अपश्यतां चानिरुद्धं तद्बन्धूनां च भारत
॥ अथ अष्टसप्ततितमोऽध्यायः ॥
अपश्यतां चानिरुद्धं तद्बन्धूनां च भारत ।
चत्वारो वार्षिका मासा व्यतीयुरनुशोचताम् ॥ १ ॥
सत्यधर्मीया
दैवतोऽत्रैवं सत्यनिरुद्धे निरुद्धे का कथा वृत्ता द्वारकायामित्यत आह ॥ अपश्यतामिति । वार्षिका वर्षाकालसम्बन्धिनः । व्यतीयुरतिक्रान्ताः ॥ १ ॥
नारदात्तदुपाकर्ण्य वार्ता बद्धस्य कर्म च ।
प्रययुः शोणितपुरं वृष्णयः कृष्णदेवताः ॥ २ ॥
सत्यधर्मीया
चित्रलेखयोक्तं नारदः समयमनपगमयन्नागत्यावददिति वदति ॥ नारदा-दिति । तत्कर्म चेत्यन्वयः ॥ २ ॥
प्रद्युम्नो युयुधानश्च गदः साम्बोऽथ सारणः ।
नन्दोपनन्दभद्राद्या रामकृष्णानुवर्तिनः ॥ ३ ॥
सत्यधर्मीया
रामं कृष्णमनुवर्तितंु शीलं येषां ते तथा । अनेन पुरतो द्वयोस्तदन्वेव तेषां गमनं ध्वन्यते ॥ ३ ॥
अक्षौहिणीभिर्द्वादशभिः समेताः सर्वतो दिशम् ।
रुरुधुर्बाणनगरं समन्तात् सात्वतर्षभाः ॥ ४ ॥
सत्यधर्मीया
द्वादशभिरक्षौहिणीभिः समेताः सात्त्वतर्षभाः । सर्वतो दिशं सर्वासु दिक्षु । तथा समन्ताद्विदिक्षु च तद्बाणनगरं रुरुधुः ॥ ४ ॥
भज्यमानपुरोद्यानप्राकाराट्टालगोपुरम् ।
प्रेक्षमाणो रुषाऽविष्टस्तुल्यसैन्योऽभिनिर्ययौ ॥ ५ ॥
सत्यधर्मीया
भज्यमानानि पुरसमीपगान्युद्यानानि भज्यमानाः प्राकाराश्च तथाऽट्टाल-गोपुराणि च यस्य तन्नगरम् । पुराऽत्रोद्यानं तथा प्राकाराट्टालगोपुराणीत्येवं भज्यमानानि तानि यस्मिंस्तदिति वा । निर्नामभग्नानीति यावत् । न भवति पुरा पुरेति व्यर्थमिति चेत् । भज्यमानं च तत्पुरप्राकराट्टालसहितं च तद्गोपुरं चेति विग्रहः । न नगरपदान्वय इति वा । प्रेक्षमाणो बाणो रुषाऽऽविष्टः । तुल्यं द्वादशाक्षौहिण्यात्मकं सैन्यं यस्य सः । अनेनाधुनाऽऽनीतं सैन्यं, बहुलं वर्तते यत् तन्नेति ध्वन्यते । तेन च तस्य नीतिमत्त्वं ध्वन्यत इति ध्वनिर्ध्वनिः
॥ ५ ॥
बाणार्थे भगवान् रुद्रः ससुतैः प्रमथैर्वृतः ।
आरुह्य १नन्दीवृषभं युयुधे रामकृष्णयोः ॥ ६ ॥
सत्यधर्मीया
सुतः स्कन्दस्तत्सहितैः प्रमथैस्तद्गणैर्नन्दी तन्नामा चासौ वृषभश्चेति विग्रहः । नन्दिवृषभमिति पाठोऽपि नन्दिनन्दिनाविति द्विरूपोक्तेः । रामकृष्णयो स्ताभ्याम्
॥ ६ ॥
आसीत् सुतुमुलं युद्धमद्भुतं रोमहर्षणम् ।
कृष्णशङ्करयो राजन् प्रद्युम्नगुहयोरपि ॥ ७ ॥
सत्यधर्मीया
गुहः षण्मुखः ॥ ७ ॥
कुम्भाण्डकूपकर्णाभ्यां बलेन सह संयुगः ।
साम्बस्य बाणपुत्रेण बाणेन सह सात्यकेः ॥ ८ ॥
सत्यधर्मीया
बलेन रामेण । बाणपुत्रेण केनचित् ॥ ८ ॥
ब्रह्मादयः सुराधीशा मुनयः सिद्धचारणाः ।
गन्धर्वाप्सरसो यक्षा विमानैर्द्रष्टुमागमन् ॥ ९ ॥
सत्यधर्मीया
विमानैस्तानारुह्य ॥ ९ ॥
शङ्करानुचराञ्छौरिर्भूतप्रमथगुह्यकान् ।
डाकिनीर्यातुधानांश्च वेतालान् सविनायकान् ॥ १० ॥
सत्यधर्मीया
शौरिः कृष्णः ॥ १० ॥
