०५ एकोनाशीतितमोऽध्यायः

तथा ताभिर्वरस्त्रीभी रममाणो जनार्दनः

॥ अथ एकोनाशीतितमोऽध्यायः ॥

श्रीशुक उवाच—

तथा ताभिर्वरस्त्रीभी रममाणो जनार्दनः ।

दिनानि हतसापत्नः सुबहून्यत्यवासयत् ॥ १ ॥

पदरत्नावली

यथा पूर्वमुक्तं तथाऽत्यवासयद् अतीतान्यकरोत् । यथाऽत्यवासयत् तथा तव कथयामीति वा ॥ १ ॥

सत्यधर्मीया

ताभिर्वरस्त्रीभिः सह रममाणो जनार्दनो यथातथा हतसापत्नो मारितवैरी सुबहूनि दिनान्यत्यवासयदतिक्रम्य वासमकार्षीत् ॥ १ ॥

राजोवाच—

तासां षोडशसाहस्रमहिषीणां जनार्दनः ।

तृप्तिं कथं चकारैको मानुषं देहमाश्रितः ॥ २ ॥

सत्यधर्मीया

एकोऽनेकाभिः कामिनीभिः क्रीडां कुर्वन्कथमतर्पयदिति चित्रितचित्तः परीक्षित् पृच्छति ॥ तासामिति । देहं मानुषं तत्सदृशम् । ननु नानेन विनेयेनेयं पृच्छा कर्तुमुचिता । कोट्यादिरमणीरमणचित्रकेत्वादिचरितश्रोतृत्वात् । न च विस्मरणं तस्येति वाच्यम् । महाधिकारवतस्तथात्वस्यासम्भावितत्वात् । ज्ञातैतद्विस्मरणस्वभावस्य स्वभावतः सर्वज्ञस्य शुकस्य प्रवचनप्रवर्तनानुपपत्तेरिति चेन्न । परीक्षिदपेक्षया परीक्षकोऽसि यच्चित्रकेतुनिकेतनीनां स्मरसि । तत्र त्वतृप्तिः क्लृप्ता सम्भाविता च भामिनीनाम् । तस्य चामरपामरत्वात् । साक्षादात्मसर्व-सुपर्वाध्यक्षरमणं रमणीनां वा तर्पणमिति सम्भवतीति प्रच्छताऽच्छतामृच्छेदेव । अत एव मूले तृप्तिं चकारैक इत्युक्तिः । तृप्तिस्तु बव्हपत्यतयाऽत्रानुमेया । तत्र त्वेकस्यास् तृप्तिश्च तथेति मन्तव्यमेव । एकस्यैव तोकस्योत्पत्तेः । अन्यास्व नुत्पत्तेः । अन्यथा कथमरीरमदित्यवक्ष्यत्

॥ २ ॥

श्रीशुक उवाच—

हन्त ते कथयिष्यामि श्रोतॄॄणां विस्मयावहम् ।

यथा चकार बह्वीनामेकस्तृप्तिं जनार्दनः ॥ ३ ॥

सत्यधर्मीया

हन्त हर्षेण । आरभ्यादित इति । अनुकम्पयित्वेति वा । ‘हन्त हर्षे विषादे च वाक्यारम्भानुकम्पयोः’ इति विश्वः । एको जनार्दनो यथा बह्वीनां तृप्तिं चकार तत्करणं श्रोतॄणां विस्मयावहं ते कथयिष्यामीत्यन्वयः ॥ ३ ॥

नरकं निहतं श्रुत्वा तथोद्वाहं च योषिताम् ।

कृष्णेनैकेन बह्वीनां तद्दिदृक्षुः स्म नारदः ॥ ४ ॥

पदरत्नावली

नरकं निहतं श्रुत्वा तथैकेन कृष्णेन बह्वीनां योषितामुद्वाहं च श्रुत्वा नारदस्तद्दिदृक्षुरभूदित्यन्वयः ॥ ४ ॥

सत्यधर्मीया

उद्वाहं विवाहं तत्तृप्त्या च रमकर्म दिदृक्षुर्नारदः ॥ ४ ॥

चित्रं बतैतदेकेन वपुषा युगपत् पृथक् ।

गृहेषु व्द्यष्टसाहस्रस्त्रिय एक उदावहत् ॥ ५ ॥

पदरत्नावली

ततः किमिति तत्राह– चित्रमिति ॥ एक एकेन वपुषा पृथग् गृहेषु द्व्यष्टसहस्रस्त्रिय एकस्मिन् मुहूर्ते उदावहदिति यत् तदिदं विचित्रमाश्चर्यमिति च ॥ ५ ॥

सत्यधर्मीया

एकेन वपुषैकः कृष्णो युगपदेकस्मिन्नेव मुहूर्ते पृथक्कारितगृहेषु द्व्यष्टसाहस्रस्त्रिय उदावहद् इत्येतच्चित्रम् ॥ ५ ॥

इत्युत्सुको द्वारवतीं देवर्षिर्द्रष्टुमागमत् ।

पुष्पितोपवनारामां द्विजालिकुलनादिताम् ॥ ६ ॥

पदरत्नावली

सन्तोषादुत्सुको भूत्वा देवर्षिः कृष्णचेष्टितं द्रष्टुं द्वारवतीमगमदित्यन्वयः । कीदृशं द्वारवतीं नाम पुरम् ? पुष्पिता उपवनारामा यस्मिनस्तत्, द्विजानां पक्षिणामलीनां कुलेन नादितम् ॥ ६ ॥

दुर्घटभावदीपिका

पुष्पितोपवनाराममित्यादि लिङ्गव्यत्ययश् छान्दसः । एतेन इत्युत्सुको द्वारवतीं देवर्षिर्द्रष्टुमागमदिति पूर्ववाक्ये द्वारवतीमित्यस्य स्त्रीलिङ्गत्वात् । विभक्त-रथ्यापथचत्वरापणैः शालासभाभी रुचिरां सुरालयैरित्याद्युत्तरवाक्ये च रुचिरामित्यादेः स्त्रीलिङ्ग-त्वात् । पुष्पितोपवनारामामित्यादि स्त्रीलिङ्गप्रयोगः कर्तव्य इति शङ्काऽनवकाशः ॥ ६ ॥

