०२ षट्सप्ततितमोऽध्यायः

एकैकशस्ताः कृष्णस्य पुत्रान् दश दशाबलाः

॥ अथ षट्सप्ततितमोऽध्यायः ॥

श्रीशुक उवाच—

एकैकशस्ताः कृष्णस्य पुत्रान् दश दशाबलाः ।

अजीजनन्नना ॥ १ ॥

पदरत्नावली

अध्यायद्वयेन लोकविडम्बनानुचरितं कथयति । तेन सतां ज्ञानाभि-वृद्धिरसतामन्यथेति । तत्रादावेकैकस्यां दश दश पुत्रा आसन्नित्यादि कथयति– एकैकश इति ॥ सर्वात्मसम्पदा अन्यूनदेहादिस्वभावसमृद्ध्या ॥ १ ॥

सत्यधर्मीया

लोकमनुकुर्वन् लोकेशो वंशमवर्धयज्जातजातं देवता इति तच्चरितश्रवणं भगवद्भक्त्युपोद्बलकमित्यध्यायद्विकेन वदति ॥ एकैकश इति । ता योषित एकैकशः पृथक् पृथगेकैका एकैकस्य स्त्रीजनस्य सकाशाद् एकशस्ता प्रशस्ता रूपादिनेत्याह । एकैकशस्ता इत्यप्यर्थः । कृष्णस्य सकाशात्पितुः । सर्वात्मसम्पदा सर्वाङ्गसम्पदा । अनवमान् पुत्रीभवन भाग्ययुता इत्यनवमान्समस्तान् दश दशाजीजनत् । एकैकशोऽबला दशाजीजनन्नित्यनेनैकैकस्यां दशपुत्रा अभवन्निति तद्वीप्सयैव लाभे पुनर्दशेति न वक्तव्यमिति चेत् । महात्मन्नर्थान्तरे तत्सार्थकं किल । अर्थान्तरपक्ष एव दशाया दैवस्य बलं यासां ता इति । ‘दशा दैवे वार्तिकायां वस्त्रप्रान्ते च कीर्तिता । अवस्थायां प्रवृत्तौ च’ इति रत्नमाला ॥ १ ॥

गृहादनपगं वीक्ष्य राजपुत्र्योऽच्युतं स्थितम् ।

आत्मनोऽमंसत प्रेष्ठं न तत्तत्त्वविदः स्त्रियः ॥ २ ॥

पदरत्नावली

अनपगमपगमरहितम् ॥ २ ॥

दुर्घटभावदीपिका

राजपुत्री गृहादनपगमापगमरहिते गृहेऽपि स्वसमीपे स्थितमच्युतं कृष्णं वीक्ष्यात्मनः कृष्णस्यात्मानं स्वप्रेष्ठमतिशयेन प्रीतिविषयममंसत । यतः स्त्रियो न तत्तत्त्व-विदस्तस्य श्रीकृष्णस्य तत्त्वं स्त्रीनिरपेक्षत्वाद्यबाधितस्वरूपं विदन्तीति तत्त्वविदो न भवन्तीति । एतेन कृष्णस्यात्मानं प्रेष्ठममंसतेति वक्तव्यमात्मनः कृष्णं प्रेष्ठममंसतेति कथनमयुक्तमिति चोद्यं पराकृतम् । आत्मन इत्यस्यावृत्तिमङ्गीकृत्य षष्ठ्यन्तात्मशब्दस्य कृष्णवाचित्वमर्थवशा-द्विपरिणामेन द्वितीयस्यात्मशब्दस्य स्ववाचित्वमित्यभ्युपगमात् ॥ २ ॥

॥ इति श्रीभागवतटिप्पण्यां षट्सप्ततितमोऽध्यायः ॥ १०-७६ ॥

सत्यधर्मीया

राजपुत्र्यो गृहादनपगमपगमरहितं तत्रैव वर्तमानम् । आत्मप्रियं प्रेष्ठममंसत व्यजानात् । तत्तत्त्वं विन्दतीति ता न भगवत्तत्त्वावगमविकलाः ॥ २ ॥

चार्वब्जकोशवदनायतचारुनेत्रसप्रेमहासरसवीक्षितवल्गुजल्पैः ।

सम्मोहिता भगवतो न मनो विजेतुं स्वैर्विभ्रमैः समशकन् वनिता विभूम्नः

॥ ३ ॥

पदरत्नावली

एवमपि पराजयः स्त्रीणामेवेत्याह– चार्विति ॥ ३ ॥

सत्यधर्मीया

तत्सौन्दर्यमुपपाद्य तदजितत्वमजितस्यावेदयति ॥ चार्विति । भगवतश्चारु अब्जकोशवद्वदनं मुखं च । आयते च ते चारुणी च ते नेत्रे च सप्रेमहासरसं यद्वीक्षितं च वल्गुजल्पा मनोहरव्यवहाराश्च तैर्विमोहिताः स्वैर्विभ्रमैर्विलासैश्चार्वित्येतदन्वयि च मनो विजेतुं न समशकन् शक्ता नाभूवन् । तत्र तन्त्रं विभूम्न इति ॥ ३ ॥

स्मायावलोकलवदर्शितभावहारिभ्रूमण्डलप्रहितसौरतमन्त्रशौण्डैः ।

पत्न््नयस्तु षोडशसहस्रमनङ्गबाणैर्यस्येन्द्रियं विमथितुं करणैर्न शेकुः ॥ ४ ॥

पदरत्नावली

स्मायो मन्दस्मितं तेन युक्तोऽवलोकः स्मायावलोकः । तस्य लवेनाल्पेन दर्शितेन भावेन स्पन्दनलक्षणक्रियया हारिणा मनोहरेण भ्रुवोर्मण्डलवलयेन प्रहिताः सौरतमन्त्राः सुरतवर्धनमन्त्राः । एतैः शौण्डैः पटुत्वमाप्तैः कामबाणैः करणैः सम्भोगसाधनैर् यस्य हरेरिन्द्रियं रेतोलक्षणं विमथितुमालोडयितंु स्रावयितुं वा । वशीकृतकामत्वेन दृढवीर्यत्वात् ॥ ४ ॥

सत्यधर्मीया

अधुनाऽपि मधुनाथस्य बहुधा तत्सामर्थ्यमुधाकरणं वक्ति कैश्चिच्छ्लोकैः । स्मायः स्मितसम्बन्धी योऽवलोकस्तस्य लवो लेशस्तस्य दर्शितं दर्शनं तेन भावो मनस्तद्धारिणा मनोहरेण, भ्रुवां मण्डलं सङ्घस्तेन प्रहिताः प्रेषिता ये सौरतमन्त्राः सुरतसम्बन्धिरहस्यभाषणानि तैः शौण्डाः पुरुषवशीकरणपटवस्तैः । अनङ्गबाणैः पञ्चबाणैः सहकारिसहितैः करणैः स्वेन्द्रियैः । षोेडशसहस्रं तत्सङ्ख्याः पत्न्य इन्द्रियं यस्य भगवतो विमथितुं विलोडयितुं स्वपरवशीकर्तंु न शेकुर्न समर्था अभवन् । निरीक्षणादिसर्वेन्द्रियकार्या अविषया इति द्योतयितुमिन्द्रियमित्येकवचनम् । दर्शितो यो भावो लीलाविशेषस्तेन हारि हरत्स्ववशीकुर्वद्यद्भ्रूमण्डलं तत्प्रहितैरिति वा । ‘भावः क्रियालीलापदार्थेषु’ इति विश्वः ॥ ४ ॥

