तथाऽनुगृह्य भगवान् गोपीनां स गुरुर्गतिः
॥ अथ एकसप्ततिरध्यायः ॥
श्रीशुक उवाच—
तथाऽनुगृह्य भगवान् गोपीनां स गुरुर्गतिः ।
युधिष्ठिरमथापृच्छत् सर्वांश्च सुहृदोऽव्ययम् ॥ १ ॥
पदरत्नावली
श्रोत्रादीनां भक्त्यतिशयजननायाविस्मरणायातीताध्यायेषूक्तं कृष्णविक्रमं सङ्क्षेपतोऽनुक्रामत्यस्मिन्नध्याये । तत्रादावुपोद्घातं रचयति– तथेति । यथोपदिष्टं ज्ञानं सुदृढं स्यात् तथा ज्ञानोपदेशेनानुगृह्य । गतिर् मुक्तिलक्षणानन्ददत्वेनेत्याशयः । अव्ययमनामयं कुशलमित्यर्थः ॥ १ ॥
सत्यधर्मीया
अत्रापि भक्तिमार्गमेव व्यक्तीकर्तुं कृष्णभार्याणां कृष्णायाश्च संवादा-दिकं प्रतिपाद्यते । तत्रादौ धर्मादिकुशलालापादिकरत्पीठिकां रचयति ॥ तथेति ॥ गुरु-रभिहितहितो गतिर्गम्यस्थानं भगवान् गोपीनां गोपीस्तासामुपरि वाऽनुगृह्यानुग्रहं कृत्वा स कृष्णोऽथ गोपायापनानन्तरं युधिष्ठिरम् । गवियुधिभ्यां स्थिर इति षत्वं सप्तम्या अलुक् । धर्मं तथाऽन्यांश्च सुहृदोऽव्ययं क्षेममपृच्छत् ॥ १ ॥
त एवं लोकनाथेन परिपृच्छ्य सुसत्कृताः ।
प्रत्यूचुर्हृष्टमनसस्तत्पादेक्षाहतांहसः ॥ २ ॥
पदरत्नावली
तस्य हरेः पादेक्षया चरणनिरीक्षणेन हतांहसः निर्मूलपापाः ॥ २ ॥
सत्यधर्मीया
लोकनाथेन श्रीकृष्णेनैवमुक्तरीत्या परिपृच्छ्य पृष्ट्वा । सुसत्कृता बहु-बहुमानितास्तत्पादयोर्वीक्षा निरीक्षणं तया हतमंहो दुरितं येषां ते तथा । कृष्णाङ्घ्रि-दृष्टिनष्टदुरिष्टा हृष्टमनसश्च प्रत्यूचतुः ॥ २ ॥
कुतोऽशिवस्त्वच्चरणाम्बुजासवं महन्मनस्तो मुखनिःसृतं क्वचित् ।
पिबन्ति ये कर्णपुटैरलं प्रभो देहं भृतस्तत्कृतमुछ्वसन्ति हि ॥ ३ ॥
पदरत्नावली
किंविधां कथामूचुरिति तत्राह– कुत इति ॥ ये जनाः कर्णपुटैर् महन्मनस्तो मुखनिस्सृतं महतां व्यासादीनां मनस्तः मनःपूर्वकं मुखकमलान्निस्सृतं गलितं त्वच्चरणाम्बुजासवं तव पादकमलकथामृतं क्वचित् कस्मिञ्चित् प्रसङ्गेऽपि अलं पिबन्ति अलम्बुद्धिराहित्येन सेवन्ते तेषामशिवो ऽशुभः पन्थाः कुतः स्यादित्यन्वयः । कीदृशोऽ-शिवमार्ग इति तत्राह– देहम्भृत इति ॥ देहम्भृत उदरम्भरास् तत्कृतमशिवमार्गप्राप्तं व्यसनं प्रेक्ष्य उच्छ्वसन्ति दीर्घं श्वसन्ति यद्वा ये देहम्भृतः शरीरिणः कर्णपुटैस् त्वच्चरणाम्बुजासवं पिबन्ति तत् तस्य तव कृतं चरितमुच्छ्वसन्ति लोके उपदिश्य विकासयन्ति विस्तारयन्ति तेषामशिवः (पन्थाः) कुत इति ॥ ३ ॥
सत्यधर्मीया
हे प्रभो । कर्णपुटैर्महन्मनस्तो महतां व्यासादीनां मनस्तो मनःपूर्वकं मुखतो निःसृतं त्वच्चरणाम्बुजासवं तव चरणकमलकथामृतं क्वचिदपि पिबन्ति तेषामशिवो न विद्यते शिवं मङ्गलं यस्मिन्स व्ययः कुतः स्यात् । ते चालं देहं भृतो बिभ्रति ये ते तत्कृतं तत्प्रापककर्मकर्तारं जनं वीक्ष्योच्छ्वसन्ति ह । अयं वृथा नश्यतीति क्लिश्यतीति भावः । हीतीदमर्थस्य प्रसिद्धिमाह । तत्कृतं तव व्यापारमुच्छ्वसन्ति शिष्यप्रशिष्यद्वारा प्रकाशयन्ति तेषां कुतोऽशिव इति वा । शिवं मोक्षे सुखे भद्रे शिवं भद्रमिति विश्वानेकार्थध्वनि पदमञ्चर्यौ । आश्वमेधिके पर्वणि गुरुशिष्यसंवादे नो मार्गाः शिवाश्च स्युरिति । तथाऽ-न्यत्रापि एतादृशः शिवः पन्था इति प्रयोगात्पुल्लिङ्गो मङ्गलवाचीत्यशिवोऽमङ्गलमिति वा । ये देहं भृतस्तदभिमानवन्तस्तेषां चिज्ज्ञानं तत्कृतं स्वकर्माद्युच्छ्वसन्ति क्लिश्यन्ति तेषां कुतः । सार्वविभक्तिकस्तसिः । कौ शिव इति वा । परत्र क्लेश इति किं वक्तव्यमित्यर्थः ॥ ३ ॥
तं त्वाऽऽत्मधामविबुधात्मगतिं त्र्यवस्थमानन्दसम्प्लवमखण्डविकुण्ठबोधम् ।
कालोपसृष्टनिगमावपनात्तयोगमायाकृतिं परमहंसगतिं नताः स्मः ॥ ४ ॥
पदरत्नावली
ननु नारायणचरणकमलामृतपायिनाममङ्गलं नास्तीत्यनेनान्येषामस्ती-त्यायातं तत्र भवन्तः के इति तत्राह– तं त्वेति । तं त्वा नताः स्म इत्यन्वयः । यस्य पादाब्जसुधापायिनाममङ्गलं नास्ति तम् । अस्य देवदत्तवदन्याधीनत्वे किमेतन्नमनफलमित्य-त्राहुर् आत्मधामेति आत्मैव धाम गृहलक्षणम् आश्रयो यस्य स तथा तं स्वाश्रयमित्यर्थः । स्वाश्रयत्वं चेतोऽपि महता देवाद्यन्यतमेन नियतेन किन्न स्याद् अत्राहुर् विबुधेति । विबुधानामात्मगतिं स्वभावगमकं स्वामिनमाश्रयं वा । स्वभावगमकत्वं कथम् ? अत्राहुः– त्र्यवस्थमिति ॥ तिस्रोऽवस्था जाग्रदाद्या यस्मात् स तथा तम् । अनेन देवानां जाग्रल्लक्षणानिमिषस्वभावां दैत्यानां सुप्तिलक्षणाज्ञानस्वभावं मनुष्याणां स्वप्नलक्षणमिश्रज्ञान-स्वभावं गमयतीति ज्ञातव्यम् । नन्ववस्थात्रयनियन्तृत्वे तत्कृतं श्रमलक्षणं दुःखमनिवारित-मापतेद् देवदत्तवत् ? अत्राहुः– आनन्देति । आनन्दानां सम्प्लवो महौघो यस्मिन् स तथा तं पूर्णानन्दमित्यर्थः । नन्वनुभवलक्षणसाधनाभावात् पाषाणानामपि पूर्णानन्दः किं न स्यात् ? अत्राहुः– अखण्डेति । अखण्डः निरन्तरः विकुण्ठो ऽविमिश्रः बोधो यस्य स तथा तम् । स्वाभिन्ननिष्कल्मषज्ञानमित्यर्थः । नन्वेवंविधस्य जननं किमर्थम् ? अत्राहुः– कालेति । कालेन गुणेनोपसृष्ट उत्सन्नो निगमो वेदादिशास्त्रनिचयस् तस्यावपनाय पुनरभि-व्यक्तिलक्षणाङ्कुरीकरणाय आत्ता अङ्गीकृता योगमायाकृतिः स्वरूपभूतेच्छया देहो येन स तथा तम् । ‘आकारो देह आकृतिः’ इति यादवः । उक्तार्थसर्वस्वे किं प्रमाणम् ? अत्राहुः– परमेति । परमहंसानां वेदान्तैकनिष्ठानां सन्न्यासिनां गर्तिर्ज्ञानं यस्मिन् स तथा तम् । भगवत्स्वरूपविषयं परमहंसज्ञानं प्रमाणमितरेषामित्यर्थः ॥ ४ ॥
