सर्वासां महिषीणां तु गोविन्दासक्तचेतसा
श्रीमद्बादरायणप्रणीतम्
श्रीमद्भागवतम्
दशमस्कन्धउत्तरार्धे
॥ अथ पञ्चसप्ततितमोऽध्यायः ॥
राजोवाच—
सर्वासां महिषीणां तु गोविन्दासक्तचेतसाम् ।
मय्येव प्रेमवान् विष्णुरिति निश्चितचेतसाम् ॥ १ ॥
पदरत्नावली
प्रेक्षावतां भगवत्तत्वविज्ञानेऽधिकार इति लक्षणवृत्त्या तन्माहात्म्यं कथयत्यस्मिन्नध्याये । तत्र श्रुतभगवन्माहात्म्यो राजा विशेषविवित्सया शुकं पृच्छति– सर्वासामिति ॥ किमत्र संशयबीजमित्यत उक्तम्– गोविन्देत्यनेन ॥ १ ॥
सत्यधर्मीया
भगवत्प्रवृत्तिः सर्वाऽपि श्रुता मुक्तिकरीति राजाऽनेकासु कामिनीषु कथमवर्तत भगवानिति कुतुकतः शुकं पृच्छति ॥ सर्वासामिति । तुना तत्र तरतमभावं सूचयति । तद्बुद्धिं बोधयति ॥ मय्येवेति । इत्येवं निश्चितमसन्दिग्धं चेतो यासां तास्तासाम् ॥ १ ॥
समः सर्वासु वा कृष्ण एकस्यां प्रेमवानुत ।
तन्मेऽनुशंस१ तच्छ्रोतुं रतिरस्ति मम प्रभो ॥ २ ॥
पदरत्नावली
सर्वासु प्रेमवान् मय्येव प्रेमवान् इत्युक्तममुना ॥ २ ॥
सत्यधर्मीया
सर्वासु सम उतैकस्यां कस्याञ्चित् । श्रोतुं रतिरस्तीति मम शंस । प्रभो विदितैतन्मर्मन् ॥ २ ॥
श्रीशुक उवाच—
महिषीणां तु सर्वासां प्रथमा भीष्मनन्दना ।
प्रेमवानधिकं तस्यामिति प्रख्यातिरूर्जिता ॥ ३ ॥
पदरत्नावली
एकस्यामिति प्रतीयत इति प्रश्नावकाशो नास्तीति भावेन परिहरति– महिषीणामिति ॥ ३ ॥
सत्यधर्मीया
सर्वासां महिषीणां मध्ये प्रथमा पूर्वं परिणता । तस्यामधिकं यथा तथा प्रेमवान् कृष्ण इति ऊर्जिता दिग्वितानप्रख्यातिः प्रसिद्धिरस्ति ॥ ३ ॥
कदाचित् प्रेमकलहः केशवेन तया समम् ।
कृतस्तच्छृणु कौरव्य कार्त्स्न्येन कथयामि ते ॥ ४ ॥
पदरत्नावली
कथं प्रख्यातिरिति तां वक्तुमपक्रमते– कदाचिदिति ॥ तच्चरितम्
॥ ४ ॥
सत्यधर्मीया
यदर्थं साक्षाल्लक्ष्मीरूपिण्योरपि प्रेमतरतमभावो रुग्मिणीसत्यभामारूपयो-र्निरूपितस्तां कथां कथयितुं प्रतिज्ञां विधत्ते ॥ कदाचिदिति । तया रुग्मिण्या समं प्रेम-कलहो लोकमनुकुर्वता कृतः । तं कार्त्स्न्येन, ते त्वां प्रति कथयामि । कौरव्य तच्छृणु । केशवे भगवद्विषये कार्त्स्न्येन कथयेति न वद । कुतः । अमितेऽप्रमेये तथा कथनं न समं वक्तुं न मम शक्तिरस्ति योग्यं नेत्यपि ज्ञेयोऽन्वयः ॥ ४ ॥
कर्हिचित् सुखमासीनं स्वतल्पस्थं जगद्गुरुम् ।
पतिं पर्यचरद् भैष्मी व्यजनेन सखीजनैः ॥ ५ ॥
पदरत्नावली
स्वस्या रुग्मिण्यास्तल्पे तलिमे स्थितम् ॥ ५ ॥
सत्यधर्मीया
कर्हिचित् सुखं यथा तथाऽऽसीनं स्वतल्पस्थं स्वशय्यास्थितं जगद्गुरुं पतिं भैष्मी सखीजनैः सह व्यजनेन चामरादिना पर्यचरत् सिषेवे ॥ ५ ॥
य एतल्लीलया विश्वं सृजत्यत्त्यवतीश्वरः ।
स हि जातः स्वसेतूनां गोपीथाय यदुष्वजः ॥ ६ ॥
पदरत्नावली
राजन् हरिचरितमतिविचित्रमिति भावेन तत्स्वरूपलक्षणमाह– य इति
॥ ६ ॥
सत्यधर्मीया
परवशः शुकस्तल्लक्षणमाह ॥ य इति । एतज्जगल्लीलया विश्वं सृजत्यवत्यत्ति स हि स एव स्वसेतूनां गोपीथायागतं रक्षणार्थं स्वयमजोऽपि यदुषु जातः ॥ ६ ॥
तस्मिन्नन्तर्गृहे भ्राजन्मुक्तादामविलम्बिना ।
विराजिते वितानेन दीपैर्मणिमयैरपि ॥ ७ ॥
पदरत्नावली
यद् गृहं रुग्मिण्यै क्लृप्तं तस्मिन्नन्तर्गृहे पर्यङ्के दन्तविहितमञ्चे कशिपूत्तमे तलिमे मृदुवस्त्रप्रावरणास्तरणे सुखासीनं पतिमुपतस्थ इत्यन्वयः । मुक्तादाम्नां विलम्बोऽस्यास्तीति मुक्तादामविलम्बि तेन उपरिबद्धचित्रपटेनेत्यर्थः ॥ ७ ॥
सत्यधर्मीया
भ्राजान्ति यानि मुक्तादामानि विलम्बीनि यस्मिंस्तेन वितानेनोल्लोचनेन विराजितेऽन्तर्गृहे रुग्मिण्या मणिमयैर्दीपैर्विराजिते ॥ ७ ॥
मल्लिकादामभिर्दिव्यैर्द्विरेफकुलनादितैः ।
जालरन्ध्रप्रविष्टैश्च गोभिश्चन्द्रमसोऽरुणैः१ ॥ ८ ॥
पदरत्नावली
अरुणैरित्यनेन चन्द्रोदयकालभवा गावो लक्ष्यन्ते ॥ ८ ॥
सत्यधर्मीया
द्विरेफा भ्रमराः । चन्द्रमसोऽरुणैर्जालानां गवाक्षाणां रन्ध्रैः प्रविष्टैर्गोभिः करैः । आरुण्येन तारुण्यं चन्द्रस्य द्योत्यते । अमलैरिति पाठो निर्मलः । अरुणकिरणवत् कालस्यातरुणीरमणकालत्वात् स्वतल्पस्थमित्यानुकूल्याच्च विराजित इत्यनेनान्वयः ॥ ८ ॥
पारिजातवनामोदवायुनोद्यानशालिना ।
धूपैरागरवै राजन् जालरन्ध्रविनिर्गतैः ॥ ९ ॥
पदरत्नावली
पारिजातानां मन्दाराणां वनस्य काननस्यामोदेन युक्तेन वायुना शोभिते । कीदृशेन? उद्यान इव शालिना मनोहरेण । पारिजातवनस्य सम्भजनीयस्य सेव्यस्यामोदस्य सम्बन्धिना वायुना वा । आगरवैरगुरुसम्पृक्तैः ॥ ९ ॥
सत्यधर्मीया
पारिजातवनानामामोदस्तेन युक्तो वायुस्तेनोद्यानेनोर्ध्वगमनेन शालत इति तेन शोभिते । आगरवैरगुरुभवैर्धूपैर्जालरन्ध्रविनिर्गतैः शोभिते ॥ ९ ॥
पयःफेननिभे शुभ्रे पर्यङ्के कशिपूत्तमे ।
उपतस्थे सुखासीनं जगतामीश्वरं पतिम् ॥ १० ॥
पदरत्नावली
पयःफेननिभे जलबुद्बुदवन्मसृणे ॥ १० ॥
सत्यधर्मीया
पयःफेननिभे क्षीरोपरिगफेनसदृशे पर्यङ्के शुभ्रे दान्तिकत्वात् । पर्यङ्के सुखासीनं जगतामीश्वरं पतिं भर्तारमुपतस्थे ॥ १० ॥
बालव्यजनमादाय रत्नदण्डं सखीकरात् ।
तेन वीजयती देवी उपासाञ्चक्र ईश्वरम् ॥ ११ ॥
पदरत्नावली
किं कर्मेति तत्राह– बालव्यजनमिति ॥ ११ ॥
सत्यधर्मीया
सखीकराद्रत्नदण्डं बालव्यजनमादाय तेनेश्वरं वीजयती देव्युपासाञ्चक्रे
॥ ११ ॥
सोपाच्युतं क्वणयती मणिनूपुराभ्यां रेजेऽङ्गुलीयवलयव्यजनाग्रहस्ता ।
वस्त्रान्तगूढकुचकुङ्कुमशोणहारभासानितम्बधृतया च परार्घ्यकाञ्च्या ॥ १२ ॥
पदरत्नावली
उपाच्युतम् अच्युतस्य समीपे । उन्नमदवनमतोः पादयोर्मणिनूपुराभ्यां कणयन्ती । अङ्गुलीयाख्यवलयेन व्यजनेन च युक्तं हस्ताग्रं यस्याः सा तथा । पृथक्वृते वलये हस्तमूलेति वक्तव्यं न तु हस्ताग्रेति१ । वस्त्रान्तेन वस्त्राञ्चलेन गूढयोः कुचयोर् लिप्तकुङ्कुमचूर्ण-सम्बन्धेन शोणस्य रक्तस्य हारस्य मुक्तादाम्नो भासा युक्ता । लक्षणे तृतीया । नितम्बधृतया कटिप्रदेशवेष्टितया परार्घ्यकाञ्च्या अनर्घ्यरश(वस)नया च युक्ता ॥ १२ ॥
सत्यधर्मीया
अच्युतमुप मणिनूपुराभ्यां क्वणयती क्वणयन्ती । अङ्गुलीयवलयव्यजना-ग्रहस्ता अङ्गुलीयान्यूर्मिका वलयानि करभूषणानि व्यजनानि चाग्रं हस्ते हस्ताग्रे यस्याः सा । वस्त्रान्ते गूढौ यौ कुचौ तयोर्यत्कुङ्कुमं तेन शोणो हारो मुक्तामाला तस्य भासो यस्याः सा । भासशब्दोऽयम् । ‘भासो भासि स्वमाख्यात’ इति विश्वः । नितम्बधृतया परार्ध्याऽनर्ध्या काञ्ची तया विरेज इत्यन्वयः ॥ १२ ॥
तां रुग्मिणीं श्रियमनन्यगतिं निरीक्ष्य या लीलया धृततनोरनुरूपरूपा ।
प्रीतः स्मयन्नलककुण्डलनिष्ककण्ठवक्त्रोल्लसत्स्मितसुधां हरिराबभाषे ॥ १३ ॥
पदरत्नावली
हरिर् नीलनीरदकान्तिः श्रीकृष्णः या लीलया धृततनोर्भगवतो ऽनुरूपरूपा अनुकूलसौन्दर्या अनुगुणवृत्ता वा तां रुग्मिणीमाबभाषे इत्यन्वयः । निष्कं ग्रैवेयकम् अलककुण्डलाभ्यां निष्कालङ्कृतकण्ठेन च युक्तवक्त्रे उल्लसत् स्मितमेव सुधा यस्याः सा तथा ताम् ॥ १३ ॥
सत्यधर्मीया
श्रियं रमात्मिकाम् अनन्यः स्वयं गतिर्यस्याः सा ताम् । प्रधानवाचक-स्त्वेकश्चानन्यः केवलः स्वयमिति तृतीयतात्पर्योक्तेः । स्वेतरगतिशून्यं वा । लीलया धृता तनुुः स्वस्य तस्या अनुरूपं रूपं स्वभावचेष्टादि यस्याः सा । ‘यां यां परेश उरुधैव करोति लीलां तां तां करोत्यनु तथैव रमाऽपि देवी’ इत्युक्तेः । पाराशरोऽपि–
देवत्वे देवदेहोऽयं मनुष्यत्वे च मानुषी ।
विष्णोर्देहानुरूपां वै करोत्येषाऽऽत्मनस्तनुम् ॥ इति ।
या तां प्रीतः स्मयन् रहस्यप्रौढिं दर्शयन् । अलकाश्च कुण्डले च तैस्ताभ्यां सहितं, निष्कयुक्तः कण्ठश्च तत्सहितं च तद्वक्त्रं च तत्रोल्लसत्स्मितमेव सुधा यस्याः सा तां निरीक्ष्याबभाषे
॥ १३ ॥
श्रीभगवानुवाच—
राजपुत्रीप्सिता भूपैर्लोकपालविभूतिभिः ।
महानुभावैः श्रीमद्भि रूपौदार्यबलोर्जितैः ॥ १४ ॥
पदरत्नावली
ईप्सिता प्रार्थिता । श्रीमद्भिः श्रीकटाक्षविषयैः । हे राजपुत्रि ॥ १४ ॥
सत्यधर्मीया
लोकपालविभूतिभिर्लोकपालानां नाकपालादीनां विभूतयो येषां तैः । महानुभावः । ‘अनुभावः प्रभावे स्यात्’ इति विश्वः । प्रभावो येषां तैः श्रीमद्भिः सम्पद्भिः रूपौदार्यबलोर्जितै रूपं चौदार्यं च बलं च तैरूर्जितैरुत्कृष्टैर्भूपैः । हे राजपुत्रि त्वमीप्सिता
॥ १४ ॥
तान् प्राप्तानर्थिनो हित्वा चैद्यादीन् स्मरदुर्मदान् ।
दत्ता भ्रात्रा स्वपित्रा च कस्माद् देववृषोपमान् ॥ १५ ॥
पदरत्नावली
वरणे गुणानाह– प्राप्तानिति ॥ वाचा दत्ता । देववृषोपमान् देवश्रेष्ठ-समानान् ॥ १५ ॥
सत्यधर्मीया
तान् प्राप्तान् स्वतोऽर्थिनस्त्वदपेक्षावतः । स्मरदुर्मदान् । स्वपित्रा भीष्मकेण, भ्रात्रा रुग्मिणा च दत्ता । देववृषोपमान् देवश्रेष्ठसदृशांश्चैद्यादींस्तदाद्यान् हित्वा । ईप्सितेत्यनेनैव तेषामर्थिताऽर्थात्सिद्धा पुनः प्राप्तानर्थिन इति वदन्नुत्तरत्र सर्वस्य स्वोक्तस्य प्रायो मुख्यमर्थमभिदधत्या रुग्मिण्या प्राप्ताश्च तेऽनर्थिनोऽनर्थवत इति विवरीतुं विवरं विततारेति मन्तव्यम्
॥ १५ ॥
राजभ्यो बिभ्यतः सुभ्रु समुद्रं शरणं गतान् ।
बलवद्भिः कृतद्वेषान् प्रायस्त्यक्तनृपासनान् ॥ १६ ॥
पदरत्नावली
स्ववणाङ्गीकारे दोषानाह– राजभ्य इति ॥ अर्थीत्यादिगुणोपेतान् नृपान् हित्वा राजभ्य इत्यादिदोषयुक्तानस्मान् कस्मात् प्राप्तेत्यन्वयः ॥ १६ ॥
सत्यधर्मीया
यूयं कीदृशा इत्यतो सङ्ग्राह्यगुणका इति तान् गुणानस्यां स्वत्वेनाह । हे सुभ्रुः राजभ्यो बिभ्यतोऽत एव समुद्रं शरणं गतान् । बलवद्भिर्जरासुतादिभिः कृतद्वेषान् । प्रायस्त्यक्तं नृपासनं यदुशापतो यैस्तान् । कस्माद्धृतवती ॥ १६ ॥
अस्पष्टवर्त्मनां पुंसामलोकपथमीयुषाम् ।
आस्थिताः पदवीं सुभ्रु प्रायः सीदन्ति योषितः ॥ १७ ॥
पदरत्नावली
एवंविधपुरुषप्राप्तौ योषितां भयं भवतीत्याह– पुंसामिति ॥ अलोक-पथमीयुषां लोकविलक्षणमार्गवर्तिनां पुंसां पदवीमास्थिता योषित प्रायः सीदन्तीत्यन्वयः
॥ १७ ॥
सत्यधर्मीया
एतादृशो मृगदशः क्लिश्यन्तीत्याह ॥ अस्पष्टवर्त्मनामिति । अस्पष्टं वर्त्म चौर्यमार्गो येषां तेषाम् । लोकानां पन्था लोकपथो न लोकपथस्तं लोकविलक्षणं मार्गमीयुषां प्राप्तवतां, पदवीमास्थितास्तदनुयायिन्यो योषितः प्रायः सीदन्ति । एतादृशा वयं तादृशी त्वमिति तत्त्वम् ॥ १७ ॥
निष्किञ्चना वयं शश्वन्निष्किञ्चनजनप्रियाः ।
तस्मात् प्रायेण नो ह्याढ्या न भजन्ति सुमध्यमे ॥ १८ ॥
पदरत्नावली
अस्माद्दोषाच्च वयं न वरणीया इत्याह– निष्किञ्चना इति ॥ आढ्या राजकुमार्यः ॥ १८ ॥
सत्यधर्मीया
इतोऽपि न वरणीया इत्याह ॥ निष्किञ्चना इति । निर्गतं किञ्चनापि येषां त इति तथा । शश्वत्सदा न सहवासोऽपि श्रीमति श्रीमतामित्याह । शश्वन्निष्किञ्चन-जनाः प्रिया येषामिति ते तथा । यस्मात्तस्मात् । हे सुमध्यमे रुग्मिणि । सुमध्ये नास्तीति तत्सम्बुद्धिः सुमध्यम इति च । आढ्याः श्रीमन्तो नः प्रायेण न भजन्ति । न तु लक्ष्मीपतिं हरिम् । ‘यस्यानुग्रहमिच्छामि तस्य वित्तं हराम्यहम्’ इत्यादेः ॥ १८ ॥
ययोरात्मसमं वित्तं जन्मैश्वर्याकृतिर्भवः ।
तयोर्विवाहो मैत्री च नोत्तमाधमयोः क्वचित् ॥ १९ ॥
पदरत्नावली
अयं चैको हेतुर्लोके विवाहे इत्याह– ययोरिति ॥ ऐश्वर्याकृति-रैश्वर्ययुक्ताकारः । भवः सौन्दर्यम् ॥ १९ ॥
सत्यधर्मीया
भवतु भवान् यादृशो वाऽनुबन्धो जातः किमिति मतिमती वद । न नीतिरेवं लोक इत्याह ॥ ययोरिति । आत्मसममात्मनोः समं जन्म कुलं समम् । ऐश्वर्य-सहिताऽऽकृतिः समा । भवो मङ्गलं समस्तयोरेव विवाहो मैत्री च विहितो विहिता । उत्तमाधमयोः क्वचिदपि न शोभते । अतोऽहमवमस्त्वं महावंश्येति जातम्, अयुक्तमिति तात्पर्यम् ॥१९॥
वैदर्भ्येतदविज्ञाय त्वयाऽदीर्घसमीक्षया ।
वृता वयं गुणैर्हीना भिक्षुभिः श्लाघिता मुधा ॥ २० ॥
पदरत्नावली
एतद्गुणागुणसर्वस्वम् । अदीर्घसमीक्षया अल्पबुद्ध्या । मुधा वृथा ॥ २०॥
सत्यधर्मीया
हे वैदर्भि । एतद्विवाहोपयुक्तगुणशून्यत्वमविज्ञायादीर्घसमीक्षया जाल्मया गुणैर्हीना वयं वृताः । एतद्वित्तावृत्ता भ्रान्ताऽसीति कान्तामाह । भिक्षुभिरन्नार्थिभि-र्मुधा वृथा श्लाघिता इति ॥ २० ॥
अथात्मनोऽनुरूपं वै भजस्व क्षत्रियर्षभम् ।
येन त्वमाशिषः सत्या इहामुत्र च लप्स्यसे ॥ २१ ॥
सत्यधर्मीया
कोपेन छिन्ना नाशिका न हि शान्त्या प्ररोहेदितिवत्कृतस्य करणा-योगादितिवच्च न नूतनं किञ्चिदुदञ्चयितुमुचितमित्यतः शक्यमेवंकर्तुमित्याह ॥ अथेति । आत्मनोऽनुरूपमुक्तगुणैः समं योग्यं क्षत्रियर्षभं भजस्व । येनोढेनेहामुत्र च सत्या अर्थवती-राशिषोऽभिलाषान् लप्स्यसे प्राप्नोषि ॥ २१ ॥
चैद्यसाल्वजरासन्धदन्तवक्रादयो नृपाः ।
द्विषन्ति मां वरारोहे रुग्मी चापि तवाग्रजः ॥ २२ ॥
सत्यधर्मीया
हे वरारोहे । तवाग्रजो रुग्मी चापि मां द्वेष्टि ॥ २२ ॥
तेषां वीर्यमदान्धानां दृप्तानां स्मयनुत्तये ।
आनीताऽसि मया स्वद्धा१ तेजोऽपहरताऽसताम् ॥ २३ ॥
पदरत्नावली
स्मयनुत्तये अहङ्कारनिरासाय । असतां दुरात्मनाम् । तेजोऽपहरता अभिमानलक्षणप्रभावप्रणाशं कुर्वता मयाऽनीताऽसीत्यन्वयः ॥ २३ ॥
सत्यधर्मीया
इयन्निदर्शनमधुना तन्वतो नन्दनन्दन तदभिनन्दनं कुत इति न गदैतदर्थमानीताऽसि मानिनि मयेत्याह ॥ तेषामिति । वीर्यमदान्धानां दृप्तानां तेषां स्मयनुत्तयेऽनहङ्काराय स्वद्धाऽतिसम्यक् । असतां तेजोऽपहरता मयाऽऽनीताऽसि । भद्र इति पाठः सुभद्रः ॥ २३ ॥
उदासीना वयं नूनं न स्त्र्यपत्यार्थकामुकाः ।
आत्मलब्ध्याऽऽस्महे पूर्णा नेहात्मसदृशाः१ क्रियाः ॥ २४ ॥
पदरत्नावली
स्वभावं सूचयति– उदासीना इति ॥ उदासीना विषयव्यापारशून्याः खपुष्पादिवदप्रसिद्धा वा । न स्त्र्यपत्यार्थकामुकाः कलत्रपुत्रधनलोलुपा न । आत्मलब्ध्या स्वरूपलाभेन पूर्णा अलम्बुद्धय आस्महे । इह क्रियाश्च आत्मसदृशाः कर्माणि जीवकर्मतुल्यानि न भवन्ति । अतिमानुषाणीत्यर्थः ॥ २४ ॥
श्रीसत्याभिनवतीर्थविरचिता व्याख्या
दुर्घटभावदीपिका
नेहात्मसदृशाः क्रिया इत्यस्येहास्मिंस्त्वत्समीपे स्थिते मय्यात्मसदृशास्त्वत्सदृशाः क्रिया व्यापारा न सन्तीत्यर्थः । एतेनेहेत्येतद्व्यर्थमिति दूषणं निराकृतम् । समीपस्थस्य तव कथं परित्याग इत्याशङ्कापरिहारार्थं त्वं यतो मयि त्वत्सदृशाः क्रिया न सन्ति अतः समीपस्थित्वेऽपि मम त्याग युक्त इति वक्तुमिहेत्यनेन समीपस्थत्वमुच्यत इत्यूरीकरणात् ॥ २४ ॥
सत्यधर्मीया
सत्यस्मद्रीतिरियमित्याह ॥ उदासीना इति । नूनं वयमुदासीना यथा स्त्र्यपत्यार्थकामुका न । आत्मलब्ध्या स्वरूपलाभेनैव पूर्णा आस्महे । क्रियाश्चात्मसदृशा न ह्यस्माकमिति शेषः । क्रियाश्च निरन्तरं क्रियमाणा नद्धा ‘णह बन्धने’ इति धातोः कृदन्तरूपः नेहा इति । नेहा नद्धा इत्यर्थः । बन्धनीया ये आत्मानो जीवास्ते सदृशा योग्या यासां ताः क्रिया अस्माकमिति वा । प्रसिद्धं चोलूखलबन्धादिकमिति भाव इति वा । आत्मा सदृशा यासां ता इति विग्रहः । उपसर्जनतया न ङीप् । आर्षो वा । सदृश इति पाठे न कोऽपि दोषः ॥ २४ ॥
