अथैकदात्मजौ प्राप्तौ कृतपादाभिवन्दनौ
॥ अथ चतुःसप्ततितमोऽध्यायः ॥
श्रीशुक उवाच—
अथैकदात्मजौ प्राप्तौ कृतपादाभिवन्दनौ ।
वसुदेवोऽभिनन्द्याह प्रीत्या सङ्कर्षणाच्युतौ ॥ १ ॥
पदरत्नावली
सुखं गुणोपसंहारार्थं सम्यक् तत्त्वविज्ञाने हरौ भक्तिविधानं सुशकमिति पुनरपि हरेर्माहात्म्यं निगद्यतेऽस्मिन्नध्याये । तदर्थं वसुदेवः कृष्णरामौ सम्बोध्य वक्ति (इत्याह) अथेति ॥ १ ॥
सत्यधर्मीया
विशारदैर्नारदादिभिरुद्बोधितबोधस्य वसुदेवस्य वासुदेवरामौ प्रति तत्त्ववचनं वचनं च तं प्रति भगवतस्तथा देवक्या मृतापत्यप्रदर्शनमित्यादिमाहात्म्यमितर-श्रुतवद्भक्तिव्यक्तिकृदिति निरूप्यतेऽत्राध्याये । तत्रादौ पादाभिवन्दनं नन्दनयोर्वसुदेवस्याह ॥ अथेति ॥ द्वारकागमनानन्तरं कदाचित्कृतं पादाभिवन्दनं याभ्यां तौ सङ्कर्षणाच्युतौ प्रीत्या भक्तिविशेषरूपिण्याऽभिनन्द्याहो नटनमिति । अभिनन्दनं कृत्वाऽऽह ॥ १ ॥
मुनीनां वदतां श्रुत्वा पुत्रयोर्धामसूचकम् ।
तद्वीर्यजातविस्रम्भः परिष्वज्याभ्यभाषत ॥ २ ॥
पदरत्नावली
पुत्रयोः कृष्णरामयोर् धाम्नस्तेजसः माहात्म्यलक्षणस्य सूचकं वदतां मुनीनां वचः श्रुत्वा तयोर्वीर्ये महात्म्ये जातविश्रम्भः पुनरङ्कुरितविश्वासः ॥ २ ॥
सत्यधर्मीया
आहेत्युत्साहेन प्रथमं प्रतिज्ञाय तदुपयुक्तमुक्त्वा तदुक्तिप्रकार-मीरयति ॥ मुनीनामिति ॥ वदतां मुनीनां सकाशात्पुत्रयोर्धाम तेजः पराक्रममिति यावत् । श्रुत्वा स्वयं च तयोर्वीर्याज्जातो विश्रम्भो विश्वासो यस्य सः । अनेनान्यथैवं सामर्थ्यं न स्यादिति स्वतर्कणेन च तत्सत्यतां निश्चितवानिति ध्वन्यते । स्वसाक्षिसिद्धवीर्यादिजनित-विश्वासो वा । तौ परिष्वज्यालिङ्ग्य सूचकं तदुपदिष्टं स्वसाक्षिसिद्धं च न विस्मृतमपि तु वर्तते हृदीति सूचकं वचोऽभ्यभाषत । धामसूचकं वदतामिति वाऽन्वयः । वाचालोऽयमिति यथा नोपेक्षा भवेत्तयोस्तथाऽवदद्वसुदेव इत्यप्याह । वदतां वाग्मिनाम् । वदो वदावदो वाग्मीत्यमरः । परिष्वज्यालिङ्ग्य तमाश्रित्येति यावत् । अभ्यभाषतेति ॥ २ ॥
कृष्णकृष्ण महायोगिन् सङ्कर्षण सनातन ।
जाने वामस्य यत्साक्षात् प्रधानपुरुषौ परौ ॥ ३ ॥
पदरत्नावली
अहं वां प्रधानपुरुषौ जाने वां यथाऽस्य विश्वस्य सकाशात् परौ विलक्षणत्वेनोत्तमौ भवतस्तथेति । यद्वाऽस्य जगतस्तत्वं जाने ॥ ३ ॥
दुर्घटभावदीपिका
महायोगिन् कृष्ण । त्वं सनातनः सङ्कर्षणस्त्वमित्येतौ युवां यद्यस्मात्साक्षात्प्रधानपुुरुषौ मुख्यतो लक्ष्मीचतुर्मुखनियामकौ तस्मादस्य जगतः सकाशा-त्परावुत्तमाविति जान इति । एतेन कृष्णेत्यादेरेकवचनान्तत्वात् त्वं जान इति वक्तव्यम् । वां जान इति कथनमनुपपन्नमिति चोद्यं पराकृतम् । कृष्णेत्यादेरध्याहृतत्वमित्यादि-शब्दैरन्वयस्योक्तत्वात् । एतेनैव प्रधानपुरुषौपरावित्येतत्पुनरुक्तमिति दूषणं परिहृतम् । प्रधानपुुरुषावित्यस्योत्तमपुरुषावित्यर्थ इत्यनङ्गीकारात् ॥ ३ ॥
सत्यधर्मीया
परिष्वङ्गे साक्षादेतस्य नाधिकार इति ध्वनयितुमादौ सङ्कर्षणाच्युता-वित्यादौ सङ्कर्षणग्रहः । अधुना तु मधुनाथ एव वक्ष्यमाणलक्षणलक्षितः साक्षादिति च तत्पुरस्करणमिति मन्तव्यम् । कृष्ण कृष्ण सनातन वेदवेद्य पुराणपुरुष वा हे सङ्कर्षण । बलेत्यनुक्त्वा सङ्कर्षणेति वदन् एतदसम्भावितगुणपात्रं तदन्तर्गतः सङ्कर्षण इति ध्वनया-मासेत्यवसेयम् । अस्य जगतः प्रधानपुरुषौ । प्रधानपुरुषो मुख्यपुरुषः पुरुषोत्तम एक एकश्च प्रकर्षेणाधानं निधानं मूधर्ि्न यस्य स चासौ पुरुषश्चेति । परौ वा जाने । साक्षादिति ज्ञानस्य यथार्थतां ध्वनयति । यद्वा साक्षान्मुख्यतः परावित्यर्थः । अस्य जगतः सकाशात्परौ विलक्षणाविति साक्षात्प्रधानपुरुषौ जान इति वा ॥ ३ ॥
यत्र येन यतो यस्य यस्मै यद्यद्यथा यदा ।
स्यादिदं भगवान् साक्षात् प्रधानपुरुषेश्वरः ॥ ४ ॥
पदरत्नावली
तत्कथमिति तत्राह– यत्रेति ॥ यत्र यस्मिंस्तिष्ठति ‘यस्मिन्निदम्’ इति श्रुतिः ‘येन जातानि जीवन्ति’ इति श्रुतिः । ‘यतो वा इमानि भूतानि’ इति । ‘यस्य ब्रह्म च क्षत्रं च उभे भवत ओदनः । ‘मृत्युर्यस्योपसेचनम्’ इति काठकाः । यस्मा इदं क्रियत इति । सच्च त्यच्चाभवद् इति । यथास्थितम् । यदा काले इदं स्यात् तथा तदा स्यात् । ब्रह्मैवेदं विश्वमिति श्रुतिः । इदं जगत् । साक्षात् स्पष्टं निर्विचारं प्रधानपुरुषेश्वर-शब्दवाच्यो भगवानेव स्यात् । तत्सत्ताया अपि तदधीनत्वात् । यद्वा यत्र यस्मिन् अधिष्ठाने येन साधनेन यतोमृदः यस्य सम्बन्धेन यस्मै देवदत्ताय यद्वस्तु यथा प्रकारेण यदा यस्मिन् काले ॥ ४ ॥
सत्यधर्मीया
तदेव प्रधानपुरुषेश्वरत्व•दिकं घटयन्नाह ॥ यत्रेति ॥ यत्रेदं तिष्ठति । यस्मिन्निदं सञ्च विचैधि सर्वमित्यादेः । येन । येन जातानि जीवन्तीति । यतः । यतो वा इमानि भूतानीति । यस्य यस्य ब्रह्म च क्षत्रं चोभे भवत ओदनः । मृत्युर्य-स्योपसेचनम् । यस्य प्रसादादित्यादेः । यस्मा इदं क्रियत इति यस्मै । यत् । सच्च त्यच्चेति । यथा । धाता यथा पूर्वमकल्पयदिति । येन प्रकारेण स्थितं यदा काले । इदं विश्वं स्यात्तथा साक्षात्तत्कुर्वन् भगवानेव त्वमिति प्रधानपुरुषेश्वरः । यदधीना यस्य सत्तेत्यादेः । ब्रह्मैवेदं सर्वमिति श्रुतेः । साक्षात्प्रधानपुरुषेश्वरो भगवानेव स्यादित्यपि योजयन्ति । यत्र गोत्रादौ येन यतो मृदो यस्य कुलालादेः सम्बन्धेन । अकारकत्वात् षष्ट्याः । यस्मै जलाद्याहरणार्थं वा यद्धटादिकं यथा कम्बुग्रीवादिमत्त्वेन प्रकारेण यदा काले स्यात् तत्सर्वमित्यपि योजयन्ति ॥ ४ ॥
एतन्नानाविधं विश्वमात्मसृष्टमधोक्षज ।
आत्मनाऽनुप्रविश्यात्मन् प्राणान् जीवो बिभर्ष्यजः ॥ ५ ॥
पदरत्नावली
तदिदं कथितमेव स्पष्टत्वाय कथयति– एतदिति ॥ आत्मना त्वया सृष्टम् । आत्मना अनुपहतस्वरूपेण । आत्मन्नात्मनि । प्राणानिन्द्रियाणि । जीवो जीवनप्रदः ॥ ५ ॥
सत्यधर्मीया
तदेव विवृणोति ॥ एतदिति ॥ आत्मसृष्टं स्वोत्पादितमात्मना तत्स्वभावेनात्मनाऽणुरूपेण वा तद्विश्वमनुप्रविश्यात्मन् आदानादिकर्तः हे अधोक्षज । प्राणानीन्द्रियाणि जीवो जीवयतीति जीवः । जीवो विनयिता साक्षी जीव इति भगवतोऽ-निरुद्धस्याख्येति श्रुतेः । बिभर्षि पोषयसि । आत्मन्परमे व्योमन्नितिवदात्मनि वा बिभर्षि धत्से वा । एतत्सम्भावकमाह ॥ अज इति ॥ ५ ॥
प्राणादीनां विश्वसृजां शक्तयो याः परस्य ताः ।
पारतन्त्र्याद्वैसादृश्याद् द्वयोः श्रेष्ठे च चेष्टितम् ॥ ६ ॥
पदरत्नावली
प्राणादीनां मुख्यप्राणादीनां याः शक्तयस्ताः परस्य हरेर्विद्यमानाः । तत्र हेतुः पारतन्त्र्येति वैसादृश्याद् वैलक्षण्यात् । तदुपपादयति द्वयोरिति । द्वयोर्जीवेशयोः श्रेष्ठे अतिशयेनोत्तमे हरौ चेष्टितं यस्मात् तस्मादित्यर्थः । यथा वायोः शक्त्या तृणपर्णादीनां चालनं यथा वा पुरुषस्य शक्त्या शरादीनां वेगवती गतिस्तथा प्रकृते इति भावः ॥ ६ ॥
सत्यधर्मीया
