प्रकाशन्ते तथा तव शक्तय इति ॥ ३८ ॥
तवेहितं कोऽर्हति साधु वेदितंु स्वमाययेदं सृजतो नियच्छतः ।
योऽविद्ययाऽनात्मतयाऽवसीयते तस्मै नमस्ते स्वविलक्षणात्मने ॥ ३९ ॥
पदरत्नावली
वह्ने रुचो मथनादिना व्यज्यन्ते न तथा तव रुच इति भावेनाह– तवेति ॥ कुतो निर्वेदनमिति तत्राह– य इति ॥ यो भवानविद्यया अज्ञानेनानात्मतया अस्वामितया अवसीयते निश्चीयते, शरीरिभिरिति शेषः । इति यदतो वेदनं दुःशकमित्यर्थः । तर्हि तत् सत्यं किम्? नेत्याह– स्वेति ॥ स्वतो विलक्षणस्वरूपाय । तस्मात् स्वामित्वमेव सत्यमिति तत्राज्ञानमेव कारणमित्यर्थः । स्वरूपतो विरुद्धलक्षणस्वामिने, कदाप्यनुपहतस्वामिन इति वा ॥ ३९ ॥
दुर्घटभावदीपिका
स्वमायया स्वेच्छयेदं सर्वं जगत्सृजतो नियच्छतः संहरतो यस्य त ईहितं चेष्टां वेदितुं कोऽर्हति । एतेन योऽविद्ययाऽलनात्मतयेत्येतव्द्यर्थमिति दूषणं परास्तम् । अस्वामिताज्ञानस्य भ्रमत्वोपपदनार्थमात्मशब्देन स्वामित्वमुच्यते । तत्स्वामित्वं ब्रह्मादिषु साधारणं न भवतीति ज्ञापनार्थं विलक्षणशब्देन ब्रह्मादिनिष्ठस्वामित्वापेक्षया भगवन्निष्ठस्वामित्वस्य वैलक्षण्यमुच्यते । तद्विलक्षणस्वामित्वमन्याधीनं न भवतीति ज्ञापयितुं स्वशब्देन परनिर-पेक्षत्वमुच्यत इति च स्वीकरणात् ॥ ३९ ॥
सत्यधर्मीया
ननु तर्हि मथनादिनाऽस्मदाद्युपलम्भात्तद्वन्मम शक्तयः पुरुषप्रयत्नसुमिल-व्यक्तय इत्यायातमिति तत्राह– तवेति । साधु सम्यक् स्वमायया स्वेच्छया । नैन्द्रजालिक-जलादिनिर्माणकृन्मायेवेयमित्यप्याह– सु अमाययेति । सृजतो, नियच्छतः संहरतो मध्यमे तु नान्यपथान्यकर्तृताविषयिणीति तदनुक्तिः । तवेहितं चेष्टितं वेदितुं कोऽर्हति न कोऽपि तत्र समर्थः । वेदितुमर्हति चेत्को ब्रह्माऽर्हति । कश्छन्दसां योगमावेदेतिवत् सोऽपि न साकल्येन वेदितुमर्हतीति तात्पर्यम् । कुतो वेदितुं कोऽपि नार्हतीत्यत इव इत्याह– य इति । यो भवानविद्यया स्वकर्मायत्ताज्ञानेन करणेन । प्राणिभिः कर्तृभिरनात्मतयाऽस्वामित्वेनावसीयते निश्चीयते । स्वविलक्षणात्मने स्वत एव विलक्षण आत्मा स्वरूपं यस्य तस्मै । न स्थानकृतं न वा रूपकृतं नापि व्यापारकृतं वैलक्षण्यं त्वयीत्यप्याह– स्विति । तस्मै ते इव नमः । तस्मा इव तस्मै नमः । अथवा तस्मै ते तन्नारायणात्मन इति वा । तव ईहितमिति छेदः । ई रमा साधु ब्रह्मापेक्षया सम्यग्वेदितुमर्हति । साऽपि साधु साकल्येन नार्हतीति वा ॥३९॥
