२२ सप्ततितमोऽध्यायः

अथैकदा द्वारवत्यां वसतो रामकृष्णयोः

॥ अथ सप्ततितमोऽध्यायः ॥

श्रीशुक उवाच—

अथैकदा द्वारवत्यां वसतो रामकृष्णयोः ।

सूर्योपरागः सुमहानासीत् कल्पक्षये यथा ॥ १ ॥

पदरत्नावली

तीर्थयात्रायां बहुविधं पुण्यं निमित्तं, काले ततोऽपि विशिष्टम्, तत्र स्नानात् सत्पात्रत्यागात् सन्दर्शनात् पुण्यवतां पुण्यराशेरितरेषामत्यघक्षयाच्छुद्धान्तःकरणत्वेन निर्मला कृष्णविषया भक्तिर् मुक्तावानन्दविशेषं, मुक्तिं च ददातीति कृत्वा लौकिकाचारं विडम्बयतः कृष्णस्य तीर्थयात्रादिलक्षणं चरितं कथयत्यस्मिन्नध्याये । तत्रादौ तीर्थयात्रायां निमित्तमाह– अथेति ॥ कल्पक्षय इत्यनेन सर्वग्रासं लक्षयति ॥ १ ॥

सत्यधर्मीया

श्रीकलत्रे लोकमनुकर्तरि स्यमन्तपञ्चकं गन्तुमुद्यते सति ‘तत्रायन्खर-किरणोपरागहेतोर्ग्रामीणा अपि सकलाः सबालवृद्धा’ इव नानाजनपदजना लोकनाथावलोक-नोत्सुका अपि समागुरिति निरूप्यतेऽत्राध्याये । तत्रादौ तत्क्षेत्रमाहात्म्यं तत्कर्तृगुणांश्चाह ॥ अथेति ॥ एकदा कदाचिद्रामकृष्णयोर्द्वारकायां वसतोः सतोः । कल्पक्षये यथा प्रभाकर-प्रभाप्रतिबन्धस्तथेति महान् । अनेन सर्वग्रासो ध्वन्यते । सूर्योपरागः सूर्यग्रहणमासीत्

॥ १ ॥

तं ज्ञात्वा मनुजा राजन् पुरस्तादेव सर्वशः ।

स्यमन्तपञ्चकं क्षेत्रं जग्मुः श्रेयोविधित्सया ॥ २ ॥

पदरत्नावली

पुरस्ताद् उपरागादिति शेषः । स्यमन्तपञ्चकं कुरुक्षेत्रम् । स्यमन्तानां ह्रदानां पञ्चकं यस्मिंस्तत् तथा ॥ २ ॥

सत्यधर्मीया

तमुपरागं मनुजा ज्ञात्वा सर्वशः पुरस्तादेव भगवदागमादग्र एव श्यमन्तं पञ्चकं श्यमन्तनामकह्रदपञ्चकोपेतं कुरुक्षेत्रं श्रेयोविधित्सया श्रेयस्कृतीच्छया जग्मुः ॥ २ ॥

निःक्षत्रियां महीं कुर्वन् रामः शस्त्रभृतां वरः ।

नृपाणां रुधिरौघेण यत्र चक्रे महाह्रदान् ॥ ३ ॥

पदरत्नावली

एतदेव स्पष्टयति । निःक्षत्रियामिति । निषिद्धाः क्षत्रिया यस्यां सा तथा ताम् । यत्र देशे यत् पञ्चमहाह्रदांश्चक्रे तत् स्यमन्तपञ्चकम् ॥ ३ ॥

सत्यधर्मीया

कथं तत्पञ्चकभवनमित्यतस्तत्प्रपञ्चयति ॥ निःक्षत्रियामिति ॥ निर्गताः क्षत्रिया यस्याः सा तां महीं कुर्वंच्छस्त्रभृतां वरो रामो भार्गवो नृपाणां स्वहतानां रुधिरौघेण रक्तप्रवाहेण यत्र महाह्रदान्पञ्च चक्रे ॥ ३ ॥

ईजे च भगवान् रामो यत्रास्पृष्टोऽपि कर्मणा ।

लोकस्य सङ्ग्रहायेशो यथाऽन्योऽघापनुत्तये ॥ ४ ॥

पदरत्नावली

कर्मणा हत्यानिमित्तपापोत्पन्नेन अस्पृष्टोऽपि लोकसङ्ग्रहायेति । विकर्मणेति केचित् पठन्ति ॥ ४ ॥

सत्यधर्मीया

कर्मणाऽस्पृष्टोऽपि तदबद्धोऽपि भगवान्रामोऽन्यः परतन्त्रो यथाऽघानां पापानामपनुत्तिरपहृतिस्तस्यै यजति । तथा लोकस्य सङ्ग्रहाय यद्यदाचरति श्रेष्ठस्तत्तदेवेतरो जन इत्यादेर्लोकं शासितुमीजे ॥ ४ ॥

महत्यां तीर्थयात्रायां तत्रागुर्भारतीः प्रजाः ।

कृष्णः षोडशसाहस्रमहिषीशिबिकान्वितः ॥ ५ ॥

पदरत्नावली

भारतीर् भारतखण्डे विद्यमानाः ॥ ५ ॥

दुर्घटभावदीपिका

महत्यां तीर्थयात्रायामित्यस्य महत्यां तीर्थयात्रायां कर्तव्याया-मित्यर्थः । एतेन महत्यां तीर्थयात्रायामित्येतदनन्वितमिति चोद्यं प्रत्युक्तम् । कर्तव्यायामिति शेषपूरणेनान्वयस्योक्तत्वात् ॥ ५ ॥

सत्यधर्मीया

तस्मिन्काले महत्यां तीर्थयात्रायां भारतीर्भारत्यस्तत्खण्डगाः प्रजा

आगुः । षोडशसहस्रमहिषीणां शिबिका नरवाहनानि ताभिरन्वितः । वर्षसाहस्रामित्यनु-व्याख्याव्याख्यावसरे सहस्रं परिमाणमस्येति साहस्रः सङ्घस्तदस्य परिमाणमित्यर्थे शतमान-विंशतिकसहस्रवसनादणित्यणो विधानादिति सुधाभिधानादण् । विस्तरस्तु ननु सहस्रशब्दा-दित्यारभ्य तथा च सहस्ररूपपरिमाणोपाधिके सङ्घरूपेऽर्थं सङ्ख्यावाचिनः सहस्रशब्द-सङ्ख्यायाः सञ्ज्ञासङ्घसूत्राध्ययनेष्वित्यनेनाण्प्रत्यये णित्वादादिवृद्धौ यस्येति चेत्यकारलोपे साहस्रशब्दनिष्पत्तिरुक्तं भवतीत्यन्तया वाक्यार्थचन्द्रिकया ज्ञेयम् ॥ ५ ॥

पुत्रपौत्रजनानीकैर्वारकान्ताकरेणुभिः ।

नगरस्त्रीकदम्बैश्च प्रियसार्थैश्च संयुतः ॥ ६ ॥

दुर्घटभावदीपिका

प्रियासार्थैश्च संयुत इत्यस्य प्रियाश्च ते सार्था धनिकाश्च तैश्च संयुत इत्यर्थः । एतेन प्रियसार्थैरिति वक्तव्यं प्रियेति स्त्रीलिङ्गशब्दप्रयोगोऽनुपपन्न इति चोद्यं परिहृतम् । प्रियेति शब्दः स्त्रीलिङ्गो न भवति किन्तु सार्थानां महत्वं वक्तुम् आङ् संश्लेषेण प्रियेति दीर्घान्त प्रियाशब्दः प्रयुक्त इत्यभ्युपगमात् ॥ ६ ॥

सत्यधर्मीया

वारकान्तारूढकरेणुभिः कदम्बैः समूहैः प्रियासार्थै रुक्मिण्यादिसङ्घैश्च संयुतः ॥ ६ ॥