सत्यधर्मीया

इत्येवमुत्सुको देवर्षिः । षष्ठीसमासः कर्मधारयश्चैतत् । दृष्टुमागमत् । पुष्पितान्युपवनानि जलानि येषु ते आरामा उपवनानि यस्यां सा ताम् । द्विजाः पक्षिण आलयो भृङ्गा द्विजानामाल्यस्तत्कुलं सङ्घस्तेन नादिताम् ॥ ६ ॥

उत्फुल्लेन्दीवराम्भोजकल्हारकुमुदोत्पलैः ।

छुरितेषु सरस्सूच्चैः कूजितां हंससारसैः ॥ ७ ॥

पदरत्नावली

उत्फुल्लेन्दीवरादिभिश्छुरितेषु मिश्रितेषु सरस्सु हंसादिभिरुच्चैः प्लुतस्वरेण कूचितम् । यद्वा सामान्यत उक्तं नारदागमनं विशिनष्टि– पुष्पितेत्यादिना । प्रथमतो द्विजादिनादितं पुष्पितोपवनारामं प्राप । पश्चादुत्फुल्लेन्दीवरादिभिश्छुरितेषु सरस्सु हंसादिभिरुच्चैः कूजितं स्थलमाप ॥ ७ ॥

सत्यधर्मीया

उत्फुल्लेति सर्वत्र सम्बन्धनीयम् । छुरितेषु व्याप्तेषु । हंसैः श्वेतगरुद्भिः, सारसैः । ‘सारसः पक्षिभेदे स्यात्’ इति विश्वः । कूजिताम् ॥ ७ ॥

प्रासादलक्षैर्नवभिर्जुष्टां स्फाटिकराजतैः ।

महामरकतप्रख्यैः स्वर्णरत्नपरिच्छदैः ॥ ८ ॥

पदरत्नावली

ततः पश्चात् स्फाटिकराजतैः स्फटिकादिभिर्निर्मितैर् नवभिर्नूतनैः प्रासादलक्षैर्जुष्टं स्थलमाप । कीदृशैः? महामरकतप्रख्यैर् इन्द्रनीलविहितसोपानैः । स्वर्णरत्नानि सुवर्णश्रेष्ठानि परिच्छदा येषां तानि तथा, अत्युत्तमसुवर्णजलविचित्रितानीत्यर्थः, तैः ॥ ८ ॥

सत्यधर्मीया

प्रासादानां लक्षाणि तैः । तत्सङ्ख्यामाह ॥ नवभिरिति । नवलक्षैः । नूतनैरित्यर्थपक्षे नवशब्दपर्यायोऽयं नवशब्द इति वा, ऐसादेशाभावश्छान्दसतया वेति ज्ञेयम् । स्फाटिकराजतैस्तदुभयमयैः । महामरकतानां प्रख्याभिरख्या येषां ते तैः । स्वर्णरत्नात्मकपरिकरैश्च जुष्टामित्यन्वयः ॥ ८ ॥

विभक्तरथ्यापथचत्वरापणैः शालासभाभी रुचिरां सुरालयैः ।

संसिक्तमार्गाङ्कणवीथिगेहिनीं पतत्पताकाध्वज१वारितातपाम् ॥ ९ ॥

पदरत्नावली

किञ्च विभक्तैः रथ्यापथै रथमार्गैश्चत्वरैरापणैश्च शोभिताम् । ततः परं शालाभिः सभाभिरतिरुचिराम्, सुरालयैर्देवगृहैश्च मनोरमाम् । गोमयचन्दनोदकादिना संसिक्त-मार्गाश्चाङ्कणानि च वीथयश्च गृहपङ्क्तिपुरोमार्गाश्च संसिक्तमार्गाङ्कणवीथयः, ताश्च गेहानि चास्याः सन्तीति संसिक्तमार्गाङ्कणवीथिगेहिनी, ताम् । पतन्त्यो विवरणावरणे कुर्वन्त्यः पताका येषां ते पतत्पताकास् ते च ध्वजाः पतत्पताकध्वजास्तैर्वारितः स्तम्भित आतपो यत्र सा तथा, ताम् । एवं विधायां तस्यां कुशस्थल्यामन्तर्भागे हरेः पुरं सर्वसम्पदा पूर्णं स्थानमस्तीति शेषः

॥ ९ ॥

सत्यधर्मीया

रथ्या रथसङ्घस्तस्य पन्था रथ्यापथो रथसञ्चरणसरणिः । रथ्या रथौघविशिखवर्तनी चत्वरेषु च । रथ्या प्रतोली विशिखेति विश्वामरौ । चत्वरैरापणैः । शालाभि-र्गृहैस्तदेकदेशैस्तरुस्कन्धशाखाभिर्वा । शालागृहे तरुस्कन्धशाखागारैकदेशयोरिति विश्वः । सभाभिः रुचिरां मनोहराम् । सुरालयैर्देवालयै रुचिरां च । संसिक्ता मार्गा अङ्गणानि च वीथयश्च यस्यां सा च सा गेहानि सन्त्यस्यामितीत्यर्थः । प्राशस्त्यं प्रशस्तगृहवतीति गेहिनी च ताम् । पतत्पताकाध्वजेति सुपठम् । पतत्पताकध्वजेति पाठे पतत्पताका येषां ते च ते ध्वजाश्चेति व्याख्येयम् । तैः । विशेषतः प्राच्युदञ्चितोऽनुसन्धेयः । वारित आतपो यस्यां सा ताम्

॥ ९ ॥

तस्यामन्तःपुरं श्रीमदर्चितं सर्वधिष्ण्यपैः ।

हरेः स्वकौशलं यत्र त्वष्ट्रा कार्त्स्न्येन दर्शितम् ॥ १० ॥

पदरत्नावली

सर्वधिष्ण्यपैः समस्तैर्ब्रह्मादिभिरर्चितं धिष्ण्यं गृहम् । मध्यगृहपतिर्ब्रह्मा परितः पतय इन्द्रादयः । यत्र पुरे । त्वष्ट्रा विश्वकर्मणा ॥ १० ॥

सत्यधर्मीया

क्रमान्नारदागमनमिति तथैवावर्णयत् । तस्यां कुशस्थल्यामन्तर्मध्ये सर्वधिष्ण्यपैर्ब्रह्मादिभिरर्चितं श्रीमद्धरेः पुरम् । यत्र पुरे त्वष्ट्रा विश्वकर्मणा स्वकौशलं कार्त्स्न्येन सामस्त्येन दर्शितम् ॥ १० ॥