याः स्वीप्सितं स्वभवनेष्वधिरूढमुच्चैर्लक्ष्म्यैकधामसरसप्लुतवीक्षणेन१ ।

**ऐक्षन् सतामपि पतिं च सतीः कटाक्षैः स्थूणान्तरेण नवसङ्गमलज्जयेव **

॥ ५ ॥

पदरत्नावली

याः पत्न्यः पक्ष्मकटाक्षैः स्थूणान्तरेण स्तम्भव्यवधानेन स्वीप्सितं सुतरा-मभीष्टं कृष्णमैक्षन् अपश्यन्, ता इति शेषः । केन? उच्यते । लक्ष्म्याः कान्त्या एकधाम प्रधानगृहं च सरसं सस्नेहं प्लुतं दीर्घीकृतं सृतं वा वीक्षणं दर्शनं लक्ष्म्येकधामसरसप्लुतवीक्षणं तेन । स्वभवनेष्वधिरूढमुत्तुङ्गमञ्चारूढम् । अपि सम्भावनार्थम् । सतीः सत्यः स्थूणान्तरे किमर्थमीक्षणमित्यत उक्तम्– नवसङ्गमेति ॥ ५ ॥

सत्यधर्मीया

याः स्वभवनेषु तत्रोच्चैरुत्तुङ्गमञ्चादौ चाधिरूढं लक्ष्म्यैकधाम सम्पन्मुखाश्रयम् । तत्र तन्त्रं सरसप्लुतवीक्षणेन । स्वीप्सितं सुष्टु ईप्सितं कामितमपि सतां सज्जनानां पतिं चन्द्रमिव विद्यमानं वा । सतीः सत्त्यो नवसङ्गमलज्जयेव स्थूणान्तरेणैक्षन्नपश्यन् । नित्यनूतनसुख-प्रदत्वान्नवसङ्गम इति लज्जयैवेत्यपि पाठः सम्भवति । भित्त्याद्यनुक्त्वोक्त्या च स्थूणान्तरेणेति ‘नृसिंहादिकमन्यच्च दुरितादिनिवृत्तय’ इत्यादेर् हरिसङ्गान्तरायापनुत्त्यै श्रीनृसिंहस्य तदन्तर्लसतः प्रार्थनामतन्वंस्तन्वङ्ग्यः । स चायमिति प्रादुुर्भूयादिहेति वा ध्वन्यते ॥ ५ ॥

रामा गृहे विहरतः पुरतः कराभ्यां बद्धेक्षणाः स्वदयितस्य मुदाऽहसन्त्यः ।

गात्रान्तराण्यपिदधुर्निजपूरुषस्य क्लेशावहान्यपि तदङ्गजभङ्गभीताः ॥ ६ ॥

तात्पर्यम्

गात्रान्तराण्यपिदधुः ॥ पिधातव्येभ्योऽन्यान्यपि ॥ येषां पिधानेन क्लेशो भवत्यात्मनः । निजभर्तुरप्यपिदधुः । निर्लज्जा इत्यकामो भवत्यसाविति भयात् ॥ ६ ॥

पदरत्नावली

सुरतादन्यत्र काले तासां लीलाविशेषमाह– रामा इति ॥ रामाः स्त्रियो गृहे विहरतः स्वदयितस्य कराभ्यां पुरतो बद्धेक्षणा मुदा रोमाञ्चहेतुहर्षेण हसन्त्यः स्मितं कुर्वन्त्यः निजपूरुषस्य निजभर्तुः क्लेशावहानि क्लेशकराण्यपि गात्रान्तराणि विषयेभ्यः स्पर्शयोग्येभ्यो गात्रेभ्योऽन्यद्गात्राण्यपिदधुर् वस्त्रादिना पिहितानि चक्रुरित्यन्वयः । कीदृश्यः? तस्याङ्गजस्या-श्लेषलक्षणकामस्य भङ्गेन भीता अपीति ॥ ६ ॥

सत्यधर्मीया

रामा गृह इति श्लोके गात्रान्तरशब्दार्थः क इति न ज्ञायते । प्रतीयते क्लेशावहपदस्य निजभर्तृपदेनान्वयो बाधितोऽङ्गजभङ्गोऽपि कृष्णेन क्रियमाणः स्वाङ्गे जायमानो नो भङ्ग इति चेत्यतः स्वयं किञ्चिदनूद्याध्याहृत्य किञ्चिदन्वयप्रदर्शनेनार्थापनेन च तां वारयति ॥ गात्रान्तराण्यपिदधुः पिधातव्येभ्योऽन्यान्यपीति । गात्राणि पिधातव्यानीत्यूरुमूलोरोजादीनि तेभ्योऽन्यानि मुखादीन्यपिदधुराच्छादितवत्यः । लक्षणया तानि च मुखादीनि ज्ञेयानीति सूचयन् किञ्चिदध्याहृत्यान्वयं दर्शयति । येषामवयवानां पिधानेनात्मनः क्लेशो भवतीति । तथा निजभर्तुरपि गात्रान्तराण्यपिहितव्यान्यप्यपिदधुर् आच्छादितवत्यः । तत्र हेतुं वक्तुं तदङ्गजभङ्गभीता इति पदमिति मनसि कृत्वा सोपोद्बलकं तदङ्गभङ्गजपदार्थं वर्णयति ॥ निर्लज्जा इति । अनेन दासीसमाजे सति सत्यश्चुम्बनादिनिरता अतो निर्लज्जा इति । अङ्गजपदेन कामशब्दो लक्ष्यस्तेन चाभिलाषो ग्राह्यः । अकामो मदभिलाषप्रमोषी स्यादसाविति भयात्स्वमुखतन्मुखादीनामाच्छादनमन्तरत एवं चुम्बनाद्युपयोगि चक्रुरिति भावः ॥