वृष्णयश्च तथाऽक्रूरवसुदेवगदादयः ।

ययुर्भारत तत्क्षेत्रं स्वमघं क्षपयिष्णवः ॥ ७ ॥

सत्यधर्मीया

स्वं स्वसम्बन्धि पापं क्षपयिष्णवः ॥ ७ ॥

शठप्रद्युम्नसाम्बाश्च सुवज्रोद्धवसारणाः ।

आहुकं कृतवर्माणं संस्थाप्य पुररक्षणे ॥ ८ ॥

पदरत्नावली

वारकान्ता गणिकास् तदारूढकरेणुभिः ॥ ६–८ ॥

सत्यधर्मीया

शठादयो वज्रादय आहुकं कृतवर्माणं च पुररक्षणे संस्थाप्य ॥ ८ ॥

ते रथैर्देवविख्यातैर्हयैश्च तरलप्रभैः ।

गजैर्बृहद्भिरभ्राभैर्नृभिर्विद्याधरद्युभिः ॥ ९ ॥

पदरत्नावली

तरलानां तरङ्गाणां प्रभावत् प्रभा येषां ते तथा, अतिधवलप्रभा इत्यर्थः । तैर्विद्याधरद्युतिभिः ॥ ९–१२ ॥

सत्यधर्मीया

ते शठाद्या देवेष्वपि ख्यातैर्हयैस्तरलप्रभैस्तरलानां श्यामलानां च जलदानां भावाद् गजा अपि सिता असिताश्च ज्ञेया नृभिः । विद्याधराणां द्युः प्रकाशो येषां ते तैः ॥ ९ ॥

व्यरोचन्त महाभागाः पथि काञ्चनमालिनः ।

वेदवादित्रनिर्घोषैः शङ्खदुन्दुभिनिस्स्वनैः ॥ १० ॥

सत्यधर्मीया

सहशगद्या महाभागाः काञ्चनमालिनश्च पथि व्यरोचन्त ॥ १० ॥

गायन्तः कृष्ण कृष्णेति गोविन्देति च सन्ततम् ।

ककुभः पूरयन् नादैर्जग्मुः सर्वे कुरूद्वह ॥ ११ ॥

सत्यधर्मीया

कृष्ण कृष्णेति गोविन्देति पूरयन्नादाः पूरयन्तश्च ते नादाश्च तैः । काः पूरयन्तस्ते नादा इत्यत आह ॥ ककुभ इति ॥ एकदेशान्वयमात्रं सोढव्यम् । एकवचनं बहुवचनार्थं वा ॥ ११ ॥

समन्तपञ्चकं प्राप्य क्षेत्रं त्रैलोक्यविश्रुतम् ।

तृणैः पर्णैस्तथा काष्ठैश्चक्रिरे भवनानि च ॥ १२ ॥

सत्यधर्मीया

त्रैलोक्यविश्रुता भवनानि गृहान् ॥ १२ ॥

कम्बलाजिनवस्त्राणां शिबिराणि महीभृताम् ।

आसन् विचित्ररूपाणि शतशोऽथ सहस्रशः ॥ १३ ॥

पदरत्नावली

कम्बलाजिनवस्त्राणाम्, वितानैरिति शेषः ॥ १३ ॥

सत्यधर्मीया

महीभृतां राज्ञां विचित्ररूपाणि नानावर्णानि ॥ १३ ॥

तत्राजग्मुर्नृपानेके ब्राह्मणाश्च सहस्रशः ।

वैश्याः शूद्राश्च निःसङ्ख्या ये चान्ये वर्णनिन्दिताः ॥ १४ ॥

पदरत्नावली

अनेक इति पदच्छेदः, बहव इत्यर्थः । निन्दिताश्चतुर्वर्णेभ्यः पृथक् कृताः ॥ १४ ॥

सत्यधर्मीया

नृपानेक इति पदम् । नृपाश्च ते अनेके च अनेकनृपा इत्यर्थः । वर्णनिन्दितास् तद्बाह्याः ॥ १४ ॥

ऋषयश्च महात्मानो विख्याताः संशितव्रताः ।

सोपाध्यायाः साग्निहोत्राः स्नातका गृहमेधिनः ॥ १५ ॥

पदरत्नावली

शंसितव्रता निर्मलव्रताः । स्नातका दण्डसोदककमण्डलुधराः । गृहमेधिनः पञ्चयज्ञाधिकारिणः ॥ १५ ॥

सत्यधर्मीया

सोपाध्यायाः साचार्याः स्नातका दण्डोदककमण्डलुधरा गृहमेधिनः पञ्चयज्ञाधिकारिणः ॥ १५ ॥

अन्धाश्च बधिराश्चैव कुब्जवामनपण्डकाः ।

व्यङ्गा जडाश्च मूकाश्च कर्मक्षयमभीप्सवः ॥ १६ ॥

पदरत्नावली

कुब्जा वक्राङ्गाः । वामना ह्रस्वावयवाः । षण्डकाः क्लीबाः । व्यङ्गा हस्ताद्यवयवहीनाः । किं साध्यमिति तत्राह– कर्मेति ॥ १६ ॥

सत्यधर्मीया

कुब्जास्त्रिवक्रा वामनाः खर्वाः पण्डका षण्डा व्यङ्गाः करादिविकला जडा मूर्खा वोन्मादिनो वा कर्मक्षयपरीप्सवस्तमिच्छन्तः ॥ १६ ॥

गोविन्दचरणाम्भोजरेणुरञ्जितमस्तकाः ।

कटकाङ्गदकेयूरहारकुण्डलभूषणाः ॥ १७ ॥

पदरत्नावली

कटकं बलयः ॥ १७–१८ ॥

सत्यधर्मीया

रेणुभी रञ्जितानि मस्तकानि येषां ते तथा । कटकाङ्गद-केयूरकुण्डलैर्भूषणं येषां ते ॥ १७ ॥

स्रग्गन्धदिव्यवसनाः कलत्रैः खेचरा इव ।

तत्र स्नात्वा महाभागा उपोष्य सुसमाहिताः ॥ १८ ॥

सत्यधर्मीया

कलत्रैर्भार्याभिः सह खेचरा गन्धर्वा इव तत्र तत्समये उपोष्योपोषणं कृत्वा ॥ १८ ॥

ब्राह्मणेभ्यो ददुर्धेनूर्वासः स्रग्रुग्ममालिनीः ।

रामह्रदेषु विधिवत् पुनराप्लुत्य वृष्णयः ॥ १९ ॥

पदरत्नावली

वासांसि स्रजश्च रुग्ममालाः स्वर्णमाला आसां सन्तीति वासः-स्रग्रुग्ममालिन्यस् ताः ॥ १९–२४ ॥

सत्यधर्मीया

वासश्च स्रजः पुष्पाणां रुग्माणां माला आसां सन्तीति ता धेनूः । रामह्रदेषु पञ्चसु पुनराप्लुत्य ॥ १९ ॥

**ददुः स्वन्नं द्विजाग्रेभ्यः कृष्णे नो भक्तिरस्त्विति । **

स्वयं च तदनुज्ञाता वृष्णयः कृष्णदेवताः ॥ २० ॥

सत्यधर्मीया

कृष्णे नो भक्तिरस्त्विति द्विजाग्रेभ्यः स्वन्नं षड्रसमन्नं ददुः । तदनुज्ञातास्तैर्ब्राह्मणैः ॥ २० ॥

भुक्त्वोपविविशुः कामं स्निग्धच्छायाङ्घ्रिपाङ्घ्रिषु ।

तत्रागतांस्ते ददृशुः सुहृत्सम्बन्धिनो नृपान् ॥ २१ ॥

सत्यधर्मीया

स्निग्धा निबिडा छाया येषां ते च तेऽङ्घ्रिपाश्च तेषामङ्घ्रयः । भुक्त्वोपविविशुः । सुहृदश्च सम्बन्धिनश्च तान्नृपांस्तत्रागातान्ददृशुः ॥ २१ ॥

