०३ सप्तसप्ततितमोऽध्यायः

बाणस्य तनयामूषामुपयेमे यदूत्तमः

॥ अथ सप्तसप्ततितमोऽध्यायः ॥

राजोवाच—

बाणस्य तनयामूषामुपयेमे यदूत्तमः ।

तत्र युद्धमभूद् घोरं हरिशङ्करयोर्महत् ।

एतत् सर्वं महायोगिन् समाख्यातुं त्वमर्हसि ॥ १ ॥

सत्यधर्मीया

अथाऽनिरुद्धं सह भार्यया रथमित्येतदुत्तरं ‘बाणस्य तनयामूषामुपयेमे यदूत्तम’ इति श्लोकमारभ्य, ‘एवं कृष्णस्य विजयं शङ्करेण च संयुगम् । संस्मरेत् प्रातरुत्थाय तस्य न स्यात्पराजय ॥’ इत्यन्तमध्यायद्वयं क्वचित्पुस्तकसम्पुट्यां नास्तीति प्राचीना न व्यचीचरन्विवृतिम् । बहुपुस्तकेषु वर्तते अपि चानुक्रमणिकायां बाणस्य भुजकृन्तनमित्युक्तेस्तथा तृतीये च ‘शम्बरं द्विविधं बाणं मुरं वल्कलमेव च । अन्यांश्च दन्तवक्त्रादीनवधीत् कांश्चघातयन्’ ॥ इत्युक्तेश्च तव्द्याक्रियते । उषा ऊषेति पर्यायौ । उषा त्वश्विभार्या । तत्र हरिश्च शङ्करश्च तयोर्महद् घोरम् । युद्धमभूत् । तत्कथम् एतत्सर्वं समाख्यातुमर्हसीत्यन्वयः ॥ १ ॥

बाणः पुत्रशतज्येष्ठो बलेरासीन्महात्मनः ।

येन वामनरूपाय हरयेऽदायि मेदिनी ॥ २ ॥

सत्यधर्मीया

महात्मनो बलेः । पुत्राणां शतं तन्मध्ये ज्येष्ठो बाण आसीत् । किं महात्मत्वं तस्येत्यत आह ॥ येनेति ॥ २ ॥

तस्यौरसः सुतो बाणः शिवभक्तिरतः सदा ।

मान्यो वदान्यो धीमांश्च सत्यसन्धो दृढव्रतः ॥ ३ ॥

सत्यधर्मीया

सुतो न बाल्हीकादिवद्गृहीत इत्याह ॥ औरस इति । पित्रनुरूपतां वक्तुं मान्यादिविशेषणम् ॥ ३ ॥

शोणिताख्ये पुरे रम्ये स राज्यमकरोत् पुरा ।

तस्य शम्भोः प्रसादेन किङ्करा इव तेऽमराः ।

सहस्रबाहुर्वाद्येन ताण्डवेऽतोषयन्मृडम् ॥ ४ ॥

सत्यधर्मीया

त इतरेऽमराः किङ्करा इव भृत्या इवाभवन् । सहस्रबाहुर्बाणो वाद्येन मृडमतोषयत् ॥ ४ ॥

भगवान् सर्वभूतेशः शरण्यो भक्तवत्सलः ।

वरेण च्छन्दयामास स तं वव्रे पुराधिपम् ॥ ५ ॥

सत्यधर्मीया

स बाणस्तं पुरहरमेव पुराधिपं वव्रे । त्वमेव मम पुररक्षको भवेति भवं ययाच इति भावः ॥ ५ ॥

स एकदाऽऽह गिरिशं पार्श्वस्थं वीर्यदुर्मदः ।

किरीटेनार्कवर्णेन संस्पृशंस्तत्पदाम्बुजम् ॥ ६ ॥

सत्यधर्मीया

वीर्यहेतुको दुर्दुष्टो मदोऽहन्ता यस्य सः ॥ ६ ॥

नमस्ये त्वां महादेव लोकानां गुरुमीश्वरम् ।

पुंसामपूर्णकामानां कामपूरामराङ्घ्रिपम् ॥ ७ ॥

सत्यधर्मीया

हे महादेव । (महात्) महत एवोत्सवत एव त्वां नमस्ये । इतरेभ्यो वैशेष्यं भाषते ॥ पुंसामिति । अपूर्णकामानां पुंसां कामपूरश्चासावमराङ्घ्रिपः सुरतरुस्तद्रूपम् ॥ ७ ॥