तर्हीतरत्र दृश्यते कर्तृत्वादिकं कथमिति चेत्तत्राह । प्राणादीनां तथा विश्वसृजां प्रजापत्यादीनां विश्वसृजां तत्त्वेन प्रवर्तमानानां ब्रह्मादीनां प्राणादीनां तदिन्द्रियाणां याः शक्तयो विषयग्रहणसामर्थ्यानि ताः । तथा चेष्टितं कर्मापि परस्य तदितरस्य तन्नियम्य-त्वेन स्थितस्य । द्वयोर्मध्ये श्रेष्ठे सर्वं प्राणादिकं जीव इति हरिश्चेति द्वयोर्जीवेशयोः श्रेष्ठे कृष्ण एव वर्तते । तत्र हेतुः पारतन्त्र्यादिति । जीवजातस्य वैसादृश्यं विसदृशत्वं तस्मा-द्वैलक्षण्यादिति वा । द्वयोर्मध्ये श्रेष्ठे त्वयि चेष्टितं तदनुरूपं चेत्प्राणादीनां विश्वसृजां परस्य धातुरपि या रमाया अपि तास्तच्चेष्ठितानुकूलाः शक्तयो भवन्ति । तत्र तन्त्रं पारतन्त्र्या-दिति । तत्राप्यस्वतन्त्रवर्गे न साम्येनेत्याह । वैसादृश्याद्वैलक्षण्यादेव भवन्ति तरतमभावेेनेति यावत् । पारतन्त्र्याद्वैसादृश्यादित्यस्याक्षरपरे लघु भवितव्यं तदर्थं चैवं वैसादृश्यात्पार-तन्त्र्यादिति पाठे न किञ्चिद्वृत्तविच्छित्तिरथाऽप्येवं पठन् जीवत्वेनैकीकृत्योक्तजीवानां परतन्त्राणां मध्ये द्वौ च तौ सदृशौ च । द्वीत्युपलक्षणे । ये ये द्वौ त्रयो वा ब्रह्मवायू इन्द्रकामौ शेषरुद्रगरुडाश्चैवमादयः । द्विसदृशयोर्भावो द्वैसादृश्यं तस्मात् । परस्य ब्रह्मणो यास्ताः शक्तयस्तच्चेष्ठितं च वायोरित्यादिविशेषसूचनं ततानेति ज्ञेयम् । द्वैसादृश्या-त्पारतन्त्र्यादिति पाठे यद्यपि वृत्तसम्पत्तिश्चेदपि न वैसादृश्यप्रतीतिर्भवति । प्राक् प्रधान-पुरुषेश्वराविति द्वयोः साम्यं न किन्तु छत्रिन्यायेन मयोक्तमिति । यत्र येनेत्यादिनैकमेव गृह्णन् द्वयोः प्रधानपुरुषत्वेनोक्तयोर्मध्ये श्रेष्ठे ताः शक्तयश्चेष्टितं चेत्यन्तरङ्गं स्वस्य ध्वनया-मासेति मन्तव्यम् ॥ ६ ॥
कान्तिस्तेजः प्रभा सत्ता चन्द्राग्न्यर्कसविद्युताम् ।
यत् स्थैर्यं भूभृतां भूमेर्वृत्तिर्गन्धोऽर्थतो भवान् ॥ ७ ॥
पदरत्नावली
पदार्थगुणानां तदधीनत्वमाह– कान्तिरित्यादिना । चन्द्राग्न्यर्काणां सविद्युतां खद्योतादीनां मध्ये चन्द्रस्य या कान्तिर् अग्नेर्यत् तेजः सूर्यस्य या प्रभा विद्यु-दादीनां या सत्ता भूभृतां यत् स्थैर्यं भूमेर्या वृत्तिः सस्यादीनां जीवनत्वं यो गन्धो गुणस्त-त्सर्वमर्थतोऽभिधेयत्वं यद्भवान् नान्यः ॥ ७ ॥
दुर्घटभावदीपिका
अर्थत इत्यस्य यथार्थत इत्यर्थः । एतेनार्थत इत्येतद्व्यर्थमिति दूषणं परास्तम् । भगवन्निष्ठं चन्द्रादिनियामकत्वं मिथ्याभूतमिति मायावादिमतनिरासार्थं यथाशब्दस्याध्याहारेणार्थत इत्यनेन भगवन्निष्ठचन्द्रादिनियामकत्वस्य सत्यत्वमुच्यत इत्यूरी-करणात् ॥ ७ ॥
सत्यधर्मीया
विद्युद्भिः सहिताः सविद्युतश्चन्द्रश्चाग्निश्च ते च ते सविद्युतश्च तेषाम् । चन्द्राग्न्यर्कर्क्षविद्युतामिति सरलः पाठः । न च ऋक्षाणां पृथग्ग्रहणं न युक्तम् । पृथक् तद्गुणानीरणादिति वाच्यम् । ऋक्षविद्युतां सत्तैको गुण इति नानुपपत्तिः । चन्द्रस्य कान्तिरग्नेस्तेजोऽर्कस्य प्रभा ऋक्षविद्युतां सत्ता । एतत्कान्त्यादिकं त्वं त्वयैतेषां न तत्प्रकाश्यस्त्वमिति तत्त्वम् । तथा च श्रुतिः । न तत्र सूर्यो भाति न चन्द्रतारकं नेमा विद्युतो भान्ति कुतोऽयमग्निः । तमेव भान्तमनुभाति सर्वम् । तस्य भासा सर्वमिदं विभातीति । स्मृतिश्च । यदादित्यगतं तेज इत्यादिका । भूभृतां पर्वतानां यत्स्थैर्यं भूमे-र्वृत्तिराधारतयाऽवस्थानं सस्याद्यधिरोहकत्वेन जीवनदत्वं च यो गन्धस्तद्गुण इत्यादि-सर्वमर्थतो मुख्यतो भगवान्नान्यः । पारतन्त्र्यमेव विवृतम् ॥ ७ ॥
तर्पणं प्राणनं चापां द्रवत्वं ताश्च तद्रसः ।
ओजः सहो बलं चेष्टा गतिर्वायोरियत्तव ॥ ८ ॥
सत्यधर्मीया
तर्पणं तृप्तिः प्राणनं चेष्टा द्रवत्वं स्यन्दनं ता आपस्तद्रसश्च मधुरस्त्वदधीनमदः सर्वम् । ओजोऽवष्टम्भः सहः सहनं बलं शक्तिः स्पन्दनं किञ्चिच्चलनं तर्वादिचालनं वा गतिः क्वचिन्मण्डलाकारगमनं सदेति वा गतिः स्पर्श इति वा वायोरियत्तव त्वदधीनम् ॥ ८ ॥
दिशां त्वमवकाशोऽसि शब्दस्त्वं स्फोट आश्रयः ।
नादो वर्णस्त्वमोङ्कार आकृतीनां पृथक्वृतीः ॥ ९ ॥
पदरत्नावली
यो दिशामवकाशः स त्वं यश्च स्फोटो व्योमनि आश्रयः स त्वम् ‘निर्दोषः शब्द आगमः’ इति वचनाद् वर्णक्रमलक्षणोऽर्थव्यञ्जकः शब्दस्त्वम् । किञ्च स्फोटो वेणुदारणादौ जन्यध्वनिः । आश्रयः शङ्खादिजन्यस्त्वमित्यर्थः । ‘अवस्वराति गर्गरः’ इति श्रुतेः । आकृतीनां ब्रह्मादिप्राणिनां देवानां याः पृथक् कृतीः पृथक्क्रिया अनिमेषादि-लक्षणास्ताश्च त्वदधीनाः ॥ ९ ॥
सत्यधर्मीया
दिशां त्वमवकाशस्तदवकाशत्वदो दिशस्त्वं भूताकाशश्च त्वं तद्गुणः शब्दश्च शब्दो वेदादिः स्फोटो वेणुदारणादिज आश्रयः पक्ष्याद्याधारतारूपो नादः नादो नाम वर्णविशेषोऽकाराद्यतिशान्तान्तः सोऽयमष्टाक्षरो मत इति तन्त्रसारे कर्मनिर्णयटीकायां च । नादो नामवर्णविशेषो मन्त्रशास्त्रे प्रसिद्ध इत्युक्तेः । वर्णोऽकारादिः । ॐकारस्त्रिमात्रोऽनन्त-मात्रश्च । आकृतीनां पृथक्कृतीः । अकारोकाराद्यात्मना पृथक्करणानि । आकृतीनां संस्थानविशेषाणां त्वं ते त्वदधीना मन्ये । आकृतीनां ब्राह्मादीनां पृथक्कृतीः पृथक्क्रियाश्च त्वदधीना इति वा । वैयाकरणाश्च स्फोटो वाक्यपदयोरिति वर्णयन्ति । आश्रयः शङ्खादिक-माश्रित्य विद्यमानः शब्द इति वर्णयन्ति ॥ ९ ॥
इन्द्रियं त्विन्द्रियाणां त्वं देवाश्च तदनुग्रहाः ।
अवबोधो भवान् बुद्धेर्ज्जीवस्यानुस्मृतिः सती ॥ १० ॥
पदरत्नावली
इन्द्रियाणामिन्द्रियमिदंद्रवणं तदनुग्राहका देवाः सूर्यादयश्च त्वम् । बुद्धेरवबोधो ज्ञानजननशक्तिः । जीवस्य सत्यनुस्मृतिः स्मरणशक्तिश्च भवान् ॥ १० ॥
सत्यधर्मीया
इन्द्रियाणां चक्षुरादीनां विषयमुद्दिश्य द्रवताम् । द्रवतां हीन्द्रियाणां तु नियन्ता प्राण एकराडिति पौत्रायणश्रुतिः । विषयद्रवणात्तेषामिन्द्रियत्वमुदाहृतमिति बृहत्संहितायामिति भाष्योक्तेः । त्वमेवेन्द्रियं तच्छक्तिप्रद इत्यर्थः । तदनुग्रहास्तेष्वनुग्रहो येषां ते तदनुग्रहा देवाः सूर्यादयो बुद्धेरवबोधो ज्ञानशक्तिरूपो जीवस्य सती यथावस्थितार्थ-विषयिणी स्मृतिः स्मरणशक्तिश्च ॥ १० ॥
भूतानामसि भूतादिरिन्द्रियाणां च तैजसम् ।
वैकारिकं विकल्पानां प्रधानमनुशायिनाम् ॥ ११ ॥
पदरत्नावली
पञ्चभूतानां कारणं भूतादिस्तामसाहङ्कारः, चक्षुरादीन्द्रियाणां कारणं तैजसाहङ्कारः । विकल्पानां जरादिशून्यत्वेन परमात्मव्यपदेशानाम्, विविधाः कल्पा न्याया येषां तेषां वा, देवानां कारणं वैकारिकाहङ्कारः । सङ्कल्पविकल्पानां मनोवृत्तीनां वा । अनुशायिनां जीवानां कारणं प्रधानं प्रकृतिस्त्वम् । महदादीनां वा ॥ ११ ॥
दुर्घटभावदीपिका
भूतादिरित्यत्र भूतेति भगवतः सम्बोधनं सर्वदा विद्यमानेति तस्यार्थः । एतेन भूतानामादिरित्यनेन तामसाहङ्कारस्य प्राप्तत्वाद् भूतशब्दो व्यर्थ इति चोद्यं प्रत्युक्तम् । भगवतस्तामसाहंकारादिसर्वनियामकत्वोपपादनार्थं भूतशब्देन मुख्यामुख्यन्यायेन सर्वदा विद्यमानत्वमुच्यत इत्यभ्युपगमात् ॥ ११ ॥
सत्यधर्मीया
भूतानां पञ्चानां भूतादिस्तामसाहङ्कार इन्द्रियाणां कारणं तैजसाहङ्कारो विकल्पानां विविधत्वेनाध्यात्मिकादिभेदेन कल्प्यन्त इति विकल्पा देवास्तेषां वैकारिका-हङ्कारः । देवा वैकारिकाः स्मृता इत्यादेः । वैकारिकान्मनो जज्ञ इत्यादेः । विकल्पानाम् । बहुवचनमाद्यर्थे । सङ्कल्पविकल्पाद्यात्मवृत्तिसहितमनश्चेति वा । अनुशायिनां संसारिणां जीवानाम् । कर्मानुशयनाच्चैव संसार्यनुशयी स्मृत इति तत्त्वनिर्णयोक्तेः । प्रधानं प्रकृतिः संसारकारणम् ॥ ११ ॥