तत्र षोडशभिः सद्मसहस्रैः समलङ्कृतम् ।

विवेशैकतमं शौरेः पत्नीनां भवनं महत् ॥ ११ ॥

पदरत्नावली

ततः परितः कृष्णस्य पत्नीनां षोडशभिः सद्मसहस्रैः सन्दर्शनीयतया अलङ्कृतम् । भवनानामेकतमं भवनम् ॥ ११ ॥

सत्यधर्मीया

तत्र पुरे षोडशभिः सद्मसहस्त्रैः समलङ्कृतं सम्यगलङ्कृतम् । शौरेः पत्नीनामेकतमं महद्भवनं विवेश । यन्महद्भवनं लोके तद्येन समलं मलसहितं कलङ्कि तुच्छमिति यावत् कृतम् । तन्महद्भवनमिति ॥ ११ ॥

विष्टब्धं विद्रुमस्तम्भैर्वैडूर्यफलकोत्तमैः ।

इन्द्रनीलमयैः कुड्यैर्जालैर्मरकतोत्तमैः ॥ १२ ॥

पदरत्नावली

कीदृशं तद् गृहम्? अत्राह– विष्टब्धमिति ॥ मूले अग्रे च फलकोत्तमानि येषां ते तथा ते तथा तैः । जालैर्गवाक्षैः ॥ १२ ॥

सत्यधर्मीया

तद्भवनसुभगतामुपवर्णयति ॥ विष्टब्धमिति । विद्रुमस्तम्भैः प्रवाल-स्तम्भैः । ननु क्वचित्स्थले स्थाणुस्तम्भा अपि वर्तेरन्नित्यतोऽप्याह ॥ विद्रुमस्तम्भैरिति । न विद्यन्ते सामानाधिकरण्येन द्रुमात्मकस्तम्भा येषां तैः । विष्टब्धं विधृतम् । वैडूर्याण्येव फलकोत्त-मान्यधोभाग उपरिभागे च येषां ते तैः । गद्दिगिगडगीत्यस्मदपभ्रष्टभाषया । इन्द्रनीलात्मकैः कुड्यैर्र्भित्तिभिर्मरकतोत्तमैस्तत्कृतैर्जालैर्गवाक्षैः ॥ १२ ॥

वितानैर्निर्मितैस्त्वष्ट्रा मुक्तादामविलम्बिभिः ।

दान्तैरासनपर्यङ्कैर्मण्युत्तमपरिष्कृतैः ॥ १३ ॥

पदरत्नावली

मुक्तादामविलम्बिभिर् अवलम्बमानमौक्तिकमालैः । दान्तैर् गजदन्तनिर्मितैः

॥ १३ ॥

सत्यधर्मीया

मुक्तादामानि विलम्बीनि येषां ते तैः । त्वष्ट्रा निर्मितैर्वितानैरुल्लोचैः । दान्तैर्दन्तिदन्तविकृतैः । मण्युत्तमपरिष्कृतैरलङ्कृतैः ॥ १३ ॥

दासीभिर्निष्ककण्ठीभिः सुवासोभिरलङ्कृतम् ।

पुम्भिः सकञ्चुकोष्णीषसुवस्त्रमणिकुण्डलैः ॥ १४ ॥

सत्यधर्मीया

सुवासोभिर्निष्ककण्ठीभिर्दासीभिरलङ्कृतम् । तथा कञ्चुकं कवचम् उष्णीषं शिरोवेष्टनं सुवस्त्रमुत्तरीयादिकं मणिमयानि कुण्डलानि च तैः सहितैः पुम्भिरलङ्कृतम् ॥ १४ ॥

रत्नप्रदीपनिकरद्युतिभिर्निरस्तध्वान्तं विचित्रवलभीषु शिखण्डिनोऽङ्ग ।

**नृत्यन्ति यत्र विहितागरुधूपमक्षैर्निर्यान्तमीक्ष्य घनबुद्धय उन्नदन्तः **

॥ १५ ॥

पदरत्नावली

अक्षैर्गवाक्षैः । निर्यातं निर्गतं विहितागुरुधूपं दृष्ट्वा । शिखण्डिनो मयूराः

॥ १५ ॥

सत्यधर्मीया

रत्नात्मकप्रदीपानां निकरस्य द्युतयस्ताभिः । निरस्तं ध्वान्तं गृहान्तर्गतान्धतमसं यस्य तत् । यस्य विचित्रवलभीषु वक्रदारुषु शिखण्डिनो मयूरा नृत्यन्ति । घनमण्डलं दृष्ट्वा ताण्डवं कुर्वतां शिखण्डीनां कथमकारणं नटनमित्यत आह । यत्र गृहे विहितोऽगरुगन्धोऽगरुधूपस्तमक्षैर्गवाक्षैर्निर्यान्तमीक्ष्य घना एत इति बुद्धिर्येषां ते तथा सन्त उन्नदन्तो नादं कुर्वंत इति ॥ १५ ॥

तस्मिन् समानगुणरूपवयःसुवेषदासीसहस्रयुतयाऽनुसवं गृहिण्या ।

विप्रो ददर्श चमरव्यजनेन रुग्मदण्डेन सात्वतपतिं परिवीजयन्त्या

॥ १६ ॥

पदरत्नावली

चामर व्यजनेन चामराख्यव्यजनेन । तस्मिन् भवने ॥ १६ ॥

सत्यधर्मीया

तस्मिन्यस्मिन्प्रविष्टस्तत्र । समानगुणरूपवयःसुवेषं यद्दासीसहस्रं तेन युतया । रुग्मदण्डेन चमरसम्बन्धिव्यजनेन चामरेणानुसवं धारा अविच्छेदेनेत्यनुक्षणं परिवीजयन्त्या गृहिण्या भार्यया सहितं सात्वतपतिं विप्रो ददर्श । ब्रह्मपुत्रत्वाद्विप्र इत्युक्तिः ॥ १६ ॥