ततश्चायं श्लोकार्थः ॥ रामा गृहे विहरतः । रामा दासी नार्यस्ताभिः सहितं गृहं तस्मिन्निति चावृत्त्याऽर्थः । क्रीडतो विहरतः । हरिविरुद्धवदाचरतोऽस्वार्थाङ्गतासङ्गतस्यानालिङ्ग्याङ्गं वर्तमानस्येति यावत् । स्वदयितस्य स्वप्रीतिपात्रस्य निजपुरुषस्य भर्तुः, पुरतोऽग्रे कराभ्यां, स्वयं बद्धानि पिहितानीक्षणानि यासां ताः । मुदाऽऽनन्देनाहसन्त्य ईषत् स्मितं कुर्वत्यः स्वपतौ नृपतौ वा सतीसतीनां बहुमतो न बहुहास इति तत् । गात्रान्तराणि अपिहितोरु-मूलकुचाद्यतिरिक्तान्यात्मनः क्लेशावहानि । मुखनयनमुखपिधाने किञ्चिच्छ्वासत्यजनभजनतः क्लेशापादकानि स्वाङ्गानि तथा निजपूरुषस्यापि नयनवदनादीन्यपि निर्लज्जाः सतीपरिवारजने किमिदं तन्वङ्ग्यस्तन्वन्तीति तस्य पत्युरङ्गजः कामः स्वाभिलाषस्तस्य भङ्गस्तस्माद्भीताः पिदधुः । रमणीरमणयोः पटकुटिकारूपपटादिघटितावरणयोरन्तरेव सम्भावितस्वेप्सितचुम्बना-लम्बनादिकं भवति भक्तिपात्राणामिति भामिन्य एवं काञ्चन लीलामलालयन्निति मूलतात्पर्यं ज्ञेयम् ॥ ६ ॥

तासां या दशपुत्राणां कृष्णस्त्रीणां पुरोदिताः ।

अष्टौ महिष्यस्तत्पुत्रान् प्रद्युम्नादीन् गृणन्ति तान् ॥ ७ ॥

पदरत्नावली

इदानीं तासां पृथक्पृथक् पुत्रान् वक्तुमुपक्रमते– तासामिति ॥ दशदश पुत्रा यासां ता दशपुत्रास् तासाम् । तासां कृष्णस्त्रीणां मध्ये याः पुरोदिताः पूर्वोक्ता अष्टौ महिष्यस्तासां तान् पुत्रान् प्रद्युम्नादीन् गृणन्ति, तत्रत्या इति शेषः ॥ ७ ॥

सत्यधर्मीया

दशपुत्राणां कृष्णस्त्रीणां षोडशसहस्राष्टोत्तरशतसङ्ख्यानां तासां मध्ये याः पुरा मया त्वां प्रत्युदिता अष्टौ महिष्यो रुग्मिण्याद्यास्तत्पुत्रान्प्रद्युम्नादींस्तान्गृणन्ति तानिव गृणन्ति । अन्यसदृशा न सन्त एतत्सदृशा इति तथा गृणन्तीति वा जानातीति शेषः ॥ ७ ॥

चारुदेष्णः सुदेष्णश्च चारुदेहश्च वीर्यवान् ।

सुचारुश्चारुगुप्तश्च भद्रचारुस्तथाऽपरे ॥ ८ ॥

पदरत्नावली

प्रद्युम्नादन्ये किन्नामान इति तत्राह– चारुदेष्ण इत्यादिना ॥ ८ ॥

सत्यधर्मीया

गृणन्तु ते । भवतु तन्नामाय गमस्तेषां मम किमन्यस्योदरशूला मूलिकाद्यदनमन्यस्येतिवद् वद स्वामिन्नित्यस्यावसरमवितरन् मुनिस्तदभिधा अभिधत्ते । प्रद्युम्नः, पूर्वं प्रद्युम्नादीनित्यनेनाम्नात इति पुरस्कृतश्चारुदेष्ण इति ज्ञेयम् । वीर्यवानित्यादावीर्यमाणानां च विशेषणम् । अपरे इति योग्यान्वयि ॥ ८ ॥

चारुचन्द्रोऽतिचारुश्च चारुमान् दशमो हरेः ।

प्रद्युम्नप्रमुखा जाता रुग्मिण्या नवमाः पितुः ॥ ९ ॥

सत्यधर्मीया

दशमः प्रद्युम्नेन सह । हरेः सकाशाद्रुग्मिण्याः प्रद्युम्नप्रमुखा जाताः । यद्वा रुग्मिण्या न वमा इति छेदः । वमा अवमा इत्यर्थः । न समासो वा । वष्टिभागुरिरित्यादेः

॥ ९ ॥

भानुः सुभानुः स्वर्भानुः प्रभानुर्भानुमांस्तथा ।

चन्द्रभानुर्बृहद्भानुरभिभानुस्तथाऽष्टमः ॥ १० ॥

श्रीभानुः प्रतिभानुश्च सत्यभामात्मजा दश ।

साम्बः सुमित्रः पुरुजिच्छतजिच्च सहस्रजित् ॥ ११ ॥

विजयश्चित्रकेतुश्च वसुमान् द्रविणः क्रतुः ।

जाम्बवत्याः सुता ह्येते साम्बाद्याः पितृसम्मताः ॥ १२ ॥

पदरत्नावली

एवं क्रमेण सत्यभामादिसुताननुक्रामति– भानुरित्यादिना ॥ एकः शत्रुश्चन्द्रस्य स्वर्भानू राहुरिव । अपरो लोकस्य भानुः सूर्य इव स्वः स्वर्गपुरे स्थितः

॥ १०–१२ ॥

सत्यधर्मीया

भान्वाद्या दश सत्यभामात्मजाः । पितृसम्मताः साम्बाद्या दश जाम्बवत्याः सुताः ॥ १०-१२ ॥