मत्स्योशीनरकौसल्यविदर्भकुरुसृञ्जयान् ।

काम्बोजकेकयान् मद्रान् कुन्तिगान्धारकेरलान् ॥ २२ ॥

सत्यधर्मीया

मत्स्यादयो देशास्तद्भवान् ॥ २२ ॥

अन्यांश्चैवात्मपक्षीयान् परांश्च शतशो नृपान् ।

नन्दादीन् सुहृदो गोपान् गोपीश्चोत्कण्ठिताश्चिरम् ॥ २३ ॥

सत्यधर्मीया

परान्परपक्षीयांश्चिरं बहुकालमुत्कण्ठिता उत्कलितोपेताः ॥ २३ ॥

अन्योन्यसन्दर्शनहर्षरंहसा प्रोत्फुल्लहृद्वक्त्रसरोरुहश्रियः ।

आश्लिष्य गाढं नयनैः स्रवज्जला हृष्यत्त्वचो रुद्धगिरो ययुर्मुदम् ॥ २४ ॥

सत्यधर्मीया

रंहो वेग उत्फुल्लानि च तानि वक्त्रसरोरुहाणि च तेषां श्रीः शोभा येषां ते । अन्योन्यं परस्परं गाढमाश्लिष्य नयनैः स्रवन्ति गलन्ति जलानि येषां ते । हृष्यत्यस्त्वचो येषां ते । सरोमाञ्चा रुद्धगिरस्तोषातिशयनिरुद्धवाचो मुदं ययुः ॥ २४ ॥

स्त्रियश्च संवीक्ष्य मिथोऽतिसौहृदाः सचापलापाङ्गदृशोऽभिरेभिरे ।

स्तनैः स्तनान् कुङ्कुमपङ्करूषितान् निहत्य दोर्भ्यां प्रणयाश्रुलोचनाः ॥ २५ ॥

सत्यधर्मीया

सचापला ललनास्वभावश्चापलपाङ्गे तत्सहिता दृशो नेत्राणि यासां

ताः । अभिरेभिरे आलिलिङ्गिरे । आलिङ्गनभङ्गीमाह ॥ स्तनैः स्तनानिति ॥ २५ ॥

पदरत्नावली

सचापलाश् चाञ्चल्येन सहिता अपाङ्गदृशः कटाक्षवीक्षणानि यासां तास्तथा । अभिरेभिरे आलिङ्गनं चक्रुः ॥ २५–२६ ॥

ततोऽभिवाद्य ते वृद्धान् यवीयैरभिवादिताः ।

स्वागतं कुशलं पृष्ट्वा चक्रुः कृष्णकथां मिथः ॥ २६ ॥

सत्यधर्मीया

यवीयैर्यवीयोभिः । स्वागतमित्युक्त्वा कुशलं पृष्ट्वा मिथः कृष्णकथां चक्रुः ॥ २६ ॥

पृथा भ्रातॄन् स्वसॄर्वीक्ष्य तत्पुत्रान् पितरावपि ।

भ्रातॄपत्नीर्मुकुन्दं च जहौ सङ्कथया शुचः ॥ २७ ॥

पदरत्नावली

केयं कथेति तत्राह– आर्येति ॥ आर्यभ्रातर्ज्येष्ठभ्रातः वसुदेव अकृताशिषम् अचीर्णपुण्यम् । अस्मदापत्सु मद्वार्तां नानुस्मरथेति यत्, तस्मादिति शेषः

॥ २७–२८ ॥

सत्यधर्मीया

भ्रातॄन्वसुदेवादीन् स्वसॄर्भगिनीस्तत्पुत्रान्स्वस्त्रीयान् । पितरौ कुन्तिभोजं तद्भार्यां च सङ्कथया परस्परवार्तया शुचः शोकांस्तत्प्रापकाकारभेदाच्छुच इत्युक्तिः । जहौ तत्याज ॥ २७ ॥

कुन्त्युवाच—

आर्यभ्रातरहं मन्ये आत्मानमकृताशिषम् ।

यत आपत्सु मद्वार्तां नानुस्मरथ सत्तमाः ॥ २८ ॥

सत्यधर्मीया

सा वार्ता केत्यतः कीर्तयति ॥ आर्येति ॥ भ्रातः कनिष्ठभ्रमं पितृव्यादिभ्रमं च वारयितुं ते पदे । आत्मानं मामकृताशिषमकृताऽसम्पादिताऽऽशीरभि-मतार्थो यया तां मन्ये । आत्मपदविवक्षया तमिति वा । तत्र तन्त्रमाह ॥ यत इति ॥ यत आपत्स्वनेकास्वागतास्वपि मद्वार्तां नानुस्मरथेति । दुर्वृत्तानां किमिदं त्वदस्मणं चित्रमित्यत आह ॥ सत्तमा इति ॥ २८ ॥

सुहृदो ज्ञातयः पुत्रा भ्रातरः पितरावपि ।

नानुस्मरन्ति स्वजनं यस्य दैवमदक्षिणम् ॥ २९ ॥

पदरत्नावली

तत्र किं कारणमिति तत्राह– यस्येति ॥ अदक्षिणं विपरीतवृत्ति

॥ २९ ॥

सत्यधर्मीया

लोके लोकानां दैवहीनानां दशेदृशीति भ्रातः कातर्यात्स्थापितः शब्दो न तवोपरीति वक्ति ॥ सुहृद इति ॥ एते स्वजनमपि तं नानुस्मरन्ति । यस्य स्वजनस्य दैवमदक्षिणमसहकारि । अहं हीनदेवा यूयं किं करिष्येथेति भावः ॥ २९ ॥

वसुदेव उवाच—

अम्ब मास्मानसूयेथा देवक्रीडनकान् नरान् ।

ईशस्य हि वशे लोकः कुरुते कार्यतेऽथवा ॥ ३० ॥

पदरत्नावली

देवक्रीडनकान् देवस्येश्वरस्य क्रीडोपकरणभूतान् । ईशस्य वशे स्थितो लोकः कर्माणि कुरुते सङ्गेन कार्यते वा । ‘कार्यते ह्यवशः’ इति स्मृतेः ॥ ३० ॥

सत्यधर्मीया

आदौ स्वापन्न वक्तव्य उपद्रुतेष्विति पर्यायतस्तदुदाहृतदैवपदार्थं विवृण्वंस्तां समाधाय स्वापदमपि वक्ति द्वाभ्याम् ॥ अम्बेति ॥ मातर्भगिनि । अस्मा-न्नासूयेथा अस्मभ्यमसूयां न कुरु । देवक्रीडनकान् देवस्य क्रीडना यैरिति तत्क्रीडासाधन-भूतान्नरान्हि यतस्तदेव देवक्रीडनकत्वं सामान्यत आह । ईशस्य हरेर्वशे स्थितो लोकः कुरुते तथा कार्यते कर्माणि । ईशेन यथा कार्यते तथा कुरुत इति वा । अतोऽत्र न वयं स्वतन्त्रा इति भावः ॥ ३० ॥

कंसप्रतापिताः सर्वे वयं याता दिशो दश ।

एतर्ह्येव पुनः स्थानं दैवेनासादिताः स्वसः ॥ ३१ ॥

पदरत्नावली

कंसेन प्रतापिताः सन्तापं प्रापिताः । एतर्हि इदानीम् । स्वसः हे भगिनि ॥ ३१–३६ ॥

सत्यधर्मीया

स्वसः कंसप्रतापिता वयम् । तत्रैव सर्वे सुहृदश्च दश दिशो याता इति भिन्नवाक्यतया योजनीयम् । अन्यथा वसुदेवस्यापि देशान्तरगमनापत्तेः । तस्य चा-दर्शनात् । एतर्हीदानीमेव पुनस्तदेव स्थानं दैवेनासादिताः स्वसाम्यं प्रापिता वयमपि बहुकष्टिन इति न विचारावसर इति भावः ॥ ३१ ॥

श्रीशुक उवाच—

वसुदेवोग्रसेनाद्यैर्यदुभिः सेविता नृपाः ।

आसन्नच्युतसन्दर्शपरमानन्दनिर्वृताः ॥ ३२ ॥

सत्यधर्मीया

नृपा देशान्तराधीशा अच्युतस्य दर्शो दर्शनम् । वायवायाहि दर्शत इत्यृग्भाष्ये दर्शतस्ततद्दृष्टित्वात् । दृशेर्भावे घञि दर्शो दर्शनमिति तट्टीकायां चोक्तेः । तज्जनितो यः परमानन्दस्तेन निर्भराः पूर्णास्तस्य निर्भरो नैर्भर्यं येषां ते वा ॥ ३२ ॥

