पौण्ड्रको नाम राजा वै तस्मिन् काले कुरूद्वह
॥ अथ एकोनसप्ततितमोऽध्यायः ॥
श्रीशुक उवाच—
पौण्ड्रको नाम राजा वै तस्मिन् काले कुरूद्वह ।
द्वारकां वृष्णिनिलयां निरुध्य बहुसैनिकः ॥ १ ॥
मर्दयामास कृष्णेन विदित्वा रहितां निशि ।
तं कामपालः शैनेयो वसुदेवोद्धवादयः ॥ २ ॥
पदरत्नावली
न यस्य स्वः पर इतीममर्थं सत्यं कर्तुं पौण्डूकवधलक्षणं विक्रमं कथयितुमुत्तराध्यायप्रारम्भः । तस्मिन् काले कृष्णरहितां विदित्वा । कामपालो बलभद्रः
॥ १–२ ॥
सत्यधर्मीया
हरिसमताममतानां दशेदृशी धुरीति विवरीतुं तथा मन्तुः पौण्ड्रक-वासुदेवस्य यादववासुदेवेन कृतां क्रियां वक्त्यत्राध्याये । तत्रादौ बदरिकाश्रमं गतवति गरीयसी नगरी गृहीतुं सुशकेति मन्वानो द्वारकामगादित्याह ॥ पौण्ड्रक इति ॥ तस्मि-न्काले बहुसैनिको बहवः सैनिका यस्य सः । कृष्णेन रहितां विदित्वा वृष्णिनिलयां निशि रात्रौ निरुद्ध्यार्दयामास । तं पौण्ड्रकं कामपालो हालयुधो वसुदेवश्चोद्धवश्चादी येषां ते
॥ १,२ ॥
उग्रसेनश्च कौरव्य ये चान्ये यदुपुङ्गवाः ।
अर्पयामासुरायान्तं कालयोग्यमिवातिथिम् ॥ ३ ॥
पदरत्नावली
अर्पयामासुः, शरानिति शेषः ॥ ३–४ ॥
सत्यधर्मीया
हे कौरव्य । अतिथिं काले यथा तथाऽऽयान्तं तं प्रति शरीरानिति
शेषः । अर्पयामासुः ॥ ३ ॥
राजोवाच —
कश्चासौ पौण्ड्रको नाम कस्मिन् देशे महीमतिः ।
कस्य वा तनयो ब्रह्मन् सर्वमेतद् वदस्व मे ॥ ४ ॥
सत्यधर्मीया
कः किंकुलः क्व वा राजा कस्य तनयो ब्रह्मन् एतत्सर्वं मे वदस्व
॥ ४ ॥
श्रीशुक उवाच—
अपुत्रः काशिराजो वै कन्यां सुतनुसञ्ज्ञिताम् ।
प्रायच्छद् वसुदेवाय राज्यशुल्कां कुरूद्वह ॥ ५ ॥
पदरत्नावली
राज्यमेव शुल्कं यस्या सा तथा ताम् ॥ ५–६ ॥
सत्यधर्मीया
अपुत्रः पुत्ररहितः काशीति नगरनाम । सुतनुरिति सञ्ज्ञिता ताम् । राज्यमेव शुल्कं यस्याः सा ताम् । वसुदेवाय प्रायच्छद्ददौ ॥ ५ ॥
तत्र जज्ञे महाबाहुर्दिवाकरसमद्युतिः ।
कुमारः पौण्ड्रको नाम बलवीर्यमदान्वितः ॥ ६ ॥
सत्यधर्मीया
तत्र सुतनौ पौण्ड्रको नाम कुमारो जज्ञे उदभूत् ॥ ६ ॥
वसुदेवसुतत्वाच्च वासुदेवेति शब्दितः ।
जाते तस्मिन् महाराजो वसुदेवो महाद्युतिः ॥ ७ ॥
पदरत्नावली
नामान्तरमाह– वसुदेवेति ॥ ७–९ ॥
राज्यं तस्मिन् समारोप्य सकोशबलवाहनम्
उवाह कंसावरजां देवकीं देवतोपमाम् ॥ ८ ॥
सत्यधर्मीया
वासुदेव इति नाम चैतस्मादित्याह ॥ वसुदेवसुतत्वादिति । शब्दितः सञ्जातशब्दस्तस्मिञ्जाते सति शुल्कत्वेन सङ्कल्पितं राज्यं तस्मिन्पौण्ड्रके समारोप्य । तदारोपणं न शून्यीकृत्येत्याह ॥ सकोशबलवाहनमिति ॥ अनन्तरं कंसावराजां देवतोपमां देवकीमुवाह परिणिनाय ॥ ७,८ ॥
निरुद्धो भोजराजेन कंसेनानकदुन्दुभिः ।
कदाचिदपि न प्रायात् करवीरपुरीमपि ॥ ९ ॥
सत्यधर्मीया
कदाचिदपि करवीरपुरीमपि न प्रायात् । तां तु नेति किं वक्तव्य-मित्यर्थसूचकोऽपिः ॥ ९ ॥
