२४ द्विसप्ततितमोऽध्यायः

श्रुत्वा पृथा सुबलपुत्र्यथ याज्ञसेनी माधव्य इत्थमनु याः परमप्रतीताः

॥ अथ द्विसप्ततितमोऽध्यायः ॥

श्रीशुक उवाच—

श्रुत्वा पृथा सुबलपुत्र्यथ याज्ञसेनी माधव्य इत्थमनु याः परमप्रतीताः ।

कृष्णेऽखिलात्मनि हरौ प्रणयानुबन्धं सर्वा विसिस्म्युरलमश्रुकलाकुलाक्ष्यः ॥१॥

पदरत्नावली

हरेर्ज्ञानिप्रियत्वं यज्ञस्य तदेकविषयत्वं तत्प्रीतेर्मुक्तिसाधनत्वं पुत्रमित्रादिस्नेहस्य संसारमूलत्वमित्यादिकमध्यायद्वये कथयति । तत्र व्यासादिमुनीनामागमनं वक्तुं पृथादिस्त्रीणां सन्तोषोद्रेकं कथयति पृथेत्यादिना । या माधव्यः माधवपत्न्यस् तासां कृष्णे प्रणयानुबन्धम्, दृष्ट्वेति शेषः । विसिस्म्युर् विस्मिता अभवन्नित्यन्वयः । सत्या-दीनां भक्तिप्रवाहं दृष्ट्वा वा ॥ १ ॥

सत्यधर्मीया

ज्ञानिमाहत्म्यं सहोत्सवस्तु वासुदेवमत्र विषयो मुक्तेः साधनं भगवत्तोष इत्यादिकमत्र प्रतिपाद्यते । तत्रादौ कृष्णं द्रष्टुं कृष्णद्वैपायनाद्युपयानं तदेतत्संवादं च वक्तुं द्रौपद्याद्या माधववधुबोधितवृत्ताः किं चक्रुरित्यतस्तदाह ॥ श्रुत्वेति ॥ पृथा कुन्ती सुबलपुत्री गान्धारी अथ याज्ञसेनी द्रौपदी च । अनेन नैकान्ते श्रीकान्तकान्ताः प्रतिपप्रच्छ द्रौपदी किन्त्वेतदाद्यासु सतीष्वेति द्योत्यते । याः परमप्रतीता अतिख्याता अनुतरतमभावेन माधविकास्तासामित्थमखिलात्मनि हरौ कृष्णे इत्थं तदुक्तिसक्तस्फोरितं प्रणयानुबन्धं याचनापूर्वकमनुबन्धं भक्तिम् । अनुबन्धस्तु भक्तिः स्याद्बन्धः स्नेह उदाहृत इति तात्पर्या-न्तरात् । प्रणयः प्रेम्णि विश्रम्भे याञ्चाप्रसरयोरपीति विश्वः । सविश्वासं स्नेहमिति वा श्रुत्वा सर्वाः पृथाद्या अश्रुकलाभिराकुलान्यक्षीणि यासां ताः सत्यः । अलमिति यथायथमन्वे-तुमलम् । विसिस्म्युर्विस्मिता अभवन् ॥ १ ॥

इति सम्भाष्यमाणासु स्त्रीभिः स्त्रीषु नृभिर्नृषु ।

आययुर्मुनयस्तत्र कृष्णरामदिदृक्षया ॥ २ ॥

पदरत्नावली

इदानीमृषीणामागमनप्रकारं वक्ति– इतीति ॥ २–४ ॥

सत्यधर्मीया

सम्भाष्यमाणासु इति विपरिणद् लिङ्गं सन्नृष्वित्यनेनाप्यन्वेति । कृष्णरामयोर्दिदृक्षा दर्शनेच्छा तया मुनयस्तत्र स्यमन्तपञ्चके आययुः ॥ २ ॥

द्वैपायनो नारदश्च च्यवनो देवलोऽसितः ।

विश्वामित्रः शतानन्दो भरद्वाजोऽथ गौतमः ॥ ३ ॥

सत्यधर्मीया

तदभिधानाभिधानं मङ्गलकरमिति तन्नाम कीर्तयति ॥ द्वैपायन इति । व्यासो नारदो देवलोऽसित इति सामानाधिकरण्यं वैय्यधिकरण्यं वोभयथाऽपि व्युत्पादितमस्माभिरालोचनीयम् । शतानन्दो गौतमसुतः ॥ ३ ॥

रामः सशिष्यो भगवान् वसिष्ठो गालवो भृगुः ।

पुलस्त्यः काश्यपोऽत्रिश्च मार्कण्डेयो बृहस्पतिः ॥ ४ ॥

सत्यधर्मीया

रामो भार्गवो भार्गवेयोऽपि वा । रामो भार्गवेय इति बह्वृचब्राह्मणं प्रागुदाहृतमनुसन्धेयम् । बृहस्पतिः ॥ ४ ॥

द्वितस्त्रितश्चैकतश्च ब्रह्मपुत्रस्तथाऽङ्गिराः ।

अगस्त्यो याज्ञवल्क्यश्च वामदेवादयोऽपरे ॥ ५ ॥

पदरत्नावली

द्वितत्रितैकताः सहोदराः । ‘त्रितः कूपेऽवहितो देवान् हवत ऊतये’ इति श्रुतिः ॥ ५ ॥

सत्यधर्मीया

एकतो द्वितस्त्रित इति क्रमः । बह्वृचब्राह्मणे एकतो द्वितस्त्रित इति । तथायाजुषे एकतायस्वाहा द्वितायस्वाहा त्रितायस्वाहेति चोक्तेः । गदापर्वणि बलदेव-यात्रायाम् । आसन् पूर्वयुगे राजन्मुनयो भ्रातरस्त्रयः । एकतश्च द्वितश्चैव त्रितश्चैवाग्निसन्निभाः । सर्वे प्रजापतिसमाः प्रजावन्तस्तथैव चेत्यारभ्य तत्राप्यमितविक्रान्तः स्पृष्ट्वा तोयं हलायुध इत्यन्तेन ग्रन्थेन तन्माहात्म्यमुक्तमनुसन्धेयम् । कूपे वहितो देवान्बत ऊतय इति श्रुतेः

॥ ५ ॥

तान् दृष्ट्वा सहसोत्थाय प्रागासीना नृपादयः ।

पाण्डवाः कृष्णरामौ च प्रणेमुर्लोकवन्दितान् ॥ ६ ॥

पदरत्नावली

प्रागुत्थायाथानर्चुर् नमनादिनेति शेषः ॥ ६–७ ॥

दुर्घटभावदीपिका

कृष्णदर्शनार्थमागत्य कृष्णदर्शनं गृहीत्वा प्राक् ऋष्यागमना-व्यवहितपूर्वकाले आसीना उपविष्टा नृपादयः पाण्डवा रामकृष्णौ च लोकवन्दितान्स्तान्मुनी-न्दृष्ट्वा सहसोत्थाय प्रणेमुरिति । एतेन प्रागासीना इत्येतव्द्यर्थमिति दूषणं पराकृतम् । मुन्यागमनाव्यवहितपूर्वक्षणे उपविष्टा अपि नृपादय उत्थानं चक्रुरित्युक्ते आदरातिशयो ज्ञाप्यतेऽतः प्रागासीना इत्येतत्सार्थकमित्यभ्युपगमात् ॥ ६ ॥

सत्यधर्मीया

प्राक् तदागतेः पूर्वमासीना उपविष्टा नृपादयः सहसाऽविलम्बेनोत्थाय पाण्डवाः कृष्णरामौ च लोकवन्दितांस्तान्प्रणेमुः ॥ ६ ॥

तानानर्चुर्यथा सर्वे सहरामोऽच्युतोऽर्चयत् ।

स्वागतासनपाद्यार्ध्यमाल्यधूपानुलेपनैः ॥ ७ ॥

सत्यधर्मीया

सर्वे पाण्डवाद्या यथा तानानर्चुस्तथा सहरामोऽच्युतः कृष्णोऽर्चयत् । सहरामो द्वैपायनोऽच्युतः श्रीकृष्णात्मैव । तथाऽपि लोकानुकारं स्वयमार्चयदिति भिन्नवाक्य-तयोक्तिर्यथाशब्दश्च सूचयतः । तत्पूजासाधनानि बोधयति ॥ स्वागतासनेत्यादिना

॥ ७ ॥

उवाच सुखमासीनान् भगवान् धर्मगुप्तनुः ।

सदसस्तस्य महतो यतवाचोऽनुशृण्वतः ॥ ८ ॥

पदरत्नावली

धर्मगुप् धर्मगोप्त्री तनुर्यस्य स तथा ॥ ८ ॥

सत्यधर्मीया

धर्मं गोपायतीति धर्मगुप् सा तनुर्यस्य सः । यता वाग्यस्य तत्तस्य । महतः सदसः सभाया अनुशृृण्वतः सुखं यथा तथासीनान् । यतवाचो महतो मुनीन्प्रती-त्यप्यन्वयः ॥ ८ ॥

श्रीभगवानुवाच—

अहो वयं जन्मभृतो लब्धं कार्त्स्न्येन तत्फलम् ।

देवानामपि दुष्प्राप्यं यद् योगेश्वरदर्शनम् ॥ ९ ॥

पदरत्नावली

तत्फलं जन्मफलम् ॥ ९ ॥

सत्यधर्मीया

भगवानुवाच । यद्यतो योगेश्वरदर्शनं देवानामपि दुष्प्रापं तत्फलं जन्मनः फलं जन्मनः फलभूतं कार्त्स्न्येन लब्धम् । ततो वयं जन्मभृतः प्रशस्तदेहधारिणो दुर्घटं घटितमित्याह । रामपाराशर्ययोस्तादात्म्यादितरेषां चाहमित्युक्तौ स्यात्प्रत्यवाय इति वयमित्युक्त्याऽन्येषामस्मदीयानां तद्दौर्लभ्यं ध्वनयतीति मन्तव्यम् । यथाऽऽहुः प्रकाशिकायाम् । वयमस्मदीया इति मूलार्थः कृष्णस्य जन्माभावादिति ॥ ९ ॥

किं स्वल्पतपसां नॄॄणामर्चायां देवचक्षुषाम् ।

दर्शनस्पर्शनप्रश्नप्रह्वपादार्चनादिकम् ॥ १० ॥

पदरत्नावली

नृणां युष्मद्दर्शनादिकं दुष्प्रापमिति किं वक्तव्यमित्याह– स्वल्पेति । अर्चायामिति सप्तमी प्रथमार्थे । अर्चा प्रतिमैव देव इति चक्षुर्दर्शनं येषां ते तथा । ‘अर्चा पूजाप्रतिष्ठयोः’ इति ॥ १० ॥

सत्यधर्मीया

देवानामपीत्यनेन नृणां का कथेति सूचितमर्थात्तद्विशदयति ॥ किमिति ॥ स्वल्पं तपो येषां ते तथा तेषामर्चायां प्रतिमायामेव देवेति देवतेति चक्षुर्दर्शनं ज्ञानं येषां तेषां योगेश्वराणाम् । प्रह्वेति भावप्रधानम् । दर्शनं स्पर्शनं प्रश्न इष्टगोष्ठिः प्रह्वत्वेन प्रावण्येन पादानामर्चनमेवादिर्यस्य तद्दुष्प्रापमिति किमाश्चर्यमित्यर्थः ॥ १० ॥

