२० अष्टषष्ठिरध्यायः

आराध्य देवदेवेशं शङ्करं लोकशङ्करम्

॥ अथ अष्टषष्ठिरध्यायः ॥

श्री शुक उवाच—

**आराध्य देवदेवेशं शङ्करं लोकशङ्करम् । **

तपसा तोषयित्वा तं कैलासगिरिवासिनम्् ॥ १ ॥

रुग्मिण्यां तनयं लेभे दग्धं कामं पुनर्हरिः ।

वीरं प्रद्युम्ननामानं रूपौदार्यगुणान्वितम् ॥ २ ॥

पदरत्नावली

‘सोऽयं मनुष्यलोकः पुत्रेण जय्यः’ इति श्रुतिविहितसदाचारो भुव्य-वतीर्णैर्देवादिभिरनुष्ठेय इति दर्शयितुं श्रीकृष्णस्य तदनुष्ठानप्रकारं शम्बरासुरवधलक्षणं विक्रमं च कथयत्यस्मिन्नध्याये । लोकस्य जनस्य शं सुखं करोतीति लोकशङ्करस्तम् । देवदेवो नारायण ईशः स्वामी यस्य स तथा तम् आराध्य, लोकदृष्ट्या इति शेषः ॥ १–३ ॥

सत्यधर्मीया

किङ्करादपि शङ्कराद्वरवरणे तत्सम्माननीयता भवति जगतीति जगदीशोऽपि मानिन्या सह तपोऽचरदिति वा येन यस्य कामस्य हानिस्तेनैव तस्य । कामं पुनस्तनुभवं चेदियदतिशयितः । स्वरूपनाशः कर्तव्य इति मनसा तपोऽचरदिव हरिरभूत्तथा जातः पोतः शम्बरमम्बरचरमसुरममीमरदित्यादि प्रतिपाद्यतेऽस्मिन्नध्याये । तत्रापि शुकः साम्मुग्ध्येनामुग्धं राजानं प्रति वक्तीति वक्ति ॥ श्रीशुक इति । श्लोकद्विक-मेकान्वयम् । हरिर्लोकशङ्करम् । न स्वस्येत्यनेनैव ध्वन्यते । आराध्यो यो देवदेवः स्वयमेवेशो यस्य तम् । कैलासाख्यो गिरिस्तस्मिन्वासोऽस्यास्तीति तम् । यद्वा कैलासश्च गिरिर्वायुश्चासावाश्रित्य वर्तमानम् । कैलासेन सहितो गिरिस्तस्मिन्निति वा । एवञ्चेन्न द्वन्द्वाभ्यर्हितमादिप्रसक्तिरिति बोध्यम् । तपसा तोषयित्वा । अतो नाराध्येत्यतिरेकशङ्केति सन्तोष्टव्यम् । सामान्यविशेषभावादिश्चागतिका गतिः । तेनैव दग्धं कामं पुनः प्रद्युम्नेति नाम यस्य तम् । रूपौदार्यगुणान्वितं वीरं तनयं रुक्मिण्यां प्रथमप्रमदायां लेभे प्राप ॥ १२ ॥

पुत्रार्थमीश्वरं दृष्ट्वा स्वयं लब्धवरो हरिः ।

अवापकीदृशं पुत्रं किं नामानं वदस्व मे ॥ ३ ॥

सत्यधर्मीया

ईश्वरं हरं पुत्रार्थम् । सोऽयं मनुष्यलोकः पुत्रेण जय्यो नापुत्रस्य लोकोऽस्तीत्यादेर्लोकनायकोऽपि लोकमनुकुर्वन् । दृष्ट्वा तेन लब्धो वरो येन स सन् कीदृशं पुत्रम् । यद्यपि सामान्यतो रूपौदार्यगुणान्वितमिति प्रकार उक्तस्तथाऽपि विविच्य ज्ञातुमयं प्रश्न इति ज्ञेयम् । नाम्नः पूर्वं प्रद्युम्ननामानमित्युक्तेः पुनः किन्नामानमिति परीक्षिदपरीक्षक इव कथमप्राक्षीदिति चेत्सत्यम् । किन्निमित्तं नाम प्रद्युम्नेति यस्य तं किन्नामानमित्यर्थ-परत्वोपपत्तेः । हे स्व स्वामिन्मे वद । स्वश्चासावहं च तस्य । प्रकाशमानः सन्वदेत्यर्थे भासमानोपसम्भाषेत्यात्मनेपदता वा ॥ ३ ॥

कामस्तु वासुदेवांशो दग्धः प्राग् रुद्रमन्युना ।

देहोपपत्तये भूयस्तमेव प्रत्यपद्यत ॥ ४ ॥

पदरत्नावली

प्राग् रुद्रमन्युना दग्धो यः कामः भूयस्तमेव रुद्रमेव देहोत्पत्तये प्रत्यपद्यत ॥ ४ ॥

सत्यधर्मीया

रुद्रमन्युना मामपि वशयितुमायातो ‘मायात इति कोपेन देवदेवेन शूलिना । खेदितेन कृतोऽनङ्ग’ इति हरिवंशोक्तेः । यः प्राग्दग्धः कामस्तस्य पुनर्देहोपपत्तये भूयस्तमेव प्रत्यपद्यत गतवान् ॥ ४ ॥

स एव जातो वैदर्भ्यां कृष्णवीर्यसमुद्भवः ।

प्रद्युम्न इति विख्यातः सर्वतोऽनवमः पितुः ॥ ४ ॥

पदरत्नावली

स एव कामः कृष्णवीर्यसमुद्भवो वैदर्भ्यां जात उपात्तदेहः । कीदृशः ? वासुदेवस्यांशः प्रद्युम्नो यस्मिन्नाविष्टः स तथा । अत एव तदभिधानमेवाऽस्याभिधानमित्याह– प्रद्युम्न इति । सर्वतो वीर्यादिभिः पितुरनवमः कृष्णस्य पुत्रत्वे योग्यः ॥ ५ ॥