प्रेतमातृपिशाचांश्च कूष्माण्डान् ब्रह्मराक्षसान् ।
द्रावयामास तीक्ष्णाग्रैः शरैः शार्ङ्गधनुश्च्युतैः ॥ ११ ॥
सत्यधर्मीया
शङ्करेण सह युद्ध्यन्नपीमांश्च शार्ङ्गधनुश्च्युतैः शरैर्द्रावयामासेत्यन्वयः
॥ ११ ॥
पृथग्विधानि प्रायुङ्क्त पिनाक्यस्त्राणि शार्ङ्गिणे ।
प्रत्यस्त्रैः शमयामास शार्ङ्गपाणिरविस्मितः ॥ १२ ॥
सत्यधर्मीया
पिनाकी हरः । प्रत्यस्त्रैः ॥ १२ ॥
ब्रह्मास्त्रस्य च ब्रह्मास्त्रं वायव्यस्य च पार्वतम् ।
आग्नेयस्य च पार्जन्यं नैजं पाशुपतस्य च ॥ १३ ॥
सत्यधर्मीया
तदेव विशदयति ॥ ब्रह्मास्त्रस्येति । वायव्यस्यास्त्रस्य पार्वतं पर्वताभिमान्यभिमन्यमानम् । तदचलनीयत्वात् । अग्नेयस्य च पार्जन्यम् । अनलस्य जलशमनीय त्वात् । नैजं निजस्य स्वस्येदं नारायणास्त्रं, पाशुपतस्य पशुपतिसम्बन्धिनोऽस्त्रस्य ॥ १३ ॥
मोहयित्वा तु गिरिशं जृम्भणास्त्रेण जृम्भितम् ।
बाणस्य पृतनां शौरिर्जघानासिगदेषुभिः ॥ १४ ॥
सत्यधर्मीया
जृम्भणास्त्रेण जृम्भितं जृम्भणोपेतम् । तदारभ्येदमाभाणकं मया कलहः कृतश्चेत्तवास्यं त्याजयिष्यामीति प्रावर्तत लोक इति वदन्ति ॥ १४ ॥
स्कन्दः प्रद्युम्नबाणौघैरर्द्यमानः समन्ततः ।
असृग् विमुञ्चन् गात्रेभ्यः शिखिनापाक्रमद् रणात् ॥ १५ ॥
सत्यधर्मीया
शिखिना स्ववाहनेन मयूरेण । तेन सहापाक्रमत् ॥ १५ ॥
कुम्भाण्डः कूपकर्णश्च पेततुर्मुसलार्दितौ ।
दुद्रुवुस्तदनीकानि हतनाथानि सर्वतः ॥ १६ ॥
सत्यधर्मीया
तदनीकानि कुम्भाण्डकूपकर्णसेनाः । हतनाथानि तत्प्रायस्वामिकानि
॥ १६ ॥
विशीर्यमाणं स्वबलं दृष्ट्वा बाणोऽत्यमर्षणः ।
कृष्णमभ्यद्रवत् सङ्ख्ये रथी हित्वैव सात्यकिम् ॥ १७ ॥
सत्यधर्मीया
सात्यकिं हित्वा त्यक्त्वा । न च गरुडारूढानां बलरामकृष्णप्रद्युम्नानां त्रयाणां तथाऽध्वनोऽत्यसाध्यगमनत्वस्य । नारदः । ‘‘स्मरणं वैनतेयस्य कर्तुमर्हसि माधव । न ह्यन्येन तदध्वानं शक्यं गन्तुं महाभुजः ॥’’ इत्यादिना । ‘‘आस्थितो गरुडं देवस्तस्य चानु हलायुधः । पृष्ठतोऽथ बलस्यापि प्रद्युम्नः शत्रुकर्शनः ॥’’ इति हरिवंशे । तथा, ‘‘गतो गरुडमारुह्य स्मृतमात्रागतं हरिः । बलप्रद्युम्नसहितो बाणस्य प्रययौ पुरम् ॥’’ इति विष्णुपुराणे पञ्चमेंऽशे त्रयस्त्रिंशोऽध्याये शंसनाद्द्वादशाक्षौहिण्याः सात्यक्यादीनां च तत्र गमनं न सम्भवतीति, रणस्तु दूरोत्सारण इति चेत् । न ह्येको मार्गो ग्रामाणामिति शक्यगमनमार्गगमनसम्भवेन वा गरुडारूढसेनादीनां वा गमनसम्भवेन सम्भवात् । मन्दरादिभर्तुर्विनतातनयस्यास्येयत्कियदित्यौ-चित्यात्सात्यकिं हित्वेत्यादिसम्भवात् ॥ १७ ॥
धनूंष्याकृष्य युगपद् बाणः पञ्चशतानि वै ।
एकैकस्मिञ्छरौ द्वौ द्वौ सन्दधे रणदुर्मदः ॥ १८ ॥
सत्यधर्मीया
एकैकस्मिन् द्वौ द्वौ शरौ सन्दधे । आहत्य साहस्रम् ॥ १८ ॥
तानि चिच्छेद भगवान् धनूंषि युगपद्धरिः ।