न ह्यम्मयानि तीर्थानि न देवा मृच्छिलामयाः ।

ते पुनन्त्युरुकालेन दर्शनादेव साधवः ॥ ११ ॥

तात्पर्यम्

अम्मयाद्यभिमानिन्यो देवता उरुकालेनैव पुनन्ति गुरूपदेशं प्रापयित्वा

॥ ११ ॥

पदरत्नावली

ननु बहिर्मुखानां नॄणां तीर्थादिदर्शनादेर्जन्मनः साफाल्यं स्यात्, किं साधुदर्शनादिनेति तत्राह– त इति ॥ तत्र सन्निहितास्ते देवा अप्युरुकालेन कालक्षेपं कृत्वैव पुनन्ति । न तु तदानीमेव । तत्र किं कारणमित्यस्येदमेवोत्तरम् । कलनमेव कालः ज्ञानं तावदन्तः (?) ‘कल ज्ञाने’ इति धातुः । उरुणा गुरुणोपदिष्टज्ञानेन तत्स्वरूपं तन्मन्त्रतदङ्गाचरणादिकं ज्ञात्वा समुपास्य तद्दर्शनं प्राप्य तत्प्रसादेनाघक्षय इत्यतो गुरूपदेशः कारणमित्यर्थः । प्रकृते किमनेनेत्यत्राह– दर्शनादिति । साधवः स्वदर्शनादन्यथाज्ञान-मपगमयन्ति । एवशब्दः गुरूपदेशं व्यवच्छिनत्ति ॥ ११ ॥

सत्यधर्मीया

न ह्यम्मयानि तीर्थानीति श्लोके न तत्र तीर्थादिषु परपवित्रीकरण-शक्तिरस्ति चेदपि कालविलम्बेन तदिति तन्मात्रस्य जडस्य तथात्वं प्रतीयत इत्यतः स्वयं तात्पर्यमाह ॥ अम्मयाभिमानिन्य इति ॥ अम्मयानि नद्यादीनि । आदिपदेन प्रतिमादिपरिग्रहः । एतदभिमानिन्योऽपि देवताः । देवा इति सति पुल्लिङ्गे देवता इति वदन्नन्ततो गत्वा वक्ष्यमाणसहकारिसमवधानेऽपि स्वातन्त्र्यं नास्ति किन्तु ममैवेति ध्वनयति । किञ्च पृथिव्याद्यभिमानिन्यो देवताः प्रथितौजस इत्यादिमानिकतां स्वोक्तेः स्फोरयति । उरु-कालेनेति व्याख्याति गुरूपदेशं प्रापयित्वेति । तथा चोरोर्गुरोः कलयति जानात्यनेनेति कालः शास्त्रोपदेशस्तेन तदुपदेशं प्रापयित्वैव पुनन्ति स्वासां पारोक्ष्यात् । केचित्तूरुकाले जातेऽपि नैव पुनन्ति । किन्तु गुरूपदेशं प्रापयित्वैव पुनन्तीति बहिष्ठं योजनमाहुः । ननु तच्छब्देनाम्मयतीर्थानां देवानां च परामर्शो न सम्भवति । नपुंसकलिङ्गशब्दवाच्यानां पुल्लिङ्गेन परामर्शायोगात् । न चैकशेषेणादोषः । नपुंसकमनपुंसकेनैकवच्चास्यान्यतरस्यामिति नपुंसकशेषोक्तेर् अतः कथमिति चेत् । उभयत्रापि बुद्धिस्थदेवपरामर्श इत्यर्थसूचकं त इति पदमिति नानुपपत्तिः ।

ततश्चायं श्लोकार्थः । तीर्थीकुर्वत्तीर्थादिकं यथेच्छं वर्तत इति किं साधु साधुदर्शनादि-नेत्यत आह । अम्मयानि केवलजडजलानि न हि किन्तु तदन्तर्गता देवाः । मृच्छिला-मयास्तद्विकृताकाराः प्रतिमादयो देवा न किन्तु तदन्तर्गता देवाः । न च सद्यस्तेषामपि पावनं सुशकं किन्तु तेऽम्मयास्तत्स्था देवाः प्रतिमान्तरस्थाश्चेति ते देवाः । त इति पुल्लिङ्गेन परामर्शं शंसन्व्यासो देवा अन्तस्थाः स्थानद्विकेऽपि ग्राह्या इत्यसूचयत् । अन्यथा त इत्यवक्ष्यत् । इदं चाचार्यस्याम्मयाद्यभिमानिदेवता इति व्याकुर्वतो मूलं मूलकृद्दर्शित-मित्यवधेयम् । उरुकालेन गुरूपदिष्टज्ञानसाधनज्ञानोपदेशेन विलम्बेनैव पुनन्ति । उरु-कालेऽपि नैवापरोक्ष्यात्स्वयं पुनन्ति किन्तूरुकालेन गुरूपदेशेन पुनन्तीत्यावृत्त्याऽन्वयः ।

तदुक्तं स्कान्दे वैशाखमाहात्म्ये षष्ठेऽध्याये । यान्यम्मयानि तीर्थानि देवा वा मृच्छिलामयाः । अपि ते न पुनन्त्येव दर्शनादेव साधव इति । सहकार्यन्तरविधिः पक्षेण तृतीयं तद्वतो विध्यादिवदिति । यथा वाऽचार्यस्य शिष्याः । वाराहे च । ज्ञानादिदानं देवानां विष्णुना साधु चोदितम् । वेदे च तेषां विहितं तत्राचार्यो महत्तरः । विहितः सहकारित्वे । यद्गुरुः सुप्रसन्नः सन्दद्यात्तन्नान्यथा भवेत् । गुरुरेव परागतिरित्यादेरिति केचित् । तर्हि के सद्योऽविद्याबन्धं विध्वस्य पावित्र्यदा इत्यत आह ॥ साधवो दर्शना-देवेति ॥ विना गुरूपदेशादिकं न सुमिला एत इति तत्सम्पत्त्यनन्तरं तत्फलरूपास्त इति दर्शनादेवेत्युक्तिरत्र तदपेक्षया देवा जाग्रतो वर्तन्त इति भावः । फललाभानन्तरं तन्मात्र-साधनस्यानीप्सनीयत्वात् ॥ ११ ॥

नाग्निर्न सूर्यो न च चन्द्रतारकं न भूर्जलं खं श्वसनोऽथ वाङ्मनः ।

उपासिता भेदकृतो हरन्त्यघं विपश्चितो घ्नन्ति मुहूर्तसेवया ॥ १२ ॥

तात्पर्यम्

भेदकृतो ऽन्यथाज्ञानिनः । विपश्चितस्तु प्रत्यक्षदर्शनादन्यथाज्ञान-मेवापगमयन्ति । प्राकृतैर् दृश्यमानन्तु न द्रवं तीर्थमुच्यते । देवाश्च न शिलामात्राः किन्तु तत्रान्तरस्थिताः ॥ गुरूपदेशेन(शं तु) विना न ते दृश्याः कथञ्चन । न ज्ञायते च तद्रूपम् अन्यथाज्ञानिनां च ते । कोपाच्छापं प्रयच्छान्ति तस्माद्गरुमुपाव्रजेत् । तस्मात्तीर्थानि देवाश्च नित्यं विद्वत्सु संस्थिताः ॥ इति गारुडे ॥ भिन्नस्याभेदतो दृष्टिरपि भेददृशिर्मता । वस्तुयाथात्म्यतस्तत्र भिन्नत्वादिति सूरिभिः । अन्यथाज्ञानमेवातो भेदज्ञानं विनिन्दितम् । न विद्यमानभेदस्य दर्शनं निन्दितं क्वचित् । शिला देव इति ज्ञानं देवोऽस्मीति तु या दृशिः । उत्तमस्याधमत्वेन नीचास्योच्चतया दृशिः । असमस्य समत्वेन समस्यासम-दर्शनम् । द्रवं तीर्थमिति ज्ञानं देहोऽहमिति या मतिः । असद्भर्यादिषु स्वीयदर्शनं चैवमादिकम् । भेदज्ञानमिति प्रोक्तं या चान्याप्यन्यथामतिः ॥ तस्मात्तदपहानाय संसेव्या गुरुवो वराः । तत्रस्था देवताः सर्वाः प्रीयन्ते गुरुपूजया । नैवान्यथैषां प्रीतिः स्याद्गुरूक्तिमपहाय तु । तस्मात्पूजाविशेषेण सतां कार्या नृणां सदा । भक्तिस्तु तारतम्येन विशिष्टेष्वधिका भवेत् । इति स्कान्दे । उत्तमा अपि देवेशा अवरान् विदुषो नृणाम् । पूजायै सम्प्रयच्छन्ति परोक्षत्वप्रिया यतः । तेषु स्थित्वा स्वयं पूजां गृह्णन्त्यनुपमां सदा । ज्ञानानि च प्रयच्छन्ति तस्मादेवंविदा सदा । पूजिताः सुरवराः सब्रह्माणः सकेशवाः । इति वामने ॥ ११,१२ ॥

पदरत्नावली

नन्ववद्यनिमित्तमन्यथाज्ञानं जायते तत्राग्न्यादयः स्वदर्शनादघं क्षपयित्वाऽन्यथाज्ञानं नाशयन्ति ततो जन्मसाफल्यमिति तत्राह– नेति । कस्याघं न हरन्तीत्यत उक्तम्– भेदकृतो ऽन्यथाज्ञानिनः पुंसः । दाहकत्वादिशक्तिदर्शनादयमेवाग्निशब्द प्रवृत्तिहेतुरित्यन्यथाज्ञानं बहिर्मुखानां जायते । मनः मनोभिमानी देवः । ‘मनो ब्रह्मे-त्युपास्ते’ इति श्रुतिः । एवकारेण कियत्कालो व्यवच्छिन्न इति तत्राह– मुहूर्तेति । अत्र प्रतीतार्थमपहाय तत्र सन्निहितदेवताकल्पनं निष्प्रमाणकमित्यादिशङ्का ‘प्राकृतैर्द्दश्यमानं तु न द्रवं तीर्थमुच्यते’ इत्यादिना परिहर्तव्या । भेदस्यान्यथाज्ञानत्वं च ‘भिन्नस्याभेदतो दृष्टिः’ इति प्रमाणसिद्धम् । नन्वियं व्यवस्था कुतः ? ऋष्यादिभ्यो देवानामुत्तमत्वादित्यतः ‘उत्तमा अपि देवेशा अवरान् विदुषो नृणाम् । पूजायै सम्प्रयच्छन्ति परोक्षत्वप्रिया यतः’ इत्यादेः