सत्यधर्मीया

वैदर्भ्यां कृष्णवीर्यसमुद्भवः सन् स एव जातः । नामागतिप्रकारमाह ॥ वासुदेवांशः प्रद्युम्न इति विख्यात इति । वासुदेवादिव्यूहमध्ये योंऽश एको भागः प्रद्युम्न-स्तदावेशित्वात् प्रद्युम्न इति विख्यात इत्यर्थः । पितुः सर्वतः प्रकारसर्वस्वेनानवमः समः पुत्रीभवनयोग्य इति यावत् । उत्तरत्र पितुर्भाविनां नवानां सत्त्वादयं दशम इत्यनवम इत्यप्यर्थः ॥ ४ ॥

तं शम्बरः कामरूपी हृत्वा तोकमनिर्दशम् ।

स विदित्वाऽऽत्मनः शत्रुं पास्योदन्वत्यगाद् गृहम् ॥ ५ ॥

पदरत्नावली

तोकं सद्योजातं शिशुम् । निर्गतो दशमो दिवसो यस्मात् स निर्दशस् तम् । उदन्वति समुद्रे ॥ ६ ॥

सत्यधर्मीया

शम्बरोऽनिर्दशमनतिक्रांतदशदिनमात्मनः स्वस्य । तं सप्तरात्रे सम्पूर्णे निशीथे सूतिकागृहात् । जहार कृष्णस्य शिशुम् । विदितं तच्च कृष्णस्य देवमायानुवर्तिनः । ततो न निगृहीतः स । समृत्युना परीतायुरित्युक्त्वा दोर्भ्यामुत्क्षिप्य नगरं स्वं निनाय महासुरः । अनपत्या तु तस्यासीद्भार्या रूपगुणान्विता । नाम्ना मायावती नामेत्यादिना हरिवंशे परत्वादेतदनुरोधेन मीनलीलत्वं दाशदानादिकं ग्रन्थान्तरसंवादाच्च ग्राह्यमिति नानुक्तिदोषः । शत्रुं शातयितारं विदित्वा तं तोकमर्भकं हृत्वा । ननु सति भगवति सोऽरिष्टं गत्वा कथं हृतवानित्यत आह ॥ कामरूपीति । कामेन स्वेच्छया रूपमस्यास्तीति कामेन हरीच्छया चेत्यपि स इत्यर्थः । ज्ञातैत्कर्मापि कृष्णस्तूष्णीकस्तन्मारणार्थं कुमारविषय इति तात्पर्यम् । उदन्वत्युदधौ प्रास्य क्षिप्त्वा गृहं स्वमगाद्ययौ ॥ ५ ॥

तं निर्जगार बलवान् मीनः सोऽप्यपरैः सह ।

वृतो जालेन महता गृहीतो मत्स्यजीविभिः ॥ ६ ॥

पदरत्नावली

अपरैर्मत्स्यैर्जालेन सिचा वृतः संस्यूतः । मत्स्यजीविभिर्दाशैः ॥ ७ ॥

सत्यधर्मीया

बलवान्मीनो निर्जगार । मृत्वाऽपि मत्केतनकीर्तिव्यञ्जकः स्यामिति तदभिप्राय इत्यभिप्रायोऽस्य विभावनीयः । स मीनोऽपरैः सजातीयैरितरैर्मीनैः सह महता स्वेच्छाछेदनीयेन जालेनानायेन । जालं गवाक्ष आनाय इति विश्वः । आवृतो मत्स्य-जीविभिर्दाशैर्गृहीतः ॥ ६ ॥

तं शम्बराय कैवर्ता उपाजह्रुरुपायनम् ।

सूदा महानसं नीत्वाऽवद्यन् स्वधितिनाऽद्भुतम् ॥ ७ ॥

पदरत्नावली

कैवर्ता मत्स्यमारकाः । ‘कैवर्तौर् दाशधीवरौ’ इति च । महानसं पास्थानम् । स्वधितिना परशुना । ‘परश्वधः कुठारः स्यात् परशु स्वधितिस्तथा’’ । अवद्यन् अवाद्यन् अखण्डनयन् । ‘दो अवखण्डने’ इति धातुः ॥ ८ ॥

सत्यधर्मीया

तमुपायनं शम्बराय कैवर्ताः । कैवर्तो दाशधीवरावित्यमरः । कैवर्तेत्यपि पठन्ति । दाशा उपाजह्रुः । सूदाः । सूदस्तु सूपकार इति विश्वः । महानसं पाकस्थानम् । अद्भुतं मीनं स्वधितिना कुठारशेषेण । परश्वधः कुठारः स्यात्परशुः स्वधितिस्तथेत्यभिधानम् । अवद्यन् अवाद्यन् अखण्डयन् । दो अवखण्डन इति धातोः । द्वयोः कुठारः स्वधितिः परशुश्च परश्वध इत्यमरः ॥ ७ ॥

**दृष्ट्वा तदुदरे बालं मायावत्यै न्यवेदयत् । **

नारदोऽकथयत् सर्वं तस्याः शङ्कितचेतसः ॥ ८ ॥

पदरत्नावली

मायावती शम्बरस्य महानसाध्यक्षस्त्री ॥ ९ ॥

सत्यधर्मीया

तदुदरे । उदरं च पुरो वर्तेतान्तः किञ्चिक्तिं वै तदेवैवमिति तद्विषयके संशये । उदरं संशयः प्रोक्तः परिनिष्ठा तु निश्चय इति तात्पर्योक्तेः । तदुदरे मत्स्यकुक्षौ बालं दृष्ट्वा सूदाः । मायावतीति रतिरेव शापत्तद्गृह एवावात्सीदतत्सङ्ग ॥ यथोक्तं हरिवंशे नारदरौक्मिणेयसंवादे–