दोःसहस्रं त्वया दत्तं परं भाराय मेऽभवत् ।

त्रिलोक्यां प्रतियोद्धारं न लभे त्वदृते समम् ॥ ८ ॥

सत्यधर्मीया

दोष्णां सहस्रम् । कुतः । ओ कुरु पुरुषेण केनचित्सङ्गरमित्यत आह ॥ त्रिलोक्यामिति । त्वदृते समं मया न लभे ॥ ८ ॥

कण्डूत्या निभृतैर्दोर्भिर्युयुत्सुर्दिग्गजानहम् ।

आद्यायां चूर्णयन्नद्रीन् भीतास्तेऽपि प्रदुद्रुवुः ॥ ९ ॥

सत्यधर्मीया

कण्डूत्या युद्धकामनोत्पन्नया । निभृतैः पुष्टैः । हे आद्य । अद्रींश्चूर्णयन् । अयामगच्छम् । तेऽपि दिग्द्विपाः प्रदुद्रुवुः ॥ ९ ॥

तच्छ्रुत्वा भगवान् क्रुद्धः केतुस्ते भज्यते यदा ।

त्वद्दर्पघ्नं भवेन्मूढ संयुगं मत्समेन ते ॥ १० ॥

सत्यधर्मीया

पुरहरः स्वपुरत एवैवं वदन्तं बाणं शशापेत्याह ॥ तदिति । केतुर्ध्वजः । मत्समेनाहं समः ससम्पत्को येन तेन संयुगं संयुगो युद्धं भवेत् ॥ १० ॥

इत्युक्तः कुमतिर्हृष्टः स्वगृहं प्राविशन्नृप ।

प्रतीक्षन् गिरिशादेशं स्ववीर्यनशनं कुधीः ॥ ११ ॥

सत्यधर्मीया

हृष्टो यदा कदाचिद्वा मम समसमरो हरो वितरति इति तुष्टः । स्ववीर्यनशनं स्ववीर्यस्य नशनं नाशकं गिरिशादेशं प्रतीक्षन् प्रतीक्षमाणोऽभूत् ॥ ११ ॥

तस्योषा नाम दुहिता स्वप्ने प्राद्युमि्नना रतिम् ।

कन्याऽलभत कान्तेन प्रागदृष्टश्रुतेन सा ॥ १२ ॥

सत्यधर्मीया

तस्य बाणस्य । स्वप्ने ‘वैशाखे मासि द्वादश्यां’ तत्रापि पार्वती वरेणेति । यथोक्तं हरिवंशे । ‘उषे शीघ्रं त्वमप्येवं भर्त्रा सह रमिष्यसि । द्वादश्यां शुक्लपक्षस्य वैशाखे मासि यो निशि’ ॥ इत्यादि । प्राद्युमि्नः प्रद्युम्नपुत्रोऽनिरुद्धस्तेन । प्रागदृष्टोऽश्रुतश्च साक्षात् तेन ॥ १२ ॥

सा तत्र तमपश्यन्ती क्वासि कान्तेति वादिनी ।

सखीनां मध्य उत्तस्थौ विह्वला व्रीडिता भृशम् ॥ १३ ॥

सत्यधर्मीया

तत्र जाग्रद्दशायां शय्यायाम् । तं रंतारमपश्यन्ती । हे कान्त क्वासीति सखीनां मध्य उत्तस्थौ व्रीडिता यतः । यथोक्तं तत्रैव ।