सारथिं रथमश्वांश्च हत्वा शङ्खमपूरयत् ॥ १९ ॥
सत्यधर्मीया
तानि धनूंषि युगपदेकदा रथं च चिच्छेदेत्यन्वयः । सारथिमश्वांश्च हत्वेति चान्वयः ॥ १९ ॥
तन्माता कोटरी नाम नग्ना मुक्तशिरोरुहा ।
पुरोऽवतस्थे कृष्णस्य पुत्रप्राणरिरक्षया ॥ २० ॥
सत्यधर्मीया
तन्माता बाणे सुताभिमतिमतीति । कोटरी । उक्तं च तत्रैव । श्रुत्वा लम्बामथाब्रवीत् । ‘गच्छेति लम्बे त्वं तूर्णं बाणसंरक्षणं प्रति । ततो योगं समास्थाय ह्यदृश्या हिमवत्सुता ॥ कृष्णस्यैकस्य तद्रूपं दर्शयन्ती व्यवस्थिता । अन्तर्धानमुुपागम्य त्यक्त्वा सा वाससी पुनः ॥ प्रमुखे वासुदेवस्य दिग्वासा कोटरी स्थिता । अथ बाणोऽब्रवीद्वाक्यं देवदेवं सनातनम् ॥ देव्याः पुत्रत्वमिच्छामि त्वया दत्तं त्रिलोचन । शङ्करश्च तथेत्युक्त्वा रुद्राणीमिदमब्र्रवीत् ॥ कनीयान्कार्तिकेस्य पुत्रोऽयं प्रतिगृह्यताम् ॥’ इत्यादि । पुत्रस्योक्तप्रकारेण, प्राणरक्षणेच्छया ॥ २० ॥
ततस्तिर्यङ्मुखो नग्नामनिरीक्षन् गदाग्रजः ।
बाणश्च तावद् विरथश्छिन्नधन्वाविशत् पुरम् ॥ २१ ॥
सत्यधर्मीया
ततस्तिर्यङ्मुखः पश्चात्याननोऽनिरीक्षन् अनिरीक्षमाणः, ‘न नग्नां स्त्रियमीक्षेत’ इत्यादिप्रतिषेधात् ॥ २१ ॥
विद्राविते भूतगणे ज्वरस्तु त्रिशिरास्त्रिपात् ।
अभ्यधावत दाशार्हं दहन्निव दिशो दश ॥ २२ ॥
सत्यधर्मीया
त्रिशिरास्त्रीणि शिरांसि यस्य सः । तथा त्रिपात् ॥ २२ ॥
अथ नारायणो देवस्तं दृष्ट्वा व्यसृजज्ज्वरम् ।
माहेश्वरो वैष्णवश्च युयुधाते ज्वरावुभौ ॥ २३ ॥
सत्यधर्मीया
ज्वरं वैष्णवम् । महांश्चासावीश्वरः शिवस्तस्यायम् । शैवो वैष्णवश्चेति द्वौ ज्वरौ ॥ २३ ॥
माहेश्वरः समाक्रन्दन् वैष्णवेन बलार्दितः ।
अलब्ध्वाऽभयमन्यत्र भीतो माहेश्वरो ज्वरः ।
शरणार्थी हृषीकेशं तुष्टाव प्रयताञ्जलिः ॥ २४ ॥
सत्यधर्मीया
वैष्णवेन कर्त्रा, बलेन करणेनार्दितः । अभयमन्यत्रान्यस्मात् ॥२४॥
नमामि त्वाऽनन्तशक्तिं परेशं सर्वात्मानं केवलं ज्ञप्तिमात्रम् ।
विश्वोत्पत्तिस्थानसंरोधहेतुं यत्तद् ब्रह्म ब्रह्मलिङ्गं प्रशान्तम् ॥ २५ ॥
सत्यधर्मीया
यं तापयितुमुपयातस्ततः सन्तप्तोऽनन्यरक्षकस्तं स्तुवन्नमति ॥ नमामीति । अनन्तशक्तिमपरिमिताऽप्रतिबद्धा शक्तिर्यस्य तम् । परेषामीशं सर्वस्वामिनं केवलं जडामिश्रम् । ज्ञप्तिमात्रं ज्ञानस्वरूपम् । स्थानं स्थितिः । संरोधो नाशः । ब्रह्मलिङ्गं ब्रह्म वेद एव लिङ्गं ज्ञापकं यस्य तत् । ब्रह्मणश्च ब्रह्मलिङ्गतत्त्वं चिह्नं यस्मात्तत् । प्रशान्तं समाधानगुणयुक्तं प्रस्तुत-भीतिहतिहेतूक्तिरियम् । यद्ब्रह्म तदेव त्वं, त्वा त्वां नमामि ॥ २५ ॥
कालो दैवं कर्म जीवः स्वभावो द्रव्यं क्षेत्रं प्राण आत्मा विकारः ।
तत्सङ्घातो बीजरोहप्रवाहस्त्वन्मायैषा तन्निषेधं प्रपद्ये ॥ २६ ॥
सत्यधर्मीया