‘सप्तरात्रे त्वसम्पूर्णे सूतिकागारमध्यगः ।

वधार्थं शम्बरेण त्वं ह्रियमाणोऽस्युपेक्षितः ।

केशवेन महाबाहो देवकार्यार्थसिद्धये ।

एषा मायावती नाम भार्या वै शम्बरस्य तु ।

रतिं तं विद्धि कल्याणीं तव भार्यां पुरातनीम् ।

तव संरक्षणार्थाय शम्बरस्य गृहेऽवसत् ।

मायां शरीरजामस्य मोहनार्थं दुरात्मनः ।

रतेरुत्पादनार्थाय प्रेषयत्यनिशं तदा इत्यादिना । तस्यै न्यवेदयत् ॥ ८ ॥

बालस्य तत्त्वमुत्पत्तिं मत्स्योदरनिवेशनम् ।

सा च कामस्य वै पत्नी रतिर्नाम यशस्विनी ॥ ९ ॥

पत्युर्निर्दग्धदेहस्य देहोत्पत्तिं प्र्रतीक्षती ॥ १० ॥

पदरत्नावली

किमकथयत् ? अत्राह– बालस्येति । मत्स्योदरनिवेशनं मत्स्योदर-प्रवेशम् ॥ १०–११ ॥

सत्यधर्मीया

शङ्कितचेतसस्तस्या मायावत्या नारदो बालस्य तत्त्वं मुख्यं रहस्यं कामत्वमिति वा उत्पत्तिं मत्स्योदरनिवेशनमित्यादिकं सर्वमकथयत् । सा च कामस्य पत्नी रतिः प्रतीक्षती प्रतीक्ष्यमाणा रुद्रोक्तं समयम् । यथोक्तं तत्रैव – ‘रत्या प्रसादितो देवः कामपत्न््नया त्रिलोचनः’ इत्यारभ्य

‘विष्णोर्मानुषदेहस्तु द्वारकायां भविष्यति ।

तस्य पुत्रस्तु ते भर्ता भविष्यति न संशयः ।

तद्गच्छ शम्बरगृहं भार्या मायावती भव ।

मायारूपप्रतिच्छन्ना शम्बरं मोहयिष्यसि ।

तत्र त्वमात्मनः कान्तं बालरूपं विवर्धय ।

प्राप्तयौवनदेहः स शम्बरं निहनिष्यति ।

ततस्त्वया सहानङ्गो द्वारकां वै गमिष्यति ।

रमिष्यति त्वया सार्धं शैलपुत्र्या त्वहं यथा’ इत्यन्तेन ।

‘कामपत्नी प्रणम्याथ देवदेवमुमापतिम् ।

जगाम शम्बरगृहं कालस्यान्तं प्रतीक्षती’ इति च ॥ ९,१० ॥

निरूपिता शम्बरेण सा सूपौदनसाधने ।

कामदेवं शिशुं बुद्ध्वा चक्रे स्नेहं सदाऽर्भके ॥ ११ ॥

पदरत्नावली

पक्वानां सूपानां मुद्गानां बाह्युपदंशाना(?)मोदनस्य च साधने संस्कारे । यद्वा सूपादिसाधने अध्यक्षतया । ‘साधनं सेकसाधने विध्युपायनिवृत्तिषु । मरणे मृतसंस्कारे वाचने नूनमेव च । सेनाग्रे यातनायां च सेचने स्फूर्तिसेवयोः’ इति ॥ १२ ॥

सत्यधर्मीया

सुपौदनसाधने पाककर्मणि शशुं कामदेवं नारदोक्त्या बुद्ध्वाऽर्भके सदा स्नेहं चक्रे ॥ ११ ॥

नातिदीर्घेण कालेन स कार्ष्णी रूढयौवनः ।

जनयामास नारीणां वीक्षन्तीनां च विभ्रमम् ॥ १२ ॥

पदरत्नावली

कृष्णस्यापत्यं कार्ष्णिः । विभ्रमं विकारम् । यद्वा देवाद्यन्यतम इति विशिष्टभ्रमम् ॥ १३ ॥

सत्यधर्मीया

कृष्णस्यापात्यं कार्ष्णिः । नातिदीर्घेणाल्पीसया कालेन रूढं यौवनं यस्य सोऽभवत् । रसायनमहिम्ना । यथोक्तं तत्रैव–

‘रसायनप्रयोगैश्च शीघ्रमेनमवर्धयदिति ।

व्यधत्त पुत्रमुत्तमं मनोभवं पुरातनम् ।

चतुस्तनोर्हरेः प्रभोस्तृतीयरूपसंयुतः ।

ततस्तदाह्वयोऽभवत्स रुग्मिणीसुतो बली ।

पुरैव मृत्यवेऽवदत्तमेव शम्बरस्य हि ।

प्रजातमब्जजाङ्कजस्तवान्तकोऽयमित्यपि ।

स मायया हरेः सुतं प्रगृह्य सूतिकागृहात् ।

अवाक्षिपन्महोदधावुपेक्षितोऽरिपाणिना ।

तमग्रसज्जलेचरः स दाशहस्तमागतः ।

कुमारमस्य तूदरे निरीक्ष्य शम्बरे ददुः ।

विपाट्य मत्स्यकोदरं स शम्बरः कुमारकम् ।

न्यवेदयन्मनोभवप्रियाकरे सुरूपिणम् ।

अनङ्गतामुपागते पुरा हरेण साङ्गजे ।

वशं विरिञ्चशापतो जगाम शम्बरस्य हि ।

पुरा हि पञ्चभर्तृतां निशम्य कञ्जजोदिताम् ।

जहास पार्षतात्मजां शशाप तां ततस्त्वजः ।

भवासुरेण दूषितेति सा ततो हि मायया ।

पिधाय तां निजां तनुं जगाम चान्यया सुरम् ।

गृहेपि साऽसुरस्थिता निजस्वरूपतोऽसुरम् ।

न गच्छति स्म सा पतिं निजं समीक्ष्य हर्षिता ।

रसायनैः कुमारकं व्यवर्धयद्रतिः पतिम् ।

सुपूर्णयौवनोऽभवच्चतुर्भिरेव वत्सरैः ।

पतिं सुपूर्णयौवनं निरीक्ष्य तां विलज्जतीम् ।

उवाच कार्ष्णिरम्ब ते कुचेष्टितं कथं त्विति ।

जगाद साऽखिलं पतिं तदाऽस्य जन्म चागतिम्’