ततो हर्म्ये शयानां तां वैशाखे मासि भामिनीम् ।

द्वादश्यां शुक्लपक्षस्य सखीगणवृतां तदा ।

यथोक्तः पुरुषः स्वप्ने रमयामास तां तदा ।

विचेष्टमानां रुदतीं देव्या वचनचोदितः ।

सा स्वप्ने रमिता तेन स्त्रीभावं चापि लम्भिना ।

शोणिताक्ता प्ररुदती सहसैवोत्थिता निशि ॥’ इत्यादिना ॥ १३ ॥

बाणस्य मन्त्री कुम्भाण्डश्चित्रलेखा च तत्सुता ।

सख्यपृच्छत् सखीमूषां कौतूहलसमन्विता ॥ १४ ॥

सत्यधर्मीया

कुम्भाण्डो बाणस्य मन्त्री यस्तत्सुता नाम्ना रामा । उषाया वचनं श्रुत्वा रामा वाक्यमिदं पुनरित्युक्तेस्तत्रैव । तत्सखी चित्रलेखा स्वयं च तत्सखी उषासखी । तामपृच्छत् ॥ १४ ॥

कं त्वं मृगयसे सुभ्रु कीदृशस्ते मनोरथः ।

हस्तग्राहं न तेऽद्यापि राजपुत्र्युपलक्षये ॥ १५ ॥

सत्यधर्मीया

हे सुभ्रु । कं पुरुषं स्वाप्नं मृगयसे । हस्तग्राहं पाणिग्रहणकर्तारम् । अद्यापि तव मनोरथो नाभूदित्युपलक्षये ऊहयामि ॥ १५ ॥

ऊषोवाच—

दृष्टः कश्चिन्नरः स्वप्ने श्यामः कमललोचनः ।

पीतवासा बृहद्बाहुर्योषितां हृदयङ्गमः ॥ १६ ॥

सत्यधर्मीया

हृदयङ्गमो मनोहरः ॥ १६ ॥

तमहं मृगये कान्तं पाययित्वाधरं मधु ।

क्वापि यातः स्पृहयतीं क्षिप्त्वा मां वृजिनार्णवे ॥ १७ ॥

सत्यधर्मीया

अधरं मधु अधरामृतम् । वृजिनार्णवे दुःखाब्धौ ॥ १७ ॥

चित्रलेखोवाच—

व्यसनं तेऽपकर्षामि त्रिलोक्यां यदि भाव्यसे ।

तमानेष्ये नरं यस्ते मनोहर्ता तमादिश ॥ १८ ॥

सत्यधर्मीया

यदि त्रिलोक्यां भाव्यसे वर्तते स इत्यनुचिन्त्यसे तमादिश इति ॥१८॥

इत्युक्त्वा देवगन्धर्वसिद्धचारणपन्नगान् ।

दैत्यविद्याधरान् यक्षान् मनुजांश्च यथाऽलिखत् ॥ १९ ॥

सत्यधर्मीया

उषां प्रत्युक्त्वा । नाम्ना शिल्पतश्च चित्रलेखा ॥ १९ ॥

मनुजेषु च सा वृष्णीन् शूरमानकदुन्दुभिम् ।

व्यलिखद् रामकृष्णौ च प्रद्युम्नं वीक्ष्य लज्जिता ॥ २० ॥

सत्यधर्मीया

व्यलिखत् । शूरं वसुदेवपितरं, वसुदेवं च तथा रामकृष्णौ च प्रद्युम्नं च वीक्ष्य लज्जिता । स्वापि्नकस्वरन्तृसारूप्यादूहितस्वश्वशुरत्वात् ॥ २० ॥

अनिरुद्धं विलिखितं वीक्ष्योषाऽवाङ्मुखी ह्रिया ।

सोऽसावसाविति प्राह स्मयमाना महीपते ॥ २१ ॥

सत्यधर्मीया

विलिखितमनिरुद्धं वीक्ष्यावाङ्मुखी तदतिसारूप्यादयमेव स्वापि्नक इति निश्चित्य । ह्रिया तद्दृष्टिजातलज्जया स इत्यङ्गुल्या निर्दिश्यासावसाविति स्मयमाना प्राह