भीष्मो द्रोणोऽम्बिकापुत्रो गान्धारी ससुता तथा ।

सदाराः पाण्डवाः कुन्ती सञ्जयो विदुरः कृपः ॥ ३३ ॥

सत्यधर्मीया

ससुता गान्धारी । अनेन पित्रननुरूपता पुत्राणां ध्वनयति । अन्यथा ससुतोऽम्बिकापुत्र इति वदेदिति ध्येयम् । सदारा द्रौपद्यादिभार्यासहिताः ॥ ३३ ॥

कुन्तिभोजो विराटश्च भीष्मको नग्नजिन्महान् ।

पुरुजिद् द्रुपदः शैब्यो धृष्टकेतुश्च काशिराट् ॥ ३४ ॥

सत्यधर्मीया

भीष्मको रुग्मिणीपिता । पिता च नग्नजिल्लीलायाः ॥ ३४ ॥

दमघोषो विशालाक्षो मैथिलो मद्रकैकयाः ।

युधामन्युः सुशर्मा च ससुता बाह्लिकादयः ॥ ३५ ॥

सत्यधर्मीया

दमघोषः शिशुपालपिता विशालाक्ष इति यथार्थं विशेषणं वा कस्य-चिद्राज्ञः स्वतन्त्रं नाम वेति निर्णये न नामकरणसमयवर्तिनो वयम् । ससुता बाल्हिकादयो राजानः ॥ ३५ ॥

राजानोऽन्ये च राजेन्द युधिष्ठिरमनुव्रताः ।

श्रीनिकेतं वपुः शौरेः सस्त्रीका वीक्ष्य विस्मिताः ॥ ३६ ॥

सत्यधर्मीया

शौरेः श्रीनिकेतं सम्पदाश्रयं रमाश्रयं वा वपुः सस्त्रीका वीक्ष्य विस्मिता अभवन्निति शेषः ॥ ३६ ॥

**अथ ते रामकृष्णाभ्यां सम्यक्प्राप्तसमर्हणाः । **

प्रशशंसुर्मुदा युक्तास्तुष्टाः कृष्णपरिग्रहान् ॥ ३७ ॥

पदरत्नावली

कृष्णपरिग्रहान् कृष्णाश्रयान् ॥ ३७–३८ ॥

सत्यधर्मीया

सम्यक् स्वस्वयोग्यतानुसारेण प्राप्तं समर्हणं येषां ते स्वयं तुष्टा ये मुदा युक्तास्तान् कृष्णपरिग्रहान् भार्याः प्रशशंसुः । भगवदङ्गसङ्गोऽङ्गनानामहो इति पारोक्ष्येणास्तुवन् परिजनान् । परिग्रहः परिजने पत्न्यां स्वीकारमूलयोरिति विश्वः ॥ ३७ ॥

अहो भोजपते यूयं जन्मभाजो नृणामिह ।

यत् पश्यथासकृत् कृष्णं दुर्दर्शमपि योगिनाम् ॥ ३८ ॥

दुर्घटभावदीपिका

अहो भोजपते । यूयमिह युष्माकं समीपं विद्यमानं योगिनामपि दुर्दर्शं द्रष्टुमशक्यं कृष्णमसकृत्पश्यथ तस्मान्नृणां मध्ये जन्मभाजः सफलजन्मभाजो ऽहो आश्चर्यमिति । एतेनेहेत्येतव्द्यर्थमिति शङ्का निरस्ता । विद्यमानमिति पदाध्याहारेणेहेत्य-नेनासकृद्दर्शनोपपादनार्थं युष्माकं समीपं विद्यमानमित्युच्यत इत्यभ्युपगमात् ॥ ३८ ॥

सत्यधर्मीया

भोजपते उग्रसेन इह नृणां मध्ये यूयं जन्मभाजः । तत्र निमित्तमाहुः । योगिनामपि दुर्दर्शं कृष्णमसकृद्बहुवारं निरन्तरमिति यावत् । पश्यथेति यदिति ॥ ३८ ॥

यन्निःसृतं जगदिदं सकलं पुनाति पादावनेजनपयस्तु वचश्च शास्त्रम् ।

भूः कालभर्जितभगाऽपि यदङ्घ्रिपद्मस्पर्शेद्धशक्तिरभिवर्षति नोऽखिलार्थान् ॥३९॥

पदरत्नावली

तुशब्दोऽवधारणार्थः । चशब्दः समाहारार्थः । यस्य कृष्णस्य वदना-न्निस्सृतं वचः वागात्मकं शास्त्रं ब्रह्मसूत्रादिलक्षणम् इदं जगत् पुनात्येव । यस्य पादावने-जनपयश्च पुनाति । कालाग्निना भर्जितभगा निर्दग्धवीर्या भूर् यस्यङ्घ्रिपद्मस्पर्शेन इद्धा समृद्धा शक्तिर्यस्याः सा तथा । साऽस्मदर्थेऽखिलार्थानभिवर्षति तं कृष्णमसकृत् पश्यथेति यस्मात् तस्माज्जन्मभाज इति गतेनान्वयः ॥ ३९ ॥

सत्यधर्मीया

अधुनाऽपि मधुनाथदर्शनादिभाज इति जन्मभाज इति भोजराजादीन् प्रति राजानो वदन्ति ॥ यन्निःसृतमिति ॥ तुरेवार्थे । तुः पयसः समयस्य च किञ्चि-त्प्रमितविशेषसूचको वा । तन्महत्त्वस्यागतगीतारूपं च यन्निःसृतमुत्पन्नं च व्यक्तं जग-त्पुनातीत्यावृत्त्या तन्त्रेण वाऽन्वयः । तथा पादावनेजनपयश्च गङ्गारूपं तथा तद्वचश्च । गङ्गा गङ्गेति यो ब्रूयादित्यादेस्तव्द्याहरणं च पुनाति । कालेन भर्जितभग ऐश्वर्यादिर्यस्याः । दग्धस्वसम्पत्कादिदानीं यदङ्घ्रिपद्मयोः स्पर्शः सम्बन्धस्तेनेद्धाऽभिवृद्धा शक्तिर्यस्याः सा वीर्यवतीति यावत् । नोऽखिलार्थान् ईप्सितान् अभिवर्षति तमसकृत्पश्यथेति यूयं जन्मभाज इति प्रशशंसुरित्यतीतेनान्वयः । यन्निःसृतं वेदं शास्त्रं च पादावनेजनपयश्च योऽयं पुनातीति वा ॥ ३९ ॥

तद्दर्शनस्पर्शनानुपथप्रजल्पशय्यासनाशनसयौवनपिण्डबन्धाः ।

येषां गृहे निरयवर्त्मनि वर्ततां च स्वर्गापवर्गविरमः स्वयमास विष्णुः

॥ ४० ॥

पदरत्नावली

इतोऽपि यूयं जन्मभाज इत्याशयेनाह– तद्दर्शनेति ॥ निरयवर्त्मनि इष्टप्रददैवविरहितमार्गे अत एव दुःखविषये वर्ततां वर्तमानानां स्वर्गापवर्गविरमः दुःख-सम्भिन्नप्रदेशः स्वर्गः । कर्मसाध्यप्रदेशो ऽपवर्गो मोक्षः । तयोर्विरामो यस्मात् स तथा । ‘ज्ञानादेव स्वर्गो ज्ञानादेवापवर्गः’ इति श्रुतेः । किमुत सन्यासिनामिति चशब्दः । एवंविधो विष्णुः स्वयमंशावेशमन्तरेण येषां युष्माकं गृहे आस्ते । यूयं तस्य हरेर्दर्शनं च स्पर्शनं च अनुपथश्चानुगमनं च प्रजल्पश्च शय्या च आसनं च अशनं च, तानीमानि यस्य सयौवनस्य पिण्डस्य देहस्य सन्ति स तथा तस्य पिण्डस्य बन्धः दृढालिङ्गनं येषां ते तथा । तस्मा-ज्जन्मसाफल्यं युष्माकमिति शेषः ॥ ४०–४३ ॥