इत्याचार्योक्तकथाऽत्रानुसन्धेया । वीक्ष्यतीनां वीक्ष्यमाणानां विभ्रमं मनोविनोदम् ॥१२॥

सा तं पतिं पद्मदलायतोक्षणं प्रलम्बबाहुं नरलोकसुन्दरम् ।

सव्रीडहासोत्तमविभ्रमेक्षितैः प्रीत्योपतस्थे रतिरात्मनो धनैः ॥ १३ ॥

पदरत्नावली

रतिरात्मनो धनैस्तं पतिमुपतस्थे अभिमुखेन तस्थौ । किमात्मधनानि सुवर्णादीनि ? नेत्याह– सव्रीडेति ॥ व्रीडया सहितो हासः सव्रीडहासः, उत्तमो विभ्रमः, उत्कृष्टा शृृङ्गारचेष्टा, ईक्षणं कटाक्षनिरीक्षणं तैः ॥ १३ ॥

सत्यधर्मीया

सा रतिः पद्मदलायते ईक्षणे यस्य तम् । प्रलम्बौ बाहू यस्य तं नरलोके सुन्दरस्तं सव्रीडो यो हासः स चोत्तमो विभ्रमो विलासस्तद्युक्तानीक्षितानि पुनःपुन-रवलोकनानि तैस्तदात्मभिरात्मधनैः प्रीत्या तं पतिमुपतस्थे ॥ १३ ॥

तामाह भगवान् कार्ष्णिर्मातस्ते मतिरन्यथा ।

मातृभावमतिक्रम्य वर्तसे कामिनीव मे ॥ १४ ॥

पदरत्नावली

मातृभावं मातुःस्वभावम् । सुरतकामिनी ॥ १४ ॥

सत्यधर्मीया

हे मातस्तव मतिरन्यथा कुत इति कार्ष्णिस्तां प्राह । तमेवान्यथाभावं विवृणोति ॥ मातृभावमिति ॥ मे मम विषये मातृभावं तत्त्वमतिक्रम्य कामिनीव वर्तस इति । यद्यप्यवद्यावमेति निपातितः शब्दोऽवतेर्मप्रत्यये निष्पन्न इति व्याख्या कौमुद्याम् । अवमे नीचे । कामिनी सती वर्तस इति वा । वष्टिभागुरिरल्लोपमवाप्योरुपसर्गयोरिति स्मरणात् । चतुर्थतात्पर्ये च । वधिमवधिमल्लोपेनेति । तथाऽप्यवमीयत इत्यवम इत्यमरसुधायां व्याख्यातमुपायान्तरमेतदिति ॥ १४ ॥

रतिरुवाच—

भवान् नारायणसुतः शम्बरेणाहृतो गृहात् ।

अहं तेऽधिकृता पत्नी रतिः कामो भवान् प्रभो ॥ १५ ॥

पदरत्नावली

अधिकृता पत्नी वधूत्तमा ॥ १५ ॥

सत्यधर्मीया

इति पतिगिरं श्रुत्वा रतिरतीवहृष्टा स्वरत्युपयोगिनीं कथां कथयति ॥ भवानिति । गृहात् । कारागृहात् । अधिकृता विवाहिता नीयते इति वा । अत्र महानसेऽधिकृता । अनेन दत्ताधिकारेति वा । रतिस्तन्नाम्नी पत्नी भवान्कामस्तद्रूपः ॥ १५ ॥

एष त्वां निर्दशं सिन्धावक्षिपच्छम्बरोऽसुरः ।

मत्स्योऽग्रसीत् तदुदरादिह प्राप्तो भवान् प्रभो ॥ १६ ॥

पदरत्नावली

त्वां निर्दशम् इति पाठः ॥ १७ ॥

सत्यधर्मीया

निर्दशं सप्तदिनकं तदुदराद्विपाटितान्मत्स्यकुक्षेः ॥ १६ ॥

तमिमं जहि दुर्धर्षं दुर्जयं शत्रुमात्मनः ।

मायाशतविदं त्वं च मायाभिर्मोहनादिभिः ॥ १७ ॥

पदरत्नावली

मोहनशोषणद्रावणादिभिर्मायाभिः ।

सत्यधर्मीया

मायाशतविदं बहुमायाज्ञं मोहनादिभिर्मायाभिर्दुर्धर्षं दुर्जयं चात्मन-स्तमिमं शत्रुं जहि ॥ १७ ॥

परिशोचति ते माता कुररीव गतप्रजा ।

पुत्रस्नेहाकुला दीना विवत्सा गौरिवातुरा ॥ १८ ॥

पदरत्नावली

कुररस्य स्त्री कुररी । ‘उत्क्रोशः कुररो मतः’ इति । मृतप्रजा नष्टापत्या ॥ १८ ॥

दुर्घटभावदीपिका

पुत्रस्नेहाकुला मृतप्रजा ते माता कुररीव विवत्सा गौरिव दीना दुःखिताऽऽतुराऽऽतुरयति दुःखयतीत्यातुरा सती परिशोच्चतीति । एतेन दीनेत्यनेन दुःखितत्वस्योक्तत्वाद् आतुरेत्येतत्पुनरुक्तमिति चोद्यं पराकृतम् । आतुरेत्यनेन स्वशोके-नान्येषां दुःखं जनयतीत्युच्यत इत्यूरीकरणात् ॥ १८ ॥

सत्यधर्मीया

द्वारकावृत्तं किञ्चित्कथयति । गतप्रजा हृतत्वद्रूपापत्ययुक्ता ते माता रुक्मिणी कुररीव कुक्रोशयोषेव । गतप्रजेति वा विवत्सेति वाऽत्राप्यन्वेति । कुक्रोशः कुररी मत इति कोशः । पुत्रस्नेहाकुला । दृष्टान्तद्वयप्रदर्शनं गमनमनस्त्वरण इति मन्तव्यम् । आतुरा शोचति ॥ १८ ॥