जीवस्य यत् संसरतो विमोक्षणं न जायतेऽनर्थवहाच्छरीरतः ।
लीलावतारैः स्वयशःप्रदीपकं प्रज्वालयेस्त्वं तमहं प्रपद्ये ॥ ४० ॥
पदरत्नावली
अज्ञानं मां कदापि न स्पृशेत् प्रत्युत ज्ञानमेव नित्यं प्रज्वलितं भूयादिति प्रार्थयते– जीवस्येति ॥ अज्ञानतः संसरतो जीवस्यानर्थवहाच्छरीरतो विमोक्षणं न जायत इति यत्तस्मादेतद्देहहानाय लीलावतारैस्त्वं स्वयशः प्रदीपकं ज्ञानं प्रज्वालयेस्तदर्थमहं शरणं प्रपद्य इत्यन्वयः । अनेन लीलावतारविषयाज्ञानं दूरीकृत्य तत्वज्ञानमेव विकसितं कुर्वित्युक्तं भवति
॥ ४० ॥
सत्यधर्मीया
यथा तदज्ञानं मां त्यजेद्भवेच्च तव ज्ञानं तथा दयां विधेहि । मया त्वनुष्ठेयं तदर्थमियदित्याह– जीवस्येति । यतोऽज्ञानात्संसरतो जीवस्य । वहतीति वहमनर्थस्य वहं तस्माच्छरीरतो विमोक्षणम् । प्राग्विशिष्टं मया त्वज्ञानरसेनोक्षणं संसक्तता न जायते यतस्ततो विमोक्षणं लिङ्गभङ्गादिर्न जायते । साधनानेधनान्न मोक्षो भवतीति भावः । नान्यः पन्था अयनायेत्यादेः । त्वमेव लीलावतारैरिदमादिभिः स्वयशःप्रदीपकं ज्ञानो-द्दीपकं प्रज्वालयेः प्रज्वलयेः । यशःश्रवणेन ज्ञानं प्रज्वलितं भवति । तत्राप्येवं चेद्गात्रं कारणमितीरयति । अनर्थवहाद्द्रव्याद्यविषयवहाच्छरीरतः शरीरादिति । तत्तस्मादहमावृत्त्याऽहम् ओयत्वादहं नामेत्युक्तेरहमहेयं त्वां प्रपद्ये ॥ ४० ॥
अथाप्याश्रावये ब्रह्मन् नरदेवविडम्बितम्१ ।
राज्ञः पैतृष्वसेयस्य भक्तस्य च चिकीर्षितम् ॥ ४१ ॥
पदरत्नावली
यतस्त्वत्प्रसादादस्मदादेर्विज्ञानं तत्र किञ्चिदपि विज्ञाप्यं न पश्यामि । अथापि तथापि । अशेषपुरुषार्थप्राप्तौ भगवद्भक्तेर्मुख्यहेतुत्वेऽपि । नरदेवानां विडम्बनं यज्ञकरणम्
॥ ४१ ॥
सत्यधर्मीया
त्वत्प्रसादासादितसंविदा गोविन्द विज्ञातसर्वस्व त्वां प्रति नास्ति विज्ञाप्यं तथाऽपि नाज्ञावज्ञानं कार्यमिति तत्कार्यं विनिवेदयामीति वक्ति– अथाऽपीति । पैतृष्वसेयस्य पितृष्वसुः सुतस्य । पैतृष्वसेयः स्यात्पैतृष्वस्रीयश्च पितृष्वसुः सुत इत्यमरः । राज्ञस्तव भक्तस्य चिकीर्षितं हे ब्रह्मन् पूर्ण नरदेवविडम्बितं नरलोकविडम्बनमित्यपि पठन्ति । नरान्देवांश्च विडम्बयत्यज्ञवत्प्रस्तुतप्रश्नादिना देववन्नराशक्यगोवर्धनोद्धारेणेत्युभयविडम्बक इति नरदेवलोकं विडम्बयतीति स तमित्युभयत्रार्थः । तं त्वां श्रावये श्रावयिष्यामि ॥ ४१ ॥