॥ २१ ॥

चित्रलेखा तमाज्ञाय पौत्रं कृष्णस्य योगिनी ।

ययौ विहायसा राजन् द्वारकां कृष्णपालिताम् ॥ २२ ॥

सत्यधर्मीया

कृष्णपौत्रमाज्ञाय ज्ञात्वा विहायसा योगिनी ययौ । योगमायावतो नगरीप्रवेशः कथं योगिनीमात्रस्य ? न वा वासुदेवत्रासोऽत्रास एतस्या ? इत्येतद्धरिवंशवचनतः परिहर्तव्यम् । तथा हि तत् । ‘‘नारदं पश्यते तत्र ध्यायन्तमुदके मुनिम् । तं दृष्ट्वा चित्रलेखा तु हर्षेणोत्फुल्ललोचना । उपसृत्याभिवाद्येत्यारभ्य,

कथं हि पुण्डरीकाक्षोऽज्ञापितस्तदिदं भवेत् ।

त्वत्प्रसादाच्च भगवन्न मे कृष्णाद्भयं भवेत् ।

क्रुद्धो हि स महाबाहुस्त्रैलोक्यमपि निर्दहेत् ॥

इति गर्भीकृत्य, स नारदः,

उवाच च शुभं वाक्यं मा भैस्त्वं समयं शृृणु ।

त्वया नीतेऽनिरुद्धे तु कन्यावेश्म प्रवेशिते ।

यदि युद्धं भवेत्तत्र स्मर्तव्योऽस्मि शुचिस्मिते ।

ममैष परमः कामो युद्धं द्रष्टुं मनोरमे ।

यद्दृष्ट्वा च महाप्रीतिप्रवृद्धिश्च दृढा भवेत् ।

गृह्यतां तामसी विद्या सर्वलोकप्रमोहिनी ।

कृतकृत्यस्तु ते देवि एष विद्यां ददाम्यहम् ॥

इति भगवदतिसम्मतकार्यतया च न भीरिति मन्तव्यम् ॥ २२ ॥

तत्र सुप्तं सुपर्यङ्के प्राद्युमि्नं योगमास्थिता ।

गृहीत्वा शोणितपुरं सख्यै प्रियमदर्शयत् ॥ २३ ॥

सत्यधर्मीया

सख्या उषायै ॥ २३ ॥

सा च तं सुन्दरवरं विलोक्य मुदितानना ।

दुष्प्रेक्ष्ये स्वगृहे पुम्भी रेमे प्राद्युमि्नना समम् ॥ २४ ॥

सत्यधर्मीया

पुम्भी रेमे । ढ्रलोप इति दीर्घः ॥ २४ ॥

परार्घ्यवासःस्रग्गन्धधूपदीपासनादिभिः ।

पानभोजनभक्ष्यैश्च वाक्यैः शुश्रूषयाऽर्चितः ॥ २५ ॥

सत्यधर्मीया

वाक्यैः समयसमुचितैः ॥ २५ ॥

गूढः कन्यापुरे शश्वत्प्रवृद्धस्नेहया तया ।

नाहर्गणान् स बुबुधे उषयाऽपहृतेन्द्रियः ॥ २६ ॥

सत्यधर्मीया

स्नेहयातयेत्येकं पदं वा । स्नेहत्वेन यातया उषया । अपहृतानि स्वमात्रपराणि कृतानीति ॥ २६ ॥

तां तथा यदुवीरेण भुज्यमानां हतव्रताम् ।

हेतुभिर्लक्षयाञ्चक्रुराप्रीतां दुरवच्छदैः ॥ २७ ॥

सत्यधर्मीया

हतं व्रतं कन्यावस्थावश्यकं कर्म यया सा ताम् । दुरवच्छदैर्दुःसाध्योऽवच्छद आच्छादनं येषां ते तैर्हेतुभिश्चिन्हैराप्रीतां बहुतुष्टां लक्षयाञ्चक्रुः ॥ २७ ॥