प्रभाष्यैवं ददौ विद्यां प्रद्युम्नाय महात्मने ।

मायावती महामाया सर्वमायाविनाशिनीम् ॥ १९ ॥

सत्यधर्मीया

एवं प्रभाष्य महात्मने स्मरणमात्रेण विद्याग्रहणपाटवमाहात्म्यवते । नन्ववमेयं वामा कथं विद्यामदादिति चेन्न । तस्या मूलकलेवरेणैव सत्त्वादेतस्य मानुषतनुषा युक्तत्वाद्युक्तं स्मारणमिति । सर्वा याः शम्बरसम्बन्धिन्यस्ता विनाशयतीति सा तथा । सर्वा हिंसिकाश्च ता मायाश्च ता विनाशयतीति सा तां वा ॥ १९ ॥

स च शम्बरमभ्येत्य संयुगाय समाह्वयत् ।

अवष्टभ्यौष्ठमाक्षेपैः क्षिपन् सञ्जनयन् कलिम् ॥ २० ॥

पदरत्नावली

ओष्ठमवष्टभ्य, दंष्ट्रादन्तैरिति शेषः ॥ २० ॥

सत्यधर्मीया

ननु च क्व वा द्वारका क्व च प्रसवः क्व वाऽयमसुरस्तथाऽपि ज्ञात्वोदधौ क्षिपन्नयं कथं बालमालक्ष्य न मम रिपुरयमिति जानन्हिंसितवानिति चेत् । भगवदुपेक्षणमेवैतदुपेक्षणमूलमिति तदप्रतिभानसम्भवात् । ध्वजपातनादिकं तदमात्यतत्सेना-हननादिकं हरिवंशोक्तमनुसन्धेयम् । फलितमभिलपति ॥ स चेति ॥ ओष्ठमधरम् । दन्तैरिति शेषः । अवष्टभ्यालम्ब्य विदस्येति यावत् । अवाच्चालम्बनाविदुर्ययोर् अवात्स्थम्भे-रेतयोरर्थयोः सस्य षः स्यादिति षत्वम् । अनिदितामिति नलोपः । आक्षेपैराक्षिप्यते एभिरित्याक्षेपास्तिरस्कारास्तैः कलिं कलहं सञ्जनयन् समाह्वयत् ॥ २० ॥

सोऽधिक्षिप्तो दुर्वचोभिः पदाहत इवोरगः ।

निश्चक्राम गदापाणिरमर्षात् ताम्रलोचनः ॥ २१ ॥

सत्यधर्मीया

पदा हत उरग इव मूकस्य नासिकाप्रदर्शने यथा मर्षस्तथा गूढपात्वात्सर्पस्य पदा हतिरतीवकोपकारणमित्येवमुक्तिरिति ज्ञेयम् । सा स्त्री तु गतैवेयमेव मत्पाणिगृहीतीति गदापाणिरित्यनेन ध्वन्यते ॥ २१ ॥

गदामाविध्य तरसा प्रद्युम्नाय महात्मने ।

प्रक्षिप्य व्यनदन्नादं वज्रनिष्पेषनिष्ठुरम् ॥ २२ ॥

पदरत्नावली

नादमिति क्रियाविशेषणम् । वज्रनिष्पेषः स्फूर्जथुस्तद्वन्निष्ठुरो नादो यथाभवति तथा व्यनदत् । ‘स्फूर्जथुर्वज्रनिष्पेषः’ इति हलायुधः ॥ २२ ॥

दुर्घटभावदीपिका

शम्बरो गदामाविध्य भ्रामयित्वा महात्मने प्रद्युम्नाय महात्मप्रद्युम्न-मरणार्थं तरसा गदां प्रद्युम्ने प्रक्षिप्य वज्रनिष्पेषनिष्ठुरं वज्रप्रहारशब्दवन्निष्ठुरं नादं व्यनददकरो-दिति । एतेन महात्मप्रद्युम्ने गदां प्रक्षिप्येति वक्तव्यं महात्मने प्रद्युम्नाय गदां प्रक्षिप्येति कथनमयुक्तमिति शङ्का परास्ता । महात्मने प्रद्युम्नायेति महाप्रद्युम्नशब्देन महाप्रद्युम्नमरणं गृहीत्वा प्रद्युम्नायेति शब्दस्यार्थवशात्प्रद्युम्न इति विपरिणामं स्वीकृत्य महात्मप्रद्युम्नमरणार्थं प्रद्युम्ने गदां प्रक्षिप्येत्यर्थस्योक्तत्वात् ॥ २२ ॥

सत्यधर्मीया

वज्रनिष्पेषनिष्ठुरं वज्रयोः सतोरर्थो निष्पेषसङ््घर्षस्तज्जन्यो नादो लक्ष्यते तद्वत्कठोरस्तन्नादं व्यनददकरोत् । वज्रनिर्घोषेति पाठे स्फूर्जथुवन्निष्ठुरमित्यर्थः । अमरेऽपि स्फूर्जथुर्वज्रनिष्पेष इत्यपि पाठः । पिष्लृ सञ्चूर्णने । घञ् । इगुपधज्ञेति कः । निष्पेषशब्दस्तदुत्थशब्दपर इति भानुः । स्फूर्जथुर्वज्रनिष्पेष इति हलायुधोऽपि ॥ २२ ॥

तामापतन्तीं भगवान् प्रद्युम्नो गदया गदाम् ।

अपास्य शत्रवे क्रुद्धः प्राहिणोत् स्वगदां नदन् ॥ २३ ॥

सत्यधर्मीया

प्रद्युम्न आपतन्तीं तां तदीयाम् । गदया स्वयाऽपास्य निरस्य पुनर्नदंस्तां गदां शत्रवे क्रुद्धः प्राहिणोत् ॥ २३ ॥

स च मायां समाश्रित्य दैतेयीं मयदर्शिताम् ।

निर्ममेऽश्ममयं वर्षं कार्ष्णौ वैहायसोऽसुरः ॥ २४ ॥

पदरत्नावली

दैतीयी दैत्यानां कुले देवतामिव विद्यमानाम् । वैहायसः विहायसि गगने स्थितः ॥ २४ ॥

सत्यधर्मीया

दैतेयीं मयदर्शितां तत्कृतां दैत्येभ्यो दत्तां मायां समाश्रित्य वैहायसो गगनग इति तत्सम्बन्धी । असुरः कार्ष्णौ अश्ममय वर्षं निर्ममे ॥ २४ ॥