॥ १२ ॥

सत्यधर्मीया

नाग्निर्न सूर्यो न च चन्द्रतारकमिति श्लोकेऽग्न्यादय उपासिताः परस्परं स्वेषां हरेश्च भेदकृतो भेदं करोति जानातीति स तस्याघं विपश्चितो ज्ञानिनो न घ्नन्ति न नाशयन्ति । विपश्चितः प्रसक्तभेदविरुद्धाभेदज्ञानिनस्त्वघं घ्नन्तीति भेदज्ञानिनिन्दामभिनन्दनम-भेदज्ञानिन इत्यन्यथाप्रतीतिनिवारणाय स्वयं तत्पदार्थमाह ॥ भेदकृतोऽन्यथाज्ञानिन इति ॥ देवाश्च तदेवाबादिकमाश्रित्यासत इति परोक्ष्यान्नान्यथामतिमहापयन्ति । विपश्चितस्तु प्रात्यक्षिका इति प्रत्यक्षदर्शनात् । तदुपेत्य । अज्ञानामधिकारिणामन्यथाज्ञानमपगमयन्ति । तुस्तत्र तरतमभावरूपविशेषद्योतकः । एवकारस्तु सत्यधिकारे दर्शनस्यानन्यथाभावसूचकः । कुणपे त्रिधातुक इत्यादिमूलोक्तमन्यथाज्ञानमुपलक्षणपरमिति सूचयन्नुक्तश्लोकद्विकार्थे मानमाह ॥ प्राकृतैरिति ॥ प्राकृतैरज्ञैर्दृश्यमानं द्रवं तीर्थमिति नोच्यते तु नोच्यत एव । देवाश्च शिला एवेति शिलामात्रा न तर्हि क इत्यत आह ॥ तत्रान्तर(रा)स्थिता देवा इति ॥ तदन्तःस्थिता इत्येतावता पूर्तौ यत्तत्रेत्युक्तं तेन तं त्रायन्ते सर्वप्रकारेण पालयन्तीति तत्राश्च सन्तस्तन्मध्ये स्थिता अन्त आस्थिता वा देवा उच्यन्ते ज्ञानिभिः । तर्हि कथं ते दृश्यन्त इत्यत आह ॥ गुरूपदेशेनेति ॥ गुरूपदेशन्त्विति वा । अन्यथाज्ञानिनां तद्रूपं तदन्तर्गतं न दृश्यते च । तथामन्तॄणामनर्थमप्याह ॥ कोपादिति ॥ कोपाज्जडजलाद्यैक्यज्ञानजाच्छापं प्रयच्छन्ति । तस्माद्गुरुमुपाव्रजेत् । तस्मात्तीर्थानि देवाश्च सर्वदेवमयो द्विजः । तीर्थानि पदे विप्रस्य दक्षिण इत्यादेश्च तीर्थमृदादिप्रतिमान्तरस्थिता देवा विद्वत्सु ज्ञानिष्वेव संस्थिताः । अतः साधवो दर्शनादेवेत्युक्तमुपपन्नमिति भावः । यस्यात्मद्धिः कुणप इत्यत्रोपलक्षण-मन्यथाज्ञानमेतल्लक्षणमिति मानेनाचष्टे ॥ भिन्नस्येति ॥ भिन्नस्य वस्तुनोऽभेदतोऽभेदेन दृष्टिर्दर्शनमपि भेदिभिर्नादरणीयेति । वस्तुयाथात्म्येन तस्य वस्तुनो भिन्नत्वादिति तदभेद-दृग्भेदज्ञानं विनिन्दितम् । विद्यमानस्याभेदस्य दर्शनं क्वचिदपि न निन्दितम् । न तद्वाक्यस्य तत्र तात्पर्यमिति तात्पर्यम् । शिलाः प्रतिमादयः । अस्म्यहं देवोऽहमिति च या दृशिरुत्त-मस्याधमत्त्वेन दृशिरिति योज्यम् । नीचस्य चोच्चत्वेनासमस्य समत्वेन समस्यासम इति दर्शनं ज्ञानं द्रवं जडं जलं देहोऽहमिति च या मतिर्नास्तिकादीनामनुमानाभासजन्या । तदुक्तम् । देहात्मत्वं यदि न तत्प्राप्तं प्रत्यक्षतः क्वचिदित्यनुव्याख्यानव्याख्यासुधायां नास्त्येव देहात्मप्रतीतिर्याऽनुुमानादिना । बाध्ये येषां चास्तिकादीनां तेषामपि ते इन्द्रियजा किन्तु अनुमानाभासजन्यैवेतीति । असतीषु भार्यास्वसत्सु सदितरेषु च स्वीया इति दर्शनम् । एवमादिकं भेदज्ञानमिति प्रोक्तं या चान्येत्यनेनाप्युपलक्षणीया साऽस्तीति ध्वन्यते । तस्मा-त्तस्या अन्यथामतेरपहानाय त्याजनाय वरा गुरवः संसेव्याः । समा तदकपटतामभिप्रैति । गुरूणां पूजया । सुप्सुपेति समासः । सर्वा देवताः प्रीयन्ते प्रीता भवन्ति । एषां गुर्वन्तर्वसतां प्रीतिरन्यथा न स्यात् ।

तदनन्यथात्वं स्वयं व्याकरोति ॥ गुरूक्तिं स्वाधिष्ठानगुरूपदेशमपहायेति । नृणां सतां पूजा विशेषेण सदा कार्या । कृत्यानां कर्तरि वेति स्मरणान्नृणामित्युपपद्यते । विशिष्टेष्वधिका मध्यमेषु मध्यत इति भक्तिस्तारतम्येन भवेत् । सद्दाराः सुरा आराध्या इति स्वातन्त्र्येण तत्सपर्या न कार्येत्यायातः । तेऽपि वा साक्षात्स्वसमञ्चनं विहायैव कुतः कुर्वन्तीत्यत आह ॥ उत्तमा अपीति ॥ पूज्यत्वेन स्वसन्दर्शिते गुरुभ्य उत्तमा अपि देवेशाः स्वाधमान्विदुषो ज्ञनिनः पूजायै प्रयच्छन्ति ददति । तत्र तन्त्रं यतः परोक्षप्रिया इव हि देवाः प्रत्यक्षद्विष इत्यादेः । तेषु स्थित्वाऽनुपमां पूजां सदा स्वयं गृह्णन्ति । ज्ञानानि च पूजितगुरुद्वारा प्रयच्छन्ति । एवंविदा गुर्वादिके पूजिते पूजिता देवाः । सब्रह्माणः सकेशवाः सुरवराः पूजिताः स्युः । न च सान्निध्यात्ते महायोगिन्पातकानि महन्त्यपि । सद्यो नश्यन्तीत्यादिवचनात्सज्जनदर्शनादेर्महापातकघातकत्ववत्पुराणादिषु गङ्गा गङ्गेति यो ब्रूयात् । प्रयागेति स्मरणं पापभाजनम् । प्रयागे मरणान्मुक्तिः स्मरणादरुणाचले । सेतुं दृष्ट्वा विमुच्यत इति पापापनोदकत्वं तथा मोचकत्वं चोच्यतेऽतः को निर्बन्धस्तीर्थाद्यपेक्षया प्रेक्षावदौत्तम्य इति वाच्यम् । पक्वयोगिनां ज्ञानद्वारैव पापापहानवादीनि तानि वचनानि मुक्त्यभिधायीनि च पापान्मुक्तिपराणि स्तुतिपराणि च । यथोक्तं तृतीयाध्यायगीताभाष्य-टीकयोः । गत्यन्तरं च नान्यः पन्था इत्यस्य नास्ति । इतरेषां ज्ञानद्वाराऽप्यविरोधः । यत्र तीर्थाद्येव मुक्तिसाधनमुच्यते ब्रह्मज्ञानेन वा मुक्तिः प्रयागमरणेन वा । अथवा स्नानमात्रेण गोमत्यां कृष्णसन्निधावित्यादौ तत्र पापान्मुक्तिः स्तुतिपरता वा । तत्रापि कुत्रचिद्ब्रह्मज्ञान-साधनत्वमेवोच्यते । अन्यथा मुक्तिं निषिद्ध्य ब्रह्मज्ञानं विना मुक्तिर्न कथञ्चिदपीष्यते । प्रयागादेस्तु या मुक्तिर्ज्ञानोपायत्वमेव हीत्यादौ । न च तीर्थस्तुतिवाक्यानि तत्प्रस्तावेऽ-प्युक्तज्ञाननियमं घ्नन्ति । यथा किञ्चिद्दक्षं भृत्यं प्रत्युक्त्वाऽयमेव हि राजा किं राज्ञेत्यादीनि । यथाऽऽह भगवान् । यानि तीर्थादिवाक्यानि कर्मादिविषयाणि च । स्तावाकान्येव तानि स्युरज्ञानां मोहकानि च । भवेन्मोक्षस्तु मद्दृष्टेर्नान्यतस्तु कथञ्चनेति नारदीये । ननु यथा मोक्षस्य ज्ञानसाध्यत्वे तमेवमित्याद्यागमाः सन्ति तथा कर्र्मसाध्यत्वेऽप्यपाम सोममित्यादयो विद्यन्ते तत्कथं निर्णय इत्यतः सावकाशत्वनिरवकाशत्वबलादित्याह ॥ गत्यन्तरं चेति ॥ ज्ञानद्वारेति ॥ स्तुतीति प्रशस्तत्वोपलक्षणेत्यर्थः । प्रशस्तत्वसादृश्येन गौणी वा दुष्टजन-व्यामोहनार्थत्वस्योपलक्षणमेतत् । अज्ञानां सम्यग्ज्ञानायोग्यानामित्यन्तेन ग्रन्थेन ।

अथ श्लोकद्विकार्थः । न ह्यम्मयानीत्यादिनोक्तं वितत्य तथा दर्शनादेवेत्येवकारव्यावर्त्यः कालः कश्च ग्राह्य इत्यत आह ॥ नेति ॥ प्रसिद्धकाष्टाधिरूढोऽग्निस्तदन्तर्गतो भेदकृतोऽ-न्यथाज्ञानिनः पुंसः । भेदेऽभेदज्ञानिनः । एवमेव सूर्याद्याश्चन्द्रश्च तारकं च । सर्वो द्वन्द्वो विभाषयेत्येकवद्भावः । चन्द्रेण सहितं च तत्तारकं चेति वा । खमाकाशः श्वसनो मातरिश्वा वा तदभिमानीन्द्रोऽग्निश्च मनः । सोमस्य पृथग् ग्रहणादुमा वा तत्पतिर्वा । उपासितास्सेविता अपि अघं हरन्ति । विपश्चितो ज्ञानिनस्तु मुहूर्तं सेवा तयैवाघं तत्सङ्घं घ्नन्तीत्येकेनैवावृत्त्या घ्नन्ति घ्नन्तीत्यन्वयसम्भवे किमिति हरन्तीति पदमिति चेन्न । न घ्नन्तीत्यन्वयने मास्तु हरणं मरणं स्यादिति । तथाऽन्यत्र हरन्तीत्येवोक्तौ हृतस्यापि केशादेः पुनरङ्कूरणवत्पातका-ज्जृम्भणं स्यादिति हरन्ति घ्नन्तीत्युक्तिः । तत्र हरणमेव नास्ति हननं तु दूरापास्तम् । अत्र तु हनने जाते न पुनर्भवस्तस्येति विशेषोऽपि बोधितः स्यादिति सन्तोष्टव्यम् । न ह्यम्मयानि तीर्थान्यपि तु देवास्तेऽपि न स्वातन्त्र्येण तीर्थेन शुद्धिकराणि किन्तु हरिरेव तीर्थं तद्भक्ताः साधव इति व्याकुर्वन्ते । विष्णुतीर्थीयवचनमुदचकथन् । सर्वशुद्धिकरत्वात्तु तीर्थाख्यो विष्णुरच्युत इति । तथा साधवः । नाम ब्रह्मेत्युपासीतेत्यादाविव प्रथमा सप्तम्यर्थे । साधुषु स्थिता देवाः । यदधीना यस्य सत्ता तत्तदित्येव भण्यत इत्यादेः साधु-सत्ताया देवाधीनत्वात्सामानाधिकरण्ये साधवो देवा इति व्याचक्रुः ॥ १२ ॥

यस्यात्मबुद्धिः कुणपे त्रिधातुके स्वधीः कलत्रादिषु भौम इज्यधीः ।

यत्तीर्थबुद्धिश्च जले न कर्हिचिज् जनेष्वभिज्ञेषु स एव गोखरः ॥ १३ ॥

पदरत्नावली

इतोऽपि विद्वज्जनपूजा नृभिः कार्येत्याशयेनाह यस्येति । यस्य पुरुषस्य त्रिधातुके प्राधान्यात् पृथिव्यप्तेजःकृते वातपित्तश्लेष्माकुले वा कुणपे शववदचेतनदेहे आत्मबुद्धिर् अहमिति ज्ञानं देहोऽहमित्यन्यथाज्ञानमित्यर्थः । यस्य च कलत्रादिषु अस-द्भार्यादिषु स्वधीर् मदीया एते अहमेषां भर्ता नान्य इति स्वकीयत्वबुद्धिः । विषयभोगलौल्यं तत्र निमित्तम् । यस्य भौमे भूविकारे शिलादौ इज्यधीः पूज्यबुद्धिः । यद् यस्य जले द्रवरूपे तीर्थबुद्धिर् अघक्षयबुद्धिर् यस्याभिज्ञेषु शास्त्रतत्त्वज्ञेषु कर्हिचिदपि न पूज्यत्वबुद्धिः । स गोखरः गवि पृथिव्यां गर्दभः नापरः । गोस्पर्शनादिना शुद्धिः स्यादिति गौश्चासौ खरश्चेति विग्रहो न सङ्गच्छत इत्युक्त एवार्थः ॥ १३ ॥