नश्वरेष्विह भावेषु तदसि त्वमनश्वरः ।
यथा द्रव्यविकारेषु द्रव्यमात्रं निरूपितम् ॥ १२ ॥
पदरत्नावली
सर्वभावानामादिस्त्वमिति निरूप्याधुनाऽन्तकालावस्थायित्वं च तवेति समर्थयते– नश्वरेष्विति ॥ इह नश्वरेषु नाशशीलेषु भावेषु पदार्थेषु योऽनश्वरो ऽविनाशी भावस्तद्द्रव्यमसि । सूक्ष्मार्थत्वान्निदर्शनेनावगमयति । तथाहि । द्रव्यं प्रधानम् । तद्विकारेषु पृथिव्यादिषु पदार्थेषु प्रलये नश्वरेषु द्रव्यमात्रं केवलं स्वरूपभूतं प्रधानमेव निरूपितम्, तत्वज्ञैरिति शेषः । यद्वा द्रव्यं परमाणुमात्रं निरूपितम्, परमाणुत्ववेदिभिरिति शेषः ॥१२॥
सत्यधर्मीया
ईश्वरत्वमादिरित्युदीर्यान्ते नश्वरेषु त्वमनश्वरः स्थातेति स्थापयन्नाह ॥ नश्वरेष्विति ॥ इह भावेषु पदार्थेषु नश्वरेषु नाशवत्सु त्वमनश्वरो नाशशून्यः । तद्द्रव्यं तादृग्वस्त्वसि । तत्र निदर्शनमाह ॥ यथेति ॥ द्रव्यविकारेषु मृदादिविकारेषु घटादिषु नश्वरेषु मृन्मात्रं यथा निरूपितमस्तीति तज्ज्ञैस्तथेति योजयन्ति । अनवस्थानमा(?) निदर्शनं पादानतायां नेत्यनुसन्धेयम् । द्रव्यस्य घटादेर्विकारेषु महारजनाञ्जनादिजेषु कालतो नष्टेषु द्रव्यमात्रं पटमात्रं निरूपितं तथेति वा द्रव्यस्य परमाणे विकारेषु तत्संयुक्तघटादि-नश्वरेषु द्रव्यमात्रं परमाणुमात्रं नित्यमिति निरूपितं तद्वेदिभिरिति योजयन्ति ॥ १२ ॥
सत्वं रजस्तम इति गुणास्तद्वृत्तयश्च याः ।
त्वय्यद्धा ब्रह्मणि परे कल्पिता योगमायया ॥ १३ ॥
पदरत्नावली
नन्वेवं तर्हि प्रधानादेर्नित्यत्वे न परमात्मनियतत्वमायातमिति तत्राह– सत्वमिति । इतिशब्दो हेत्वर्थः । जगदुत्पत्त्यादिहेतुः सत्वादयो गुणा ये याश्च तेषां गुणानां वृत्तयो व्यापाराः, ते ताश्च परे ब्रह्मणि तद्व्याप्ते तदव्याप्ते च देशे व्याप्ते त्वयि अद्धा अनिर्वचनीयत्वेन कल्पिताः समर्थिताः ‘एतस्मिन्नु खल्वक्षरे गार्ग्याकाश ओतश्च प्रोतश्च’ इत्यादि वेदान्तवाक्यैः । सत्वादिगुणानां प्रधानस्वरूपत्वेन तेषां तदाधारत्वकथने प्रधानस्य तदाश्रयत्वं किमु वक्तव्यमिति । परमाणुपक्षे शुक्लवर्णेन सत्वेनाप्या रजसा पार्थिवाः स(?)तमसा आवरकेण वायवीयाः परमाणवो लक्ष्यन्ते । इतिशब्देनादित्ववाचिना तैजसा लक्षिता इति चतुर्विधा गुणास्तन्तुस्थानीयाः परमाणवो यास्तद्वृत्तयः संयोगलक्षणा-स्त्वयि कल्पितास् त्वत्प्रेरितत्वेन कार्यकारणक्षमत्वेन समर्थिता इत्यर्थः । किमनेन नियमे-नेत्यत उक्तम्– योगमायेति ॥ योगमायया स्वसमवेतेच्छया ॥ १३ ॥
सत्यधर्मीया
तर्हि यन्मूलद्रव्यत्वेनावशिष्टं तन्नित्यमिति न भगवदधीनमित्यायात-मिति तत्राह ॥ तदिति ॥ तद्यन्मूलद्रव्यं प्रधानादिकं सत्त्वं रजस्तम इति गुणास्तद्गुणा वृत्तयस्तद्व्यापाराश्च याः कियत्यस्ताः परे ब्रह्मणि योगमायया सर्वोपायस्वरूपेच्छया कल्पिताः समर्थिताः सत्या एवाद्धा निस्सन्देहेन वर्तन्ते । परमाणुपक्षे सत्त्वं शुक्लवर्णस्तेनाप्या रजसा पार्थिवास्तमसा वायवीया इति शब्देनादित्ववाचिना तैजसा लक्षिता इति चतुर्विधा गुणा-स्तन्तुस्थानीया इति ते तद्वृत्तयोऽपि संयोगादिलक्षणास्त्वयि समर्थिताः कार्यकारण-क्षमत्वे-नेत्यर्थ इत्युपपादयन्ति । अनित्यं पटादिद्रव्यं भवतु भगवन्नियतं प्रधानं नित्यं तत्कथमन्य-नियतमित्यत आह । सत्त्वमित्यवतार्य ‘नित्यं नित्यात्मना यतः’ इत्यादेः प्रधानस्य सपरिकरस्य भगवन्नियतत्वे तत्पटादिकं किं वक्तव्यं तदायत्तमितीत्यर्थपरोऽयं श्लोक इति व्याकुर्वन्ति ॥ १३ ॥
तस्मान्न सन्त्यमी भावा यर्हि त्वय्यविकल्पिताः ।
त्वं चामीषु विकारेषु सन् सदा व्यावहारिकः ॥ १४ ॥
पदरत्नावली
व्यतिरेकं दर्शयति– तस्मादिति ॥ यर्हि यदा अमी भावास्त्वय्य-विकल्पितास् त्वदाधारत्वेन निरूपितास् तदा तस्मादनाधारतया न सन्ति । स्वरूपत एव नश्यन्ति तस्मात् तत्सत्ताऽपि त्वदधीनेत्यर्थः । एतदेव विशदयति– त्वं चेति । अमीषु विकारेषु विविधप्रकारेषु पदार्थेषु त्वं च त्वमेव सन् सद्भावं कुर्वन् सदा व्यावहारिकः हानादिव्यवहारनिर्वाहकः, नान्य इत्यर्थः ॥ १४ ॥
सत्यधर्मीया
अन्यथैतदेव स्थितिर्दुलभेति भाषते ॥ यर्हीति ॥ यर्हि त्वय्य-विकल्पिताः पारमार्थिका अमी भावा न सन्ति तस्मात्ते न सन्ति न स्थास्यन्ति नश्यन्ति । अनाधारत्वात् । तस्मादेतत्स्थितिहेतोस्त्वं चामीषु विकारेषु नानापदार्थेष्वमीषु मूलप्रधानादि-द्रव्येषु तथा विकारेष्विति वा सदा सन्नवस्थितो व्यावहारिको हानोपादनादिव्यवहारनिर्वाहको वर्तसे नान्य इत्यर्थः । अव्यावहारिकस्तस्मात्सदा सन्नयं प्रपञ्च इति शेष इत्यपि योजयन्ति
॥ १४ ॥
गुणप्रवाह एतस्मिन्नबुद्ध्वा त्वखिलात्मनः ।
गतिं सूक्ष्मामबोधेन संसरन्तीह कर्मभिः ॥ १५ ॥
पदरत्नावली
नन्वेवं तर्हि कस्मादेतस्य संसार इति तत्राह– गुणेति ॥ एतस्मिन् गुणप्रवाहे संसारे अखिलात्मनो ऽखण्डस्वामिनस् तव सूक्ष्मामतीन्द्रियां गतिं स्थितिं सर्वव्यापीसर्वनियामक इत्यादिलक्षणामबुद्ध्वाज्ञात्वा तेनाबोधेनाज्ञानेन इह कर्मभिः संसरन्ती-त्यन्वयः । तत्वाज्ञानात् संसार इति भावः ॥ १५ ॥
सत्यधर्मीया
इयति सति कुतः संसार इत्यत आह ॥ गुणेति ॥ एतस्मिन्गुण-प्रवाहे प्रपञ्चे वर्तमाना अखिलात्मनः सर्वस्वामिनस्तव गतिं स्थितिमबोधेनाबहिः प्रकाशनेनेति सूक्ष्मां कर्मभिर्ज्ञानप्रतिबन्धकैरबुद्ध्वेह संसरन्ति संसारं प्राप्नुवन्ति । प्रसादं विना न व्यक्तो भवसि त्वमिति स्वकर्मप्रतिबद्धसंविदः संसरन्ति त इति भावः । तदव्यक्तमाह हि । अतोऽनन्तेन तथा हि लिङ्गमित्यादेः ॥ १५ ॥
यदृच्छया नृतां प्राप्य सुकल्पामिह दुर्लभम् ।
स्वार्थे प्रमत्तस्य वयो गतं त्वन्माययेश्वर ॥ १६ ॥
पदरत्नावली
ननु मनुष्यत्वलाभाज् ज्ञानं सुलभं तस्मान्मोक्षोऽपि स्यादित्याशङ्क्य सर्वं च त्वत्प्रसादमन्तरेण दुर्लभमित्याह– यदृच्छयेति । यदृच्छया भगवदिच्छया तत्रो-द्बुद्ध्यारब्धपुण्यकर्मणा नृतां मनुष्यत्वं प्राप्य इह मनुष्यशरीरे त्वन्मायया स्वार्थे प्रमत्तस्य मम वयो गतम्, वृथेति शेषः । अतः सुकल्पं क्लृप्तं फलप्रदं ज्ञानं दुर्लभम्, अभूदिति शेषः । नितराममृतत्वं त्वन्मायया ॥ १६ ॥
सत्यधर्मीया
ननु नानाविधहीनतरशरीरेषु सतो यदाकदाचिद्यथाकथञ्चिन्मानवतनु-सम्पत्तौ संवित्साधनेन मोक्षोऽपि स्यादित्यतोऽपि न त्वत्प्रसादं विनैतत्साधनमित्याह ॥ यदृच्छयेति ॥ यदृच्छा त्वेतत्प्रापणमात्रहेतुर्भगवदिच्छा तया नृतां मनुष्यतां पुण्यवशा-त्प्राप्य । सा कीदृशीत्यत आह । सुकल्पां संवित्सम्पादनसमर्थां दुर्लभमितरजन्मनीति । इह स्वार्थे प्रमत्तस्य प्रमादयुक्तस्योन्मत्तस्य मम मज्जातीयस्य च । तत्र तन्त्रं त्वन्माययेति । सा च कुतोऽतार्येत्यत आह ॥ ईश्वरेति ॥ वयं वृथा गतम् । सुकल्पमिह दुर्लभमिति पाठेऽपि नृतामित्येतदर्थस्य नृत्वमित्यस्य विशेषणे इति ज्ञेयम् । विवृतः प्रागयं प्रकारोऽनुसन्धेयः । नृतामिहेदानीं प्राप्य यदृच्छया स्वेच्छयैव स्थितं सुकल्पं मुक्तिदानसमर्थं वयोगतं गरुडवाहनं त्वन्माययैव स्वार्थे प्रमत्तस्य पुंसो दुर्लभं मन्य इति शेषः ॥ १६ ॥
असावहं ममैवैते देहे चास्यान्वयादिषु ।
स्नेहपाशैर्निबध्नाति भवान् सर्वमिदं जगत् ॥ १७ ॥
पदरत्नावली