एतावदुक्त्वा भगवानात्मानं वल्लभामिव ।
मन्यमानामविश्लेषात् तद्दर्पघ्न उपारमत् ॥ २५ ॥
पदरत्नावली
अविश्लेषान्निरन्तरसाहित्येन स्थितेरात्मानं वल्लभामिव मन्यमानां प्रियतमाम्
॥ २५ ॥
सत्यधर्मीया
आत्मानं वल्लभामतिप्रियामिव मन्यमानामिवैवेति वा । तत्र हेतुरविश्लेषा-न्नित्यसम्बन्धादिति । एतावदुक्त्वा तद्दर्पघ्न उपारमत् । उपोपपादकत्वात् परस्मैपदता । लोकापेक्षया तद्दर्पघ्न इव सन्नुपारमत् समापयामास ॥ २५ ॥
इति त्रिलोकेशपतेस्तदात्मनः प्रियस्य देव्यश्रुतपूर्वमप्रियम् ।
आश्रुत्य भीता हृदि जातवेपथुश्चिन्तां दुरन्तां रुदती जगाम ह ॥ २६ ॥
पदरत्नावली
यदा हरिणैतादृशं दुःखकरं वचनमुक्त्वोपरतं तदा देवी आत्मनः प्रियस्य त्रिलोकेशपतेरश्रुतपूर्वमप्रियवचनमाश्रुत्य दुरन्तां चिन्तां जगाम । ‘प्रत्ययारम्भे प्रतिवचनोपक्रमे द्वौ’ इति वचनाद् इतिवचनोपक्रमभीता अत एव हृदि जातवेपथुर् उत्पन्नकम्पा । तल्लक्षणमाह– रुदतीति ॥ २६ ॥
सत्यधर्मीया
जगन्नाटकमनु जगन्नाटकीदमाटीकतेत्याह ॥ इतीति । त्रिलोकेशानां पतिस्तस्यात्मनः प्रियस्याश्रुतपूर्वं कदाऽप्यश्रुतमश्रुतपूर्वमिति वचनं स्वस्याप्रियं देवी आश्रुत्य भीता । हृदि जातवेपथुरुत्पन्नकम्पा रुदती चिन्तां दुरन्तां जगाम । तद्वै धनुरित्यादि-भागवततात्पर्यतोऽयमिवार्थस्तच्छब्दः । वस्तुतो न जगामेत्यर्थः । ह शोके ॥ २६ ॥
पदा सुजातेन नखारुणश्रिया भुवं लिखन्त्यश्रुभिरञ्जनासितैः ।
आसिञ्चती कुङ्कुमरूषितौ स्तनौ तस्थावधोमुख्यतिदुःखरुद्धवाक् ॥ २७ ॥
पदरत्नावली
एतदेव विवृणोति– पदेति ॥ रक्तनखप्रभया अरुणा श्रीर्यस्य स तथा तेन सुजातेन कोमलेन पदा भुवं लिखन्ती अञ्जनेनासितैः कृष्णैर् अश्रुभिः कुङ्कुमरूषितौ स्तनौ आसिञ्चती अधोमुखी भूत्वा तस्थावित्यन्वयः ॥ २७ ॥
सत्यधर्मीया
चिन्तोचिताचर्यामाह ॥ पदेति ॥ नखैररुणा श्रीर्यस्य तेन । सुजातेन कोमलेन भुवं लिखन्ती । चिन्तातान्तकान्तास्वभावोऽयं सन्नपि त्वद्रूपसत्यभामापक्षपातवान्नाथ एवं ततानेति तामदीदरदिति भावसूचक इति ज्ञेयम् । अञ्जनं कज्जलं तेनासितैर्नीलैरश्रुभिर्नयनतोयैः कुङ्कुमरूषितौ स्तनौ आसिञ्चती । अतिदुःखेन रुद्धा वाग्वचनं यस्याः सा । अधोमुखी सती तस्थौ ॥ २७ ॥
तस्याः सुदुःखभयशोकविनष्टबुद्धेर्हस्ताच्छ्लथद्वलयतो व्यजनं पपात ।
देहश्च विक्लवधियः सहसैव बिभ्यद् रम्भेव वातविहता प्रविकीर्य केशान् ॥२८॥
पदरत्नावली
सुदुःखादिभिर्विनष्टा इदं कर्तव्यमित्यपश्यन्ती बुद्धिर्यस्याः सा तथा । श्लथद् विगलद् वलयो यस्य स तथा तस्मात् । केशान् प्रविकीर्य देहश्च पपात । कीदृशः ? बिभ्यत् सञ्चलन् कम्पमान इत्यर्थः । रम्भा कदली ॥ २८ ॥
सत्यधर्मीया
सुदुःखमुत्तरत्र त्यक्ष्यति किञ्चेति भयं शोको बहिः प्रदर्शितः । एतैर्विनष्टा बुद्धिर्यस्याः सा कर्तव्यमूढेति यावत् । तस्याः श्लथन्ति गलन्ति वलयानि यस्मात्तस्माद्धस्ताव्द्यजनं पपात । कार्श्यं तत्क्षणत एव जातं निस्त्राणता चेति क्रमाद्धेतू । विह्वलधियो बिभ्यद्देहश्च । वातविहता रम्भेव कदलीव केशान्प्रविकीर्य पपात । केशप्रकिरणेन यदि त्वं नाथ कृष्ण श्रीहरिकृष्णकेशस्तर्हि नाहं तव पत्नी न चैवमिति भावं ध्वनयामासेति ज्ञेयम् ॥ २८ ॥
श्रीशुक उवाच—
तद् दृष्ट्वा भगवान् कृष्णः प्रियायाः प्रेमबन्धनम् ।
हास्यप्रौढिमजानन्त्याः करुणः सोऽन्वकम्पत ॥ २९ ॥
पदरत्नावली
हास्यं नाम शृृङ्गारादिष्वेको रसः । तस्य प्रौढिं समुद्रेकम् । करुणः करुणारसं प्राप्तः । अस्य विवरणमन्वकम्पतेति ॥ २९ ॥
सत्यधर्मीया
भगवान् कृष्णः प्रियायाः प्रेमबन्धनं स्नेहानुबन्धं तद्दृष्ट्वा हास्य-प्रौढिमानमजानन्त्येव दर्शयित्र्याः । करुणः करुणयतीति स्वभावतः स इदानीमन्वकम्पतानु-कम्पां कुर्वन्निव दर्शयामास ॥ २९ ॥
पर्यङ्कादवरुह्याशु तामुत्थाप्य चतुर्भुजः ।
केशान् समूह्य तद्वक्त्रं प्रामृजत् पद्मपाणिना ॥ ३० ॥
पदरत्नावली
चतुर्भुजः कृष्णः द्वाभ्यां भुजाभ्याम् उत्थाप्य द्वाभ्यां केशान् समूह्य एकीकृत्य बद्ध्वा वक्त्रं प्रामृजद् इति द्योतनाय चतुर्भुज इति प्रत्युक्तम् ॥ ३० ॥
सत्यधर्मीया
अनुकम्पाव्यापारमुपपादयति ॥ पर्यङ्कादिति । द्वाभ्यामुत्थाप्यैकेन केशा-न्नाशीभूतान् केशानैकीकृत्यैकेन मुखं प्रामृजदिति । चतुर्भुजता च वक्ष्यमाणकार्यानुगुणतयोक्तेति मन्तव्यम् ॥ ३० ॥
प्रमृज्याश्रुकले नेत्रे स्तनौ चोपहतौ शुचा ।
आश्लिष्य बाहुना राजन्ननन्यविषयां सतीम् ॥ ३१ ॥
पदरत्नावली
अश्रूणां कला ययोस्ते तथा । शुचोपहृतौ कृशौ स्तनौ च । अनन्य-विषयाम् अन्यस्पर्शनायोग्याम् ॥ ३१ ॥
सत्यधर्मीया
शुचोपहतौ शुष्काविति यावत् । न सदा तथेति द्योतयितुं शुचेत्युक्तिः । विविच्य सर्वाङ्गविचारकाले समन्ताद्धटना किलासीत् । ‘सुपीनदेवी स्तनमध्यदेशे सुदुर्लभा सा परमच्युतस्य’ इत्युक्तेराश्लिष्य सान्त्वयामासेत्यन्वयः ॥ ३१ ॥
सान्त्वयामास सान्त्वज्ञः कृपया कृपणां प्रभुः ।
हास्यप्रौढेर्भ्रमच्चित्तामतदर्हां सतां गतिः ॥ ३२ ॥
पदरत्नावली
अतदर्हां प्रेमगर्भविषादवचनायोग्याम् ॥ ३२ ॥
सत्यधर्मीया
हास्यप्रौढेः । प्रादूहोढोढ्येषैष्येष्विति वृद्धिः । अतदर्हां विषादजनक-वचनायोग्यां सान्त्वनप्रकारज्ञः सान्त्वयामास ॥ ३२ ॥
श्रीभगवानुवाच—
मा मा वैदर्भ्यसूयेथा जाने त्वां मत्परायणाम् ।
त्वद्वचः श्रोतुकामेन क्ष्वेलाचरित१मङ्गने ॥ ३३ ॥
पदरत्नावली
मा मां प्रति । माऽसूयेथा गुणे दोषदर्शनं न कुरु । तस्यास् तव वचः श्रोतुकामेन मया क्ष्वेलया नर्मलक्षणलीलयाऽऽचरितं कृतम् ॥ ३३ ॥
सत्यधर्मीया
सान्त्वनप्रकारं दर्शयति । हे वैदर्भि अङ्गने कल्याणि मह्यं माऽ- सूयेथाः । त्वां मत्परायणां जाने जानामीति । तर्हि किमिदं मदन्तिक इति न वदेति वदति । त्वद्वाक्यं श्रोतुकामेन मया क्ष्वेलया नर्मगर्भलीलयाऽऽचरितमिति । क्ष्वेल्याचरितमिति पाठे क्ष्वेलीशब्दः कल्प्यः ॥ ३३ ॥
मुखं च प्रेमसंरम्भस्फुरिताधरमीक्षितुम् ।
कटाक्षेणारुणापाङ्गसुन्दरभ्रुकुटीतटम् ॥ ३४ ॥
पदरत्नावली
प्रेमसहितसंरम्भेन स्फुरिताधरं कम्पमानाधरोष्ठम् । कटाक्षेण तिर्यग्दर्शनेना-रुणापाङ्गेन रक्तनेत्रप्रान्तेन सुन्दरभ्रुकुटीतटम् ॥ ३४ ॥
सत्यधर्मीया
न केवलं वचः श्रोतुं किन्तु मुखं प्रेमसंरम्भः स्नेहार्भटी तेन स्फुरितः कम्पमानोऽधरो यस्य तत् । कटाक्षेण यदीयकटाक्षमोक्षेणारुणोऽपाङ्गो यस्य स तन्त्रन्यायेन । तच्च तत्कटाक्षपातमात्रेण स्मरोद्रेक इति तात्पर्यम् । सुन्दरं भ्रुकुटीतटं च यस्मिंस्तत् । ईक्षितुं कटाक्षेणेक्षितुमिति वा । अरुणेनेदानीं प्रदर्शितकोपतः । वस्तुतस्त्वसित एव स इति ज्ञेयम् । शिष्टं प्राग्वत् ॥ ३४ ॥
अयं हि परमो लाभो गृहेषु गृहमेधिनाम् ।
यन्नर्मैर्नीयते यामः प्रियया भीरुभाषिणि ॥ ३५ ॥
पदरत्नावली
कामिवज्जनबिडम्बनं मयाऽकारीत्याशयेनाह– अयमिति ॥ प्रियया सह नर्मैः स्नेहगर्भपरिहासवचनैर्यामः कालावयवो नीयत इति यदयमेव गृहस्थानां गृहेषु परमो लाभो हीत्यन्वयः ॥ ३५ ॥
सत्यधर्मीया
अयं रसिकव्यापार इति मयाऽकारीत्याह ॥ अयमिति । गृहमेधिनां गृहस्थाश्रमिणां गृहेषु भार्यासु तन्मध्ये प्रियया नर्मभिर्यामः कालो नीयते तादृशो यामस्त्वमेव प्राप्नुहीत्येवमित्ययं परो लाभो मुख्यलाभः । अत एव वटुः सन्ध्यावन्दनवेलायां तटाकान्तं द्विजोत्तमैरिति । हि यतोऽत एवं कृतमिति भावः । हे भीरुवद्भाषिणि गृहेषु सति वा ॥३५॥
सैवं भगवता राजन् वैदर्भी परिसान्त्विता ।
ज्ञात्वा तां परिहासोक्तिं प्रियत्यागभयं जहौ ॥ ३६ ॥
पदरत्नावली
द्विविधं वाक्यमिष्टसाधनावबोधकमेकमपरं दुःखपरिहारात्मकम्, तत्र पश्चादुक्तं दुःखविनाशकमिति भावेनाह– सैवमिति ॥ ३६ ॥
सत्यधर्मीया
प्रियेण त्यागस्तत्कर्तृकः स्वकर्मकस्तस्माद्भयं जहौ तत्याज ॥ ३६ ॥
बभाषे ऋषभं पंुसामीक्षती भगवन् मुखम् ।
सव्रीडहासरुचिरस्निग्धापाङ्गेन भारत ॥ ३७ ॥
पदरत्नावली
पूर्वोक्तमभीष्टसाधनावबोधकत्वेनोपादेयमिति सूचयितुमाह– बभाष इति
॥ ३७ ॥
सत्यधर्मीया
भगवन् मुखमिति पदे । भगमस्तीति तत् । एतेन तन्मुखमिति परास्तम् ॥ ३७ ॥
रुग्मिण्युवाच—
नन्वेतदेवमरविन्दविलोचनाह यद् वै भवान् न भवतः सदृशो विभूम्नः ।
क्व स्वे महिम््नयभिरतो भगवांस्त्र्यधीशः क्वाहं गुणप्रकृतिरन्यगृहीतपादा ॥३८॥
तात्पर्यम्
भवानेव भवतः सदृशः ।
पदरत्नावली
देववृषोपमान् नृपान् हित्वाऽनुपमानस्मान् कस्माद् वृतवतीत्यत्राह– नन्विति ॥ यद्वा इह जीवराशौ आत्मसदृशा न सन्ति अस्माकं क्रियाश्च नेति तत्राह– नन्विति ॥ वा इत्ययं कृष्णोक्तवाक्यार्थारम्भे वर्तते । नन्वित्यनुमतार्थे । भवान् यदाह समो नास्तीति एतदेवं ननु अनुमतम् । कथम्? तत्राह– नेति ॥ विभूम्नः देशतः कालतो गुणतश्चापरिच्छिन्नस्य व्याप्तस्य भवतः सदृशोऽन्यो नास्ति किन्तु भवानेव । ‘रामरावणयोर्युद्धम्’ इतिवत् । मत्सदृशी त्वमसीति नेत्याह– क्वेति ॥ भगवानैश्वर्यादिगुणसामग्रीसमुद्रो भवान् क्व? । राजादिवदन्याधीनत्वं किं न स्यादिति तत्राह– स्व इति ॥ अनेन स्वार्था क्रिया नास्तीत्युक्तं भवति । सत्वादिगुणप्रवर्तकत्वेन प्रकृतिशब्दवाच्याऽहं क्व? तर्हि त्रिलोक्यां कश्चिन्मत्समः स्यादित्यतो नेति भावेनाह– त्र्यधीश इति ॥ त्रयाणां लोकानां त्रयाणां वेदानां त्रयाणां गुणानां वा ईश इत्यनेन इन्द्रादिनिरासोऽभूदित्ये-तल्लोकपालविभूतिभिरित्यस्योत्तरम् । ब्रह्माद्यन्यतमोऽपि नेतिभावेनाह– अन्येति ॥ अन्यैर्ब्रह्मादिभिः । अनेन महानुभावैरित्यस्योत्तरं क्वाहमित्यमुना श्रीमद्भिरित्यादेः ॥ ३८ ॥
दुर्घटभावदीपिका
न भवतः सदृश इत्यस्य भवतोऽन्यः सदृशो नास्तीत्यर्थः । एतेनाथ समानि ब्रह्मरूपाणि यैरुत्पत्तिः स्थितिर्लयो नियतिरायतिश्चैकं ह्येवैतद्भवतीति श्रुत्या भगवद्रूपाणां भगवत्साम्यस्योक्तत्वाद् भवतः सदृशो नास्तीति कथनमयुक्तमिति दूषणं पराकृतम् । न भवतः सदृश इत्यनेनान्वय इति शेषेण भवतोऽभिन्नसदृशोऽस्तीत्यङ्गीकृत्यान्यसदृशो नास्ती-त्युच्यत इत्यूरीकरणात् ॥ ता० अर्थः ॥ भवानेव भवतः सदृशो न त्वन्य इति । अनेन भवतः सदृश इति वाक्यमन्य इति शेषेण भिन्नसदृशनिषेधपरमित्युक्तं भवति । अत्र तात्पर्ये भवानेव भवतः सदृश इत्यतः पूर्वं हृदयं प्रियं हृद्ययनादित्यतः परं श्रूयमाणानि अजितं जरासंधं भगवत श्रुत्वेत्यारभ्य नाद्य शत्रुं ननु पुरा विवित्स इत्यादिश्रुतिरित्यन्तानि वाक्यानि लेखकदोषादत्र पतितानि । वस्तुतो नात्रत्यानि । किन्तु स्नेहभीत इवाथापि नोचे रुग्मिवधे हरिरिति ब्रह्माण्डे इत्यतः परं सनकाद्याः समाः सर्वे तत्र श्रेष्ठः कुमारक इत्यतः पूर्वं द्रष्टव्यानि ।
तथा दर्शयन्तौ नृणां मोहं कुर्यास्तां शास्त्रदर्शनादिति कापिलेय इत्यतःपरम् अजितं जरासन्धं भगवत एव श्रुत्वेत्यतः पूर्वं विद्यमानानि गात्रान्तराणि पिधातव्येभ्योऽन्यान्यपि येषां पिधानेन क्लेशो भवत्यात्मनः । निजभर्तुरप्यपिदधुः । निर्लज्जा इत्यकामो भवत्यसाविति । न स्नेहभङ्गो देव्यास्तु न भयं केशवस्य च । स्नेहभीत इवाथापि नोचे रुग्मिवधे हरिरिति ब्रह्माण्ड इत्यन्तानि वाक्यानि केषुचित्पुस्तकेषु छिन्नानि । ततश्चायं तात्पर्यवाक्यानां क्रमः । हृदयं प्रियं हृद्ययना-दित्यतः परं भवानेव भवतः सदृश इत्याराभ्य, दर्शयन्तौ नृणां मोहं कुर्यास्तां शास्त्रदर्शनादिति कापिलेय इत्यतः परम् अजितं जरासन्धं भगवत एव श्रुत्वेत्यतः पूर्वं गात्रान्तराणि पिधातव्ये-भ्योऽन्यान्यपीत्यारभ्य स्नेहभीत इवाथापि नोचे रुग्मिवधे हरिरिति ब्रह्माण्ड इत्यन्तानि वाक्यानि । स्नेहभीत इवाथापि नोचे रुग्मिवधे हरिरिति ब्रह्माण्ड इत्यतः परं सनकाद्याः समाः सर्वे तत्र श्रेष्ठः कुमारक इत्यतः पूर्वमजितं जरासंधं भगवत एव श्रुत्वेत्यारभ्य मायेत्सा ते यानि युद्धान्याहुर्नाद्य शत्रुं ननु पुरा विवित्स इत्यादि श्रुतिरित्यन्तानि वाक्यानीति । अस्य क्रमस्य कस्यचित्पुस्तकेषु दर्शनात् । केषुचित्पुस्तकेषु गात्रान्तराणि पिधातव्येभ्योऽन्यान्यपीत्यारभ्य स्नेहभीत इवाथापि नोचे रुग्मिवधे हरिरिति ब्रह्माण्ड इत्यन्तानि वाक्यानि दशमस्कन्ध-तात्पर्यान्तिकभागस्थितस्य ऋषिरूपी यतो विष्णुः स्वयमेव जनैः श्रुत इति ब्राह्मे । ऋषिणा ऋषिरूपेणेति वाक्यस्यानन्तरमात्मनो भजने बुद्धिमुत्पाद्य फलदाः सुरा इत्येकादशस्कन्ध-वाक्यात्पूर्वं लेखकदोषात्पतितानि । क्वचित्पुस्तके सर्वोत्तमोऽपि भगवान् गुणभावं जनार्दनः । दर्शयेद्वसुदेवादेरात्मनोज्जीवितामपि । अज्ञाशक्त्यादिभावस्तु कुतः स्यादखिलेशितुः । कुतश्च जीवता तस्य प्रधानपुरुषेशितुः । कुतो दोषाः सर्वगुणपूर्णस्यानन्दवारिधेरिति वामन इति वाक्यानि स्नेहभीत इवाथापि नोचे रुग्मिवधे हरिरिति ब्रह्माण्ड इत्यतःपरम् आत्मनो भजने बुद्धिमुत्पाद्य फलदाः सुरा इत्येकादशस्कन्धतात्पर्यवाक्यात्पूर्वं प्रक्षिप्तानि । एतेषां वाक्यानां व्याख्येयस्यादर्शनात् । गुणप्रकृतिः सर्जनस्वभावा अन्यगृहीतपादा अन्यैर्ज्ञानिभ्योऽन्यैर्गृहीतौ पादौ यस्याः साऽन्यगृहीतपादाऽहं क्वेत्यर्थः । एतेनान्यगृहीतपादेत्यस्य नीचत्वोपपादकत्वा-भावात् । अन्यगृहीतपादाऽहं क्वेति कथनमनुपपन्नमिति परास्तम् । अन्यशब्देन ज्ञानिनामेव ग्रहणात् ॥ ३८ ॥
सत्यधर्मीया
नन्वेतदेवमरविन्दविलोचनाहेति श्लोके समनिषेधः क्रियते स्वस्य स्वसमस्य सत्त्वात् । भाष्ये चतुर्थे द्वितीयपादे– अथातः समाश्चासमाश्चाभिधीयन्ते समासमाश्च । अथ समानि ब्रह्मणो रूपाणि यैरुत्पत्तिः स्थितिर्लयो नियतिरायतिश्चैकं ह्येवम् । अथासमा ब्रह्मेन्द्रो रुद्रः प्रजापतिर्बृहस्पतिर्ये के च देवा गन्धर्वा मनुष्याः पितरोऽसुरा यत्किञ्चेदं चरमचरं च । अथ समासमा प्रकतिर्वाव समासमैषा हि नित्याऽजरा तद्वशा चेति श्रुतौ तथा स्वदृष्टान्तो हरेर्भवेदित्यृग्भाष्ये । तथा प्रथमतात्पर्ये–
व्यत्यासोऽन्वयश्चैव प्रसिद्धो भूत एव च ।
सर्वसंहारकश्चेति दृष्टान्तः पञ्चधा स्मृतः ॥ इति ब्राह्मे ।
ऊर्णनाभ्यादिको विष्णोर् विष्णुर्विष्णोस्तथैव च ।
विष्णुर्जीवस्य दृष्टान्ता ऊनसाम्याधिकाः क्रमात् ॥ इति ।
ब्राह्म इत्यादावुक्तेस्तथेत्यतो नात्र स्वमताऽमता रुग्मिण्याः किन्त्वन्यस्य सेति भावं विवृण्वन्न-न्यगृहीतपादेत्यत्रत्यमन्यपदं लोपः प्रातिपादिकान्तस्येत्यत्रेव प्रातिपादिकान्तं सत् पुल्लिङ्गप्रथमान्त-त्वेन निषेधप्रतियोगिसमर्पकं भवतीति मनसि कृत्वा मौलभवच्छब्दोत्तरमन्ययोगव्यवच्छेदकैवकारेण स्वनिबद्धेन सूचयंस्तेन सह मौलपदान्यनुवदति ॥ भवानेव भवतः सदृश इति । अनेनैव गृहीतपादेत्यस्य गृहीतौ पादौ तव यया सेत्यर्थ इति भगवानित्यस्याप्यावृत्तिरित्यसूचि । अन्यथा स्वधिक्कारप्रस्तावनानुगुण्यापत्तेरिति ज्ञेयम् ॥