बाध्यमानोऽश्मवर्षेण रौग्मिणेयो महारथः ।

सत्वात्मिकां महाविद्यां सर्वमायोपमर्दिनीम् ॥ २५ ॥

पदरत्नावली

सत्वात्मिकां बलज्ञाननिधिविष्णुदैवत्याम् । महाविद्यां विज्ञानास्त्रसंज्ञाम्

॥ २५ ॥

सत्यधर्मीया

महारथो रौग्मिणेयोऽश्मवर्षेण बाध्यमानः सत्त्वात्मिकां महाविद्यां रतिप्रीतिसमीरितां निर्ममे ॥ २५ ॥

ततो गौह्यकगान्धर्वपैशाचोरगराक्षसीः ।

प्रायुङ्क्त शतशो दैत्यः कार्ष्णिर्व्यधमयत् स ताः ॥ २६ ॥

पदरत्नावली

गौह्यकादीन्यस्त्राणि प्रायुङ्क्त । गुह्यकास्त्रं गौह्यकम् । व्यधमयदनाशयत् ।

सत्यधर्मीया

गौह्यकी च कौबेरी चेत्येवमाद्या मायाः शतशः प्रायुङ्क्त ताः स कार्ष्णिर्व्यधमयत् ॥ २६ ॥

निशातमसिमुद्यम्य सकीरीटं सकुण्डलम् ।

शम्बरस्य शिरः कायात् ताम्रश्मश्व्रोजसाऽहरत् ॥ २७ ॥

पदरत्नावली

ताम्रश्मश्रु कपिलरुचिरश्मश्रु ।

सत्यधर्मीया

ताम्राणि श्मश्रूणि यस्ंिमस्तत् सकिरीटं सकुण्डलं निशातमसिमुद्यम्य शम्बरस्य तच्छिरः कायाज्जहार ॥ २७ ॥

आकीर्यमाणो दिविजैः स्तुवद्भिः कुसुमोत्करैः ।

भार्ययाऽम्बरचारिण्या पुरं नीतो विहायसा ॥ २८ ॥

सत्यधर्मीया

स्तुवद्भिः स्तोत्रं कुर्वाणैर्दिविजैः कुसुमोत्करैः पुष्पसङ्घैः कीर्र्यमाणः सन् अम्बरचारिण्या भार्यया विहायसा गगनमार्गेण पुरं द्वारकां नीतः ॥ २८ ॥

अन्तःपुरवरं राजन् ललनाशतसङ्कुलम् ।

विवेश पत्न्या गगनाद् विद्युतेव बलाहकः ॥ २९ ॥

पदरत्नावली

बलाहको मेघः ॥ २९ ॥

सत्यधर्मीया

ललनाशतं तद्बहुसहस्रं तेन सङ्कुलमन्तःपुरवरं गगनादवरुह्य विद्युता तटिता सह बलाहको मेघ इव पत्न्या सह विवेश । गगनेऽततीति गगनादिति प्रथमा वा । उत्तरश्लोकेनान्वयः ॥ २९ ॥

तं दृष्ट्वा जलदश्यामं पीतकौशेयवाससम् ।

प्रलम्बबाहुं ताम्राक्षं सुस्मितं रुचिराननम् ॥ ३० ॥

अलङ्कृतमुखाम्भोजं नीलवक्त्रालकालिभिः ।

कृष्णं मत्वा स्त्रियो भीता निलिल्युस्तत्र तत्र ह ॥ ३१ ॥

सत्यधर्मीया

स्त्रियोऽन्तःपुरस्थाः । जलदश्याममित्यादीनि विशेषणानि कृष्णसारूप्यं साधयन्ति भ्रमसाधनानीति ज्ञेयम् । नीलानां वक्त्राणमलकानामालयः पङ्क्तयस्ताभिरलङ्कृतं मुखाम्भोजं यस्य तं कृष्णं मत्वा लज्जया तत्र तत्र निलिन्युर्निलीना अभवन् ॥३०,३१॥

उपधार्य शनैरीशद्वैलक्षण्येन योषितः ।

उपजग्मुः प्रमुदिताः सस्त्रीरत्नं शुचिस्मिताः ॥ ३२ ॥

पदरत्नावली

निलिल्युर् निलीनाः ॥ ३२ ॥

सत्यधर्मीया

ईषद्वैलक्षण्येन किञ्चिद्विलक्षणलक्षणवत्तया शनैर्मन्दं स्वैरं वोपधार्य नायं श्रीकृष्ण इति निश्चित्य सस्त्रीरत्नं स्त्रीरत्नेन सहितं प्रमुदिताः सत्य उपजग्मुः समीपमापुः

॥ ३२ ॥

अथ तत्रासितापाङ्गी वैदर्भी बल्गुभाषिणी ।

अस्मरत् स्वसुतं नष्टं स्नेहस्रुतपयोधरा ॥ ३३ ॥

पदरत्नावली

वैलक्षण्येन कृष्णलक्षणविपरीतलक्षणनिकरेण ॥ ३३ ॥

दुर्घटभावदीपिका

असितापाङ्गी वल्गुभाषिणीति विशेषणद्वयेनोपलक्षणत्वेन रुक्मिण्याः सर्वसम्यक् लक्षणसम्पन्नत्वोक्त्या सर्वसम्यक्लक्षणसम्पन्नाया रुक्मिण्याः पुत्रवियोगक्लेशस्य बाधितत्वात् पुत्रवियोगक्लेशप्रदर्शनमात्रम् । वस्तुतः पुत्रवियोगक्लेशो नास्तीति सूचयति । एतेनासितापाङ्गी वल्गुभाषिणीति विशेषणद्वयं व्यर्थमिति चोद्यं पराकृतम् ॥ ३३ ॥