भानुश्चन्द्रोऽश्वसेनश्च चित्रगुर्वेगवान् वृषः ।

आमः शङ्कुर्वसुः श्रीमान् कृतिर्नाग्नजितेः सुताः ॥ १३ ॥

पदरत्नावली

नाग्नजितेर् नग्नजित्पुत्र्या नीलायाः ॥ १३ ॥

सत्यधर्मीया

श्रीमानितिशब्दो यथायथं योजनायोग्यः । नाग्नजितेर्नीलायाः ॥ १३ ॥

श्रुतः कविर्वृषो वीरः सुबाहुर्भद्र एकलः ।

शान्तिर्दर्शः पूर्णमास्यः कान्द्यिाः सोमकोऽपरः ॥ १४ ॥

पदरत्नावली

वृषविशेषणं वीर इति । अपरः सोमकोऽपि कालिन्द्याः सुतः ॥१४॥

सत्यधर्मीया

वीर इत्यपि । तथाऽपरः कनिष्ठः सोमकः । कालिन्द्याः सुताः ॥१४॥

प्रघोषो गात्रवान् सिद्धो बलः प्रबल ऊर्ध्वगः ।

माद्य्राः पुत्रा महाशक्तिः सह ओजोऽपराजितः ॥ १५ ॥

पदरत्नावली

माद्य्रा लक्षणायाः ॥ १५ ॥

सत्यधर्मीया

महाशक्तिरपि तथा प्रघोषाद्यपराजितान्ताः । माद्य्रा लक्षणायाः ॥१५॥

वृकोऽर्हकोऽनिलो नीलो बह्वन्नोऽन्नाद एव च ।

महाशः पवनो वह्निर्मित्रविन्दात्मजाः कृतिः ॥ १६ ॥

सत्यधर्मीया

वृकादिकृत्यन्ता मित्राविन्दात्मजाः ॥ १६ ॥

सङ्ग्रामजिद् बृहत्सेनः शूरः प्रहरणोऽरिजित् ।

जयः सुभद्रो भद्राश्वो वाम आयुश्च सत्यकः ।

दीप्तिमांस्ताम्रपत्राद्या भद्राया१स्तनया हरेः ॥ १७ ॥

पदरत्नावली

रोहिण्या भद्रायाः ॥ १७ ॥

सत्यधर्मीया

सङ्ग्रामजिद्बृहत्सेनेत्येकं विशेष्यमेकं विशेषणमित्येकतरत्राह । शूर इति यथायथं विशेषणम् । १, प्रहरणः २, अरिजित् ३, जयः ४, सुभद्रः ५, भद्राश्वः, ६, वामः ७, आयुः ८, सत्यकः ९, दीप्तिमान् १०, ताम्रपात्राद्या एते दश रोहिण्या जाम्बवत्या यथा हरेः सम्मतास्तथैव भद्रायास्तनया इति । अत्र निर्देशक्रमेणादिमत्त्वान्तिमत्त्वे न विवाहक्रमेण । हरिवंशे च अष्टौ महिष्य इति प्रतिज्ञाय रुग्मिणी सत्यभामा चेति विशिष्य रुग्मिणीतनयान् शृृण्वित्येवोक्ते रोहिणीत्यनुक्तेः सा नवमीति लेखनं तु भारतविगीतम् । ‘ततः क्षमापयन्सुतां प्रदाय रोहिणीं शुभाम् । अथाप साम्बनामकं सुतं च रोहिणी हरेः । चतुर्मुखांशसंयुतं कुमारमेव षण्मुखम्’ इत्याचार्या रोहिणीति नान्या जाम्बवत्या इति यत्र क्वचिद् ग्रन्थान्तरे रोहिणीशब्दः श्रूयते चेन्नाष्टमहिषीसमा नवम्यस्तीति जजल्पुः । हरिवंशे च ‘सुतां जाम्बवतश्चापि रोहिणीं कामरूपिणीम्’ इत्युक्तेश्च । अतो न भद्राऽपि । अतोऽस्मदुक्तयोजनाऽऽचार्यकटाक्षितेति दिक् । अथवा १ सङ्ग्रामजित् २ बृहत्सेनः ३ प्रहरणः ४ अरिजित् ५ जयः ६ सुभद्रः ७ वामः ८ आयुः ८ सत्यकः १० दीप्तिमांश्चेति दश भद्रायाः पुमपत्यानि रोहिण्याः । तदादीनां सर्वासां ताम्रपत्राद्यास्तनया योषितो जाता इति वा । सर्वासामेका द्वे चतस्रश्च कन्या जाता इति विशेषं द्योतयितुमेव रोहिणीनाम । तथा ताम्रपत्राद्या इति चतुरपत्यमध्य एकस्या नाम च गृहीत इति । तथा च ‘रुग्मिणीतनयान् श्रुणु’ ‘कन्या चारुमती तथा’ इत्युक्त्वा ‘जज्ञिरे सत्यभामायां भानुर्भीमरथः क्षुपः । रोहितो दीप्तिमांश्चैव ताम्रवक्त्रो जिनान्तकः । भागुर्ग्रामणिका चैव ताम्रपात्रा जलन्धरा । चतस्नो जज्ञिरे तेषां स्वसारो गरुडध्वजात्’ ॥ इत्यादि हरिवंशशंसनाद् अत्र तत्र नामव्यत्यासश्च तेषां बहुनामतया सम्भवतीति न विसंवादः । न चाचार्यैः ‘पृथक्पृथक् तासु दशैव पुत्रकानधत्त कन्याम्’ इत्येकवचः प्रत्युक्तं तर्हि कथमिति वाच्यम् । मुख्यविवक्षयैक-वचनमाचार्याणां, मुख्यामुख्यविवक्षया बादरायणस्येत्यविरोधसमभ्वात् ॥ १७ ॥

प्रद्युम्नाच्चानिरुद्धोऽभूद् रुग्मवत्यां महाबलः ।

पुत्र्यां च रुग्मिणो राजन् नाम्ना भोजकटे पुरे ॥ १८ ॥

पदरत्नावली

भोजकटे पुरे स्थितस्य रुक्मिणः पुत्राम् ॥ १८ ॥

सत्यधर्मीया

यदर्थमेतत्कीर्तनं तत्र परीक्षिताऽनुयोगयित्वोत्तरं वक्तुं बीजावापं कुर्वन् किञ्चित्तदुपोद्धातं रचयति ॥ प्रद्युम्नादिति । रुग्मिणो मातुलस्य । भोजकटे पुर इति पुनरनु-बन्धदौर्घट्यहेतुवचनम् ॥ १८ ॥

एतेषां पुत्रपौत्राश्च बभूवुः कोटिशो नृप ।

मातरः कृष्णभार्याणां१ सहस्राणि च षोडश ॥ १९ ॥

पदरत्नावली

एतेषां मातरः कृष्णभार्याणां षोडशसहस्राणि ॥ १९ ॥

सत्यधर्मीया

कोटिशो बहुकोटिसङ्ख्याः ॥ १९ ॥

राजोवाच—

कथं रुग्म्यरिपुत्राय प्रादाद् दुहितरं युधि ।

कृष्णेन परिभूतस्तं हन्तुं रन्ध्रं प्रतीक्षते ॥ २० ॥

पदरत्नावली

ओः कृष्णस्य पुत्राय प्रद्युम्नाय । तं कृष्णम् । रन्ध्रमवसरम् ॥ २० ॥

सत्यधर्मीया

यः कृष्णेन युधि परिभूतस्तं हन्तुं रन्ध्रमवकाशं प्रतीक्षते स कथमरिपुत्राय दुहितरं प्रादात् ॥ २० ॥

एतदाख्याहि मे ब्रह्मन् द्विषोर्वैवाहिकीं क्रियाम् ।

अनागतमतीतं च वर्तमानमतीन्द्रियम् ।

विप्रकृष्टं व्यवहितं सम्यक् पश्यन्ति योगिनः ॥ २१ ॥

पदरत्नावली

द्विषोः शत्रुभूतयोः । वैवाहिकीं विवाहसम्बन्धिनीम् । अतीतकथा नेदानीं वक्तंु शक्येति नेत्याह– अनागतमिति ॥ विप्रकृष्टं दूरस्थम् । व्यवहितं मूर्तद्रव्यान्तरितम्