सत्यधर्मीया
पिबन्ति ये कर्णपुटैरिति पारोक्षोक्त्या स्वेषां तदितरताऽपाततः प्रतीतां तामपाकर्तुं तन्मध्ये वयमित्यवयन्ति ॥ तमिति ॥ आत्मधाम आत्मनो धामाश्रयस्तं प्रतिष्ठितः स्वे महिम्नीत्यादेः । विबुधानां ज्ञानिसामान्यस्यात्मगतिं स्वरूपप्रापकमात्मना धात्रा । आत्मा सुधौतः सुमना विरिञ्चश्चेति कथ्यत इत्युक्तेः । धाम तेजआदिकं येषां ते च ते विबुधाश्च तेषामात्मगतिदं वा । अवस्थं तिस्रोऽवस्था जाग्रदाद्या यस्मात्सः । एकैकस्यावस्थात्रिकदातेति वा । देवानां जागरणं दैत्यानां सुप्तिलक्षणाज्ञानं मानुषाणां स्वप्नलक्षणमिश्रज्ञानस्वभावं प्रापयतीति त्र्यवस्थं वा । आनन्दसम्प्लवम् आनन्दस्य सम्प्लवो बाहुल्यं यस्य स तम् । अखण्डो विकुण्ठः सर्वगुणाभिन्नोऽप्रतिहतो बोधो यस्य तम् । एतादृशे मनुष्यलोके कर्मवश इव कुतो जात इत्यत आहुः ॥ कालेति ॥ कालेनोपसृष्टाः सोपसर्गा उत्सन्ना इति यावत् । निगमा वेदास्तेषामावपनं व्यक्तिकरणरूपपुनरावापस्तस्मै आत्ता स्वीकृता योगमायया नित्यावियोगिन्याऽऽत्मेच्छयाऽऽकृतिर्देहो येन स तम् । कालेन यवनेनोपसृष्टा ये निगमा वाऽन्तरपुराणि तेभ्य आवपनमन्यत्र स्थापनं तदर्थम् आत्ता स्वीकृता योग उपायस्तत्साधिका या मायाशक्तिस्तस्याः कृतिर्व्यक्तिर्येन तम् । कालोपसृष्टानामीष-त्तदुपद्रवाणां निगमे नगर इति द्वारकायामावपनमत्रत्यानां रात्रौ तत्र स्थापनं तदर्थे आत्ता स्वीकृता योगमायायाः कृतिरभिव्यञ्जनं येन स तं वा । एतदर्थसर्वस्वे मानमाहुः । परमहंसानामतिशुद्धानां वेदान्तनिष्ठानां गतिर्ज्ञानं यस्मिंस्तं तज्ज्ञानविषयीकृतवैभवमित्यर्थः । हंसगतिर्हंसेन गतिर्गमनं यस्य स तस्य परम इत्युत्तम इति परमहंसगतिस्तं वा । परमहं बहूत्सवं सगतिमस्माभिरनीश्वरैः सहापि गतिर्गमनादिकं यस्य स तं वा । अनेन कारुण्यं ध्वन्यते । आवपनार्थं योग उपायो येन तम् । आयाकृतिं सकललाभात्मकदेहवन्तम् । आकारो देह आकृतिरिति यादवः । तं त्वा त्वां तं तु नताः स्मः । तन्तुश्चासावात्मा च पुत्रो ब्रह्मा तस्य धाम चासौ विबुधात्मगतिस्तं वा । तिस्त्रोऽवस्था आकारविशेषाः श्रीभूदुर्गेति यस्याः सा च सा मा च रमा च तस्या आनन्दसम्प्लवो येनेति वा । तिस्त्रोऽवस्था यस्मात्स चासौ(?) तम् । नन्दस्य नन्दगोपस्य सम्यक् सम्प्लवो वारिधिपारणे नौकायितं तं वरुणागारं गत्वा नीतवान्नन्दमिति ॥ ४ ॥
इत्युत्तमश्लोकशिखामणिं जनेष्वभिष्टुवत्स्वच्युतकौरवस्त्रियः ।
समेत्य गोविन्दकथां मिथोऽगृणन् नृलोकगीतां शृणु वर्णयामि ते ॥ ५ ॥
पदरत्नावली
अच्युतस्य कौरवाणां च स्त्रियः समेत्य एकत्र मिलित्वा यां कथाम-गृणन् तां वर्णयामि त्वं शृणु ॥ ५ ॥
सत्यधर्मीया
उत्तमश्लोकशिखामणिं जनेष्वित्यभिष्टुवत्सु । अच्युतस्य तथा कौरवाणां च स्त्रियः समेत्यैकत्र मिलित्वा मिथःपरस्परम् । नृलोको विशिष्टनृणां लोकः स्वर्गादिस्तत्र गीताम् । यथोक्तम् । शर्मणा नृपत्नीरित्यृक्टीकायाम् । नरो देवाः प्रधानपुरुष-त्वादिति । गोविन्दकथामगृणन् । तां तेऽनुवर्णयामि त्वं च तां शृृण्वित्यन्वयः ॥ ५ ॥
द्रौपद्युवाच—
हे वैदर्भ्यच्युतो भद्रे हे जाम्बवति कौसले ।
हे सत्यभामे कालिन्दि शैब्ये रोहिणि लक्षणे ॥ ६ ॥
पदरत्नावली
प्रश्नप्रतिवचनपूर्वकां शृृण्विति न गानवदत्रेति निवेकायाह– द्रौपदीति । हे षोडशसहस्रपत्न्यः । पृथङ्नामग्रहणं बाहुल्यान्न कृतम् । स्वेच्छया लोकमज्ञजनमनुकुर्वन् अच्युतः स्वयं वो युष्मान् यथा येन विधिना उपयेमे तं विधिमस्माकं ब्रूतेत्यन्वयः
॥ ६–७ ॥
हे कृष्णपत्न्य एतन्नो ब्रूत वो भगवान् स्वयम् ।
उपयेमे यथा लोकमनुकुर्वन् स्वमायया ॥ ७ ॥
सत्यधर्मीया
हे वैदर्भि रुग्मिणि । हे भद्रे हे जाम्बवति हे कोसले सत्ये तस्या एव नीलेति नामान्तरम् । हे सत्यभामे हे कालिन्दि । शैब्ये मित्रविन्दे भो लक्षणे । यत्तु श्रीधरीये रोहिणी नाम काचिदष्टमहिषीतुल्येति व्याकृतं तदुत्तरत्र तदुत्तरानीरणादस्वरसम् । किञ्चाष्टमहिषीतुल्येति तु बाधितमिति बोधनीयम् । किञ्च महिषीतुल्येति स्थूलदृष्टित उक्तौ चाष्टेति स्पष्टेदंमुद्रणविरोधो वज्रलेपायित इत्यलम् । रोहमारोहमुत्सङ्गः सोऽस्या अस्तीति रोहिणी । उपसर्गाश्च धातुलीनार्थद्योतका इति स्थितेः । मतुबर्थश्च प्राशस्त्यं सहोरूरिति-वद्वारारोह इति सर्वविशेषणमेवेति केचित् । वस्तुतस्तु जाम्बवत्त्या एव नामान्तरम् । प्रदाय रोहिणीं शुभां मणिं च तामित्याचार्योक्तेः । नायं विवाहक्रमः । तथात्वे जाम्बवत्या रुग्मिण्यव्यवधानेनाभिधातव्यत्वात् । नाप्युत्तमक्रमः । रुग्मिण्यनन्तरं सत्यभामायास्तदनन्तरं जाम्बवत्यास्तासां मध्ये जाम्बवती प्रधाना । रामेण तुल्या जाम्बवती प्रियत्व इत्युक्ते-र्वक्तव्यत्वात् । कः क्रमोऽत्रेति चेत्सत्यम् । प्रत्यर्थमादितो रुग्मिणीसत्यभामाया औत्तम्याद्-ग्रहणम् । जाम्बवत्याश्च रमावेशाभावदशायां किञ्चिन्न्यौन्यं षण्णामितरासामिति यथायथं ग्रह इति सम्भवात् । यथोक्तमाचार्यैः
‘…………. कृष्णस्यान्याः किञ्चिदूनाश्च तस्याः ।
