तन्मुखैर्वचनं श्रुत्वा वसुदेवो महामनाः
॥ अथ त्रिसप्ततितमोऽध्यायः ॥
श्रीशुक उवाच—
तन्मुखैर्वचनं श्रुत्वा वसुदेवो महामनाः ।
तानृषीन् ऋत्विजो वव्रे मूर्ध्नाऽऽनम्योपसृत्य च ॥ १ ॥
पदरत्नावली
धर्मेण कल्पोक्तेन विधिना । उत्तमकल्पकैः राजसूयसमैः । ‘ईषद-समाप्तौ कल्पब्देश्यदेशीयर’ इति सूत्रात् ॥ १–२ ॥
सत्यधर्मीया
तन्मुखैरिति मुखवचनम् । तानेवर्षीनृत्विजो वव्रे ॥ १ ॥
त एवमृषयो राजन् वृता धर्मेण धार्मिकम् ।
तस्मिन्नयाजयन् क्षेत्रे मखैरुत्तमकल्पकैः ॥ २ ॥
सत्यधर्मीया
धर्मेण यथा वरणं कर्तव्यं तद्धर्मेण वृता धर्मेण कल्पोक्तेन च तस्मिन् क्षेत्रे उत्तमकल्पकैरुत्तमः कल्पो धरणीवितरणादिरूपः पक्षो येषु तैर्मखैः । उक्तञ्चाश्वमेधे पर्वणि । पृथिवी दक्षिणा चात्र विधिः प्रथमकल्पकः । विद्वद्भिः परिदृष्टोऽयं शिष्टे विधि-विपर्यय इति । प्रभुः प्रथमकल्पे तु योऽनुकल्पं प्रवर्तते । न तस्य साम्परायः स्याच्छुतिरेषा सनातनीत्यनन्तदैवीये । तथा प्रथमस्कन्धीयाजयित्वाऽश्वमेधैस्तं त्रिभिरुत्तमकल्पकैरिति श्लोकव्याकृतौ यादवार्यैस्तद्यज्ञपञ्चकमजस्त्रिगुणां स एभ्यः सद्दक्षिणामित्युदाहृत्य श्रीमदुक्तिं दक्षिणादिविषये विहितोत्तमकल्पयुतैरित्यर्थ इत्युक्तेश्च ॥ २ ॥
तद्दीक्षायां प्रवृत्तायां वृष्णयः पुष्करस्रजः ।
स्नाताः सुवाससो राजन् राजानः सुष्ट्वलङ्कृताः ॥ ३ ॥
पदरत्नावली
‘दीक्षा स्याद् व्रतसङ्ग्रहे’ इति । पुष्करस्रजः कमलबीजमालाब-लम्बिकण्ठाः ॥ ३–४ ॥
सत्यधर्मीया
तस्य दीक्षा व्रतसङ्ग्रहस्तस्यां प्रवृत्तायां सत्यां पुष्करस्रजः कमलमाला रलयोरैक्याद्बहुमुक्तादिमाला इति वा । राजान इतरे । सुठ्ष्वित्यव्ययम् । सुष्ठु प्रशंसनेऽपि स्यादत्यर्थेऽपि च कथ्यत इति विश्वः । स्तुत्यमलङ्कृतमलङ्कारो येषां ते । सुष्ठु भृशं यथाऽलङ्कृता इति ॥ ३ ॥
तन्महिष्यश्च मुदिता निष्ककण्ठ्यः सुवाससः ।
दीक्षाशालामुपाजग्मुरालिप्ता वस्तुपाणयः ॥ ४ ॥
सत्यधर्मीया
तन्महिष्यो वसुदेवदेव्यो निष्कं वक्षोऽलङ्करणं तद्युक्ताः कण्ठा यासां ता आलिप्ता गन्धादिना । वस्तूनि हिरण्यफलादीनि पाणिषु यासां ता हिरण्यं रजतं वाऽपि गृहीत्वा क्रमुकं फलम् । शालां विशेद्यज्ञपत्नी शपेयुस्त्वन्यथा सुरा इति । वस्तुशस्त्रं वा । यच्छमित्री यजमानमानिनी निशातं शस्त्रं गृहीत्वा प्रविशेच्छालामिति याज्ञिकाः ॥ ४ ॥
नेदुर्मृदङ्गपटहशङ्खभेर्यानकादयः ।