॥ २१ ॥

सत्यधर्मीया

एतदित्यव्ययम् । एतां वैवाहिकीं क्रियाम् । द्विषोरिति ॥ विरुद्धा-माख्याहि । न मम तावती परिचितिरिति न वद स्वामिन्निति ज्ञानिवत्त्वं स्फोरयन् परोक्षतो योगिमाहात्म्यमाह ॥ अनागतमिति । विप्रकृष्टं भित्त्याद्यनावृतदूरप्रदेशवर्ति । व्यवहितं तदन्तरित-मिति विवेकः । अतस्तव योगित्वान्नाविदितं किञ्चिदित्युदञ्चय मां प्रति तां कथामिति तात्पर्यं राज्ञो ज्ञेयम् ॥ २१ ॥

श्रीशुक उवाच—

यद्यप्यनुस्मरन् वैरं रुग्मी कृष्णावमानितः ।

व्यतरद् भागिनेयाय सुतां कुर्वन् स्वसुः प्रियम् ॥ २२ ॥

पदरत्नावली

अर्धाङ्गीकारेण परिहरति– यद्यपीति ॥ व्यतरद् दत्तवान् । भागिनेयाय सहोदर्याः पुत्रायेति सूचितं प्रियं स्पष्टम् आचष्टे– कुर्वन्निति ॥ इदं दाने कारणम् ॥ २२ ॥

सत्यधर्मीया

कृष्णावमानित इति यद्यप्यनुस्मरंस्तथाऽपि स्वसुः रुग्मिण्याः प्रियं कुर्वन् भागिनेयाय तत्पुत्राय प्रद्युम्नाय सुतां व्यतरत् । विशिष्य भागिनेयायेत्युक्तप्रपञ्चनमेव स्वसुः प्रियं कुर्वन्नित्यनेन कृतमित्यनेके । स्वसुः प्रियं कुर्वन्नित्येवोक्तौ न वरो वरणीयगुण इति तद्दाक्षिण्यमात्रं दाननिदानमिति स्यादित्यत उक्तम् भागिनेयायेति ॥ भाजि ‘‘कन्या देया तस्मै वैतस्मा इत्यालोचने’’ इनः श्रेष्ठ इति इयः भागिनेयस्तस्मै । गुणाभावश्छान्दसः । सर्वोर्वीशपुत्रापेक्षया श्रेष्ठतामतिविषयाय । सोऽपि योग्य इत्यर्थः । परेयं प्रियमित्युक्तेः स्वसुः प्राणमात्रावशिष्ट इति सु असवो यस्य सोऽपि योग्य इत्यर्थः । परेयं प्रियमावर्त्य परेयं स्वव्यतिरिक्तसर्वविषयं प्रियं कुर्वन् भागिनेयाय सुतां व्यतरदिति वा ॥ २२ ॥

तदेवानुस्मरन् वैरं रुग्मी कृष्णावमानितः ।

तोषयामास तपसा श्रीशैलनिलयं हरम् ॥ २३ ॥

पदरत्नावली

ननु ततः परं वैरं मुक्तवान् किम्? न । ततोऽधिकोऽभूत् । कथम्? अत्राह– तदेवेति ॥ श्रीशैलनिलयं श्रीपर्वतवासिनं मल्लिकार्जुननामानमित्यर्थः ॥ २३ ॥

सत्यधर्मीया

प्राय आयोधनपराभवस्मरणं विहाय विवाहानन्तरमनन्तविद्वेषं त्यक्तवान् भवेदित्यतः स्वभावस्यानपायात्तत उत्तरमपि ‘‘मल्लिकार्जुनं यदुवरवरप्रदम्’ इत्यपप्रथातः स्वेर्ष्याफललब्ध्यै तपसाऽतोषयदित्याह ॥ तदेवेति ॥ २३ ॥

तपसाऽऽराधितो रुद्रो रुग्मिणा वरदर्षभः ।

वरेण च्छन्दयामास स च वव्रे दृढं धनुः ॥ २४ ॥

पदरत्नावली

च्छन्दयामास अभीष्टं दत्तवान् । ‘वशाभिप्राययोश्छन्दः’ इति ॥ २४ ॥

सत्यधर्मीया

वरेण च्छन्दयामास वरं वरयेति स्वाभिप्रायमाविष्कृतवान् । स च रुग्म्यपि दृढं वव्रे । सति शलादौ धनुर्वरणं च किमर्थमिति चेन्न । शार्ङ्गकस्य पिनाकस्य चैकदोत्पत्तेर् हर एकं हरिरेकं जगृहतुः । हरिशरासनपराजये जाते स हरशरासनांशेन धनुषा जयी स्यामिति दुराशात इति ज्ञेयम् ॥ २४ ॥

अजेयं शत्रुसङ्घानामभेद्यं त्रिदशैरपि ।

तथेति कार्मुकं दत्त्वा वाक्यं चोवाच शङ्करः ॥ २५ ॥

पदरत्नावली

शत्रुसङ्घानाम्, मनसेति शेषः । अजेयत्वाच्छेद्यत्वे तथा स्तामित्युक्त्वा । तस्य कृष्णभक्तिं दर्शयितुं वक्ति– वाक्यं चेति ॥ २५ ॥

सत्यधर्मीया

शत्रुसङ्घानामजेयमप्राप्यं धर्तुमशक्यमिति यावत् । त्रिदशैरप्यच्छेद्यम् । तथेति ‘‘स्यातामजेयत्वाच्छेद्यत्वे’’ इत्युक्त्वा कार्मुकं दत्वा शङ्कर इदं चोवाच ॥ २५ ॥

यदा विरुद्ध्यसे विष्णौ तदेतत् कार्मुकं नृप ।

हित्वा तदा त्वा मामेव प्रतिपत्स्यति नान्यथा ॥ २६ ॥

इत्युक्त्वा कार्मुकं दत्त्वा शङ्करो न व्यदृश्यत ।

सोऽपि लब्धवरो राजा प्राप्य भोजकटं पुरम् ॥ २७ ॥

सत्यधर्मीया

यदा विष्णौ तद्विषये विरुद्ध्यसे विरोधं करोषि तदेतत्कार्मुकं त्वां हित्वा मामेव प्रतिपत्स्यति । अन्यथा नेत्युक्त्वा कार्मुकं दत्वा । पुनः कार्मुकं दत्वेत्यनेन स्वामिन्महादेव यदर्थमियानायासः सम्पादितस्तन्नोपपादितमिति वक्तुमवसरमददानो न व्यदृश्यत अदृश्योऽभूदिति द्योतयति । सोऽपि । अपिना पिनाकिना कृष्णहनने ईप्सिते न वरवितरणमिति वरग्रहणं सूचितमिति ज्ञेयम् ॥ २६२७ ॥