सत्यधर्मीया

यस्याधिकारिणः कुणपे शवसदृशे त्रिधातुके प्राधानिकपृथिव्यप्तेजःकृते । वातपित्तश्लेष्मधातुयुते देहे । चेतन आत्मबुद्धिर्मम देह इति स्वाधीनतामतिरन्यथामतिः । कलत्रादिष्वसत्सु स्वधीः स्वकीया मतिर् भौमे भूमिशिलादिकृतप्रतिकृताविज्या पूज्या इति बुद्धिर्यस्य सः । जले तीर्थबुद्धिस्तीर्थं शुद्धिकृदिति बुद्धिर्यस्य सः । अभिज्ञेषु जनेषु कर्हि-चिद्यदाकदाचिदपि यस्य नेज्यधीरतीर्थबुद्धिर्वा स एव गोखरः । गवि भूमौ खरो गर्दभः । यद्वा देहोऽहमित्यन्यथाज्ञानमित्यर्थः । न च क्व च प्रत्यक्षतः प्राप्तमनुमागमबाधितम् । देहात्मत्वं यदि न तत्प्राप्तं प्रत्यक्षतः क्वचित्् । मम देह इति ह्येव न देहोऽहमिति प्रमेत्याद्यनु-व्याख्यानप्रतीतिरेव वा प्रमावानित्युक्तेः कथमिदमिति चेन्न । देहस्यात्मत्वं प्रत्यक्षतः प्राप्त-मित्यारभ्य सुधायां क्वचित्प्रतीतेरभावात्क्वचित्प्रतीतिसद्भावेऽपि प्रत्यक्षजत्वाभावात् क्वचित् प्रत्यक्षप्रतीतिभावेऽप्ययथार्थत्वात्क्वचिदयथार्थत्वेऽपि प्रबलप्रत्यक्षेण बाधादित्यर्थः । अत एव क्वापीत्युक्तम् । अन्येनेत्यनुपजीव्येनागमादिनेत्यर्थः । तदेवं स्वभावतः प्रबलेन प्रत्यक्षेण विरुद्धावनुमानागमावाभासावेवेत्यन्तेन ग्रन्थेन स्फुटविवेकाभावेन व्यवहारमिति निर्णीतत्वाद् देहात्मबुद्धिर्नैषां ममाहमिति धीः श्वशृृगालभक्ष्य इत्याद्यर्थोऽवसेयस्तद्वर्त्मनेति काऽत्र कथन्ता । गौः खर इति शब्दौ वाचकौ यस्य स गोखर इति वा । पश्यज्जनानां गवां नेत्राणां खर इव खर इति वा । गौश्च पशुप्रायश्चासौ खरो दुश्शब्दकारित्वादिति केचित् । अनुव्याख्या-सुधाद्यभिधानेन ब्रह्मपुराणादिगतवैकुण्ठमाहात्म्यादिवचनानां क्षेत्रतीर्थमाहात्म्यप्रतिपादाकानां गतिरुक्ता वेदितव्या । तथा हि तानि–

‘सद्धर्मरतिदाऽन्यत्र कतिसङ्खयानि तानि च ।

कति च ज्ञानदान्यत्र भक्तिवैराग्यदानि च ।

मुक्तिप्रदानि कान्यत्र तानि मे वद सुव्रत ।

सद्धर्मरतिदान्यत्र सन्ति चाष्टोत्तरं शतम् ।

भक्तिवैराग्यदान्यत्र षष्ठीन्यष्टोत्तराणि च ।

मुक्तिदान्यत्र षट् च’ इत्यादीनि ॥ १३ ॥

श्रीशुक उवाच—

निशम्येत्थं भगवतः कृष्णस्याकुण्ठमेधसः ।

वचो दुरन्वयं विप्रास्तूष्णीमासन् भ्रमद्धियः ॥ १४ ॥

पदरत्नावली

अकुण्ठमेधसो ऽप्रतिहतज्ञानस्य । दुरन्वयम् अन्वेतुमशक्यं दुर्ज्ञेय-मित्यर्थः । भ्रमन्ती अनवस्था धीर्येषां ते तथा ॥ १४ ॥

सत्यधर्मीया

भगवतः कृष्णस्य दुरन्वयं दुस्साध्योऽन्वयस्तदर्थसम्बन्धस्तस्मिन्यस्य वा तत् । तत्रासम्बद्धमिति यावत् । तत्र तन्त्रम् अकुण्ठमेधस इति । मेधश्शब्दोऽयं स्वतन्त्रः । अप्रतिहतमतिः । यद्वा योऽकुण्ठमेधसोऽकुण्ठो मेधा यस्य च स चासौ साररूप-त्वात्सश्च तस्य भगवतः कृष्णस्येति । सारत्वात्स इति प्रोक्त इत्यादेः । इत्थं निशम्य विप्रा मेधाविनोऽपि । गृणन्तु विप्र ते धिय इत्यृक्टीकायां विप्र मेधाविन्नित्युक्तेः । विप्रो गृत्स इत्यादिचतुर्विंशतिनामसु पाठादिति तट्टिप्पण्युक्तेस् तन्नामसु पाठात् । भ्रमद्धियो भ्रमन्ती धीर्येषां ते तथा सन्तः । तूष्णीं मौनवन्त आसन् ॥ १४ ॥

चिरं विमृश्य मुनय ईश्वरस्येशितव्यताम् ।

जनसङ्ग्रह इत्यूचुः स्मयन्तस्तं जगद्गुरुम् ॥ १५ ॥

पदरत्नावली

मुनयः किमकुर्वन् पुनरिति तत्राह– चिरमिति । ईश्वरस्य जगन्निय-न्तुरीशितव्यतां विद्वज्जनान् प्रति दास्यभावं चिरं विमृश्य अयं जनसङ्ग्रह उन्मार्ग-प्रवृत्तिरिवाचारलक्षण इति मत्वा तं जगद्गुरुमूचुरित्यन्वयः । अहो हरेर्विडम्बनमिति कुतूहला-दुत्पन्नमन्दस्मितं कुर्वन्तः ॥ १५ ॥

सत्यधर्मीया

कथं जगाद एवं जगदीश इत्यालोच्यैवं निश्चित्यावदंश्चेत्याह ॥ चिर-मिति ॥ ईश्वरस्यापीशितव्यतां नियम्य कूटघटितताम् । तद्वचनतः प्राप्तं निशम्य श्रुत्वाऽ-नन्तरं चिरं विमृश्य जगद्गुरुं कृष्णं प्रति स्मयन्तः सन्तो जनसङ्ग्रह इति लोकानुकृति-रित्यूचुः । यद्वा जनसङ्ग्रह इति स्वयं विमृश्य जगद्गुरुं प्रति स्मयन्त ऊचुरित्यन्वयः ॥१५॥

ऋषय उवाच—

यन्मायया तत्त्वविदुत्तमा वयं विमोहिता विश्वसृजामधीश्वर ।

यदीशितव्यायति गूढ ईहया अहो विचित्रं भगवद्विचेष्टितम् ॥ १६ ॥

पदरत्नावली

किं स्वाश्रमगमनमुत बालकथामाहोस्वित् तत्वविषयं किञ्चिदूचुरित्या-शङ्क्य तत्वविषयमेवेत्याह– यन्माययेति । तत्वविदुत्तमा वयं यस्य मायया विमोहिताः स भवानीहया लोकचेष्टया गूढ ईशितव्यायति अनीशवदाचरतीति यस्मादहो भगवतो विचेष्टितं विचित्रम् । ‘लोहितादिडाज्भ्यः कयष्’ इति क्यष् प्रत्ययः ॥ १६ ॥

सत्यधर्मीया

तदृषिवर्गः किमवादीदित्यत आह ॥ ऋषय इत्यादिना ॥ हे विश्वसृजां ब्रह्मादिजगत्सर्जकानामधीश्वर स्वामिन् । तत्त्वविदुत्तमा वयमपि । यस्य तव मायया प्राज्ञया शक्त्येति वा विमोहिता मोहं प्राप्ता विमा विगता मा येभ्यस्ते विमा अज्ञा इत्युदिता इदं चर्येति ते तथेति वा । कथं तत्त्वविदुत्तमा इति आत्मनो निरहन्ता आहुरिति मोहिता इत्यनेन परास्तम् । स भवान् ईहया स्वेच्छया स्वचेष्टयेति वा गूढोऽनभि-व्यञ्जितनिजचर्यः । ईशितव्यायति ईशितव्यश्च स्वप्रेयः स भवति । लोहितादिडाज्भ्यः क्यषिति क्यष् । स च भवत्यर्थे न त्वाचारार्थे । भृशादिभ्यो भुव्यच्वेर्लोपश्च हल इति भुवीत्यनुवृत्तेस्तदर्थस्तु भवत्यर्थ इत्युक्तेर्नाचारः । विकल्पतः पदयोरभिधानात्परस्मैपदता सम्भवति । तद्वद्भवतीति तात्पर्यम् । तत्तदनुकरणरूपं भगवच्च तद्विचेष्टितं च भगव-दैश्वर्यादिमद्विचेष्टितं तत्स्वरूपत्वात्तस्येति सम्भवति चेष्टितस्यापि भगवत्त्वम् । अहो आश्चर्यम् पारोक्ष्योक्तिर्वा भगवतो विचेष्टितमहो । तर्हि मायया निगूढ इति मायिकत्वमुच्यत इति प्रतीयत इत्यत आहुः ॥ विचित्रमिति ॥ विगता चित्रा माया यस्मात्तदमायिका-मित्यर्थः । विचित्रं नानाविधमिति वा । अहो विचित्रमत्याश्चर्यकरमिति वा ॥ १६ ॥

अनीह एतद् बहुधैक आत्मना सृजत्यवत्यत्ति न बद्ध्यते यथा ।

भौमैर्हि भूमिर्बहुनामरूपिणी अहो विभूम्नश्चरितं विडम्बनम् ॥ १७ ॥

पदरत्नावली

चेष्टायामतर्क्यत्वमुपपादयन्ति अनीह इति । आत्मना परप्रेरणा-मन्तरेण । यथा भूमिर् भौमैः स्वविकृतैः पदार्थैर्बहुनामरूपिणी कार्यरूपेण बध्यते यथा । तथा भवान् न बध्यत इत्यन्वयः । यो भवाननीहः कूटस्थ एतज्जगद् बहुधा सृजत्यवत्य-त्तीति तस्मादहो विभूम्नश् चरितं, कीदृशम् ? विडम्बयतीति विडम्बनम् ॥ १७ ॥

दुर्घटभावदीपिका

अनीहः क्लेशकरचेष्टारहित एकोऽपि भगवान् आत्मना स्वेच्छ-यैव । प्रयोजनमन्तरेति यावत् । बहुधा चतुर्मुखनामकबहुरूपविशिष्टो भूत्वा यथा न बद्ध्यते तथैतज्जगत्सृजत्यवत्यत्ति च । एकस्यैव भगवतो बहुनामरूपत्वं कथमित्यतो दृष्टान्तमाह– भौमैरिति । यथा भूमिर्भौमपदार्थान्सृष्ट्वा भौमैेः स्वदृष्टपदार्थनिमित्तैर्बहुरूपिणी भवति तथैकोऽपि भगवान् बहुनामरूपो भवति । विभूम्नो विशेषपूर्णस्य भगवतश्चरितं सृष्ट्यादि-व्यापारकरणं विडम्बनं विडम्बयति लोकाननुकरोति उपकरोति । विडम्बनं लोकानामे-वोपकारकं न स्वस्यैतद्धि प्रमाणप्रसिद्धम् । अहो आश्चर्यं चेति । एतेन विभूम्नो भगवतश्चरितं विडम्बनं मोहकमिति भगवच्चरितस्य मोहकत्वकथनमसङ्गतमिति दूषणं निराकृतम् । विडम्बनमित्यस्य मोहकमित्यर्थ इत्यनङ्गीकारात् ॥ १७ ॥