अथ मूलार्थः ॥ हे अरविन्दलोचन भवान्यदाह देववृषोपमान् हित्वा त्यक्तनृपासनानित्यादि नार्थादिति ज्ञेयम् । एतदेवं ननु तथैवेति निश्चितम् । तदेव दर्शयति ॥ भवतः सदृशो नेति । अन्यो भगवतः, सदृशो न किन्तु भवानेव भवतः सदृशः । विभूम्नो भावभवित्रोरभेदात् । विशेषतो भूमा यस्य स तस्येति वा । अनन्वयः । ‘इन्दुरिन्दुरिव श्रीमानित्यादौ तदनन्वयः । रामरावणयो-र्युद्धं रामरावणयोरिव’ इत्यादिवत् । समना चासृत्युपक्रमादमृतत्वं चानुपोष्येति त्वं मम समैवेति न स्वामिन्निति विशेषकं धर्ममाह । स्वमहिमि्न मदनधिष्ठिते रतः । भगवान् समग्र्रैश्वर्यादिमान् । स्त्र्यधीशो वेदा वा लोका वा गुणा वा श्रीभूदुर्गा वेति तदधीशः । क्वेति कालदेशव्याप्तिरेव हि म समग्रभगवत्त्वं च तव न ममेत्युक्त्वा तदुपोद्बलयति । गुणप्रकृतिः सत्त्वादिगुणप्रवर्तकतया तच्छब्दवाच्याऽहं क्वेति । गुणैः स्वरूपभूतैः । प्रकृष्टकरणात् प्रकृतिरिति भगवतोऽपि विशेषणम् । तदुपोद्बलयति ॥ गृहीतपादेति ॥ गृहीतौ तव पादौ यया सा । गृही मदभिन्नभार्यायुतस्त्वं तस्य ईतौ अपेक्षयेति । इना इतौ प्राप्तौ पादौ यया सेति वा । स भगवः कस्मिन्प्रतिष्ठित इति स्वेमहिम्नीत्यादेः ।
देशतः कालतश्चैव गुणतश्च त्रिधा ततिः ।
सा समस्ता हरेरेव न ह्यन्ये पूर्णसद्गुणाः ॥ इति गीतातात्पर्योक्तेः ।
मत्स्यकूर्मवराहाद्याः समा विष्णोरभेदतः ।
ब्रह्माद्यास्त्वसमाः प्रोक्ताः प्रकृतिश्च समासमा ॥
इति वाराहोक्तेर्न समैवाहमिति तात्पर्यम् । राजपुत्रीप्सितेत्यारभ्य न ह्यात्मसदृशा इत्यन्तस्य भगवद्वाक्यस्य श्रवणशोकसम्मूढा प्रौढाऽपि रुग्मिणी नैकधारया धारणं तदिति नैकसरण्योत्तर-मभिदधाना साम्मुग्धेन तज्जगाविति न पौर्वापर्यविचारः कर्तव्य इति ज्ञेयम् ॥ ३८ ॥
सत्यं भयादिव गुणेभ्य उरुक्रमान्तः शेते समुद्र उपलम्भनमात्र आत्मा ।
**योऽनित्यकेन्द्रियगणैः कृतविग्रहस्त्वं त्वत्सेवया नृपपदं विधुतं तमोऽन्धम् **
॥ ३९ ॥
तात्पर्यम्
नृपपदं नृपशब्दवाच्यमात्रम् । न तु मुख्यतो नृपालकः । अन्धन्तमः प्रतिविधुतम् ॥
पदरत्नावली
‘राजभ्यो बिभ्यतः सुभ्रु’ इति यदुक्तं तदर्धाङ्गीकारेण परिहरति– सत्यमिति ॥ हे उरुक्रम बल्यादेरभिमानिजनशिरोरत्नराजिराजितमहापादन्यास । समुद्रेन्तः शेत इति सत्यं किन्तु राजभ्यो बिभ्यत इत्यसत्यम् । तर्हि तद् व्यर्थमुक्तम्? नेत्याह– भयादिति ॥ ‘राजृ दीप्तौ’ इति धातोः कार्ये प्रकाशमानेभ्यः स्वशक्तिद्योतकेभ्यः सत्वादिगुणेभ्यो भयादिव । सज्जनशिक्षार्थम् इवशब्दः । संसारावृत्तिहेतुभ्यो गुणेभ्यो बिभ्यज्जनः समुद्रिक्तसुखार्थी समुद्रादि-जलवासेन यथा तपस्यति तथाऽहमिति । यद्वा पञ्चभूतमुद्रासहितत्वात् समुद्रे शरीरेऽन्तर्हृदि शेते इति यत् सत्यं तद् दीप्यते शब्दादिगुणेभ्यो भयादिवाङ्गुष्ठमात्रः । ‘अङ्गुष्ठमात्रः पुरुषः’ इति श्रुतेः । शरीरान्तस्थस्य जीवादविशेषाज्जननादिकमपि स्यादिति तत्राह– उपलम्भनमात्र इति ॥ केवलचिन्मयः, अतो न देहधर्मा अस्य स्युरिति भावः । एकत्र स्थितयोर्जीवेशयोर्विशेषः कथम्? अत्राह– आत्मेति ॥ आत्मा तथाविधस्वभावः । किन्नामधेयो भवानित्यतो वाह– आत्मेति ॥ आत्मा सुखमेवाददाति नाण्वपि दुःखमित्यात्मा । जीवस्तु शरीरमादाय शरीरा-न्तराणि निर्मिमीत इति तच्छब्दवाच्यः । ‘बलवद्भिः कृतद्वेषान्’ इत्यस्य तात्पर्यं वक्ति– य इति ॥ यो ऽनित्येकेन्द्रियगणैः कृतविग्रहः स त्वं तादृङ्माहात्म्यः ‘बलवानिन्द्रियग्रामः’ इति स्मृतेः । बलवन्ति परिवर्तनवन्ति नानायोनिष्वित्यतोऽनित्यानीन्द्रियाणीत्युच्यन्ते । नियन्तु-मशक्यत्वाद् बलवन्ति इति । भवत्प्रसादादितरेषाम् इन्द्रियजयो भवतस्तु स्वत इति । ‘पराञ्चि खानि व्यतृणात् स्वयम्भूः’ इति श्रुतेः । प्रायस्त्यक्तनृपासनानित्यत्राह– त्वत्सेवयेति ॥ तव सेवा यस्याः साऽहं त्वत्सेवा तया त्वत्सेवया मया नृपासनं नृपपदं नृपशब्दवाच्यमात्रं न तु नॄन् पातीति नृपालनलक्षणार्थोपेतम् अन्धतमः प्रति विधुतं प्रक्षिप्तं, तत्त्यजनं कृतमित्यर्थः । तस्माद् भवानेव नृपशब्दमुख्यार्थत्वात् तत्वज्ञैः सर्वैस्त्यक्तं दत्तं नृपासनं यस्मै स त्यक्तनृपासनः । शिशुपालादय एव त्यक्तमुझ्झितं नृपासनं यैस्ते तथा । त्वत्सेवया हेतुना वा ते त्यक्ताः ॥ ३९ ॥
दुर्घटभावदीपिका
हे उरुक्रम । उपलम्भनमात्रो ज्ञानमात्रः । सत्त्वादिगुणबन्धरहित इति यावत् । आत्मा सर्वान्तर्नियामकः । भवान् गुणेभ्यः सत्त्वादिगुणबन्धेभ्यो राजभ्यो भयादिव भयादेव समुद्रेऽन्तः समुद्रान्तःस्थितद्वारकायां शेते इत्येतत्सत्यम् । विपरीतलक्षणया मिथ्येति यावत् । अनेन राजभ्यो बिभ्यतः सुभ्रु समुद्रं शरणं गतानिति वाक्यस्य प्रतीतार्थो निराकृतो भवति । यद्वा । हे उरुक्रम । उपलम्भनमात्र आत्मा सर्वेषां स्वामी भवान् गुणेभ्यः सत्त्वादि-गुणेेभ्यः । संसारादिति यावत् । भयाद्भयेन विशिष्टानां सज्जनानां संसारभयनिवारणार्थं स्वज्ञानं दत्वा प्रसन्नः सन् समुद्रेऽन्तः क्षीरसमुद्रान्तःस्थितश्वेतद्वीपे सज्जनान् शेते शाययति । इवशब्द एवार्थे । एतदेव सत्यम् । अनेन राजभ्यो बिभ्यतः सुभ्रु समुद्रं शरणं गतान् गमयितॄन् इत्यभिप्रेतार्थ उक्तो भवति । यस्त्वं त्वत्सेवया विशिष्टानां नित्यकेन्द्रियगणैर्र्नित्यं कुत्सितैः । नित्यविषयव्यासङ्गेन पापं दत्वा नरकाद्यनर्थप्रदैरिति यावत् । इन्द्रियगणैः कृतविग्रहः । अनेन बलवद्भिः कृतद्वेषानित्यस्य न केवलं बलवद्भी राजभिः कृतद्वेषानिति प्रतीतोऽर्थो न किन्तु बलवद्भिस्त्वत्सेवकानामिन्द्रियगणैः कृतद्वेषानित्यप्यर्थ इत्युक्तं भवति । नृपपदं नृप इति पदमेव यस्य तन्नृपपदं नृपालकत्वरूपनृपपदार्थशून्यं दुष्टराजजातं त्वयांऽधे तमः प्रविधुतं त्यक्तं त्वत्कोपेन नृपाभासानामन्धन्तमःप्राप्तिर्जातेति यावत् । ता० अर्थः । नृप इति पदमेव यस्य तदिति विग्रहं मनसि निधाय नृपपदमित्यनूद्य नृपशब्दवाच्यमात्रमिति व्याख्यानं कृतम् । नृपशब्दवाच्यमात्रमित्यस्य व्यावर्त्यं दर्शयति । न त्विति ॥ मुख्यतो नृपशब्दवाच्यं न तु नैव कुत इत्यत आह– न हीति ॥ न त्वित्यस्यावृत्तिः । नृपालकं न तु नैव । अतो मुख्यतो नृपशब्दवाच्यं नैव । अन्धमित्यस्य तम इत्यनेनान्वयं प्रतीत्यस्य च शेषं कृत्वा विधुत-मित्यनेनान्वयो वक्तव्य इत्यभिप्रेत्यान्धंतमः प्रति विधुतमित्युक्तम् । अनेन त्यक्तनृपासना-नित्येतस्य नृपाणामासनमेव येषां ते नृपासना राजाभासा अन्धं तमः प्रति त्यक्ता नृपासना यैस्ते त्यक्तनृपासनास्तानित्यर्थ उक्तो भवतीति ॥ ३९ ॥
सत्यधर्मीया
सत्यं भयादिवेति श्लोके नृपपदं तमोऽन्धं विधुतमिति सामानाधिकरण्येन नृपस्थानस्यान्धतमसात्मकत्वं प्रतीयते । तच्च बाधितमित्यतो नृपपदमिति प्रथमान्तं तमोऽन्धमिति द्वितीयान्तं तत्रापि नृपपदं न तत्स्थानवाचि किन्तु नामवाचि । प्रतिशब्दमध्याहृत्यान्वयः । ‘ऊर्ध्वरेतं विरूपाक्षं शङ्करं नीललोहितम्’ । ‘ऋतं सत्यं परं ब्रह्मेत्याद्युद्देश्यद्वितीयका । विभक्तिरूर्ध्वरेतादिः प्रथमा रुद्रगोचरा । तस्माद्विष्णुं परं ब्रह्म प्रतीत्येवेति भावेन किञ्चिदनूद्य स्वयं व्याचष्टे । नृपपदं नृपशब्दमात्रवाच्यमिति । तथा च नृपेति पदं नाममात्रं यस्य तदिति तत्पदविग्रहः सूचितः । एतल्लब्धार्थमाह ॥ न तु मुख्यतो नृपालक इति । अनेन केवलं रूढतां तस्याभिप्रैति । तमोऽन्धमन्धतमसं प्रति विधुतं मयाऽऽक्षिप्तमित्यर्थः । मौलत्वत्सेवया मयेति पदेनान्वयः ।
ततश्चायं श्लोकार्थः ॥ राजभ्यो बिभ्यतः सुभ्रूः समुद्रं शरणं गतानिति यत्तत्स्वयमर्धाङ्ग्य-र्धाङ्गीकारेण परिहरति । सत्यमिति । उपलम्भनमेवोपलम्भनमात्रम् । आत्माऽऽदानादिकर्ता, स्वामी, सर्वगुणपूर्ण इति वा । सर्वान्गुणानात्मशब्दो ब्रवीति इत्यादेः । समुद्रे तत्राप्यन्तः शेत इति समुद्रं शरणं गतानिति सत्यम् । गुणेभ्य उरु अति यथाक्रमो यस्य स तत्सम्बुद्धिः । गुणातीत । भयाद्राजादिजातात् । इव । वस्तुतस्तु न तस्मादितीवेन द्योत्यते । अतो भयादिति वाच्य इवोक्तिरिति ज्ञेयम् । सत्त्वादिगुणागणनेन वर्तमानस्य न रजस्तमःप्रकृतिकभूपभीतिरिति भावः । बलवद्भिः कृतद्वेषानित्यस्य न बलवन्तो नाम दृश्यन्त इत्युत्तरयति ॥ य इति । अनित्यानि कं सुखमिन्द्रियाणि च येषां तेषां राज्ञां कृतः गणैर्यस्त्वं, विग्रहो येन सः । कृतविग्रहत्वमङ्गीकृतं नाङ्गीकृतं तत्प्रबलत्वमिति भावः । प्रायस्त्यक्तनृपासनानित्यस्य केवलं ते रूढनृपपदकास्त्वं तु न तथेति स्वानुष्ठितकर्म-प्रतिपाद्योत्तरमाह ॥ त्वत्सेवयेति । तव सेवा यस्याः सा तया । नृपेति पदं वाचकः शब्दो यस्य तत् । नृपा इति पद्यत इति यावत् । तमोऽन्धमन्धन्तमः प्रति विधुतं प्रक्षिप्तं सेवया करणेन मयेति शेषः । तमोऽन्धं प्रति विधुतं त्वत् त्वत्तस्तद्विधुतमिति किं वाच्यमित्यर्थः । गुणैरिभ्य आढ्येऽप्यनित्यकेन्द्रियगणैर्मानवैः सम्पादित इति कृतो विग्रहः शरीरं यस्य सः । अनेन कृतद्वेषान्कृतवन्निर्मितवदाचरन्तः कृतन्ता वेषा येषामिति पदभङ्गीमङ्गीकृत्यार्थं सूचित-वन्तीति चतुरता ध्येया । यस्त्वं त्यक्तेन्द्रियगणैः कृतविग्रहो नित्यसुखात्मकेन्द्रियगणैरेव स्वीकृतविग्रह इति वा ॥ ३९ ॥
त्वत्पादपद्ममकरन्दजुषां मुनीनां वर्त्म स्फुटं नृपशुभिर्ननु दुर्विभाव्यम् ।
यस्मादलौकिकमिवेहितमीश्वरस्य भूमंस्तवेहितमथो अनु मे भवन्ति ॥४०॥
तात्पर्यम्
तवेहितमनु मे ईहितानि भवन्ति ॥ ४० ॥
पदरत्नावली
अस्पष्टवर्त्मनामित्यस्यार्थमाह– त्वत्पादेति ॥ तव पादपद्ममकरन्दसेविनां मुनीनां वर्त्म स्वरूपं स्फुटं स्पष्टम् । तथापि त्वदुक्तं सत्यम् । नृपशुभिरज्ञानिभिर्दुर्विभाव्यं दुर्ज्ञेयं तस्मादस्पष्टमित्युच्यते । यद्वा मुनीनां वर्त्म नृपशुभिः स्फुटं दुर्विभाव्यं किमुत तव वर्त्मेति । अलोकपथमीयुषामित्यस्याप्ययमर्थ इत्याह– यस्मादिति ॥ हे भूमन् ईश्वरस्य तवेहितमलौकिकमिव यस्मादथो तस्मात् तवेहितमनु अनुकूलानि मम ईहितानि भवन्ति, अलौकिकानीति शेषः । तवेहितमनुक्रियमाणानि ममेहितान्यलौकिकानि यस्मात् तस्मात् किमु तवेहितमलौकिकमिति वा
॥ ४० ॥
सत्यधर्मीया
त्वत्पादपद्ममकरन्दजुषां मुनीनामिति श्लोके तवेहितमनु मे आवर्तितमनुवृत्तं वेहितमिति न भवन्तीत्यनेनैकवचनान्तेन नान्वेतुं शक्यम् । असम्भवादित्यतस्तथा सद्बहुवचनतया विपरिणतमन्वेतीति दर्शयन्नन्वयमाह ॥ तवेहितमनु म ईहितानि भवन्तीति ॥
ततश्चायं श्लोकार्थः ॥ अस्पष्टवर्त्मनां पुंसामलोकपथमीयुषामित्यादेरुत्तरमाह– त्वत्पादेति । त्वत्पादपद्ममकरन्दजुषां सेवमानानां तस्मिन्प्रीतिमतां वा । मुनीनां वर्त्म नृपशुभिः स्फुटं दुर्विभाव्यं ननु । तव किं वक्तव्यं दुर्विभाव्यमिति भावः । तादृशानां मुनीनां तव वर्त्म दुर्विभाव्यं नृपशुभिर्मनुष्येषु पशुप्रायैर्दुर्विभाव्यमिति किं वाच्यमिति युक्तमुक्तम् । हे भूमन् । ईश्वरस्य यस्मात् स्वेहितं व्यापारोऽलौकिकं लोकविलक्षणमाप्तकामव्यापारत्वात् । इवैव तवेहितं चेष्टामनु । अथो मे ईहितमीहितानि भवन्ति । प्रायः सीदन्ति योषित इत्यभिप्रायः । कथमिति चेत् । ते च मानिन्योऽन्याः पुरुषाश्चान्य इति भावः । ‘यां यां परेश उरुधैव करोति लीलां तां तां करोत्यनु तथैव रमाऽपि देवी’ इत्यादेः ॥ ४० ॥
निष्किञ्चनो ननु भवान् न यतोऽस्ति किञ्चिद्
यस्मै बलिं बलिभुजोऽपि हरन्त्यजाद्याः ।
न त्वा विदन्त्यसुतृपोऽन्तिकमाढ्यतान्धाः
प्रेष्ठः सतां बलिभुजामपि योऽन्तरास्ते ॥ ४१ ॥
तात्पर्यम्
यतः किञ्चिन्मात्रं नास्ति किन्तु सर्वमेवास्ति ॥ ४१ ॥
पदरत्नावली
‘निष्किञ्चना वयम्’ इतीदं निबोधयतः किञ्चित् किञ्चिन्मात्रं नास्ति किन्तु सर्वमेवास्त्यतो भवान् निष्किञ्चन इत्युच्यते । न त्वनाढ्यत्वं निष्किञ्चनत्वमित्याह– यस्मा इति ॥ सर्वप्राणिदत्तबलिभुजोप्यजाद्या यस्मै बलिं हरन्ति, स भवान् निष्किञ्चन इति विदुषां परिषदि न शोभत इति शेषः । तस्मात् प्रायेण नो ह्याढ्या न भजन्तीत्यत्रावधारणम्– न त्वेति ॥ आढ्यतान्धा ऐश्वर्यमदान्धास् त्वा त्वां न विदन्ति न जानन्ति, न लभन्ते चेत्यन्वयः । दूरस्थत्वान्न विदन्तीति नेत्याह– अन्तिकमिति ॥ ‘नेदिष्ठमन्तिकतमम्’ इत्यमरः । अत्र हेतुरसुतृप इति स्वेन्द्रियपोषणपरत्वात् । अन्तिकस्थत्वं स्पष्टयति– बलिभुजामिति ॥ यस्त्वं बलिभुजां ब्रह्मादीनामप्यन्तरास्से तिष्ठसि किमुतेतरेषाम्? नियन्तृत्वेनेति शेषः । अत्र प्रमाणमाह– प्रेष्ठ इति ॥ सतां प्रियतमः । ‘प्रियो हि ज्ञानिनोऽत्यर्थमहं स च मम प्रियः’ इत्यतो ज्ञानिदर्शनं प्रमाणम् । ‘कस्मै देवाय हविषा विधेम’ ‘इमा रुद्राय स्थिरधन्विने गिरः’ इत्यादिश्रुतिः ॥ ४१ ॥
दुर्घटभावदीपिका
अहरन्तीत्यत्र विद्यमानेन सम्बुध्यन्तशब्देन चतुर्मुखरुद्रादिदत्तसर्व-बलिभोक्तृत्वोपपदनार्थं कृष्णस्य ब्रह्मत्वमुच्यते । ‘अ इति ब्रह्म’ इति श्रुतेः । एतेन लुङादेर-भावाद् अहरन्तीत्यडागमप्रयोगोऽनुपपन्न इति चोद्यं निराकृतम् । अहरन्तीत्यशब्दोऽडागम इत्यनङ्गीकारात् ॥ ४१ ॥
सत्यधर्मीया
निष्किञ्चनो ननु भवान्न यतोऽस्ति किञ्चिदिति श्लोको हरेः सर्वराहित्य-मुच्यत इति भ्रमभ्रंशं किञ्चिदध्याहृत्य योजयंस्तनोति ॥ यतः किञ्चिन्मात्रमिति । किञ्चिन्मात्रं यतो नास्तीत्युक्तलभ्यार्थं दर्शयति ॥ किन्तु सर्वमेवास्तीति । मात्रमिति किञ्चिदित्यतः परं योज्यमित्युक्तं भवति ॥ ततश्चायं मूलार्थः । यतो यस्मत् किञ्चित् किञ्चिदेव नास्त्यतो निष्किञ्चनः । नितरां किञ्चन सर्वं यस्य स इति निष्किञ्चनपदार्थो ज्ञेयः । बहुकिञ्चनातिरिक्तस्य सर्वस्य दुर्निरूपत्वात् । आढ्या न भजन्तीति यदुक्तं तत्र केचिच्चिदाढ्याः केचिन्मदाढ्या इति द्विविधास्तत्र चिदाढ्या इमे एवं कुर्वन्तीत्याह ॥ यस्मा इति । यस्मै स्वयं बलिभुज इतरवितरितबलिभुजोऽजाद्या अपि बलिं हरन्ति सपर्यां कुर्वन्तीति यावत् । ये केचनाढ्यतया मदाढ्यतयाऽन्धा असुतृपाः स्वप्राणमात्रतर्पकास्त्वां न विदन्ति न जानन्ति । पूजा तु दूरोत्सारितेति भावः । दूरे सत्त्वान्न विदन्तीति नेत्याह । अन्तिकम् । ‘नेदिष्टमन्तिकम्’ इत्यमरः । समीपवर्तिनमपि । कथं समीपवर्तिता कीर्तितेत्यतः कीर्तयति ॥ सतां प्रेष्ठ इति । प्रियो यस्त्वं बलिभुजां शुनां तदादिनिकृष्टयोनिजानामप्यन्त आस्ते सतामन्तरास्त इति किं वक्तव्यमित्यर्थः । ‘शुनि चैव श्वपाके च पण्डिताः समदर्शिन’ इत्याद्यन्यथाऽयुक्तं स्यादिति मन्तव्यम् । अन्तरा आस्स इति वा । कैमुत्यघटकमाह ॥ प्रेष्ठ इति । सतां प्रेष्ठः । ‘प्रियो हि ज्ञानिनोऽत्यर्थमहम्’ इत्युक्तेः । तेऽजाद्या विदन्ति प्रागनन्तरं नत्वा बलिं हरन्तीत्यप्यर्थः । ‘बलिभुक् शुनि वायस’ इति रत्नकोशः । वायसादीनां वा ॥ ४१ ॥
त्वं वै समस्तपुरुषार्थमयः फलात्मा यद्वाञ्छया सुमतयो विसृजन्ति कृत्स्नम् ।
तेषां विभो समुदितो भवतः प्रसादस्त्रय्यां च यश्च रतयोः सुखदुःखिनोर्न
॥ ४२ ॥
तात्पर्यम्