सत्यधर्मीया

निरयवर्त्मनि निरयः संसारस्तद्वर्त्मनि वर्ततां स•सारिकाणांं निरयद्वार-भूतत्वात्तद्वर्त्मनि वा वर्तमानानां येषां भवने गृहे स्वर्गापवर्गविरमोऽपवर्गः कर्मसाध्यफलात्मा स्वर्गश्चासौ स च तस्य विरमोऽप्राप्तिर्यस्मात्सः । स्वर्गो मुक्तिरपवर्गः स्वर्गस्तयोस्तयोर्विषये विरमोऽनभिलाषात्मा औदासीन्यं यस्मात् स एकान्तिनां स्वर्गापवर्गोऽपि वर्जनीय इति तदनार्जने मतिद इति भावः । अपवर्गस्त्यागमोक्षयोः । क्रियावसानसाफल्येष्वपवर्गः प्रयुज्यत इति विश्वः । अपवर्गः क्रियासाध्ये फलाप्तौ त्यागमोक्षयोरिति च । स्वर्गः सुषुप्तिरित्याख्या मुक्तेरपि समा यत इति बृहदारण्यक भाष्योक्तेः । विष्णुः स्वयं प्रधान आस । धात्वन्तररूपम् । अव्ययं वा । प्रधानवाचकत्वे कश्चानन्यः केवलस्वयमिति ब्रह्म इति तृतीयतात्पर्योक्तेः । स्वयं साक्षात्कृष्णकेशात्मेति वा । ये च तस्य दर्शनं स्पर्शनमनुपथो गमनं प्रजल्पः सम्भाषणं शय्या च मिलित्वाऽऽसनं च सयौवनेन पिण्डेन देहेन बन्ध आलिङ्गनादिर्येषां ते । पिण्डो देहे जपापुष्ये निपाते सिल्लकेऽपि चेति विश्वः । निरयवर्त्म नरकमार्गो निवर्ततां गच्छत्वित्यासेत्यप्यर्थः । स्वर्गश्च सुखदुःखसम्भिन्नश्च लोकोऽपवर्गो मोक्षश्च तयोर्विरमो विरतिस्तथा विशेषतो रमो रतिश्च येन स इति वा । पिण्डा देहा जरादिना सहिताः सयौवनास्ते येन सम्बन्धो गाढालिङ्गनादिर्येषामिति वा । स्वयं सुशोभनदैवं निमित्तीकृत्यासेति वा । अनेन निरयवर्त्मनीति प्रोक्तप्रतिषेधः कृत इति मन्तव्यम् । यूनो भावो यौवनम् । हायनान्तेत्यण् । अन्निति प्रकृतिभावः कर्म वा । केचिदुद्धवार्जुनौ सेनेयार्जुनौ यथासम्भवं द्वौ ग्राह्यौ । दर्शनाशनान्तैः । या सम्पदा सहितौ सयौ । एकारान्तः शब्दः । वने पिण्डबन्ध आलिङ्गनादियेषाम् । सर्वमुर्वरितं सममिति वा । सयौनसपिण्डबन्ध इति पाठे योनेरयं यौनः स च सपिण्डश्च तेन बन्धोऽनुबन्धस्तेन सहित इति स तथा । प्राहुणिकज्ञातिसम्बन्धवानिति यावत् ॥ ४० ॥

नन्दस्तत्र यदून् प्राप्तान् श्रुत्वा कृष्णपुरोगमान् ।

तत्रागमद् वृतो गोपैस्तरसा तद्दिदृक्षया ॥ ४१ ॥

सत्यधर्मीया

तत्र श्यमन्तपञ्चके तरसा त्वरया ॥ ४१ ॥

तं दृष्ट्वा वृष्णयो हृष्टास्तन्वः प्राणमिवोत्थिताः ।

परिषस्वजिरे गाढं चिरदर्शनकातराः ॥ ४२ ॥

सत्यधर्मीया

तन्वः शरीराणि चिराद्दर्शनं तेन कातराः परिषस्वजिरे आलिलिङ्गुः । उपसर्गादिति षत्वम् ॥ ४२ ॥

वसुदेवः परिष्वज्य सम्प्रीतः प्रेमविह्वलः ।

स्मरन् कंसकृतान् क्लेशान् पुत्रन्यासं च गोकुले ॥ ४३ ॥

सत्यधर्मीया

पुत्रन्यासं सुतस्थापनं च स्मरन् ॥ ४३ ॥

कृष्णरामौ परिष्वज्य पितरावभिवाद्य च ।

न किञ्चनोचतुः प्रेम्णा साश्रुकण्ठौ कुरूद्वह ॥ ४४ ॥

पदरत्नावली

कृष्णरामयोर्जनमोहनविडम्बं कथयति– कृष्णरामाविति ॥४४–४५॥

सत्यधर्मीया

पितरौ यशोदानन्दौ ॥ ४४ ॥

तावुत्सङ्गं समारोप्य बाहुभ्यां परिरभ्य च ।

यशोदा च महाभागा सुतौ विजहतुः शुचः ॥ ४५ ॥

दुर्घटभावदीपिका

महाभाग्यशीला नन्दगोपश्चेत्येतौ । सुतौ तौ रामकृष्णावुत्सङ्गं समारोप्य बाहुभ्यां परिरभ्य च शुचः शोकान्विजहतुरिति । एतेन यशोदानन्दगोपौ शुचो विजहाविति वक्तव्यम् । विजहतुरिति कथनमयुक्तमिति दूषणं परास्तम् । नन्दगोप इत्येताविति पदानामध्याहारेण यशोदा नन्दगोपश्चेत्येतौ शुचो विजहतुरित्यर्थस्योक्तत्वात्

॥ ४५ ॥

सत्यधर्मीया

यशोदा च नन्दश्चेति तौ सुतौ । उत्सङ्गमूरुम् । उत्सङ्गमुद्गत-सङ्गमेकमेकं चोत्कृष्टसङ्गं च जगद्वहमिति तावित्यप्यर्थः । समारोप्य तथा बाहुभ्यां परिरभ्य च शुचो विरहजशोकान् विजहतुः ॥ ४५ ॥

रोहिणी देवकी चैव परिष्वज्य व्रजेश्वरीम् ।

स्मरन्त्यौ तत्कृतां मैत्रीं बाष्पकण्ठे समूचतुः ॥ ४६ ॥

पदरत्नावली

व्रजेश्वरी यशोदाम् । समूचतुः सम्भाषणं चक्रतुः ॥ ४६ ॥

सत्यधर्मीया

व्रजेश्वरीं यशोदां बाष्पकण्ठे देवकी रोहिणी चेत्युभे । बाष्पकण्ठाविति पाठे यशोदानन्दौ प्रति समूचतुरित्यर्थः । बाष्पकण्ठाविति पाठो ललितः । तत्कृतं यशोदानन्दकृतम् । मैत्रीं स्मरन्त्यौ ॥ ४६ ॥

को विस्मरेत वां मैत्रीमनुवृत्तां व्रजेश्वरि ।

अप्यवाप्यैन्द्रमैश्वर्यं यस्या नेह प्रतिक्रिया ॥ ४७ ॥

पदरत्नावली

यस्या मैत्र्याः । वां युवयोः ॥ ४७ ॥

दुर्घटभावदीपिका

हे व्रजेश्वरि । यस्या मैत्र्याः । इहास्मिंल्लोके भूलोके विद्यमान-मैश्वर्यमर्थमैश्वर्यं च । ऐन्द्रमैश्वर्यमिन्द्रसम्बन्धिस्वर्गैश्वर्यमपि । प्रतिक्रिया न वा प्रतिक्रिया नैव । तामनुवृत्त• सर्वदा प्रवृत्तां वां युवयोर्मैत्रीं को विस्मरेत न कोऽपीति । एतेनाथवाऽ-पीहेति पदानां वैय्यर्थ्यमिति चोद्यं प्रत्युक्तम् । लोके विद्यमानमिति पदयोः शेषमैश्वर्य-मित्यस्यावृत्तिं चशब्दार्थस्यार्थेतिशब्दस्यापिशब्दस्य च परस्परसमुच्चयार्थत्वं, वेत्यस्यैवार्थत्वं स्वीकृत्येह लोके विद्यमानमैश्वर्यं चैन्द्रमैश्वर्यमपि प्रतिक्रिया नैवेत्यर्थस्योक्तत्वात् ॥ ४७ ॥