तं सन्निरीक्ष्य भगवान् सहसोत्थितः श्रीपर्यङ्कतः सकलधर्मभृतां वरिष्ठः ।

आनम्य पादयुगलं शिरसा किरीटजुष्टेन साञ्जलिरवीविशदासने स्वे ॥ १७ ॥

पदरत्नावली

अवीविशद् उपविष्टः ॥ १७ ॥

सत्यधर्मीया

भगवांस्तं नारदम् । तमित्यावर्तितमागतमित्यर्थे । तकारश्चागत इति विश्वः । सन्निरीक्ष्य सहसा झडिति श्रीपर्यङ्कतः श्रीमत्पर्यंङ्कत उत्थितः । तत्रोत्तरत्र तन्त्रं धर्मभृतां वरिष्ठ इति । किरीटजुष्टेन शिरसा पादयुगलमानम्य नत्वा । साञ्जलिर्घटितकरसम्पुटिः स्वे आसने न्यवीविशदुपवेशयामास ॥ १७ ॥

तस्यावनिज्य चरणौ तदपः स्वमूर्ध्ना बिभ्रज्जगद्गुरुतरोऽपि सतां पतिर्हि ।

ब्रह्मण्यदेव इति यद् गुणनाम युक्तं तस्यैव यच्चरणशौचमशेषतीर्थम् ॥ १८ ॥

पदरत्नावली

भो परीक्षित्, नैतच्चित्रमित्याह– ब्रह्मण्यदेव इति ॥ यस्य चरणशौच-जलमशेषान् तीर्थयति शुद्धान् करोतीत्यशेषतीर्थम् । यद्वा अशेषाणि तीर्थानि यस्मिंस्तत् । तस्य हरेर्ब्रह्मण्यदेव इति यद् गुणनाम तत् तस्यैव युक्तमित्यवधारयेत्यर्थः ॥ १८ ॥

सत्यधर्मीया

जगद्गुरुतरोऽपि हि यतः सतां पतिस्ततस्तस्य चरणाववनिज्य प्रक्षाल्य । तस्य प्रक्षालनस्य सम्बन्धिनीरपः स्वमूर्ध्ना बिभ्रत्संस्तमभिभाष्याहेत्युत्तरेणान्वयः । अबिभ्रद् अबिभ्र इति व्यत्ययेनान्वय इति केचित् । तदा त्वत्रैवान्वयः । अतो ब्रह्मण्यदेवेति यद्गुणनाम गुणलब्धं नामान्वर्थमिति यावत् । तस्यैव कृष्णस्यैव युक्तम् । किं तन्माहात्म्यमित्यत आह । यस्य चरणयोः शौचं शौचनिःसृतसरित्प्रवरोदकम् । अशेषान् धात्रादींस्तीर्थयति पवित्रयतीति स तथा । एवं स्वविभवे सति स्वमूर्ध्ना नारदनीरं दधारेति ब्रह्मण्यदेवनाम-गुणानुरूपमिति तात्पर्यम् ॥ १८ ॥

सम्पूज्य देवऋषिमादिऋषिः पुराणो नारायणो नरसखो विधिनोदितेन ।

**वाण्याऽभिभाष्य मितयाऽमृतकल्पया च प्राह प्रभो भगवतः करवाम किं ते **

॥ १९ ॥

पदरत्नावली

शास्त्रोदितेन विधिना सम्पूज्य ॥ १९ ॥

सत्यधर्मीया

नरसखो नारायण इत्यादिऋषिः । पुराणः सकलकलेवरगतः । उदिते-नातिथिपूजनं यथा शास्त्र उदितं तेनोदितेन विधिना । देव ऋषिं सम्पूज्य । उभयत्र ऋत्यक इति प्रकृतिभावः । मितया शब्दतोऽमृतकल्पया वाण्याऽभिभाष्य स्वामिन्मद्वचनं शृृण्वित्युक्त्वा स्वमुखं विधायेति यावत् । हे प्रभो भगवतस्तव किं करवामेति प्राह ॥ १९ ॥

नारद उवाच—

नैवाद्भुतं त्वयि विभोऽखिललोकनाथे मैत्रीं जनेषु दधतश्च दमं खलानाम् ।

निःश्रेयसाय जगतां स्थितिरक्षणाभ्यां स्वैरावतार उरुगाय विदाम सुष्ठु

॥ २० ॥

पदरत्नावली

तत्र नारदः प्रतिवक्ति– नेति ॥ त्वयि अद्भुतं नैव, मानादिदानमिति शेषः । स्वैरावतारः स्वेच्छावतार इति सुष्ठु विदाम ॥ २० ॥

सत्यधर्मीया

एवं देवसत्कृतः किं कृतवान्नारद इत्यत आह ॥ नेति । हे विभो विविधभवनशक्त । अखिललोकनाथे त्वयि मदर्हणमद्भुतं नैव । जनेषु मैत्रीं भजतः । अनेन सज्जनमात्रमित्रत्वात् सहजं तव मदर्चनं न त्वर्चनीयमन्माहात्म्यादतोऽद्भुतं नैवेति योजना । खलानां दमं शिक्षां च दधतो हे उरुगाय तवायं, जगतां सदसदादीनां स्थितिं च रक्षणं च ताभ्यां सह निःश्रेयसाय सतेऽसते च मोक्षाय स्वैरावतारः स्वेच्छोपात्तोऽवतारो न कर्मायत्त इति सुष्ठु निःसन्देहं विदाम विद्मः ॥ २० ॥

दृष्टं तवाङ्घ्रियुगलं जनतापवर्गं ब्रह्मादिभिर्हृदि विचिन्त्यमगाधबोधैः ।

संसारकूपपतितोत्तरणावलम्बं ध्यायंश्चराम्यनुगृहाण यथा स्मृतिः स्यात् ॥२१॥

पदरत्नावली

अद्य दृष्टं तवाङ्घ्रियुगतं ध्यायन् चरामि । यथा स्मृतिः स्यात् तथाऽनुगृहाण

॥ २१ ॥

सत्यधर्मीया

स्वाशयं प्रकटयति ॥ दृष्टमिति । संसारकूपपतितोत्तरणावलम्ब-मगाधबोधैर्ब्रह्मादिभिर्हृदि विचिन्त्यम् । जनानां तापस्य वर्गो वर्जनं येन तत् । अनन्तरं जनतायाः खलातिरिक्ताया अपवर्गो मोक्षो यस्मात्तत् । सामान्यजनसङ्घापवर्गो यस्मादिति वा । अङ्घ्रियुगलं पादयुगलं दृष्टं तदेव देव ध्यायंश्चरामि । यथा मम तत्स्मृतिः स्यात्तथाऽनुगृहाणानुग्रहं कुरु