फलात्मा सुखात्मा । अत एव पुरुषैरर्थ्यस्वरूपः ॥ तेषां भवतश्च समुदितः समो गुणो नास्ति । यश्च कोऽपि । त्रय्यां रतयोः, वेदोक्तकर्तृत्वेन सुमतीनां त्रयीरतत्वं प्रतिपाद्यत्वेन भगवतः ॥ सुखदुःखिनोः केवलं परिपूर्ण-सुखो भवान् । भवज्ज्ञानपर्यन्तं दुःखिनस्ते ।
अल्पसम्पूर्णशक्तित्वादल्पपूर्णसुखत्वतः ।
अल्पसंपूर्णदर्शित्वान्न साम्यं जीवकृष्णयोः ॥ इति ब्रह्माण्डे ॥
त्रय्यां चेति चशब्दः स्मृतिष्वपीति ॥ ४२ ॥
पदरत्नावली
‘‘ययोरेव समं वित्तम्’’ इत्याद्युक्तमनुवदति- त्व वा इति ॥ वैशब्दो हेत्वर्थः । त्वं फलात्मा सुखात्मा परमानन्दस्वरूपो वै यस्मात् तस्मात् समस्तपुरुषार्थमयो ऽर्थ्यत इत्यर्थः । मयट् प्रत्ययः प्रधानार्थः सर्वस्मात् प्राधान्यस्वरूपः, समस्तपुरुषैरर्थ्यमानस्वरूप इत्यर्थः । ये सुमतयः सम्यग्ज्ञानिनो यस्य तव वाञ्छया अनुग्रहेच्छया कृत्स्नं पुत्रमित्रवित्तादि सर्वं विसृजन्ति मुञ्चन्ति । त्यक्तसर्वैषणा इत्यर्थः । अनेन प्रकृते किमागतम्? अत्राह– तेषामिति ॥ हे विभो तेषां सुमतीनां भवतश्च प्रसादः पूर्णसुखलक्षणो गुणः समुदितः सम्यगुक्तः । समानो वा नास्तीत्यस्य कोऽभिप्राय इत्यत उक्तम्– यश्चेति ॥ चोऽप्यर्थे यश्च कोऽपि नास्तीत्यर्थः ।
ननु युवयोः कोऽपि गुणः समो नास्ति किम्? अत्राह– त्रय्यां चेति ॥ त्रय्यां चशब्दात् स्मृतिष्वपि च तयोर्युवयोर्यश्च कोऽपि गुणोऽस्ति स क इत्यतो रतयोरित्यनेन सूचितः । ‘‘अग्निष्ठोमेन स्वर्गकामो यजेत’’ इति वेदोक्तकर्मकर्तृत्वेन सुमतीनां त्रयीरतत्वं भवतो वेदप्रति-पाद्यत्वेन चेत्येवमाकारेण समत्वम् । ननु जीवस्य चेतनत्वेन ज्ञानानन्दादिगुणोऽस्त्येवातः कथं समो गुणो नास्तीत्यत्राह– सुखदुःखिनोरिति ॥ सुखदुःखिनोर्युवयोर्मध्ये केवलपरिपूर्णसुखो भवांस्ते सुमतयो भवज्ज्ञानपर्यन्तं दुःखिन इति । ननु पश्चात् समगुणत्वमापन्नम् ‘‘योऽज्ञानाद् विमुक्तः ज्ञानानन्दी भवति’’ इति श्रुतेरितीयमाशङ्का ‘‘अल्पसम्पूर्णशक्तित्वादल्पपूर्णसुखत्वतः’’ इति स्मृतिवचनेन परिहरणीया । यद्वा ये सुमतयः कृत्स्नं विसृजन्ति तेषां भवतः पुंसां भवदीय-पुरुषाणां यस्त्वं फलात्मा परमानन्दमोक्षरूपः समुदितः सम्यगुक्तस् त्रय्यां त्रिवेदविहितमार्गे वर्तमानयोः सुखदुःखिनोर् धर्माधर्मानुष्ठानेन तत्तत्फलभुजोर्विहितप्रतिषिद्धकत्रोर्यस्त्वं फलात्मा न समुदितः स त्वं मे वृतोऽसीत्यन्वयः ॥ ४२ ॥
दुर्घटभावदीपिका
हे विभो । यद्यस्मात्त्वं फलात्मा नित्याभिव्यक्तसुखात्मा पुरुषार्थ-मयः पुरुषैरर्थ्यस्वरूप इत्येतद्वै प्रमाणप्रसिद्धम् । सुमतयो भवतो वाञ्छया कृत्स्नं विषयजातं त्वत्प्रीत्यर्थं विसृजन्ति । तेषां सुमतीनाम् । भवत इत्यस्यावृत्तिः । भवतः सकाशात्प्रसादः । प्रसीदत्यनेनेति प्रसादः । स्वरूपानन्दः समुदितोऽभिव्यक्तो भवति । तस्मात्त्रय्याम् । चशब्दा-त्स्मृतौ च । तयोः सुमतिजातस्य वेदोक्तकर्मकर्तृत्वात् । भवतो वेदप्रतिपाद्यत्वात्सुखदुःखिनोर्न । भवतः सम्पूर्णसुखत्वात् सुमतिजातस्य भवदपरोक्षज्ञानपर्यन्तं दुःखित्वात् । सुमतिजातं भवतः समुदित इत्यस्यावृत्तिः । समुदितः समः यश्च कोपो । गुण इति शेषः । गुणो नास्ति । अनेन ययोरात्मसमं वित्तमित्यनेनोक्तं मत्समः कोऽपि नास्तीत्येतत्प्रमेयमुपपादितं भवति ॥ ४२ ॥
सत्यधर्मीया
त्वं वै समस्तपुरुषार्थमयः फलात्मेति श्लोके सर्वपुुरुषार्थमयफलात्म-पदयोर्भेदो मयटश्च कोऽर्थः । उत्तरार्धे नान्वयः सम्यक् प्रतीयते । चशब्दः किमर्थः किमर्थश्च यच्छब्द इत्यतः समस्तं यथावद्व्याकृत्य तत्र मानं चोदाहरति ॥ फलात्मा सुखात्मेति । फलं तत्प्राप्यफलाभावात् फलपदेन सुखं ग्राह्यम् । तदेवात्मा स्वरूपं यस्य सः । अत एवेति । फलात्मकत्वादेव पुुरुषार्थमय इति पुुुरुषार्थमयत्वे हेतूक्तिरिति सूचयति । पुरुषै-रधिकारिभिरर्थ्यत इति पुरुषार्थः स एव तन्मयः । एतेन मयटस्तादात्म्यमर्थ इति दर्शयति । सुमतिकोटिरेको भगवानेक इति युवयोरित्युक्तिरित्यभिप्रेत्य तेषां सुमतीनां भवतश्चेत्युक्तिः । समुदित इत्यस्य समुदायसहित इति सम्यगुदित इत्याद्यर्थप्रतीतिः स्यात्स चात्र नातिश्लिष्ट इत्यनूद्य व्याचष्टे ॥ समुदितः सम इति । प्रसादो नामेच्छाविशेषो वा गुणान्तरं वा न नः काचित्क्षतिरित्युक्तेः सर्वेषां गुणानां तादात्म्याद्गुणमात्राभिधायक इत्यभिप्रेत्याह ॥ गुण इति । यच्छब्दो यतश्चोदेति सूर्य इत्यादिवत्किंशब्दार्थ इति स्वयमनूद्य चशब्दोऽप्यर्थ इति तेन संयोज्य व्याकरोति । यश्च कोऽपि । त्रय्यां रतयोरिति हरितदितरयोर्विधिबद्धतादिसाम्यं प्रतीयत इत्यतो रतशब्दस्य कोटिद्वययोग्यमर्थं तदनूद्य दर्शयति ॥ त्रय्यां रतयोरिति । त्रय्यां वेदे रतास्तदुक्तेः कर्मकर्तृत्वेन सुमतयः । भगवतस्तु तत्प्रतिपाद्यत्वेन तद्गतत्वमिति विवेकः । सुखदुःखिनोरित्युभयोरुभयप्रसक्तिः प्रसक्तिश्च क्रामिकेऽर्थे तेषां सुमतीनां सुख-सामान्याभावश्चेत्यतः स्वयमनूद्य व्याकरोति ॥ सुखदुःखिनोरिति । सुखं च दुःखं च ते स्तोऽनयोरिति सुखदुःखिनौ तयोरित्यर्थः । प्राशस्त्यं तच्च केवलं परिपूर्णत्वरूपं तद्वान् भवानभवत् । ज्ञानपर्यन्तं तदुदयावधि दुःखिनस्ते सुमतयः । अनन्तरमभवन्नित्यवदन् वदंश्च भवानभवदिति तत्सुखं न स्वातान्त्र्येण तेषामिति ध्वनयामास । ‘दुर्दुःखमिति सम्प्रोक्तं खं सुखं प्रोच्यते बुधैः’ इति स्वेनैवान्यत्रोक्तेर्दुर्दुःखेन सहितं च तत् खं चेति विग्रहे एतदपार्थ-प्रतीतिवारणसम्भवेन पराक्रमणीयमत्राचार्यैरिति चेत्सत्यम् । मुक्तावपि दुःसाहिती भाया-त्स्वस्य न भातव्यं तयेत्येवं वचनीयत्वात् । अत एव सुखिनोरन्तरमित्यनुक्तिरिवोक्ति-र्मानेऽल्पसुखत्वत इत्यस्येति ज्ञेयम् । अल्पशक्तिसम्पूर्णत्वात् तथाऽल्पपूर्णसुखत्वतोऽल्प-सम्पूर्णदर्शितत्वाद् अल्पदर्शी च सम्पूर्णदर्शी च तयोर्भावस्तत्त्वम् । जीवः कृष्णश्च तयोः साम्यं न । सुमतिपदं तथा सुखपदं च जीवसामान्यपरं सम्पूर्णशक्त्याद्युपलक्षकमल्प-शक्त्याद्युपलक्षकं चेति ज्ञेयम् । स्मृतिष्वपीति स्मृतिसमुच्चायकश्चशब्द इत्यर्थः ॥
अथ मूलार्थः ॥ भूमंस्तवेहितमथोऽनुभवन्तीति ययोरेव समं वित्तमिति किञ्चिदुत्तरित-प्रायमिदानीं स्पष्टं न समस्तं वास्तीति बोधयति ॥ त्वं वेति । फलात्मा सुखं हि फलं, तदेवात्मा स्वरूपं यस्य सः । अत एव समस्तैः पुरुषैरर्थ्यत इति पुरुषार्थः स एवेति तन्मयः पुरुषार्थरूप इति यावत् । यस्य तव वाञ्छया प्रसादमाकाङ्क्षन्तः । सुमतयः सु समीचीना मतिर्येषां ते । कृत्स्नं पुत्रमित्रादिकं विसृजन्ति त्यजन्ति । निर्गतेषणा भवन्ती-त्यर्थः । ‘दारान् सुतान् प्रियान् प्राणान् परस्मै सन्निवेदयेत्’ इत्यादेरभिमानत्यागेन त्वय्ये-वार्पयन्तीति वा । हे विभो तेषां तदादिजीवसङ्घस्य भवतश्चेति युवयोः सुखदुःखिनोः प्रसादो गुणः समुदितः समो यश्च कोऽपि नास्ति । तयोर्विवाह इत्यादिकं न मत इति भावः । सुखदुःखिनोरिति वदन् मूलकृद्रतशब्दस्यार्थद्वयं कटाक्षयामास । तदेव व्यञ्जयामासु-राचार्या इति नोन्मूलत्वशङ्कापीडेति ज्ञेयम् । सुखी केवलपरिपूर्णसुखवान् अथवा सुखं तदात्मकमिति च दुःखी ज्ञानोदयपर्यन्तं दुःखी तयोः ॥ ४२ ॥
त्वं न्यस्तदण्डमुनिभिर्गदितानुभाव आत्माऽऽत्मदश्च जगतामिति मे वृतोऽसि ।
मुक्त्वा भवद्भवदुदीरितकालगन्ध१ध्वस्ताशिषोऽब्जभवनाकपतीन् कुतोऽन्यान्२
॥ ४३ ॥
तात्पर्यम्
अब्जो ब्रह्मा । सोऽद्भ्य एव पुरुषं समुद्धृत्य अमूर्च्छयदिति श्रुुतेः । अद्भ्यः सम्भूतो हिरण्यगर्भ इत्यष्टाविति च ॥ ४३ ॥
पदरत्नावली
‘‘भिक्षुभिः श्लाघिता मुधा’’ इत्यस्योत्तरं शृृणु– त्वमिति ॥ न्यस्तो वाङ्मनः कायलक्षणो दण्डो यैस्ते न्यस्तदण्डाः, तैर्मुनिभिर् वाचंयमैर् निर्जितेन्द्रियग्रामैर् गदितानु-भावः स्पष्टीकृतप्रभावस्त्वम् । अदीर्घसमीक्षयेति यदुक्तं तत्राह– आत्मेति ॥ जगतामात्मा स्वामी भजतामात्मदः सायुज्यमुक्तिप्रदश्चेति दीर्घसमीक्षया निश्चित्य मे मया त्वमभिहितः वृतोऽसि । ‘‘हिर्हेताववधारणे’’ इति यादवः । भवतो भवज्जायमानमुदीरितमुदीरणं प्रेरणं यस्य स भवद्भवदुदीरितः स चासौ कालः भवद्भवदुदीरितकालस् तस्य गन्धेन ध्वस्ताशिषः निरस्तसम्पदः । अद्भ्योजातोऽब्जो ब्रह्मा ‘‘सोऽद्भ्य एव पुरुषं समुद्धृत्यामूर्च्छयत्’’ इति श्रुतेः । भवो रुद्रः नाक-पतिरिन्द्रः । एतान् मुक्त्वा । अन्यांश्चैद्यादीन् मुक्त्वेति कुतः किमु वक्तव्यमित्यर्थः । एषामदीर्घसमीक्षया वृतोऽसीत्यर्थः ॥ ४३ ॥
सत्यधर्मीया
त्वं न्यस्तदण्डमुनिभिरिति पद्येऽब्जभवो ब्रह्मा, चाद्रुद्रः कुतो न गृहीतोऽनु गृहीतश्च तदधम इन्द्रो, बहुवचनं चानुपपन्नमित्यतोऽब्जपदमनूद्य तदर्थमुक्त्वा भवपदेन तद्ग्रह इति समाधत्ते ॥ अब्जो ब्रह्मेति । अब्जजः कथमब्ज इत्यतस्तेभ्योऽप्येक-दोत्पन्नत्वाद्धातुरित्यर्थप्रतिपादकं मानमुदाहरति । सोऽद्भ्य एव पुरुषं समुद्धृत्यामूर्छयदिति श्रुतेरिति । सः परमात्माऽद्भ्यस्तदादिभूतेभ्यस्तदंशानिति शेषः । उद्धृत्य पुरुषममूर्छयत्साकार-मकरोत् । पुरुषोऽत्र कुतो धाता यः कश्चिन्मानवः किन्न स्यादित्यतः स्पष्टां श्रुतिमाह ॥ अद्भ्यः सम्भूतो हिरण्यगर्भ इत्यष्टाविति चेति । अद्भ्योऽबादिभ्यः सम्भूतो जातो हिरण्यगर्भ इति । ‘अम्भस्य पारे भुवनस्य मध्य’ इत्याद्यावेदितगुणत्वेनाष्टौ तुष्टाव हरिमिति शेषः । ष्टु स्तुतावित्यस्य लङि छान्दसं रूपम् । अष्टौ लोकपाला इति । ननु यदि पुरुषशब्दो निर्णीतार्थ इति तन्निर्णयार्थं ‘अद्भ्यः सम्भूतो हिरण्यगर्भ इत्यष्टौ’ इति श्रुतिरुदाहृता हन्त तर्हि चशब्दो व्यर्थः । अतत्समाख्यारूपत्वादिति चेन्न । मुख्यवक्तव्यस्याद्भ्य इत्यंशस्य सत्त्वेन समाख्यात्वोपपत्तेश्चशब्दः सम्भवीयदष्टावित्याद्यधिकाभिधानं तत्पूर्वं श्रुतिवर्णरूपमिति विवेकसम्भवात् ॥
ततश्चायं मूलार्थः ॥ ‘भिक्षुुभिः श्लाघिता मुधा’ इति तदुत्तरयति ॥ त्वमिति । न्यस्तो दण्डः कायवाङ्मनःसम्भवो, हस्तादिना शिक्षणं, वाचा निष्ठुरगोष्ठी, मनसाऽहितचिन्तन-मित्येवंरूपस्त्यक्तो यैस्ते तैर्मुनिभिर्गदितोऽनुभावो यस्य सः । आत्मा मत्स्वामी सर्वस्वामी च । आत्मदः सायुज्ययोजकद इति तद्दः स्वरूपशरीरद इति वा । जगतामविशेषेण सतामिति हेतोर्मे मया वृतोऽसि । इदानीमेव वृत इति नेत्याह ॥ मुक्त्वेति । भवतो भवज्जायमानं यदुदीरितं प्रेरणं यस्य स चासौ कालस्तस्य गन्धो लेशस्तेन ध्वस्ता आशिष एषां तान् । अद्भ्यो जायत इत्यब्जो ब्रह्मा भवो रुद्रो नाकपतिरिन्द्र एतान्मुक्त्वा प्राग्वृतोऽसि । इदानीमन्यान्मुक्त्वा वृतोऽसीति कुतो वाच्यम् ।
अदीर्घसमीक्षयेत्यज न त्वदुक्तोऽर्थः । अपि तु न विद्यते दीर्घो बहुलः कालो येषामिति तेऽदीर्घास्तत्सम्पदश्चाशाश्वतिका इति समीक्षया मया वृतोऽसीति तदर्थः । क्वचिच्चिरायु-रित्यादिनाऽष्टमे स्पष्टमुक्तेः । एष ब्रह्मेत्यादेः । हित्वा चैद्यानित्युत्तरितमत्रेति न क्रम इत्यनुसन्धेयम् । न्यस्तो हस्तविन्यस्तो दण्डो येषामिति तैर्मुनिभिरन्यैर्गृहस्थैस्तपोनिरतैरिति मुधाऽपेक्षां विनेत्यर्थः । निष्कामैरिति यावदिति । पूर्वं न सर्वेशेन कटाक्षिता हनकर्मत्वे तु न चतुराननादय इत्यर्थिन इति तांश्चैद्यादीनिति वदता किञ्च देववृषोपमानिति गदता च ज्ञायतेऽस्मव्द्याख्यानमेवैतत्सख्यं भजते । अन्यथोक्तेप्सितार्थिन इत्यादिना ते प्रत्यवेयुरिति भावः । भवद्भ्रुवोदीरितकालवेगः, कुतोऽन्ये इति पाठं मन्ये सुन्दरम् । भवतो भ्रुवः सकाशा-दुदीरित एतदादिकार्योन्मुखीकृतो यः कालस्तस्य वेगो येषां तेऽन्ये शिशुपालादयः कुतो न त्याज्या इति तदर्थः । आत्मनां जीवजातस्यात्मदः स्वभावाविर्भावक इति वा ॥ ४३ ॥
सत्यं वचस्तव गदाग्रज यश्च भूपान् विद्राव्य शार्ङ्गनिनदेन जहर्थ मां त्वम् ।
सिंहो यथा स्वबलिमीश पशुं स्वभागं तेभ्यो भयाद् यदुदधिं शरणं प्रपन्नः
॥ ४४ ॥
पदरत्नावली
राजभ्यो बिभ्यत इत्येतत् प्रकारान्तरेणाक्षिपति सत्यमिति । हे गदाग्रज चशब्द एवार्थे । यस्त्वेव शार्ङ्गनिनदेन भूपान् विद्राव्य मां जहर्थ हृतवानसि । कथमिव? यथा सिंहः स्वभागं पशुलक्षणं स्वबलिं स्वस्य भरणयोग्यं हरति तथा तेभ्यो राजभ्यो भयादुदधिं शरणं प्रपन्न इति यत् तत् तव वचः सत्यं साधुभावं त्यजतीति अस्मद्व्यामोहनार्थमुक्तमिति भावः
॥ ४४ ॥
सत्यधर्मीया
समुद्रं शरणं गतानिति प्राक् प्रकारान्तरेणार्धाङ्गीकारेण परिहृत्य त्वदुक्तार्थ-कतायां न शुभं भवति भगवन्निति तदशोभानिमित्तमुपन्यस्य काक्वोपहासमुखेन प्रतिषेध्यति ॥ सत्यमिति । हे गदाग्रज ईश । यश्च त्वं भूपांश्चैद्यादीन् शार्ङ्गनिनदेन तद्ध्वनिना ध्वनिं विद्राव्य । अनेन सुनायासः सूच्यते । यथा सिंहः स्वबलिं पशुं शशगोमाय्वाद्यावृतं तान्विद्राव्य स्वलक्षितमिति हरति तथा स्वभा त्वदुद्देश्येन प्रभा भा यस्याः सा या ताम् । यात्राच्छलेन विभवेऽर्पयन्ती स्वशोभामित्युक्तेः । जहर्थ हृतवान् स त्वं तेभ्यो भयाद्धेतोरुदधिमगं गोमन्तं च शरणं प्रपन्न इति यत्तव वचः सत्यम् । काकुः । न सत्यमित्यर्थः । क्वचिद्गदयाऽग्रे त्यागात्पूर्वमेव जयो यस्य स इति चार्थः । गदान्मदलाभहेतुकाद्रोगादेवाग्रे जयो येन स इति वा । गदाद्रोगोऽग्रे जायत इति स तथा तत्सम्बुद्धिः । तदपेक्षया प्राग्जातस्य न तद्बाधेति नीरोगतेति वा । अस्वबलिं तत्परिवर्तनेन स्पर्शेनेति यावत् । शून्यं स्वभागं पशुं यथेत्यन्वयो वा । समुद्रमितीदंमुद्रणेन हरिणेरितेऽपि यदुदधिमित्याह तेन उदा निधीयन्तेऽस्मिन्निति योगेन प्रवर्षणाख्यशृृङ्गोपेततामगस्य द्योतयामास । भयादिति सङ्गत्या गोपीगृहीत इति नानुक्तोक्तिदोषश्च ॥ ४४ ॥
यद्वाञ्छया नृपशिखामणयोऽङ्गवैन्यजायन्तनाहुषगयादय ऐकपत्यम् ।
राज्यं विसृज्य विविशुर्वनमम्बुजाक्ष सीदन्ति नानुपदवीं त इहास्थिताः
किम् ॥ ४५ ॥
पदरत्नावली
प्रायः सीदन्ति योषित इत्यत्र वक्ति– यद्वाञ्छयेति ॥ नृपशिखामण-योऽङ्गादयो यस्य तव श्रीपादनिषेवणवाञ्छया ऐकाधिपत्यं राज्यं साम्राज्यं विसृज्य वनं विविशुस् ते राजानः सीदन्ति किम्? तवानुपदवीं नास्थिताः किम्? आस्थाय न सीदन्तीत्यर्थः । अम्बुजाक्षेत्यनेन नयनयोः स्रिग्धं गुणं सूचयति ॥ ४५ ॥
सत्यधर्मीया
प्रायः सीदन्ति योषित इत्युत्तरयति ॥ यद्वाञ्छयेति । यस्य तव वाञ्छया त्वत्प्रसादासादनकामनया । नृपशिखामणयस्तच्छ्रेष्ठाः । ओत्येकदा विशकलितं पर्यायं सदम्बुजाक्षेत्यनेनान्वेति । अङ्गो नाम तद्देशेशः कश्चिद्राजा स च वैन्यो वेनापत्यं पृथुः । वेनः स जगत्पीडनादतद्गुणस्तत्पुत्र इति द्योतयितुं वैन्येत्युक्तिः । यथोक्तं चतुर्थतात्पर्ये । पीडां वेनेति च प्राहुर्वेनोऽसौ पीडनादितीति । जायन्तो जयन्तो भरतः, दुष्यन्तस्य नामान्तरं जयन्त इति । नाहुषः । स्वार्थिकाणि स वा तत्पुत्रो ययातिर्वा । गय आदिर्येषां ते । एकः पतिर्यस्य तत् तस्य भाव ऐकपत्यम् आ सम्यगैकपत्यं च यस्य तत् । स्वार्थे वाऽऽपत्यं त्यक् एकाधिप-तीत्यर्थः । राज्यं विसृज्य वनं विविशुर्निविविशिरे । ते सीदन्ति किं त इत्यन्वयं तेषां पदवीमास्थिता योषित इति शेषः । सीदन्ति असीदन् किमित्यन्वयः । अतो न योषिदनुक्तिदोषः । यद्वा ते सीदन्ति किम् अनुपदवीं नास्थिताः किमित्येवान्वयः । न स्त्री स्वातन्त्र्यमर्हतीत्यादे-स्तत्सुखदुःखा इति न पृथग्वक्तव्या इत्यनुक्तिः । तदनुमतानां सतीनां सती भवतु तथा त्वं तु न मतेति कथमिति न वदाहं सेति दयापात्रमित्यप्याह ॥ अम्बुजाक्षेति ॥ अम्बुजा कमला तस्यामक्षिणी यस्य स तत्सम्बुद्धिः ॥ ४५ ॥