**ननृतुर्नटनर्तक्यस्तुष्टुवुः सूतमागधाः **
जगुः सुकण्ठ्यो गन्धर्व्यः सुगीतं सहभर्तृकाः ॥ ५ ॥
पदरत्नावली
आलिप्ताः, चन्दनेनेति शेषः । हिरण्यादिवस्तुपाणयः । ‘हिरण्यं रजतं वापि गृहीत्वा क्रमुकं फलम् । शालां विशेद् यज्ञपत्नी शपेयुस्त्वन्यथा सुराः’ इति वचनात्
॥ ५ ॥
सत्यधर्मीया
मृदङ्गपटहशङ्खभेर्यानकमादिर्येषां त इति विग्रहः । तूर्याङ्गत्वात् । गन्धर्व्यस्तद्भार्या अप्सरस इति न स्वरसम् । सहभर्तृका इत्युक्तेः ॥ ५ ॥
तमभ्यषिञ्चन् विधिवद् भक्तमव्यग्रमृत्विजः ।
पत्नीभिरष्टादशभिः सोमराजमिवोडुभिः ॥ ६ ॥
पदरत्नावली
अव्यग्रमव्याकुलम् ॥६–७ ॥
ताभिर्दुकूलवलयहारनूपुरकुण्डलैः ।
स्वलङ्कृताभिर्विभवैर्दीक्षितोऽजिनसंवृतः ॥ ७ ॥
सत्यधर्मीया
तमभ्यषिञ्चन्विधिवद्भक्तमव्यग्रभक्तमृत्विज इति सरलः पाठः । अव्यग्रमव्याकुलं भक्तं वसुदेवमव्यग्रं यथा भवति तथाऽभ्यषिञ्चन्निति वाऽन्वयः । विधिवद-युक्तमिति पाठस्तु बहुश्लिष्टः । अक्तं नयनयोः कज्जलेन प्रायस्त्रैककुदेन तन्न चेद्येन केन वा । यथोक्तं वाजसनेयके । यदाञ्जनं त्रैककुदमिति । त्रैककुदेनाञ्जनेनाङ्क्ते । यदि त्रैककुदं नाधिगच्छद्येन केन वाऽञ्जनेनाञ्जीतेति । तथैवापस्तम्बारणेरणं चयदाञ्जनं त्रैककुदं जात हिमवतस्परि । तेनामृतस्य मूलेनारातीं जम्भयामसीति । तत्फलं च प्रथमपञ्चकतृतीयखण्डे आञ्जन्त्येनं तेजो वा एतर्यदाञ्जनं स तेजसमेवैनं कृत्वा दीक्षयन्त्येकविंशत्या दर्भपिञ्जूलैः पावयन्तीत्यादिनोक्तं ज्ञेयम् । पिञ्जूलशब्दः सङ्घवाची । तत्रापि दक्षिणस्याक्ष्णः प्रागञ्जन-मनन्तरं वामस्य । दक्षिणं पूर्वमङ्क्त्वेत्यादेः । ककुच्छब्दः शृृङ्गवाची । हिमवत्सम्बन्धि-शिखरत्रये जातस्त्रैककुदोऽञ्जनविशेष इत्यर्थः । अभ्यक्तं नवनीतेन । तथा ह्यध्वरप्रस्तावे । हविष्यमुभौ भुक्त्वा लेपनपर्याप्तं नवनीतं त्रेधा विभज्यैकं भागं महीनां पयोऽसिदर्भपिञ्जूलाभ्यां नवनीतमुद्यौतीत्याद्युक्तं नवनीतेन वाऽऽज्येन वा घृतेन वाऽऽयुतेन वेति विशेषो ब्राह्मणे-नावसेयः । अत्राज्यघृतशब्दयोरर्थभेद आयुतपदार्थश्च
य आज्यघृतयोर्भेदः पूर्वाचार्यैरुदाहृतः ।
सर्पिर्विलीनमाज्यं स्याद्घनीभूतं घृतं विदुर् इति वचनादवसेयः ।