॥ २१ ॥

ततोऽन्यदाविशद् गेहं कृष्णपत्न्नयाः स्म नारदः ।

योगेश्वरेश्वरस्याङ्ग योगमायाविवित्सया ॥ २२ ॥

दुर्घटभावदीपिका

नारदः कृष्णस्यान्यद्गेहमाविशत् । एतदेव विवृणोति– कृष्णपत्न्य इति ॥ अन्यदन्यस्याः कृष्णपत्न्या गेहमाविशत्स्मेति । एतेनान्यस्याः कृष्णपत्न््नया गेहमा-विशदिति वक्तव्यम् । कृष्णपत्न््नया अन्यद्गेहमाविशदिति कथनमयुक्तमिति चोद्यं परास्तम् । कृष्णस्येति शेषेणादौ कृष्णस्यान्यद्गेहमाविशदित्युक्त्वा कृष्णस्य पूर्वपत्नीत्युक्तम् । अन्यद्गेह-माविशदिति भ्रमवारणार्थं कृष्णान्यत्पत्नीत्युक्तम् । अन्यद्गेहमाविशदिति ताप्तर्यार्थं मनसि निधायान्यदित्यादेरावृत्तिमन्यदित्यस्यान्यस्या इत्यर्थवशाद्विपरिणामं चाभ्युपेत्य कृष्णस्यान्यद्गेहमा-विशदित्यस्यैव विवरणं कर्तुमन्यस्याः कृष्णपत्न्या गेहमाविशदित्युच्यत इत्यभ्युपगमात् ॥२२॥

सत्यधर्मीया

अन्यदा किञ्चित्कालन्तरे । अन्यत्कृष्णपत्न्या गेहं नारद आविशत् । अङ्ग हे राजन् । योगेश्वरेश्वरस्य कृष्णस्य । योगमायां वेदितुमिच्छा विवित्सा तयेति । अङ्गानाम् अङ्गनानां प्रातिस्विकं कलेवराणां योगः सम्बन्धस्तद्विषयिण्या मायायाः शक्तेर्विवित्सा तयाऽऽ-विशदिति वा ॥ २२ ॥

दीव्यन्तमक्षभिस्तत्र१ प्रियया चोद्धवेन च ।

पूजितः परया भक्त्या प्रत्युत्थानासनादिभिः ॥ २३ ॥

पदरत्नावली

अक्षभिरक्षैः । दीव्यन्तं देवनक्रियां कुर्वन्तम् ॥ २३ ॥

सत्यधर्मीया

तत्र तस्मिन्गेहेऽक्षभिरक्षैर्दीव्यन्तं क्रीडन्तम् । दीव्यन्तमक्षैस्तत्रापीति पाठः सरलः । प्रियया तद्गृहगतगृहिण्या उद्धवेन स्वामात्येन चोत्सवेनेत्यप्यर्थः । प्रत्युत्थानासनादिभिः परया भक्त्या पूजितः ॥ २३ ॥

पृष्टश्चाविदुषेवासौ कदाऽऽयातो भवानिति ।

क्रियते किन्नु पूर्णानामपूर्णैरस्मदादिभिः ॥ २४ ॥

पदरत्नावली

अविदुषेव पूर्वगृहे नारदागमनमजानतेव हरिणा भवान् कदाऽऽयात इत्यसौ नारदः पृष्टः ॥ २४ ॥

सत्यधर्मीया

कदा भवानायात इत्यविदुषेव पृष्टश्च । पूर्णानां भवादृशानामपूर्णैरस्मदादिभिः किन्नु क्रियते कर्तव्यान्तराभावादिति भावः ॥ २४ ॥

अथापि ब्रूहि नो ब्रह्मन् जन्मैतच्छोभनं कुरु ।

स तु विस्मित उत्थाय तूर्णमन्यदगाद् गृहम् ॥ २५ ॥

सत्यधर्मीया

अथाऽपि तव पूर्णकामत्वे मम पूर्णत्वे सत्यपि हे ब्रह्मन् ब्रूहि करणीयमिति शेषः । एतज्जन्म शोभनं भवत्सेवोपयातमङ्गलं कुरु । स त्वेवमुक्तो नारदो विस्मित उत्थाय तूर्णमन्यदगात् ॥ २५ ॥

तत्राप्यचष्ट गोविन्दं लालयन्तं शिशून् सुतान् ।

ततोऽन्यस्मिन् गृहेऽपश्यन्मज्जनाय कृतोद्यमम् ॥ २६ ॥

सत्यधर्मीया

शिशून्सुतान् । वयस्तारतम्यात्पृथगुक्त्युपपत्तिः । शिशून् पौत्रादीन् सुतान् स्वसुतानिति वा । गोविन्दमचष्ट अपश्यत् । ततस्तद्गेहात् । मज्जनाय स्नानाय ॥ २६ ॥

जुह्वन्तं च वितानाग्नीन् यजन्तं पञ्चभिर्मखैः ।

भोजयन्तं द्विजान् क्वापि भुञ्जानमवशेषितम् ॥ २७ ॥

पदरत्नावली

क्वापि गृहे ब्राह्मणदत्तावशेषितमन्नम् ॥ २७ ॥

सत्यधर्मीया

वितानाग्नीनाहवनीयादीनग्नीन् जुह्वन्तम् । पञ्चभिर्मखैर्महायज्ञैर्यजन्तम् । द्विजान् क्वापि भोजयन्तम् । अवशेषितं तद्भुक्त्यवशेषं भक्तं भुञ्जानम् ॥ २७ ॥

क्वापि सन्ध्यामुपासीनं जपन्तं ब्रह्म वाग्यतम् ।

एकत्र चासिचर्मभ्यां चरन्तं शिष्यवर्त्मसु ॥ २८ ॥

पदरत्नावली

असिचर्मभ्यां शिष्यवर्त्मसु चरन्तं शिष्यान् शिक्षयन्तम् ॥ २८ ॥

दुर्घटभावदीपिका

एकत्रैकस्मिन्गृहे शिष्यवर्त्मसु शिष्याणामसिविद्यामार्गज्ञानार्थमसिच-र्मभ्यां चरन्तं सञ्चरन्तमित्यर्थः ॥ २८ ॥

सत्यधर्मीया

ब्रह्मगायत्रीं जपन्तम् । वाक् यता नियमिता येनेति वाग्यतम् । शिष्यवर्त्मसु शिक्षणीयमार्गेषु । असिश्च चर्म च ताभ्यां चरन्तम् । एवं चर त्वमिति तान् प्रति बोधनाय स्वयं चरन्तम् ॥ २८ ॥