का स्त्री वृणीत तव पादसरोजगन्धमाघ्राय सन्मुखरितं जनतापवर्गम् ।
लक्ष्म्यालयं त्वविगणय्य गुणालयाढ्यं मर्त्याशिषोरुभयमर्थविविक्तदृष्टिः
॥ ४६ ॥
तं त्वाऽनुरूपमभजं जगतामधीशमात्मानमत्र च परत्र च कामरूपम्१ ।
**स्यान्मे तवाङ्घ्रिशरणं श्रुतिभिर्भ्रमत्या ये वै भजन्ति उत२ **
यान्त्यनृतापवर्गम् ॥ ४७ ॥
तात्पर्यम्
**सन्मुखरितं सद्भिः प्रधानीकृतम् । मर्त्याशिषोरुभयं जनं प्रत्यर्थोऽयमिति विविक्तदृष्टिः ॥ कामरूपं त्वामविगणय्य ॥ ४६ ॥ **
भ्रमस् तिरन्नं यस्याः सा भ्रमतिस् तस्या भ्रमत्या विपरीतज्ञानिभक्षिकाया इत्यर्थः । श्रुतिभिः श्रुतिप्रमाणेन ॥ अभ्रमा भ्रमतामत्री या वेदैरधिगम्यते । तस्यै नमोऽस्तु ते देव्यै विष्णुवक्षःस्थलाश्रये ॥ इति नारदीये ॥ ४७ ॥
पदरत्नावली
स्थिरबुद्धित्वेन पुरुषाणां विषादाभावेऽपि भीरूणां स्त्रीणां स स्यादिति मन्दाशङ्कां श्लोकद्वयेन परिहरति– केति ॥ का स्त्री सततं रमणकाङ्क्षिणी जनताया जनसमूह-स्यापवर्गो मोक्षो यस्मात् स तथा तम् । सद्भिर् मुखरितं मुख्यत्वेनेरितं दत्तमुपदिष्टम्, प्रधानी-कृतमित्यर्थः । एवं विधं तव पादसरोजगन्धमाघ्राय निषेव्य पुनरत्र परत्र च कामरूपं त्वाम-विगणय्य मर्त्याशिषा नाशशिरस्कसम्पदा कारणेन उरुभयं गुरुतरभीतिमन्तं जनं वृणीतेत्यन्वयः ॥ कीदृशं त्वाम्? लक्ष्म्याः सकलसम्पद आलयं शौर्यादिगुणानामालयम् अत एवाढ्यं च ॥
यस्त्वमविशेषेण स्त्रीपुरुषाशणामर्थनीयगुणरत्नाकरस्तं त्वामहमभजम्, चैद्यादीन् हित्वेति शेषः । कथं विधं त्वाम्? अनुरूपमनुकूलसौन्दर्यं जगतामधीशं जगतामीश्वराणां ब्रह्मादीनामपि सम्पत्प्रदम् अत एवात्मानं तेषां स्वामिनम् । कीदृशी? अहं च अर्थविविक्तदृष्टिर् अर्थोऽयमिति विवेकीकृतदृष्टिर् अव्यक्तज्ञानेत्यर्थः । किं बहुनेत्याशयेनाह– स्यादिति ॥ कीदृश्या भ्रमत्या भ्रम इति अन्नं यस्याः सा भ्रमतिस् तस्या विपरीतज्ञानिनामीशित्र्या इत्यर्थः ॥ केनेयमवगम्यत इत्यत उक्तं– श्रुतिभिरिति ॥ श्रुतिप्रमाणेन, सिद्धाया इति शेषः । ‘‘अभ्रमा भ्रमतामत्री या वेदैरधिगम्यते’’ इति स्मृत्या च । ‘‘मुखं तु वदने मुख्ये’’ इति यादवः । तीत्यन्नमिति श्रुतिः । पारत्रिककामरूपत्वं दर्शयति– य इति ॥ ये त्वां भजन्ति ते । उत एव अनृतापवर्गं संसारान्मोक्षं यान्तीत्यन्वयः । ‘‘तमेवं विद्वानमृत इह भवति’’ इति श्रुतिर्वैशब्देन गृहीता
॥ ४६,४७ ॥
दुर्घटभावदीपिका
मर्त्याशिषा नाशशिरस्कसम्पादनमिताया उरुभयमुत्कृष्टभयविशिष्टं जनं प्रत्यर्थविविक्तदृष्टिरर्थोऽयमिति दृष्टेर्विविक्ता विरुद्धा दृष्टिर्यस्याः साऽर्थविविक्तदृष्टिर्नाशशिरस्क-सम्पन्निमित्तकोत्कृष्टभयविशिष्टे जनविषये । अनर्थोऽयमिति दृष्टिविशिष्टेति यावत् । का स्त्री सन्मुखरितं सद्भिर्मुखरं प्रधानमितीतं ज्ञातम् । प्राधान्यवाचकमुखशब्दाकारलोपेन ज्ञानार्थकेण्-धातोः क्तप्रत्ययेन मुखरितशब्दस्य निष्पन्नत्वात् । जनतापवर्गं सज्जनसमुदायमोक्षस्य हेतुं तव पादसरोजगन्धमाघ्राय लक्ष्म्यालयं लक्ष्म्याश्रयं गुणालयाढ्यं सकीगुणाश्रयैर्ज्ञानादिगुणैराढ्यं सम्पन्नमनुरूपं वरणयोग्यं जगतामधीशमात्मानमादानादिकर्तारमत्र च परत्र च कामरूपं कामं काम्यं कामितार्थं रूपयति निरूपयतीति कामरूपं कामितार्थप्रदम् । एवं गुणविशिष्टत्वेन श्रुत्यादिप्रसिद्धं त्वामविगण्य्य मर्त्याशिषोरुभयं जनं वृणीत । अतोऽहं चैद्यादीन्परित्यज्य त्वाम-भजम् । कामरूपमित्येतद्विवृण्वन्ती स्वाभीष्टं प्रार्थयते ॥ स्यादिति ॥ ये त्वां भजन्ति त उतैवानृतापवर्गम् मिथ्याभूतार्थवत्प्रयोजनराहित्याद् अनृतशब्देन संसार उच्यते । तन्मा मोक्षं यान्त्यतः श्रुतिभिर्गम्याया भ्रमत्या भ्रमा भ्रमविशिष्टास्तिरन्नं यस्याः सा भ्रमतिस्तस्या विपरीत-ज्ञानिनां भक्षिकाया अपि मे तवाङ्घ्रिशरणं सर्वदा स्यादिति ॥
ता० अर्थः ॥ सन्मुखरितमित्यनुवादः, सद्भिः प्रधानीकृतमिति व्याख्यानम् । सद्भिः प्रधानत्वेन ज्ञातम् । मर्त्याशिषोरुभयम् इत्यतः परमध्याहार्यं दर्शयति ॥ जनं प्रतीति ॥ अर्थाेऽयमिति विविक्तिदृष्टिरनर्थोऽयमिति दृष्टिः । कामरूपमित्येतल्लक्ष्म्यादीनामुपलक्षणम् । भ्रमतिशब्देन भ्रमभक्षकत्वमुच्यत इति भ्रमं वारयितुं भ्रमशब्दस्यार्श आद्यजन्तत्वमङ्गीकृत्य भ्रमत्या इत्यस्य विपरीतज्ञानिनां भक्षिकाया इत्यर्थ उक्तः । श्रुतिप्रमाणेनेत्यतः परं गम्याया इति शेष इति । एतेन सद्भिर्भगवत्पादसरोजगन्धप्राधान्यस्य कृतत्वात् सद्भिः प्रधानीकृतमित्ये-तदयुक्तमिति दूषणस्यानवकाशः । सद्भिः प्रधानीकृतमित्यस्य सद्भिः प्राधान्यमुत्पादितमित्यर्थ इत्यनङ्गीकृतत्वात् । एतेनैव मर्त्याशिषोरुभयं जनं प्रत्यनर्थोऽयमिति दृष्टिवृत्तिर्वक्तव्यमर्योऽयमिति विविक्तदृष्टिरिति कथनमयुक्तमिति शंका परास्ता । अर्थोऽयमिति विविक्तदृष्टिरित्यस्यानर्थोऽय-मिति दृष्टिरित्यर्थे तात्पर्यमित्यभ्युपगमात् । एतेनैव विपरीतज्ञानिनां भक्षकत्वं प्रति श्रुति-प्रमाणस्य हेतुत्वाभावात् श्रुतिप्रमाणेन विपरीतज्ञानिनां भक्षिकाया इति कथनमनुपपन्नमिति चोद्यं निरस्तम् । श्रुतिप्रमाणेनेत्यस्याध्याहृतेन गम्याया इत्यनेनैवान्वयः । न तु विपरीतज्ञानिनां भक्षिकाया इत्यनेनेत्यूरीकरणात् । अत एवोक्ते प्रमाणे ‘या दैवैरपि पूज्यत’ इति ॥४६,४७॥
सत्यधर्मीया
अप्रतिपत्तिविप्रतिपत्तिभ्यां का स्त्री वृणीत, तं त्वामिति पद्यद्विकस्य यथावदर्थमाह ॥ सन्मुखरितं सद्भिः प्रधानीकृतमिति । ‘नखमुखकुञ्जेभ्यो र’ इति विहितो रः स्वार्थे । गतेरर्थवत्त्वमिति यथा । ततश्च मुखरशब्दस्य ‘मणिर्मुखं प्रधानं चेत्युत्तमस्य वचो भवेत्’ इति मानात् । तथा मुखं प्रधाने प्रारम्भ इति नानार्थरत्नमालोक्तेश्च मुखशब्दस्य पर्यायो मुखरशब्दः । स च भावप्रधानः । मुखरत्वं सञ्जातं यस्य तत् । भावदीपे इदमेव निदर्शनीकृत्य चिन्तासन्तापलेपोद्भवमृतिमुखरेति मुखशब्द एव प्रधानवाचीति व्याकृतम् । पूर्वं तथाऽज्ञातमिदानीं तथा ज्ञातमिति च्व्यर्थः । अनादितः सिद्धस्य करणायोगात् । दासीकृतामर इतिवत् तत्रैवापेक्षित-मध्याहृत्य मर्त्याशिषोरुभयमर्थविविक्तदृष्टिरिति पदद्वयं व्याख्याति । मर्त्याशिषेति ॥ मर्त्या नश्यन्ती आशीस्तया निमित्तभूतयोरुभयं यस्य स तं जनम् । अर्थः शाश्वतिको बिम्बरूपी हरिः प्रत्यर्थः प्रतिबिम्बरूपः सर्व इति विविक्ता विवेकं भेदं प्राप्ता दृष्टिर्ज्ञानं यस्याः सेति । अनेनार्थपदात्पूर्वं प्रतिपदमध्याहार्यमित्यसूचयदिति ज्ञेयम् । कामरूपमपेक्षितसर्वस्वात्मकं त्वामविगणय्य । अथवा मर्त्याशिषोरुभयमिति पदमेकम् । मर्त्याशिषाया उरुभयं यस्य स तं जनम् । हलन्तत्वाट्टाबन्तता । अनेनोरुभयशब्दयोगे कथं न पञ्चमीति परास्तम् । भाष्यकृताऽत एव तृतीयान्ततया पृथक्कृत्य व्याकृतमिति मन्तव्यम् । अलक्षयित्वा भ्रमत्या इति साक्षाल्लक्ष्म्या भ्रमो भ्रमणं वा प्रतीयते सम्भवतीत्यतः स्वयं व्याकृत्य तदविगानाय श्रुतिभिरिति व्याकृत्य मानमुदाहरति ॥ भ्रमतिरिति । भ्रम इत्यर्श आद्यचि तद्वान् जनः स तिरन्नं यस्याः सा भ्रमतिः । तस्या भ्रमत्याः । अर्थः सम्पन्नः क इत्यत आह ॥ मिथ्या(विपरीत)ज्ञानिभक्षिकाया इत्यर्थ इति । क्वचिद्भ्रमतिरिति सा भ्रमतीति च पाठद्वयं दृश्यते । तदतिदृश्य आद्यः । दृश्यो द्वितीयः । भ्रमन्तस्तिरन्नं यस्याः सेति तस्याः । भ्रमतीति च । य एवं वेद तत्सत्यं सदिति प्राणस्तीत्यन्नं यमित्यसावादित्यस्तदेतत्त्रिवृदिति । व्यञ्जनमात्रस्य तित्यस्य ग्रहणादिकार उच्चारणार्थ इति सर्वैरेष्टव्ये भवत्वीकारोऽपीति तथोक्तिरितीकारान्ततया निर्देशः । अथवा भ्रमन्तस् द् अन्नम् इ कोपेन यस्या भ्रमती । ‘ई दुःखभावने कोप’ इति विश्वः । केचित्तु तीत्यन्ननामेति विवृत्य पुनरिकार इच्छार्थक इति तद्रूपकामितान्नवती भ्रमतीति व्याचक्रुः । भ्रमतीति पाठोऽभ्रमा भ्रमतामत्रीति मानिकवर्णानुगुणः । परोऽपि वर्णवाचकमेव तकारमत्र ईकारस्तु उच्चारणार्थो निबद्ध इत्यैतरेयव्याकृतावकृतवृत्तिम् । श्रुतिभिः श्रुतिप्रमाणेन । अभ्रमो न विद्यते भ्रमो यस्याः सा । भ्रमतामन्यथाज्ञानिनां या वेदैरधिगम्यते तस्यै ते देव्यै नमोऽस्तु । सा लक्ष्मीरिति कुत इत्यत आह ॥ विष्णुवक्षःस्थलाश्रय इति । विष्णोर्वक्षःस्थलमेवाश्रयो यस्याः सा तत्सम्बुद्धिः । नारदीयोक्तेर्भ्रमतिस्तुतिभिः पदयोरर्थाशय इत्यर्थः ।
ततश्चायं श्लोकद्विकार्थः । अङ्गादिपुरुषग्रहे नाङ्गना अप्युक्तप्राया इति सूचितम् । तदेव देवं प्रति देवी वितत्या त्यागे निमित्तमुपन्यस्य वक्ति ॥ केति । का स्त्री । सन्मुखरितं सद्भिः प्रधानीकृतम् । दुर्मुखे मुखराबद्धमुखाविति न अमरेरितोऽर्थोऽत्र सम्भवीति पराक्रान्तमाचार्यैः । तत्त्वेन ज्ञानं जनतापवर्गं संसारे जनानां न भवति तापानां वर्गो ह्याध्यात्मिकादितापत्रयं यस्मादनन्तरम् । जनताया अपवर्गो मोक्षो येन स तम् । लक्ष्म्यालयं शोभापदम् । गुणा-लयाढ्यम् । न विद्यते लयः कदाचिदेषां ते च ते गुणाश्चेति गुणालयाः । विशेषणस्य परनिपातः । तदाढ्यं तत्सम्पन्नं, तव पादसरोजगन्धमाघ्राय तमविगणय्य का स्त्री अर्थविविक्तदृष्टिर् बिम्बो हरिरेते प्रतिबिम्बा इति जनं प्रत्यर्थविविक्तज्ञाना मर्त्याशिषोरुभयं मर्त्याशिषानिमित्तोभयं जनम् । मर्त्याशिषयोभयमिति वा जनं चैद्याद्यं वृणीत । यद्येवमपि काचित्कामिनी वृणीत सा का कुत्सिते-त्यप्यर्थः । ईहितमनु हितानीत्युक्तेरनुरूपं तमेतादृशपादसरोजगन्धोपेतम् । जगतामवान्तरभेद-ज्ञापनाय बहुवचनम् । आत्मानं गतम् । अत्र च परत्र च कामरूपम् । कामपूरमित्यपि पठन्ति । तथा तात्पर्ये चेति न विरोधः । जनतापवर्गमित्यस्यात एव प्रागस्माभिरर्थद्वयमभिहितमिति ज्ञातव्यम् । अहमभजं श्रुतिभिर्वेदप्रमाणेनाधिगम्याया भ्रमत्या मिथ्याज्ञानिभक्षिकाया मे तवाङ्घ्रिशरणं तद्रूपं रक्षयितृ स्यात् । न केऽपि तत्काङ्क्षितवन्तः । काङ्क्षणेऽपि तत्फलं तेषामिति नेत्याह । ये भजन्ति तेऽप्युत तद्भजनानन्तरमनृतापवर्गमनृतादस्थिरतायास्तथाविधात् संसारादपवर्गं मुक्तिं यान्तीति ततो भजन्ति । उतेति ॥ नापरथा मुक्तीति तदसन्धिर्ध्वन्यतेऽसन्धिना नरो विशिष्टमान-वत्त्वाद्देवादयो मानवा तेषां यस्तापवर्गः पूर्वोक्तः स न येन तं चेत्यप्यर्थः ॥ ४६,४७ ॥
कस्याः स्यु१रच्युत नृपा भवतोपदिष्टाः स्त्रीणां गृहेषु खरगोश्वबिडालभृत्याः ।
यत्कर्णमूलमरिकर्शन नोपयायाद् युष्मत्कथा मृडविरिञ्चसभासु गीता ॥ ४८ ॥
तात्पर्यम्
खरगोश्वबिडालवत् स्त्रीणां भृत्याः ॥ ४८ ॥
पदरत्नावली
नृपाणां हेयत्वे दोषान्तरमाह– कस्या इति ॥ हे अच्युत, स्वतः परतो वा च्युतिरहित, भवतोपदिष्टा नृपाश्चैद्यादयः कस्याः स्त्रियः स्युः? न कस्या अपि भवन्तीत्यर्थः । सर्वदोषेष्वधिको दोषोऽयमिति भावेनाह– यत्कर्णमूलमिति । हे अरिकर्शन मृडो रुद्रः । रुद्रविरिञ्चसभासु गीता युष्मत्कथा येषां नृपाणां कर्णमूलं नोपयायान्नोपगच्छति, ते इति शेषः । तासां स्युरिति पाठे यासां तासां स्त्रीणां ते नृपाः स्युरित्यर्थः२ ॥ ४८ ॥
सत्यधर्मीया
कस्याः स्युरिति श्लोके खरगोश्वबिडालभृत्या इत्यत्र द्वन्द्वसमासे भृत्याः स्वतन्त्रपदार्थ इति किञ्चिदुत्कृष्टताभायात्तथा न भातव्यमिति समासेन सह योजनामतिनैच्या वेदिकां दर्शयति ॥ खरगोऽश्वबिडालवद्भृत्याः स्त्रीणामिति । अनेन बुद्ध्या विविक्तं भृत्यपदं स्त्रीपदेनान्वेतीति कटाक्षितमाचार्यैरिति ज्ञेयम् । ततश्चायं श्लोकार्थः ॥ हे अच्युत सर्वप्रकारेण च्युतिरहित । भवतोपदिष्टा वरत्वेन वरणीया इति ते गृहेषु खरवद्भारवाहकतया गोवन्नस्योता गाव इव तदधीनत्वेन । श्ववत्तत्परिवेषणमार्गान्वेषणेन सारमेयवद् दुर्भृताशया बभ्रुवद् भृत्याः स्त्रीणाम् । एत एतस्याः पुरुषा भवेयुरिति भाषते ॥ यत्कर्णमूलमिति । हे अरिकर्शन वैरिकर्षक । तत्कर्षणमेतदभिमर्शनजमित्यप्याह । अरिणा चक्रेण कर्शनं येन योग्यतयाऽरिहणं वाऽऽवृत्त्या वेति ज्ञेयम् । मृडविरिञ्चसभासु हरहिरण्यगर्भसभासु । अत्र पुरहरपुरस्करणं जरासन्ध-साल्वादींल्लक्षयित्वा ।
शिवश्च नः परागतिर्गुरुर्भवानरिर्हरिः ।
शिवोरुलिङ्गमित्यलं सुमाल्यवस्त्रभूषणैः ।
समर्चितमित्याचार्योक्तेर्मुख्यत्वेन सम्प्रतिपन्नाभ्यां हरिविरिञ्चाभ्याम् । एतदपि नैकान्त इति तदपि नैकस्यां कदाचित्सभायामित्याह सभास्वित्यनेन । गीता युष्मत्कथा यत्कर्णमूलं यस्याः कर्णमूलं कर्णविवरं नोपयात्तस्याः कस्याश्चित्स्युर्नान्यस्येति भावः । यत्कर्णमूलं येषां मगधादय उपविष्टाः कस्याः स्युरिति न कस्या अपि स्युर्यादृशो यक्षस्तादृशो बलिरितिवत्तादृश्या एव कस्याश्चित्स्युरित्यर्थः । न दाक्षिण्येन गीता सेति वाऽऽह ॥ मृडविरिञ्चसभासु गीतेति
॥ ४८ ॥
त्वक्श्मश्रुरोमनखकेशपिनद्धमन्तर्मांसास्थिरक्तकृमि१विड्भरितान्त्रवीतम् ।
जीवच्छवं भजति काममतिर्विमूढा या ते पदाब्जमकरन्दमजिघ्रती स्त्री
॥ ४९ ॥
तात्पर्यम्
आन्दश्मश्रुरानन्दकेश आपादनखात्सर्व एवानन्दः स एष विष्णु-रजोऽमृतोऽचलो ब्रह्मा य एनमेकं वेद । आनन्द एव स भवत्यानन्दस्य सार्ष्टितां२ सलोकतां सायुज्यमाप्नोति इति माध्यन्दिनायनश्रुतेः३ ॥ ४९ ॥
पदरत्नावली
एतदेव स्पष्टयति– त्वक्श्मश्रुरोमेति ॥ या स्त्री तव पदाब्जमकरन्द-मजिघ्रती असेवमाना सा जीवच्छवं जीवन्मृतं पुरुषं भजति । तत्र निमित्तं काममतिरिति । अस्य सम्पदमाह बहिस्त्वगादिभिः पिनद्धं बद्धम् अन्तर्मांसादिभिः संवृतम् । ननु विग्रहोऽ-प्येतादृशः कृष्णस्य किं न स्यादविशेषादिति चेन्न । ‘आनन्दश्मश्रुरानन्दकेशः’ इत्यादिश्रुतेर्हेतोः कालात्ययापदिष्टत्वात् ॥ ४९ ॥
सत्यधर्मीया