विलीनं द्रवदायुतं चेषद्द्रवदाज्यमित्यर्थः । अधिकारिविशेषपरा चोक्तिः । दीक्षयन्ति नवनीतेनाभ्यञ्जन्तीत्युक्त्वाऽऽज्यं देवानां सुरभि घृतं मनुष्याणामित्यादेः । विस्तरस्तु ब्राह्मणव्याख्यातोऽवसेयः । अभ्यषिञ्चदष्टादशभिस्तत्सङ्ख्याभिः । उडूनि नक्षत्राणि तैरश्विन्यादिभिः सोमराजं चन्द्रं बहुत्वेन कान्तिमत्त्वेन च तन्निदर्शनं न तु तत्सङ्ख्यात्वेन सप्तविंशतिसङ्ख्यात्वात्तेषाम् । जनसंवृत इति पाठो नासंवृतः । अजिनसंवृत इति निरञ्जनः पाठः । सोमाध्वरपञ्चके । अत्र कृष्णाजिनेन यजमानं दीक्षयन्तीत्यारभ्य वृत्रध्नस्य विष्टप-मगममिति चेत्यन्तेन तदावश्यकतोक्तेः ॥ ६,७ ॥
तस्यर्त्विजो महाराज नूत्नकौशेयवाससः ।
सप्तादश विरेजुस्ते यथा वृत्रहणोऽध्वरे ॥ ८ ॥
पदरत्नावली
होता पोता नेष्टा प्रशास्ता अध्वर्युराग्नीध्रो मैत्रावरुण इत्येवमादयो ऋत्विजः षोडश दीक्षितस्त्वेक इति सप्तदश । सदस्येन वा सह । वृत्रहण इन्द्रस्य यज्ञे
॥ ८ ॥
सत्यधर्मीया
अपि मषं माषं नीत्या सप्तादशेति पाठ्यम् । ऋत्विजः । अध्वर्युः १ प्रतिप्रस्थाता २ नेष्टा ३ उन्नेष्टा ४ एवमध्वर्य्वादिचतुष्कम् । ब्रह्मा १ ब्राह्मणाच्छंसि २ आग्नीध्र ३ पोता ४ ब्रह्मचतुष्कम् । होता १ मैत्रावरुणा २ अच्छावाक ३ ग्रामस्तोता । ४ उद्गाता १ प्रस्तोता २ प्रतिहर्ता ३ सुब्रह्मण्य ४ ॥ ४१६ ॥ सदस्य एक इति सप्त-दशर्त्विजः । सोमप्रवाकस्तु नैतन्मध्ये निविष्ट इति सप्तदशेत्युक्तिः । वृत्रहण इन्द्रस्यऽध्वरे यज्ञे । अत्राल्लोपाभावस्तु यज्ञस्याङ्गवैकल्याभावसूचकः ॥ ८ ॥
तदा रामश्च कृष्णश्च स्वैःस्वैर्बन्धुभिरन्वितौ ।
रेजतुः स्वसुतैर्दारैर्जीवेशौ स्वविभूतिभिः ॥ ९ ॥
पदरत्नावली
जीवानामीशौ । स्वरूपभूताभिर्विभूतिभिर् मूर्तिमतीभिः । ‘अणिमा महिमा गरिमा लघिमा प्राप्तिरेव च । ईशित्वं च वशित्वं च तथा प्राकाम्यमेव च’ इति समाख्या । ताभिर् नानाविधचेतनराशिसमुदायेन तत्तद्योग्यतानुसारेण सभाजनसमयेऽ-पेक्षिताभिः ॥ ९ ॥
सत्यधर्मीया
जीवेशौ जीवयति सर्वानिति जीवः शेषः सर्वाधारकत्वात् । तदात्म-कत्वाद्बलश्चेशश्च जीवेशौ । रामश्च कृष्णश्चेति प्रागुक्तश्चानुकूलितः । स्वविभूतिभिः स्व-सन्निधानपात्रैः स्वसुतैर्दारैश्चान्वितौ स्वरूपभूताणिमादिभिर्वा ॥ ९ ॥
ईजेऽनुयज्ञविधिना अग्निहोत्रादिलक्षणैः ।
प्राकृतैर्वैकृतैर्यज्ञैर्द्रव्यज्ञानक्रियेश्वरम् ॥ १० ॥
पदरत्नावली
द्रव्यज्ञानोपपदयोः क्रिययोर्यलक्षणयोर् ईश्वरं द्रव्ययज्ञज्ञानयज्ञयोः स्वामिनमित्यर्थः । कथमीज इति तत्राह– अनुयज्ञेति ॥ अनुशब्दो वीप्सावचनस् तं तं यज्ञं प्रति विधिना कल्पोक्तप्रकारेण । अग्निहोत्रादिलक्षणैर् अग्निहोत्रेष्ट्यादिचिह्नैः । प्राकृतै-र्यज्ञैः सप्तक्रतुभिर् वैकृतैर्यज्ञैः सौत्रामण्यादिभिरुत्तरक्रतुभिः ॥ १० ॥