त्वदृते न कस्यापि शक्तिरिति त्वमेवैतत्प्रवर्तकतया तत्तच्छब्द इत्याह ॥ काल इति । दैवं दिष्टं, कर्म सर्वं, द्रव्यं प्रकृतिः, क्षेत्रं लिङ्गशरीरं प्राणः, सूत्रात्मा, आत्माऽ-हङ्कारः । विकारो मनसा सहैकादशेन्द्रियाणीतराणि पञ्चभूतानीत्याहत्य षोडशसङ्ख्यःस्तत्सङ्घातः स्थूलदेहः । स च बीजरोहो यथाऽङ्कुराज्जातस्तज्जनकस्तथा शरीरान्तरसङ्गतिहेतुः । त्वन्माया त्वदिच्छाधीनमेतत्सर्वं तस्मान्निबध्यते । नेति नेतीति निषेधं निषेधशेषं त्वां प्रपद्ये ॥२६॥
नानाभावैर्लीलयैवोपपन्नैर्देवान् साधूल्लोकसेतून् बिभर्षि ।
हंस्युन्मार्गान् हिंसया वर्तमानान् जन्मैतत्ते भारहाराय भूमेः ॥ २७ ॥
सत्यधर्मीया
ब्रह्मैवाहं चेदेवं ज्वर वसुदेवादिषु मनजन्म कुत इत्यत आह ॥ नानेति ॥ लीलयैवोपपन्नैर्युक्तैर्नानाभावैः सुरनरतिर्यगादिभि रूपैर्देवान्साधंूस्तदतिरिक्तान् सर्वान् बिभर्षि पालयसि । तदर्थं लोकसेतून् तन्मर्यादाश्च बिभर्षि । उन्मार्गानिति विवरणं हिंसया वर्तमानान् प्रजाद्रोहेण वर्तमानानिति । हंसि संहरसि । एतत्ते वसुदेवादेर्जन्म भूमेर्भारहाराय हारो हरणं तस्मै ॥ २७ ॥
तप्तोऽहं ते तेजसा दुःसहेन शान्तोग्रेणात्युल्बणेन ज्वरेण ।
तावत्तापो देहिनां तेऽङ्घ्रिमूलं नो सेवेरन् यावदाशानुबद्धाः ॥ २८ ॥
सत्यधर्मीया
इयता किमरे ज्वर तव मनोज्वरं वदेत्यतो वक्ति ॥ तप्त इति । अहं ते तेजसा तव तेजोरूपेण निमित्तेन सृष्टेन दुःसहेनोग्रेणात्युल्बणेनातिक्रान्तमुल्बणं मामित्यत्युल्बण-स्तेन ज्वरेण तप्तः । तप्तोऽहंत इत्यानुपूर्व्या हे अहन्ते अहङ्कार । ते तेजसा सामर्थ्येन तप्त इत्यान्तरङ्गिको भावः सूच्यते । हे शान्तेति वा । तव तापो मज्ज्वरापपरिहारस्त्वत्कृतलोकताप-फलरूप इत्यतो यादृशो भवतु स भवद्दर्शनादिसेवनावधिक इत्यभिधत्ते ॥ तावदिति ॥ देहिनां तदभिमानवतां यावताऽऽशानुबद्धास्तेऽङ्घ्रिमूलं न सेवेरंस्तावदयं तापः । तदुत्तरं कुतो मम स्वामिंस्तथा विनेये दया विधेयेति ॥ २८ ॥
श्रीभगवानुवाच—
त्रिशिरस्ते प्रसन्नोऽस्मि व्येतु ते मज्ज्वराद् भयम् ।
यो नौ स्मरति संवादं तस्य त्वन्न भवेद् भयम् ॥ २९ ॥
सत्यधर्मीया
त्रिशिरः हे ज्वर मज्ज्वरान्मम ज्वरात् । मथ्नातीति मत् स चासौ ज्वरश्च तस्मादित्यपि । ते त्वदुपरि प्रसन्नोऽस्मि ते भयं व्येतु । यो नौ तव च मम च संवादं स्मरति तस्य त्वत्तो भयं न भवेत् । हरिवंशे च । श्रीभगवानुवाच । महामृधे तव मम च द्वयोरिमं पराक्रमं भुजबलकेवलाः स्त्रियः । प्रणम्य मामेकमनाः पठेत्तु यः स वै भवेज्ज्वरविगतज्वरो नर इति । ज्वरविभजनं तथा तत्समसमरादिकं च तत्रोक्तमनुसन्धेयम् । तत्र बाणस्य स्वत्राण-कृदिति बहुमत इति कृष्णवर्त्मसङ्गरोक्तिरत्र तु तदुत्तरग्रन्थत्वेनाग्निर्वै देवानामवम इत्यादेस्तज्जयो न यशोविशेषको यशोदासुतस्येत्यनुक्तिरिति ज्ञेयम् ॥ २९ ॥
इत्युक्तोऽच्युतमानम्य गतो माहेश्वरो ज्वरः ।