सत्यधर्मीया

हे व्रजेश्वरि हे व्रजेश्वर । वामनुवृत्तामविच्छिन्नां मैत्रीम् । को विस्मरेत विस्मरेत् । का विस्मरेतेति ते । प्रक्रमानुरोधेन वक्तव्ये क इति वदन्त्यौ स्मरणेऽस्मरणे च स्वातन्त्र्यं किञ्चित्प्रत्यादरणेऽपि न स्त्री स्वातन्त्र्यमर्हतीत्यादेर्नावयोः पत्यादेरिति सूचयत इति मन्तव्यम् । नैवास्ति प्रत्युपकृतियोग्यं किञ्चिदथवा दातव्यं चेल्लोकेऽविकत्वेन (?) सम्प्रतिपन्नं चैन्द्रमैश्वर्यं च यस्या मैत्र्याः प्रतिक्रिया तत्फलरूपं न

॥ ४७ ॥

एतावदृष्टपितरौ युवयोः स्म पित्रोः सम्प्रीणनाभ्युदयपोषणपालनानि ।

प्राप्योषतुर्भवति पक्ष्म ह यद्वदक्ष्णोर्न्यस्तावकुत्र च भयौ न सतां परस्तात्

॥ ४८ ॥

पदरत्नावली

एतौ रामकृष्णौ । युवयोः पित्रोः समीपे न्यस्तौ युवयोः सम्प्रीण-नादीनि प्राप्य ऊषतुः । सम्प्रीणनं सम्प्रीतिः । अभ्युदयो जातकाद्यभिवृद्धिकर्म । रसाय-नादिना पुष्टीकरणं पोषणम् । कीदृशौ ? अदृष्टपितरौ पितृशब्दास्पदास्मद्दर्शनमप्राप्तौ । सतां परस्तात् सज्जनेभ्योऽन्यत्राकुतश्चनभयौ कुत्रचिद् भययुक्तौ न भवतः । कुत्र चेत्युक्तं सङ्क्षिपति नकारेण । सत्सु भययुक्तावित्यर्थः । ब्राह्मणादिसज्जनवधाद् बिभ्यतौ ।

यद्वा बाल्ये विडम्बनार्थं सज्जनमन्तरेण दृष्टेभ्यो नाकुत्रचभयौ न बिभ्यतावित्यर्थः । तत्र दृष्टान्तमाह– पक्ष्मेति । यद्वद् यथा समीपन्यस्तत्वात्, पक्ष्मेत्येकवचनं द्विवचनार्थे पक्ष्मणी अक्ष्णोर् नेत्रयोः कुतश्चिद्भयनिवारके, तथा युवामिति शेषः ॥ ४८ ॥

दुर्घटभावदीपिका

एतौ रामकृष्णौ । यदा सतां परस्तात्सज्जनेभ्योऽन्यस्मात् । अकुत्रचभयावित्येकं पदम् । कुतोऽपि भयरहितौ न किन्तु सर्वस्मादपि भययुक्तौ । अनेनातिबालावित्युक्तं भवति । अतिबालानां हि सज्जनव्यतिरिक्तमक्षिकादिसर्वप्राणिभयं तिष्ठति तदा भवत्समीपे न्यस्तावदृष्टपितरौ युवयोः पित्रोः सकाशात्सम्प्रीणनाभ्युदयपोषण-पालनानि प्राप्योषतुरित्येतत् स्म प्रसिद्धम् । पालने दृष्टान्तमाह– भवतीति ॥ पक्ष्म यद्वदक्ष्णोः पालकं तथा भवद्भ्यां पालनं कृतमित्येतद्धि प्रसिद्धमिति । एतेन रामकृष्णयोः कुतोऽपि कदाऽपि भयाभावाद् यदा सज्जनव्यतिरिक्तमक्षिकादिसर्वप्राणिभययुक्तौ तदा भवत्समीपेन्यस्ताविति कथनमयुक्तमिति दूषणं निरस्तम् । यदा रामकृष्णयोरतिबाल्यं तदा भवत्समीपे न्यस्तावित्यर्थप्रतिपादन एव तात्पर्यात् ॥ ४८ ॥

सत्यधर्मीया

अदृष्टौ पितरावहं वसुदेवश्चेत्येतौ याभ्यां तौ । यद्यपि नद्यृतश्चेति कपा भाव्यं तत्पितृत्वमेवाप्रामाणिकमिति ध्वनयितंु स नायात इति ज्ञेयम् । पित्रोर्यशोदानन्दयो-स्तथामतयोर्युवयोः सम्प्रीणनं सम्प्रीतिजननमभ्युदयो जातकर्माद्यभिवृद्धिव्यापारः पोषणं रसायनादिभोजनतः पालनमनलानिलादितः । एतानि प्राप्यास्माभिर्न्यस्तौ । मयूरव्यंसकादि-समासः । तर्हि लोकानुकरणार्थं सर्वमनुकुर्वतोः सद्भ्योऽपि भयं न किमित्यत आहतुः । न सतां परस्तादसद्भ्योऽन्यत्र सद्भ्य इति यावत् । सभयाविति शेषः । सतां परस्तादकुत्र च भयौ । पक्ष्मेत्येकवचनेन बलपक्षे यथाकथञ्चित् संरक्षणं भवेन्न भवेत्कथञ्चिदपि भगवत्पक्ष इति मन्तव्यम् । पक्ष्मेत्यक्षिलोमवाचकपदोत्तरमेकवचनेन शुक्लकेशकृष्णकेशयोरैक्यं सूच्यत इति वा । न सतां परस्तात् । असदन्येषां सतामिति यावत् । कुत्र न च विद्यते भयं याभ्यामित्यकुत्रचभयाविति वा ॥ ४८ ॥

गोप्यश्च कृष्णमुपलभ्य चिरादभीष्टं यत्प्रेक्षणे दृशिषु पक्ष्मकृतं शपन्ति ।

दृग्भिर्हृदीकृतमलं परिरभ्य सद्यस्तद्भावमापुरपि नित्ययुजां दुरापम् ॥ ४९ ॥

पदरत्नावली

गोप्यश्चिरकालाद् दृष्टं कृष्णमुपलभ्य दृष्ट्वा सद्यः दृग्भिर् हृदिकृतम् अलं परिरभ्य तद्भावं तस्मिन् योग्यां भक्तिमापुरित्यन्वयः । कीदृशम् ? नित्ययुजां नित्य-मनोयोगिनामपि दुरापम् । दुरापमित्यनेन भक्तेरेव प्राधान्यं सूचयति । या गोप्यः यत्प्रेक्षणे, तादर्थ्ये सप्तमी प्रेक्षणार्थं दृष्टिषु नेत्रेषु पक्ष्मणां कृतं निमेषलक्षणं कर्म शपन्ति । पक्ष्मकर्तारं विधिञ्चेत्यनेन भक्त्यतिशयो दर्शितः ॥ ४९–५० ॥

सत्यधर्मीया

गोप्योऽभीष्टं कृष्णं चिरादुपलभ्य यस्य प्रेक्षणे प्रसक्ते दृशिषु नेत्रेषु पक्ष्मकृतमुन्मीलनिमीलनादिरूपं तद्व्यापारम् । पक्ष्मणां कृतं धातारं वा शपन्ति । क्रिया-प्रबन्धे लट्् । अशपन् । दृग्भिर्हृदी कृतमलमिति वृत्तलक्षणव्यत्यस्त्या तासां सद्वृत्तव्यत्यासं ध्वनयति । दृग्भिर्नीरीक्ष्यानन्तरे हृदि कृतं साकारमङ्कूरितमलं परिरभ्य नित्यं मनोयुजो योगिनस्तेषामपि दुरापं दुष्प्रापं तद्भावं तद्भक्तिम् । भावो भक्तिस्समुद्दिष्टेति बृहद्भाष्योक्तेः । आपुः । प्रेक्षण इति तादर्थ्ये सप्तमी वा ॥ ४९ ॥

भगवांस्तास्तथाभूता विविक्त उपसङ्गताः ।

आश्लिष्यानामयं पृष्ट्वा प्रहसन्निदमब्रवीत् ॥ ५० ॥

सत्यधर्मीया

भगवान्कृष्णो विविक्ते एकान्ते उपसङ्गता मिलिता आश्लिष्य तथाऽ-नामयं नीरोगतां पृष्ट्वा प्रहसन्निदमब्रवीत् ॥ ५० ॥