यदाऽऽवेशो बहुलः स्याद्रमायास्तदा तासु प्रीयते केशवोऽलम् ।
यदा वंशो ह्रासमुपैति तत्र प्रद्युम्नतो विंशगुणाधिकाः स्युरित्यादिना ।
हे कृष्णपत्न्य शतोत्तरषोडशसङ्ख्याः । पत्न्य इत्यनेन सर्वाऽपि तत्कर्तृकयज्ञफलभोक्त्र्य इति पाणिगृहीत्य इति सूचयति । स्वमायया लोकमनुकुर्वन् स्वयं प्रधानपुरुषः सन् यथा येन प्रकारेण व उपयेमे एतन्नोऽस्मान्प्रति ब्रूत ॥ ६७ ॥
रुग्मिण्युवाच—
चैद्याय माऽर्पयितुमुद्यतकार्मुकेषु राजस्वशेषभटशेखरिताङ्घ्रिरेणुः ।
निन्ये मृगेन्द्र इव भागमजावियूथात् तच्छ्रीनिकेतचरणाब्जसमर्चनाय ॥८॥
पदरत्नावली
राजसु जरासन्धादिषु । मा माम् । अशेषभटानामित्युपलक्षणम् । राज्ञां शेखरितः मूर्धसु शेखर इव अङ्घिरेणुर्येन स तथा । भागं तदर्थत्वेन क्लृप्तांशम् । न ग्राम्यभोगेच्छयेत्याह– श्रीनिकेतेति । श्रीत्यनेन तद्भागं सूचयति । अजानामवीनां यथा
॥ ८ ॥
सत्यधर्मीया
भौष्मी भाषते ॥ चैद्यायेति ॥ मा मां चैद्याय शिशुपालायार्पयितुं दातुं राजसु जरासन्धादिषु । उद्यत्कार्मुकेषूद्यतानि कार्मुकाणि येषां तेषु । उद्यतकार्मुकेषु-राजस्विति पदं वा । समासान्तविधेरनित्यत्वान्न टच् । उद्यतकार्मुकानीषवश्चैषां ते राजानश्च तेषु । उद्यतकार्मुकेषु यथा भवति तथा राजस्विति वा । अशेषा अनप्रधाना मुख्याश्च राजानो भटाश्च तेषां शेखरितः शेखरवदाचरन्नङ्घ्रिरेणुर्येन सः । तन्मूर्धन्यरत्नकिरीटोपरि संस्थापितचरणचरेणुः । अजाश्चावयश्च तेषां यूथात् सङ्घान्मृगेन्द्रः सिंहः स्वभागमा-मिषादिकमिव मां निन्ये नीतवान् । न सौन्दर्यलुब्धः स नीतवानिति ममापि नाहन्ता किन्त्वेतत्कृत इत्याह ॥ तच्छ्रीनिकेतेति ॥ सा च सा श्रीश्च तस्या निकेतमाश्रयो यच्चरणाब्जं तस्य समर्चनं तदर्थम् ॥ ८ ॥
सत्यभामोवाच—
यो मे सनाभिवधतप्तहृदा ततेन लिप्ताभिशापमपमार्ष्टुमुपाजहार ।
**जित्वर्क्षराजमथ रत्नमदात् स तेन नीतच्छिदादिशत मां प्रभवेऽपि दत्ताम् **
॥ ९ ॥
तात्पर्यम्
नीतच्छिद् भगवता प्राप्तभेदः ॥ ९ ॥
पदरत्नावली
सनाभेः सहोदरस्य प्रसेननाम्नो वधेन तप्तहृदा सन्तप्तहृदयेन मे ततेन तातेन पित्रा लिप्ताभिशापं कथितमिथ्यादोषम् अपमार्ष्टुं परिहर्तुम् ऋक्षराजानं जाम्बवन्तं जित्वा रत्नमुपाजहार । अथ तेन कृष्णेन भगवता नीतच्छित् प्राप्तभेदलक्षणापराधः स मे पिता मां प्रभवे कर्तुमकर्तुमन्यथाकर्तुं समर्थाय आदिशत दत्तवान् रत्नं चादात् । कीदृशीम् ? मामन्यस्मै वाचा दत्तामपि । यद्वा ऋक्षराजं जित्वा रत्नमाहरत्, आहृत्य च तद्रत्नं मत्पित्रे अदात्, तेन रत्ने सह भगवता नीतच्छित् स पिता तस्मै प्रभवे आदिशतेति । अन्यत् समम् ॥ ९ ॥
सत्यधर्मीया
यो मे सनाभीति श्लोकेऽप्रतीतेरिवार्थस्य तृतीयाभ्रान्तेश्च नीतछिदादि-शतेत्यत्र स्वयं प्रथमान्ततया पदं विच्छिद्यानूद्य व्याख्याति ॥ नीतच्छिद्भगवता प्राप्तभेद इति ॥ नीता च्छिद्येनेति विग्रहोऽनेन सूच्यते । भावे वा सम्पदादिक्विबित्युक्तं भवति । मित्रभेद इति यथेति टीकोक्तेः । भगवता प्राप्तवैमनस्य इति वा । ततश्चायं श्लोकार्थः । साक्षाल्लक्ष्म्यौ द्वे इति रुग्मिण्यनन्तरं सत्यभामा भाषत इति भाषते ॥ सत्यभामेति ॥ सनाभिः समाना नाभिरुदरं यस्य सहोदरः प्रसेनः । समानो नाभिरिति वा । यद्यपि नाभिःक्षत्रिय इत्यनुशासने नायं प्राणिप्रतीकवाची स्त्रीलिङ्ग इति ज्ञायते । तथाऽपि कथं तर्हि समुल्लसत्पङ्कजपत्रकोमलैरुपाहितश्रीण्युपनीतनाभिरिति भारविः । उच्यते । दृढभक्तिरित्या-दाविव सामान्ये नपुंसकं बोध्यम् । वस्तुतस्तु लिङ्गमशिष्यं लोकाश्रयत्वाल्लिङ्गस्येति भाष्यात्पुंस्त्वमपीह साधुः । अत एव नाभिर्मुख्यनृपे चक्रमध्यक्षत्रिययोः पुमान् । द्वयोः प्राणिप्रतीके च स्त्रियां कस्तूरिकामृग इति मेदिनी । रभसोऽपि । मुख्यराट् क्षत्रियो नाभिः पुंसि प्राण्यङ्गके द्वयोः । चक्रमध्यप्रधाने च स्त्रियां कस्तूरीकामृग इति । एवमेवंविधेऽन्यत्रापि बोध्यमिति लिङ्गानुशासनवृत्त्युक्तेः प्रासङ्गिक्युक्तिः । तस्य वधः सिंहविहितः संहारस्तेन । ततेन तातेन । तत कस्मै मां दास्यसीति काठके तथा नाभागखण्डे च तताभाङ्तुरित्यादेः श्रौतानुवादो वा । ततोऽनुकम्प्ये जन इति विश्वाल्लौकिको वा । लिप्ताभिशापम् । स्वारोपितमवपादमपमार्ष्टुं मार्जयितुमृक्षराजं जाम्बवन्तं जित्वा रत्नमदात् । कृष्णस्तेन रत्नेन सह । तेन कृष्णेन भगवता नीतच्छित् प्राप्तभेदः सापराध इति यावत् । सन्मम पिता दत्तामपि वाचाऽक्रूरादिभ्यः सङ्कल्पितामिति दत्तप्रायामपि मां प्रभवे समर्थाय । अनेन तान्परित्यज्यात्र प्रदाने निदानं कर्तुमकर्तुमन्यथाकर्तुं समर्थत्वमित्युक्तं भवति । आदि-शतादिशत् । रत्नं कन्यारत्नं च ददावित्यर्थः । सनाभिवधाज्जातं तप्तं तापो हृद्याततं व्याप्तं च तेन हृदयात्ततापेनेत्यर्थः । सुखविशिष्टाभिधानादितिवदाहिताग्न्यादिवद्विशेषणपरनिपातः । करणेन स्वेन लिप्तो लोपितोऽभिशापः कृष्णो ययाचे मणिं स मया न दत्त इति मद्भ्रातरं घातयित्वा नीतवान् रत्नमिति स्वारोपितोऽपवादस्तमृक्षराजं जित्वा यद्रत्नमुपाजहार यस्तस्मै प्रभवे नीतछित्पिता तेन रत्नेन सह दत्ता मामप्यादिशतेति वाऽन्वयः । यो मे पिता रत्नं मे मह्यमादिशत्तमवश्यं दिशेत्युक्तावपि सते प्रभवे तन्नोपजहार न दत्तवान् । अथ प्रसेनमरणा-नन्तरमितरद्यथापूर्वं योज्यम् । अदाने हेतुमप्याह । रत्नमदात्तल्लाभप्रयुक्तो मदोऽहन्ता तस्मात्