सत्यधर्मीया

तच्चेष्टावैचित्र्यं स्पष्टयन्ति ॥ अनीह इति ॥ आत्मना स्वेनानीहः फलाकाङ्क्षाशून्योऽक्लिष्टकारी वा एकः प्रधान एतज्जगद्बहुधा सृजत्यवत्यत्ति । यथा भूमिर्भौमैः स्वसम्बन्धिभिः पदार्थैः । बहुनामरूपिणी बहुविधानि नामानि च रूपाणि च सन्त्यस्या इति

सा । यथा बद्ध्यते तथा भगवान्बद्ध्यते । किञ्चित्कार्यकर्त्र्या धात्र्या बन्धो बहुविधम् । विभूम्नो विशेषतो भूमा पूर्णता यस्य स विभूमा । विडम्बनं विडम्बयतीति तत्तथा हि यतस्तस्मादहो

॥ १७ ॥

अथापि काले स्वजनाभिगुप्त्यै बिभर्षि स त्वं खलनिग्रहाय ।

स्वलीलया वेदपथं सनातनं वर्णाश्रमात्मा पुरुषः परो भवान् ॥ १८ ॥

पदरत्नावली

यद्यपि लोकविडम्बनशक्त्या मोहयसि तथापि काले सज्जनोपप्लवसमये वेदपथं च बिभर्षि । वर्णाश्रमात्मा वर्णाश्रमस्थापनाचार्यः ॥ १८ ॥

सत्यधर्मीया

विडम्बनं न च सदा किन्तु प्रयोजनमात्यायिकं तदैवं प्रवर्तस इति विज्ञापयन्ति ॥ अथापीति ॥ स्वजनाभिगुत्प्यै स्वजनरक्षणाय स्वजना ‘यतो वा इमानि भूतानि जायन्त’ इत्यादेः स्वजातास्तेषामभिगुप्त्यै येन जातानि जीवन्तीति श्रुतेः । स त्वं तदन्यतमो बिभर्षि । किञ्च काले वेदपथप्रतिबन्धने यथावस्थितार्थप्रतिबन्धे तथा । स आत्मा तत्त्वमसीत्यादावनकारप्रश्लेषेण छेदने च खलैः प्रस्ताविते तं वेदपथं भवांस्तं पथम् । वाटः पथश्च पन्थाश्चेत्युक्तेः । मार्गं वेदेति जानातीति स्वलीलया तत्खलनिग्रहाय बिभर्षि सनातनं सदातनं ससंवादं स्याद्यथा तथा बिभर्षि । प्रागुदाहृतं गीतातात्पर्यमनुसन्धेयम् । अनन्तरं वर्णाश्रमात्मा सकलवर्णाश्रमधर्मप्रवर्तक इति तत्स्वामी परः पुरुष उत्तमपुरुष इतीदम्भरणहेतुः । परोभवो भवतः पर इति परोभवा मुक्तास्तानपि बिभर्षीति वा । परोभवाननयति चेष्टयतीति स वा । नलोपाद्यभावस्तु तज्जलानित्यादिवदिति साधूक्तं प्रागनुसन्धेयम् । परो इत्युत्तमार्थकमव्ययम् ।

‘रञ्जनात्प्रकृतिः प्रोक्ता रज इत्येव वैदिकैः ।

तस्या अप्युत्तमो विष्णुर्यतोऽतः स परोरजा’ इति बृहद्भाष्ये ।

परो इति ततः परमिति छान्दोग्यभाष्ये तद्वयमपीति मन्तव्यम् । स्वजनस्य स्वात्मजस्य विधेर्नाभौ नाभ्या वा गुप्त्यै रक्षणाय । हे खलनिग्रहाय खलस्य वेदस्तेयस्य हयास्यस्य निग्रहस्य हननस्यायो हि लाभो येन स तं यापयतीति तत्सम्बुद्धिर्वा । मत्स्यात्मा सन् काले तत्संहारे जाते सनातनं वेदपथं काले ब्रह्मणि बिभर्षि । वर्णाश्रमात्मा वर्णानां विषयेऽश्रमः श्रमरहित आत्मा मनो यस्य स सन् । पुरुषः प्राणो यस्य सः । परोभवान् बहुकान्तिमांश्चासीदिति शेषः ।

‘हरिश्च प्रकृतिश्चैव ब्रह्मवायू तथैव च ।

सुपर्णशेषरुद्राश्च शक्रः सूर्ययमावपि ।

अग्निर्यामानुजश्चैव कालशब्दोदिताः क्रमात् ।

पूर्वोक्तास्त्वपरोक्तानां प्रभवः सर्वशो मता’

इत्यदिमहासंहितायामिति द्वितीयतात्पर्योक्तेः । खलान्निगृह्णातीति स तथा । स चासा-वायश्च तत्सम्बुद्धिरिति वा । महाफलप्रदत्वात्तु विष्णुराय इतीरित इति निरुक्त इत्येकादश-तात्पर्योक्तेः । तत्रैवायस्तु फलमुद्दिष्टमिति चोक्तम् ॥ १८ ॥

ब्रह्म ते हृदयं शुक्लं तपः स्वाध्यायसंयमैः ।

यत्रोपलब्धं सुव्यक्तमव्यक्तं च ततः परम् ॥ १९ ॥

तात्पर्यम्

हृदयं प्रियं हृद्ययनात् ।

पदरत्नावली

यतो वेदमार्गप्रणेता ततस्ते तव ब्राह्मणकुलम् । शुक्लत्वं च कस्मा-दित्यत्राह यत्रेति । यत्र ब्राह्मणकुले अव्यक्तं परं ब्रह्म सुव्यक्तं व्यवधानमन्तरेण उपलब्धं दृष्टं यत् तस्मात् शास्त्रयोनेर् वेदप्रतिपाद्यस्यात्मनस्तव सद्धाम प्रशस्तं स्थानम् । यतः सम्भावयति तत् तस्माद् भवान् ब्रह्मण्यगुणः ब्राह्मणप्रियत्वलक्षणगुणशिखामणिः ॥ १९–२० ॥

सत्यधर्मीया

ब्रह्म ते हृदयमिति श्लोके ब्राह्मणजातेर्हृदयतादात्म्यमुच्यत इत्यन्यथा प्रतीतिनिरासाय तदनूद्य व्याचष्टे ॥ हृदयं प्रियमिति ॥ कथं हृदयशब्दः प्रियार्थक इत्यतस्तं तस्मिन्निर्वक्ति ॥ हृद्ययनादिति ॥ हृदाश्रितत्वात्प्रियस्येति भावः । द्वितीयतात्पर्ये च । हृदयं प्रियमुद्दिष्टं कान्तमित्यभिधीयत इति ।

ततश्चायं श्लोकार्थः । तपःस्वाध्यायसंयमैः शुक्लं गुह्यं ब्रह्म ब्राह्मणजातिस्ते हृदयं प्रियं परं च । तदुभयघटकमाह ॥ यत्रेति ॥ ब्राह्मणकुलेऽव्यक्तं ब्रह्म सुव्यक्तं यथा भवति तथाऽ-व्यवधानेनेति यावत् । उपलब्धं दृष्टं यत्तमः परं शुक्लं च ॥ १९ ॥

तस्माद् ब्रह्मकुलं ब्रह्मन् शास्त्रयोनेस्तवात्मनः ।

सभाजयसि सद्धाम तद्ब्रह्मण्यगुणो भवान् ॥ २० ॥

सत्यधर्मीया

किञ्च तस्मात्तत्र ब्रह्मोपलब्धिर्यस्मात् । हे ब्रह्मन् शास्त्रयोनेः शास्त्रं योनिः प्रमाणमस्येति शास्त्रयोनिस्तत्र सर्वस्वामिनः सद्धाम सन्मुख्याश्रयस्तस्मात्सम्भावयसि अहो वयं जन्मभृत इत्यादिना सम्भावयसि । यत्तद्ब्रह्मण्यगुणो ब्रह्मण्याः सर्वेऽपि गुणा अप्रधानीभूता यस्मात्स तच्छिखामणिर्भवान्भवतीति ॥ २० ॥

**अद्य नो जन्मसाफल्यं विद्यायास्तपसो दृशः । **

त्वया सङ्गम्य सङ्गत्या यत् त्वं नः श्रेयसां परः ॥ २१ ॥

पदरत्नावली

न केवलं जन्मन एव साफल्यमासीत् किन्तु विद्यादेरपीति । तत्र निमित्तं त्वया सङ्गम्येति । त्वं नस् त्वत्सङ्गत्या श्रेयसां सकाशात् परः पुरुषार्थ इति यत्

॥ २१ ॥

दुर्घटभावदीपिका

यद्यस्मात्तव सङ्गत्या विशिष्टानां नोऽस्माकं श्रेयसां सकाशात्परः पुरुषार्थस्त्वमेवासि तस्मादद्य त्वया सङ्गम्य स्थितान्नोऽस्माकं जन्मसाफल्यं जन्मनः साफल्यं, विद्यायास्तपसो दृशश्च साफल्यं जातमिति ॥ २१ ॥

सत्यधर्मीया

अहो वयं जन्मभाज इति यत्तन्नटनं परमार्थत इदानीमिति विज्ञाप-यन्ति ॥ ओति ॥ यद्वयं त्वया सङ्गम्य सङ्गं प्राप्य स्थितास्तस्मान्नोऽद्य जन्मसाफल्यं जन्मनः सफलता । साफल्यमिति विश्लिष्टं विद्यादिपदैरन्वेतव्यम् । विद्याया अभ्यस्तशास्त्रस्य तपसः कृच्छ्रादेर्दृशो ज्ञानस्य चक्षुषो वा साफल्यम् । कुत इत्यादीत्यत आह ॥ यदिति ॥ सङ्गत्यैवं सहवासेन नस्त्वं श्रेयसां मध्ये परो विशिष्टश्रेयोरूप इति । सङ्गत्या लिङ्ग-भङ्गानन्तरं गमनेन प्राप्यश्रेयसां परः स्वामी । तद्विश्राणनकृत्तत इति वा । यद्वा त्वम-सङ्गत्या किञ्चिद्वस्तुसङ्गाभावेन सन्नपि । ‘असङ्गो ह्ययं पुरुष’ इति श्रुतेः । अथाऽपि त्वयैव सङ्गमिनो जन्म साफल्यम् । तत्र तन्त्रं यत्त्वं नः श्रेयसां मध्ये पर इति । यद्यपि न इत्येकोक्त्याऽलं न पुनर्न इति वक्तव्यम् । तथाऽपि तस्य नो इत्यव्ययरूपतया त्वयाऽर्था-ज्जन्मभाज इत्यनेन यज्जन्मसाफल्यमुक्तं तत्तव नो किन्तु न इत्यर्थकं सदन्तरङ्गतः सार्थकमित्यवधेयम् ॥ २१ ॥