श्रीभगवानुवाच—

अपि स्मरथ नः सख्यः स्वानामर्थचिकीर्षवः ।

गतांश्चिरायितानन्यासङ्गात् कृपणचेतसः ॥ ५१ ॥

पदरत्नावली

स्वानां यदूनाम् अर्थचिकीर्षवो ऽभीष्टं कर्तुकामा अन्यासङ्गादन्य-कार्यासक्तेश्चिरायितान् चिरादनागतान् । कृपणेषु चेतो यासां तास्तथा ॥ ५१ ॥

दुर्घटभावदीपिका

हे सख्यः । यतो वयं स्वानां यदूनामर्थचिकीर्षवः प्रयोजनं कर्तुकामाः । यतश्च कृपणचेतसः कृपणेषु यादवव्यतिरिक्तासमर्थेषु च चेतो येषां ते कृपणचेतसः । यादवव्यतिरिक्तासमर्थकार्यमपि कर्तुकामा इति यावत् । अतो गतानन्या-सङ्गाद् अन्यकार्यासक्तेश्चिरायितान् बहुकालमगतानस्मान् स्मरथापि स्मरथ किमिति । एतेन चिरायितानित्येतव्द्यर्थमिति दूषणं परास्तम् । अयधातोः क्तप्रत्यये इडागमे निष्पन्न अयितशब्दः गतत्ववाची । अयितशब्दस्य आङ् योगे आगतत्वरूपार्थो लभ्यते । अयित-शब्दस्य नञा योगे छान्दसत्वान्नुडभावे अनागतत्वरूपार्थो लभ्यते । चिरशब्देन बहुकाल-मित्यर्थो लभ्यते इत्यभिप्रेत्य चिरायितानित्यस्य बहुकालमनागतानित्यर्थस्योक्तत्वात् ॥५१॥

सत्यधर्मीया

हे सख्यः स्वानां ज्ञातीनामर्थं चिकिर्षव इति विग्रहः । न लोकेति षष्ठीप्रतिषेधात् । कृपणचेतसो गतान् । अन्यासङ्गात्कार्यान्तरासक्तेः । अन्यासामासङ्गा-त्तदूहितोऽप्यर्थो भवतु का हानिरित्यपि भगवद्भावः । चिरायितान् आगमनालस्यं कृतवतो नः स्मरथापि स्मरथ किम् ॥ ५१ ॥

अवबुद्ध्य यथाऽस्मासु इदमेव विशङ्कये ।

नूनं भूतानि भगवान् युनक्ति वियुनक्ति च ॥ ५२ ॥

पदरत्नावली

यथा यथावदवबुध्यास्मास्विदमेव विशङ्कये । किं तदिति तत्राह– नूनमिति ॥ ५२ ॥

वायुर्यथा घनानीकं तृणतूलरजांसि च ।

संयोज्य क्षिपते भूयस्तथा भूतानि भूतकृत् ॥ ५३ ॥

पदरत्नावली

एतदेव विवृणोति– वायुरिति ॥ ५३ ॥

सत्यधर्मीया

यथायथावत्सम्यगिति वा । अवबुद्ध्य विचार्यास्मासु यूयं वयं चेति

वयम् । त्यदादित्वात्परस्यैकशेषः । इदमेवेत्यपरनिरासः । विशङ्कये तर्कयामि । किं तदित्यत आह ॥ नूनमिति ॥ त्वमेव योजयिता वियोजयिता चेति तन्मुखत एव वादयितुं परोक्षत आह । भगवान् हरिभूर्तान्यस्मदादिभिर्युष्मदादीनि युनक्ति संयोजयति वियुनक्ति विनियोजयति च प्रागिह संयोगकर्तेदानीं विनियोगकर्तेश्वर इति भावः । एतमेवाभिप्रायं निदर्शनेन द्रढयति ॥ वायुरिति ॥ घनानामनीकं मेघमण्डलं तथा तृणं च लघु तूलं कार्पासो रजांसि परागादीनि संयोज्यानन्तरं क्षिपते । तथा भूतकृद्धरिर्भूतानि संयोज्य भूयः पुनः क्षिपति । भूतकृद्यत्किञ्चिद्भूतकृद्वायुरपीति तदुभयान्वयीति ज्ञेयम् ॥५३॥

मयि भक्तिर्हि भूतानाममृतत्वाय कल्पते ।

दिष्ट्याऽऽसीन्मयि सुस्नेहो भवतीनां मुदावहः ॥ ५४ ॥

पदरत्नावली

प्रेष्ठवियोगादस्माकमनुताप इति तत्राह– मयीति ॥ ५४ ॥

सत्यधर्मीया

परमरहस्यदृष्टौ तु मम युष्माकं च सर्वथा वियोग इति वक्तुं तत्स्वभावमावेदयति ॥ मयीति ॥ मयि भक्तिर्भूतानां जनानाममृतत्वाय मुक्तये कल्पते । किमापणवीथीकथया कथयोपयुक्तमित्यतः कथयति । मुदावहः स्वरूपसुखप्रापकः । अनेनामृतत्वेति विवृतार्थम् । भवतीनां सुस्नेह इदमपि भक्तिशब्दार्थकथनमिति बोध्यम् । दिष्ट्या सुखेनासीत् । उत्पन्न इति ॥ ५४ ॥

अहं हि सर्वभूतानामादिरन्तोऽन्तरं बहिः ।

भौतिकानां यथा स्वं वा भूर्वायुर्ज्योतिरङ्गनाः ॥ ५५ ॥

पदरत्नावली

मम परिच्छिन्नत्वे मद्वियोगशङ्का तदेव नास्ति सर्वगतत्वादिति हिशब्दसूतिं हेतुं व्यनक्ति– अहं हीति ॥ आदिः कारणम् । अन्तः संहर्ता । आद्यन्तकाले वर्तमानो वा । ननूक्तशङ्कायाः कः परिहार इति तत्राह– अन्तरमिति ॥ हे अङ्गना यथा खादिभूतानि भौतिकानाम् । घटकविवक्षयैकवचनम् ॥ ५५ ॥

दुर्घटभावदीपिका

हे अङ्गनाः । अहं सर्वभूतानां सर्वप्राणिनामादिः कारणमतः सर्वप्राणिनामन्तरमन्तर्बहिस्तिष्ठामीत्येतद्धि प्रमाणप्रसिद्धम् । अत्र दृष्टान्तमाह– भौतिका-नामिति ॥ भौतिकानां पदार्थानामन्तर्बहिः खमाकाशो वाऽऽपश्च भूर्वायुर्ज्योतिस्तेज इत्येतानि पञ्चमहाभूतानि यथा भौतिकानां पदार्थानामन्तर्बहिः स्थितानि तथाऽहं सर्वप्राणि-नामन्तर्बहिस्तिष्ठामीति । एतेनाकाशादिपञ्चमहाभूतानि भौतिकानामन्तर्बहिस्तिष्ठन्तीति कथन-मयुक्तमिति चोद्यं पराकृतम् । अनुक्तसमुच्चयार्थकेन वाशब्देनापां गृहीतत्वात् ॥ ५५ ॥

सत्यधर्मीया

अहं सर्वभूतानामादिरूत्पादकस्तथाऽन्तो नाशकोऽन्तरं मध्ये च बहिश्च वर्ते । हिरन्तर्बहिश्च तत्सर्वं व्याप्य नारायणः स्थितः । तद्दूरे तद्द्वन्तिके । तदन्त-रस्य सर्वस्य तदु सर्वस्य बाह्यत इत्याद्यागमप्रसिद्धिद्योतकः । अङ्गना भौतिकानां पदार्थानां खमाकाशो जलं भूः पृथ्वी वायुर्ज्योतिरग्निः । भौतिकानामन्तर्बहिश्च यथा भूतानि वर्तन्ते इति न दृष्टान्तः । वृषा यूथे वेत्यृग्भाष्येऽल्पस्यापि प्रसिद्ध्यैव दृष्टान्तत्वं हि युज्यत इत्युक्तेर्हरे-र्निरवधिकव्याप्तत्वात् । यथा भूतानीत्युक्तौ न प्रतीयते कार्यकारणभावः । किञ्च क्रमेणोक्तौ स्वातन्त्र्यं च तेषां प्रतीयेतेत्येषामेकैकशो ग्रहणमिव व्यत्यस्योक्तिरिति च ध्येयम् ॥ ५५ ॥