भटा आवेदयाञ्चक्रू राजंस्ते दुहितुर्वयम् ।

विचेष्टितं लक्षयामः कन्यायाः कुलदूषणम् ॥ २८ ॥

सत्यधर्मीया

अतिस्फुटानि लक्षणानि नाच्छादयितुं शक्यानि । किञ्च यथाकथञ्चिदाच्छा-दनेऽस्मच्छिरच्छेदने राज्ञ आज्ञा भवेदिति भीता भटा न्यवेदयन्नित्याह ॥ भटा इति । तत्प्रकार-माह ॥ राजन्निति । वयं ते दुहितुः कन्यायाः कुलदूषणं चेष्टितं लक्षयाम इति ॥ २८ ॥

अनपायिभिरस्माभिर्गुप्तायाश्च गृहे प्रभो ।

कन्याया दूषणं पुम्भिर्दुष्प्रेष्या(क्षा)या न विद्महे ॥ २९ ॥

सत्यधर्मीया

यूयं क्व गताः कथं च कोऽन्तर्गत इत्यत आहुः ॥ अनपायिभिः क्वाप्यगच्छद्भिरिति । गुप्ताया दुष्प्रेक्षाया दुराचारेति दुष्टा प्रेष्या दूतिका यस्याः सा तस्याः । पायिनो न भवन्तीत्यपायिनस्ते न भवन्तीत्यनपायिनोऽतिशयेन मद्यपायिन इत्यर्थः । दैत्यानां धर्मोऽयमिति राजपुरत उक्तौ न बाधेतेत्येवमुक्तिरित्यान्तरङ्गिको भावः । अत एव न विद्मह इति सुलग्नम् । पुम्भिः, कन्यायाः कृतदूषणम् । बहुवचनेन नैकमात्रपर्याप्तसुरता तव तनुजेति तदूहनेन सम्भवति । समे समेता एवावदन्पृथगिति वा तदिति वा । पुम्भिरस्माभिरित्यन्वये न चाशङ्का नोत्तरं न विद्महे । हे राजन् न विद्महे इति वा । विदो लटो वेति स्मरणात्

॥ २९ ॥

ततः प्रव्यथितो बाणो दुहितुः श्रुतदूषणः ।

त्वरितः कन्यकागारं प्राप्तोऽद्राक्षीद् यदूद्वहम् ॥ ३० ॥

सत्यधर्मीया

श्रुतं दूषणं येन सः । यदूद्वहमनिरुद्धम् ॥ ३० ॥

कामत्मजं तं भुवनैकसुन्दरं श्यामं पिशङ्गाम्बरमम्बुजेक्षणम् ।

बृहद्भुजं कुन्तलकुण्डलत्विषा स्मितावलोकेन च मण्डिताननम् ॥ ३१ ॥

सत्यधर्मीया

कुन्तलानां कुण्डलयोश्च त्विट् तया । मण्डितमलङ्कृतमाननं यस्य तम् ॥

दीव्यन्तमक्षैः प्रिययाऽभिनृम्णया तदङ्गसङ्गस्तनकुङ्कुमस्रजम् ।

बाह्वोर्दधानं मधुमल्लिकाश्रितां तस्याग्र आसीनमवेक्ष्य विस्मितः ॥३२॥

सत्यधर्मीया

अभिनृम्णया । प्रथमाष्टकपञ्चमाध्यायाष्टाविंशतिवर्गीयान्त्या ऋचः ‘‘प्रेह्यभीहि धृष्णुहि न ते वज्रो नियंसते । इन्द्र नृम्णं हि ते शवो हनो वृत्रं जया– अपोऽर्चन्ननु स्वराज्यम्’’ इत्यस्या व्याकृतौ नृम्णं नृणां पुरुषाणां नामकमभिभावकमिति यावदिति माधवोक्तेः पुरुषाभिभावकयेत्यर्थः । पुरुषानविगणय्य वर्तमानयेति यावत् । नॄन्नाम-यति प्रव्हीकरोतीति सा । सर्वोऽपि पृषोदरादिः । तदङ्गसङ्गनं स्तनकुङ्कुमं यस्याः सा स्रक् च ताम् । मधुमल्लिका वसन्तकालिक्यो मल्लिका आश्रिता यां सा ताम् । बाव्होर्दधानं तमागतं स्यति निरस्यतीति तस्या । तस्याया अग्रं तस्याग्रं तस्मिन्निति । आसीनं स्वागतावपि । अनधिगतभीतिः पोतोऽयमिति विस्मितः ॥ ३२ ॥