बाणस्तु रथमारूढः प्रागाद्योत्स्यञ्जनार्दनम् ॥ ३० ॥
सत्यधर्मीया
रथं पुनरन्यम् ॥ ३० ॥
ततो बाहुसहस्रेण नानायुधधरोऽसुरः ।
मुमोच परमक्रुद्धो बाणांश्चक्रायुधे नृप ॥ ३१ ॥
सत्यधर्मीया
बाहुसहस्रेण नानायुधानां धरः ॥ ३१ ॥
तस्यास्यतोऽस्त्राण्यसकृच्चक्रेण क्षुरनेमिना ।
चिच्छेद भगवान् बाहून् शाखा इव वनस्पतेः ॥ ३२ ॥
सत्यधर्मीया
असकृदस्त्राण्यास्यत क्षिपतः, क्षुरनेमिना चक्रेण वनस्पतेः शाखा इव बाहूंश्चिच्छेद । मारणमकृत्वा कृन्त्वा भुजांस्तत्त्यागे निमित्तं हरिवंशोक्तमनुस्मर्तव्यम् । तच्च । ‘‘भूयस्त्वमसितापाङ्गि विवस्त्राऽवस्थिता रणे । बाणे संरक्षणपरा हन्मि बाणं न संशयः । एवमुक्ता तु कृष्णेन भूयो देव्यब्रवीदिदम् । प्रयच्छ ह्यभयं बाणे जीवपुत्रीत्वमेव च । मया दत्तवरो ह्येष भूयश्च परिरक्ष्यते । न मे मिथ्या समुद्योगं कर्तुमर्हसि माधव । एवमुक्ते तु वचने कृष्णः परपुरञ्जयः । क्रुद्धः प्रभाषते वाक्यं शृृणु सत्यं तु भामिनि । बाणो बाहुसहस्रेण नर्दते दर्पमाश्रितः । एतेषां छेदनं त्वद्य कर्तव्यं नात्र संशयः । द्विबाहुना च बाणेन जीवपुत्री भविष्यसि । एवमुक्ते तु वचने कृष्णेनाक्लिष्टकर्मणा । प्रोवाच देवी बाणोऽयं देव एवं भवेदिति ॥’’ इति ॥३२॥
बाहुषु च्छिद्यमानेषु बाणस्य भगवान् भवः ।
भक्तानुकम्प्युपव्रज्य चक्रायुधमभाषत ॥ ३३ ॥
सत्यधर्मीया
भक्तानुकम्पी बाणकरुणावान् । अनुकम्पाऽस्यास्तीति शिखादित्वादिनिः । अकारान्तः पुल्लिङ्गोऽप्यनुकम्प इति पक्षे अत इनिठनावितीनि रूपं ज्ञेयम् । यथोक्तं ‘‘भक्तानु-कम्पादतिशुद्धसंविद्दात्रे’’ इत्यनुव्याख्यानव्याख्यासुधायामनुकम्पादनुक्रोशादिति । चक्रायुधम् । अभाषत ॥ ३३ ॥
श्रीरुद्र उवाच—
त्वं हि ब्रह्म परं ज्योतिर्गूढं ब्रह्मणि वाङ्मये ।
यं पश्यन्त्यमलात्मान आकाशमिव केवलम् ॥ ३४ ॥
सत्यधर्मीया
ब्रह्म परञ्ज्योतिः । वाङ्मये ब्रह्मणि वेदे । गूढमाकाशमिव केवलमद्वितीयम् । अमलात्मानो यं पश्यन्ति ॥ ३४ ॥
नाभिर्नभोऽग्रिर्मुखमम्बु रेतो द्यौः शीर्षमाशा श्रुतिरङ्घ्रिरुर्वी ।
चन्द्रो मनो यस्य दृगर्क आत्मा अहं समुद्रो जठरं भुजेन्द्रः ॥ ३५ ॥
सत्यधर्मीया
आत्माऽहङ्कारोऽहन्तत्त्वमहम् । भुजेन्द्रो भुजाशब्दो बाहाशब्दवदाकारान्तः स्त्रीलिङ्गः । बाहा भुजायां बाहुष्विति विश्वः । भुजा इन्द्र इन्द्राद्याः । भुजश्चासाविन्द्रश्चेति कर्मधारयसमासेऽप्युद्देश्यविधेयभावः सम्भवतीत्यैकपद्यं वा ॥ ३५ ॥
रोमाणि यस्यौषधयोऽम्बुवाहाः केशा विरिञ्चो धिषणा विसर्गः ।
प्रजापतिर्हृदयं यस्य धर्मः स वै भवान् पुरुषो लोककल्पः ॥ ३६ ॥
सत्यधर्मीया
विरिञ्चो धिषणा बुद्धिः । प्रजापतिर्दक्षो विसर्गो मेढ्रम् । धर्मो हृदयम् । लोकान्कल्पयतीति स तथा । पुरुषो विराड्रूपी भवान् । वै मानिकतां द्योतयत्यस्यार्थस्य
॥ ३६ ॥