त्वक्श्मश्रुरोमनखेति श्लोके लोकेशस्य नैतादृक् शरीरमिति प्रतीयते । दृश्यते च तत् । वेधादिदर्शनाच्चेत्यतो विग्रहोऽप्राकृतः । विद्धवन्मुग्धवच्चैव केशवो वेदनार्तवत् । प्रदर्शयति मोहाय नैव विष्णुस्तथा भवेदित्यादेस्तमङ्गीकृत्य मानेन तत्स्वरूपं निरूपयति ॥ आनन्दश्मश्रुरिति । आनन्दात्मकानि श्मश्रूणि मुखरोमाणि यस्य सः । आनन्दात्मकः केशः । अनेन यत्केशतः प्रादुर्भावस्तदाद्या आनन्दात्मका इत्यावेदयितुं तत्पदघटितश्रुत्युदाहरणमिति तात्पर्यं सूच्यते । आपादादानखादभिव्याप्य सर्व आनन्दस्तदात्मकावयववान् । स एष विष्णुरजो जननहीनोऽमृतो मुख्यामृतोऽचलः स्थिरः । यो ब्रह्मा गुणपूर्णो योऽधिकारी । एनं कृष्णमेकं प्रधानं वेद स आनन्दस्यैवं तदात्मकस्य सार्ष्णितां सामीप्यम् । अग्निर्हिङ्कार इति खण्डे छन्दोगोपनिषच्चतुर्थप्रपाठके सलोकतां सार्ष्णितां सायुज्यमिति खण्डार्थे सामीप्यमिति व्याख्यातत्वात् । यत्र क्वचन सामीप्यसार्ष्णिशब्दौ सह श्रूयेते तत्र सामीप्यातिसामीप्ये अधिकारिविवक्षया ज्ञेये । सलोकतां समानलोकत्वं, सायुज्यं सयुजां भावः सायुज्यम् । माध्यन्दिनायनश्रुतेरप्राकृतत्वगादिमत्त्वमेव तस्येति न प्राकृतो ऽप्राकृतो विग्रह इत्यर्थः । श्रुतिरिति पाठे यतोऽस्ति श्रुतिस्ततो न प्राकृतविग्रह इत्यर्थः । ननु विष्णोरेवैषा तोषात्मककेशादिमत्त्वं प्रतिपादयति किमायातं यादवस्येति चेन्न । सुस्मूर्षतु भवानुक्तार्थसङ्गतेः । साक्षाद्विष्णुरध्यात्मदीप इति देवक्या, तथा त्वं ब्रह्म परमं धामेत्यर्जुनेन चोक्तेः कृष्णं प्रति । ऋष ज्ञान इतीशावास्य-भाष्योक्तेराङ्पूर्वादृषधातोस्तिप्रत्यये आर्धधातुके गुणे समानशब्दस्य सभावे सवर्णदीर्घे सार्ष्टिस्तद्भावं स्वयोग्यज्ञानितामित्यपि वर्णयन्ति । तच्छब्दश्रवणात् कृष्णपरेयं श्रुतिरिति समाधत्ते ।
अथवा सार्ष्टितां समानचक्राद्यायुधवत्ताम् । ‘ये पृषतीभि ऋष्टिभिः । मरुतो भ्राजदृष्टय’ इत्येतद्भाष्ये अन्यदायुधमुच्यत इत्युक्तेः शङ्खचक्रादयस्तत्पदग्राह्याः । सर्वे चारुचतुर्भुजाः । धनुर्निषङ्गासिगदाशङ्खचक्राम्बुजश्रिय इत्यादेः । ऋष गतावित्यस्याः क्तिच्क्तौ च सञ्ज्ञायामिति क्तिजन्तः शब्दः । सार्ष्णितामिति क्वाचित्कपाठे णकारागमो वाऽखण्डो वैदिकः स इति वा ज्ञेयम् । परस्तु सार्ष्टिरेव सार्ष्णिरिति व्याचख्याविति सार्ष्णितेति वा । पृथक् फलश्रवणा-दानन्दश्मश्रुरिति नार्थवाद इति ज्ञेयम् ॥
ततश्चायं श्लोकार्थः ॥ त्वक्चर्म च श्मश्रूणि च नखाश्च केशाश्च तैः पिनद्धं पिहितं बहिरन्तस्तु मांसेनास्थ्ना रक्तेन कृमिभिर्विडि्भर्विष्टाभिर्भरितं भरोऽस्य सञ्जात इति स तथा । तथाऽऽन्त्रैर्वीतं परीतम् । जीवच्छवं जीवन्तमेव शवसदृशदेहं पुरुषमिति यावत् । या ते पदाब्जमजिघ्रती अनाघ्रातवती मूढा स्त्री कामयति स्म परवशा भजति न मद्विधेति भावः । क्वचित्क्रिमिरिति पाठो दृश्यते । तौ दृश्यौ । तथोक्तममरसुधायाम् । नीलङ्गुस्तु क्रिमिः कर्णजलौकाः, क्रामति । क्रमु पादविक्षेपे । क्रमितमीति किः । बाहुलकात्सम्प्रसारणमिति । द्रुमामये भवेत्पुंसि कीटे च क्रिमिवत् कृमिरिति रभसः । क्रिमिर्ना कृमिवत्कीट इति निरभिधानाभिधानेन च ॥ ४९ ॥
अस्त्यम्बुजाक्ष मम ते चरणानुराग आत्मन् रतस्य मयि चानतिरिक्तदृष्टेः ।
यर्ह्यस्य वृद्धय उपात्तरजोऽतिमात्रो मामीक्षसे तदु ह नः परमानुकम्पा
॥ ५० ॥
तात्पर्यम्
अनतिरिक्तदृष्टेर् भक्त्यनुसार्यनुग्रहस्य ॥ स एष देवः परोऽजरोऽ-मरस्तं वा एनमाहुर्भाक्त इति ॥ भक्त्या हि सोऽनुगृह्णाति भक्त्यैवेदं वृणुते । श्रियं विरिञ्चिं रुद्रम् इन्द्रमापिपीलकम् । नाभक्तं वृणुते नाभक्तमनुगृह्णाति यावान्वा स भक्तस्तावद्ध्येष वृणुते तावद्ध्येषोऽनुगृह्णाति ॥ नाधिकं वृणुते नाधिकमनुगृह्णाति नावरं वृणुते नावरमनुगृह्णाति ।
अथातो भक्तिमीमांसा भवति । युवा स्यात्साधु युवाऽऽध्यायकः । आशिष्ठो दृढिष्टो बलिष्ठः । तस्येयं पृथिवी सर्वा वित्तेन पूर्णा स्यात् । स एको मानुषो भक्तो भवति । ते ये शतं मानुषा भक्ताः । एतावान् मानुषो गन्धर्वाः । ते ये शतं मानुषा गन्धर्वाः । एतावान् देवगन्धर्वः । ते ये शतं देवगन्धर्वाः । एतावांश्चिरलोकाः पैतृकः । ते ये शतं चिरलोका पैतृकाः । एतावांश्चिरलोको दैविकः । ते ये शतं चिरलोका दैविकाः । एतावत्यतात्त्विका देवता । ते ये शतमतात्त्विक्यो देवताः । एतावती तात्त्विकदेवता । ते ये शतं तात्विक्यो देवताः । एतावान् पुरुहूतः । ता या शतं पुरुहूताः । एतावान् वाव रुद्रः । ते ये शतं रुद्राः । एतावान्वा विरिञ्चस्ते ये शतं विरिञ्चाः । एतावती श्रीर्भक्त्या भवति । तद्यावती वाव भक्तिस्तावज्ज्ञानं भवति । यावद्वाव तज्ज्ज्ञानं ताव-दानन्दो मौक्तिकोऽथैष एव परमानन्दो योऽसौ हरिर्विश्वो विनोदोऽपनोदः संस्कारकोऽविकारकोऽधिकारक एतस्यैवानन्दस्य अन्यानि भूतानि मात्रामुप-जीवन्तीति पौत्रायणश्रुतिः ॥
पदरत्नावली
अहमप्येतादृशी नेत्याह– अस्तीति ॥ चरणयोरनुरागो पराभक्तिरस्तीति भक्तेः सर्वदैकप्रकारत्वं कथयति । मया तव न कोऽप्यर्थ इति भावेनाह– आत्मन्निति ॥ आत्मन् आत्मनि । मम तु त्वत्तो महानर्थोऽस्तीति भावेनाह– मयि चेति ॥ मयि महाधिकारिण्यां भक्तेर्न अतिरिक्ता दृष्टिरनुग्रहलक्षणा यस्य स तथा । भक्त्यनुकूलानुग्रह इत्यर्थस्तस्य चशब्दो भक्तेरन्वयव्यतिरेकसूचकः । तत् कुत इति चेन्न । ‘‘य एष देवः परोऽक्षरोऽमरस्तं वा एनमाहुर् भक्तः’’ इत्यादिश्रुतिसिद्धत्वात् । अनेनैव तारतम्यं सूचयति । ‘‘अथातो भक्तिमीमांसा’’ इति श्रुतिविहितत्वात् । अन्योन्यं हेतुहेतुमद्भावं चः ‘‘मिलितौ वाव एतौ भवतो यदनुग्रहश्च भक्तिश्च’’ इति श्रुतिसिद्धमनुवदति मिलितावन्योन्यं हेतुहेतुमद्भावोपेतौ । भक्त्यनु-कूलानुग्रहविशेषं कथयति– यर्हीति ॥ यर्हि यदा अस्य जगतोऽभिवृद्धये सृष्टिलक्षणायै उपात्तं स्वीकृतं रजोऽतिमात्रं केवलं रजो येन स तथा । यद्वा उपात्ताः प्रलये मूलरजसि अतीताः सङ्गता मात्रा अंशा येन स तथा । मूलरजो गुणोपादानवानित्यर्थः । तदु तदेव मामीक्षसे ह विशेषत इत्यर्थः । यदा स्थितिलक्षणायै उपात्ता रजसोऽतिरिक्ता मात्रा सत्वलक्षणा येन स तथा । तदा मामीक्षसे । यदाऽतिवृद्धिरहितो वर्धनं छेदनं संहारस्तस्मै उपात्ता रजोऽतिक्रान्ता मात्रा तमोलक्षणा येन स तथा । अत्रेक्षणं नाम तत्तत्कार्यमनुसृत्य रजआदि यदधीनं तत्तद्गुणाभिवर्धनमभिप्रेतम् । तदुक्तम् । ‘‘अथ त्रिगुणा ह्येष प्रकृतिरगुणो वा विष्णुः स यदाह्यरजा रजोऽस्या उद्वर्धयति’’ इत्यादिश्रुतौ । नैतत् स्वप्रयोजनमुद्दिश्येति नो ऽस्मानुद्दिश्य कृता परमकृपेति भावः ॥ ५० ॥
दुर्घटभावदीपिका
हे अम्बुजाक्ष । आत्मन् आत्मनि । रतस्य स्वनिमित्तकरमणस्य मयि । चशब्दाद्ब्रह्मादिषु च । अनतिरिक्तदृष्टेरनतिरिक्ता भक्त्यनतिरिक्ता भक्त्यनुसारिणीति यावत् । दृष्टिशब्देनानुग्रहसाधनमनुग्रह उपलक्ष्यते । दृष्टिरनुग्रहोऽनुग्रहदृष्टिश्च यस्यासावनतिरिक्तदृष्टिस्तस्या अनतिरिक्तदृष्टेस्ते चरणानुरागो ममास्ति । नन्वात्मन् रतस्येत्यनेन परनिरपेक्षत्वमुक्तम् । तदयुक्तम् । तथात्वे जगत्सृष्ट्याद्यर्थं मम त्वदनुसरणाभावप्रसङ्ग इत्यत आह । यर्हीति ॥ अस्य जगतो वृद्धये स्थितये । उपलक्षणमेतत् । सृष्टये संहाराय च नोऽस्माभिरुपात्तरजोतिमात्र उपात्तानां स्वीकृतानामस्मदभिमन्यमानानामिति यावत् । रजःशब्दोपलक्षितसत्त्वादिगुणानामतिमात्रमभिवर्धनं यस्यासावुपात्तरजोतिमात्रः सन् त्वं मामीक्षसे मद्वारा स्थित्यादिकं करोषीति यर्हि यत्तत्तन्मद्वारादि-करणं नोऽस्मासु । उशब्द एवार्थे । परमानुकम्पा उ परमानुग्रह एव । अस्मद्विषयकानुग्रहकार्य-मेवेत्येतद्धि प्रमाणप्रसिद्धमिति ॥
अयं भावः । यद्यप्यस्मदभिमन्यमानं सत्त्वगुणमस्मांश्च विना जगतः स्थितिकरणेऽस्मदभि-मन्यमानं रजोगुणमस्मांश्च विना सृष्टिकरणेऽस्मदभिमन्यमानतमोगुणमस्मांश्च निमित्तीकृत्य स्थित्यादिकं करोषीत्येतत्प्रमाणप्रसिद्धम् । अतस्तव परनिरपेक्षत्वं युक्तमिति ।
ता०अर्थः । अनतिरिक्तदृष्टेरित्यस्याभिन्नदृष्टेरित्यन्यथाप्रतीतिनिरासायानतिरिक्तदृष्टरित्यनूद्य भक्त्यनुसार्यनुग्रहस्येति व्याख्यानं कृतम् । अत्र भक्त्यनुसार्यनुग्रहदृष्टेरिति वक्तव्ये भक्त्यनुसार्यनु-ग्रहस्येति कथनं दृष्टिशब्देनानुग्रहदृष्टिसाधनस्यानुग्रहदृष्टेश्चाजहल्लक्षणया ग्रहणं कृत्वाऽनतिरिक्तदृष्टे-रित्यनेनानुग्रहस्यानुग्रहदृष्टेश्च भक्त्यनुसारित्वमुच्यत इति सूचितम् ।
भगवदनुग्रहस्यानुग्रहदृष्टेश्च भक्त्यनुसरित्वे प्रमाणमाह– य एष देव इति ॥ अक्ष(ज)रः स्वरूपनाशशून्योऽमरो देहनाशशून्यः । भक्तिशब्दात्तृतीयासमर्थात् । अनुगृण्हातीत्यर्थेऽण्प्रत्यये भाक्तेति रूपं निष्पन्नमित्यभिप्रेत्य भाक्त इत्यस्यार्थमाह– भक्त्या हीत्यादिना ॥ इदमधिकारि-जातम् । वृणुते दृष्ट्या स्वीकुरुते । एतद्विषयकानुग्रहदृष्टिं करोतीति यावत् । अधिकमित्यादि क्रियाविशेषणम् । अवरं न्यूनम् । भक्त्यनुसार्यनुग्रहस्येति भक्त्यादेस्तारतम्येन सद्भाव उक्तः । तत्र प्रमाणमाह– अथात इति ॥ अथाधिकारानन्तरं, अतस्तारतम्येन भक्तिरस्तीति ज्ञानस्य सप्रयोजनत्वात्, भक्तिमीमांसा भक्तिविचारः कर्तव्यो भवति । मनुष्योत्तमादिषु तारतम्येन भक्तिरस्तीति ज्ञातव्यमिति यावत् । मनुष्योत्तमादिषु भक्तिः कथं तारतम्येन वर्तत इत्यत आह– युवेति ॥ यो युवा विष्णुना युक्तः सङ्गता स्यादिति सर्वत्र सम्बध्यते । साधुयुवा साधु-गुणयुक्तत्वात् । आध्यायकोऽधीतफलपूर्णत्वात् । आशिष्टः पुत्राद्याशास्य युक्तो दृढिष्ठो देहदार्ढ्यवान् । बलिष्ठो बलवान् यस्येयं सर्वा पृथिवी वित्तेन पूर्णा स्यात् । तस्य चक्रवर्तिनो यो भक्तः । भावे क्तप्रत्ययः । सा सर्वा भक्तिर्मानुषो मनुष्यसम्बधिन्येक एका भक्तिश् चक्रवर्ति-निष्ठा । यावत्समानाः शतं भक्तयो वर्तन्त इति सिध्यन्ति । अनेन चक्रवर्तिभक्त्यपेक्षया मनुष्योत्तमानां भक्तिः शतगुणाधिकेत्युक्तं भवति । एवमुत्तरत्रापि द्रष्टव्यम् । एवं स एको मानुष आनन्द इत्यादेरर्थो द्रष्टव्यः । स एको मानुषो भक्त इति वाक्यस्थमेको भक्त इति पदद्वयं सर्वत्रानुवर्तते । मानुषा मनुष्योत्तमनिष्ठास्ते प्रमाणप्रसिद्धाः । ये शतं भक्ता भक्तय एतावान् एतावती भक्तो भक्तिर्यो मानुषो गन्धर्वस्तस्यैको भक्त एका भक्तिर्मनुष्यगन्धर्वाणामेका भक्तिर्मनुष्योत्तमनिष्ठशतभक्तिसमानेति यावत् ।
ये मानुषगन्धर्वास्तेषां ते प्रमाणप्रसिद्धा ये शतं देवगन्धर्वा याः शतं देवगन्धर्वनिष्ठभक्तय एतावान् एतावती भक्तिर्यश्चिरलोकः पैतृकस्तस्यैका भक्तिर्ये चिरलोकाः पैतृकास्तेषां ते प्रसिद्धा ये शतं भक्ता याः शतं भक्तय एतावती भक्तिर्या अतात्त्विकीदेवता तस्या एका भक्तिर्या अतात्त्विक्यो देवतास्तासां याः शतं भक्तय एतावती भक्तिर्या तात्त्विकी देवता तस्या एका भक्तिर्यास्तात्त्चिक्यो देवतास्तासां याः शतं भक्तय एतावान् एतावती भक्तिर्यः पुरहूतस्तस्यैका भक्तिस्ते प्रमाणप्रसिद्धा । ये याः शतं पुरुहूताः पुरुहूतभक्तय एतावान् एतावती भक्तिर्यो रुद्रस्तस्यैका भक्तिरित्येतद्वाव प्रमाणप्रसिद्धम् ।
एते शतं रुद्रा रुद्रभक्तय एतावान् एतावती भक्तिर्यो विरिञ्चस्तस्यैका भक्तिर्वाव । ते ये शतं विरिञ्चा विरिञ्चभक्तय एतावती एतावत्यैकया भक्त्या श्रीर्युक्ता भवति । अत्रैक इति पदसामर्थ्याद्विरिञ्चनिष्ठयावद्भक्तिसमानाद्बव्ह्यो भक्तयो महालक्ष्म्या वर्तन्त इति ज्ञातव्यम् ।
भगवज्ज्ञानादीनां भगवद्भत्क्यनुसारित्वमुच्यते तद्यावतीत्यादिना । तत्तस्य विष्णोर्यावती भक्तिर्मनुष्योत्तमादेस्तावदेव ज्ञानं भवति । मनुष्योत्तमादेर्यावत्तत्ज्ञानं विष्णोर्ज्ञानं तावत्तावा-न्मौक्तिक आनन्दो भवतीत्येतद्वाव प्रमाणप्रसिद्धम् । सर्वदेवतापरित्यागेन विष्णुभक्तिः कुतः कर्तव्येत्याशङ्कापरिहारार्थं विष्णुमाहात्म्यमुच्यते । एष एवेत्यादिना ॥ एषः हरिरेव परम आनन्दो निरवद्यकानन्दस्वरूपो यो ज्ञानरूपः । असौ मुख्यप्राणे । विद्यमान इति शेषः । विश्वः सर्वगुणपूणर्ोे, विनोदो नानाविधक्रियावान् । अपनोदः संहारकर्ता । संस्कारको मुख्यतो जगत्कर्ता । विकारक उपादानकारणनियामकः । अधिकारकोऽधिकरणनियामक इत्येतद्धि प्रमाणप्रसिद्धम् । अस्तु हरेः परमानन्दत्वादिमाहात्म्यं तथाऽपि तद्भक्तिः कुतः कर्तव्येत्यत आह– एतस्यैवेति ॥ यत एतस्य विष्णोरानन्दस्य मात्रामेकदेशमन्यानि भक्तान्युपजीवन्त्यतो हरिभक्तिः कर्तव्येति शेषः । अनुग्रहस्य भक्त्यनुसारित्वे स्पष्टं प्रमाणमाह– मिलितविति ॥ भगवतो यद्यावाननुग्रहो भक्तिश्चेत्येतौ साधनविशेषौ तौ सदा मिलितौ भवत इत्येतद्वै प्रमाणप्रसिद्धम् । सर्वदा मेलनमुपपादयति– यो वेति ॥ यो भगवदनुग्रहवान्स वाव स एव भक्तो भगवद्भक्तिसम्पन्नो भवति । यो भक्तः स एवानुग्रहीतो भवति । यो वाऽनुग्रहीतो ब्रह्मणेति द्विरुक्तिस्तात्पर्यज्ञापनार्था । एवमनुग्रहभक्त्योः परस्परं कार्यकारणभावमुक्त्वा कार्य-कारणभावापन्नयोरनुग्रहभक्त्योः परस्परसाम्यमुच्यते– यावान्वेति ॥ अनुग्रहभक्त्योस्तारतम्य-माह– प्रकृताविति ॥ प्रकृतौ महालक्ष्म्यां ब्रह्मणो नारायणस्यानुग्रहः परम इत्येतद्वै प्रसिद्धम् । उपलक्षणमेतत् । महालक्ष्म्या ब्रह्मणि भक्तिः परमेत्यपि द्रष्टव्यम् । एवमुत्तरत्रापि । महति चतुर्मुखे इत्यस्य उपात्तरजोमात्र इत्यनेनान्वय इत्यभिप्रेत्य तात्पर्यार्थमाह– तस्या एवेति ॥ महालक्ष्म्या अभिमन्यमानं यद्रजः रजःशब्दोपलक्षितं गुणत्रयं तस्य भगवत्कर्तृकमुद्रेचन-मभिवर्धनमेव भगवत उपात्तरजोतिमात्रत्वं गुणसम्बन्धः प्रकृतेरेव न तु भगवतः । प्रकृतिसम्बन्ध रजआदिकं स्वीकृत्य सृष्ट्यादिकं करोतीत्यत्र स्पष्टं प्रमाणमाह– अथ त्रिगुणेति ॥
अथ प्रमेयान्तरमुच्यते । प्रकृतिर्महालक्ष्मीरेव त्रिगुणा गुणत्रयाभिमानिनीत्येतद्धि प्रमाण-प्रसिद्धम् । विष्णुरगुणो गुणाभिमानी न भवतीत्येतद्वाव प्रमाणप्रसिद्धम् । अरजा रजोगुणाभि-मानशून्यः स विष्णुर्यदाऽस्या महालक्ष्म्या महालक्ष्म्याभिमन्यमानं रजो रजोगुणमुद्वर्धयति तदा हि तदैवैषा प्रमाणप्रमिता सृष्टिर्जगत्सृष्टिर्भगवतः सकाशाद्भवतीत्येतद्वाव प्रमाणप्रसिद्धम् । एवं यदा ह्यसत्व इत्यादेर्योजना द्रष्टव्या । नैनमेत इत्यादिपुनरुक्तिस्तात्पर्यज्ञापनार्था । वेदपुरुषः स्वोक्तार्थे प्रतिज्ञापूर्वकं श्लोकं पठति– अत्रैष इतीति ॥ ५० ॥
सत्यधर्मीया