सत्यधर्मीया

तत्र तत्समये योषित्परिषदि वा । असितापाङ्गी नीललोचना वैदर्भी वल्गुभाषिणी रुग्मिणी स्रुहेन स्नुतौ पयोधरौ कुचौ यस्याः सा । पयोधरः स्यात्कुचकोश-कारकेति विश्वः । नष्टं सूतिकागार एवादर्शनं गतं स्वसुतमस्मरत्सस्मार ॥ ३३ ॥

कोन्वयं नरवैडूर्यः कस्य वा कमलेक्षणः ।

धृतः कया वा जठरे केयं लब्धाऽथ केन वा ॥ ३४ ॥

पदरत्नावली

असितापाङ्गी नीलरुचिरकान्तनेत्रान्ता ॥ ३४ ॥

मम चाप्यात्मजो नष्टो नीतो वा सूतिकागृहात् ।

एतत्तुल्यवयोरूपो यदि जीवति कुत्रचित् ॥ ३५ ॥

पदरत्नावली

इयं का केन वा लब्धा ॥ ३५ ॥

सत्यधर्मीया

अयं नरवैडूर्यः कः कमलेक्षणः कस्य पुत्र इति शेषः । कया कामिन्या गर्भे धृत इयं कामिनी काऽथ केनोपायेन लब्धेति तर्कयन्ती तत्प्रकारेणातर्कय-दित्याह ॥ ममेति । नष्टो मृतः सूतिकागृहान्नीतो यदि कुत्रचिज्जीवति चेदेतत्समवयोरूपो भवेत् ॥ ३४,३५ ॥

कथं त्वनेन सम्प्राप्तं सारूप्यं शार्ङ्गधन्वनः ।

आकृत्याऽवयवैर्गत्या स्वरहासावलोकनैः ॥ ३६ ॥

पदरत्नावली

प्रकारान्तरेण शङ्कते– ममेति ॥ ३६ ॥

दुर्घटभावदीपिका

कोऽन्वयं नरवैदूर्य इति पूर्वश्लोकस्थो नरवैदूर्यशब्दोऽत्रानुवर्तते । न केवलं परिदृश्यमानपुरुषो नरवैदूर्यः किन्तु ममात्मजोऽपि नरवैदूर्यः सः सूतिकागृहान्नीतः सन् नष्टो वा कुत्रचिज्जीवति वा । यदि कुत्रचिज्जीवति तर्ह्येतत्समवयोरूपः स्यात् । अत्र रूपशब्देनाकारो गृह्यते इति । एतेन चापिशब्दौ व्यर्थाविति दूषणं परास्तम् । नरवैदूर्यत्वे सर्वथा विशेषो नास्तीति ज्ञापनार्थं न केवलं ममात्मजो नरवैदूर्यः किन्तु परिदृश्यमानपुरुषश्च न केवलं परिदृश्यमानपुरुषो नरवैदूर्यः किन्तु ममात्मजोऽपि नरवैदूर्य इति परस्परसमुच्चयार्थं चापिशब्दावित्यभ्युपगमात् ॥ ३६ ॥

॥ इति श्रीसत्याभिनवतीर्थविरचितायां दुर्घटभावदीपिके उत्तरार्धे अष्टषष्ठितमोऽध्यायः ॥ १०–६८ ॥

सत्यधर्मीया

परश्चेन्नैवंरूपः स्यादित्यूहयति । अनेन शार्ङ्गधन्वनः सारूप्यं तुशब्द ईषव्द्यत्याससूचकः । प्राप्तं तदेव देव सारूप्यं देवी विविच्य वक्ति ॥ आकृत्येत्यादिना

॥ ३६ ॥

स एव वा भवेन्नूनं यो मे गर्भे धृतोऽर्भकः ।

अमुष्मिन् प्रीतिरधिका वामः स्फुरति मे भुजः ॥ ३७ ॥

पदरत्नावली

सारूप्यं सादृश्यम् । सारूप्यं केनेति तत्राह– आकृत्येति ॥ ३७ ॥

सत्यधर्मीया

यो मे मया गर्भे धृतः स एवायं भवेत् । नूनं निश्चयेन । कुत इत्यत आह ॥ अमुष्मिन्निति ॥ अधिका प्रीतिर्भवति न भवेदन्यत्रैवमिति भावः । मे वामो भुजः स्फुरति । अन्यथैवं मङ्गलसूचकं शकुनमपि न स्यात् ॥ ३७ ॥

एवं मीमांसमानायां वैदर्भ्यां देवकीसुतः ।

देवकीवसुदेवाभ्यां नारदेन महात्मना ॥ ३८ ॥

पदरत्नावली

नूनं निश्चयः ॥ ३८ ॥

**अन्यैश्च यादवश्रेष्ठैरुत्तमश्लोक आविशत् । **

विदितार्थोऽपि भगवांस्तूष्णीमास जनार्दनः ॥ ३९ ॥

पदरत्नावली

मीमांसमानायां विचारयन्त्याम् ॥ ३९–४३ ॥

सत्यधर्मीया

वैदर्भ्यां रुग्मिण्यामेवं मीमांसमानायां विचारयन्त्यां सत्यां देवकी-वसुदेवाभ्यां नारदेन च महात्मनाऽन्यैश्च यादवश्रेष्ठैश्च सहाविशत् । तदन्तःपुरमिति शेषः । विदितार्थोऽपि जनार्दनस्तूष्णीमज्ञातैतत्क इवास ॥ ३८,३९ ॥

नारदोऽकथयत् सर्वं शम्बराहरणादिकम् ।

तच्छ्रुत्वा महदाश्चर्यं कृष्णान्तःपुरयोषितः ॥ ४० ॥

सत्यधर्मीया

नारदः शम्बराहरणादिकं शम्बरेण दैत्येनाहरणमपहरण एवादिर्यस्य तत्सर्वं वृत्तम् । शम्बरं जलं प्रत्याहरणं क्षेपः शम्बराज्जलादाहरणं गिलनं मीनेनैवेति शम्बरेणानन्तरं शम्बरान् मत्स्यादाहरादिकमिति वा । शम्बरं सलिले वित्ते लोध्रव्रत विशेषयोः । शम्बरो दैत्यहरिणमत्स्यशैलजलान्तर इति विश्वः । अकथयद्यत्तन्महदाश्चर्यं महतामाश्चर्यमिति वा । कृष्णान्तःपुरयोषितः ॥ ४० ॥