नमस्तस्मै भगवते कृष्णायाकुण्ठमेधसे ।

स्वयोगमायया च्छन्नमहिम्ने परमात्मने ॥ २२ ॥

दुर्घटभावदीपिका

स्वयोगमाययाऽच्छिन्नमहिम्न इत्यस्य स्वेन सर्वदा योगो यस्याः सा स्वयोगा । स्वरूपभूतेति यावत् । मायेच्छा तयाऽच्छिन्नमहिम्न इत्यर्थः । एतेन स्वयोगेत्ये-तव्द्यर्थमिति चोद्यस्यानवकाशः । जीवेच्छावद्भगवदिच्छाया भिन्नत्वं नास्ति किन्तु स्वरूपत्व-मेवेति वक्तंु स्वयोगेत्युक्तमित्यभ्युपगमात् ॥ २२ ॥

सत्यधर्मीया

परोक्षस्तुतिस्त्वतिप्रीतिकृदिति तथा नमन्ति । भगवते हे अकुण्ठ-मेधसे हे सहितो या रमयेति सेस्तत्सम्बुद्धिर्हे स इति । अकुण्ठमेधस इति वा परमात्मने साक्षाद्विष्णुरूपाय कृष्णाय ते नमः । तर्ह्येवं किं गोपरूपगोपनं तस्येत्यत आह ॥ स्वयोगेति ॥ स्वस्य स्वरूपभूता वा या योगशक्तिस्तया च्छन्नो महिमा यस्य स तस्मा इति वा ॥ २२ ॥

न यं विदन्त्यमी भूपा एकारामाश्च वृष्णयः ।

मायाजवनिकाच्छन्नमात्मानं कालमीश्वरम् ॥ २३ ॥

पदरत्नावली

एकस्त्वमेवारामः क्रीडावनं येषां ते तथा ॥ २३ ॥

सत्यधर्मीया

अत एव न तेषां तव मनीषेति भाषन्ते ॥ नेति ॥ ईश्वरमीशेभ्यो वरं सकलेप्सितदम् । माया तु स्वेच्छा तद्रूपिणी या जवनिका तिरस्करिणी । प्रतिसीरा जवनिका स्यात् तिरस्करिणी च सेत्यमरः । जुवत्यस्यां जुः । सौत्रो धातुर्गतौ वेगे च ल्युट्स्वार्थे कन् । यमनिकेति वा पाठः । यमयति यम उपरमे ल्युट् । यवनिकेति नामरे पाठो न व्याख्याता च । तथाऽपि बहुव्यवहाराद्युमिश्रण इत्यस्य यवनिकेति रूपमिति ज्ञेयम् । तया छन्नमात्मानं यम् अमी भूपा मिलिता न विन्दन्ति । भवतु कदाचिन्मिलिता-नामवेदनं वेदनं तु सदा तदनुवर्तिनां यादवानामित्यतो नैते विन्दन्तीत्याहुः । एकरामा एकस्मिन्नैकेनैव वा रमन्त इति तथा वृष्णयोऽपि यं न विन्दन्ति । चः समुच्चये । तस्मै नम इत्यतीतेन वा तस्येत्युत्तरेण वाऽन्वयः ॥ २३ ॥

तस्याद्य ते ददृशिमाङ्घ्रिमघौघमर्षतीर्थास्पदं हृदि धृतं सुविपक्वयोगैः ।

उत्सिक्तभक्त्युपहृताशयजीवकोशा आपुर्भवद्गतिमथानुगृहाण भक्तान् ॥ २४ ॥

पदरत्नावली

अद्यौघं मर्षयति नाशयतीत्यद्यौधमर्षम् । तादृशस्य तीर्थस्य गङ्गा-शब्दवाच्यस्यास्पदं स्थिराश्रयम् । सुष्टु विपक्वाः परिपाकं प्राप्ता योगा ध्यानलक्षणास् तैर् उत्सिक्तया उद्रिक्तया भक्त्या उपहृतः सम्यगुन्मूलित आशयः स्थानं यस्य स तथा । सः जीवकोशः जीवाख्यसन्निधानस्थानीयं लिङ्गशरीरं येषां ते तदुत्सिक्तभक्त्युन्मूलितस्थान-लिङ्गशरीराः । भवतो गतिं स्थानं वैकुण्ठलक्षणम् ॥ २४–२५ ॥

सत्यधर्मीया

अद्य तस्याङ्घ्रिं ददृशिम । मोदेशः । एकान्तिनां तु ज्ञानमात्र-मर्थनीयमिति । वरिति ज्ञानमुच्यते । सव्यश्चाङ्घ्रिर्ज्ञानात्मेति तं ददृशिमेत्येकवचनेन ध्वनया-मासुः । हे अद्य उपजीव्येति वा । किं तद्दर्शनेनेत्यतो वदन्ति ॥ अघौघमर्षतीर्था-स्पदमिति । धातूनामनेकार्थत्वात् तितिक्षार्थोऽप्यत्र नाशार्थः । नाशयन्तीति तानि च तानि तीर्थानि च तेषामास्पदं स्थानभूतम् । सुविपक्वयोगैैैरत्यन्तं विपक्वः फलोन्मुखो योग उपायो भक्त्यादिर्येषां ते तर्हीदं धृतं ध्यातमिति यावत् । आस्पदं प्रतिष्ठायामिति निपातितः शब्दः । ध्यानमात्रं न पुरुषार्थ इत्यत आहुः । उत्सिक्तोद्रिक्ता या भक्तिस्तयोपहृतोऽपहृत आशयो स्थानमभिप्रायो विषयाभिलाष इति यावत् । येषां ते ते च ते जीवकोशा जीवस्य कोश-स्थानानीति लिङ्गानि येषां ते । भगवद्गतिमापुः । अथ तद्वयमपि तद्धृदि धृतवन्त इति तदनन्तरं भक्तान्नोऽनुगृहाण । न उपर्यनुग्रहं कुर्विति यावत् । पूर्वं भक्तत्वेन ग्रहाणानन्तरं भगवद्गतिमनुगृहाणेत्यप्यावृत्त्याऽन्वयः ॥ २४ ॥

श्रीशुक उवाच—

इत्यनुज्ञाप्य दाशार्हं धृतराष्ट्रं युधिष्ठिरम् ।

राजर्षिवर्यांस्तान् गन्तुं मुनयो दधिरे मनः ॥ २५ ॥

सत्यधर्मीया

दाशार्हं कृष्णमित्यनुज्ञाप्य विज्ञाप्य धृतराष्ट्रं युधिष्ठिरं तान् राजर्षि-वर्यान् राजर्षिश्रेष्ठान् राजश्रेष्ठान्कांश्चित्स्वतः पुरतस्तत्रायातान् ऋषिश्रेष्ठान्वाऽनुज्ञाप्य मुनयो द्वैपायनाद्या गन्तुम् ॥ २५ ॥

तद् वीक्ष्य ताननुव्रज्य वसुदेवो महायशाः ।

प्रणम्य चोपसङ्गृह्य बभाषेदं सुयन्त्रितः ॥ २६ ॥

पदरत्नावली

उपसङ्गृह्य, अनुज्ञामिति शेषः । बभाष इदम् । व्यत्ययो बहुलमिति सूत्रात् । बभाषे इदंमिति छान्दसः ॥ २६ ॥

सत्यधर्मीया

पश्चात्कृत्वा प्रणम्य । इदं किं पृच्छसि पृच्छेति तत्तदनुशासनमुप-सङ्गृह्येदं वक्ष्यमाणं बभाषे । आर्षो बभाषेदमिति निर्देशः । बभाषेति पदव्यत्ययो वा । उत्तरत्र क्रत्वादेः करिष्यमाणस्य पत्न्यानुकूल्येन भाव्यमिति सा चानुवर्तिनीति वाऽहम् ॥ दंसुयन्त्रित इति । दमिति भार्यावाच्यव्ययम् । दं सुयन्त्रिता यस्य स इति तदर्थः । इदं च वां पुत्रतां गत इति वक्ष्यमाणानुगुणम् । दं कलत्रं बुधैः प्रोक्तं छेदे दातरीत्यनेकार्थ-ध्वनिपदमञ्जरी । दस्तरौ दं कलत्रे च दाने छेदे च दातरीति विश्वश्च ॥ २६ ॥

वसुदेव उवाच—

नमो वः सर्वदेवेभ्यो ऋषयः श्रोतुमर्हथ ।

कर्मणा कर्मनिर्हारो यथा स्यान्नस्तदुच्यताम् ॥ २७ ॥

पदरत्नावली

सर्वे देवा येषु सन्निहितास्ते सर्वेदेवास्तेभ्यः । सर्वत्र देवो देवनं प्रकाशनं येषां ते तथा ते तेभ्य इति वा । निर्हारो मूलच्छेदः ॥ २७ ॥

सत्यधर्मीया

सर्वे देवा येषु सन्निहिता इति सर्वदेवास्तेभ्यः । सर्वदेवमयो विप्रः । सर्वा देवता वेदविदि ब्राह्मणे वसन्तीत्यादेः । वो नमः । हे ऋषयः श्रोतुं मद्वचनं श्रोतुमर्हथ योग्या भवत । कर्मणाऽनुष्ठितेनेष्ट्यादिना नरकाद्यनर्थप्रापककर्ममूलच्छेदो यथा स्यात्तथा नः प्रत्युच्यन्ताम् ॥ २७ ॥

नारद उवाच—

नातिचित्रमिदं विप्रा वसुदेवो बुभुत्सया ।

कृष्णं मत्वाऽर्भकं यन्नः पृच्छति श्रेय आत्मनः ॥ २८ ॥

पदरत्नावली

आत्मनः स्वस्य श्रेयः शिवं नः पृच्छतीति यत् तदिदं नातिचित्तम्, मर्त्यस्वभावादिति शेषः ॥ २८ ॥

सत्यधर्मीया

वसुदेवेन वासुदेवे सकलफलरूपे समीपे सति कथमस्मान्प्रति कृतः प्रश्नः किमियदज्ञोऽयमिति कुतुकिनोऽन्यान्मुनीन्स्वयं स्वयम्भूर्नारद आह ॥ नेति ॥ हे विप्रा वसुदेव आत्मनः श्रेयो बुभुत्सया नोऽस्मान्पृच्छतीति यत्तदिदं नातिचित्रम् । यद्यस्मा-त्कृष्णमर्भकं मत्वा स्थित इति । इदं मननं कुतोऽमतिहेतुरित्यतोऽप्याह ॥ अर्भकमिति ॥ अर्भः को ब्रह्मा यस्य तमाद्याद्यम् ॥ २८ ॥

सन्निकर्षो हि मर्त्यानामनादरणकारणम् ।

गाङ्गं हित्वा यथाऽन्योऽम्भस्तत्रत्यो याति शुद्धये ॥ २९ ॥

पदरत्नावली

कोऽयं मर्त्यस्वभाव इति तत्राह– सन्निकर्ष इति ॥ तत्र गङ्गातीरे स्थितोऽन्यः पृथग्जनः बालिशः शुद्धं यद् गाङ्गं गङ्गासम्बन्धिजलं हित्वाऽन्याम्भस् तटाकादिस्थं जलं यथा याति तथाऽयं विचार इत्यर्थः ॥ २९ ॥

सत्यधर्मीया

कश्यपस्यापि प्राग्वसुदेवस्य मानवतनुमत इदं सम्भवदेवेति तन्मौर्ख्यं सदृष्टान्तमाचष्टे ॥ सन्निकर्ष इति ॥ मर्त्यानां सन्निकर्षोऽमर्त्यैः सन्निकर्षस्तदमर्त्यानादरणे कारणम् । हि लोकसम्मतम् । यथा तत्रत्यः । अमेहक्वतसित्रेभ्य इति त्यः । तत्र सन् यः पामरो गांगमम्भो हित्वाऽन्यदीयमम्भः शुद्धये याति । सति जगज्जनकेऽस्मान्पृच्छति तदनादरणेनेति तद्वदयमिति भावः ॥ २९ ॥