अश्वैर्गजै रथैः क्वापि विचरन्तं गदाग्रजम् ।

क्वचिच्छयानं पर्यङ्के स्तूयमानं च बन्दिभिः ॥ २९ ॥

सत्यधर्मीया

क्वाप्यश्वैः क्वापि रथैः क्वापि च गजैश्चरन्तम् । पर्यङ्के क्वचिच्छयानम् । क्वचिद्बन्दिभिः स्तूयमानं ददर्श ॥ २९ ॥

मन्त्रयन्तं च कस्मिंश्चिन्मन्त्रिभिश्चोद्धवादिभिः ।

जलक्रीडारतं क्वापि वारमुख्याबलावृतम् ॥ ३० ॥

पदरत्नावली

वारमुख्याभिरबलाभिरावृतं वेष्टितम् ॥ ३० ॥

सत्यधर्मीया

मन्त्रिभिरुद्धवादिभिः कस्ंिमश्चिद्गेहे मन्त्रयन्तम् । क्वापि वारमुख्या-बलाभिरावृतम् ॥ ३० ॥

कुत्रचिद् द्विजमुख्येभ्यो ददतं गाः स्वलङ्कृताः ।

इतिहासपुराणानि शृण्वन्तं मङ्गलानि च ॥ ३१ ॥

पदरत्नावली

ददतमिति पाठः । ददन्तमिति पाठे दद दान इत्यस्य धातोः शत्रादेशः

॥ ३१ ॥

सत्यधर्मीया

स्वलङ्कृता अत्यलङ्कृता गा ददतम् । इतिहासः । इति ह आसेति बोधनं यत्र स इति तिङां सुपा समासः । भारतादिः । पुराणान्यष्टादशसङ्ख्यानि मङ्गलानि तत्प्रदानि शृण्वन्तम् ॥ ३१ ॥

हसन्तं हास्यकथया कदाचित् प्रियया गृहे ।

क्वापि धर्मं सेवमानमर्थकामौ च कुत्रचित् ॥ ३२ ॥

सत्यधर्मीया

कदाचित्प्रियया हास्यकथया हसन्तम् । क्वापि धर्मं सेवमानं तत्साधनं सेवमानम् । अर्थकामौ तथा साधयन्तम् ॥ ३२ ॥

ध्यायन्तमेकमात्मानं पुरुषं प्रकृतेः परम् ।

शुश्रूषन्तं गुरून् क्वापि कामैर्भोगैः सपर्यया ॥ ३३ ॥

सत्यधर्मीया

एकं प्रधानं प्रकृतेः परं पुरुषमत्मानं स्वाभिन्नहरिं ध्यायन्तम् । कामैस्तद-पेक्षितैर्भोगैः । सपर्यया पूजया गुरून् शुश्रूषन्तं सेवमानम् । गुरून् सपर्यया स्वकृतया सहैव शुश्रूषन्तं श्रोतुमिच्छन्तं तमिति वा ॥ ३३ ॥

कुर्वन्तं विग्रहं कैश्चित् सन्धिं चान्यत्र केशवम् ।

कुत्रापि सह रामेण चिन्तयन्तं सतां शिवम् ॥ ३४ ॥

सत्यधर्मीया

विग्रहः कलहः । सन्धिः समाधिः । रामेणाग्रजेन सह सतां शिवं मङ्गलं चिन्तयन्तम् ॥ ३४ ॥

पुत्राणां दुहितॄणां च काले विध्युपनायनम् ।

दारैर्वरैस्तत्सदृशैः कल्पयन्तं विभूतिभिः ॥ ३५ ॥

पदरत्नावली

काले प्राप्ते विध्युक्तप्रकारेण उपनायनमुपनयनं ब्राह्मणीकरणं कल्पयन्तम् । पुत्राणां दारैः सह दुहितॄणां वरैः सह योगं कल्पयन्तम् ॥ ३५ ॥

सत्यधर्मीया

पुत्राणां तथा दुहितॄणां काले विहिते । विधिनोपनायनमुपनीतिकृतिम् । स्त्रीणां प्रदानकर्मैव यथोपनयनं तथेत्यादेस्तासामपि तत्सम्भवति । यद्वोपनयनं पतिवसतेः स्ववसतिं प्रत्यानयनम् । दारैः पुत्राणां तु वरैस्तत्सदृशैरिति दारदारिकावरानपि विभूतिभिः सहालङ्काराद्यैश्वर्येण सह कल्पयन्तमयं वर इयं कन्या इति योजयन्तम् ॥ ३५ ॥

प्रस्थापनोपनयनैरपत्यानां महोत्सवान् ।

वीक्ष्य योगेश्वरेशस्य येषां लोका विसिस्मिरे ॥ ३६ ॥

पदरत्नावली

प्रस्थापनं परगृहं प्रति दुहितृप्रेषणम् । उपनयनं स्वगृहं प्रत्यानयनम् । येषामिति षष्ठी द्वितीयार्थे । लोका यानि कर्माणि वीक्ष्य विसिस्मिरे तानि कुर्वन्तम् । कर्मणामाचरणं वीक्ष्येति वा ॥ ३६ ॥

सत्यधर्मीया

प्रस्थापनं श्वश्रूसद्म प्रति प्रेषणम् । उपनयनैराकारणैरपत्यानाम् । एवं योगेश्वरेशस्य महोत्सवान्, येषामुत्सवानां सकाशाल्लोका विसिस्मिरे तान्वीक्ष्य स्वयं विसिस्मिरे । ये येषां कर्मणामुत्सवान् वीक्ष्य लोका विसिस्मिरे तान् कुर्वन्तं ददर्शेति वा ॥ ३६ ॥

यजन्तं सकलान् देवान् क्वचित् क्रतुभिरूर्जितैः ।

पूर्तयन्तं क्वचिद् धर्मं कूपारामालयादिभिः ॥ ३७ ॥

पदरत्नावली

कूपादिभिः पूर्तयन्तं पूर्ताख्यधर्ममाचरन्तम् ॥ ३७ ॥

सत्यधर्मीया

सकलान् सोमार्हान् स्वकलया सहितानिति वा । इष्टिं कृत्वा क्वचित्पूर्तयन्तं कूपादिकं कृत्वा पूर्तरूपधर्मं कुर्वन्तम् ॥ ३७ ॥