अस्त्यम्बुजाक्षेति श्लोकेऽनतिरिक्तदृष्टेरिति । मयि चात्प्रपञ्चादद्वैत-ज्ञानवत इत्यन्यथामतिमन्यथयितुं स्वयमनूद्य व्याचष्टे । अनतिरिक्तदृष्टेर्भक्त्यनुसारिणी दृष्टिः कृपादृष्टिस्तद्दत्त इत्यनुग्रहवत इति । कथं पूर्यते भक्त्यादिकमविद्यमानमित्यतो मानमानन्द-मुनिरुदाहरति ॥ स इति । अत्युपसर्गपूर्वकत्वाद्गत्यर्थाद्रिगेः कर्तरि क्तप्रत्ययेऽतिरिक्ता तामतिक्रान्ता न भवतीत्यनतिरिक्ता दृष्टिः सुखयाम्येनमितीच्छाविशेषो यस्येति विग्रहः सूचितः ॥ तथा चायं श्रुत्यर्थः ॥ स एष इति प्राक् प्रकृतो हरिः परामृश्यते । परः सर्वोत्तमोऽजरो जरारहितोऽमरो मरणरहितस्तमेनं परं भाक्तो भक्तिस्वाम्यात्तत्सम्बन्धिता । आहुरिति बहुसम्मतिमाह श्रुतिः । तत्स्वाम्यं स्फोरयति । हि यतः स भक्त्याऽनुगृह्णातीति । भक्त्यैवेदं जगद्वृणुते स्वकीयतया स्वीकरोति । इदमित्यसङ्कुचितवृत्तीति स्वयं तदर्थापयति ॥ श्रियमित्यादिना । आपिपीलकं तज्जीवपर्यन्तं भक्तं वृणुतेऽभक्तं न वृणुते । यावद्भक्तो विशेषणीभूता भक्तिर्यावतीत्यर्थः । तावत्तद्भक्त्यनुसारम् । अधिकमिति क्रियाविशेषणम् । भक्तितारतम्यहेतुकम् । वरणादितारतम्यमित्यत्र श्रुतिमुदाहरति ॥ अथातो भक्तिमीमांसेति । युवा स्यादित्यत्र न स्वातन्त्र्येणेति तव्द्याख्याति ॥ साधुना विष्णुना यौति । यु मिश्रणा-मिश्रणयोरिति स्मरणात् ततः क्वनि युवा मिश्रीभवति । तथा तादात्म्यं नार्थ इत्यमि-श्रीभवतीत्यावृत्त्याऽप्यर्थ इति केचित् । तैरनुव्याख्यातव्द्याख्यासुधाविरोधानुरोधः सम्पाद्यः । ते च स्वावसरे उदाहरिष्येते । युवा नित्यतरुणो मुक्त्यनन्तरं साधुयुवा साधुना विष्णुना युक्त इति साधुयुवा । आध्यायकः प्राप्ताध्ययनफलः । आशिष्ठोऽनुनीभवदानन्दः । दृढिष्ठो लिङ्गभङ्गानन्तरं प्राप्तानन्यथात्वात् । अतिबल इति बलिष्ठः । विवृतान्येतानि पदान्यनु-व्याख्यासुधयोस्तथा तैत्तिरीयभाष्ये च ।
साधुना विष्णुना युक्तो मुक्तः साधुयुवा मतः ।
यौवनं नित्यमेतस्य मुक्तस्येति युवा स च ।
फलमध्ययनस्याप्तस्तेनाध्यायक ईरितः ।
निर्ह्रासानन्दसम्प्राप्त्या चाशिष्ठ इति गीयते ।
स्थितस्यानन्यथाप्राप्तेर्दृढिष्ठ इति चोदितः ।
बलिष्ठश्च स्वभावेन मुक्तो भवति केवलम् ।
इदानीं तैत्तिरीयश्रुतौ मुक्तमनुष्यज्ञापकं दर्शयन्युवा स्यादित्यादीनि पदानि व्याचष्टे ॥ साधुनेति । निर्दोषो हि साधुरित्युच्यते । न च विष्णोरितरो निर्दोषोऽस्ति । अतः साधुना विष्णुनेत्युक्तम् । तृतीयान्ते साधुशब्द उपपदे यु मिश्रण इत्यस्मादन्येभ्योऽपि दृश्यत इति क्वनिप्प्रत्यये साधुयुवेति भवति । यद्वा युजिर् योग इत्यस्येदं रूपम् । दृशिग्रहणसामर्थ्या-द्धातोरन्तलोपः । तथा च भगवत्सामीप्यलक्षणमोक्षवानित्युक्तं भवति । युवशब्दादप्यतिशयेन साधुयुवशब्दो मुक्तस्य ज्ञापक इति क्रममतिलङ्घ्यादौ व्याख्यातः । यद्यपि युवशब्दो यौवननिमित्तस्तथाऽपि ‘मुख्यामुख्ययोर्मुख्ये सम्प्रत्यय’ इति नित्ययौवनमङ्गीकार्यम् । तच्चैतस्य मनुष्यमुक्तस्यैव युज्यते न संसारिण इति हेतोर्युवा च स मुक्त एव ।
आध्यायकशब्दो यद्यप्याङधिपूर्वादिङ् अध्ययन इत्यस्माण्ण्वुल्प्रत्यये सति निष्पन्नः सम्य-गध्ययनकर्तारमाह । तथाऽप्यत्र पुरुषार्थप्रसङ्गादध्ययनस्य चापुरुषार्थत्वादध्ययनफलप्राप्ते-र्लक्षको वर्णनीयः । अध्ययनस्य फलं च तेनैवाप्तम् । मुक्तेरेव तत्फलत्वात् । तेन कारणेन मुक्त एवाध्यायक ईरितः । आ सम्यक् समन्ताच्च शमस्येत्याशोऽतिशयेनाश आशिष्ठः । सम्यक्त्वादिकं च ह्रासाभावादिकमेव । ततो निर्ह्रासस्य योग्यतानुसारेण पूर्णस्यानन्दस्य सम्प्राप्त्या कारणेन मुक्त एव आशिष्ठ इति च गीयते । अविकारो हि दृढो नाम । अतिशयेन दृढो दृढिष्ठः । छान्दसत्वाद् र ऋतो हलादेर्लघोरित्येतन्न भवति । मुक्त एव स्थितस्यान्यथाप्राप्तेरतिशयेन निर्विकारत्वाद्दृढिष्ठ इति चोदितः । बलमस्यास्तीति बली । अतिशयेन बली बलिष्ठः । अतिशयश्च स्वाभाविकत्वम् । स्वभावेन बलिष्ठश्च केवलं मुक्तो भवति नामुक्तः । अतो बलिष्ठ इति स एवोच्यत इतीति ।
यस्तु साधुर्गुणैर्युक्तस्तस्यैवाप्यखिला मही ।
त्रेतायुगे चक्रवर्ती यदा मुक्तस्तु संसृतेः ॥
अधीतिफलपूर्णत्वादाध्यायक इतीरितः ।
स एव विष्णुना युक्तो गच्छतीति युवा स्मृतः ॥
इति । तस्येयं पृथिवी वित्तेन पूर्णा स्यादधीनेति शेषः । तस्येयं पृथिवीत्यादि पूर्वभावव्यपेक्षया । पूर्वभावोऽमुक्तत्वम् । मुक्तामुक्तमनुष्ययोर्विवक्षया हि युवा स्यादित्यादीकृत्यैकविषयताप्रतिभासो नानुपपन्न इत्यन्तेन सुधोक्तमनुसन्धेयम् । स एको मानुषो मुक्तः । एको भक्तिको मनुष्यो भवति । ये शतं मानुषा भक्ता एतावानेतत्प्रमाणो मानुषः गन्धर्वो भवतीत्येकवचनान्तेन सर्वत्रान्वितो भवति । तच्चक्रवर्तितामापन्नस्य शतभक्तिमेलने मनुष्यगन्धर्व एको भक्त एकत्वसङ्ख्यावच्छिन्नभक्तिमानिति । एवमुत्तरत्राप्यनुसन्धेयम् । ते ये शतं मनुष्यगन्धर्वा एतावान् देवगन्धर्वः । ते ये शतं गन्धर्वास्तावांश्चिरलोकपितृकाश्चिरलोकस्तत्रत्यपितृगणः । एतदुक्तं तैत्तिरीयभाष्ये–
एकानन्दस्वरूपोऽसौ मानुषो मुक्त इष्यते ।
तस्माच्छतगुणानन्दा गन्धर्वा मानुषात्मकाः ।
मुक्ताः श्रुतिफलं प्राप्तास्ततः कामाहतास्तथा ।
तेभ्यः शतगुणानन्दा देवप्रेष्यास्तु मुख्यतः ।
ये ते हि देवगन्धर्वा मुक्तेभ्यस्तेभ्य एव च ।
शताधिका हि पितरस्तेभ्य आजानदेवताः ।
अनाख्याता देवतास्तु जाता देवकुले च याः ।
आजानदेवतास्ता हि ताभ्योऽग््रयाः कर्मदेवताः ।
बल्याद्या अन्तरा प्राप्तदेवताः कर्मदेवताः ।
ताभ्यश्च तात्त्विका देवाः सृष्ट्यादौ देवतां गताः ।
तेभ्यो दक्षश्चेन्द्रनामा स हीन्दुं रारयत्पुरा ।
तस्माद्बृहस्पतिर्नाम महेन्द्रत्वात्पुरन्दरः ।
तस्मात्प्रजापतिर्मुक्तो रुद्रः प्रजननेशिता ।
तस्माद्ब्रह्मा शतगुणो मुक्त इत्येष निर्णयः ।
यथाऽऽनन्दे तथा ज्ञाने विष्णुभक्तौ बलादिके ।
अत एतदुदाहरणं युक्ततरमिति ज्ञेयम् ।
सर्वैर्गुणैः शतगुणाः क्रमेणोक्तेन तेऽखिला ॥
इत्यादि । ते ये शतं चिरलोकपैतृका, एतावांश्चिरलोकगतदेवगणः । एतच्छताधिक-भक्तिमत्यतात्त्विकी बल्यादिकर्मदेवता तद्गणः । तस्या अतात्त्विक्या देवतायाः सकाशात्तात्त्विकी देवता तत्त्वेशगणस् तच्छतांशभक्त्यधिकः पुरुहूत इन्द्रः । एतच्छताधिको रुद्रस्ततो विरिञ्चो ब्रह्मा ततः श्री एतावती भक्त्यधिका भवति । ते ये शतं विरिञ्चा इत्यत्र शतशब्दो बहुत्वपरः । ‘एभ्यः श्रीरस्तु मुक्तेभ्यो गुणैः कोटिगुणोत्तरा । ज्ञानानन्दबलादिभ्यः’ इति बृहद्भेष्योक्तेः । यदर्थमिदमुक्तं तन्निगमयति ॥ तद्यावतीति । अथ एषो यद्भक्तिरितरानन्दतरतमभावभाविकैष हरिः परमः परानन्दः । विश्वो देशादिपूर्णो विनोदो विशेषतो नुदति प्रेरयतीति । तथाऽपनोदः स्वयमपगतप्रेरकः संस्कारकः सम्यक्करोति कारयतीति वा संस्कारकः । किञ्च विविधतया कारकोऽपि । अधिकारकः कारकत्वेनेतरमताधिकः । एतस्यैव बिम्बभूतानन्दस्य मात्रां विप्लुषम् । अन्यानि भूतानि रमादितृणचरमाणि उपजीवन्त्युपजीव्य वर्तन्त इति पौत्रायणश्रुतिः । क्षितिपानां तु–
कोशशौर्यवयःपुत्रदेहदार्ढ्ययुतस्य च ।
सप्तद्वीपवतीभर्तुर्यत्सुखं जायतेऽतुलम् ।
स एको मानुषानन्दो मोक्षे तु प्रतिपद्यते ।
तस्माच्छतगुणानन्दो महीशानां निगद्यते ।
तस्माच्छतगुणानन्दा गन्धर्वा मानुषात्मकाः ॥
इति वायुपुराणमाघमाहात्म्योक्तेर्ग्रहणमत्र ज्ञेयम् । देवर्षिपितृपनराः क्षितिपा मानुषगन्धर्वा इत्यादेश्च । मानुषा वर्णभेदेन तथैवाश्रमभेदत इति मानुषगन्धर्वा इति सूत्रभाष्योक्तेश्च ।
तात्पर्यम्
मिथितौ(मिलितौ) वा एतौ भवतो यदनुग्रहश्च भक्तिश्च यो वाऽनुग्रही स भक्तो यो भक्तः सोऽनुग्रही । यो वाऽनुगृहीतो ब्रह्मणा स भक्तो यो भक्तस्तं वा ब्रह्माऽनुगृह्णाति यावान्वै ब्रह्मणोऽनुग्रहस्तावती भक्तिर्यावती भक्तिस्तावान्वै ब्रह्मणोऽनुग्रहः । प्रकृतौ वै ब्रह्मणोऽनुग्रहः परमस्तदवरो वा व महति तदवरोऽथ रुद्रे तदवरः पुरुहूते । अथ देवर्षिपितृषु मनुष्येष्विति धर्मश्रुतिः ॥ तस्यामेव रजस उद्रेचनादुपात्तरजोऽतिमात्रत्वम् ॥ अथ त्रिगुणा ह्येव प्रकृतिरगुणो वा व विष्णुः स यतो अरजा रजोऽस्या उद्वर्धयत्येषा वाव सृष्टिः । स यदा ह्यसत्वः सत्वमुद्वर्धयत्येषा वाव स्थितिः । स यदा ह्यतमा-स्तमोऽस्या उद्वर्धयत्येष वाव लयो नैनमेते गुणा अभ्युपस्पृशन्ति नैष एतान् गुणानभ्युपस्पृशत्यगुणो ह्येष भवति ॥ अत्रैष श्लोको भवति । निर्गुणस्य गुणादानं प्रकृतेर्गुणवर्धनम् । न कदाचिद्गुणैरेषः स्पृश्यते परमो हि सः ॥ इति चाक्रायणश्रुतिः ॥
सत्यधर्मीया
यदर्थं भक्तितारतम्यमुक्तं साधनस्योत्तमत्वेन साध्यं चोत्तममाप्नुयु-रित्यादेस्तदनुग्रहमहत्त्वतदमहत्त्वं भक्त्यनुग्रहयोः सामानाधिकरण्यं च स्पष्टयन्तीं श्रुतिमुदाहरति ॥ मिथिताविति । एतौ भक्तिरनुग्रहश्चेत्येतौ मिथितौ मिथुनीभावेन ताविति तौ भवतः । स्वयमेवैतत्पदार्थं प्रपञ्चयति ॥ यदनुग्रहश्च भक्तिश्चेति । एतावित्युपपत्तये भक्तिश्चानुग्रहश्चेति । पुमांस्त्रियेत्युक्तेर्व्यत्यस्यान्वयो ज्ञेयः । पुनः पुनर्दार्ढ्याय व्याप्तेरुक्तिः । प्रकृतौ रमायाम् । तदवरो रमावरः, महत्यभिमन्यमानाभिमानिनोरभेदव्यपदेशो दृष्टचर इति चतुर्मुखेऽथ रुद्रे तत इन्द्रे देवेषु तात्त्विकेषु । तेन तत्त्वेशा अप्युपलक्षणीयाः । चिरलोकगर्षिपितृषु मनुष्याश्चक्रवर्तिन इति श्रुतिर्यतोऽस्ति ततोऽनतिरिक्तदृष्टिरित्यस्योक्त एवार्थो युक्त इति भावः। तत्रैवोपात्तरजोऽतिमात्रमिति भगवतो रजःसम्बन्धः प्रतीयत इत्यतः स्वयं तव्द्याकृत्य प्रसङ्गसन्निधापितगुणद्वयेन सह रजःसम्बन्धो न हरेरस्तीत्यत्र मानमभिधत्ते ॥ तस्यामेवेति । तस्यां प्रकृतावेव रजसो गुणस्योद्रेचनम् । उद्रिक्तीकरणमुपात्तरजोऽतिमात्रत्वमुपात्तं रजसोऽतिमात्रमुद्रेचनं येनेति मूले विग्रह इत्यनेनासूचीति ज्ञेयम् । रजःपरयोः सत्त्वतमसोरुपलक्षकमिति ज्ञेयम् । अथेति गुणवदगुणवद्विवेचनारम्भे । त्रिगुणा त्रयो गुणा यस्यां सा त्रिगुणा प्रकृतिः । अगुणो वाव विष्णुः । अरजास्तत्सम्बन्धविधुरः । अस्याः प्रकृतेः सकाशाद्रज उद्वर्धयति स्थूलीकरोति । तत एषा वाव स्थूलतां याता सृष्टिः । स हरिः स्वयमसत्त्वः सत्त्वं चोद्वर्धयति । एषोद्रिक्तसत्त्वात्प्रकृतिः स्थितिः । तथा तमसाऽतत्सङ्गस्तमुद्वर्धयति । एष वाव लयः कथ्यत इति शेषः । एते गुणा यथा स्वकार्यकारिणः सन्तो नैनं स्पृशन्ति एष भगवानपि । एतांस्तत्कार्यानुभवेन नाभ्युपस्पृशति । अतोऽयमगुणो भवति न तु सर्वथा तदनाश्रयो विश्वम्भरत्वहान्यापत्तेः । अत्रैतद्विषयेऽयं श्लोकोऽपि भवति मानमिति शेषः । निर्गुणस्य यद्गुणादानन्दगुणस्वीकारः श्रुतौ श्रूयते तत्प्रकृतेः सकाशाद्गुणवर्धनं तदात्मकः । कदाचिदेष गुणैः स्पृश्यते । तत्र हेतुर्हि स परम इति । प्रकृतिर्र्जडा मुख्यतस्तदुदे्रचनपात्रं पात्रं च रमा हरिस्वाम्येन । स च स्वातन्त्र्येणोद्रेचक इति विवेको ज्ञेयः ॥
ततश्चायं श्लोकार्थः ॥ स्वस्वभावमावेदयन्त्यात्मानं ताभ्यो विमूढाभ्यो व्यावर्तयन्त्याह ॥
अस्तीति । हे अम्बुजाक्ष । मम ते चरणानुरागस्तत्परमभक्तिरस्ति । लटा सार्वत्रिकत्वं तस्य द्योतयति । न त्वां विना ममापि गतिरिति नेत्याह ॥ आत्मन्नात्मनीति । रतस्य स्वरमणस्य तव न रमणीकृत्यमिति भावः । मयि चानतिरिक्ता भक्त्यनुसारिणी दृष्टिरनुग्रहो यस्य तस्य । यर्हि यदाऽस्य जगतो विवृद्धये सृष्ट्यै मय्युपात्तरजोऽतिमात्र उपात्तं रजसोऽतिमात्रमुद्रेचनं येन सः । तस्यामित्यावृत्तं मयीत्यस्य व्याख्यानमिति मन्तव्यम् । तद्रमात्मकत्वं द्योतयितुं तस्यामित्युक्तेस्तात्पर्य इति तात्पर्यं ज्ञेयम् । मामीक्षस इति यत्तन्नोऽस्मदुपरि परमाऽनन्यसाधारिण्यनुकम्पा करुणा कर्तुमकर्तुमन्यथाकर्र्तंु शक्तस्यास्मदीक्षणं करुणामूलमिति भावः । उ अवधारणे । ह इतीतरगुणद्वयस्यापि कार्यानुरोधेनोद्रेचनं मानिकमिति तदुपलक्षणीयताद्योतकमिति मन्तव्यम् । न इति मामिति च गदन्ती रूपविशेषाविशेषतां च तेषां ध्वनयामास ॥ ५० ॥
नैवालीकं भवत्येव वचस्ते मधुसूदन ।
अम्बाया इव हि प्रायः कन्यावादरतिः क्वचित् ॥ ५१ ॥
तात्पर्यम्
मातुः कन्याप्रदानवादे रतिर्यथा नालीकं भवति प्रायस्तथा ते वचः क्वचिदपि नालीकं भवत्येव ॥ ५१ ॥
पदरत्नावली
भगवती भगवदुक्तेरेवं तात्पर्यं प्रकाश्य निगमयति– नैवेति ॥ हे मधुसूदन ते तव वचो ऽलीकम् असत्यलक्षणं भारं न भरति न तु बिभर्त्येव न । ‘भृञ् भरणे’ इति धातुः । कथमिव? अम्बायाः कन्यावादरतिरिव । यथा मातुः कन्याप्रदानकथायां रतिस्तात्पर्याभिनिवेशलक्षणा नालीकं भवति । प्राय एव अयमर्थोऽनुमतो हि । ‘समुच्चयेऽनुमत्यां चाप्येव साम्येऽवधारणे’ इति यादवः । क्वापि मातू रतिरलीकं भरति तव वचः क्वाप्यलीकं न भवत्येव । एतदुक्तं क्वचिदिति । क्वचित् क्वापि ॥ ५१ ॥
दुर्घटभावदीपिका
हे मधुसूदन । ते वचः सज्जनान्प्रति क्वचित्कदाचिदप्यलीक-मलीकत्वं नैव भरति । अलीकं नैव भवतीति यावत् । इत्येतद्धि प्रमाणप्रसिद्धं भवत्येव । अत्र दृष्टान्तमाह– अम्बाया इति ॥ अम्बाया मातुः कन्यावादरतिरिव कन्यावादे कन्याप्रदानवादे रतिस्तात्पर्याभिनिवेशस्तात्पर्याभिनिवेशपूर्वकं प्रयुक्तमपि, कन्यामस्मै दास्यामीति वाक्यं कदाचि-दलीकं भवतीति प्राय इत्युक्तम् । एतेनैष मोहं सृजाम्याश्वित्यादिवचनेन दुर्जनान्प्रति भगव-द्वाक्यमलीकमित्यर्थस्य सिद्धत्वात् ते वचोऽलीकं नैव भवतीति कथनमयुक्तमिति दूषणं परिहृतम् । सज्जनान्प्रतीति शेषपूरणेन सज्जनान्प्रति नैवालीकं भवतीत्यर्थस्योक्तत्वात् । एतेनैव द्वितीयैवशब्दोऽनन्वित इति दूषणं प्रत्युक्तम् । हिशब्दात्परं भवतीत्यध्याहारं कृत्वाऽन्वय-स्योक्तत्वात् ॥ ५१ ॥
सत्यधर्मीया
नैवालीकं भवत्येवेति श्लोके सर्वथा व्यतिरेकनिदर्शनत्वं प्रतीयते । तथा भीष्मभार्यायाः कन्येति वादे रतिरिवेति चेति प्रायःपदक्वचित्पदाभ्यां क्वचिदलीकता चेति । ततः स्वयं सान्वयमर्थं दर्शयति ॥ मातुरिति । मातुः कन्याप्रदानवादे पुत्र्या वराय वितरणकथायां रतिरिमामस्मै दास्यामीति प्रीतिस्तज्जन्यं वचो यथा प्रायोऽलीकं मिथ्या न भवति । अनेनायथार्थं क्वचिद्भवति यथावस्थितांश एव निदर्शनमत्रेति सूचयति । तथा ते वचः क्वापि नालीकं भवत्येव । अत्र प्रायःपदान्वयभ्रमायातानृतत्वभ्रमभ्रंशमेवकारयोजनेनातनोदिति ज्ञेयम् ॥
ततश्चायं श्लोकार्थः ॥ आत्मनो रूपं भजस्वेत्युक्तं यथार्थमिति वक्ति ॥ नैवेति । हे मधुसूदन । ते वचोऽलीकं नैव भवति सत्यमेव । अम्बाया मातुः कन्यावादरतिः प्रीतियुक्तं सङ्कल्पं प्रायो यथा नालीकं भवति तथा तद्याथार्थ्यवद्वचनविशेषवत्तव वचः क्वचित्क्वापि नालीकं भवति । अनुरूपो मम त्वमेवेति नालीकं तव वच इति नालीकलोचना औत्तर-यदिति ज्ञेयम् । अतोऽपि न पाङ्क्तमुत्तरमिति ज्ञायते । भवतीति पाठ एवाचार्यगृहीत इति दृष्टान्तेऽपि भवतीति संयोज्य दार्ष्टान्तिकेऽवधारणसहितं तं विधायावृत्त्याऽन्वयनाज्ज्ञायते । रूपतोऽपि न शोभां बिभर्ति ॥ ५१ ॥
मुग्धायाश्चापि पुंश्चल्या मनोऽभ्येति नवं नवम् ।
बुधोऽसतीं न बिभृयात् तां बिभ्रदुभयच्युतः ॥ ५२ ॥
तात्पर्यम्
यामसतीं बुधो न बिभृयात् । यां च तां बिभ्रद् दृष्टादृष्टच्युतो भवति । तस्या अपि पुंश्चल्यास् त्वयि मनो नवंनवमभ्येति । अमुग्धैव तु मुग्धेव त्वदुःखा दुःखितेव च । श्रीर्दर्शयेद्धरिश्चैव नैवैतौ मोहदुःखिनौ । मिथोऽपि तादृग्वचनम् आकारं चैव लीलया । दर्शयन्तौ नृणां मोहं कुर्यातां शास्त्रदर्शनात् ॥ इति कापिलेये ॥ ५२ ॥
पदरत्नावली