सत्यधर्मीया
अनुयज्ञं प्रति प्रतिक्रतुं यो विधिः कल्पोक्तः प्रकारस्तेन । यथाऽग्निहोत्रादिचिह्नोपेतैरित्यग्निहोत्रादिलक्षणैः प्राकृतैः समाम्नातसर्वाङ्गा ज्योतिष्टोमादयः सप्त तैः । द्रव्यं पुरोडाशो ज्ञानमेतस्यात्र विनियोग इत्यादिज्ञानं क्रिया तदनुसारिकर्मेत्येतत् स्वामिनम् । द्रव्यज्ञानक्रियापदोत्तरं यज्ञपदमनुसन्धेयम् । ततश्च द्रव्ययज्ञो ज्ञानयज्ञः क्रियायज्ञस्तपोयज्ञस्तेषामीश्वरम् । ‘द्रव्ययज्ञास्तपोयज्ञा ज्ञानयज्ञास्तथा पर’ इत्यादेः । ईजे
॥ १० ॥
अथर्त्विग्भ्योऽददात् काले यथाम्नातं सुदक्षिणाः ।
स्वलङ्कृतेभ्योऽलङ्कृत्य गोभूकन्या महाधनाः ॥ ११ ॥
पदरत्नावली
यथाम्नातं यथाकथितम् । महान्ति धनानि यासां तास्तथा ॥ ११ ॥
सत्यधर्मीया
यथोत्तमकल्पत्वेनागमावगमिनं काले विहिते स्वलङ्कृतेभ्यः प्राग्दत्ता-लङ्कारेभ्यः पुनस्तानलङ्कृत्य गोभूकन्या महान्ति धनानि यासां ता अददात् ॥ ११ ॥
पत्नीसंयाजावभृथैश्चरित्वाऽथ महर्षयः ।
सस्नू रामह्रदे विप्रा यजमानपुरस्सराः ॥ १२ ॥
पदरत्नावली
पत्नीसंयाजः पत्नीभिः क्रियमाणः काश्चन देवता उद्दिश्य यजनम् । अवभृथः समाप्तिः । कर्मस्थानम् । उभयत्रेष्टिविशेषाश्च भवन्ति । तैश्चरित्वा तांश्च कृत्वेत्यर्थः
॥ १२ ॥
दुर्घटभावदीपिका
पत्नीसंयाजावभृथैश्चरित्वाऽथेत्यस्य पत्नीसंयाजावभृथनामकेष्टि-विशेषैः सह कर्तव्यं सर्वं चरित्वा कृत्वेत्यर्थः । एतेन चरित्वेत्यस्य कर्म नोक्तमिति चोद्यस्यानवकाशः । कर्तव्यं सर्वमित्यस्य शेष इत्यभ्युपगमात् ॥ १२ ॥
सत्यधर्मीया
प्रति प्रतिभावं गतया जाघन्या पत्नी संयाजं करोति इत्यादेः । जाघन्या क्रियमाणपत्नीकर्तृकक्रतुविशेषः । तथाऽवभृथः समाप्तिस्तदाद्या वारुणेष्ट्यादींश्चरित्वा कृत्वा तृतीया द्वितीयार्थे । तैः सहितमभिहितं कर्मेति वा । अथ तदनन्तरम् । न च नाथेति वक्तव्यम् । क्त्वाप्रत्ययेन तदानन्तर्यबोधनादिति वाच्यम् । तस्य नियमेन पूर्व-कालानवगमकत्वात् । तथा ह्युदाहृतं मुखं व्यादाय स्वपितीत्यादि । अतोऽथेति सार्थकम् । रामह्रदे परशुरामनिर्मिते यजमानपुरःसरा विप्रा मेधाविनः सस्नुः ॥ १२ ॥
स्नातोऽलङ्कारवासांसि बन्दिभ्योऽदात् तथा स्त्रियः ।
ततः स्वलङ्कृतान् वर्णानाश्वभ्योऽन्नेन पूजयत् ॥ १३ ॥
पदरत्नावली