एवमेतानि भूतानि भूतेष्वात्माऽऽत्मना ततः ।

उभयं मय्यथपरे पश्यताथ तमक्षरे ॥ ५६ ॥

पदरत्नावली

आत्मना परमात्मना । तत इति खादीनि ततानि जीवस्तत इति योज्यम् । विध्यभावादौपचारिको व्यपदेश इति तत्राह– उभयमिति ॥ यद् एतदुक्तं शास्त्रीयमथ तस्मादुभयं जीवभूतशब्दवाच्यं तत्वं परे सर्वोत्तमे अक्षरे ब्रह्मणि मय्याततमिति पश्यथेत्यन्वयः । अनेनेदं श्रद्धेयमित्यायातमिति ज्ञायते ॥ ५६ ॥

दुर्घटभावदीपिका

यथैतानि प्रत्यक्षसिद्धानि भूतानि भूतकार्याणि भूतेषु तता-न्याश्रितान्यात्माऽऽत्मना तत इत्येकवचनानि जातौ यथा चात्माऽऽत्मनोऽधमजीवा आत्म-नाऽऽत्मभिः स्वकारणब्रह्मादिजीवैस्ततस्तताः सम्बद्धा अधमजीवाः स्वकारणेषु ब्रह्मादिषु आश्रिता इति यावत् । एवमुभयं भूतानि जीवाश्चेत्युभयं परेऽक्षरे । कारण इति शेषः । कारणे मय्याततमाश्रितं पश्यथ । भूतानीत्याद्युक्तदृष्टान्तयोः समुच्चयार्थः । चशब्दार्थोऽयं शब्द इति पूर्वश्लोके आकाशादिदृष्टान्तेन भगवतः सर्वेषामन्तर्बहिरवस्थानमुक्तम् । अस्मिन् श्लोके भूतकार्याद्यधमजीवदृष्टान्ताभ्यां भूतानां जीवानां च भगवदाश्रितत्वमुच्यत इति विवेको द्रष्टव्यः

॥ ५६ ॥

॥ इति श्रीसत्याभिनवतीर्थविरचितायां दुर्घटभावदीपिके उत्तरार्धे सप्ततितमोऽध्यायः ॥ १०–७० ॥

सत्यधर्मीया

एवमेतानि भूतानि भौतिकेषु ततानि परमात्मना ततानि तैनैवात्मा च ततः । तर्हि स आत्मा त्वदितरः किमित्यतोऽहमेव स इति विधत्ते । उभयं भूतान्यात्मे-त्युभयं कोटिद्वयं मय्यक्षरे परे आततं पश्यथ । अथपर इति पदमेकम् । न विद्यतेऽन्नं यस्य स चासौ परश्च तस्मिन् । अनश्नन्नन्योऽभिचाकसीति । अन्यो निरन्नोऽपि बलेन भूया-नित्यादि श्रुतिस्मृतयोऽत्र भवन्ति । अन्नं थमिति श्रुतेः ॥ ५६ ॥

श्रीशुक उवाच—

अध्यात्मशिक्षया गोप्य एवं कृष्णेन शिक्षिताः ।

तदनुस्मरणध्वस्तजीवकोशास्तुमध्यगुः ॥ ५७ ॥

पदरत्नावली

स्त्रीणामयमुपदेशो घटपृष्ठसलिलासेकवद् व्यर्थ इति तत्राह– अध्या-त्मेति ॥ देहमधिकृत्य वर्तमानानां परमात्मादितत्वानां शिक्षयोपदेशलक्षणया शिक्षिता विद्योपादानं कारिताः, तदनुस्मरणेन तस्य कृष्णस्य निरन्तरोपासनया जातज्ञानाग्निना ध्वस्तो दग्धः जीवकोशः लिङ्गशरीराभिमानो यासां तास्तथा तं कृष्णमध्यगुस् तं ज्ञातवत्यः ॥ ५७ ॥

सत्यधर्मीया

एवमध्यात्मशिक्षयाऽध्यात्मानं देहमधिकृत्य विद्यमानानां परमात्म-तत्त्वानां शिक्षयोपदेशेन कृष्णेन शिक्षिता उपात्तविद्या गोप्यस्तस्य कृष्णस्यानुस्मरणेन ध्वस्तो जीवकोशः शरीरं तदभिमान इति यावत् । यासां ताः श्रीकृष्णं तं हरित्वेनाध्यगुर्व्यजानन् । या एवं प्राङ्न शिक्षितास्ता गोप्यः कृष्णेऽध्यात्मशिक्षया ब्रुवति सति । इतरं पुरावत्

॥ ५७ ॥

नताः स्म ते नाथ पदारविन्दं योगेश्वरैर्हृदि विचिन्त्यमगाधबोधैः ।

संसारकूपपतितोत्तरणावलम्बं गेहं जुषामपि मनस्युदियात् सदा नः ॥ ५८ ॥

॥ इति श्रीमद्भागवते दशमस्कन्धे सप्ततितमोऽध्यायः ॥

पदरत्नावली

ज्ञातकृष्णतत्वा इदं जगुरित्याह– नताः स्मेति । अस भुवीत्यस्या-शिषि प्रयोगः नता भवामेति प्रार्थयामहे । जन्मान्तरेऽपि त्वत्पादाब्जनमनमाशास्मह इत्यर्थः । ननु किमस्य माहात्म्यं येन तन्नमनमर्थनीयमिति तत्राह– योगेश्वरैरिति ॥ यत्याश्रमिवज् ज्ञानदुर्बला नेत्याह– अगाधेति ॥ किमर्थं विचिन्त्यमिति हेतुगर्भविशेषणमाह संसारेति संसार-कूपपतितानाम् अस्मादुत्तरणावलम्बम् ऊर्ध्वगमनलक्षणाधिश्रेणिहस्ताधारम् । किञ्च गेहञ्जुषां गेहाख्यदेहपोषणनिरतानामपि नो मनसि सदोदियान्निरन्तरमुदेतु, त्वत्स्वरूपमिति शेषः

॥ ५८ ॥

॥ इति श्रीमद्भागवतटीकायां श्रीविजयध्वजतीर्थकृतायां पदरत्नावल्यां

दशमस्कन्धे उत्तरार्धे सप्ततितमोऽध्यायः ॥

सत्यधर्मीया

अध्यगुरित्युक्तज्ञानवतीनां गोपीनां प्रार्थनाम् । प्रार्थनाऽस्माकमिय-मित्याहुः ॥ नता इति ॥ नाथ ते अगाधबोधैर्योगेश्वरैर्हृदि विचिन्त्यं योगेश्वरमात्रविचिन्त्यं चेत्कार्यसमयसमयातानां मशकानां किमिति नीतिवन्नेति शंसति ॥ संसारेति ॥ संसार एव कूपस्तत्पतितानामुत्तरणे ऊर्ध्वमागमनेऽवलम्बं निःश्रेण्याद्याश्रयं पदाराविन्दं नताः स्म । गेहं जुषां सेवमानानामपि नो मनसि सदा तत्पदारविन्दमुदियाद् ध्यानकाले उदितं भवतु । एतदर्थं नताः स्मेति वाऽन्वयः । अस भुवीत्यस्याशिषि प्रयोगः । नता भवामेति प्रार्थयामहे । जन्मान्तरे तु त्वत्पादाब्जनमनमाशास्मह इत्यर्थ इत्यस्यार्थः प्रेक्षावदीक्षणीयः । भूरादेशस्य वर्जनीयत्वादिति केचित् । स्म तव महत्त्वं स्मृत्वेति वा ॥ ५८ ॥

॥ इति श्रीसत्यधर्मयतिकृतायां भागवतटिप्पण्यां दशमस्कन्ध उत्तरार्धे

सप्ततितमोऽध्यायः ॥ १०–७० ॥