यस्यानुभूतिः कालेन लयोत्पत्त्यादिनाऽस्य वै ।

स्वतोऽन्यस्माच्च गुणतो न कुतश्चन रिष्यति ॥ ३० ॥

पदरत्नावली

यस्यानुभूतिः स्वरूपचैतन्यं कालेनास्य जगतो लयोत्पत्यादिना । तदन्तःपातित्वेन स्वतः स्वनिमित्तेनान्यस्मात् सत्वादिगुणाच्च कुतश्चनान्यतोऽधर्मतो न रिष्यति न हिंसितं न नष्टं स्यात् । रिष हिंसायामिति धातुः ॥ ३० ॥

दुर्घटभावदीपिका

यस्य भगवतोऽनुभूतिश्चैतन्यं काले संहारानुकूलकालेऽस्य देहस्य लयोत्पत्त्यादिना । आदिशब्देनोपद्रवो गृह्यते । लयोत्पत्त्युपद्रवैरन्यस्मात्पुरुषाद्गुणतः सत्त्वादिगुणतश्च कुतश्चन भूतादेर्न रिष्यति न नश्यतीति यत्स्वत इत्येतद्वै प्रमाणप्रसिद्धम् । जीवचैतन्यस्य देहोत्पत्त्या दुःखप्राप्तिरूपनाशो भवति । स नाश ईश्वरचैतन्यस्य नास्तीति वक्तुं देहोत्पत्त्या नाशो नास्तीत्युक्तम् । एतेन देहोत्पत्त्या नाशस्याप्रसक्तत्वाद् देहोत्पत्त्या नाशो नास्तीति कथनमयुक्तमिति चोद्यं पराकृतम् । जीवचैतन्यस्य स्वरूपनाशशून्यत्वं परमेश्वराधीनम् । एवमीश्वरचैतन्यस्य स्वरूपनाशशून्यत्त्वं देहनाशादिप्रयुक्तनाशशून्यत्व-मन्याधीनं न भवति इति ज्ञापयितुं स्वत इत्युक्तम् । एतेन स्वतो नाशस्याप्रसक्तत्वात् स्वतो नास्तीति कथनमयुक्तमिति दूषणं परिहृतम् ॥ ३० ॥

सत्यधर्मीया

तन्मननान्यथात्वं विवरीतुं तन्मेयस्वभावमाह ॥ यस्येति ॥ यस्यैतत्तनयस्यानुभूतिर्ज्ञानं न तथा । अस्य जगतो विश्वान्तर्निर्देशे तदुत्पत्त्यादिप्रयुक्तो-त्पत्त्यादिना च । स्वतो नयनादिकण्डूयनसमये नखमुखदलने जातेऽशनैरशनसमये रदनै-रशनारदने चेत्यवमादौ स्वतः । यथोक्तमेकादशे ।

‘जनोऽस्य हेतुः सुखदुःखयोश्चेत्किमात्मनश्चात्र हि भौमयोस्ततः ।

जिह्वां क्वचित्सन्दशति स्वदद्भिस्तद्वेदनायां कतमाय कुप्येत् ॥’ इत्यादिना ।

अन्यस्मादृष्यादेः सत्त्वादिगुणाच्च । कुतश्च नातर्किता दशनिपातादेश्च । नरिष्यति न नश्यति । नरिष्यतीत्युक्तिस्तस्यास्तत्तादात्म्यात् । अस्य जगतो यथा तथा । यस्यानुभूतिः काले ज्ञानं स्वतोऽत्यन्तं व्याप्तः । ‘स योऽतोऽश्रुत’ इति श्रुतेः । अन्यस्मादित्यादि पूर्ववत् ॥ ३० ॥

तं क्लेशकर्मपरिपाकगुणप्रवाहैरव्याहतानुभवमीश्वरमद्वितीयम् ।

प्राणादिभिः स्वविषयैरुपगूढमज्ञो मेने स सूर्यमिव मेघहिमोपरागैः ॥३१॥

पदरत्नावली

अज्ञो ऽज्ञानिवद् वसुदेवः स्वविषयैः स्वेन गृह्यमाणैः प्राणादिभिः प्राकृतैर्गूढं मेन इत्यन्वयः । क्लेशैरविद्यास्मितारागद्वेषाभिनिवेशैः कर्मपरिपाकैः पुण्यापुण्यफलै-स्त्याज्यानुभोगैः, परितापेति पाठे अध्यात्मिकाभिधेयैर्विकारैः, भौतिकैर्गुणप्रवाहैः सृष्ट्यादि-भिरव्याहतोऽनभिभूतोऽनुभवो ऽनुभावो माहात्म्यं यस्य स तथा तम् । अत्र हेतुगर्भ-विशेषणद्वयमाह– ईश्वरमद्वितीयमिति ॥ उपरागो राहुणा मेघादिभिराच्छन्नप्रकाशरूपं सूर्यमप्रकाशं मन्यते यथा तथेति ॥ ३१ ॥

दुर्घटभावदीपिका

क्लेशकर्मपरिपाकगुणप्रवाहैः क्लेशापादकानि यानि कर्माणि तेषां परिपाकैर्गुणप्रवाहैः सत्त्वादिगुणप्रवाहैश्चाव्याहतानुभवोऽव्याहतसामर्थ्यमीश्वरमद्वितीयं समा-भ्यधिकशून्यं, स्वविषयैः स्वकार्यकरैः प्राणादिभिः । प्राणशब्देन मुख्यवायुरादिशब्देन ब्रह्मरुद्रादयो गृह्यन्ते । मुख्यवायुब्रह्मादिभिरुपगूढमाच्छन्नं भगवन्तं सोऽज्ञः सर्वस्याकर्तारं मेने । अत्र दृष्टान्तमाह– सूर्यमिवेति ॥ अज्ञो मेघहिमोपरागैरुपगूढं सूर्यप्रकाशमप्रकाश-मिवाप्रकाशं यथा मन्यते तथेति । अयं भावः । मेघादिभिराच्छादनानन्तरं सूर्यस्य प्रकाशो नास्तीति यथा भ्रान्तिर्भवति । एवं ब्रह्मादिभिः स्वस्वव्यापारे कृते भगवतः सर्वकर्तृत्वं नास्तीति भ्रमो भवतीति । एतेन दृष्टान्ते दार्ष्टान्तिके च भ्रान्तिप्रकारो नोक्त इति शङ्का परास्ता । दृष्टान्तेऽप्रकाशमित्यस्य दार्ष्टान्तिके सर्वस्याकर्तारमित्यस्य शेषेण भ्रान्तिप्रकार उच्यत इत्यूरीकरणात् ॥ ३१ ॥

सत्यधर्मीया

यो नरिष्यति क्लेशप्रापको यः कर्मपरिपाकस्तत्प्रापका ये गुणास्तेषां प्रवाहाः परम्परास्तैरव्याहतोऽनुभवो ज्ञानमनुभावो वा यस्य स तम् । तत्र हेतुरीश्वरमिति । तदखण्डत्वे च हेतुरद्वितीयमिति । एतादृशं कृष्णम् । यथा मेघेन हिमेनोपरागेण राहुग्रहणेन च छादितं सूर्यमसूरिरप्रकाशं मनुजो मनुते तथा गुणप्रवाहैः प्राणादिभिर्गूढं सत्त्वरजसस्तमसां शुक्लरक्तनीलत्वेन हिममेघोपरागाणां तथात्वेन तैर्गूढं सूर्यमिवेति निदर्शनम् । एवमन्व-यान्तरमिति ज्ञेयम् । केचिन्माञ्जिवर्णाश्चेति रामायणस्योक्तेरभ्रस्य रक्तता ज्ञेया । स्वविषयैः स्थूलेन्द्रियगोचरैः प्राणादिभिः प्राकृतैरुपगूढं मेने । प्राकृतशरीरं मेन इत्ययमज्ञोऽतः प्रश्नो युक्त इत्याशयः । स्वविषयैः स्वमातृमातृकैः प्राणादिभिर्बलादिभिश्चेष्टादिभिर्वा गूढं भवन्तमर्भकं मेन इत्यज्ञ इति वा । असुरविषयैरितरेषामिति वा ॥ ३१ ॥

अथोचुर्मुनयो राजन्नाभाष्यानकदुन्दुभिम् ।

सर्वेषां शृण्वतां राज्ञां तथैवाच्युतरामयोः ॥ ३२ ॥

पदरत्नावली

प्रश्नप्रतिवचनमकृत्वा यत्किञ्चित् कथनं किं केन सङ्गतमिति मन्दा-शङ्कां परिहर्तुमाह– अथेति ॥ ३२ ॥

सत्यधर्मीया

प्राज्ञा एतदज्ञताज्ञापनेनैव समयमगमयन्किंवोत्तरं तत्पृष्टस्यावदन्नित्यत आह ॥ अथेति । मुनयः सर्वेषां राज्ञां शृृण्वतां तथा रामकृष्णयोः शृृण्वतोश्च । आनक-दुन्दुभिमाभाष्योचुः ॥ ३२ ॥

कर्मणा कर्मनिर्हार एष साधुनिरूपितः ।

यच्छ्रद्धया यजेद् विष्णुं सर्वयज्ञेश्वरं मखैः ॥ ३३ ॥

पदरत्नावली

साधुभिर् विद्वद्भिर्निरूपितः ॥ ३३ ॥

दुर्घटभावदीपिका

श्रद्धया सर्वयज्ञेश्वरं विष्णुं मखैर्यजेदिति यत्तेन कर्मणा एष मोक्षफलदत्वेन प्रमाणप्रसिद्धः । कर्मनिर्धारः साधुनिरूपितः साधुभिर्निरूपित इति । एतेन पूर्वोत्तरार्धयोरनन्वय इति शङ्काऽनवकाशः । इति तेनेति पदयोः शेषेणान्वयस्योक्तत्वात्

॥ ३३ ॥

सत्यधर्मीया

यद्यप्येतदपायोपायाः सन्ति बहवस्तथाऽपि वित्ततच्चित्ताः स मे मुनय इदं निर्हारकारणमैरयन्नितीरयति ॥ कर्मणेति । साधु यथा तथा निरूपिता शास्त्रे । साधुभि र्निरूपित इति सङ्ग्राह्यत्वे हेतूक्तिः । एष वक्ष्यमाणः सर्वयज्ञेश्वरं विष्णुं मखैर्यज्ञैश्च यजेत्पूज-येदिति यः स एष निरूपित इति वाऽन्वयः ॥ ३३ ॥

चित्तस्योपशमो यो वै कविभिः शास्त्रचक्षुषा ।

दर्शितः सुगमो योगो धर्मश्चात्ममुदावहः ॥ ३४ ॥

पदरत्नावली

कर्मणा कर्मनिर्वापणं पङ्काम्भसा पङ्कप्रक्षालनमिवानुपपन्नमित्याशङ्क्य ब्रह्मार्पणबुद्ध्याऽनुष्ठितं तत् समर्थं भवति चिकित्सितद्रव्यमिवेत्याशयेनाह– चित्तस्येति । कविभिः, ‘शमो मन्निष्ठता बुद्धेः’ इति शास्त्रचक्षुषा यश्चित्तस्योपशमो भगवदेकनिष्ठालक्षणो दर्शितः । सुगमो योग उपायश्चिकित्सालक्षण आत्मनः परमात्मनः मुदावहः सन्तोषजनको धर्मश्चाहिंसालक्षणः कर्मनिर्वापणसाधनम् ॥ ३४ ॥