असह्यं मातृसापत्न्यमभ्रातृत्वं तथाऽऽत्मनः ।
स्मरमाणः स काशीशो यदूनुद्विजतेऽनिशम् ॥ १० ॥
पदरत्नावली
उद्विजते भीतिं करोति । भयकारणमात्मन एव फलतीति द्योतनाय स्मरमाण इति ॥ १० ॥
स कृष्णरहितां श्रुत्वा समेत्य द्वारकां निशि ।
विमृद्य बलभद्रेण शैनेयेनापि निर्जितः ॥ ११ ॥
पदरत्नावली
द्वारकां समेत्यापमृद्य ॥ ११ ॥
सत्यधर्मीया
मातुः सुतनोः सापत्न्यं सपत्नीसाहित्यम् । किञ्ज पुनरनागमना-द्वसुदेवस्य न गर्भनिभृता मातुरिति स्वस्य भ्रातृकत्वं चासह्यं सोढुमशक्यम् । स्मरमाणः स्मरन् । यदूननिशमुद्विजते उद्वेजयति । विमृद्य मर्दयित्वा बलभद्रेण शैनेयेन चेत्युभाभ्यां निर्जितः पराभूतः ॥ ११ ॥
निहतानेकसाहस्रहयकुञ्जरसैनिकः ।
जगाम परशर्वर्यां पुरीं वाराणसीं नृप ॥ १२ ॥
पदरत्नावली
परशर्वर्यामपररात्रे उषःकाले ॥ १२–१५ ॥
सत्यधर्मीया
निहता अनेकसाहस्रहयकुञ्जरसैनिका यस्य स सन् । वारणसीं पुरीं स्वां परशर्वर्यामुषःकाले जगाम ॥ १२ ॥
प्रभातायां तु शर्वर्यां हरिर्बदरिकाश्रमात् ।
आययौ तार्क्ष्यमारुह्य द्वारकां रामपालिताम् ॥ १३ ॥
सत्यधर्मीया
शर्वर्यां प्रभातायां प्रभया सूर्यप्रभयाऽतायां गतायां तार्क्ष्यं पिता-पुत्रयोर्नामेदं गरुडम् ॥ १३ ॥
सपताकैः सार्ध्यपाद्यैर्यदुवृष्ण्यन्धकादिभिः ।
अभिवर्णितवृत्तान्तः प्राविशत् केशवः सभाम् ॥ १४ ॥
कदाचित् पौण्ड्रको नाम काशिराजः प्रतापवान् ।
वासुदेवोऽहमित्यज्ञो दूतं कृष्णाय प्राहिणोत् ॥ १५ ॥
सत्यधर्मीया
अभिवर्णितवृत्तान्तोऽभिवर्णितो रामादिभिर्वृत्तान्तः पौण्ड्र्रकवार्ता यस्य सः । सभां सुधर्माम् । तिष्ठतु ज्येष्ठ इति कृष्णे तूष्णीके सति । तदायुरासन्नमिति मतिरियमुदभूत्तस्येति वक्ति । कदाचिद्दूतं कृष्णाय प्राहिणोत् प्रेषयामासेति । प्रह्रे इति पिङ्गलनागोक्तेः प्रोत्तरको यकारो लघुः सन् पौण्ड्रककार्यलाघवं सूचयतीति ज्ञेयम् ॥ १५ ॥
त्वं वासुदेवो भगवानवतीर्णो जगत्पतिः ।
इति प्रस्तोभितो बालैर्मेने स्वात्मानमच्युतम् ॥ १६ ॥
पदरत्नावली
बालैरज्ञैः प्रस्तोभितोऽविद्यमानगुणेन प्रस्तुतो मूढाक्षेपमुक्तो वा
॥ १६–१८ ॥
सत्यधर्मीया
इति बालैर्मूर्खैः प्रस्तोभितो वञ्चितोऽपि भवान्स्वात्मानमच्युतं मेने जानाति । त्वं देवशक्त्यां गुणकर्मयोनौ रेतस्त्वजायां कविरादधेऽज इत्युदाहृत्य ऋग्भाष्य-टीकायां मध्यमपुरुषादिनियमो नास्तीत्युक्तेरनियमेन इत्यन्वयो वा । विस्तृतं चास्माभिरनु-सन्धेयम् । बालालाप एव मूलं तवाच्युतनाम न स्यादिति भावः ॥ १६ ॥
दूतस्तु द्वारकामेत्य सभायामास्थितं हरिम् ।
कृष्णं कमलपत्राक्षं राजसन्देशमब्रवीत् ॥ १७ ॥
सत्यधर्मीया
राजसन्देशमज्ञपौण्ड्रकाज्ञाम् ॥ १७ ॥
वासुदेवोऽवतीर्णोऽहमेक एव न चापरः ।
भूतानामनुकम्पार्थं त्वं तु मिथ्याभिधां त्यज ॥ १८ ॥