तेन चापेन सकलान् नृपान् प्रख्यातपौरुषान् ।

वशीचकार सङ्ग्रामे रुग्मी कृष्णमृते नृप ॥ २८ ॥

सत्यधर्मीया

कृष्णमृते विना ॥ २८ ॥

विरोद्धुं वासुदेवेन रुग्मी नैवाकरोन्मनः ।

धनुर्लोभान्महाराज न मैत्रीमप्यकल्मषाम् ॥ २९ ॥

पदरत्नावली

तर्हि बन्धुमैत्रीं निर्दुष्टात्माऽकार्षीत् किम्? नेत्याह– मैत्रीमिति ॥ अपि तु बन्धुकृत्याकरणेन कल्मषामकरोत् ॥ २९ ॥

सत्यधर्मीया

अपि इति डोलायमानमानसः सोऽभूदित्याह ॥ विरोद्धुमिति । तत्र तन्त्रं धनुलर्ोेभस्तद्गार्ध्यम् । अकल्मषामतिशुद्धां मैत्रीं नैवाकरोत् । तक्रपूर्तिरामायणं, कियती कण्डूतिस्तावत्कण्डूयनमिति नीत्योपर्युपरि सम्बन्धिव्यवहृतिपूर्तिव्यवहारादिमात्रमकरोदित्यकल्मषां नेत्यनेन ध्वन्यते ॥ २९ ॥

यद्यप्यनुस्मरन् वैरं गिरिशस्य स्मरन् वचः ।

वृतः स्वयंवरे साक्षादनङ्गोऽङ्गयुतस्तया ॥ ३० ॥

पदरत्नावली

मैत्र्यकरणे विरोधाकरणे च निमित्तमाह– यदीति ॥ अनङ्गश्चेत् किमव-लोक्य वृत इत्यत उक्तम्– अङ्गयुत इति ॥ ३० ॥

सत्यधर्मीया

गिरिशस्य वचो ‘‘मामेव प्रतिपत्स्यति’’ इति वैरं चानुस्मरन्न मैत्रीम-कल्मषां चाकरोदित्यतीतेनान्वयः । तद्वितरणपूर्वरङ्गमुपपादयति ॥ वृत इति । अनङ्गः प्राक् अङ्गयुत इदानीं स्वयंवरे साक्षात् तया रुक्मवत्या वृतः ॥ ३० ॥

राज्ञः समेतान् निर्जित्य जहारैकरथो युधि ।

अनिरुद्धो रुग्मवत्यां तस्यां जज्ञे महारथः ॥ ३१ ॥

सत्यधर्मीया

समेतान् राज्ञो युधि निर्जित्य एकरथो निस्सहायो जहार सः ॥३१॥

जहार यं चित्रलेखा बाणपुत्र्या प्रचोदिता ।

सहस्रबाहुर्बाणश्च यत्कृते द्विभुजोऽभवत् ॥ ३२ ॥

पदरत्नावली

यमनिरुद्धम् ॥ ३२ ॥

सत्यधर्मीया

यत्कृतेऽनिरुद्धनिमित्तम् । सहस्रबाहुर्बाणो द्विभुजोऽभवत् । एतद्विस्तरस्तु स्वावसरे वक्ष्यते ॥ ३२ ॥

रुग्मिण्यास्तनयां राजन् कृतवर्मसुतो बली ।

उपयेमे विशालाक्षः कन्यां चारुमतीं किल ॥ ३३ ॥

पदरत्नावली

कृतवर्मणः सुतः पुत्रः ॥ ३३ ॥

सत्यधर्मीया

विशालाक्षो नाम्ना । कृतवमर्णः पुत्रः ॥ ३३ ॥

दौहित्रायानिरुद्धाय पौत्रीं रुग्म्यददाद् हरेः ।

रोचनां बद्धवैरोऽपि स्वसुः प्रियचिकीर्षया ॥ ३४ ॥

पदरत्नावली

रुक्मी स्वदौहित्राय हरेः पौत्रायानिरुद्धायेति शेषः, स्वपौत्रीमदात्

॥ ३४ ॥

सत्यधर्मीया

दौहित्राय स्वपुत्रीपुत्राय । पौत्रीं पुत्रपुत्रीम् । हरेर्हरिणा बद्धवैरोऽपि । स्वसुः प्रियचिकीर्षया रोचनां नाम्ना कान्तिमतीं वा । ‘रोचना रुचिरस्त्रियाम्’ इति विश्वः

॥ ३४ ॥

जानन्नधर्मं तद्योगं१ स्नेहपाशानुबन्धनः ।

तस्मिन्नभ्युदये राजन् रुग्मिणी रामकेशवौ ॥ ३५ ॥

पदरत्नावली

तस्मिन्नभ्युदये अनिरुद्धविषये विवाहे प्रवृत्ते सति ॥ ३५ ॥

सत्यधर्मीया

तद्योगं श्रीकृष्णानुबन्धमधर्मम् । ‘द्विषदन्नं न भोक्तव्यं द्विषन्तं नैव भोजयेत् । अस्वर्ग्यं लोकविद्विष्टं धर्ममप्याचरेन्न तु ॥’ इत्यादेः । तद्यौनमिति पाठे योनेरिदं यौनं योनि-सम्बन्धमित्यर्थः । जानन्नपि स्नेहपाशानुबन्धनः सन्नददात् । तस्मिन्नभ्युदये विवाहमहे ॥३५॥

पुरं भोजकटं जग्मुः साम्बप्रद्युम्नकादयः ।

तस्मिन् प्रवृत्त उद्वाहे कलिङ्गप्रमुखा नृपाः ॥ ३६ ॥

दृप्तास्ते रुग्मिणं प्रोचुर्बलमक्षैर्विनिर्जय ।

अनक्षज्ञो बलो राजन्नपि तद्व्यसनी महान् ॥ ३७ ॥

पदरत्नावली

बलं बलभद्रम् । तद्व्यसनी द्यूतक्रियापरः ॥ ३७ ॥

सत्यधर्मीया

भोजकटं पुरं साम्बप्रद्युम्नकादयो रुग्मिणी रामकेशवौ चेति जग्मुः । तस्मिन्नुद्वाहे प्रवृत्ते कलिङ्गप्रमुखा नृपा दृप्तास्ते रुग्मिणं, बलमक्षैः पाशैर्विनिर्जय पराजयं कुर्विति प्रोचुः । बलः स्वयमनक्षज्ञो दुरोदरस्थापनाचतुरो न हि लेखनं कलयेदित्यत आहुः । अपि तथाऽपि तव्द्यसनी तस्य तस्मिन्वा व्यसनमस्तीति स तथा तत्पर इति । महानिति प्रकरण-विशेषतो धर्मिविशेषणत्वे न सरसमिति व्यसनविशेषणम् । ततश्च महाव्यसनवानिति पर्यवस्यति

॥ ३६,३७ ॥

इत्युक्तो बलमाहूय तेनाक्षै रुग्म्यदीव्यत ।

शतं सहस्रमयुतं रामस्तत्रादधे२ ३पणम् ॥ ३८ ॥

पदरत्नावली

पराजये पणं ग्लहम् ॥ ३८ ॥

सत्यधर्मीया

इत्युक्तः कलिङ्गादिभिः । बलमाहूय तेनाक्षैरदीव्यत चिक्रीड । तत्र राम आदौ शतमिति क्रमेणायुतं पणं ग्लहमादधे न्यधत्त ॥ ३८ ॥