पूजयदपूजयत् । स्त्रियः स्त्रीभ्यः ॥ १३ ॥
सत्यधर्मीया
स्नातस्तातः कृष्णस्य बन्दिभ्यः स्तुतिपाठकेभ्योऽलङ्कारवासांसि अदात् तथा स्त्रियो वसुदेवभार्या अपि ददुः । ततः स्वलङ्कृतान्वर्णान् आश्वभ्योऽन्नेन पूजयदपूजयत् ॥
बन्धून् सदारान् ससुतान् पारिबर्हेण भूयसा ।
विदर्भकोसलकुरून् काशिकैकेयसृञ्जयान् ॥ १४ ॥
पदरत्नावली
पारिबर्हेण पूजाद्रव्येण । विदर्भादीश्च, अपूजयदिति शेषः ॥ १४ ॥
सत्यधर्मीया
पारिबर्हेण योग्यद्रव्येण । तानाह ॥ विदर्भकोसलेत्यादिना ॥१४॥
सदस्यर्त्विक्सुरगणा नृभूतपितृचारणाः ।
श्रीनिकेतमनुप्राप्य शंसन्तः प्रययुः क्रतुम् ॥ १५ ॥
पदरत्नावली
सदस्यर्त्विगादयः प्रययुरित्यन्वयः ॥ १५ ॥
सत्यधर्मीया
सदस्या ऋत्विजश्च सुरगणा आगताः । नरो भूता देवयोनयः पितरश्चारणाश्च श्रीनिकेतं श्रीनिवासं कृष्णमनुप्राप्य क्रतुं शंसन्तः प्रययुः ॥ १५ ॥
धृतराष्ट्रोऽनुजो द्रोणो भीष्मो द्रौणिः कृपस्तथा ।
नारदो भगवान् व्यासः सुहृत्सम्बन्धिबान्धवाः ॥ १६ ॥
पदरत्नावली
अनुजो विदुरः ॥ १६–२० ॥
सत्यधर्मीया
धृतराष्ट्रोऽनुजस्ततो जात्या हीनः सन् जात इति विदुरः । अनु हीने चेति विश्वः । व्यास इत्येते सुहृत्सम्बन्धिबान्धवान् ॥ १६ ॥
बन्धून् परिष्वज्य यदून् सौहृदक्लिन्नचेतसः ।
ययुर्विरहकृच्छ्रेण स्वदेशांश्चापरे जनाः ॥ १७ ॥
सत्यधर्मीया
बन्धून्यदून् सौहृदेन क्लिन्नं द्रवच्चेतो येषां ते ॥ १७ ॥
नन्दस्तु सह गोपालैर्महत्या पूजयाऽर्चितः ।
कृष्णरामोग्रसेनाद्यैर्न्यवसद् बन्धुवत्सलः ॥ १८ ॥
सत्यधर्मीया
पूजया तत्साधनेन ॥ १८ ॥
वसुदेवोऽञ्जसोत्तीर्य मनोरथमहार्णवम् ।
सुहृद्वृतः प्रीतमना नन्दमाह करे स्पृशन् ॥ १९ ॥
सत्यधर्मीया
वसुदेवो मनोरथमहार्णवमञ्जसोत्तीर्य करे नन्दं स्पर्शयन् ॥ १९ ॥
वसुदेव उवाच —
भ्रातरीशकृतः पाशो नृणां यः स्नेहसञ्ज्ञितः ।
तं दुस्त्यजमहं मन्ये सुराणामपि योगिनाम् ॥ २० ॥
सत्यधर्मीया
हे भ्रातः नृणां यः स्नेहसञ्ज्ञित ईशकृतः पाशस्तत्तुलः । ईशकृतत्वं तद्दुस्त्यजत्वे हेतुः । सुराणां च योगिनामपि दुस्त्यजं मन्ये का कथाऽस्माकमिति भावः ॥
अस्मास्वप्रतिकल्पोऽयं यत् कृतं ज्ञानसत्तमैः ।
मैत्र्यर्पिताऽफला वापि न निवर्तेत कर्हिचित् ॥ २१ ॥
पदरत्नावली
युष्माभिर्ज्ञानेन सत्तमैरस्मासु यत् कृतं सोऽयं स्नेहपाशोऽप्रतिकल्पो ऽसदृशः । या चास्माभिर्युष्मास्वर्पिता मैत्री अफला वापि निष्पला वापि कर्हिचिदपि न निवर्तेत, निवृत्यास्मत्त इति शेषः ॥ २१ ॥