सत्यधर्मीया
भूतानामुपर्यनुकम्पार्थं तां कर्तुं मिथ्याभिधां मुधा नाम त्यज ॥१८॥
यानि त्वमस्मच्चिह्नानि मौढ्याद् बिभर्ष्यभीतवत् ।
**त्यक्त्वैहि मा त्वं शरणं नो चेद् देहि ममाहवम् ॥ १९ **
पदरत्नावली
अस्मच्चिह्नानि चक्रादीनि । मां शरणमेहि ॥ १९ ॥
सत्यधर्मीया
अस्मच्चिन्हान्यस्माकं चिन्हानि शङ्खचक्रादीनि । अभीतवन्मौढ्यान्मूढ-तया बिभर्षि । तानि त्यक्त्वा मा मां त्वं शरणमेहि नो चेन्ममाहवं युद्धं देहि ॥ १९ ॥
कत्थनं तदुपाकर्ण्य पौण्ड्रकस्याल्पमेधसः ।
उच्चकैरुग्रसेनाद्याः सभ्याः प्रजहसुस्तदा ॥ २० ॥
पदरत्नावली
कत्थनं व्यर्थभाषणम् ॥ २० ॥
सत्यधर्मीया
अल्पमेधसः कत्थनमफलपर्यवसायिभाषणम् । उग्रसेनाद्याः सभ्याः सभायां साधवो जहसुः ॥ २० ॥
उवाच दूतं भगवान् परिहासकथामनु ।
उत्स्रक्ष्ये मूढ चिह्नानि यैस्त्वमेवं विकत्थसे ॥ २१ ॥
पदरत्नावली
अनु अनन्तरम् उत्स्रक्ष्ये त्याजयिस्ये त्वदीयानि चिह्नानि ॥ २१२२॥
दुर्घटभावदीपिका
भगवान्परिहासकथां कृत्वा । अनु परिहासकथाया अनन्तरं दूतमुवाच । किमुवाचेत्यत आह– उत्स्रक्ष्य इति । हे मूढ । यैश्चिह्नैस्त्वमेव विकत्थसे तानि चिह्नानि उत्स्रक्ष्यते । अन्तर्णीतण्यर्थोऽयम् । त्याजयिष्यति । एतेन परिहासकथाया अनूवाचेति वक्तव्यम् । परिहासकथायामनूवाचेति कथनमयुक्तमिति शङ्का निराकृता । कृत्वेति शेषं पूरयित्वा परिहासकथामित्यस्यार्थवशात्परिहासकथाया अनन्तरमुवाचेत्यर्थ-स्योक्तत्वात् ॥ २१ ॥
सत्यधर्मीया
परिहासः कथम् ? अनु तदनन्तरं यैः कल्पितैरल्पमते विकत्थसे तानि कृत्रिमचिन्हान्युत्स्रक्ष्ये त्याजयिष्ये ॥ २१ ॥
मुखं तव विधायाज्ञ कङ्कगृध्रबलैर्वृतम् ।
शयिष्यसे हतस्तत्र भविता शरणं शुनाम् ॥ २२ ॥
सत्यधर्मीया
हे अज्ञ । तव मुखं कङ्कगृध्रबकैर्वृतं विधाय यत्र शयिष्यसे तत्र शुनां सारमेयानां शरणं भविता ॥ २२ ॥
इति दूतस्तदाक्षेपं स्वामिने सर्वमाहरन् ।
कृष्णोऽपि रथमारुह्य प्रायात् काशीं ससैनिकः ॥ २३ ॥
पदरत्नावली
स्वामिने पौण्ड्रकाय ॥ २३–२६ ॥
सत्यधर्मीया
तदाक्षेपं तेन कृष्णेन कृतमाक्षेपं तिरस्कारगिरं स्वामिने पौण्ड्रकाया-हरन्काशीं प्रायात् ॥ २३ ॥
पौण्ड्रकोऽपि तदुद्योगमुपलभ्य महारथः ।
अक्षौहिणीभिः सहितो निश्चक्राम पुराद् द्रुतम् ॥ २४ ॥
सत्यधर्मीया
पुरात्काश्याः ॥ २४ ॥
तमायान्तं रथोपस्थे सुवर्णगरुडे स्थितम् ।
सुवर्णबाहुयुगलमपश्यत् पौण्ड्रकं हरिः ॥ २५ ॥
**शङ्खार्यसिगदाशार्ङ्गं श्रीवत्साद्युपलक्षितम् । **
बिभ्राणं कौस्तुभमणिं वनमालाविभूषितम् ॥ २६ ॥
सत्यधर्मीया
गरुडप्रतिनिधितया सुवर्णकृतसुपर्णे । चतुर्भुजतां दर्शयितुं सुवर्णबाहु-युगलम् । शङ्खार्यसिगदाशाङ्गम् । सेनाङ्गत्वादेकवद्भावः । दधच्चासौ श्रीवत्सलक्षितश्च तम् । श्रीवत्सार्थे दग्धवक्षःस्थलोऽभूदित्यादेर्दाहेन तत्र कालिमेति मन्तव्यम् ॥ २६ ॥