तवावतारोऽयमकुण्ठधामन् धर्मस्य गुप्त्यै जगतो भवाय ।
वयं च सर्वे भवतानुभाविता विभावयामो भुवनानि सप्त ॥ ३७ ॥
सत्यधर्मीया
हे अकुण्ठधामन् । अनन्यथाभवत्प्रकाश तथाभूतवैकुण्ठाख्यधामवान् वा । तवायमवतारो धर्मस्य गुप्त्यै जगतो भवाय मङ्गलाय योग्यस्य । वयं सर्वे च भवताऽनुभाविताः पालिताः सन्तः सप्त भुवनानि विभावयामः पालयामः ॥ ३७ ॥
त्वमेक आद्यः पुरुषोऽद्वितीयस्तुर्यः स्वदृग् हेतुरहेतुरीशः ।
प्रतीयसेऽथापि यथाविकारं स्वमायया सर्वगुणप्रसिद्ध्यै ॥ ३८ ॥
सत्यधर्मीया
एको मुख्यः । ए चासौ कश्चेत्येककर्तेति वा । आद्योऽद्वितीयस्तुर्यो द्वावित्याद्युक्तबन्धातीतो गुणातीतः गुणात्ययस्तुरीयश्चेति पञ्चमतात्पर्योक्तेः । स्वदृक् स्व-प्रकाशः हेतुः । स्वयं कारणम् । ओतुः कारणशून्यः । ईशः श्रीरमणः । अथाप्येवं सन्नपि सर्वगुणानां प्रसिद्धिः प्रयोजनसम्पत्तिस्तदर्थम् । यथाविकारं तत्तद्विधाकारमनुसृत्य स्थूलत्व-लघुत्वादिभिः प्रतीयसे । न मदादिवत्कर्मपरवश इत्याह ॥ स्वमाययेति । स्वेच्छयेत्यर्थः । सु अत्यन्तम् अमाययेति वा ॥ ३८ ॥
यथैव सूर्योऽपिहितश्छायया स्वया छायां च रूपाणि च सञ्चकास्ति ।
एवं गुणेनापिहितो गुणांस्त्वमात्मप्रदीपो गुणिनश्च भूमन् ॥ ३९ ॥
सत्यधर्मीया
गुणप्रसिद्धये इत्युक्तं निदर्शनतो विवृणोति ॥ सूर्य इति । स्वया स्वसम्बन्धिन्या । छाययाऽपिहित आच्छादितो लोकलोचनोऽनन्तरं तां छायां रूपाणि तदन्तरितान्यप्रकाशितानि घटादिवस्तूनि च चकास्ति प्रकाशयति । स्वयं तदसम्बद्धो यथैवं तथा । गुणेनापिहित इतरमतेः । वस्तुतस्तु पिहितो नेत्यपिहितः । गुणानित्यनुवादेन प्राक्तनं गुणपदं जात्यैकवचनाभिप्रायेणेति द्योतयति । अनेनैव सर्वगुणप्रसिद्धये इत्युक्तिरप्यनुकूलितेत्या-कलनीयम् । आत्मप्रदीपः स्वरूपज्ञानः । तान् गुणान् गुणिनो जीवानपि चकास्ति प्रकाशयतीति न संसारस्तवेति सारांशः स्तवस्य ज्ञेयः । एतदसम्भावनोच्छित्त्यै भूमन्निति ॥ ३९ ॥
यन्मायामोहितधियः पुत्रदारगृहादिषु ।
उन्मज्जन्ति निमज्जन्ति प्रसक्ता वृजिनार्णवे ॥ ४० ॥
सत्यधर्मीया
यतस्त्वन्मोहिता हि वयं वर्तामहे तव तत्संसारवार्ता कंसारे कथं स्यादित्यपि विज्ञापयति ॥ यदिति । यस्य तव मायया मोहिता धीर्येषां ते पुत्रदारगृहादिषु प्रसक्ता वृजिनार्णवे मज्जन्ति निमज्जन्ति ॥ ४० ॥
देवदत्तमिमं लब्ध्वा नृलोकमजितेन्द्रियः ।
यो नाद्रियेत त्वत्पादौ स शोच्यो ह्यात्मवञ्चकः ॥ ४१ ॥
सत्यधर्मीया
एवं निमज्जन् उन्मज्जंस्तज्जनो देवदत्तं दैववशादेव । नृलोकं मनुजतनुं लब्ध्वाऽपि त्वत्पादौ । अजितेन्द्रियः स एव शोच्यः । स एव ह्यात्मवञ्चकः स्ववञ्चकः । स्ववञ्चक आत्मघातीति ॥ ४१ ॥
यस्त्वां विसृजते मर्त्य आत्मानं प्रियमीश्वरम् ।
विपर्ययेन्द्रियार्थार्थं विषमत्त्यमृतं त्यजन् ॥ ४२ ॥
सत्यधर्मीया