स्वार्थे प्रमादः कीदृश इति तत्राह– असाविति ॥ असौ देहोऽहमस्य देहस्यान्वयादिषु इन्द्रियकलत्रादिषु ममैवैते सन्त इति सुदृढैर्ममत्वेन बध्नाति । न केवलं मामेव किन्तु सर्वमिति भावेनोक्तम्– सर्वमिति ॥ १७ ॥
सत्यधर्मीया
स प्रमाद एतादृश इति शंसति ॥ असाविति ॥ ममासौ देहोऽहमेते च ममास्य देहस्यान्ववायादिष्वनुबन्धेषु । इन्द्रियजयादिषु । इदं सर्वं मदादिजगत्स्नेह-पाशैर्भवानेव बध्नाति । अयं प्रमादस्त्वत्कर्तृकस्तत्कर्मायत्त इति भावः ॥ १७ ॥
युवां न नः सुतौ साक्षात् प्रधानपुरुषेश्वरौ ।
भूभारदैत्यक्षपणे अवतीर्णौ तथान्विह ॥ १८ ॥
पदरत्नावली
त्वदनुग्रहान् मम किञ्चिज् ज्ञानमुत्पन्नमिति भावेनाह– युवामिति ॥ प्रधानपुरुषेश्वरौ प्रकृतिजीवेश्वरौ ॥ १८ ॥
सत्यधर्मीया
प्रीत्या सङ्कर्षणाच्युतौ पुत्रयोर्धामसूचकमिति तथा प्रधानपुरुषौ पराविति । द्वावपि प्रस्तुत्य यत्र येनेत्यारभ्येदं जगदिति पर्यन्तं बलकबलनानर्हगुणैस्तदर्हमेकं भगवन्तं स्तुत्वा प्रस्तावानुकूल्येन पुनर्द्वयोः स्तवनेन विद्यमानस्थितिं विज्ञापयति ॥ युवामिति ॥ युवां नः सुतौ न । तर्हि काविति तत्राह ॥ साक्षात्प्रधानपुरुषेश्वराविति ॥ तादृशौ चेच्छौरेऽत्र कुत इत्यत आह । भूभारेति । तथा नु तथाऽपि भूभारायितदैत्यानां क्षपणे भाविन्यवतीर्णावतोऽसुतौ ॥ १८ ॥
तत् ते गतोऽस्म्यरणमद्य पदारविन्दमापन्नसंसृतिभयापहमार्तबन्धो ।
एतावताऽलमलमिन्द्रियलालसेन मर्त्यात्मदृक् त्वयि परे यदपत्यबुद्धिः ॥ १९ ॥
पदरत्नावली
अतः किम् ? तत्राह– तत् त इति । इन्द्रियलालसेन इन्द्रियाणां शब्दविषयभोगेच्छया । मर्त्ये मृत्युशिरस्के देहे आत्मदृक् अहमितिदर्शनम् । यत् परे परमात्मनि त्वयि अपत्यबुद्धिः पुत्रत्वज्ञानम् ॥ १९ ॥
दुर्घटभावदीपिका
हे आर्तबन्धो मिथ्याज्ञाननिमित्तकसंसारदुःखविशिष्टानां बन्धो । यद्यस्मादलमत्यन्तमिन्द्रियलालसेनेन्द्रियभोगासक्तेन मया । मर्त्यात्मदृक् मर्त्यदेहमिति दृक् परे सर्वोत्तमे त्वय्यपत्यबुद्धिश्च कृता तत्तस्मादद्यापन्नसंसृतिभयापहं शरणं प्राप्तानां यत्संसृतिभयं तत्परिहारकं तत्ते पादारविन्दमरणं शरणं गतोऽस्मि । एतावता शरणगमनमात्रेणालमिति । अयं भावः । विषयवैराग्याभावाज्जातेन मिथ्याज्ञानेन प्राप्तसंसारदुःखं त्वत्पादारविन्दशरण-गमनमात्रेण निवृत्तं भविष्यतीति ॥ १९ ॥
सत्यधर्मीया– स्तुत्यन्ते मङ्गलमाचरन्निवैक एव तस्येष्ट इति पुनरावश्यकं तं प्रत्येव प्रार्थयते । तदिति । हे आर्तबन्धो आपन्नसंसृतिभयापह । आपन्नानां शरणागतानां या संसृतिस्तस्या यद्भयं तदपहन्तीति तत्तत् ते पदारविन्दं पादकमलमद्याहं शरणं गतोऽस्मि । अस्म्यहं शरणं गत इति वा । एतावतेन्द्रियलालसेन विषयत्वमुद्दिश्य करणानां द्रवणौत्सुक्ये-नालमलमतिपर्याप्तम् । कुतो वसुदेवैतज्जिहासा तवेति वासुदेव वदसि चेदित इत्याह । यदिति । यद्यतो लालसान्मर्त्ये देहे आत्मदृगहमिति मतिस्तत्त्वयि परे सर्वोत्तमेऽपत्त्यमिति बुद्धिश्चाभूतां तेनालमलम् । परापरविवेकनाशको विषयलालस इति भावः । लालसो लालसाऽपि स्याद्याच्नातृष्णातिरेकयोः । औत्सुक्ये त्विति विश्वः । विषयतृष्णयेति वा । आर्तबन्धाविति धर्मिण अपान्नसंसृतिभयापहमिति पदारविन्दरूपावयवस्योक्त्या तयोरैक्यं सूचयति । यः शरणं गतस्तस्यापन्नेत्यहं शरणं गत इति वा । अत्रापन्नाः स्युरित्युत्तरत्र संसृतिभयं च द्वयं च द्वयं सार्थकम् ॥ १९ ॥
सूतीगृहे ननु जगाद भवानजो नौ यद् यज्ञ इत्यनुयुगं निजधर्मगुप्त्यै ।
नानातनूर्गगनवद् विदधज्जहासि को वेद भूम्न उरुगाय विभूतिमायाम्
॥ २० ॥
पदरत्नावली
तदेवाह– सूतीगृह इति ॥ अजः शुक्रशोणितसम्पर्कजन्यशरीररहितः भवान् सूतीगृहे अरिष्टे अहं यज्ञो विष्णुरिति नौ जगाद ननु इति । यत् तस्मादनुयुगं निजक्लृप्तधर्मरक्षायै नानातनूः सुरनरादिनानाविधशरीराणि विदधत् कुर्वन् त्वं पुनः रक्षावसाने तास्तनूर् जहासि तिरोदधासि । कथं दधातीत्यत उक्तम्– गगनवदिति । यथा युगं युग्मं कार्यकारणद्वयात्मकपदार्थजातम् अनु अणुबृहदनुकूलत्वेन गाना भवति पुनस्तद् गगनं तत्पदार्थजातस्य कारणावशेषे स्वयमेवैकमेव भवति तथेत्यर्थः । हे उरुगाय भूम्नः पूर्णा-नन्दस्य तव विभूतीनां मायां माहात्म्यं को वेद? वेद चेद् ब्रह्मैव वेत्ति वायुर्वा नान्यः । अनेन गगनादस्य विशेषो दर्शितः ॥ २० ॥
सत्यधर्मीया
पुत्रौ नेत्यत्र त्वदुक्तिरपि मानमिति विज्ञापयति ॥ सूतीगृह इति ॥ अरिष्टेऽजो यज्ञोऽहं तन्नामेति । नौ जायापती प्रति भवाञ्जगाद ननु निश्चितम् । निजेन क्लृप्तो यो धर्मस्तद्गुप्त्यै गोपनार्थमनुयुगं प्रतियुगं नानातनूः सुरनरतिर्यगादिशरीराणि विदध-त्स्वीकुर्वंस्तत्कार्यपर्याप्त्यनन्तरं ता जहासि मूले गमयसि । पूर्णमदः । स्वाप्ययादित्यादेः । हे उरुगाय ब्रह्मादिस्तुत्य तव विभूतिमायामैश्वर्यसामर्थ्यं को वेद न कोऽपि । को ब्रह्मा चेदपि न साकल्येन वेद किञ्चिद्वेदेत्यप्यर्थः । गगनवदिति निदर्शनमसङ्गत्व इति मन्तव्यमिव घटादिनाशे तदवच्छिन्नस्य तस्य मूलाकाशनिवेशवन्मूलनिवेशनं च । यज्ञो विष्णु-र्देवतेत्यादेर्यज्ञो विष्णुः ॥ २० ॥
श्रीशुक उवाच —
आकर्ण्येत्थं पितुर्वाक्यं भगवान् सात्वतर्षभः ।
प्रत्याह प्रश्रयानम्रः प्रहसन् श्लक्ष्णया गिरा ॥ २१ ॥
पदरत्नावली
ब्रह्माद्यन्यतममन्तरेण प्रत्यक्षं भगवता सल्लापः कस्य सुलभोऽतो वसुदेवस्य भाग्यमतिविचित्रमिति भावेन कृष्णस्य प्रतिवचनप्रकारं कथयति– आकर्ण्ये-त्यादिना ॥ २१ ॥
सत्यधर्मीया
इत्थं पितुः पूर्वोदीरितरीत्या तातस्य वाक्यमाकर्ण्य श्रुत्वा प्रहसन् । अयं हास एव किञ्चिदुुदञ्चितज्ञानजवजवनिकारूप इति ज्ञेयम् । प्रश्रयाद्विश्वासान्नम्रं श्लक्ष्णया गिरा । प्रति तदुत्तरतयाऽऽह । प्रति श्लिष्टतयाऽऽहेत्युक्त्या तत्कालं तदुक्तनिराकरणं च ध्वनयति । यद्वक्ष्यति यन्नः पुत्रान्समुद्दिश्येति । सात्त्वतर्षभ इति गतम् ॥ २१ ॥
वचो वः समवेतार्थं तातैतदुपमन्महे ।
यन्नः पुत्रान् समुद्दिश्य तत्वग्राम उदाहृतः ॥ २२ ॥
पदरत्नावली
समवेतार्थं श्रुतिस्मृत्युपपन्नार्थं प्रसिद्धार्थं वा ॥ २२ ॥
सत्यधर्मीया
हे तात वो वच एतत्समवेतः श्लिष्टोऽर्थो यस्य तद् युक्तार्थमिति यावत् । वयमुपमन्महे । यतो नः पुत्रान्समुद्दिश्य लक्षीकृत्य तत्त्वग्रामो रहस्यसमूह उदाहृतोऽतः ॥ २२ ॥
अहं यूयमसावार्य इमे च द्वारकौकसः ।
सर्वेऽप्येव यदुश्रेष्ठ विश्वं च सचराचरम् ॥ २३ ॥
पदरत्नावली
युष्मदादिविश्वमहमेव मदधीनमेव नान्याधीनं सर्वं खल्विदं ब्रह्मम् इति श्रुतिसिद्धम् ॥ २३ ॥
सत्यधर्मीया
यूयमसावार्यो बलराम इमे द्वारकौकसश्च सर्व इतरे सचराचरं विश्वमहं मदधीनम् । सर्वं खल्विदं ब्रह्म । यदधीना यस्य सत्ता तत्तदित्येव भण्यत इत्यादेः ॥२३॥
आत्मा ह्येकः स्वयञ्ज्योतिर्नित्योऽन्यो निर्गुणो गुणैः ।
आत्मसृष्टैस्तत्कृतेषु भूतेषु बहुधेयते ॥ २४ ॥
पदरत्नावली
मत्समो नास्तीत्याह– एक इति ॥ केवलः द्वितीयवर्जितः । त्वंह वा क इत्यत उक्तम् आत्मेति । आत्मशब्देन किं देह उच्यत इत्यतः स्वयञ्ज्योतिर्नित्य इति । अनेन विशेषणद्वयेन जीवोऽपि व्यावृत्तः । तस्य नित्यानभिभूतस्वयञ्चोतिष्ट्वाभावात् हरेस्तद्भावात् । ‘ब्रह्मवेदाहं ब्रह्मास्मि’ इति श्रुतेः । बलमानन्द ओजश्चेति च । अहमेवेत्युक्त्याऽभेदः किं न स्यादित्यत उक्तम्– अन्य इति ॥ अहमस्मादन्योऽत्यन्तविलक्षणः । कुतः ? निर्गुणः । सत्वादिगुणनिमित्तवैपरीत्याभावात्, अन्यस्य तद्भावात् । ‘कार्यते ह्यवशः कर्म सर्वः प्रकृतिजैर्गुणैः’ इत्यादेः । ननु तर्ह्यप्राप्तनिषेधः कस्मादिति तत्राह– आत्मसृष्टैरिति ॥ इन्द्रियपूर्णेषु भूतेषु प्राणिदेहेषु बहुधेयते यथारुचि ज्ञायते, जनेनेति शेषः । यथात्मनिमित्तैर्गुणैः पञ्चभूतैर्विरचितेषु । शेषं समम् ॥ २४ ॥