कौशेयवाससी पीते वसानं गरुडध्वजम् ।
आमुक्तमाल्याभरणं स्फुरन्मकरकुण्डलम् ॥ २७ ॥
पदरत्नावली
आमुक्तमाल्याभरणं बद्धमालालङ्कारम् ॥ २७–२९ ॥
सत्यधर्मीया
आमुक्तानि कण्ठे स्थापितानि माल्याभरणानि यस्य तम् ॥ २७ ॥
दृष्ट्वा तमात्मनाऽसाम्यं कृत्रिमाकारमास्थितम् ।
यथा नटं रङ्गगतं विजहास भृशं हरिः ॥ २८ ॥
सत्यधर्मीया
तमात्मनाऽसाम्यं न विद्यते साम्यं यस्य सोऽसाम्यः स नेति नासाम्यः साम्यवान् । आत्मना नासाम्यस्तम् । पदमेकं वेदम् । कृत्रिमाकारमास्थितम् । रङ्गगतं नटं यथा तथा तं कृत्रिमं दृष्ट्वा भृशं हरिर्जहास ॥ २८ ॥
क्षणेन तं काशिपतेः सैनिका दृढधन्विनः ।
शरैराच्छादयामासुर्मेघाः शैलमिवाम्भसा ॥ २९ ॥
सत्यधर्मीया
तं कृष्णं शरैः । यद्यपि शरशब्दो बाणस्येवोदकस्यापि वाचक इत्येकेनैव शैलशैलधरपक्षे बाणैरुदकैरित्यावृत्त्या तन्त्रेणेवार्थसम्भवेऽम्भसेत्यतिरिक्तं सद्यथोदकमकिञ्चित्करं गिरौ पतितं तथाऽरावपि पतितं न बबाधिर इति लिङ्गेन च सह ध्वनयामासेत्यवसेयम् ॥२९॥
केचिद् राजन् रथानश्वानास्थाय रणमूर्धनि ।
शूलैर्गदाभिः परिघैः शक्त्यृष्टिप्रासतोमरैः ।
असिभिः पट्टसैर्बाणैः प्रहरन्नरयो हरिम् ॥ ३० ॥
पदरत्नावली
ऋष्टिः खड्गविशेषः । प्रहरन् प्राहरन् ॥ ३० ॥
सत्यधर्मीया
आस्थायेति गजं रथांश्चेति द्वितीयान्तपदैरन्वेति । प्राहरन्नित्यपि सुपठम् ॥ ३० ॥
तस्य काशिपतेर्मित्रं पार्ष्णिग्राहोऽपरो नृपः ।
अक्षौहिणीभिस्तिसृभिरुपायान्नृप सङ्गरम् ॥ ३१ ॥
पदरत्नावली
पार्ष्णिग्राहं पृष्ठतो गोप्तारम् ॥ ३१ ॥
सत्यधर्मीया
अपरः सोऽपि काशीशः पार्ष्णिग्राहः पृष्ठरक्षस्तिसृभिरक्षौहिणीभिः सह
॥ ३१ ॥
कृष्णस्तु तत्पौण्ड्रककाशिराजयोर्बलं गजस्यन्दनवाजिपत्तिमत् ।
गदासिचक्रेषुभिरार्दयद् भृशं यथा युगान्ते हुतभुक् प्रभाज्वलन् ॥ ३२ ॥
पदरत्नावली
प्रभया ज्वलन् ॥ ३२ ॥
सत्यधर्मीया
प्रभाज्वलन् हुतभुगग्निः । युगान्ते प्रलये ॥ ३२ ॥
आयोधनं तद् रथवाजिकुञ्जरद्विपत्खरोष्ट्रैरिषुणाऽवखण्डितैः ।
बभौ च तन्मानवहं मनस्विनामाक्रीडनं भूतपतेरिवोल्बणम् ॥ ३३ ॥
पदरत्नावली
यदायोधनं युद्धस्थानं तद् बभावित्यन्वयः । अवखण्डितैरुच्छिन्नैः । ‘खडि खण्डने’ । द्विपदः पदातयः । मनस्विनां शूराणां मानवर्धनम् । भूतपतेराक्रीडं श्मशानम् ॥ ३३ ॥
सत्यधर्मीया
आयोधनं रणधरणीम् । रथाः स्यन्दना वाजिनोऽश्वाः कुञ्जरा गजा द्विपदः पदातयो गर्दभा उष्ट्राः क्रमेलकाः । मनस्विनां युद्धास्थावतां मानवहमभिमानप्रापकम् । इषुणेत्यनेनैकेनैवानेकेषामवखण्डनं सूचयता भगवत्सामर्थ्यवैपुल्यं द्योतितं भवति । भूपतेर्हरस्योल्बणमाक्रीडं क्रीडास्थानं श्मशानमिव बभौ ॥ ३३ ॥
अथाह पौण्ड्रकं शोरिर्भोभो पौण्ड्रक यद् भवान् ।
दूतवाक्येन मामाह तान्यस्त्राण्युत्सृजामि ते ॥ ३४ ॥
पदरत्नावली