सत्यधर्मीया

मखैरिति युष्मन्मुखतो यदुक्तं तत्कर्मकरणक्षणे पुनस्तदन्तरकर्मा-करणात्कर्मणाकर्मनिर्हारो दुश्शकः । भित्तेर्जलेन सम्मार्जने मृत्तिकैवेति नयत इति न युक्तिसहमिति वदतो मम शङ्का बहूपपादनेन श्लोकपञ्चके परिहरन्ति ॥ चित्तस्येति ॥ चित्तस्य मनस उपशमो विषयेभ्य आहरणलक्षणः । यः कविभिः शास्त्रचक्षुषा तदुपरूप-मात्रग्रहेण दर्शितः । स सुगमो योगः कर्मबीजभर्जनोपायोऽयमेव चात्मनः स्वस्य मुदावहो धर्मो नेतर इत्यर्थः । चशब्दोऽवधारणे । यस्योपशम उपशान्तिरक्रोधोपरोध इति यावत् । तस्य चिज्ज्ञानम् । तथा यः पारत्रिक्यः सम्पदश्च सुगमा इत्यप्यर्थः ॥ ३४ ॥

अयं स्वस्त्ययनः पन्था द्विजातेर्गृहमेधिनः ।

यच्छ्रद्धयाऽऽप्तवित्तेन शुक्लेनेज्येत पूरुषः ॥ ३५ ॥

पदरत्नावली

उक्तं निगमयति– अयमिति । अयं ब्रह्मार्पणबुद्ध्याऽनुष्ठितः । स्वस्ति मङ्गलस्य निष्पापस्य मोक्षस्य वा अयनमाश्रयः । द्विजातेस्त्रैवर्णिकस्य गृहमेधिनः गृहस्थस्य । आप्तवित्तेन न्यायार्जितधनेन । शुक्लेन निर्मलेन ॥ ३५ ॥

सत्यधर्मीया

स्वस्तीत्यव्ययमिति पक्षे स्वस्त्ययनः स्वस्त्याश्रयः । अयनशब्दः स्त्रीलिङ्ग इत्ययन इति सम्भवति । विस्तृतश्च प्राक् तत्प्रकारः । स्वस्तिरस्तु न इत्यादेः स्वस्तेरयन इति च । अयं मङ्गलाश्रयो मार्गः । अधिकार्यत्र क इत्यत आहुः ॥ द्विजातेर् गृहमेधिनः गृहस्थाश्रमिण इति ॥ स किमात्मेत्यतो वदन्ति । श्रद्धया शुक्लेन न्यायार्जितेनेति निर्मलेन वित्तेन पुरुषं भगवन्तमिज्येतेति यः सोऽयमित्यन्वयः । आप्तेति सम्बोधनं च ॥३५॥

वित्तैषणां यज्ञदानैर्गृहैर्दारसुतैषणाम् ।

आत्मलोकैषणामेवं कालेन विसृजेद् बुधः ।

ग्रामे त्यक्तैषणाः सर्वे ययुर्धीरास्तपोवनम् ॥ ३६ ॥

पदरत्नावली

इदानी शुद्धान्तःकरणस्य सन्न्यासप्रकारं निरूपयति– वित्तैषणा-मिति । बुधः संसारस्यासारतां विद्वान् यज्ञदानैरनुष्ठितैर्वित्तैषणां वित्तेच्छां विसृजेदिति सर्वत्र योज्यम् । गृहैर् गृहस्थाश्रमैः सह दारसुतैषणाम् । आत्मन इहामुत्रलोके । धीरास्त्याग-शक्तिमन्तः । ग्रामे ग्राम्यविषये त्यक्तैषणा इत्यनेन ब्रह्मचारिणामपि सन्न्यासं सूचयति । ‘यदहरेव विरजेत् तदहरेव प्रव्रजेत्’ इति विधिः ॥ ३६ ॥

दुर्घटभावदीपिका

बुधो यज्ञदानैर्विष्णुप्रीत्यापादकयज्ञदानैरनुष्ठितैर्निमित्तैर्वित्तैषणां सुवर्णादिद्रव्येच्छां गृहे सहदारसुतैषणां च विसृजेत् । एवं यज्ञदानैरेव कालेन कालक्रमेणात्म-लोकैषणां स्वशरीरेच्छाम् । शरीराभिमानमिति यावत् । विसृजेदिति । अयं भावः ॥ विष्णु- प्रीत्यर्थमनुष्ठितयज्ञदानैरन्तःकरणशुद्धौ जातायां विष्णुप्रसादेन वित्तादीच्छा गच्छतीति ॥३६॥

॥ इति श्रीसत्याभिनवतीर्थविरचितायां दुर्घटभावदीपिके उत्तरार्धे द्विसप्ततितमोऽध्यायः ॥ १०–७२ ॥

सत्यधर्मीया

सन्न्यासस्तु विरक्तैरतिविरक्तैश्चेति द्विविधैर्ग्राह्यः । तत्र नानुपनीतस्य नाधिकारः । अधिकारश्च गृहिणाम् । तत्र द्वौ पक्षौ श्रौतः स्मार्तश्चेति । यदहरेव विरजे-त्तदहरेव प्रव्रजेदित्याद्युदित आद्यः । अतिविरक्तोपनीतपरिणतविषयः । द्वितीयस्तु पित्रादि-ऋणपरिहारानन्तरं ग्राह्य इति विवेकं मनसि कृत्वा वदन्ति ॥ वित्तैषणामिति ॥ यज्ञाश्च दानानि च तैर्वित्तैषणां द्रव्यापेक्षां विसृजेदिति सर्वत्रान्वेतव्यम् । विसृजेत् । बुधः संसारा-सारतावित् । गृहैस्तत्तदाश्रमैः सह दारसुतैषणाम् । धीरो धैर्यं तद्विसर्गहेतुरित्यर्थः । कालेन ज्ञातेन कालेन भगवता निमित्तेनात्मलोकैषणामात्मनः स्वस्य लोेकविषयिणीं वैकुण्ठादि-लोकेच्छां विसृजेत् । एकान्तिकत्वात् । स्वत एवागमिष्यति न याचनोचितेति भावः । एवं कालेन क्रमेणेत्यप्यर्थः । ग्राम्ये स्त्रीभोगे त्यक्तैषणाः सर्वे धीरा ब्रह्मचारिणोऽपि तपः प्रतिवनं ययुः । सन्न्यासिनः सन्तो वाऽतिविरक्ताः ॥ ३६ ॥

ऋणैस्त्रिभिर्द्विजो जातो देवर्षिपितृणां प्रभो ।

यज्ञाध्ययनपुत्रैस्ताननिस्तीर्य त्यजन् पतेत् ॥ ३७ ॥

पदरत्नावली

तत्रातिशयितवैराग्याभावे एवंविधस्य सन्न्यासानधिकार इति स्मार्त-पक्षमाहुः– ऋणैरिति ॥ त्रिभिर्ऋणैर्युक्तो जातस् तान् ऋणविशेषान् अनिस्तीर्य गृहादि त्यजन् अधः पतेत् । ऋणबीजभर्जनवैराग्याग्न्यभावादिति शेषः ॥ ३७ ॥

ब्रह्मचर्यसुताभ्यां वै ऋषिपित्रोर्महामते ।

यज्ञैर्देवर्णमुन्मुच्य निर्ऋणोऽशरणो भवेत् ॥ ३८ ॥

पदरत्नावली

तत्र ऋणनिवारणप्रकारमाह– ब्रह्मचर्येति । अनेन वेदाध्ययनं सूचयति । अशरणः गृहरहितः ॥ ३८ ॥

सत्यधर्मीया

विरक्तेन इयदुनष्ठाय सन्न्यासो ग्राह्य इति तदाहुः ॥ ऋणैरिति ॥ जात उत्पन्नो द्विजो देवऋषिपितॄणां चेति त्रिभि ऋणैः । क्रमात्तद्दापकानाहुः ॥ यज्ञे-त्यादिना ॥ यज्ञेन देवानामृणपरिहारः । अध्ययनेन ऋषिऋणपरिहारः । पुत्रेण पितृ-ऋणमिति । तान्देवादींस्त्रीन् अनिस्तीर्य पुत्रेण जय्य इत्यादेस्तद्द्वारा जित्वेति यावत् । त्यजन्गृहाद्याश्रमं पतेन्नरकाद्यनर्थमृणबाधया प्राप्नुयात् । ननिस्तार्येति पाठे स एवार्थः । अतिविरक्तस्य तु तन्महिम्नैव तदादिऋणपरिहार इति मन्तव्यम् । ब्रह्मचर्यमत्र वेदाध्ययनम् । अध्ययनेति प्रागुक्तेः । पुत्रेति पुरोदीरणादत्रापि ब्रह्मचर्यपुत्राभ्यां चेति वक्तव्ये यद्ब्रह्मचर्य-सुताभ्यां चेत्याहुस्तेन ब्रह्मचर्यं च सुता च ताभ्यां तच्च सुतश्चेति ताभ्यामावृत्त्या सुतया सुतेन चर्षिपित्रो ऋणमुन्मुच्य । ‘कन्योदिता बत कुलद्वयतारिणीति’ । पुत्राच्छतगुणं पुत्री यदि पात्रे प्रदीयत इत्यादेः । स्वायम्भुवययात्यादीनां दौहित्रयज्ञाष्टकादिभ्य ऋणमुक्तिः प्रसिद्धा चेति विशेषं सूचयामासुरित्यवसेयम् । हे महामते वसुदेव यज्ञैर्देवानामृणमुन्मुच्यैव निर्ऋणोऽशरणो गृहरहितो ऽ एव परमात्मैव शरणं यस्य सो वा भवेत् ॥ ३७, ३८ ॥

वसुदेव भवान् नूनं भक्त्या परमया हरिम् ।

जगतामीश्वरं भेजे स यद् वां पुत्रतां गतः ॥ ३९ ॥

॥ इति श्रीमद्भागवते दशमस्कन्धे द्विसप्ततितमोऽध्यायः ॥

पदरत्नावली

कर्मनिर्हारणप्रश्नस्य प्रतिवचनमुक्त्वा जनसङ्ग्रहणायेदं त्वया पृष्ट-मस्माभिरिति तदनुस्मृत्य प्रोक्तं भवतस्तज्जन्मान्तरानुष्ठानशुद्धस्य नेदानी कर्तव्यमस्तीति ममत्वं ध्वनयन्तः सम्बोधयन्ति– वसुदेवेति ॥ नूनं निश्चयः । यद् यस्माद् भेज इत्यनेन लिटाऽनद्यतनेन परोक्षवाचिना बहूनि पुरातनानि हरिभक्तिनिमित्तानि जन्मानि सूचितानि ॥ ‘बहूनां जन्मनामन्ते ज्ञानवान् मां प्रपद्यते’ इति स्वोक्तेः ॥ ३९ ॥

॥ इति श्रीमद्भागवतटीकायां श्रीविजयध्वजतीर्थकृतायां पदरत्नावल्यां

दशमस्कन्धे उत्तरार्धे द्विसप्ततितमोऽध्यायः ॥

सत्यधर्मीया

जानता त्वया कृतः प्रश्नो लोकोद्धृत्यै तदुत्तरं च तदर्थमेवमस्माभि-रुक्तम् । वस्तुतस्तु त्वमेवंविध इति न तवावश्यकमिति तमुत्साहयन्त आहुः ॥ वसुदेवेति ॥ हे वसुदेव भवान्परमया देवकी सर्वदेवतेत्यादेरुत्तमया देवक्या सह जगतामीश्वरं हरिं गतः शरणं यातो नूनं निश्चयः । कुतः स इत्यत आहुः । यद्यतः स हरिर्वां युवयोः पुत्रतां भेजेऽत इति । एवमर्थापने वामिति सुलग्नम् । परमया देवक्या सहेदानीं पुरा च पुरुषजन्मसु सभार्यो भवान्भेजे नूनं यतः स वां पुत्रतां गत इति वाऽन्वयः ॥ ३९ ॥

॥ इति श्रीसत्यधर्मयतिकृतायां श्रीमद्भागवतटिप्पण्यां दशमस्कन्ध उत्तरार्धे द्विसप्ततितमोऽध्यायः ॥ १०–७२ ॥