सत्यधर्मीया
स्वस्वरूपं स्वयमेव निरूपयति ॥ आत्मेति ॥ एकः प्रधान एकत्वादे करोतीति क ए चासौ कश्चेत्येक एकः सकलकर्तेत्यर्थः । स्वयंज्योतिः स्वयंप्रकाशो नित्य आत्मा तच्छब्दवाच्यः । पूर्वत्र च सामानाधिकरण्येन प्राप्ताभेदप्रतीतिं वारयन्नाह । अन्योन्य इति । विलक्षण इत्यर्थः । निर्गुणः सत्त्वादिशून्यः स्वभिन्नगुणरहितः । आत्मसृष्टैर्गुणैस्तत्कृतेषु भूतेषु प्रविष्टो बहुधेयते लोकैः । भूतेषु पञ्चसु वा ॥ २४ ॥
खं वायुर्ज्योतिरापो भूस्तत्कृतेषु यथाशयम् ।
आविस्तारोऽल्पभूर्येकनानात्वं यात्यसावपि ॥ २५ ॥
पदरत्नावली
एतदेव दृढयति– खं वायुरिति ॥ खादीने तत्कृतेषु वस्तुषु यथाशयं यथास्थानं स्थितानि भवन्ति । तथा असौ हरिरपि अल्पेष्वल्पत्वेन भूरिषु महत्वेनाविस्तारः प्रकाशितविस्तार एकनानात्वम् एकस्यानेकसङ्ख्याविषयत्वं यातीत्यन्वयः । अत्रायं भावः । स्वसृष्टतत्तद्वस्तुनियमार्थं तत्तद्वस्तुपरिमाणभूतं रूपं गृह्णातीति तात्विकाः ॥ २५ ॥
दुर्घटभावदीपिका
असौ भगवान् । आविस्तार आ सम्यक् विस्तारो यस्य स आविस्तारो महापरिमाणोऽपि खम् आकाशो वायुर्ज्याेतिस्तेज आपो भूरित्येतेष्वाकाशादिषु कृतेषु घटादिकार्येषु च यथाशयमाकाशादिस्थानमनतिक्रम्याल्पभूर्येकनानात्वमल्पपरिमाणत्वं महापरिमाणत्वमेकत्वं नानात्वं यातीति ॥ अयं भावः ॥ आकाशाद्यधिकपरिमाणोऽपि भगवान् आकाशादिष्वाकाशादिसमपरिमाणः सन् तिष्ठतीति । आकाशस्यैकत्वात् । आकाशे एकेन रूपेण तिष्ठति । आकाशावयवानां बहुत्वाद् आकाशावयवेषु बहूरूपेण तिष्ठति । एवं वाय्वादौ सर्वत्रापि तिष्ठतीति ॥ २५ ॥
सत्यधर्मीया
पञ्चभूतानि प्रपञ्चयति ॥ खमिति ॥ तत्कृतेषु पदार्थेषु यथाशयं यथास्थानं स्थिता भवन्ति यथा तथाऽसौ हरिराविस्तार उपरि छन्नः सन्नपि । अल्पभूर्येक-नानात्वमल्पस्थानेऽल्पत्वं भूरिस्थाने महति महत्त्वम् । एकस्मिन्नेकत्वं नाना नानास्थानेषु नानाभावो नानात्वं याति ॥ २५ ॥
एवं भगवता राजन् वसुदेव उदाहृतम् ।
श्रुत्वा विनष्टनामाधिस्तूष्णीं प्रीतमना अभूत् ॥ २६ ॥
पदरत्नावली
विनष्टं नाम कुत्सितमाधिर्यस्य स विनष्टनामाधिः । ‘नाम कुत्सन-सम्भाव्यप्रकाशेषु निगद्यत’ इति ॥ २६ ॥
सत्यधर्मीया
वसुदेव एवं भगवतोदाहृतं श्रुत्वा विनष्टो नाम कुत्सित आधिर्यस्य सः । नाम कुत्सनसम्भाव्यप्रकाशेषु निगद्यत इति । यद्वा विनष्टं नामापि यस्य स विनष्टनामा स आधिर्यस्य स तथा । तन्नामाऽपि नष्टमिति यावत् । विनष्टनानाधिरिति सरलः पाठः । प्रीतमनास्तूष्णीमभूत् ॥ २६ ॥
अथ तत्र कुरुश्रेष्ठ देवकी सर्वदेवता ।
श्रुत्वाऽऽनीतं गुरोः पुत्रमात्मजाभ्यां सुविस्मिता ॥ २७ ॥
पदरत्नावली
अथ मङ्गलाचरितमारभ्यते । सर्वा देवता यस्यां सन्निहिताः सा तथा
॥ २७ ॥
कृष्णरामौ समाश्राव्य पुत्रान् कंसविहिंसितान् ।
स्मरन्ती कृपणा प्राह वैक्लव्यादश्रुलोचना ॥ २८ ॥
पदरत्नावली
समाश्राव्य सम्बोध्य ॥ २८–२९ ॥
सत्यधर्मीया
अथेति कथान्तरारम्भे । सर्वा देवता यस्यां सा देवकी शुचिस्मिता । आत्मजाभ्यां रामकृष्णाभ्याम् । गुरोः सान्दीपनेः पुत्रं मृतमानीतं श्रुत्वा कृष्णरामौ समाश्राव्य कंसविहिंसितान् पुत्रान् स्मरन्ती कृपणा दीना वैक्लव्याद्विह्वलतयाऽश्रुलोचना प्राह ॥२७,२८॥
देवक्युवाच—
राम रामाप्रमेयात्मन् कृष्ण योगेश्वरेश्वर ।
वेदाहं वां विश्वसृजामीश्वरावादिपूरुषौ ॥ २९ ॥
सत्यधर्मीया
अप्रमेयात्मन् योगेश्वरेश्वर कृष्ण राम राम । विश्वसृजामीश्वरौ आदिपुरुषौ वामहं वेद ॥ २९ ॥
कालविध्वस्तसेतूनां राज्ञामुच्छास्त्रवर्तिनाम् ।
भूमेर्भारायमाणानामवतीर्णो क्षयाय मे ॥ ३० ॥
पदरत्नावली
मे मत्तः सकाशात् । कालेन विध्वस्तसेतूनाम् ॥ ३० ॥
सत्यधर्मीया
कालेन विध्वस्तः सेतुमर्यादा येषां ते तथा तेषामुच्छास्त्रवर्तिना-मुच्छ्रङ्खलवृत्तीनामत एव भूमेर्भारायमाणानां राज्ञां क्षयाय मे मय्यवतीर्णे मासत्रयानन्तरं दुर्गापवाहित आहितश्च गर्भे रोहिण्यामिति म इत्युक्तिर्युक्ता । अवतीर्णोऽसि ॥ ३० ॥
यस्यांशांशभागेन विश्वस्थित्युदयौ लयः ।
भवन्ति किल विश्वात्मंस्तं त्वाऽद्याहं गतिं गता ॥ ३१ ॥
पदरत्नावली
भागो भजनं स्वीकारस्तेन । गतिं शरणं गतास्मि ॥ ३१ ॥
दुर्घटभावदीपिका
हे विश्वात्मन् । यस्य विष्णोरंशांशभागोनांशांशाकाररूपभागेन येन त्वया विश्वस्थित्युदयौ लय इत्येते भवन्ति । तं सतां गतिं त्वामहं शरणं गताऽस्मीति । एतेन कृष्णशरणगमनकथाप्रसङ्गे मूलरूपविष्णुशरणगमनकथनमनुपपन्नम् । न च वाच्यं तं त्वेति तच्छब्देन कृष्णो गृह्यत इति । यस्येति यच्छब्देन मूलरूपविष्णोर्गृहीतत्वात् । तं त्वेति तच्छब्देन मूलरूपविष्णोर्ग्राह्यत्वादिति दूषणं परास्तम् । अकारान्तयस्येति यच्छब्देन मूलरूप-विष्णुं गृहीत्वाऽध्याहृतेन येनेति यच्छब्देन कृष्णं गृहीत्वा तं त्वेति तच्छब्देन कृष्णो गृह्यत इत्यूरीकरणात् । एतेनैवांशांशभागेनेत्यत्र भागशब्दो व्यर्थ इति दूषणं प्रत्युक्तम् । कृष्णे कृष्णकेशत्वमस्तीति ज्ञापनार्थं भागशब्द इत्यभ्युपगमात् ॥ ३१ ॥
सत्यधर्मीया
यस्यांशांशभागेनांशांशस्वीकारेणांशांशविभागेन विशेषकृतेन विश्वस्थि-त्युदयौ लयश्चेत्येते भवन्ति । किलेति समयावर्ता । हे विश्वात्मन् । तं त्वा त्वामद्य आद्य वा । तन्तवो मत्पुत्रा आद्या यस्येति तत्सम्बुद्धिः । हे तन्त्वाद्य अनेनानयनाबन्धं सूचयति । गतिं प्राप्य स्थानं गता ॥ ३१ ॥
चिरान्मृतसुतादाने गुरुणा किल चोदितौ ।
आनिन्यथुः पितृस्थानाद् गुरवे गुुरुदक्षिणाम् ॥ ३२ ॥
सत्यधर्मीया
किमियताऽस्मत्स्तवनेन तव मातरितःपरं वाऽभिलषितं भाषस्वेत्यत आह ॥ चिरादिति ॥ अनेन तदुत्तरं स्वकुमारमारणमिति तदादानसौशक्यंं ध्वन्यते । पितृस्थानात्पितृपतिस्थलात् । गुरवे गुरुदक्षिणां तदात्मानं मृतं सुतमानिन्यथुः ॥ ३२ ॥
तथा मे कुरुतां कामं युवां योगेश्वरेश्वरौ ।
भोजराजहतान् पुत्रान् कामये द्रष्टुमाहृतान् ॥ ३३ ॥
सत्यधर्मीया
तथा मे कामं योगेश्वरेश्वरौ युवां कुरुतम् । स क इत्यत आह ॥ भेजराजेति ॥ भोजराजः कंसस्तेन हतान्पुनराहृतान्पुत्रान्द्रष्टुं कामये ॥ ३३ ॥
श्रीशुक उवाच—
एवं सञ्चोदितौ मात्रा रामकृष्णौ कुरूद्वह ।
सुतलं संविविशतुर्योगमायामुपाश्रितौ ॥ ३४ ॥
सत्यधर्मीया
सुतलं संविविशतुः । तत्र तन्त्रं योगमायामुपाश्रिताविति ॥ ३४ ॥
तस्मिन् प्रविष्टावुपलभ्य दैत्यराड् विश्वात्मदैवं सुतरां तथाऽऽत्मनः ।
तद्दर्शनाह्लादपरिप्लुताशयः सद्यः समुत्थाय ननाम सान्वयः ॥ ३५ ॥
पदरत्नावली
तथाऽऽत्मनः स्वस्य सुतरामिष्टदैवम् ॥ ३५ ॥
दुर्घटभावदीपिका
तस्मिन्सुतले । प्रविष्टौ रामकृष्णावुपलभ्य रामकृष्णयोर्मध्ये विश्वात्मदैवं ब्रह्मादिसमस्तजीवानां दैवं तथाऽऽत्मनो दैवं कृष्णं सुतरामुपलभ्येति । एतेन प्रविष्टावित्यस्य द्विवचनान्तत्वाद् विश्वात्मदैव इति वक्तव्यम् । विश्वात्मदैवमित्येकवचन-प्रयोगोऽनुपपन्न इति चोद्यस्यानवकाशः । विश्वात्मदैवमित्यनेन कृष्णस्यैव ग्रहणात् । एतेनैव ब्रह्माद्यपेक्षयाऽऽत्मनः सुतरां दैवत्वाभावाद् आत्मनः सुतरां दैवमिति कथनमनुपपन्नमिति चोद्यं प्रत्युक्तम् । सुतरामित्यस्य दैवमित्यनेनानन्वय इत्यभ्युपगमात् ॥ ३५ ॥