चरन्तं मृगयां क्वापि हयमारुह्य सैन्धवम् ।

घ्नन्तं तीर्थे पशून् मेध्यान् परीतं यदुपुङ्गवैः ॥ ३८ ॥

पदरत्नावली

सैन्धवं सिन्धुदेशभवम् । तीर्थे शास्त्रे विहितान् । पात्रे प्राप्ते यज्ञे वा

॥ ३८ ॥

सत्यधर्मीया

सैन्धवं हयमारुह्य मृगयां चरन्तम् । तीर्थे शास्त्रे मेध्यान्मेध्यत्वे नोक्तान् । तीर्थे सत्पात्र आयात इति वा । यदुपुङ्गवैः सह घ्नन्तम् ॥ ३८ ॥

अव्यक्तलिङ्गप्रकृतिमन्तःपुरचरादिषु ।

क्वचिच्चरन्तं योगेशं तत्तद्भावबुभुत्सया ॥ ३९ ॥

पदरत्नावली

अव्यक्तलिङ्गप्रकृतिमस्पष्टलक्षणस्वभावम् । तेषां तेषां भावानां पदार्थानां बुभुत्सया स्वभावजिज्ञासया ॥ ३९ ॥

दुर्घटभावदीपिका

क्वचित्कस्मिन्गृहेऽव्यक्तलिङ्गप्रकृतिमव्यक्तानि लिङ्गानि चिन्हानि यस्याः सा अव्यक्तलिङ्गाऽव्यक्तलिङ्गा प्रकृतिराकृतिर्यस्य तमव्यक्तलिङ्गप्रकृतिं तत्तद्भावबुभुत्सया तत्तद्विषयकाभिप्रायज्ञानेच्छयाऽन्तःपुरचरादिषु । आदिशब्देन बहिःपुरचरा गृह्यंते । अन्तःपुरचरेषु बहिःपुरचरेषु च चरन्तं योगेशं कृष्णमिति ॥ ३९ ॥

सत्यधर्मीया

अन्तःपुरचरादिषु । अव्यक्तं लिङ्गं चिन्हं यस्याः सा प्रकृतिः स्वभावो यस्य सः । अप्रकाशितस्वाशयमिति यावत् । तद्भावस्य बुभुत्सया बोद्धुमिच्छया योगेशं चरन्तमिति तदज्ञाततया तव्द्यापारज्ञानार्थं चरन्तमिति यावत् ॥ ३९ ॥

अथोवाच हृषीकेशं नारदः प्रहसन्निव ।

योगमायाबलं वीक्ष्य मानुषीमीयुषो रतिम् ॥ ४० ॥

पदरत्नावली

मानुषीं रतिं मनुष्यक्रीडाम् ॥ ४० ॥

सत्यधर्मीया

मानुषीं मनुष्यसम्बन्धिनीं रतिं रमणं क्रीडामीयुषो गतवतो योगमायाबलं च नारदो वीक्ष्य प्रहसन्निव हृषीकेशमथोवाच ॥ ४० ॥

नारद उवाच—

विदाम योगमायां ते दुर्दर्शामपि योगिनाम् ।

योगेश्वरात्मन् निर्भातभवत्पादनिषेवया ॥ ४१ ॥

पदरत्नावली

आत्मनि हृदये निर्भातस्य प्रकाशितस्य भवतः पादयोर्निषेवया ॥४१॥

सत्यधर्मीया

योगिनामपि दुर्दर्शां दृष्टुमशक्यां स्वतस्तां ते योगमायां वयं विदाम जानीमः । हे योगेश्वर आत्मन् । आत्मनि हृदये निर्भातो ध्यानपथमायातोऽनुगृहाण यथा स्मृतिः स्यादिति प्राक् प्रार्थनात् । यो भवत्पादस्तन्निषेवया सेवयोपासनारूपया । हे योगेश्वरेष्वात्मा मनो यस्य तत्सम्बुद्धिरिति वा । निर्भातेति सर्वत्र प्रकाशमानौ भवत्पादौ तयोर्निषेवया । सर्वत्र विदितात्मनामित्यादेरिति वा ॥ ४१ ॥

अनुजानीहि मां देव लोकांस्ते यशसाऽऽप्लुतान् ।

पर्यटामि तवोद्गायन् लीलां भुवनपावनीम् ॥ ४२ ॥

पदरत्नावली

आप्लुतानिति पाठे यशसा तीर्थेन स्रातानित्यर्थः ॥ ४२ ॥

सत्यधर्मीया

एवमेवानुसदनं सदनप्रत्यासादने सम्भ्रमवशाच्चित्तभ्रमोऽयमेको मानव इति स्याद्धरे सत्वरमहं प्रस्थापनीय इति विज्ञापयति– अनुजानीहीति । हे देव देवलोकानिति वा । ते यशसाऽऽप्लुतांस्तत्तीर्थस्नातान् लोकान् देवलोकान् वा कर्तुं भुवनपावनीं तव लीलामुद्गायन् पर्यटामि । अतो मामनुजानीहि गमनमनस्कमाज्ञापय ॥ ४२ ॥

श्रीभगवानुवाच—

ब्रह्मन् धर्मस्य वक्ताऽहं कर्तारमनुमोदकः ।

शिक्षयंस्तं लोकमिममास्थितः पुत्र मा खिदः ॥ ४३ ॥

पदरत्नावली

लोकानुकारिचरितदर्शनेन नारदस्यान्यथाज्ञानं निवारयन्निति तत्वमुपदिशति– ब्रह्मन्निति ॥ इमं लोकमास्थितो ऽस्मिन्लोके स्थितः । तं धर्मकर्तारमनुमोदको ऽनुज्ञाता

॥ ४३ ॥

दुर्घटभावदीपिका

हे ब्रह्मन् पुत्र नारद यस्मादिमं लोकं भूलोकस्थितं लोकं शिक्षयन् इमं लोकं भूलोकमास्थितस्तत्तस्मादेवाहं धर्मस्य कर्ता तं तस्य धर्मकर्तुरनुमोदको न तु प्रयोजन-वशाद्धर्मस्य वक्ता कर्ताऽनुमोदकोऽतो मा स्विदोऽपूर्ण इति मोहं प्राप्नुहि । यद्यपि नारदस्यापूर्ण इति मोहो नास्ति विदाम योेगमायां त इत्युक्तत्वात् । तथाऽपि पूर्णताबुद्धिस्थिरीकरणार्थ-मेवमुक्तमिति ॥ ४३ ॥