स तं प्रविष्टं वृतमाततायिभिर्भटैरनेकैरवलोक्य माधवः ।

उद्यम्य सौर्वं१ परिघं व्यवस्थितो यथाऽन्तको दण्डधरो जिघांसया ॥ ३३ ॥

सत्यधर्मीया

अतातायिभिरुद्यतशस्त्रैरनेकैर्भटैर्वृतमावृतं प्रविष्टं तं बाणं माधवो विलोक्य । सौर्वम् उर्वस्य मुनेरपत्यमग्निस्तेन सहितस्तम् । अग्न्युद्गारिणमिति यावत् । मौर्वीमिति पठित्वा मुरुर्लोहविशेषस्तन्निर्मितमिति यावत् । मौरवम् इति स्यात् । तत्र नाप्यभिहितमभिधानं तैः । तथाऽपि, ‘व्यादिष्टं किङ्कराणां तु सैन्यं तेन महात्मना । जघान परिघं लोहमादाय परवीरहा ॥’ इति विष्णुपुराणे पञ्चमेंऽशे त्रयस्त्रिंशेऽध्याये लोह-मित्युक्तेरनुकूलम् । अन्तको दण्डधरो यमो जिघांसया तथा व्यवस्थितः ॥ ३३ ॥

जिघृक्षया तान् परितः प्रसर्पतः शुनो यथा सूकरयूथपोऽहनत् ।

ते हन्यमाना भवनाद् विनिर्गता निर्भिन्नमूर्धोरुभुजाः प्रदुद्रुवुः ॥ ३४ ॥

सत्यधर्मीया

आत्मानं जिघृक्षया परितः प्रसर्पतस्तान्बाणसैनिकान् । सूकरयूथपो महावराहः शुनः सारमेयान् यथा तथाऽहनदहन् । ते प्राद्युमि्नना निहन्यमाना भवनान्निर्भिन्न-मूर्धोरुभुजा विनिर्गताः सन्तः प्रदुद्रुवुः ॥ ३४ ॥

तं नागपाशैर्बलिनन्दनो बली घ्नन्तं स्वसैन्यं कुपितो बबन्ध ह ।

ऊषा भृशं शोकविषादविह्वला बद्धं निरीक्ष्याश्रुकलाक्ष्यरोदिषत् ॥ ३५ ॥

॥ इति श्रीमद्भागवते दशमस्कन्धे सप्तसप्ततितमोऽध्यायः ॥

सत्यधर्मीया

बलिनन्दनः स्वयं बली च । स्वसैन्यं स्वसेनं नान्यस्वामिकं तदित्या-प्याह । सेनस्य सहितस्वामिकस्य भावः सैन्यं स्वेनैव सैन्यं यस्य तदिति । घ्नन्तं घातयन्तं तम् । नागपाशैः कुपितो बबन्ध । ह शोके । ऊषा भृशं शोकेन बहिःप्रदर्श्येन, विषादे-नान्तः खेदेन । विषमाददतीति ते पाशभूता अहीशास्तैर्विह्वला विवशा । बद्धं निशम्य स्वयं निरीक्ष्याश्रुकलाक्षी अश्रूणां कला बिन्दवो ययोस्ते अक्षिणी यस्याः साऽरोदिषद्रुरोद ॥३५॥

॥ इति श्रीसत्यधर्मयतिकृतायां भागवतटिप्पण्यां दशमस्कन्ध उत्तरार्धे

सप्तसप्ततितमोऽध्यायः ॥ १०–७७ ॥