सत्यधर्मीया
तस्मिन्स्वस्थाने प्रविष्टौ रामकृष्णौ दैत्यराड्बलिरुपलभ्य तयोर्मध्ये विश्वात्मदैवं सुतरामात्मनश्च दैवमुपलभ्य तद्दर्शनजनिताल्हादस्तेन परिप्लुत आशयोऽन्तःकरणं यस्य सः । सद्यस्तत्क्षणं समुत्थाय सान्वयः सपुत्रमित्रकलत्रो ननाम ॥ ३५ ॥
तयोः समानीय वरासने मुदा निविष्टयोस्तत्र महात्मनोस्तयोः ।
दधार पादाववनिज्य तज्जलं सवृन्द आब्रह्म पुनद् यदम्बुभिः ॥ ३६ ॥
पदरत्नावली
तज्जलं पादावनिर्णिक्तजलम् । यस्य पादस्य जलैराब्रह्म चतुर्मुखपर्यन्तं जगत् पुनत् पुनाति शुद्ध्यति । छान्दसोऽयं प्रयोगः ‘आदित्यः सुपथा करत्’ इत्यादिष्विव
॥ ३६ ॥
सत्यधर्मीया
वरासने उत्तमासने । आसनवितरण एव सहभावः । समानीय दत्वा तयोर्मध्ये कृष्णस्य पादौ । अत एव पादावित्युक्तिः । अन्यथा पादानित्यवक्ष्यत् । किञ्च ब्रह्मेत्यादिकमयुक्तं च । अवनिज्य तज्जलं सवृन्दः कुटुम्बनिकुरम्बसहितो दधार शिरसीति शेषः । आब्रह्म पुनद्यदम्बुभिः । यदम्बु हेत्यपि पठन्ति हि । तत्र पक्षे यद्धारणम् । अम्बुभि-र्धृतैर् आब्रह्म ब्रह्माणमभिव्याप्य पुनत्पवित्रयत्प्रागवर्ततेत्यर्थः । द्वितीयः स्फुटोऽर्थः ॥ ३६ ॥
समर्हयामास महाविभूतिभिर्महार्हवस्त्राभरणानुलेपनैः ।
स्रग्धूपदीपामृतभक्षणादिभिः स्वगोत्रवित्तात्मसमर्पणेन च ॥ ३७ ॥
पदरत्नावली
अमृतभक्षणं रसायनभोजनम् । ‘अमृतं व्योमि्न यज्ञशेषे रसायने । अयाचिते जले जग्धौ मोक्षणे हेमि्न गोरसे । क्लीबे ना त्वमरे स्त्री तु गुडूच्यां मद्यभिक्षयोः’ इति यादवप्रकाशः । इन्द्रसेनो बलिः । ‘गोत्रं नामि्न कुलेऽचले’ इति । ‘आत्मा देहे धृतौ जीवे धैर्ये’ इति च । प्रमविभिन्नया स्नेहप्रवृद्धया धिया भगवत्पदाम्बुजं भ्रमन् शरणं गच्छन्, प्रदक्षिणं कुर्वन् वा । हा शुभमिति स्मरन् । ‘हा विषादशुभार्तिषु’ इति । बभाषेति सम्भ्रमाद् व्यत्ययः । बभारेति पाठे पादाम्बुजं बभार । गद्गदाक्षरं वचो जगादेति योज्यम् ॥ ३७ ॥
सत्यधर्मीया
महाविभूतिभिरिति विशदयति । अमृतं रसायनं घृतं वा ।
‘अमृतं व्योमि्न देवान्ने यज्ञशेषे रसायने ।
अयाचिते जले जग्धौ मोक्षणे हेमि्न गोरसे ।
क्लीबे नात्वमरे स्त्री तु गुलूच्यां मद्यभिक्षयोः’ इति
यादवप्रकाशः । अमृतं सलिले घृत इति विश्वः । गोरसभक्षणं वा । स्वस्य गोत्रं कुलम् । गोत्रं नामि्न कुले चल इति । वित्तस्यात्मनः स्वतनोः समर्पणेन च समर्हया-मासेत्यन्वयः ॥ ३७ ॥
स इन्द्रसेनो भगवत्पदाम्बुजं भ्रमन् मुहुः प्रेमविभिन्नया धिया ।
बभाष हानन्दजलाकुलेक्षणः प्रहृष्टरोमा नृप गद्गदाक्षरम् ॥ ३८ ॥
सत्यधर्मीया
इन्द्रसेनो बलिर्भगवत्पदाम्बुजे बिभ्रत्प्रेमभक्तिस्तद्विभिन्नयाऽभिवृद्धया धिया आनन्दजलाकुलेक्षणः प्रहृष्टरोमा गद्गदाक्षरमुवाच ॥ ३८ ॥
बलिरुवाच—
नमोऽनन्ताय महते नमः कृष्णाय वेधसे ।
साङ्ख्ययोगवितानाय ब्रह्मणे परमात्मने ॥ ३९ ॥
पदरत्नावली
वेधसे अश्रमेण कर्त्रे । साङ्ख्ययोगयोर्ज्ञानकर्मणोर्वितानो विस्तारः येन स तथा तस्मै । साङ्ख्ययोगशास्त्रकाराय वा । दृष्टकपिलादिभ्यो व्यावर्तनायाह– ब्रह्मण इति । नन्वमुना व्यावृत्तिः कथम् ? अत्राह– परमात्मन इति ॥ ३९ ॥
सत्यधर्मीया
महतेऽनन्ताय नमः । वेधसे ज्ञानात्मने । साङ्ख्यं शुद्धात्मतत्त्वविज्ञानं साङ्ख्यमित्यभिधीयत इत्यादेर्ज्ञानं योगः कर्म तयोर्वितानो विस्तारो येन कपिलादिना तस्मै । ब्रह्मणे गुणपूर्णाय परमात्मने मुख्यस्वामिने व्याप्त्यादिमते वा ॥ ३९ ॥
दर्शनं वां हि भूतानां दुष्प्रापमतिदुर्लभम् ।
रजस्तमःस्वभावानां यन्नः प्राप्तं यदृच्छया ॥ ४० ॥
पदरत्नावली
अव्यक्तस्वभावयोर्युवयोर्दर्शनमनुग्रहसाध्यं न तु प्रयत्नसाध्यमिति भावेनाह– दर्शनमिति ॥ वां दर्शनं भूतानां दुष्प्रापं हि यस्मात् तस्माद् रजस्तमः-स्वभावानां नोऽतिदुर्लभं यद् युष्मद्दर्शनं प्राप्तं तद् यदृच्छया देवयोर्युवयोरनुग्रहोन्मुखीभूतये-च्छया इति मन्य इति शेषः ॥ ४० ॥
सत्यधर्मीया
भूतानां प्राणिनां वा दर्शनं हि यतो दुष्प्रापं दुःसाधप्राप्ति तत्सदपि रजस्तमस्वभावानां किञ्चिद्रजोमिश्रतमःप्रचुरस्वभाववतां यदृच्छयाऽतिदुर्लभमपि यन्नः प्राप्तमतो दैवं मम विपुलमिति मन्य इति शेषः । सात्त्विकानां भूतानां दुष्प्रापमस्माकं त्वतिदुर्लभं तथाऽप्यनुग्रहात् प्राप्तमहो इति भावः । दुष्प्रापा मतिरेतद्धेतुज्ञानं तया तज्ज्ञानाभावादेव दुर्लभमिति पदमेकं वा । एवञ्च तद्दौर्लभ्यहेतुरपि सूचित इति ध्येयम् ॥ ४० ॥
दैत्यदानवगन्धर्वसिद्धविद्याधरादयः ।
यक्षरक्षःपिशाचाश्च भूतप्रमथनायकाः ॥ ४१ ॥
पदरत्नावली
रजस्तमःस्वभावफलं प्रकटयन् तामसत्वं नाम चूडारत्नं निर्मलीकर्तुं दर्शनं कृतमित्याशयेनाह– दैत्येति ॥ ये दैत्यदानवास्ते वयं च । शास्त्रं वेदादिग्रन्थ एव शरीरं प्रतिमालक्षणमस्यास्तीति शास्त्रशरीरी तस्मिन् । ‘शास्त्रं ग्रन्थनिदेशयोः’ इति । विशुद्धसत्वधामि्न केवलज्ञाननिधाने त्वयि नित्यं निबद्धवैराः । अन्ये राक्षसाश्च तादृशा निबद्धवैरा इत्यतो न कोऽप्यस्मद्गुणो युष्मद्दर्शन इति शेषः ॥ ४१–४२ ॥
सत्यधर्मीया
दर्शनहेतुः कोऽपि नैवास्मास्विति युवयोर्दयैव कारणमिति वदति ॥
दैत्येति ॥ दैत्यदानवा अस्मदादयः । पिशाचाश्चेति पाठः ॥ ४१ ॥
विशुद्धसत्वधाम््नयद्धा त्वयि शास्त्रशरीरिणि ।
नित्यं निबद्धवैरास्ते वयं चान्ये च तादृशाः ॥ ४२ ॥
सत्यधर्मीया
विशुद्धसत्त्वधामि्न शास्त्रशरीरिणि शास्त्रं वेदादिकं च तच्छरीरं वा सन्निधानस्थानमस्यास्तीति तच्छरीरी तस्मिन् । त्वयि निबद्धवैरास्ते वयमन्ये राक्षासादयोऽपि तादृशा निबद्धवैराः । अनेनास्मद्व्यापारः शास्त्रविरुद्ध इति द्योतयामास ॥ ४२ ॥
केचनोद्बद्धवैरेण भक्ताः केचन कामतः ।
न तथा सत्वसंरब्धाः सन्निकृष्टाः सुरादयः ॥ ४३ ॥
पदरत्नावली
ननु नित्यानुसन्धानलक्षणान्तःकरणगुणेनाविर्भूतज्ञानगुणोऽस्तीति मा शङ्कि यतः सुरादीनामपि नास्ति कुतोऽस्माकमिति भावेनाह– केचनेति ॥ केचन चैद्यादय उद्बद्धवैरेण क्वचिदुद्गतवैरेण भक्ताः । केचन गोपीजनाः कामतो भक्ताः । सन्निकृष्टाः सहवर्त-मानाः सत्वसंरब्धा उद्रिक्तसत्वगुणाः प्राणात्ययेऽप्यनुज्झितयुष्मद्भक्तिनिश्चयाः सुरगन्धर्वादय- स्तथाऽनादिद्वेषसंरम्भादिना भक्ता न भवन्ति किन्तु निश्चलभक्तिसिन्धवः ॥ ४३ ॥
सत्यधर्मीया
भक्तान्विविक्तानुक्त्वा स्वयं नैतदन्यतम इति स्वं तुच्छीकृत्य वदति । केचन शिशुपालादयः । तात्पर्यमुक्तमत्रानुसन्धेयम् । कामतो गोपीजनाः । एतद्वत्सत्त्वसंरब्धाः सत्त्वगुणोद्रिक्तभक्तियुक्ताः सन्निकृष्टाः सदा समीपवर्तिनः सुरादयो नाचञ्चलभक्ता इत्यर्थः । एतदपेक्षयोद्बद्धवैरा इत्याद्युक्तिः । सुरादयः सुरेभ्य आदयः सुरादयः पूर्वदेवा इत्यर्थः । सन्निकृष्टा अतिनीचा इत्यप्यन्तरर्थः ॥ ४३ ॥
इदमित्थमिति प्रायस्तव योगेश्वरेश्वर ।
न विदन्त्यपि योगेशा योगमायां कुतो वयम् ॥ ४४ ॥
पदरत्नावली