॥ ९ ॥
जाम्बवत्युवाच—
आज्ञाय देहविकृतिं निजनाथदैवं सीतापतिं त्रिनवहान्यमुनाऽभियुध्य ।
ज्ञात्वाऽवधीरणमुपाहरदर्हणं मां पादौ प्रगृह्य मणिनाऽहममुष्य दासी ॥ १० ॥
पदरत्नावली
देहविकृतिं परिमाणतो वर्णतश्च विलक्षणदेहं कृष्णं प्रत्यक्षदृष्ट्या आज्ञाय सम्यक् ज्ञात्वा अनेन श्रीकृष्णेन त्रिनवाहानि सप्तविंशतिदिनान्यभियुध्य एनं कृष्णं निजनाथदैवं स्वकुलस्वामिदेवताभूतं सीतापतिं पुनर्ज्ञात्वा मे पिता जाम्बवान् अवधीरणम् अवज्ञानम् अर्हणम् अपराधपरिहारयोग्यं पूजासाधनं मां मणिना सह पादौ प्रगृह्योपाहरत्, कृष्णायेति शेषः । यद्वा अवधिरवधानं निश्चयज्ञानं यत् तस्येरणं प्रेरणं येन सोऽवधीरणः । दशरथपुत्रोऽवतीर्णोऽयमिति विशिष्टज्ञानजनक इत्यर्थः । ‘तं पराजितः’ इति वा पाठः । ‘अज्ञाय’ इति च । त्वममुष्याधुना कीदृशीत्यत्राह– अहमिति ॥ ‘अपि माषं मषं कुर्याच् छन्दोभङ्गं न कारयेत्’ इति वचनात् त्रिनवहानीति । यद्वोत्तराकारगुणस्तैर्ज्ञास्य कल्पतो गुण इत्यनेन पूर्वपरस्थानयोर् गुणादेशेन रूपं सिद्धं भवति ॥ १० ॥
सत्यधर्मीया
मम पिताऽपि अमुना कृष्णेन त्रिनवहानि सप्तविंशतिदिनानि । अभियुद्ध्य युद्धं कृत्वा देहविकृतिं कृष्णदेहस्य रामदेहतया भवनरूपमाज्ञाय ज्ञात्वा प्रत्यक्षतो दृष्ट्वा निजनाथदैवं स्वनाथनयोग्यं दैवमुपास्यं सीतापतिमाज्ञाय च । अनन्तरमवधीरणमनादरं ज्ञात्वा तच्छान्त्यै पादौ प्रगृह्य मणिना सहार्हणं मां तत्परिहारयोग्यामित्यर्हणरूपां मामुपाहरद्दत्तवान् । इत्यहममुष्य दासी । इहामुष्याज्ञा यदा भविष्यति तत्करिष्यामीति दासीति वाऽऽवृत्त्याऽन्वयः । त्रिनवाहानीति पठने छन्दोभङ्गभियाऽपि माषं मषं कुर्याच्छन्दोभङ्गं न कारयेदित्यादेर्ह्रस्वपाठः । यद्वा शकन्ध्वादिपाररूप्ये ह्रस्वता ज्ञेया । प्राज्ञाय देहकृदमुमिति पठन्तोऽपि प्राज्ञाय देहकृन्मम पितेति तत्रार्थः । अगणयित्वा गतदिनं त्रिनवहानीत्युक्तिरिति नाष्टाविंशतिदिनाभिधानविरोधः । देहस्य विकृतिर्यस्य तमिति वा । स्मृतिङ्गते तु राघवे तदाकृतिं यदूत्तमे । समस्तभेदवर्जितां समीक्ष्य सोऽयमित्यवेदित्युक्त-विकृतिशब्द आकृतिपर्याय इति मन्तव्यम् । द्वितीयपाठे तु सीतापतिमित्येतद्विवरण-परमाचार्यवच इत्यनुसन्धेयम् ॥ १० ॥
कालिन्द्युवाच—
तपश्चरन्तीमाज्ञाय स्वपादस्पर्शकाम्यया ।
सख्योपेत्याग्रहीत् पाणिं योऽहं तद्गृहमार्जनी ॥ ११ ॥
पदरत्नावली
याऽहमिदानी तद्गृहमार्जनी तां मां स्वपादस्पर्शकाम्यया तपश्चरन्ती विज्ञाय सख्या अर्जुनेन सहोपेत्य पाणिमग्रहीत् । या कृष्णदेवता मम पाणिमग्रहीद् अहं तद्गृहमार्जनीति वा । या य इति व्यत्ययेनान्वयो वा ॥ ११ ॥
सत्यधर्मीया
स्वपादस्पर्शकाम्यया तपश्चरन्तीम् आज्ञाय ज्ञात्वा सख्याऽर्जुनेन सहोपेत्य यस्याः पाणिमग्रहीदहं तद्गृहमार्जनी । याऽहमिति पाठे सर्वोपेता च तद्दर्शनादिव-द्देवतेत्यर्थः । तस्या गृहमार्जनीति विग्रहः । सख्योपेतेति च पाठ उपेतपदोपेतसूत्रस्मारक इति च वदन्ति ॥ ११ ॥
मित्रविन्दोवाच—
यो मां स्वयंवर उपेत्य विजित्य भूपान् निन्ये श्वयूथमिव चात्मबलिं द्विपारिः।
भ्रातॄश्च मेऽपकुरुतः स्वपुरं श्रियोऽगात् तस्यास्तु मेऽनुभवमङ्घ्र्यवनेजनाम्भः
॥ १२ ॥
पदरत्नावली
य कृष्णः । द्विपारिः सिंहः, श्वयूथं विजित्यात्मने क्लृप्तं बलिमुपहार-मिव स्वयंवरे भूपानुपेत्य विजित्य भ्रातॄन् अपकुरुतोऽपकुर्वतः सतः(विजित्य)मां निन्ये स्वपुरं चागात् । अनुभवं जन्मजन्मनि मम तस्य हरेरङ्घ्र्यवनेजनाम्भोऽस्त्वित्यन्वयः । अपकरणे हेतुः– श्रिय इति । सम्पदो हेतोः । श्रीः पद्मायां कान्तिसम्पदोः’ इति । तस्या अंशं मामिति वा ॥ १२ ॥
सत्यधर्मीया
यः कृष्णः स्वयंवरमुपेत्य भूपान्द्विपारिः सिंहः श्वयूथं ग्रामसिंहनिवहं विजित्यात्मबलिं स्वापहारमिव विजित्य मां निन्ये । न केवलं भूपान्विजित्य किन्त्वपकुरुत आगात्तस्य मेऽनुभवं प्रतिजन्म । अवनेजनाम्भोऽस्तु ॥ १२ ॥
नीलोवाच—
सप्तोक्षणोऽतिबलवीर्यसुतीक्ष्णशृङ्गान् पित्रा कृतान् क्षितिपवीर्यपरीक्षणाय ।
तान् वीरदुर्मदहनस्तरसा निगृह्य क्रीडन् बबन्ध ह यथा शिशवोऽजतोकान्
॥ १३ ॥
पदरत्नावली
अत्यधिके बलवीर्ये, सुतीक्ष्णानि शृृङ्गाणि च येषां ते तथा तान् । बलशक्तिवीर्यविक्रमदुर्मदान् घ्नन्तीति दुर्मदहनः । अजतोकान् छागशिशून् ॥ १३ ॥
दुर्घटभावदीपिका
शिशवोऽजतोकानित्यस्य अशिशवो युवानः पुरुषा यथाऽनायासे-नाजतोकान् छागशिशून् बध्नन्ति तथेत्यर्थः । एतेन कृष्णस्यातिबलाढ्यताज्ञापनार्थं युवानः पुरुषा यथाऽजतोेकान् बध्नन्तीति वक्तव्यम् । शिशवोऽजतोकान् बध्नन्तीति कथनमयुक्तमिति चोद्यं निराकृतम् । यथा शिशव इत्यत्र अशिशव इति पदच्छेदमभ्युपेत्य युवान इत्यर्थे तात्पर्यमित्यूरीकरणात् ॥ १३ ॥
सत्यधर्मीया
यथा शिशवो बाला अजतोकान् छागशिशून्बध्नन्ति तथा । अति-बलवीर्यसुतीक्ष्णशृृङ्गान् अत्यधिके बले च वीर्यं चैषां ते च ते सुतीक्ष्णानि शृृङ्गानि येषां ते च ते च तान् । क्षितिपानां वीर्यपरीक्षणाय कृतान् । वीराणां दुर्मदमहदहङ्कारं घ्नन्तीति तान्वीरदुर्मदहनः सप्त उक्षणो वृषभान् । तरसा बलेन वेगेन क्रीडन्निगृह्य बबन्ध ह प्रसिद्धम्