देवकीवासुदेवौ च कृष्णरामौ तथा स्त्रियः ।

दम्पती तौ परिष्वज्य रुग्मिणी च ययुर्मुदम् ॥ ४१ ॥

सत्यधर्मीया

देवकीवसुदेवौ कृष्णरामौ च तथा स्त्रियोऽन्याश्च रुग्मिणी च तौ दम्पती परिष्वज्य मुदं ययुः ॥ ४१ ॥

नष्टं प्रद्युम्नमायातमाकर्ण्य द्वारकौकसः ।

अहो मृत इवायातो बालो दिष्ट्येति चाब्रुवन् ॥ ४२ ॥

सत्यधर्मीया

द्वारकौकसो दूरागारा नष्टं प्रद्युम्नमायातमाकर्ण्य बालो मृत आयातश्चेद्यथा तथाऽऽयातः । अहो आश्चर्यम् । दिष्ट्या परमसुखमित्यब्रुवंश्च ॥ ४२ ॥

यं वै मुहुः पितृसरूपनिजेशभावा तन्मातरो मनसिजार्द्रहृदोरुभावाः ।

चित्रं न तत् खलु रमास्पदबिम्बभूते कामे स्मरेतेऽक्षविषये किमुतान्यनार्यः

॥ ४३ ॥

॥ इति श्रीमद्बागवते दशमस्कन्धे अष्टषष्टिरध्यायः ॥

पदरत्नावली

नारीणां विभ्रमं जनयामासेति यदुक्तं न तच्चित्रं मन्तव्यमित्याह– यं वा इति ॥ यं दृष्ट्वा तस्य प्रद्युम्नस्य मातरः हरेः पत्न्य मनसिजार्द्रहृदाः कामरसक्लिन्न-मनस्कत्वेनोरुभावा बहुविधशृृङ्गारचेष्टायुक्ताः । अङ्गुष्ठनखमुखमूलेन करयुगपीडनादिविकार-लक्षणलक्षिता अभूवन् इत्यन्वयः । किंविशिष्टाः? पितृसरूपतया पितृसारूप्येण निजेशोऽ-स्मत्पतिरयमिति भावोऽभिप्रायो यासां ताः । तस्मिन् कामे मदने तच्चित्रं न खलु । काम्यत इति कामस्तस्मिन् कामे अक्षविषये चक्षुर्गोचरे किमु ? इतोऽपि चित्रं नेत्याह– रमेति ॥ रमास्पदस्य लक्ष्मीमूर्तेः श्रीकृष्णस्य बिम्बादखण्डलक्षणोपेताद् देहादुद्भूते जाते ‘आत्मा वै पुत्रनामासि’ इति श्रुतेः । श्रीकृष्णस्य बिम्बस्य यल्लक्षणं तत् सर्वमस्य बिम्बस्य निधीयत

इति श्रीकृष्णदेहप्रतिबिम्बभूतमित्यर्थः ‘बिम्बोऽस्त्री मण्डलसमप्रतिमामुखलक्ष्मसु । प्रतिरूपे प्रतिकृतौ स्याद् बिम्बकपाल’ इति । अन्यनार्यस् तन्मातृव्यतिरिक्ताः स्त्रियः स्मृतेऽपि विमुह्यन्ति दृष्ट्वा किमु ? तदिदं सर्वं कृष्णमाहात्म्यविलास इतीममर्थविशेषं वा इत्यनेन दर्शयति ॥ ४३ ॥

॥ इति श्रीमद्भागवतटीकायां श्रीविजयध्वजतीर्थकृतायां पदरत्नावल्यां

दशमस्कन्धे उत्तरार्धे अष्टषष्टितमोऽध्यायः ॥

सत्यधर्मीया

नारीणां विभ्रमं जनयामासेति यदुक्तं तदित्थं चेदपि नैतस्मिन्स्मरे चित्रं तदिति सहेतुकमाह ॥ यमिति ॥ यं दृष्ट्वा तन्मातरः कृष्णपत्न्यः पितृसरूप इति कृष्णसमानरूप इति निजेशे स्वस्वामिनि कृष्णे भावो मनो यासां तास्तथा । स्वरमणा-रमणेच्छवो मुहुः पुनर्मनसिजार्द्रं च तद्धृच्चेतना अभवन् । तच्चित्रं न खलु निश्चयेन । तत्र तन्त्रं रमास्पदबिम्बभूते रमाया आस्पदं हरिस्तस्य बिम्बभूते प्रतिबिम्बे । बिम्बं फले बिम्बिकायाः प्रतिबिम्बे च मण्डल इति विश्वः । आस्पदेति । स्मरे साक्षादक्षविषये यत्स्मरणादेवास्मरणं शरीरे नारीणां भवति किं वक्तव्यमेवं चेदिति भावः । अन्यनार्यः कामे कमनीयेऽक्षविषये उरुर्नानाविधो भावोऽभिप्रायो वा चेष्टो वा मनो वा यासां ताः । भवेयुरिति किं वक्तव्यमिति भावः । वैलक्षण्येन न नाथ इति मतिमतीनां तथा नारदोपदिष्टवृत्तानां समाश्लिष्टकार्ष्णीनां कृष्णानां तन्मातृृणाम् एवंविधमोहस्यानूहास्पदत्वादप्रत्यवायश्च तासामित्यर्थो न क्लिष्ट इति मन्तव्यम् । भावः स्वभावाभिप्रायचेष्टासत्तात्मजन्मसु । क्रियालीलापदार्थेषु बुधजन्तुविभूतिष्विति विश्वः ॥ ४३ ॥

॥ इति श्रीसत्यधर्मयतिकृतायां भागवतटिप्पण्यां दशमस्कन्ध

उत्तरार्धे अष्टषष्टितमोऽध्यायः ॥ १०–६८ ॥