किमाह शौरिरिति तत्राह– यदिति । भवान् दूतवाक्येन वासु-देवोऽवतीर्णोऽहमित्यादिलक्षणेन यन्मामाह, तत् पश्येति शेषः । किं तदिति तत्राह– तानीति । यान्युत्सृजेति भवानाह रणे तान्यस्त्राण्युत्सृजामि मुञ्चामि ॥ ३४ ॥
त्याजयिष्येऽभिधानं मे यत् त्वयाऽद्य मृषा कृतम् ।
व्रजामि शरणं तेऽद्य यदि नेच्छामि संयुगम् ॥ ३५ ॥
पदरत्नावली
अद्य त्वयाऽहं यदेव वासुदेवेत्यभिधानं मृषाकृतं तत् त्वां त्याजयिष्ये प्रहापयिष्यामि । यदि संयुगं नेच्छामि तर्हि त्वां शरणं व्रजामीति ॥ ३५–३८ ॥
इति क्षिप्त्वा शितैर्बाणैर्विरथीकृत्य पौण्ड्रकम् ।
शिरोऽहरद् रथाङ्गेन वज्रेणेन्द्रो यथा गिरेः ॥ ३६ ॥
सत्यधर्मीया
अथ दर्शनानन्तरं दूतवाक्येन वासुदेवोऽवतीर्णोऽहमित्यादिना मामाह तान्यस्त्राणि ते समक्षमुत्सृजामि त्वया यन्मृषा कृतं मिथ्यात्वेन कृतमभिधानं त्याजयिष्येति शेषः । मां स्वयं त्याजयिष्ये । स्वार्थे वा णिच् । त्यक्ष्यामि । अद्य ते त्वां शरणं यामि । कदेदं सर्वमित्यत आह ॥ यदीति ॥ त्वया सह संयुगं यदि नेच्छामि तदेदं मदनुष्ठेयमिति भावः । इति क्षिप्त्वा तिरस्कृत्य शितैर्बाणैस्तं विरथीकृत्य रथाङ्गेन चक्रेण ॥ ३४,३६ ॥
तथा काशिपतेः कायाच्छिर उत्कृत्य पत्रिभिः ।
न्यपातयत् काशिपुर्यां पद्मकोशमिवानिलः ॥ ३७ ॥
सत्यधर्मीया
काशिपतेरेतद्देशैकदेशेशस्य पत्रिभिः शिर उत्कृत्यानिलः पद्मकोशमिव काशिपुर्यां तन्नगर्यां न्यपातयत् ॥ ३७ ॥
एवं मत्सरिणं हत्वा पौण्ड्रकं ससखं हरिः ।
द्वारकामाविशत् सिद्धैर्गीयमानकथामृतः ॥ ३८ ॥
सत्यधर्मीया
एवं मत्सरिणं मात्सर्ययुक्तं ससखं मित्रकाशीशसहितम् । आर्षष्टच् । अथवा अच्प्रत्यन्ववेति अजिति योगविभागादच्प्रत्ययः । यद्वा समानं खं स्वसुखेन सुखं यस्य स सखः । मित्रमिति यावत् । तेन सहितः ससखः । तं विराजते पद्मनाभसधर्म इत्यादेः । हत्वा सिद्धैर्गीयमाना कथैवामृतं तद्वत्तृप्तिकरी यस्य सः । द्वारकामाविशत् ॥३८॥
शिरः पतितमालोक्य राजद्वारि सकुण्डलम् ।
किमिदं कस्य वा वक्त्रमिति संशयिरे जनाः ॥ ३९ ॥
पदरत्नावली
संशयिरे संशयं चक्रिरे ॥ ३९–४० ॥
दुर्घटभावदीपिका
किमिदमित्यस्येदं वक्त्रं किंनिमित्तं देहाद्वियुक्तं सदत्र पतित-मित्यर्थः । एतेनेदं वक्त्रमिति निश्चयाभावे कस्य वा वक्त्रमिति निश्चयायोगेनेदं वक्त्रमिति निश्चयस्याङ्गीकर्तव्यत्वाद् इदं किमिति संशयिर इति कथनमयुक्तमिति चोद्यं परिहृतम् । किमिदमित्यस्य निमित्तमित्यादीनां शेषेणेदं वक्त्रं किन्निमित्तं देहाद्वियुक्तं सदत्र पतितमित्यर्थस्योक्तत्वात् ॥ ३९ ॥
सत्यधर्मीया
किमिदमिति दूतो विलोक्य कस्य वेदं वक्त्रमिति समीपमुपेत्य जनाः संशयिरे संशयाञ्चक्रुः ॥ ३९ ॥
राज्ञः काशिपतेर्ज्ञात्वा महिष्यः पुत्रबान्धवाः ।
पौराः शोकहता राजन् नाथनाथेत्युपाद्रवन् ॥ ४० ॥
सत्यधर्मीया