॥ १३ ॥
यश्चुत्थं वीर्यशुल्कां मां दासीभिश्चतुरङ्गिणीम् ।
पथि निर्जित्य राजन्यान् निन्ये तद्दास्यमस्तु मे ॥ १४ ॥
पदरत्नावली
ततः किमकारीति तत्राह– य इति । दासीभिः सह मां निन्ये
॥ १४ ॥
सत्यधर्मीया
यश्चेत्थं वीर्यशुल्कं वीर्यमेव शुल्कं मूल्यद्रव्यं यस्याः सा ताम् । दासीभिः सहितां तथा च तुरङ्गसेनावतीं पथि राजन्यान्निर्जित्य मां निन्ये । तद्दास्यं दासीत्वं मेऽस्तु ॥ १४ ॥
भद्रोवाच—
पिता मे मातुलेयाय स्वयमाहूय दत्तवान् ।
कृष्णे कृष्णाय तच्चित्तामक्षौहिण्या सखीजनैः ॥ १५ ॥
पदरत्नावली
हे कृष्णे द्रौपदि ॥ १५ ॥
सत्यधर्मीया
मम मे पिता श्रुतकीर्तिः । हे कृष्णे द्रौपदि । मातुलेयाय मातृभातृ-पुत्राय कृष्णाय तच्चितां मां सखीजनैरक्षौहिण्या सेनया च सहिताम् । स्वयमाहूय कारयित्वा दत्तवान्यस्मै ॥ १५ ॥
तस्य मे पादसंस्पर्शो भवेज्जन्मनि जन्मनि ।
कर्मभिर्भ्राम्यमाणाया येन तच्छ्रेय आत्मनः ॥ १६ ॥
पदरत्नावली
येन पादस्पर्शेनात्मनो मे तच्छ्रेयः स्यात् स पादस्पर्शो भवेत् ॥१६॥
सत्यधर्मीया
तस्य पादस्पर्शः । जन्मनिजन्मनि पदमेकम् । कर्मभिभ्र•म्यमाणाया आत्मनस्तद्येन श्रेयो भवेत् । श्रेयः प्राप्तिनिवृत्तिश्च कर्मणां येन स पादस्पर्शो जन्मनि जन्मनि भवेदित्यर्थः । कर्मभिर्भ्राम्यमाणा या गोपस्त्रियस्तासां तच्छ्रेयो येन । संस्पर्श आत्मनः कृष्णस्य मेऽस्त्विति वा ॥ १६ ॥
लक्षणोवाच—
ममापि राज्ञ्यच्युतजन्मकर्म च श्रुत्वा मुहुर्नारदगीतमास ह ।
चित्तं मुकुन्दे किल पद्महस्तया वृतः स्वयं यस्तु विहाय लोकपान् ॥ १७ ॥
पदरत्नावली
हे राज्ञि द्रौपदि । यस्तु लोकपानिन्द्रादीन् विहाय पद्महस्तया स्वयं वृतस् तस्मिन् मुकुन्दे मम चित्तमासेत्यन्वयः ॥ १७ ॥
सत्यधर्मीया
हे राज्ञि राजराजीवनयने द्रौपदि । अच्युतस्य जन्म कर्म च जन्मना सहितं च तत्कर्म चेति वा । तच्छ्रुत्वा वक्ता च नानृतवादी नापि कश्चिदनागोत्र इत्याह ॥ नारदगीतमिति ॥ मम चित्तं मुकुन्दे आस तल्लग्नमभूत् । न कयाऽपि स वृतो वृतः कथं कथय त्वयेत्यतः कथयति ॥ स्वयं पद्महस्तयेति ॥ पद्मं हस्ते यस्या सा तया लक्ष्म्या । लोकपालान्ब्रह्मादीन् । एष ब्रह्माऽतिवृद्धस्तपति दिनमणिश्चञ्चलो मातरिश्वा दिग्वासा नीलकण्ठ इत्यादेर्विहाय त्यक्त्वा वृतः किलेदं सत्यमित्यर्थः । किलशब्दस्तु वार्तायां सम्भाव्येऽनृतसत्ययोरिति विश्वः । स्वयमित्यनेन मयि तदावेशमात्रमिति ध्वन्यते ॥ १७ ॥
ज्ञात्वा मम मतं साध्वि पिता दुहितृवत्सलः ।
बृहत्सेन इति ख्यातस्तत्रोपायमचीकरत् ॥ १८ ॥
पदरत्नावली
द्रौपदीस्वयंवरे द्रौपद्याः पार्थवरेच्छया मत्स्यः कृतो यथा तथा मे पिता तत्रोपायमचीकरत् । इममुपायमतो विशिनष्टि– अयं त्विति ॥ तु शब्देनान्याशक्यं दर्शयति । अयं मत्स्यो दीर्घस्थूणशिखरेऽवलम्बितो बहिराच्छन्नः व्यवहितसर्वाङ्गः । अदर्श-नाद् वेधोऽसुकर इति तत्राह– दृश्यत इति ॥ स मत्स्यः परं केवलं जले दृश्यते वेणु-नालनिर्गतच्छायया जले प्रतिबिम्बितत्वेन चक्षुर्विषय इत्यर्थः । तदनेनाधोमुखेन जले छायामवलोक्य वेद्धव्य इति पार्थकृतलक्ष्यवेधादधिकासुकरमिति ज्ञायते ॥ १८–१९ ॥
सत्यधर्मीया
हे साध्वि द्रौपदि । मम मतं दुहितृवत्सलो बृहत्सेन इति ख्यातः । पिता तत्र मन्मनोरथसम्म्पत्तावुपायमचीकरच्चकार ॥ १८ ॥
यथा स्वयंवरे राज्ञि मत्स्यः पार्थेच्छया कृतः ।
अयं तु बहिराच्छन्नो दृश्यते स जले परम् ॥ १९ ॥
सत्यधर्मीया
यद्यपि तव पिताऽपि मत्स्यवेधने मच्छरीरजां दास्यामीति प्रतिश्रुत्य चकार मत्स्यस्थापनं ततोऽपीदमसुसाध्यवेधं लक्ष्यमिति लक्षणा वक्ति ॥ यथेति ॥ हे राज्ञि तव स्वयंवरः पार्थेच्छया पार्थात्मवरापेक्षया मत्स्यः कृतः । अयं मत्स्यः । तुशब्दः सर्वाशक्यवेधत्वरूपविशेषसूचकः । बहिराच्छन्नः प्रावृतसर्वाङ्गः । तर्हि क्वावलोक्य वेद्धव्यः स इत्यत आह ॥ जले परं केवलं दृश्यत इति ॥ कन्यार्थं कथं मुखबन्धः कर्तव्यमिति लज्जां वर्जयित्वा जले प्रतिबिम्बितं मुखमधोविधाय कीचकान्तस्तत्तच्छायां लक्षयित्वा लक्ष्यं वेद्धव्यमिति तदसुसाधता बोधिताऽनेनेति ज्ञेयम् ॥ १९ ॥
श्रुत्वैतत् सर्वतो भूपा आययुर्मत्पितुः पुरम् ।
सर्वास्त्रशस्त्रतत्त्वज्ञाः सोपाध्यायाः सहस्रशः ॥ २० ॥
पदरत्नावली
उपाध्याया आचार्याः पुरोहिता वा ॥ २० ॥
सत्यधर्मीया
मत्पितुः पुरं सर्वतो भूपा एतन्मत्स्यवेधनं श्रुत्वाऽऽययुः । सोपाध्यायाः साचार्याः सर्वास्त्रशस्त्रतत्त्वज्ञाः सर्वशो बहुलाः ॥ २० ॥
पित्रा सम्पूजिताः सर्वे यथावीर्यं यथावयः ।
आददुः सशरं चापं वेद्धुं पार्षति मद्धियः ॥ २१ ॥
पदरत्नावली
हे पार्षति । सिद्धे कार्ये भोगार्थं मयि धियो येषां ते मद्धियः ॥ २१ ॥
सत्यधर्मीया
वेद्धुं लक्ष्यं मत्स्यं मद्भियो मद्धिवाहमतयः सशरं चापमाददुः ॥२१॥
आदाय व्यसृजन् केचित् सज्जीकर्तुमनीश्वराः ।
आकोट्यां ज्यां समाकृष्य पेतुरेकेऽमुना हताः ॥ २२ ॥
पदरत्नावली
व्यसृजन् मुक्तवन्तः । आकोट्यां धनुरग्रपर्यन्तम् ॥ २२ ॥
सत्यधर्मीया
धनुरादाय सज्जीकर्तुमनीश्वरा असमर्थाः केचिद्व्यसृजन् धनुस्तत्यजुः । आकोटिज्यामिति तथाऽकोष्ठं ज्यामिति सरलौ पाठौ । आकोटि अग्रपर्यन्तं ज्यां मौर्वीं सामकृष्यामुना धनुरग्रेण हता एके केचन पेतुः । कोष्ठशब्दोऽपि कोटिवाची । आकोठ्या-मिति पाठे द्वे पदे । सप्तम्यार्षी पञ्चमी चेदपि द्वे पदे परन्तु सानुशासिनिकी ॥ २२ ॥