॥ इति श्रीभागवतटिप्पण्याम् एकोनाशीतितमोऽध्यायः ॥ १०–७९ ॥

सत्यधर्मीया

मत्कर्ममर्माजानन् मामकोऽयं नान्योऽयमिति दयापयोधिस्तस्य चञ्चलचेतसो लघुना वचनेनैव स्वस्थितिमुपदिशति ॥ ब्रह्मन्निति । अहं धर्मस्य वक्ता तथा कर्ता । अनुमोदकः कर्तारमितरमनुमोदकः सम्यक्कृतमित्यनुमोदनकर्ता । यत्तव इमं लोकं जनं शिक्षयन्निमं धर्ममास्थितः । लोके लोकैरेवं कर्तव्यमिति शिक्षणार्थमेवैवं मम प्रवृत्तिर्न कर्मायत्तेति पुत्र मा खिदः स्वाभाविकचर्येयं किमिति दैन्यं त्वं मा गाः ॥ ४३ ॥

श्रीशुक उवाच—

इत्याचरन्तं सद्धर्मान् प्राक् सृष्टान् गृहमेधिनाम् ।

तमेव सर्वगेहेषु सन्तमेकं ददर्श ह ॥ ४४ ॥

पदरत्नावली

उपसंहरति– इतीति ॥ इतिशब्द आदिवचनः ॥ ४४ ॥

सत्यधर्मीया

प्राक् सृष्टान्स्वेनैव धर्मान् गृहमेधिनामाचरन्तं सर्वगेहेषु सन्तमेकं तमेवमिति ददर्श । हेति प्रसिद्धौ ॥ ४४ ॥

कृष्णस्याचिन्त्यवीर्यस्य१ योगमायामहोदयम् ।

मुहुर्दृष्ट्वा ऋषिरभूद् विस्मितो जातकौतुकः ॥ ४५ ॥

सत्यधर्मीया

ऋषिर्मुहुर्मुर्हुर्दृष्ट्वा । हे अजात उत्पत्तिमदन्य स्वामिन् । कौ तु को भूमौ तु सर्वत्र कः सम इति विस्मितोऽभूत् । जातकौतुकः सन्विस्मितोऽभूदिति सर्वे ॥४५॥

इत्यर्थधर्मकामेषु कृष्णेनावहितात्मना ।

सम्यक् सभाजितः प्रीतस्तमेवानुस्मरन् ययौ ॥ ४६ ॥

पदरत्नावली

इत्यर्थधर्मकामेषु अवहितात्मना कृष्णेन ॥ ४६ ॥

सत्यधर्मीया

कृष्णेन सम्यक् सभाजितः प्रीतः । अर्थधर्मकामेष्ववहित आत्मा मनस्तेन । अर्थधर्मकामेष्ववहिता हितदा एते न किन्तु बन्धका इत्यात्मना मनसा । एकान्तिकत्वात् । अर्थकामसन्दष्टो धर्मोऽत्र कामः । इति न हि हितहेतुताऽतस्त्रयाणामिति मन्तव्यम् । तमेवानुस्मरन् ययौ ॥ ४६ ॥

एवं मनुष्यपदवीमनुवर्तमानो नारायणोऽखिलभवाय गृहीतशक्तिः ।

रेमे च षोडशसहस्रवराङ्गनानां सव्रीडसौहृदनिरीक्षणहासजुष्टः ॥ ४७ ॥

सत्यधर्मीया

अखिलभवाय सर्वमङ्गलाय । गृहीता शक्तिर्यस्य सः । मनुष्य-पदवीमनुवर्तमानो नारायणः षोडशसहस्रवराङ्गनानां सव्रीडसौहृदनिरीक्षणो यो हासस्तेन जुष्ट एवं रेमे । व्रीडया व्रीडेन वा सहितो हासः । व्रीडा व्रीडश्चेति द्विरूपकोशः ॥ ४७ ॥

यानीह विश्वविलयोद्भववृत्तिहेतुः कर्माण्यनन्यविषयाणि हरिश्चकार ।

यस्त्वङ्ग गायति शृणोत्यनुमोदते वा भक्तिर्भवेद् भगवति ह्यपवर्गमार्गे ॥४८॥

॥ इति श्रीमद्भागवते दशमस्कन्धे एकोनाशीतितमोऽध्यायः ॥

पदरत्नावली

साक्षान्मोक्षहेतुत्वाद् भगवच्चरितमिदं बुभूषुभिरभ्यसनीयमाश्वसनीयं न तु विटवृत्तवदुपेक्षणीयमिति भावेनाह– यानीति ॥ अङ्ग विष्णुरात । विश्वविलयोद्भववृत्तिषु हेतुर्हरिर्यान्यनन्यविषयाणि कर्माणि चकार यस्तु तानि गायति शृणोति अनुजानाति वा तस्य पुंसोऽपवर्गमार्गे भगवति भक्तिर्भवति हि यस्मात् तस्मादवश्यं मुमुक्षुणा सेव्यानीति ॥ ४८ ॥

॥ इति श्रीमद्भागवतटीकायां विजयध्वजतीर्थकृतायां पदरत्नावल्यां दशमस्कन्धे उत्तरार्धे एकोनाशीतितमोऽध्यायः (स.धर्म.१०–७९) ॥

सत्यधर्मीया

विश्वविलयोद्भववृत्तिहेतुः । वृत्तिः स्थितिः । यान्यनन्यविषयाणि अन्ये विषयाः कर्तृतया येषां तानि न भवन्तीत्यनन्यविषयाणि । मनसाऽपीतरैः कर्तुमशक्यानि हरिश्चकार तानि । अङ्ग हे राजन् । यो गायति यश्च शृृणोति अनुमोदते वा तस्यापवर्गमार्गे भगवति भक्तिर्भवेत् । अवश्यमेतच्छ्रवणादिकमतः कर्तव्यमिति ॥ ४८ ॥

**॥ इति श्रीसत्यधर्मयतिकृतायां भागवतटिप्पण्यां दशमस्कन्ध उत्तरार्धे **

एकोनाशीतितमोऽध्यायः ॥ १०–७९ ॥