काशिपते राज्ञस्तच्छिर इति ज्ञात्वा नाथ नाथेति । नाथ अथ न किल त्वमित्युपद्रवन्निति वा ॥ ४० ॥
सुदक्षिणस्तस्य सुतः कृत्वा संस्थाविधिं पितुः ।
निहत्य पितृहन्तारं यास्याम्यपचितिं पितुः ॥ ४१ ॥
पदरत्नावली
संस्थाविधिं प्रेतक्रियाम् । अपचितिम् अनृणत्वं प्रतिक्रियां वा । ‘अर्चनायामपचितिः प्रेतक्षये निष्कृतौ व्यये’ इति ॥ ४१ ॥
सत्यधर्मीया
पितुः संस्था मरणं तदनन्तरं क्रियमाणं विधिमावश्यकं कर्म कृत्वा पितृहन्तारं निहत्य पितुरपचितिमानृण्यम् । अर्चनायामपचितिप्रक्षये निष्कृतौ व्यय इति च ।
इत्यात्मनाऽभिसन्धाय सोपाध्यायो महेश्वरम् ।
सुदक्षिणोऽर्चयामास परमेण समाधिना ॥ ४२ ॥
पदरत्नावली
आत्मना मनसा इत्यभिसन्धाय सङ्कल्प्य ॥ ४२ ॥
दुर्घटभावदीपिका
समाधिनेत्यस्यान्तःकरणसमाधानेनेत्यर्थः । एतेन समाधिपूजाया उपाध्यायसापेक्षत्वाभावात् सोपाध्यायः समाधिनाऽर्चयामासेति कथनमनुपपन्नमिति दूषणं पराकृतम् । समाधिनेति समाधिशब्देन ध्यानविशेष उच्यत इत्यनभ्युपगमात् ॥ ४२ ॥
॥ इति श्रीसत्याभिनवतीर्थविरचितायां दुर्घटभावदीपिके
उत्तरार्धे एकोनसप्ततितमोऽध्यायः ॥ १०–६९ ॥
सत्यधर्मीया
आत्मना मनसा सोपाध्यायः सपुरोहितः परमेण समाधिना महेश्वरमर्चयामास ॥ ४२ ॥
प्रीतोऽविमुक्ते भगवांस्तस्मै वरमदाद् भवः ।
पितृहन्तुर्वधोपायं स वव्रे वरमीप्सितम् ॥ ४३ ॥
पदरत्नावली
अविमुक्ते काश्याम् । अविमुक्तेश्वरनामक्षेत्रविशेषे वा ॥ ४३ ॥
सत्यधर्मीया
अविमुक्ते काशीनामके क्षेत्रे प्रीतो भगवान्हरो वरमदात् तद्दान-मनस्कोऽभूदित्यर्थः । स सुदक्षिणो वधोपायं वरं वव्रे । उपायमित्यनेन तन्मात्रविषयो वरो न वधविषय इति ध्वनयति । उपायः स्वयमपायवान्नेति नियमादर्शनात् ॥ ४३ ॥
दक्षिणाग्निं परिचर ब्राह्मणैः सह ऋत्विजः ।
अभिचारविधानेन स चाग्निः प्रमथैर्वृतः ॥ ४४ ॥
पदरत्नावली
दक्षिणाग्निमन्वाहार्यनामानं परिचर पूजय । आभिचारविधानेन क्षुद्रप्रयोगप्रकारेण ॥ ४४ ॥
साधयिष्यति सङ्कल्पमब्रह्मण्ये प्रयोजितः ।
इत्यादिष्टस्तथा चक्रे कृष्णायाभिचरन् नृप ॥ ४५ ॥
पदरत्नावली
अब्रह्मण्ये ब्राह्मणाचारविरुद्धाचारे प्रयोजितः । आदिष्टः, ईश्वरेणेति शेषः । अभिचरन् कृत्याप्रयोगं कुर्वन् ॥ ४५–४६ ॥
सत्यधर्मीया
सुदक्षिणं प्रति नेतरानलपरिचरणं कुर्विति वक्तव्यमित्याह । महादेवो दक्षिणाग्निमन्वहार्यपचननामानं परिचरेतीरयामासेति भावः । सह ऋत्विजः । ऋृत्विक्शब्द-पर्यायोऽयमृत्विजशब्दः । तैर्ब्राह्मणैः सह दक्षिणाग्निं परिचरेति वा । अभिचारविधानेनाभि-चारिकेणाथर्वमन्त्रविधानेन । सदक्षिणा शुशुक्षणिः प्रमथैर्मद्दूतैर्वृतः सन् । अब्रह्मण्ये ब्राह्मणाचारविरहिते प्रयोजितः संस्तदुपरि विसृष्टश्चेत्तव सङ्कल्पं साधयिष्यतीति हरेणादिष्टः कृष्णायाभिचरंस्तमुद्दिश्याभिचारिकमाचरंस्तथा शिवशंसितप्रकारेण चक्रे । अनेन किंवदन्त्या कृष्णोऽब्रह्मण्य इति मतिस्तस्येति स्फार्यते । किञ्च चक्र इत्यात्मनेपदेन तत्फलं तद्गामीति सूच्यते ॥ ४४,४५ ॥