सत्यधर्मीया
ज्ञानसत्तमैर्ज्ञानेन श्रेष्ठैर्युष्माभिरस्मासु यत्कृतं व्यापारोऽजानता महिमानं तवेदमित्युदाहृत्य बृहद्भाष्ये सलीलमुक्तं तच्चास्माभिः प्राग्लिखितमत्रानुसन्धेयम् । अप्रतिकल्प उपकरणीयप्रतिनिध्यन्तररहितः । किन्तु यत्क्षमं कर्तुं तन्मात्रं ‘कथितं कृषेरिव पलालकुलम्’ इतिवत्कृतमित्याह । अफलाऽपि मैत्री अर्पिता साऽपि निवर्तेत कलिरिति नेत्यालपति ॥ न निवर्तेत कर्हिचिदिति ॥ २१ ॥
प्रागकल्पास्तु कुशलं भ्रातर्वो नाचरेमहि ।
अधुना श्रीमदान्धाक्षा न पश्यामः पुरः सतः ॥ २२ ॥
पदरत्नावली
एतदेव विवृणोति– प्रागिति । हे भ्रातः प्राग् वः कुशलं नाचरेम हि कुतः ? अकल्पा असमर्थाः कंसेनोपद्रुतत्वात् । अधुना श्रीमदान्धाक्षा वयं पुरः सतः पुरःस्थितान् न पश्यामः, इति यदत इति शेषः ॥ २२ ॥
सत्यधर्मीया
यथा छन्नेऽच्छन्नेऽनवगमपटिम््नयक्षिणि किम्वितिवदसौभाग्यसौभाग्य-दशयोर्न वैषम्यं फलं ते इति (आह) ॥ प्रागिति ॥ हे भ्रातर्वो युष्मदादीनां कुशलं नाचरेम हि प्रसिद्धम् । कुत इत्यत आह । अकल्पाः कंससङ्कीलनचरणा इत्यसमर्था इति । अधुना तु पुरः सतो युष्मान् श्रीमदेनान्धान्यक्षीणि येषां ते तथा सन्तः पश्यामः । असद्विषये मीलितलोचनता युक्तेत्यतो न नन्दस्तादृश इत्याह ॥ सतः सज्जनानपीति
॥ २२ ॥
मा राज्यश्रीरभूत् पुंसः श्रेयस्कामस्य मानद ।
स्वजनान् भृत्यबन्धून् वा न पश्यति ययाऽन्धदृक् ॥ २३ ॥
पदरत्नावली
यया राज्यश्रिया ॥ २३ ॥
सत्यधर्मीया
श्रीर्यासां मम तु भवतु किलान्येषामपीति तन्माहात्म्यवचनपूर्वक-मर्थयते । यया श्रियाऽन्धदृक्सन् स्वजनान् स्वो हरिस्तस्य जना दासास्तान् । भृत्या बन्धवो जामात्रादयो भ्रात्रादयश्च तान्न पश्यति । भृतितो ये बन्धवोऽन्योन्यं स्नेहपात्राणि तानपीत्यप्यर्थः । सा राज्यश्रीः । हे मानद नन्द श्रेयस्कामस्य पुंसो माऽभूत् । अडागम आर्षः ॥ २३ ॥
एवं सौहृदशैथिल्यचित्त आनकदुन्दुभिः ।
रुरोद तत्कृतां मैत्रीं स्मरन्नश्रुविलोचनः ॥ २४ ॥
पदरत्नावली
सौहृदेन स्नेहेन शैथिल्यं शिथिलस्वभावं प्राप्तं चित्तं यस्य स तथा
॥ २४–३२ ॥
॥ इति श्रीमद्भागवतटीकायां श्रीविजयध्वजतीर्थकृतायां पदरत्नावल्यां
दशमस्कन्धे उत्तरार्धे त्रिसप्ततमोऽध्यायः ॥
सत्यधर्मीया
सौहृदेन शैथिल्यं द्रवतेति यावत् । यस्य चित्तं यस्य स एव । आनकदुन्दुभिरश्रुविलोचनस्तत्कृतां मैत्रीमेव स्मरन् रुरोद ॥ २४ ॥