यक्ष्यति त्वां मखेन्द्रेण राजसूयेन पाण्डवः ।
नृपतिः पारमेष्ठ्येन तद् भवाननुमोदताम् ॥ ४२ ॥
पदरत्नावली
पारमेष्ट्येनोत्तमकल्पेन, ब्रह्मपदप्राप्तिहेतुना वा ॥ ४२ ॥
सत्यधर्मीया
पाण्डवो धर्मः । नृपती राजा । मखेन्द्रेण पारमेष्ठ्येन । मुख्यतो भीमविवक्षया चतुर्षु वायुरित्युक्तेरेतच्चतुष्टयाविष्टतद्विवक्षया ब्रह्मपदफलकत्वेनेत्युक्तिः । तन्नामाह– राजसूयेनेति । त्वां यक्ष्यति यष्टुमिच्छति । तद्यजनं भवाननुमोदताम् । अन्यथा तन्न सिद्ध्येदिति भावः ॥ ४२ ॥
तस्मिन् देव क्रतुवरे भवन्तं वै सुरादयः ।
दिदृक्षवः समेष्यन्ति राजानश्च यशस्विनः ॥ ४३ ॥
सत्यधर्मीया
हे देव तस्मिन्क्रतुवरे आरब्धे । सुरादयो भवन्तं दिदृक्षवो द्रष्टु-मिच्छवः समेष्यन्ति । यशस्विनो राजानः । चात् समेष्यन्तीत्यन्वेतीव दिदृक्षव इत्यप्यन्वेति
॥ ४३ ॥
श्रवणात् कीर्तनाद् ध्यानात् पूयन्तेऽन्त्यावसायिनः ।
तव ब्रह्ममयस्येश किमुतेक्षाभिमर्शिनः ॥ ४४ ॥
पदरत्नावली
अन्त्यावसायिनो ऽन्त्यजातयोऽपि । ईक्षा दर्शनम्, अभिमर्शनं स्पर्शादिलक्षणं चैषामितीक्षाभिमर्शिनः ॥ ४४ ॥
सत्यधर्मीया
हे ईश । तव श्रवणाच्चरितस्य तथा कीर्तनाद्ध्यानादन्त्यावसायिनः पुल्क- सादयोऽपि पूयन्ते पवित्रिता भवन्ति । न त्वं लोकमध्यकरण इत्याह– ब्रह्ममयस्य साक्षा-द्ब्रह्मात्मकस्येति । ब्रह्ममयस्य सर्वप्रधानस्येति वा । ईक्षाभिमर्शिन ईक्षा दर्शनं चाभिमर्शः पाद-स्पर्शश्च तौ येषां ते तथा पूयेरन्निति किमु वक्तव्यम् । श्रवणादेः पारोक्षिकव्यापाराद्य-दाऽन्त्यावसायिनः पूयन्ते तदापारोक्षिकादीक्षादेः पूयेरन्नित्यवचनेऽपि सोऽर्थो लभ्यत इति भावः
॥ ४४ ॥
**यस्यामलं दिवि यशः प्रथितं रसायां **
**भूमौ च ते भुवनमङ्गल दिग्वितानम् । **
मन्दाकिनी च दिवि भोगवतीति चाधो
गङ्गेति चेह चरणाम्बु पुनाति विश्वम्१ ॥ ४५ ॥
॥ इति श्रीमद्भागवते दशमस्कन्धे अशीतितमोऽध्यायः ॥
पदरत्नावली