अपि तथापि ते योगेशा ज्ञानोपायश्रेष्ठाः प्रायो बहुलं तव योगमायां जगत्सृष्ट्याद्यनुसंहितस्वरूपमाहात्म्यं न विदन्ति । कथम् ? इदमिदमित्थमेवम्भूतमिति न जानन्ति । वयं कुतो हेतोर्बुध्यामह इति ॥ ४४ ॥
तन्नः प्रसीद निरपेक्षविमृग्ययुष्मत्पादारविन्दधिषणः स्वगृहान्धकूपात् ।
निष्क्रम्य विश्वशरणाङ्घ्र्युपलब्धवृत्तिः शान्तो यथैक उत सत्वसखैश्चरामि ॥४५॥
पदरत्नावली
अधुना स्वाशयं विज्ञापयति– तन्न इति ॥ यतो युष्मद्भक्तिज्ञानाभ्या-मनुग्रह एव प्रार्थनीयस्तस्मान्नस्तथा प्रसीद । कथम् ? यथा एक उत्तमपुत्रादिस्नेह-लक्षणसङ्गरहित एव सत्वं श्रीनारायण एव सखा येषां ते तथा तैर्युष्मद्भक्तैः सह चरामि वर्तमानो भवामि । किं कृत्वा ? गृहान्धकूपान्निष्क्रम्य निर्गतो भूत्वा । कीदृशोऽहम् ? शान्तः युष्मन्निष्ठायुक्तः । कथम् ? अत्राह निरपेक्षैः सन्यासिभिः । विमृग्ययोरन्वेषणीय-योर्युष्मत्पदारविन्दयोर् धिषणा धीर्यस्य स तथा । धिषणं धिष्ण्यं गृहं वा । अस्तु निवासस्थानं किं जीवनम् ? अत्राह– विश्वेति । विश्वस्य पक्षपातित्वेन शरणयो रक्षित्रो-रङ्घ्र्योः सेवयोपलब्धा प्राप्ता वृत्तिर्जीविका यस्य स तथा ॥ ४५ ॥
सत्यधर्मीया
एतादृशा अपि विसदृशाः का कथाऽस्माकमिति कथयति ॥ इदमिति ॥ हे योगेश्वरेश्वर । योगेशा अपि तव योगमायां सहजशक्तिमिदमित्थमिति प्रायो बाहुल्येन न विदन्ति न जानन्ति । वयं योगहीनाः कुतो जानीम इति । बलेरन्तरार्थस्तु कुतः कुं भूमिं निकृत्य योगेशा वयं च किञ्चिज्जानीम इति । स्वस्थितिं ज्ञानादिस्थितिं भागवतीं चोक्त्वा स्वाशयं विशदयति । तदिति । निरपेक्षा एकान्तिकाः सन्न्यासिनो वा तैर्विमृग्यं विचार्यं चिन्तनीयमिति यावत् । पादारविन्दे तयोर्वा धिषणा यस्य स सन् स्वगृहान्धकूपात्संसारात्प्रायान्निष्क्रम्य निर्गत्य विश्वस्य शरणं ययोस्तवाङ्घ््रयोः सेवयोपलब्धा वृत्तिर्जीविका यस्य सः । शातोषयानागतिगतकोपः । सत्त्वं त्वम् । सत्त्वं सद्गुण-सारत्वादित्यादेः सखा येषां तैर्मनीषिभिः सहैकोऽनुबन्धिविधुरो यथा चरामि तथा नः प्रसीद । हे विश्वशरण अङ्ध््रयुपलब्धा वृत्तिर्मार्गो यस्य सः । तेवनकृदेवेति वा । चरामी-त्यानुगुण्यमेवं चेदिति ज्ञेयम् । सत्त्वं गुणो ज्ञानं साधुत्वं वा सखा येषां तैरिति वा । समासान्त आर्षः । यद्वा सत्त्वस्य तव सखायो महान्तस्तैः सह चरामीति वा ॥ ४५ ॥
शाध्यस्मानीशितव्येश निष्कामान् कुरु नः प्रभो ।
पुमान् यच्छ्रद्धयातिष्ठंश्चोदनाया विमुच्यते ॥ ४६ ॥
पदरत्नावली
सत्सेवनमपि युष्मच्छिक्षयैव भाव्यमिति भावेनाह– शाधीति ॥ यस्मिंश्छासने श्रद्धया तिष्ठन् स्थिरः सन् चोदनाया विधिनिषेधलक्षणायाः संसृतेर्विमुच्यते
॥ ४६ ॥
सत्यधर्मीया
शास्त्रशरीरिणीति प्रागीरणाच्छासकस्त्वमिति शिक्षयेति शंसति ॥ शाधीति ॥ हे ईशितव्यानामीशास्मान् शाधि । तच्छिक्षणफलं च त्वन्निमित्तमिति तथा कुर्वित्याह । निष्कामान्नः कुर्विति । नासामर्थ्यं तवेत्याह ॥ प्रभो इति । नः प्रभाविति वाऽन्वयः । यच्छ्रद्धया यस्मिश्छिक्षणे श्रद्धया तिष्ठन्पुमानधिकारी चोदनाया विधिनिषेधबन्ध-पात्रत्वाच्चोदना संसृतिस्तस्याः सकाशाद्विमुच्यतेऽतः शाधीति प्रस्तुतयोरेतद्वाऽनेक एवेत्येव-मुपसंहरणमिति ज्ञेयम् ॥ ४६ ॥
श्रीभगवानुवाच—
आसन् मरीचेः षट् पुत्रा ऊर्णायां प्रथमेऽन्तरे ।
देवलं जहसुर्वीक्ष्य सुताञ्छपितुमुद्यतम् ॥ ४७ ॥
पदरत्नावली
शाधीति वाक्यं श्रुतवान् कृष्णस्त्वयाधुनेदं कर्तव्यमिति वक्तुमुपक्रमते– आसन्नित्यादिना ॥ प्रथमे मनोरन्तरे ये पुत्रास्ते कस्मिंश्चित् काले सुतान् शपितुं शिक्षयितुमुद्यतं देवलं वीक्ष्य जहसुः ॥ ४७ ॥
सत्यधर्मीया
आगमनप्रयोजनं वक्तुं तदुपोद्धातमाह ॥ श्रीभगवानिति ॥ प्रथमेऽन्तरे स्वायम्भुवमन्वन्तरे मरीचेः सकाशादूर्णायां तन्नाम््नयां भार्यायां षट् तत्सङ्ख्याः पुत्रा आसन् । ते च स्वपुत्रान् शपितुं कदाचिदुद्यतं देवलं वीक्ष्य जहसुरपाहसन् । तत्कार्श्यं च दृष्ट्वा तेनामुनावद्यकर्मणा पापव्यापारेण । आसुरीं योनिं कालनेमिसुतत्वेनासुरजन्मागुः प्रापुः । देवाः कं जहसुर्वीक्ष्य सुतां यभितुमुद्यतमिति पठन्ति । देवा एते षट् । सुतां वाचं यभितुमुद्यतं कं प्रजापतिं वीक्ष्य जहसुरपहसन्नित्यर्थः । इतरत्समम् । तृतीयस्कन्धे । वाचं दुहितरं तन्वीं स्वयम्भूर्हरतीं मनः । अकामां चकमे क्षत्तः सकाम इति नः श्रुतम् । तमधर्मे कृतमतिं विलोक्य पितरं सुताः । मरीचिमुख्या मुनयो विश्रम्भात्प्रत्यबोधयन् । नैतत्पूर्वैः कृतं त्वद्य न करिष्यन्ति ये परे । यः स्वां दुहितरं गच्छेदनिगृह्याङ्गजं प्रभुः । तेजीयसामपि ह्येतन्न सुश्लोक्यं जगद्गुरो । यद्वृत्तमनुतिष्ठन्वै लोकः क्षेमाय कल्पते । नमस्तस्मै भगवते य इदं स्वेन रोचिषा । आत्मस्थं व्यञ्जयामास स धर्मं पातुमर्हति । स इत्थं गृणतः पुत्रान्पुरो दृष्ट्वा प्रजापतीन् । प्रजापतिपतिस्तन्वीं तत्याज व्रीडितस्तदेत्येवोक्तेस्तत्कृतासुरजन्मोक्ति-स्तथा मरीचिमुख्या इत्युक्तेरेतत् षट्पुत्रग्रहणं च पूर्वोत्तरापरामर्शमूलमित्युपेक्ष्यम् ॥ ४७ ॥
तेनासुरीमगुर्योनिममुनाऽवद्यकर्मणा ।
हिरण्यकशिपोः शापात् पुत्रास्ते योगमायया ॥ ४८ ॥
पदरत्नावली
अमुना अपहासलक्षणपापकर्मणा निमित्तेन देवलेनासुरी योनिमगुर् आपुः । कालनेमेः पुत्रत्वेन इति शेषः । ते कालनेमेर्जाताः पुत्रा हिरण्यकशिपोः शापेन योगमायया देवक्या उदरे नीतास् ततो जाताः कंसेन विहिंसिता इत्यन्वयः । सा देवकी अधुना कुत्र आसत इत्यत आह– त इम इति ॥ ४८–४९ ॥
देवक्या जठरे जाता राजन् कंसविहिंसिताः ।
सा तान् शोचत्यात्मजान् स्वांस्त इमेऽध्यासतेऽन्तिके ॥ ४९ ॥
दुर्घटभावदीपिका
स्वानित्यस्य बहुस्नेहविषयानित्यर्थः । एतेनात्मजानित्यनेन स्वत्वस्य प्राप्तत्वात् स्वानित्येतव्द्यर्थमिति दूषणं निरस्तम् । स्वानित्यनेन सत्वकार्यबहुस्नेह-विषयत्वं लक्षणयोच्यत इत्यभ्युपगमात् ॥ ४९ ॥
सत्यधर्मीया
हिरण्यकशिपोः स्वौदासीन्येन ब्रह्मोपास्तिक्रोधेनात्र हिरण्यकशिपोर्जाता इति पठित्वा तत्क्षण एव हिरण्यकशिपोर्जाता योगनिद्रया नीता इति केचिद्व्याचक्रुः । तस्य चिन्तयतस्त्वेवं पातालमगमन्मनः । यत्र ते गर्भशयनात् षड्गर्भा नाम दानवाः । अमर-प्रतिमा युद्धे पुत्रा वै कालनेमिनः । आर्यकं वै परित्यज्य हिरण्यकशिपुं पुरा । उपासाञ्चक्रिरे दैत्याः पुरा लोकपितामहम् । ततो हिरण्यकशिपुः सरोषो वाक्यमब्रवीत् । मामुत्सृज्य वरो यस्माद्वृतो यः पद्मसम्भवात् । तस्माद्वस्त्याजितः स्नेहः शत्रुभूतांस्त्यजाम्यहम् । षड्गर्भा इति योऽयं वः शब्दः पित्रा विवर्धितः । स एव वो गर्भगतान्पिता सर्वान्वधिष्यति । षडेव देवकीगर्भे षड्गर्भा वै महासुराः । भविष्यथ ततः कंसो गर्भस्थान् वो हनिष्यतीत्युक्तिविरुद्धं तच्चैतदपीत्युपेक्ष्यम् । आचार्या अपि । मरीचिजाः षण्मुनयो बभूवुस्ते देवलं प्राहसन्कार्श्य-हेतोः । तच्छापतः कालनेमिप्रसूता अवध्यतार्थं तप एव चक्रुः । धाता प्रादाद्वरमेषां तथैव शशाप तान्क्ष्मातले सम्भवध्वम् । तत्र स्वतातो भवतां निहन्तेत्यात्मान्यतो वरलिप्सू-न्हिरण्यः । दुर्गा तदा तान्भगवत्प्रचोदिता प्रस्वापयित्वा प्रचकर्ष कायात् । क्रमात्समावेश-यदाशु देवकी गर्भाशये तान्न्यहनच्च कंस इति प्रोचुः । जगामाथ ततो विष्णुरित्यारभ्य स च मे न प्रणश्यतीत्येतदन्तेन हरिवंशे निद्रासंविधानमुक्तमनुसन्धेयम् । पुत्राः कालनेमेर्योगमायया भगवदाज्ञप्तया दुर्गया देवक्या जठरे न्यस्तास्त एव जातास्तत्क्षण एव कंसेन प्राक्कालनेमिना विहिंसिताः । सा मम माता तान्स्वानात्मजान्नुद्दिश्य शोचति । ते च क्व वर्तन्त एतर्हि स्वामिन्नित्यत आह ॥ त इमे तवान्तिके समीपेऽध्यासत इति ॥ ४८,४९ ॥