तं तु रुग्म्यजयत् तत्र कलिङ्गः प्राहसद्बलम् ।

दन्तान् सन्दर्शयन्नुच्चैर्नामृष्यत् तद् हलायुधः ॥ ३९ ॥

पदरत्नावली

कलिङ्गो दन्तवक्रस् त्वां जितवान् तानशिक्षत अग्रे इति भावः ॥३९॥

सत्यधर्मीया

तं पणं रुग्म्यजयज्जितवान् । तत्र बलं कलिङ्गोऽहसज्जहास । न तद्धसनं मन्दमित्याह ॥ दन्तान् सन्दर्शयन्नुच्चैरिति । तद्धलायुधो नामृष्यन्न सेहे । दुर्बलकोपो दंष्ट्रलयमूल इतिवन्नेत्याह ॥ हलायुध इति ॥ ३९ ॥

ततो लक्षं रुग्म्यगृह्णाद् ग्लहं तदजयद् बलः ।

जितवानहमित्याह रुग्मी कैतवमाश्रितः ॥ ४० ॥

सत्यधर्मीया

ततस्तदनन्तरम् । रुग्मी लक्षं ग्लहमगृह्णात्तद् लक्ष्यं बलोऽजयज्जिगाय । कैतवं कापट्यमाश्रितो रुग्म्यहं जितवानित्याह ॥ ४० ॥

मन्युना क्षुभितः श्रीमान् समुद्र इव पर्वणि ।

जात्याऽरुणाक्षो१ऽतिरुषा न्यर्बुदं ग्लहमाददे ॥ ४१ ॥

पदरत्नावली

न्यर्बुदं दशकोटिधनम् ॥ ४१ ॥

सत्यधर्मीया

श्रीमानित्यदारिद्य्रं बोध्यते । समुद्रः पर्वणीव मन्युना कोपेन क्षुभितः सञ्चलितस्तथा जाते अरुणे अक्षिणी यस्य सोऽतिरुषा रुषमतिक्रान्तमित्यतिरुट् तेन मनसा । न्यर्बुदं शतकोटिधनं ग्लहमाददे ॥ ४१ ॥

तं चापि जितवान् रामो धर्मेण च्छलतोऽब्रवीत् ।

रुग्मी जितं मयाऽत्रेमे वदन्तु प्राश्निका इति ॥ ४२ ॥

सत्यधर्मीया

धर्मेण । शिल्पमस्येत्यर्थे तदस्य शिल्पमिति ठकि तस्येकादेशे आदिवृद्धौ यस्येति चेत्यकारलोपे प्राश्निकेति भवति । प्रश्नकरणरूपशिल्पवन्तः सभ्या इति यावत् । वदन्त्वित्यब्रवीत् ॥ ४२ ॥

तथेत्याह कलिङ्गोऽपि दन्तान् सन्दर्श्य सीरिणः ।

ततः कोपपरीतात्मा तूष्णीमासीद् हलायुधः ॥ ४३ ॥

सत्यधर्मीया

कलिङ्गो दन्तवक्त्रः । सीरिणो हलिनो, दन्तान्सन्दर्श्य दर्शयित्वा तथा रुग्मी जित इत्याह । ततस्तदुक्त्यनन्तरं कोपपरीतात्मा हलायुधस्तूष्णीमासीत् ॥ ४३ ॥

तदाऽब्रवीन्नभोवाणी बलेनैव जितो ग्लहः ।

धर्मतो वचनेनैव रुग्मी वदति वै मृषा ॥ ४४ ॥

पदरत्नावली

आकाशसरस्वती किमाहेति तत्राह– बलेनेति ॥ ४४ ॥

सत्यधर्मीया — तदा बले तूष्णीके तत्काले । नभोवाणी अशरीरिणी वाक् तद्देवता । प्राश्निका वदन्त्विति वदन्नशरीरिणीं वाणीमपि विवक्षित्वोच इति च प्राश्निकपदप्रयोगतो ज्ञायते । उपसर्गाणां धातुलीनार्थबोधकत्वपक्षे प्राश्निका एव विप्राश्निका भवति । विप्राश्निका त्वीक्षणिका दैवज्ञेत्यमरात् । सा चात्र दैवीत्यब्रवीत् । किमित्यत आह । बलेनैव धर्मतो ग्लहो न्यर्बुदात्मा जितः । वञ्चनेन रुग्मी मृषा वदति । वा एवेति अवचनेनैवेति तूष्णीमित्येतदर्थकम् । तूष्णीं वदतीत्यर्थः । तथा ह्यपभ्रष्टभाषया किंवदन्ती ‘सुम्मगे अन्ताने अदु अबद्ध’ इति । वचनेन कलिङ्गादिवचनानुसारेणेत्यर्थः ॥ ४४ ॥

तामनादृत्य वैदर्भो दुष्टराजन्यचोदितः ।

सङ्कर्षणं परिहसन् बभाषे कालचोदितः ॥ ४५ ॥

पदरत्नावली

तामाकाशवाणीम् ॥ ४५ ॥

सत्यधर्मीया

तामशरीरिणीमनादृत्य । को वैतत्कुलीन एकान्ते निलीनो वक्तीति वाग्देव्यपि मृषा वदतीति वाऽनादरो ज्ञेयः । दुष्टराजन्यचोदितो बहिः, कालचोदितोऽन्तः सङ्कर्षणं परिहसन् वैदर्भो बभाषे ॥ ४५ ॥

नैवाक्षकोविदा यूयं गोपाला वनगोचराः ।

अक्षैर्दीव्यन्ति राजानो बाणैश्च न भवादृशाः ॥ ४६ ॥

सत्यधर्मीया

वनगोचरा वनगोपाला यूयमक्षकोविदाः कुशला नैव । तर्हि केषां तत्र कौशल्यमित्यतः प्रस्तुतेन सहाप्रस्तुतं स्वजीवनग्लहग्रहणहेतुमप्याह । राजानोऽक्षैर्दीव्यन्ति क्रीडन्ति तथा बाणैश्च दीव्यन्ति । भवादृशास्तु न दीव्यन्तीति भाव इत्यन्वयः ॥ ४६ ॥

रुग्मिणैवमधिक्षिप्तो राजभिश्चोपहासितः ।

क्रुद्धस्त्वष्टापदेनैनं१ जघानोद्वाहपर्वणि ॥ ४७ ॥

पदरत्नावली

अष्टपदेनाक्षफलकेन ॥ ४७ ॥

सत्यधर्मीया

रुग्मिणैवमधिक्षिप्तो धिक्कृतो राजभिरितरैरुपहासितश्च । अष्टापदेन येन जयेऽप्यविजय उद्भावितस्तेन तेनैवाक्षफलकेन । ‘अष्टापदं स्यात्कनके सारिणां फलकेऽपि च’ इति विश्वः । उद्वाहपर्वणि जघानाहत् । परिघमुद्यम्येत्यपपाठः । ‘जघानाष्टापदेनैव प्रगृह्य यदुपुङ्गव’ इति हरिवंशेऽप्युक्तेः ॥ ४७ ॥