उक्तमेव स्फोरयति– यस्येति ॥ हे अमलयशः मङ्गलकीर्तन यस्य तवाथ कल्याणमत एवामलं निर्दोषं यशो विश्वं पुनाति । ननु मितत्वे यशसो विश्वपुनानत्वं कथमित्यत उक्तम्– दिवीत्यादि ॥ घटान्तरदीपवदस्पष्टस्यापि कथमित्यत उक्तम्– दिशां वितानमिति ॥ दिशामन्तेषु विशेषेण तानो विस्तारो यस्य तत् तथा । तथापि न चोरवदित्याह– प्रथितमिति ॥ अथ जन्मप्रभृति श्रीमत्पादलक्षणास्पदं गता तव पादरजोवहोर्मिर्मन्दाकिनीव विश्वं पुनाति । अतस्तव माहात्म्यं किं वक्ष्यामीत्यतो नमोनम इत्युपरमामीति वाक्यार्थः ॥ ४५ ॥
॥ इति श्रीमद्भागवतटीकायां विजयध्वजतीर्थकृतायां पदरत्नावल्यां
दशमस्कन्धे उत्तरार्धे अष्टसप्ततितमोऽध्यायः (स.धर्म.१०–८०) ॥
दुर्घटभावदीपिका
यस्येत्यस्य विष्णोरित्यर्थः । एतेन यस्येति यच्छब्दस्य तच्छब्दा-भावादनन्वय इति शङ्काऽनवकाशः । यस्येति यच्छब्दस्य रूपमित्यनङ्गीकारात् ॥ ४५ ॥
॥ इति श्रीभागवतटिप्पण्याम् अष्टसप्ततितमोऽध्यायः ॥ १०–८० ॥
सत्यधर्मीया
बहुषु पुस्तकसम्पुटीषु ‘यस्यामलं दिवि यशः प्रथितं रसायां भूमौ च ते भुवनमङ्गल दिग्वितानम् । मन्दाकिनी च दिवि भोगवतीति चाधोगङ्गेति चेह चरणाम्बु पुनाति विश्वम्’ ॥ इति दृश्यते पाठो दृश्यश्च । न पुनरुक्त्यादिपरिहरणायासश्चेति तमेव धृत्वा व्याचक्रुः । तथा हि । तत्कैमुत्यमुज्जीवयन्नाह– यस्येति । हे भुवनमङ्गल दिग्वितानं दिक्षु वितानो विस्तारो यस्य तद् दिग्गृहवितानरूपं वा । ‘अस्त्री वितानमुल्लोच’ इत्यमरः । यस्य तव यशोऽमलं दिवि भुवि रसायां प्रथितं विश्वं पुनाति । तथा दिवि मन्दाकिनीति । अधो रसायां भोगवतीति । इह भूमौ च गङ्गेति नामवच्चरणाम्बु विश्वं पुनाति । इतीक्षास्पर्शने पुनीत इति किं वक्तव्यमिति । पाठान्तरे त्वयमर्थः । हे अमल-यशः । यस्य यशो यस्य तव दिवि रसायां भूमौ च दिशां वितानं विशेषेण तानो विस्तृति-र्यस्य तत्तथा यशः प्रथितम् । तव पादरजसां धूलीनां वहा ऊर्मयो तरङ्गा यस्यां सा मन्दाकिनी वियद्गङ्गा । पादरजोवहत्वं तस्या नासम्भवीत्याह– श्रीमत्पदास्पदं नखान्तं गता प्राप्तेति । विश्वं पुनाति । अथ तादृशस्य तवेक्षणस्पर्शनानन्तरं पावित्र्यमिति किं वक्तव्य-मिति ॥ ४५ ॥
॥ इति श्रीसत्यधर्मयतिकृतायां भागवतटिप्पण्यां दशमस्कन्धे
उत्तरार्धेऽष्टसप्ततितमोऽध्यायः ॥ १०–८० ॥