इत एतान् प्रणेष्यामो मातृशोकापनुत्तये ।
ततः शापविनिर्मुक्ता लोकं यास्यन्ति विज्वराः ॥ ५० ॥
पदरत्नावली
ततः किम् ? अत्राह– इत इति ॥ ५० ॥
सत्यधर्मीया
इत एतत्स्थलादेतान्प्रणेष्यामः । ततः शापेन देवलदत्तेन विनिर्मुक्ता विज्वरा अनुपतापा लोकं स्वदेहं यास्यन्ति सुरा भवन्ति ॥ ५० ॥
स्मरोद्गीथः परिष्वङ्गः पतङ्गः क्षुद्रभृद् घृणी ।
षडिमे मत्प्रसादेन पुनर्यास्यन्ति मद्गतिम् ॥ ५१ ॥
पदरत्नावली
अभिज्ञानार्थं तन्नामानि निर्दिशति– स्मर इत्यादिना । मद्गतिं मत्स्थानम् ॥ ५१ ॥
दुर्घटभावदीपिका
इमे षट् पुनर्मत्प्रसादेन मद्गतिं यास्यन्तीति । एतेन पूर्वं स्वगतिगमनाभावात्पुनर्मद्गतिं यास्यन्तीति कथनमयुक्तमिति शङ्का परास्ता । पुनरित्यस्य मद्गतिं यास्यन्तीत्यनेनानन्वय इत्यङ्गीकारात् ॥ ५१ ॥
॥ इति श्रीसत्याभिनवतीर्थविरचितायां दुर्घटभावदीपिके उत्तरार्धे
चतुःसप्ततितमोऽध्यायः ॥ १०–७४ ॥
सत्यधर्मीया
तन्नामानि कीर्तयति ॥ स्मरेति ॥ स्मरेण सहित उद्गीथः स्मरोद्गीथो द्वौ परिष्वङ्गादिघृण्यन्ताश्चत्वार आहत्य षट् । मत्प्रसादेन पुनस्तत्तनुगमनानन्तरं मुक्तिं यास्यन्ति ॥ ५१ ॥
इत्युक्त्वा तान् समादाय इन्द्रसेनेन पूजितौ ।
पुनर्द्वारावतीमेत्य मातुः पुत्रानयच्छताम् ॥ ५२ ॥
पदरत्नावली
अयच्छतां दत्तवन्तौ ॥ ५२ ॥
सत्यधर्मीया
इति बलिं प्रत्युक्त्वा तान्समादाय । इन्द्रेति विवक्षाभावादभावः सन्धेः । अनेन समादायो यस्येति समादाय आगता अपि देहान्तरत्वान्न ते विभागार्हाः पितृधन इति समादाय इत्यप्यर्थविशेषो द्योतित आवृत्त्येति ज्ञेयम् । अयच्छतां ददतुः ॥ ५२ ॥
तान् दृष्ट्वा बालकान् देवी पुत्रस्नेहस्रुस्तनी ।
परिष्वज्याङ्कमारोप्य मूर्ध्न्य जिघ्रदभीक्ष्णशः ॥ ५३ ॥
पदरत्नावली
अजिघ्रदाघ्राणं कृतवती ॥ ५३ ॥
सत्यधर्मीया
मूधर्ि्न शिरसि । एकैकश आघ्राणनमित्येकवचनोपपत्तिः । अभीक्ष्णशः पुनः पुनः ॥ ५३ ॥
अपाययत् स्तनं प्रीता सुतस्पर्शपरिस्रुतम् ।
मोहिता मायया विष्णोर्यया सृष्टिः प्रवर्तते ॥ ५४ ॥
पदरत्नावली
सुतानां स्पर्शेन परिस्रुतं क्षरितं सृतमित्यर्थः । मायया महिम्ना
॥ ५४ ॥
सत्यधर्मीया
सुतानां स्पर्शेन परिस्रुतं प्रसृतं स्तनं तयोः क्षीरमपाययत् । यया मायया सृष्टिः प्रवर्तते तया मायया मोहिता मृतानां पुनर्जातप्रायत्वाभिप्रायेयमुक्तिः ॥ ५४ ॥
पीत्वाऽमृतं पयस्तस्या पीतशेषं गदाभृतः ।
नारायणाङ्गसंस्पर्शप्रतिलब्धात्मदर्शनाः ॥ ५५ ॥
पदरत्नावली
अमृतमिव सुधामिव स्वादु । लुप्तोपमम् । तस्या देवक्याः स्नुतं पयः । गदाभृतः कृष्णस्य कृद्योगे षष्ठी । नारायणस्याङ्गस्पर्शेन प्रतिलब्धम् आत्मदर्शनम् आत्मज्ञानं येषां ते तथा ॥ ५५ ॥
सत्यधर्मीया
गदाभृतो भुक्तशेषं तत्पीतशेषम् । अनेन किञ्चित्सङ्कुचितस्वकलेवरस्य देवकीस्तनं दत्वा व्रजं प्रत्यनैषीदिति द्योत्यते । अत एवामृतम् । लुप्तोपमम् । अमृतव-द्विद्यमानं पयः पीत्वा नारायणस्याङ्गस्पर्शप्रतिलब्धमात्मनो भगवतो दर्शनं येषां ते तथा
॥ ५५ ॥
ते नमस्कृत्य गोविन्दं देवकीं पितरं बलम् ।
मिषतां सर्वभूतानां ययुर्धाम विहायसा ॥ ५६ ॥
सत्यधर्मीया
ते गोविन्दं नमस्कृत्य तथा पितरं वसुदेवं बलं बलरामं च सर्वेषां भूतानां तत्रत्यानां मिषतां पश्यतां धाम स्वं विहायसा ययुः । देवकी स्वाभिलषितसिद्ध्युत्तरं न दुराग्रहं कृतवतीत्यप्याह । सा देवकी विहाय गन्तॄन्पुत्रान्विहायैव स्थितेति ॥ ५६ ॥
विरोधोद्धारः— त इति । अत्र देवकीमिति स्मरादिभिः षड्भिर्गोविन्दादिवन्दनं कृतम् । तत्र वसुदेवदेवकीबलकृष्णेति वयःक्रमोऽपि नास्ति । किंवा कृष्णबलदेवकीवसुदेवेति व्युत्क्रमोऽपि नास्ति । तस्माद्विरोधोऽत उच्यते । गोविन्दस्य वयसाऽन्तिमत्वेऽपि सर्वोत्तम-त्वेनाभ्यर्हितत्वात्तद्वन्दनस्य प्राथम्यम् । ततो बलभद्रस्य तत्कल्पत्वेन वन्द्यत्वेऽपि मातृदेवो भवेति प्रथमवन्दनविधायकश्रुत्या पित्रानृण्यं भवेन्मार्ग या या व्रजनादिना तवानृण्याय योगस्तु नास्त्यतः कृपयाऽव मामिति स्मृतेश्च । लक्ष्मीनारायणाय नम इत्यादिना नमनस्य स्त्रीपूर्व-कत्वेन विधानदर्शनाच्च । स्वशापोद्धारस्य देवकीप्रार्थनयैव जातत्वाच्चादौ देवकीवन्दनम् । ततः पितृवन्दनम् । व्यवधानेन सूतिस्तु पुंस्त्वमित्यभिधीयत इत्युक्त्या पितुर्व्यवहितत्वेन कारणत्वात्ततो बलवन्दनस्यापि युक्तता । अन्यमात्रुदरस्थत्वनिमित्तेनान्त एव नमनयोग्य-त्वात् । तस्मान्नात्र कश्चिद्विरोधः ॥ ५६ ॥
॥ इति श्रीसत्याभिनवतीर्थविरचितायां दुर्घटभावदीपिके उत्तरार्धे
चतुःसप्ततितमोऽध्यायः ॥ १०–७४ ॥
तं (तान्) दृष्ट्वा देवकी देवी मृतागमननिर्गमम् ।
मेने सुविस्मिता मायां कृष्णसंसूचितां नृप ॥ ५७ ॥
पदरत्नावली
कृष्णस्य सं समीचीनाम् अबाधितां सुष्ठूचितां नान्यस्येति कृष्णसंसूचितां मायां महिमानम् ॥ ५७ ॥
सत्यधर्मीया
तं दृष्ट्वेति पाठः । मृतस्यागमनसहितो निर्गमस्तं दृष्ट्वा सुविस्मिता मायां शक्तिं कृष्णसंसूचितां कृष्ण एव सम्यक् सु अत्यन्तमुचितां मेने । कृष्णेन संसूचितां मायां स्वरूपशक्तिं मेन इति वा ॥ ५७ ॥
एवंविधान्यद्भुतानि कृष्णस्य परमात्मनः ।
वीर्याण्यनन्तवीर्यस्य सन्त्यनन्तानि भारत ॥ ५८ ॥
पदरत्नावली
अनेनेन्द्रजालम् । अतिदेशेनोपसंहरति– एवमिति । कृष्णेन संसूचि-तेयं माया अथापि बह्व्यः सन्तीत्यतो वोपसंहरति– एवमिति ॥ ५८ ॥
सत्यधर्मीया
न चित्तं चित्रय परीक्षिदिदं परीक्ष्यास्मदादिमनोगोचराणां चानन्तानां भावादिति बोधयति ॥ एवंविधानीति ॥ अनन्तवीर्यस्य कृष्णस्य परमात्मन एवंविधान्य-नन्तानि वीर्याणि सन्ति ॥ ५८ ॥
य इदमनुशृणोति श्रावयेद्वा मुरारेश्चरितममृतकीर्तेर्वर्णितं व्यासपुत्रैः ।
जगदघभिदलं तद्भक्तसत्कर्णपूरं भगवति कृतचित्तो याति तत्क्षेमधाम ॥५९॥
॥ इति श्रीमद्भागवते दशमस्कन्धे चतुःसप्ततितमोऽध्यायः ॥
पदरत्नावली
फलमाह– य इति । अमृतवन्निर्मलकीर्तेः । जगतोऽघं पापं दुःखं वा भिनत्तीति जगदघभित् । भक्तानां सत् प्रशस्तं कर्णपूरं कर्णाभरणम् । तस्य हरेः क्षेमधाम मोक्षलक्षणं स्थानं याति ॥ ५९ ॥
॥ इति श्रीमद्भागवतटीकायां विजयध्वजतीर्थकृतायां पदरत्नावल्यां
दशमस्कन्धे उत्तरार्धे चतुःसप्ततितमोऽध्यायः ॥
सत्यधर्मीया
सूत एतत्फलं लपति ॥ य इति ॥ अमृतकीर्तेर्मुक्तिप्रदा कीर्तिर्यस्य तस्य मृतानमृतवत्करणेन कीर्तिर्यस्य तस्य वा । मुरारेर्व्यासपुत्रैर्वर्णनप्रकारबाहुविध्याद्बहुवचनं पूजार्थे वा तदादिभिरिति वा वर्णितमिदं चरितं योऽनुशृृणोति यश्च श्रावयेत् । किञ्चाघं भित्तीति तत् । भक्तानां सत्समीचीनं कर्णपूरं कर्णाभरणरूपं शृृण्वन् श्रावयन्वा भगवति कृतं चित्तं यस्य स तत्क्षेमधाम मोक्षधाम याति । भक्तकर्णावतंस इति पाठेऽप्ययमेवार्थः । कालाद्यप्रतिहतमिति क्षेमधामेति ॥ ५९ ॥
**॥ इति श्रीसत्यधर्मयतिकृतायां भागवतटिप्पण्यां दशमस्कन्ध उत्तरार्धे **
चतुःसप्ततितमोऽध्यायः ॥ १०–७४ ॥