सज्यं कृत्वा परे वीराः प्राग्ज्योतिमगधेश्वरौ ।
भीमो दुर्योधनः कर्णो नविन्दंस्तदवस्थितिम् ॥ २३ ॥
पदरत्नावली
तस्य मस्त्यस्य स्वरूपावस्थितिं नाविन्दन् न ज्ञातवन्तः ॥ २३ ॥
सत्यधर्मीया
प्राग्ज्योती च मागधश्च तेषामीश्वरौ नरकजरासन्धौ भगदत्तो प्रग्ज्योतीशः । ज्योतिश्शब्दपर्यायो ज्योतिशब्द इत्येकः प्राग्ज्योतिर्मगधेश्वराविति च पेठुः । ज्योतिषशब्दपर्यायोऽयं ज्योतिश्शब्द इति केऽपि । दुर्योधनः कर्णश्चेत्येते तदवस्थितिं नाविन्दन्नव्यजानन् । भीमश्च तदवस्थितिं तस्मिन्स्वोपविष्टस्थल एवावस्थितिमवस्थानं कृत्वा कृतवानित्यर्थः । यथावस्थानान्वये भीमस्यार्जुनापेक्षया दौर्बल्यम् । किञ्च साक्षा-त्प्राणात्मकस्य भगवन्मात्रयोग्यकार्ये प्रवृत्तिश्च स्याताम् । न च ते तत्र सम्भवतः । यथोक्तम् । भीमश्चापं लक्ष्यमप्येतदत्र द्रष्टुं च नैवैच्छदरीन्द्रधारिणः । योग्ये कर्मण्या-यातंश्चापराधी स्यामित्यञ्जः पश्यानो महात्मेति । तर्हि न गमनमन एव कर्तव्यं भीमेनेति चेत् । सत्यम् । लक्षणासुलक्षणविवाहमङ्गलप्रापकत्त्वात्तदुपपत्तेः ॥ २३ ॥
मत्स्याभासं जले दृष्ट्वा ज्ञात्वा च तदवस्थितिम् ।
पार्थो यत्तोऽसृजद् बाणान् नाच्छिनत् पस्पृशे परम् ॥ २४ ॥
पदरत्नावली
मत्स्याभासं मत्स्याकारम् । यत्रोभयेन बाणानसृजन् नाच्छिनच्च । तर्हि किं कृतम् ? अत्राह– पस्पृश इति ॥ २४–२५ ॥
सत्यधर्मीया
मत्स्याछायां मत्स्याभासं जले दृष्ट्वा तदवस्थितिं ज्ञात्वाप्यर्थ चोऽप्यर्थः । बाणान् छिन्नानसृजद् लक्ष्यं नाच्छिनत् परं केवलं पस्पृशे पस्पर्श । ननु धनञ्जयः स्वात्मबलं प्रकाशयन्सज्जं कृत्वा धनुरैकलक्ष्यम् । नैवाददे बाणमनिच्छयैव प्राप्यां जानन् केशवेनैव तां चेति श्रीमदुक्तेरत्र पुनर्यत्तोऽसृजद्बाणानच्छिनत्पस्पृशे परमित्युक्तिरिति विरोध इति चेत् । नैवाददे बाणमित्यस्य तच्छेदो यथा स्यात्तथा नैवादद इत्येवम्परत्वेन तूष्णीं स्पर्शानिवारणात् । इदमपि कार्यमर्जुनेन तथाऽपि मागधादिमानभङ्गार्थं तदमनस्क-तयाऽनुष्ठानस्य प्रत्यवायानर्पकत्वात् । इदमप्युक्तं तत्रैव धनञ्जयः स्वात्मबलं प्रकाशयन्निति । यतश्छिन्ने मत्स्येऽपराधी भवेयमिति यतेन्द्रियः ॥ २४ ॥
राजन् येषु निवृत्तेषु भग्नमानेषु मानिषु ।
भगवान् धनुरादाय सज्जं कृत्वाऽथ लीलया ॥ २५ ॥
सत्यधर्मीया
मानिषु दुर्गर्ववत्सु भग्नमानेषु हीनमानेषु तथाऽशक्यमिति निवृत्तेषु सत्सु लीलयेति सज्जीकरण इवादानेऽपि क्रीडा ज्ञेया ॥ २५ ॥
तस्मिन् सन्धाय विशिखं मत्स्यं वीक्ष्य सकृज्जले ।
छिन्नेषुणाऽपातयत् तं सूर्ये चाभिजिति स्थिते ॥ २६ ॥
पदरत्नावली
अभिजिति दिनमध्यमुहूर्ते सति ॥ २६ ॥
सत्यधर्मीया
अभिजिति मध्येऽहनि सूर्ये स्थिते सति तं मत्स्यं छिन्नेषुणैकेनैकवारं तत्रापि छिन्नेनेषुणेति त्वन्मत्स्यवेधापेक्षया शक्यपातोऽयमिति प्रत्यपादयदिति ध्वन्यते ॥२६॥
दिवि दुन्दुभयो नेदुर्जयशब्दोऽपतद् भुवि ।
देवाश्च कुसुमासारान् मुमुचुर्हर्षविह्वलाः ॥ २७ ॥
पदरत्नावली
भुवि जयशब्दोऽपतद् व्याप्तोऽभूत् ॥ २७ ॥
सत्यधर्मीया
अपतत् शुश्रुव इति यावत् । कुसुमासारान् अविच्छिन्नपुष्पधारा सम्पातम् ॥ २७ ॥
तद्रङ्गमाविशमहं कलनूपुराभ्यां पद्भ्यां दिशो भ्रमयती चलपेशलाभ्याम् ।
वृत्ते पिधाय परिधाय च कौशिकाग्य्रे सव्रीलहासवदना कबरीधृतस्रक् ॥२८॥
पदरत्नावली
दिश इति लक्षणया दिक्षुस्थितान् नृषान् भ्रमयती कामविकारसूचक-नानाचेष्टाकुलान् कारयन्ती । तद्रङ्गं तत्स्वयंवरस्थलम् । चलेन पादविक्षेपेण पेशलाभ्यां सुन्दराभ्यां वृत्ते स्वरूपे स्वेतरवस्तुभ्यो व्यावृत्तरूपे कौशिकाग््रये कृमिकोशोत्थतन्तुकृतवस्त्र-श्रेष्ठे । यद्वा वृत्ते जघने परिधाय । वृत्ते पीने स्तनद्वये पिधाय वा । कबर्यां घृता स्रक् माला यस्याः सा तथा ॥ २८ ॥
सत्यधर्मीया
स चासौ रङ्गश्च तम् । तत्तदेत्यर्थेऽव्ययं वा । रङ्गो रणे खरे रागे नृत्ये रङ्गं त्रपुण्यपीति विश्वः । कलमधुरध्वनिनी नूपुरे ययोस्ताभ्याम् । चलपेशलाभ्यां चलेनैकेकशो विक्षेपेण मनोहराभ्यां पद्भ्याम् । दिशो भ्रामयती तत्स्थिताज् जनान् भ्रान्तान् कुर्वन्ती बुद्धिमतोऽपि दिग्भ्रमं जनयन्तीति वा वृत्ते सह जघने तथा कुचयोर्युगलं च पिधाय परिधाय कृमिकोशोत्थश्रेष्ठेति कौशिकाग््रये क्षौमे सव्रीडहासं वदनं यस्याः सा । जानपदेति ङीष् । केशपाशे धृता स्रजो माला यस्याः सा । रङ्गं नृत्यजनयुतम् । अन्यथा चेद्रणाङ्गणं चाविशम् ॥ २८ ॥
उन्नीय वक्त्रमुरुकुण्डलकुन्तलत्विड्गण्डस्थलं शिशिरहासकटाक्षमोक्षम् ।
राज्ञो निरीक्ष्य परितः शनकैर्मुरारेरंसेऽनुरक्तहृदया विदधे स्वमालाम् ॥२९॥
पदरत्नावली
शशिरवत् तुषारवद् धवलो हासः, स्निग्धो वा ॥ २९–३० ॥
दुर्घटभावदीपिका
स्वमालामित्यस्य स्वतन्त्रस्य श्रीकृष्णस्य योग्यां मालामित्यर्थ-स्योक्तत्वात् ॥ २९ ॥
सत्यधर्मीया