ततोऽग्निरुत्थितः कुण्डान्मूर्तिमानतिभीषणः ।
तप्तताम्रशिखाश्मश्रुरङ्गारोद्गारिलोचनः ॥ ४६ ॥
सत्यधर्मीया
ततो मन्त्रतः परिचरणानन्तरं मूर्तिमान्साकारः । तप्तताम्रवद्विद्यमानानि शिखाश्मश्रूणि यस्य सः । अङ्गारस्योद्गारिणीव सती लोचने यस्य सः ॥ ४६ ॥
दंष्ट्रोग्रभ्रुकुटीदन्तकठोरास्यः स्वजिह्वया ।
आलिहन् सृक्किणी रक्ते विधुन्वन् त्रिशिखं ज्वलत् ॥ ४७ ॥
पदरत्नावली
त्रिशिखम्, शूलमिति शेषः ॥ ४७–४८ ॥
सत्यधर्मीया
दंष्ट्रोग्रभ्रुकुटीदन्तैः कठोरं क्रूरमास्यं यस्य सः । स्वजिह्वया रक्ते ताम्रे सृक्किणी आलिहन् । तिस्रः शिखा अग्रभागा यस्य तत्त्रिशूलमिति शेषः । ज्वलद्विधुन्वन्
॥ ४७ ॥
पद्भ्यां तालप्रमाणाभ्यां कम्पयन् धरणीतलम् ।
सोऽभ्यधावद् वृतो भूतैर्द्वारकां प्रदहन् दिशः ॥ ४८ ॥
सत्यधर्मीया
तालप्रमाणाभ्यां पद्भ्यां धरणीतलं कम्पयन् भूतैर्हराज्ञप्तैर्दिशः प्रदहन् द्वारकामभ्यधावत् ॥ ४८ ॥
तमाभिचारदहनमायान्तं द्वारकौकसः ।
विलोक्य तत्रसुः सर्वे वनदाहे यथा मृगाः ॥ ४९ ॥
पदरत्नावली
आभिचारदहनं कृत्यालक्षणाग्निम् ॥ ४९ ॥
सत्यधर्मीया
वनदाहे मृगा यथा तथा । सर्वे द्वारकौकस आभिचारदहनं विलोक्य तत्रसुः । भीता अभवन् ॥ ४९ ॥
अक्षैः सभायां क्रीडन्तं भगवन्तं भयातुराः ।
त्राहि त्राहीति लोकेशं वह्नेः प्रदहतः पुरम् ॥ ५० ॥
पदरत्नावली
अक्षैर्दुरोदरैः ॥ ५० ॥
सत्यधर्मीया
सभायामक्षैः पाशैः क्रीडन्तं भगवन्तम् । पुरीं प्रदहतो वह्नेस्त्राहि त्राहि । धात्वन्तररूपम् । त्रायस्व त्रायस्वेति भयातुरा लोकेशमवदन् ॥ ५० ॥
**श्रुत्वा तज्जनवैक्लव्यं दृष्ट्वा स्वानां च सङ्कटम् । **
शरण्येशः प्रहस्याह मा भैष्टेत्यवितास्म्यहम् ॥ ५१ ॥
पदरत्नावली
धरणीशः भूमीशः । धरणं यस्य तद् धरणि तस्य त्रैलोक्यस्य वा अवितास्मि रक्षितास्मि ॥ ५१ ॥
सत्यधर्मीया
जनवैक्लव्यं श्रुत्वा स्वानां च साध्वसं च दृष्ट्वा मा भैष्ठाहमविताऽ-स्मीति धरणीशः प्रहस्याह ॥ ५१ ॥
सर्वस्यान्तर्बहिः सोऽथ कृत्यां माहेश्वरीं विभुः ।
विज्ञाय तद्विघातार्थं पार्श्वस्थं चक्रमादिशत् ॥ ५२ ॥
सत्यधर्मीया
स विभुः सर्वस्यान्तर्बहिश्च व्याप्त इति माहेश्वरीं हरसम्बन्धिनीं कृत्यां विज्ञाय तद्विघातार्थं तस्या विनाशार्थं पार्श्वस्थं चक्रं सुदर्शनमादिशत् ॥ ५२ ॥
तत् सूर्यकोटिप्रतिमं सुदर्शनं जाज्वल्यमानं प्रभयानलप्रभम् ।
स्वतेजसा खं कुकुभोऽथ रोदसी चक्रं मुकुन्दस्य झटित्यपूरयत् ॥ ५३ ॥
पदरत्नावली
सुदर्शनं नाम चक्रम् अस्त्रम् । खं बिलं व्योम वा । ‘खमिन्द्रिये दिवि व्योमि्न ताम्रे द्वाराभ्युपाययोः’ इति यादवः ॥ ५३ ॥
सत्यधर्मीया