निदर्शनेन शोच्यतां व्यनक्ति । यो मर्त्य आत्मानं प्रियमीश्वरं त्वां विसृजते विसृजति त्वत्पादानादरणं चरति । किन्निष्ठावान्स इत्यत एतत्स्पृह इत्याह । विपर्ययेन्द्रि-यार्थार्थमिति ॥ विपर्ययाः क्वचिदेव कदाचिल्लभ्या इव वस्तुतोऽलभ्या इतीन्द्रियार्थास्तत्तर्पक-तयाऽभिमताः सतीसुतादयस्तदर्थमिति योऽमृतं त्यजन् विषमत्ति भक्षयति स इवायमिति स्वघातक इति भावः ॥ ४२ ॥
अहं ब्रह्माथ विबुधा मुनयश्चामलाशयाः ।
सर्वात्मना प्रपन्नास्त्वामात्मानं प्रेष्ठमीश्वरम् ॥ ४३ ॥
सत्यधर्मीया
हे महादेव । न केऽप्यमृते निभृताः सन्ति किमित्यतो न, सन्तः सन्तीत्याह ॥ अहमिति । इदानीं दयनीयोऽहमिति पुरहरः पुरस्कृत्य स्वमवादीदिति
ज्ञेयम् ॥ ४३ ॥
तं त्वा जगत्स्थित्युदयान्तहेतुं समं प्रशान्तं सुहृदात्मदैवम् ।
अनन्यमेकं जगदात्मकेतं भवापवर्गाय भजाम देवम् ॥ ४४ ॥
सत्यधर्मीया
अभीष्टं विज्ञापयितुमुक्तगुणान् कांश्चित् सङ्गृह्याभिष्टौति – तं त्वेति ॥ सुहृच्चात्मदैवम् । सुहृदामात्मा दैवतमिति वा । अनन्यमेकं, जगतः स्वामित्वेन निकेतमाश्रयम् । संसृत्यपसृत्यै भजाम ॥ ४४ ॥
अयं ममेष्टो दयितोऽनुवर्ती मयाऽभयं दत्तममुष्य देव ।
सम्पाद्यतां तद् भवतः प्रसादो यथा हि ते दैत्यपतौ प्रसादः ॥ ४५ ॥
सत्यधर्मीया
शर्वः सर्वथाऽयं मम सम्मत इति सूचयितुं त्रिवारं वदामि । ततो नानृतमिति लौकिकीं धाटीं नटयन्नाह ॥ इष्टो दयितोऽनुवर्तीति । अतिभक्ततायां तात्पर्यम् । मयाऽमुष्य । तस्य मृतप्रायताभिप्रायेण पारोक्ष्योक्तिः । अभयं दत्तम् । उत्तरत्रानिर्वाहात् षष्ठी च । तदभयं भवतः सम्पाद्यताम् । अन्धकबन्धकः कञ्चिदनुबन्धं च दयनीयतायां सदृष्टान्तमा-चष्टे ॥ यथा हीति । ते दैत्यपतावतिबलौ दौवारिकतया प्रसादस्तथा कार्यः । तज्जातिस्वभाव-मावेदयति । असुरत्वेनाहितेऽपि दैत्यपताविति । तद्दौवारिकस्त्वमेतद्दौवारिकोऽहमिति समाधि-काराविति मय्यपि दया विधेयेति नर्ममर्मोक्तिः । पौत्रत्वेनेत्यान्तरङ्गिको भावो भवस्य ॥४५॥
श्रीभगवानुवाच—
यदात्थ भगवंस्त्वन्नः करवाम प्रियं तव ।
भवता यद् व्यवसितं तन्मे साध्वनुमोदितम् ॥ ४६ ॥
सत्यधर्मीया
हे भगवन् । त्वं नः प्रति यदात्थाब्रवीस्तत्तव प्रियं करवाम । इदमेकमेवं तव कार्यं मम सम्मतमिति न किन्तु कन्तुहर हर सर्वमित्युक्त्वा शर्वं प्रोत्साहयति ॥ भवतेति । यद्भवता व्यवसितं तन्मे ममाप्यधुना सम्यगनुमोदितम् । नासङ्गतं त्वं वदेरपि तु तदेवं च वामदेव भवेदित्यप्याह । साध्वनुमोदितं साधुजनसम्मतमिति ॥ ४६ ॥
अवध्योऽयं मयाऽप्येष वैरोचनिसुतोऽसुरः ।
प्रह्लादाय वरो दत्तो न वध्यो मे तवान्वयः ॥ ४७ ॥
सत्यधर्मीया
बाणप्राणत्राणने कारणान्तरमपि श्रावयति । मयाऽप्येष वैरोचनसुतो बलि बालासुरोऽपि न वध्यः । प्रल्हादाय मे मया तवान्वयो न वध्य इति वरो दत्त इति ॥ ४७ ॥
दर्पोपशमनायास्य प्रवृक्णा बाहवो मया ।