प्रविष्टा चाहम् । उरुणी च ते कुण्डले च तथा कुन्तलाश्च तेषां त्विट् कान्तिर्यस्मिंस्तद्गण्डस्थलं यस्य तत् । हासेन सहितः कटाक्षः शिशिरः शीतलश्चासौ हासकटाक्षश्च तस्य मोक्षो हि स्थापनमन्यत्र यस्य तत् । अजिरशिशिरेति निपातितः शब्दः । शिशिरस्तु ऋतोर्भेदे तुषारे शीतलेऽन्यवदिति विश्वः । वक्त्रमुन्नीयोन्नम्य परितो राज्ञः कांश्चिदपलायितान्निरीक्ष्यानुरक्तं हृदयं यस्याः सा । राजपराजयार्थमियत्कृतम् । न मनस्तस्य त्वयीत्यतोऽप्याह ॥ अनुरक्तहृदयेति ॥ अनुरक्तं मय्यासक्तं हृदयं कृष्णाख्यं ब्रह्म यस्याः सा । स्वभागहरणाद्यानात्फलानां यापनान्नृणाम् । हृदयं भगवन्विष्णुरिति वचनात् । हृदयं ब्रह्म आरुणा उपासते हृद्ययनाद्धृदयमित्यादेश्च । शनकैर्मुरारेरंसे स्कन्धे स्वामालां स्वधृतेति स्वमाला तां विदधे । नियमावहं विदध इति धातोर् लिट् सम्भवति । पारोक्ष्यं च देवदेवत्वाद्युज्यते । परोक्षप्रिया इव हि देवा इत्यादेः । दधधातोर्वा लिटि रूपम् । दधे दधावहे दधामह इति रूपाणि । क्रियाप्रबन्धे लडित्यतीतार्थतोपपद्यते ॥२९॥
ततो मृदङ्गपटहशङ्खभेर्यानकादयः ।
निनेदुर्नटनर्तक्यो ननृतुर्गायका जगुः ॥ ३० ॥
सत्यधर्मीया
ततो मालाल्यापादांसमालासमासज्जनानन्तरम् ॥ ३० ॥
एवं वृते भगवति मयेशे नृपयूथपाः ।
न सेहिरे याज्ञसेनि स्पर्धिनो हृच्छयातुराः ॥ ३१ ॥
पदरत्नावली
हे याज्ञसेनि द्रौपदि ॥ ३१ ॥
सत्यधर्मीया
मयेशे भगवत्येवं वृते सति । एवंवृत्त इति पाठे एवं वृत्तं यस्य स तस्मिन् । मायेश इति पाठे मायाया ईशो रमारमणस्तस्मिन् । हे याज्ञसेनि । स्पर्धिनः स्पर्धा येषामस्तीति स्पर्धिनः शिखादिः । मन्मथार्ता इति हृच्छ्रयातुराः ॥ ३१ ॥
मां रथं स समारोप्य लसद्धयचतुष्टयम् ।
शार्ङ्गमुद्यम्य सन्नद्धस्तस्थावीशश्चतुर्भुजः ॥ ३२ ॥
पदरत्नावली
ईशः शिवो नेत्याह– चतुर्भुज इति ॥ ३२–३३ ॥
सत्यधर्मीया
हयानां शैब्यसुग्रीवमेघपुष्पादीनां चतुष्टयं यस्य स तम् । चतुर्भुज-स्सन्नीशस्तस्थौ ॥ ३२ ॥
दारुकश्चोदयामास काञ्चनोपस्करं रथम् ।
मिषतां द्विषतां राज्ञि वृकाणां मृगराडिव ॥ ३३ ॥
दुर्घटभावदीपिका
हे राज्ञि । दारुको द्विषतां मिषतां पश्यतां राज्ञां पुरतः काञ्चनोपस्करं रथं चोदयामास । द्विषतां मिषतां राज्ञां पुरतो लक्षणया कृष्णेन च विशिष्टं रथं गृहीत्वा जगामेति यावत् । अत्र दृष्टान्तमाह– वृकाणामिति ॥ वृकाणां पुरतो मृगराडिव सिंहो यथा स्वभागं गृहीत्वा गच्छति तथा दारुको जगामेति । एतेन सिंहस्य रथचोदनाभावान् मृगराडिव दारुको रथं चोदयामासेति कथनमनुपपन्नमिति दूषणं पराकृतम् । रथं गृहीत्वा दारुको जगामेति तात्पर्यार्थे सिंहदृष्टान्त इत्यभ्युपगमात् । एतेनैव सिंहसाम्यं कृष्णस्य वक्तव्यम् । दारुकस्य सिंहसाम्यकथनमयुक्तमिति चोद्यं परिहृतम् । सारथेर्दारुकस्य सिंहसाम्योक्त्या रथिनः कृष्णस्य सिंहसाम्यं कैमुत्यन्यायेनोक्तमित्यभिप्रायात् ॥ ३३ ॥
सत्यधर्मीया
काञ्चनमय उपस्करो हि परिच्छदो यस्य स तम् । द्विषतां मिषतां पश्यतां सताम् । ताननादृत्येत्यर्थः । मृगराट् वृकाणां पश्यतां स्वभागं नीत्वा गच्छति यथा तथेति ॥ ३३ ॥
ते त्वसज्जन्त राजन्या निषेद्धुं पथि केचन ।
संयत्ता उद्धॄतेष्वासा ग्रामसिंहा यथा हरिम् ॥ ३४ ॥
पदरत्नावली
ग्रामसिंहाः सारमेयाः । हरिं सिंहम् ॥ ३४ ॥
सत्यधर्मीया
केचन ते राजन्या निषेद्धुं पथि मार्गे संयुक्ता उद्धृतेष्वासा यथा ग्राम-सिंहा हरिं तथाऽसज्जन्त सङ्गता अभूवन् ॥ ३४ ॥
ते शार्ङ्गच्युतबाणौघैर्नुन्नबाह्वङ्घ्रिकन्धराः ।
निपेतुः प्रधने केचिदेके सन्त्यज्य दुद्रुवुः ॥ ३५ ॥
पदरत्नावली
नुन्नाश् छिन्ना बाहवश्चाङ्घ्रयश्च कन्धराश्च येषां ते तथा । प्रधने युद्धे
॥ ३५ ॥
सत्यधर्मीया
नुन्नाश्छिन्ना बाह्वङ्घ्रिकन्धरा येषां ते तथा । प्रधने सङ्गरे सन्त्यज्य रणम् ॥ ३५ ॥
ततः पुरीं पतिजयभूत्यलङ्कृतां रविच्छदध्वजपटचित्रतोरणाम् ।
कुशस्थलीं दिवि भुवि चाभिसंस्तुतां समाविशत् तरणिरिव स्वकेतनम्
॥ ३६ ॥
पदरत्नावली
पत्युः स्वामिनः कृष्णस्य जयभूत्या जयश्रिया अलङ्कृतां, यथा जयलक्ष्मीरुत्कृष्टा तथालङ्कृतां वा । रविच्छदध्वजपटाश्च चित्रतोरणाश्च यस्यां सा तथा ताम् । रविं छादयन्तीति रविच्छदा आतपप्रतिष्टम्भकाश् चित्रा नानावर्णास्तोरणाः । स्वकेतनम् आत्मीयोदयशिखरिशिखरम् ॥ ३६–३७ ॥
सत्यधर्मीया
पत्युर्जयभूतिर्जयलक्ष्मीस्तयाऽलङ्कृतां रविं सूर्यं छादयन्तीति रविच्छदास्ते च ते ध्वजपटाश्च तैश्चित्राणि तोरणानि यस्यां सा सोमवंशसम्भवीयध्वजपटादे रव्याच्छादकता युक्तिमती । दिवि भुवि च जनैः संस्तुतां तरणिः सूर्यः स्वकेतनमुदयगिरिं यथा विशति तथा समाविशत् ॥ ३६ ॥
पिता मे पूजयामास सुहृत्सम्बन्धिबान्धवान् ।
महार्हवासोऽलङ्कारैः शय्यासनपरिच्छदैः ॥ ३७ ॥
सत्यधर्मीया
परिच्छदैरितरसाधनैः ॥ ३७ ॥
दासीभिः सर्वसम्पद्भिर्भटेभरथवाजिभिः ।
आयुधानि महार्हाणि ददौ पूर्णस्य भक्तितः ॥ ३८ ॥
पदरत्नावली
पूर्णस्य अन्यपालकरहितस्य ॥ ३८ ॥
सत्यधर्मीया
सर्वसम्पद्भिर्दासीभिर्भटेभादिभिश्च सर्वसम्पद्भिः सहायुधानि ददौ । एतेन तस्य किं स्वोद्धत्यै दत्तवानित्याह ॥ पूर्णस्य भक्तित इति ॥ सर्वं तस्यैव तस्य दत्तमिति षष्ठ्या द्योतयति ॥ ३८ ॥
आत्मारामस्य तस्येमा वयं वै गृहदासिकाः ।
सर्वसङ्गनिवृत्त्याऽद्धा तपसा च बभूविम ॥ ३९ ॥
पदरत्नावली
दासीत्वं च तपआदिपुण्यनिचयेन प्राप्तमिति ज्ञापनायोक्तम्– सर्वेति । अद्धा यथार्थभूतया । ‘अद्धा प्रत्यक्षसत्ययोः’ इति ॥ ३९ ॥