इदानीं कृष्णस्य नियतदारत्वमात्मनो नियतपातिव्रत्यं च ध्वनयन्ती देवी पुंश्चलीममर्थं वादयति मुग्धाया इति ॥ अस्यार्थ आचार्योक्तोऽत्र लिख्यते । ‘यामसतीं बुधो न बिभृयात् । यां च तां बिभ्रद् दृष्टादृष्टच्युतो भवति । तस्या अपि पुंश्चल्यास्त्वयि मनो नवं नवमभ्येति’’ इति । मूर्च्छया मोहिन्या मूढत्वं युवयोरपि तत्र तत्र सुलभमुपलब्धमिति मन्दाशङ्का ‘‘अमुग्धैव तु मुग्धेव त्वदुःखा दुःखितेति च । श्रीर्दर्शयेद्धरिश्चैव नैवैतौ मोहदुःखिनौ’’ इत्यादिस्मृत्या परिहर्त्तव्या ॥ ५२ ॥
सत्यधर्मीया
मूढाया अपि पुंश्चल्या इति श्लोके नान्वयार्थौ सरसतया प्रतीयेते इति किञ्चिदध्याहृत्य तावाह ॥ यामसतीमिति । यामसतीं बुधो न बिभृयाद्यां च बिभ्रत्पुमानु-भयस्माच्च्युत इत्यर्थापयति । दृष्टादृष्टच्युतो भवति एैहिकपारलौकिकभ्रष्टो भवति । तस्या अपि पंुश्चल्यास्त्वयि मनो नवं नवमभ्येति । पुंमात्रं गच्छन्त्या अपि तस्या नवं नवं यथा तथा नित्यनूतनतयेति यावत् । मनोऽभ्येति । सुदुःखभयेति श्लोके रुग्मिण्या दुःखादिकं प्रतीयते । तथा विक्लवधिय इति भ्रान्तिश्च । तथाऽऽर्तेति(?) मोहः प्रतीयते । न च साक्षाल्लक्ष्म्या ‘‘जयन्ती जानकी सत्या रुग्मिणीत्यादिका रमा’’ इत्यादिबृहदारण्यकभाष्योक्त-प्रमाणविरोधात् । तथा द्वावेतौ नित्यमुक्ताविति विरोधाच्चेत्यतो मानेन तत्प्रदर्शनमात्रं न तद्वास्तवमित्याह ॥ अमुग्धैवेति । हरिश्चैवं दर्शयेदित्यन्वयः । मिथः परस्परं तादृग्वचनं तादृशमाकारं च लीलयैव नृणां दर्शयन्तौ मोहं कुर्याताम् । उभयोर्व्यापारो दुर्जनमोहनार्थ-मेवेत्यत्र बहुमानसंवादोऽस्तीति बोधयितुं शास्त्रदर्शनादित्युक्तमिति मन्तव्यम् । एवं कुतः कुर्वाते तयोः शास्ता किन्नेत्यतोऽप्याह । शास्तुरदर्शनान्नास्ति शास्तेति च । एवं लीलां लातीति भावः । तच्च भारतादिकम् अजानन्पृच्छति स्मान्यांस्तनूस्त्यक्त्वा दिवं गतः । इत्याद्यसुरमोहाय दर्शयामास नाट्यवदिति । अदुःखाऽबद्धेत्यादि च ॥
ततश्चायं श्लोकार्थः ॥ यामसतीं बुधो न बिभृयाद्यां च तां बिभ्रत्पुमानुभयस्माद्दृष्टादृष्टा-च्च्युतो भवति । तस्या अपि मूढायाः पंुश्चल्याः पुंमात्रगामिन्या मनो नवं नवं यथा तथा त्वय्यभ्येति । मादृशानां मनो गच्छेदिति किं वाच्यमतो मया त्वं वृत इति भावः ॥५२॥
श्रीभगवानुवाच—
साध्व्येतच्छ्रोतुकामैस्त्वं राजपुत्रि प्रलम्भिता१ ।
ममोदितं२ यदन्वर्थं सर्वं तत् सत्यमेव हि ॥ ५३ ॥
पदरत्नावली
भगवत्योक्तं भगवता किमनुमतं किं वा विमतमिति विकल्पं परिहरति– साध्वीति ॥ एतद् वचः । प्रलम्भिता प्रस्तोभिता । अन्वर्थमनुकूलार्थम् ॥ ५३ ॥
दुर्घटभावदीपिका
मयोदितं यदन्वर्थं न केवलमनुकूलार्थमबाधितार्थं किन्तु सज्जना-न्प्रति मया यद्यदुदितं तत्सर्वं वाक्यमर्थविशेषेणाबाधितार्थमेवेति । एतेनान्वर्थं सत्यमित्येतत्पुन-रुक्तमिति दूषणं परास्तम् । न केवलमित्यादि शेषेण पुनरुक्तार्थस्योक्तत्वात् ॥ ५३ ॥
॥ इति श्रीभागवतटिप्पण्यां पञ्चसप्ततितमोऽध्यायः ॥ १०–७५ ॥
सत्यधर्मीया
भगवत्योक्तं भगवाञ्छ्रुत्वाऽभूषयददूषयद्वेत्यतोऽभ्युपगममादिमस्य पक्षस्य दर्शयन्देवो देवीं प्रति वक्तीति वक्ति ॥ श्रीभगवानिति । हे साध्वि राजपुत्रि राज्ञो दुहिता । एतद्विलासवचनं श्रोतुकामेन मयोपहसिता त्वम् । प्रलम्भिता विप्रलम्भिता । यन्ममोदितं वचनमनु अनुसृत्यार्थो यस्य तत् सर्वं त्वद्वचनं सत्यमेव यथार्थमेवेत्यनेन न किञ्चित्तत्रानृतमिति द्योत्यते । ममोदितं यदन्वर्थेति पाठः स्फुटार्थः । मयोक्तमन्वर्थं क्षेप्यार्थं त्वयोक्तं सर्वं सत्यमेवेति वा
॥ ५३ ॥
यं यं कामयसे कामं मयि कामय कामिनि ।
सन्ति ह्येकान्तभक्तायास्तव कल्याणि नित्यदा ॥ ५४ ॥
पदरत्नावली
हे ईश्वरि यं यं कामं कामयसे सर्वे त्वयि नित्यदा सन्ति, हि यस्मात् तस्मात् कां विभूतिं कामयसे ? न कामपीत्यर्थः । यद्वा यं यं कामं कामयसे तान् मयि कामयस्व तेषामभावाद् वच्मीत्याह– सन्तीति ॥ तस्मात् प्रियवचनमुक्तं कामयति ॥५४॥
सत्यधर्मीया
हे कामिनि यं यं कामं कामयसे काङ्क्षसि तं तं मयि कामय । तर्हि प्राक् स नाभूत्तस्या इत्यभूत्किलेत्यत आह ॥ सन्तीति । अनेन बहुवचनेन वीप्सालभ्योऽर्थः सूचितः । हे कल्याणि । एकान्तभक्तायास्तव कामा नित्यदा सन्ति । एतेन वरणं वितरणं च पामरविवक्षयेति ज्ञेयमित्यसूचि । यं कामं केन ब्रह्मणा सहितश्चासावमश्च प्राणश्च तम् । अकामं कामविरोधिनमिति रुद्रं तथा कामं वा । यं ज्ञानमस्यास्तीत्यर्शआद्यचि सुमेधसं कर्र्तंु कामयसे तस्य नित्यं ददातीति सा तथेति । कामास्तव नित्याः सन्ति यतस्ततः । कामयेति मयोदितमन्वर्थं हीनार्थं निष्प्रयोजनमिति । काम् आशामप्राप्तप्राप्तिविषयिणीम् अयसे गच्छसि न तादृशोेऽर्थो वर्तत इति वा । वागेव सा, प्राणोऽमः पतिरीरित इति छन्दोगोपनिषद्भाष्योक्तेः । ‘येति ज्ञानं समुद्दिष्टम्’ इति वचनात् । अम्भ्रणीसूक्तं स्मर्तव्यम् । नित्यदा कामा इतर आनन्दाद्याः सन्ति सत्यम्, तथाऽपि यं मद्विषयं ज्ञानं कामय नान्यम् । ‘यस्माद्ब्रह्मेन्द्र-रुद्रादिदेवतानां श्रियोऽपि च । ज्ञानस्फूर्तिः सदा तस्मै हरये’ । नवनवसुविशेषोपलम्भज्ञानाभावः सर्वस्येत्यादेः । एकान्तभक्ता ये तेषां सन्ति कालान्तरे प्रादुर्भवन्ति । या रमात्मिकायास्तव तु नित्यदेति किं त्वं कामयसे । अहं च कामयेति (कथं) वदामीत्यपि योजयन्ति ॥५४॥
उपलब्धं पतिप्रेम पातिव्रत्यं च तेऽनघे ।
यद् वाक्यैश्चोद्यमानाया न धीर्मय्यपकर्षिता ॥ ५५ ॥
पदरत्नावली
भर्त्तुः स्नेहः पातिव्रत्यं चाभीष्टसम्पत्प्राप्तौ निमित्तं तत् तवास्तीत्याह उपलब्धमिति ॥ उपलब्धं दृष्टम् । तत्र हेतुर् यद् वाक्यैरिति ॥ मयि संलग्ना धीर्नापकर्षिता अन्यत्र न नीता । यद् यस्मान्नित्यमुक्तत्वादावयोर्दाम्पत्यं नित्यम् ॥ ५५ ॥
सत्यधर्मीया
वाक्यैश्चोदनप्रकाराकारबाहुविध्यवद्वाक्यैः । चोद्यमानायाः प्रेर्यमाणायाः । या मयि धीर्मद्विषयिणी शेमुषी सा नापकर्षिता न प्रत्याहृता तत इति ॥ ५५ ॥
ये मां भजन्ति दाम्पत्ये तपसा व्रतचर्यया ।
कामात्मानोऽपवर्गेशं मोहिता मम मायया ॥ ५६ ॥
पदरत्नावली
तत्र मुक्तिमन्तरेण दाम्पत्यापेक्षयाऽस्मद्भजनमयुक्तमित्याशयेनाह– य इति
॥ ५६ ॥
सत्यधर्मीया
त्वद्वन्नान्येषां योषिज्जनानां सुलभोऽहमिति वक्ति ॥ य इति । तपसाऽ साधारणेन व्रतचर्यया साधारणेन च । ये योषिज्जना मां दाम्पत्ये जायापतिभावे तदर्थं भजन्ति । कामात्मानः कामकलुषीकृतचेतसोऽपवर्गेशं मां, ते मम मायया मोहिता मोक्षप्रच्युति-र्लक्ष्यानुपलब्धिश्च तेषामिति भावः । एकान्तभक्ताया इत्यनेनैकान्तिकत्वमभिनन्द्य सकामान्निन्दयति ॥ ये मामिति । दाम्पत्ये तन्मिथुनीभावाविर्भवत्सुखार्थम् ॥ ५६ ॥
मां प्राप्य मानिन्यपवर्गसम्पदं वाञ्छन्ति ये सम्पद एव सत्पतिम्१ ।
ते मन्दभाग्या निरयेऽपि ये स्युर्मात्रात्मकत्वान्निरये सुसङ्गमः ॥ ५७ ॥
पदरत्नावली
ननु तर्हि सम्पदर्थे भगवद्भजनं युक्तं हीति तत्राह– मामिति ॥ सतः सत्यस्य मोक्षस्य पतिम् । ये सम्पल्लक्षणभोगाः । कथं तेषां भोगानां निरये सत्वमिति तत्राह– मात्रात्मकत्वादिति ॥ मात्रात्मकत्वात् तेषां भोगानां शब्दादिविषयाविनाभूतत्वान्निरये सुसङ्गमः सुलभः सङ्गम इत्यर्थः ॥ ५७ ॥
सत्यधर्मीया
योषिज्जनं दूषयित्वा पुरुषानपि सकामान्दूषयति ॥ मामिति । हे मानिनि । अपवर्गसम्पदं साक्षान्मोक्षसम्पद्रूपम् । सत्पतिं तत्पतिमिति पाठौ । तत्र तत्स्वामिनं, तस्या अपवर्गसम्पदः पतिमित्यर्थः । मां प्राप्य तपआदिना प्रसन्नं विधाय सम्पद ऐहिकीर्वाञ्छन्ति ये ते मन्दभाग्याः । कुत इत्यत आह ॥ ये निरये दुर्योनौ वा नरके वा स्युस्तद्वन्त इति । कुतस्तत्सम्पत्तत्रेत्यत आह । मात्रात्मकत्वाच्छब्दादिविषयाव्यतिरेकित्वात्तेषां सार्वत्रिकत्वान्निरय उक्तरूपद्विके । सुसङ्गमः सुमिलस्तत्सम्पद्भोग इत्याशयः । हे निरये नितरां शुभदैववति रुग्मिणि । अथवा निर्गत आयो गमनं मां त्यक्त्वा यस्याः सा । अथवा न विद्यते रयो लयो यस्याः सा तथा तस्याः सम्बुद्धिर् हे निरये । पूर्वोक्तमन्दभाग्यत्वादिमती न भवतीति । तव सुसङ्गमः । ये मामित्युक्तमेव व्यक्तीकरोति मामिति वा ॥ ५७ ॥
दिष्ट्या गृहैश्वर्ययुते मयि त्वया कृताऽनुवृत्तिर्भवमोचिनी(नि) खलैः ।
सुदुष्कराऽसौ सुतरां दुराशिषो ह्यसुम्भराया विकृतिञ्जुषः स्त्रियः ॥ ५८ ॥
पदरत्नावली
सर्वभक्तेषु त्वमेव मुख्यभक्तेत्याशयेनाह– दिष्ट्येति ॥ हे गृहैश्वर्ययुते देवि, त्वया मय्यनुवृत्तिर् भक्तिः कृतेति यत् तद् दिष्ट्या त्वदन्येषां भवमोचनी वा असावनुवृत्तिः खलैः सुदुष्कराशिषः दुष्टेच्छायाः पत्या सह दुर्वाक्याया वा असुम्भरायाः स्वप्राणपोषणपराया विकृतिं जुषः जारलक्षणव्याजं सेवमानायाः स्त्रियः सुतरां सुदुष्करा । दिष्ट्या गृहं मङ्गलमन्दिरं च ऐश्वर्ययुतश्च दिष्ट्या गृहैश्वर्ययुतस् तस्मिन्निति वा ॥ ५८ ॥
सत्यधर्मीया
एतामभिनन्दनीयगुणैरुपपाद्य नन्दयन्स्त्रीपुंसौ निन्दनीयधर्ममुपपाद्य गोविन्दो निन्दति ॥ दिष्ट्येति । गृहैश्वर्ययुतं सम्बद्धं यया तत्सम्बुद्धिः । गृहैश्वर्यसकृदिति च पठन्ति । हे गृहैश्वरीति सम्बोधनम् । उभयपक्षेऽपि श्रियः सम्भवीदम् । भवमोचिनि । वस्तुत इतरेषाम् । हे भवमोचिनि रमात्मिके । त्वयाऽमप्यनुवृत्तिः कृता असत्कृता वासौ । खलैः खं सुखं लान्त्यादत्त इति खलास्तैः प्रक्रमानुगुण्यादर्थः स्वीकार्य इति । खं विषयसुखं, तैः । सुदुष्करा कर्तुमशक्या । दुराशिषोऽसाध्याभिलाषाया असुम्भरायाः स्वप्राणमात्रपोषणरतायाः । वैवक्षिक-सञ्ज्ञात्वमाश्रित्य सञ्ज्ञायां भृतृवृजीति खचि खित्यनव्ययस्येति मुम् । विकृतिं कापट्यं जुषः सेवमानायाः स्त्रियः सुतरां सुदुष्करा सा त्वया कृतेति दिष्ट्या सुभद्रम् । गृहैश्वर्ययुते मयीत्यन्वयो वा । ये मां भजन्ति दाम्पत्य इत्यस्यैका व्याख्या सख्यमेतत्पद्यगतसुतरां दुराशिष इत्यादिना भजत इति सोपादेया ॥ ५८ ॥
न त्वादृशीं प्रणयिनीं गृहिणीं गृहेषु पश्यामि मानिनि यया स्वविवाहकाले ।
प्राप्तान् नृपानविगणय्य रहोरहो मे प्रस्तापितो द्विज उपस्थितसत्कथस्य
॥ ५९ ॥
पदरत्नावली
श्लोकत्रयेण देव्याः पूर्वोक्तां भक्तिं लालयति न त्वादृशीमित्यादिना ॥ उपस्थिता समीपं प्रापिता त्वत्सत्कथा यस्य स तथा तस्य । रहोरहो ऽतिरहसि ॥५९॥
सत्यधर्मीया
श्लोकत्रिकेन देवीसेवां लालयंस्तद्गुणान्स्वानुभूतान्विशालयति ॥ नेति । प्रणयिनीं स्नेहसहितां त्वादृशीं त्वत्सदृशीं गृहेषु गृहिणीं भार्यां न पश्यामि । हे भामिनि । स्वविवाहकाले प्राप्ताननायासेन नृपानविगणय्यागणयित्वा रहो रहोऽत्येकान्ते उपस्थिता सती कथा तव यस्य तस्य । यो द्विजः प्रस्थापितः । प्रेमपत्रसाहित्यं सूचयति । रहः स्वनगरेऽरहो द्वारवत्यामिति वा ॥ ५९ ॥
भ्रातुर्विरूपकरणं युधि निर्जितस्य प्रोद्वाहपर्वणि च तद्वधमक्षगोष्ठ्याम् ।
दुःखं समुत्थमसहोऽस्मदयोगभीत्या नैवाब्रवीः किमपि तेन वयं जितास्ते
॥ ६० ॥
पदरत्नावली
विरूपकरणं केशवपनम् । प्रोद्वाहपर्वणि विवाहलक्षणोत्सवदिवसे । अक्षगोष्ठ्यां द्यूतविशेषक्रीडायां तस्य भ्रातुर्वधम् । अस्मदयोगभीत्या अस्मद्विरहभयेन ॥६०॥
सत्यधर्मीया
वयमेतदादिजयिनोऽपि त्वया ‘‘सहस्रहयसेनानीरपि स्वभार्याकार्पासचय-कृन्नीत्या पराभूता’’ इति लोकमनुकुर्वन्वक्ति । युधि निर्जितस्य भ्रातू रुग्मिणो विरूपकरणं पञ्चचूडीकरणमक्षगोष्ट्यामक्षखेलनपरिषदि । प्रोद्वाहपर्वण्यनिरुद्धविवाहोत्सवे । तद्वधं रुग्मिवधं बलकृतम् । अत्र द्वयीं गतिमवलम्ब्य ग्रन्थक्रमः । अनिरुद्धविवाहः प्राक् पश्चाद्रुग्मिणीप्रणय-कलहशंसकः शंसकश्च प्राक् कलहस्यानन्तरं विवाहस्येति । तत्राद्ये जातो रुग्मिवध इति प्रोद्वाह-कर्मणीत्युक्तिर्युक्ता । द्वितीये तु द्वयोरपि सार्वज्ञ्याद्भाविनं वधं तत्सहनेन सह भविष्यतोक्त-वान्हरिरेष्यन्नयेनेत्यविरोधो ज्ञेयः । तथा तदुत्थं दुखं चासहः । धात्वन्तर रूपम् । तत्र तन्त्रमस्मदयोगभीत्या वियोगभयेन लोकार्थं प्रदर्शितेन किमपि नैवाब्रवीरिति तेन वयं ते त्वया जिताः पराभूताः ॥ ६० ॥
दूतस्त्वयाऽऽत्मलभने सुविविक्तमन्त्रः प्रस्थापितो मयि चिरायति शून्यमेतत् ।
**मत्वा जिहास१ इदमङ्गमनन्ययोग्यं तिष्ठेत्ततस्त्वयि२ वयं प्रतिनन्दयामः **
॥ ६१ ॥
पदरत्नावली
आत्मलभने स्वलाभार्थं सुष्ठु विविक्तमन्त्रः स्पष्टीकृतरहोवचनश् चिरायति विलम्बनं कुर्वति सति एतज्जगच्छून्यम् । असदमङ्गलं मत्वाऽनन्ययोग्यम् अन्यपुरुषसंयोगा-योग्यमिदम् अङ्गं जिहासुस्तिष्ठेरिति यावत् ॥ ६१ ॥
सत्यधर्मीया
आत्मलभने स्वलाभार्थं स्वामित्वेन मम लाभार्थं वा । सुविविक्तमन्त्रोऽति-गुप्तभाषणहर्ता यो दूतस्तत्त्वेन कृतो द्विजः प्रस्थापितस्तेन सहागते मयि च किञ्चिच्चिरायति विलम्बमनलम्बमान इव जाते । अनेन प्रस्थापितो द्विज इति पूर्वोक्तेः पौनरुक्त्यमिति शङ्का परास्ता । एतज्जगच्छून्यं तत्प्रायं मत्वा । अनन्ययोग्यमितरायोग्यमनन्यः प्रधानोऽहं तन्मात्र-योग्यमिति वा । अङ्गं जिहासे त्यक्तुमिच्छामि इति यत्तद् यर्ह्यम्बुजाक्ष न लभेय भवत्प्रसादं जह्याम्यसून्व्रतकृशा बहुजन्मभिः स्यामिति त्वत्कृतकामनाद्ब्राह्मणदत्तादेव ज्ञायते । त्वय्येव तिष्ठेत् तत्प्रतिकरणे न वयं शक्ताः किन्तु मातुरेतत्कृत्यमस्माकमित्याह ॥ वयं प्रतिनन्दयाम इति । केवलं तुष्याम इत्यर्थः । जिहासुस्तिष्ठेस्तत इति पाठे इदमङ्गं जिहासुस्तिष्ठेरिति यावदिति पूर्वटीकोक्तोऽर्थोऽवधेयः । प्रतिनन्दयाम इत्यनेन पठनादिभिरिदमङ्गम् । एतज्ज्ञानं यत्र तिष्ठेत्ता-नधिकारवतोऽपि नन्दयाम इति ध्वनयति । महाकथायास्तत्फलालापं विना समापनायोगात्
॥ ६१ ॥
श्रीशुक उवाच—
एवं सौरतसल्लापैर्भगवान् देवकीसुतः ।
स्वरतो रमया रेमे नरलोकं विडम्बयन् ॥ ६२ ॥
पदरत्नावली
देव्या गुणा ब्रह्मायुषाऽपि वक्तंु न शक्या इति सङ्क्षिपतीत्याह– श्रीशुक इति ॥ सौरतसल्लापैः सुरतसम्बन्धिमिथोभाषणैः । नरलोकं मनुष्यजनं विडम्बयन् अनुकुर्वन्
॥ ६२ ॥
सत्यधर्मीया
कियत्पर्यंतं विडम्बनं गुणाश्चैकत्रेतरा मता मयि च त्वदादिसर्वा मताः साकल्येनेति हरिरुपसंहरतीतीरयति ॥ एवमिति । सुरतसम्बन्धिनः सल्लापास्तैर्नरलोकं विडम्बयन् रमया स्वरतोऽपि रेमे । अनेनानुकम्पैव रमणकारणं नान्यदिति ध्वनयति ॥ ६२ ॥
तथान्यासामपि स्त्रीणां गृहेषु गृहवानिव ।
आस्थितो गृहमेधीयान् धर्मांल्लोकगुरुर्जुषन् ॥ ६३ ॥
॥ इति श्रीमद्भागवते दशमस्कन्धे पञ्चसप्ततितमोऽध्यायः ॥
पदरत्नावली
इदमन्यत्रातिदिशति– तथेति ॥ गृहवान् गृहस्थ इव आस्थित उद्गतश्च प्रकाशितः । आङ उद्गमन इति सूत्रम् ॥ ६३ ॥
॥ इति श्रीमद्भागवतटीकायां विजयध्वजतीर्थकृतायां पदरत्नावल्यां
दशमस्कन्धे उत्तरार्धे पञ्चसप्ततितमोऽध्यायः ॥
सत्यधर्मीया
तथा रुक्मिणीवदन्यासां स्त्रीणां गृहेष्वपि गृहमेधीयान्धर्मान्गृहवानिव लोकगुरुर्जुषन्सेवमान आस्थितोऽतिष्ठत् ॥ ६३ ॥
**॥ इति श्रीसत्यधर्मयतिकृतायां भागवतटिप्पण्यां **
दशमस्कन्ध उत्तरार्धे पञ्चसप्ततितमोऽध्यायः ॥ १०-७५ ॥