सूर्यकोटिप्रतिमं कोटिसूर्यसमप्रभम् । जाज्वल्यमानं प्रभयाऽनलस्यापि प्रभा यस्य तत्सुदर्शनं भक्तानां मुकुन्दस्य चक्रं स्वतेजसा खमाकाशं ककुभो दिशो रोदसी द्यावापृथिव्यौ झडित्यपूरयत् ॥ ५३ ॥
कृत्यानलः प्रतिहतः स रथाङ्गपाणेरस्त्रौजसा नृप विभग्नमुखो निवृत्तः ।
वाराणसीं प्रतिसमेत्य सुदक्षिणं तं सन्निर्जितं समदहत् स्वकृतोऽभिचारः ॥५४॥
पदरत्नावली
अभिचारः कृत्याग्निः ॥ ५४ ॥
सत्यधर्मीया
रथाङ्गपाणेरस्त्रौजसा प्रतिहतो विभग्नमुखो निवृत्तः सन् । स्वकृतः सुदक्षिणकृतोऽभिचारः कृत्यानलो वाराणसीं प्रति समेत्य सन्निहितं सुदक्षिणं समदहत्
॥ ५४ ॥
चक्रं च विष्णोस्तदनु प्रविष्टं वाराणसीं साट्टसभालयापणाम् ।
सगोपुराट्टालककोष्ठतोरणां सकेशहस्त्यश्ववरूथमन्दिराम् ॥ ५५ ॥
पदरत्नावली
तदनु सुदक्षिणदहनानन्तरम् अन्तः प्रविष्टं कोष्ठमन्तर्गृहम् । वरूथं रथगुप्तिशालाम् ॥ ५५–५६ ॥
सत्यधर्मीया
तदनु सुदक्षिणदहनमनु विष्णोश्चक्रमट्टान्यन्नानि सभाश्चालयाश्चापणाश्च तैः सहिता ताम् । अट्टशूला इति विराटपर्वव्याख्यायाम् । अट्टमन्नं शिवो वेदः शूलो विक्रय उच्यते । केशो भग इति प्रोक्त इत्युक्तेः । अनेन नाट्टालकाट्टान्यतरातिरेकः । गृहाट्टालक-गोपुराट्टालकभेदेन भेद इति त्वगतिका गतिः । सगोपुराट्टालककोष्टतोरणामिति गतम् । वरूथं मन्दिरं रथगुप्तिस्थानम् ॥ ५५ ॥
दग्ध्वा वाराणसीं सर्वां विष्णुचक्रं सुदर्शनम् ।
भूयः पार्श्वमुपातिष्ठत् कृष्णस्याक्लिष्टकर्मणः ॥ ५६ ॥
सत्यधर्मीया
सुदर्शनं पुनरक्लिष्टकर्मणः कृष्णस्य पार्श्वमुपातिष्ठत् । सकर्मकत्वा-न्नोपादिति प्रवर्तते ॥ ५६ ॥
य एतत् श्रावयेन्मर्त्य उत्तमश्लोकविक्रमम् ।
समाहितो वा शृणुयात् सर्वपापैः प्रमुच्यते ॥ ५७ ॥
पदरत्नावली
एतच्चरित्रश्रवणादिफलमाह– य इति ॥ ५७ ॥
तावुभौ सर्वपापेभ्यो ब्रह्महत्यादिभिर्नृप ।
विमुच्य देहावसाने विष्णुलोकं प्रयास्यतः ॥ ५८ ॥
॥ इति श्रीमद्भागवते दशमस्कन्धे एकोनसप्ततितमोऽध्यायः ॥
पदरत्नावली
तावुभौ श्रोता श्रावयिता च । ब्रह्महत्यादिभिरुपलक्षितेभ्योऽशुभेभ्यः
॥ ५८ ॥
॥ इति श्रीमद्भागवतटीकायां श्रीविजयध्वजतीर्थकृतायां पदरत्नावल्यां
दशमस्कन्धे उत्तरार्धे एकोनसप्ततितमोऽध्यायः ॥
सत्यधर्मीया
समाहित इति श्रावकश्रोतृविशेषणम् । उत्तमश्लोकस्य विक्रमो यस्ंिम-स्तदेतच्चरितं श्रावयेच्छ्रुणुयाच्च सर्वपापैः स प्रमुच्यत इति पृथक् पृथगन्वयः । उक्तमनूद्य फलमभिलपति ॥ तावुभाविति ॥ ब्रह्महत्यादिभिः सहितेभ्यः सर्वपापेभ्यः । तावुभावात्मानं विमुच्य विमोच्य देहावसाने सति विष्णुलोकं प्रयास्यतः । सर्वपापेषु तद्वत्सु इभ्यः श्रेष्ठश्च । सर्वपापेभ्यः सर्वपापभ्यश्चेति तावुभाविति वा । अतिपापिनावित्यर्थः ॥ ५७,५८ ॥
**॥ इति श्रीसत्यधर्मयतिकृतायां भागवतटिप्पण्यां दशमस्कन्ध उत्तरार्धे **
एकोनसप्ततितमोऽध्यायः ॥ १०–६९ ॥