सत्यधर्मीया
सर्वसङ्गनिवृत्त्या तपसाऽद्धा सम्यक् । इमा वयं च गृहदासिका बभूविम । नास्मत्कृत्यं तस्य किन्तु दयया लालयत्यस्मानित्याह ॥ आत्मारामस्य स्वरमणस्येति ॥ ३९ ॥
महिष्य ऊचुः—
भौमं निहत्य सगणं युधि तेन रुद्धा ज्ञात्वा च नः क्षितिजये हृतराजकन्याः ।
निर्मथ्य संसृतिविमोक्षमपि स्मरन्तीः पादाम्बुजं परिणिनाय य आप्तकामः
॥ ४० ॥
पदरत्नावली
षोडशसहस्रस्त्रियः स्वविवाहप्रकारं कथयन्ति भौममिति । यः कृष्णः क्षितिजये भूमण्डलविजये राज्ञो निर्मथ्य हृतराजकन्या ज्ञात्वा सगणं भौमं निहत्य तेन नरकेण रुद्धा निरोधलक्षणसंसृतेर्मोक्षं स्मरन्तीर्नोऽस्मान् पादाम्बुजं परिनिनाय समीपं प्रापयामास । पादाम्बुजं सेवयितुमूढवान् वा । न कामबुद्ध्या । कुतः ? आप्तकामः ॥४०॥
दुर्घटभावदीपिका
य इत्यस्य विष्णुरित्यर्थः । एतेनाप्तकामोऽपि कृष्णो नः परिणिनायेत्यनेन पूर्णत्वाद् य इत्येतव्द्यर्थमिति दूषणं परास्तम् । कृष्णस्याप्तकामत्वोप-पादनार्थं य इत्यनेन विष्णुत्वमुच्यत इत्यभ्युपगमात् ॥ ४० ॥
सत्यधर्मीया
शतोत्तरषोडशसहस्रयोषितो भाषन्ते ॥ भौममिति ॥ यः क्षितिजये स्वकृते राज्ञो निर्मथ्य हृता राजकन्यास्तेन नरकेण रुद्धा न केवलमेतत्कारागारमोक्षणाऽपि तु संसृतिविमोक्षणं स्मरन्तीरस्मरतीर्नो युधि तं भौमं सगणं निहत्य पादाम्बुजं परिणिनाय नीत्वा पादाम्बुजं स्मरन्तीः परिणिनायोवाहेति वा । नास्मदाशा तस्येत्याहुः । आप्तकामः पूर्णकाम इति ॥ ४० ॥
न वयं साध्वि साम्राज्यं स्वाराज्यं भौज्यमप्युत ।
वैराज्यं पारमेष्ठ्यं वा आनन्त्यं वा हरेः पदम् ॥ ४१ ॥
पदरत्नावली
वयमपि भगवत्पादरजःसेवामन्तरेण नान्यदैश्वर्यपदमाशास्महे इत्याहुः– न वयमिति । साम्राज्यमुत्तरदेशराज्यं, स्वाराज्यं पूर्वदेशराज्यम् । भौज्यं दक्षिणदेश-राज्यम् । वैराज्यं पश्चिमदेशराज्यम् । पारमेष्ठ्यं चक्रवर्तिपदम् । आनन्त्यं सर्वदेशाधिपत्यं वा । हरेः पदम् इन्द्रपदम् । साम्राज्यं चक्रवर्तिपदम् । स्वाराज्यं स्वर्गराज्यम् । भौज्यमन्तरिक्षराज्यम् । वैराज्यं पातालराज्यम् अणिमादिराज्यं वा । पारमेष्ठ्यं ब्रह्मपदम् आनन्त्यं मोक्षं वा न कामयामहे किन्तु गदाभृतो हरेः पदं कामयामहे ॥ ४१ ॥
दुर्घटभावदीपिका
आनंत्यं वा हरेः पदमित्यस्यानन्त्यमनन्तं हरेर्नारायणस्य पदं वा वैकुण्ठस्थानमपीत्यर्थः । एतेनानन्तमपीति वक्तव्यमानन्त्यमिति कथनमयुक्तमिति दूषणं परिहृतम् । आनन्त्यशब्दस्य मत्वर्थीयाजन्तत्वमङ्गीकृत्वाऽनन्तमित्यर्थस्योक्तत्वात् । एतेनैव हरिपादस्य काम्यत्वात् । हरेः पदं न कामयामह इति वचनमयुक्तमिति शङ्का परास्ता । पदशब्देन पाद उच्यत इत्यनभ्युपगमात् ॥ ४१ ॥
॥ इति श्रीसत्याभिनवतीर्थविरचितायां दुर्घटभावदीपिके उत्तरार्धे
एकसप्ततितमोऽध्यायः ॥ १०–७१ ॥
कामयामह एतस्य श्रीमत्पादरजः श्रियः ।
कुचकुङ्कुमगन्धाढ्यं मूर्ध्ना वोढुं गदाभृतः ॥ ४२ ॥
पदरत्नावली
किमर्थम् ? अत्राह– एतस्येति ॥ एतस्य गदाभृतः श्रीमत्पादरजः मूधर्ि्न वोढुम् । कीदृशम् ? श्रियो लक्ष्म्याः कुचलिप्तकुङ्कुमरजोगन्धाढ्यम् ॥ ४२ ॥
सत्यधर्मीया
अग्निपुत्रत्वात्तपसा स्त्रीत्वमेेतदिच्छयाऽऽप्तमतोऽस्ति वेदाधिकार इत्या-वेदयितुं ता अष्टमपञ्चकद्वितीयाध्यायगतता राज्याय साम्राज्याय स्वाराज्याय वैराज्याय पारमेष्ठ्यायेत्यन्त-खण्डमर्थतः सङ्गृह्यैतदादिसर्वापेक्षया हरिचरणपरिचरणमधिकमिति वदन्ति ॥ नेति ॥ हे साध्वि । साम्राज्यं धर्मतः प्रजापालनयोग्यसम्राटत्वं भोज्यं भोगसमृद्धिः स्वाराज्यमनन्याधीनत्वं वैराज्यं प्रतिपक्षिक्षितिपेभ्यो वैशिष्ट्यम् । अथामुष्मिकं च नेति वदन्ति । स्वाराज्यं स्वर्गाधिपत्यं पारमेष्ठ्यं सत्यलोकाधिपत्यमानन्त्यमनन्तो नाशशून्यो लोको वैकुण्ठः स एवानन्त्यं हरेः पदं स्थानभूतं वयं न कामयामहे । आनन्त्यं भोगिनि विद्यमानं शेषसाम्राज्यं हरेरिन्द्रस्य पदं स्वर्गमिति वा । प्राचीमासन्दीमित्यादिबह्वचब्राह्मणोक्तप्रकारेण साम्राज्य-स्वाराज्यवैराज्यानि क्रमादुत्तरपूर्व-दक्षिणपश्चिमदेशाधीशत्वानीति ज्ञेयम् । एतस्य श्रियो रमायाः कुचयोः कुङ्कुमगन्धास्तैराढ्यं गदाभृतः श्रीमत्पादरजो मूर्ध्ना वोढुं कामयामहे ॥ ४१,४२ ॥
व्रजस्त्रियो यद् वाञ्छन्ति पुलिन्द्यस्तृणवीरुधः ।
गावश्चारयतो गोपैः पादस्पर्शं महात्मनः ॥ ४३ ॥
॥ इति श्रीमद्भागवते दशमस्कन्धे एकसप्ततिरध्यायः ॥
पदरत्नावली
व्रजस्त्रियः यत्पादरजो वाञ्छन्ति । न केवलं व्रजस्त्रिय एव वाञ्छन्ति पुलिन्द्यादयोऽपीत्याहुः– पुलिन्द्य इति । गावः गाः ॥ ४३ ॥
॥ इति श्रीमद्भागवतटीकायां श्रीविजयध्वजतीर्थकृतायां पदरत्नावल्यां
दशमस्कन्धे उत्तरार्धे एकसप्ततितमोऽध्यायः ॥
सत्यधर्मीया
एतादृक्कामनास्पदस्य श्रीमत्पदस्यास्मत्काम्यता नाश्चर्यावहेति तां ताः कान्ता वदन्ति ॥ व्रजस्त्रिय इति ॥ आभीरभामिन्योऽज्ञता ध्वन्यते । तथा पुलिन्द्यः शबर-नार्यस्तृणानि वीरुधश्च तद्देवविवक्षयोत्प्रेक्षा वेति केचित् । गोपैः सहगाश्चारयतो महात्मनः कृष्णस्य पादस्पर्शं गावश्च यद्यतो वाञ्छन्ति किं कामना न भवेदस्माकमिति भावः ॥४३॥
**॥ इति श्रीसत्यधर्मयतिकृतायां भागवतटिप्पण्यां दशमस्कन्ध उत्तरार्धे **
एकसप्ततितमोऽध्यायः ॥ १०–७१ ॥