सूदितं च बलं भूरि यच्च भारायितं भुवः ॥ ४८ ॥
सत्यधर्मीया
तर्हीयत्कुतोऽदर्शि भवता भगवन्नित्यत आह ॥ दर्पेति । त्वदनुभूतो भूूतपते यस्तद्दर्पस्तन्नाशाय । प्रवृक्णाश्छिन्नाः । सैन्यसूदने मधुसूदनो हेतुमाह ॥ भुवो भारायितमिति ॥ ४८ ॥
चत्वारोऽस्य भुजाः शिष्टा भविष्यन्त्यजरामराः ।
पार्षदमुख्यो भवतो न कुतश्चिद्भयोऽसुरः ॥ ४९ ॥
सत्यधर्मीया
अस्य बाणस्य भुजाश्चत्वारः । अजरामर अ इति छेदः । हे अजरामर हर शिष्टा भविष्यन्ति । भवतः पार्षदमुख्योऽयमसुरः । कुतश्चिदिति निपातसमुदायः सुप्सुपेति समासः । अः कृष्ण आहेति शेषः । अजरामर इति तु श्लिष्टम् । अजरामरा ये पार्षदास्तेषु मुख्य इति वाऽन्वयः । ननु भारते हरिवंशे द्विबाहुना च बाणेनेति । कृत्वा द्विबाहुं तं बाणं छिन्नशाखामिव द्रुममिति च द्विबाहुत्वोक्तेः कथमत्र चतुर्भुजमित्युक्तिरिति चेत् । तत्र बाहुशब्द एकबाहुपरोऽत्र तु भागद्विकबाहुपर इति द्वित्वचतुष्ट्वाविरोधसम्भवात् । यद्वा रुद्राणीं प्रति वाणी, वाणी च रुद्रं प्रतीति कृष्णेन द्विवारं द्विभुजमितीरिणात्तच्चतुष्ट्वं ज्ञेयम् । एवमन्यत्रापि समाधिरवधेया ॥ ४९ ॥
इति लब्ध्वाऽभयं कृष्णं प्रणम्य शिरसाऽसुरः ।
प्राद्युमि्नं रथमारोप्य सवध्वा समुपानयत् ॥ ५० ॥
सत्यधर्मीया
इत्यभयं लब्ध्वा कृष्णं शिरसा प्रणम्य । प्राद्युमि्नं रथं वध्वोषया सहारोप्य समुपानयत् । ‘‘कुंभाण्डदुहिता रामा उषायाः सखिमण्डले । प्रवेश्य तां महाभागां वैदर्भीमवर्धयत्युत । साम्बाय दीयतां रामा कुंभाण्डदुहिता शुभा ॥’ इत्यादिकथा । तथा ‘‘वारुणो बाणस्य गोनिमित्तं जातः’’ इत्यादिका चात्र ज्ञेयेति समा सूच्यते ॥ ५० ॥
अक्षौहिण्या परिवृतं सुवासःसमलङ्कृतम् ।
सपत्नीकं पुरस्कृत्य ययौ रुद्रानुमोदितः ॥ ५१ ॥
सत्यधर्मीया
अक्षौहिण्या द्वादशसङ्ख्यया । सपत्नीकं सोषम् ॥ ५१ ॥
स्वराजधानीं समलङ्कृतां ध्वजैः सतोरणैरुक्षितमार्गचत्वराम् ।
विवेश शङ्खानकदुन्दुभिस्वनैरभ्युद्यतः पौरसुहृद्द्विजातिभिः ॥ ५२ ॥
सत्यधर्मीया
स्वराज्यधानीं ध्वजैस्तोरणैश्च समलङ्कृताम् । सतोरणैर्ध्वजैरिति वा । समलङ्कृतां सम्यगलङ्कृताम् । उक्षिता गन्धादिकोदकैर्मार्गाश्चत्वराश्च यस्यां सा ताम् । शङ्खानक-दुन्दुभिस्वनैः पौरसुहृद्द्विजातिभिरभ्युद्यतः ॥ ५२ ॥
य एवं कृष्णविजयं शङ्करेण च संयुगम् ।
संस्मरेत् प्रातरुत्थाय न तस्य स्यात् पराजयः ॥ ५३ ॥
॥ इति श्रीमद्भागवते दशमस्कन्धे अष्टसप्ततितमोऽध्यायः ॥
सत्यधर्मीया
फलश्रवणे विशेषत एतच्छ्रवणे प्रवर्तन्ते लोका इति तदभिलपति ॥ य इति । तस्य पराजयो न स्यात् । परेषामाजयो युद्धानि न भवेयुः । पराजयस्तु दूरो-त्सारित इत्यप्यर्थः । अत आवश्यकमेतच्छ्रवणमिति ॥ ५३ ॥
॥ इति श्रीसत्यधर्मयतिकृताय भागवतटिप्पण्यां दशमस्कन्ध
उत्तरार्धेऽष्टसप्ततितमोऽध्यायः ॥ १०–७८ ॥