कलिङ्गराजं तरसा गृहीत्वा दशमे पदे ।

दन्तानपातयत् क्रुद्धो योऽहसद् विवृतैर्द्विजैः ॥ ४८ ॥

सत्यधर्मीया

यो विवृतैर्द्विजैर्दन्तैरहसत्तं कलिङ्गराजं दशमे पदे तत्सङ्ख्ये पादविन्यासे गृहीत्वा । अनेन तत्पलायनं ध्वनयति ॥ ४८ ॥

अन्ये निर्भिन्नबाहोरुशिरसो रुधिरोक्षिताः ।

राजानो दुद्रुवुर्भीता बलेन परमार्दिताः२ ॥ ४९ ॥

सत्यधर्मीया

अन्ये ये उपाहसुस्ते राजानो निर्भिन्नबाहोरुशिरसः । बाहाशब्दोऽयम् । रुधिरेण रक्तेनोक्षिताः सिक्ताः । बलेन परमं यथाऽऽर्दितास्तस्माद्भीता दुद्रुवुः ॥ ४९ ॥

निहते रुग्मिणि श्याले नाब्रवीत् साध्वसाधु वा ।

रुग्मिणीबलयो राजन् स्नेहभङ्गभयाद् हरिः ॥ ५० ॥

तात्पर्यम्

न स्नेहभङ्गो देव्यास्तु न भयं केशवस्य तु । स्नेहभीत इवाथाऽपि नोचे रुग्मिवधे हरिः ॥ इति ब्रह्माण्डे ॥ ५० ॥

पदरत्नावली

हरेः श्याले रुक्मिणि निहते सति ॥ ५० ॥

सत्यधर्मीया

निहते रुग्मिणि श्याल इति श्लोके देवस्य देव्या वा प्रीतिभक्तिभङ्ग-भीतिः प्रतीयते । नोभयोः सम्भवति सा निर्दोषत्वादित्यतो ब्रह्माण्डवचनेन तत्तात्पर्यमाह ॥ नेति । देव्या रुग्मिण्याः स्नेहभङ्गो न केशवस्य तु देवस्यापि न भयं तद्भङ्गाद्भावि नेति शेषः । तर्हि कथमिदं नटनं घटत इत्यत आह । तथाऽपि लोके । यथा स्नेहभीतो भार्या-स्नेहाद्भज्यमानाद्भीतो भवति तथा रुग्मिवधे बलकलिते किञ्चिदपि हरिर्नोचे । तुशब्दो द्वावेतौ नित्यमुक्तावित्यादिसिद्धनित्यमुक्तत्वादिविशेषार्थकः ॥

ततश्चायं श्लोकार्थः ॥ श्याले भार्याभ्रातरि । ‘श्यालास्तु भ्रातरः पत्न्या’ इत्यमरः । रुग्मिणि निहते स्नेहभङ्गभयात्तद्रक्षणार्थमिति यावत् । रुग्मिणीबलयोर्विषये साधु सम्यग् असाधु असम्यगिति हरिर्नाब्रवीत् । अभावज्ञानं प्रतियोगिज्ञानाधीनमिति यथाक्रममुक्तम् । तथा चेद्बलरुग्मिण्योरिति वक्तव्यं स्यात् । ततश्च क्रमेऽनुसरणीये नैवं निर्देशः सम्भवतीति चेन्न । एवं निर्दिशन्भगवच्चित्तवेदित्र्या देव्या अपि नानुबन्धोऽयं प्रयोजकोऽपि तु असद्धननं सम्यगेवेत्यान्तरङ्गिकं भावमावेदयामास व्यास इत्यवसेयम् । अभ्यर्हितत्वाच्च असाधुता-प्रतीतिस्त्वितरासुरविवक्षयेति मन्तव्यम् । स्नेहभङ्गभयादिति वेति । यदा तु स्नेहभङ्गभीतिरेव विवक्ष्यते तदा साध्वित्युक्तौ रुग्मिण्या असाध्वित्युक्तौ बलस्य स्नेहभङ्ग इति यथाक्रममर्थो ज्ञेयः ॥ ५० ॥

अथानिरुद्धं सह भार्यया वरं रथं समारोप्य ययुः कुशस्थलीम् ।

रामादयो भोजकटाद् दशार्हकाः सिद्धाखिलार्था मधुसूदनाश्रयाः ॥ ५१ ॥

॥ इति श्रीमद्भागवते दशमस्कन्धे षट्सप्ततितमोऽध्यायः ॥

पदरत्नावली

भार्यया सहानिरुद्धं वरं रथमारोप्य । रामादयो दशार्हकाः । सिद्धाखिलार्था सम्पन्नसमस्ताभीष्टाः । तत्र हेतुः– मधुसूदनेति ॥ ५१ ॥

॥ इति श्रीमद्भागवतटीकायां विजयध्वजतीर्थकृतायां पदरत्नावल्यां

दशमस्कन्धे उत्तरार्धे षट्सप्ततितमोऽध्यायः ॥

सत्यधर्मीया

ततोऽनिरुद्धमिति वाऽथानिरुद्धमिति वा पाठौ । अथोऽनिरुद्ध इत्यसरलः । ओदिति प्रगृह्यसञ्ज्ञायां प्लुतप्रगृह्या अचि नित्यमिति प्रकृतिभावे अथो अनिरुद्धेति भाव्यत्वात् । भार्यया रोचनया सह रथं समारोप्य भोजकटाद्रुग्मिपुराद्रामादयो दशाह•ः । सिद्धा अखिला अर्था येषां ते तथा । तत्र हेतुर् मधुसूदनाश्रया इति ॥ कुशस्थलीं ययुः ॥ पुस्तकान्तरे तु । ततो रुग्मिहननानन्तरं सूर्यया नार्या । सूर्यार्कपर्णे तपने स्त्री तु नार्योषधीषु चेति भानुः । सूर्यायाः पश्य रूपाणीति रुच्युक्तेः । नवोढया सह वरमनिरुद्धं रथं समारोप्य भोजकटाद्रुग्मिणा स्ववासार्थं निर्मितान्निर्गत्य । मधुसूदनाश्रया इति सिद्धार्थाः । दाशार्हका यादवविशेषास्तदाद्या रामादयः कुशस्थलीं द्वारकां ययुः ॥ ५१ ॥

॥ इति श्रीसत्यधर्मयतिकृतायां भागवतटिप्पण्यां दशमस्कन्ध उत्तरार्धे षट्सप्ततितमोऽध्यायः ॥ १०–७६ ॥