नन्दस्तु सख्युः प्रियकृत् प्रेम्णा गोविन्दरामयोः ।
अद्य श्व इति मासांस्त्रीन् यदुभिर्मानितोऽवसत् ॥ २५ ॥
सत्यधर्मीया
सख्युर्वसुदेवस्य प्रियकृत् । गोविन्दरामयोः प्रेम्णाऽद्य श्वःप्रातः प्रयाणोद्योग इति तस्मिंश्च निर्गमोद्योगेश्वर इति यदुभिर्मानितस्त्रीन्मासानवसत् ॥ २५ ॥
ततः कामैः पूर्यमाणः सव्रजः सहबान्धवः ।
परार्ध्याभरणक्षौमनानानर्ध्यपरिच्छदैः ॥ २६ ॥
वसुदेवोग्रसेनाभ्यां कृष्णार्जुनबलादिभिः ।
आदाय पारिबर्हं तं यापितो यदुभिर्ययौ ॥ २७ ॥
सत्यधर्मीया
सव्रजो व्रजस्य स्वकीयलोकसहितः परार्ध्येति आभरणक्षौमाणां विशेषणम् । नानाविधानर्ध्यपरिच्छदैः पूर्यमाणः कृष्णार्जुनबलादिभिः कृष्णपरमप्रियत्वाद्बलस्य कदाऽपि वा विमनस्कत्वात् ततः प्रागुक्तः पार्थ इति ज्ञेयम् । कृष्णरामोद्धवादिभिरित्यपि पठन्ति । तं तद्दत्तं यदुभिर्यापितो ययौ ॥ २६,२७ ॥
तदा गोप्यश्च गोपाश्च गोविन्दचरणाम्बुजे ।
मनः क्षिप्तं पुनर्हर्तुमनीशा मधुरां ययुः ॥ २८ ॥
सत्यधर्मीया
गोप्यश्च काश्चन गोपाश्च केचन गोविन्दचरणाम्बुजे क्षिप्तं मनोऽपहर्तंु कार्यान्तरव्यापृतं कर्तुमिति यावत् । अनीशा असमर्था मधुरां ययुः ॥ २८ ॥
द्रोणौ भीष्मोऽङ्गराजश्च बाह्लीकविदुरादयः ।
सपुत्रो धृतराष्ट्रश्च जग्मुः स्वं स्वं निकेतनम् ॥ २९ ॥
अन्ये च सर्वराजानो देवयात्रार्थमागताः ।
गते मासत्रये भूयः स्वानेव विषयान् ययुः ॥ ३० ॥
दुर्घटभावदीपिका
भूयः स्वानेव विषयान् ययुरिति कथनमयुक्तमिति चोद्यं निरस्तम् । पूर्वं विषयप्राप्तेर्भावात्प्राप्तिविवक्षया भूय इत्युक्त इत्यभ्युपगमात् ॥ ३० ॥
॥ इति श्रीसत्याभिनवतीर्थविरचितायां दुर्घटभावदीपिके उत्तरार्धे त्रिसप्ततितमोऽध्यायः ॥ १०–७३ ॥
सत्यधर्मीया
अङ्गराजः कर्ण इति च जानन्ति । पूर्वराजानः, सर्वराजान इति
पठन्ति ॥ २९,३० ॥
पाण्डवाश्च महात्मानः पृथा च नृपसत्तम ।
अनुज्ञाताः केशवेन बाष्पगद्गदभाषिणः ॥ ३१ ॥
सत्यधर्मीया
बाष्पगद्गदभाषिणी च भाषिणश्च ते ॥ ३१ ॥
शक्रप्रस्थं ययुः सर्वे स्वजनैः परिवारिताः ।
बन्धुषु प्रतियातेषु वृष्णयः कृष्णदेवताः ।
परिवार्य हृषीकेशं ययुर्द्वारावतीं पुरीम् ॥ ३२ ॥
॥ इति श्रीमद्भागवते दशमस्कन्धे त्रिसप्ततितमोऽध्यायः ॥
सत्यधर्मीया
कृष्णो देवता येषां ते तथा ॥ ३२ ॥
**॥ इति श्रीसत्यधर्मयतिकृतायां भागवतटिप्पण्यां दशमस्कन्ध उत्तरार्धे **
त्रिसप्ततितमोऽध्यायः ॥ १०–७३ ॥