१९ सप्तषष्ठिरध्यायः

ततः स्वयं देवपतिस्तुङ्गमारुह्य वारणम्

॥ अथ सप्तषष्ठिरध्यायः ॥

श्रीशुक उवाच—

ततः स्वयं देवपतिस्तुङ्गमारुह्य वारणम् ।

किरीटी बद्धतूणीरः प्रगृहीतशरासनः ॥ १ ॥

पदरत्नावली

ते तव युक्तं न्याय्यम्, स्त्रीजितस्येति शेषः । ‘न्याय्यसंयुक्तयोर्युक्तम्’ इति यादवः ॥ १–५ ॥

सत्यधर्मीया

ततः शर्वादिसर्वसुपर्वविद्रावणानन्तरम् ॥ १ ॥

अभ्यद्रवद् रणे कृष्णं गजः केसरिणं यथा ।

पारिजातकृते राजन् पौलोम्या वचनं स्मरन् ॥ २ ॥

सत्यधर्मीया

गजः केसरिणं सिंहं पारिजातकृते तन्निमित्तं पौलोम्या वचनं पराभाव्य भगवन्तं नगमानयेति मानिनीवाक्यम् । अनेनोभावपि भार्यामूलमेव कलहं कलयत इति द्योत्यते ॥ २ ॥

तमायान्तमभिप्रेक्ष्य हरिः पुरपुरञ्जयः ।

शङ्खं दध्मौ महानादं दिशः समभिपूरयन् ॥ ३ ॥

सत्यधर्मीया

हरिस्तमिन्द्रम् ॥ ३ ॥

तमभिद्रुत्य देवेन्द्रो महद् विष्फारयन् धनुः ।

क्षुरप्रेण सुतीक्ष्णेन कृष्णं विव्याध सङ्गरे ॥ ४ ॥

सत्यधर्मीया

महद्धनुर्विस्ष्फारयन् । सङ्गरे क्षुरप्रेण शरविशेषेण विव्याध । रे विव्याधसङ्गविविधा व्याधास्तेषां सङ्गो यस्य स तत्सम्बुद्धिः । तैर्व्याधैर्विधेयकर्म पश्यतो हरत्वादिकं तत्त्वं कृतवानिति सम्बोधयामास वासवो वसुदेवं तथेति वाऽऽवृत्त्या ज्ञेयम्

॥ ४ ॥

हरिर्विद्धः क्षुरप्रेण देवराजेन वक्षसि ।

प्रहस्य साधु शक्रोऽसि युक्तं त इति चाब्रवीत् ॥ ५ ॥

दुर्घटभावदीपिका

हरिः कृष्णो देवराजेन क्षुरप्रेण वक्षसि विद्धः सन् प्रहस्य । हे शक्र । त्वं साधुशक्रोऽसि सम्यक् शक्तोऽस्यतस्ते तव मद्वक्षसि क्षुरप्रेण ताडनं युक्तमित्य-ब्रवीच्चेति । एतेन साधुशक्तोऽसीति वक्तव्यं साधुशक्रोऽसीति कथनमयुक्तमिति शङ्का परास्ता । शुक्लकेशावित्यस्मात्कर्तरि रप्रत्यये शक्र इति रूपं निष्पन्नमित्यभ्युपेत्य साधुशक्रोऽसीत्यस्य साधुशक्तोऽसीत्यर्थस्योक्तत्वात् ॥ ५ ॥

सत्यधर्मीया

साधु सम्यक् त्वं शक्तोऽसि । अतस्त इदं मदङ्गताडनं युक्तं न्याय्यमिति चाब्रवीत् । अनेनायं मम शयोऽधुनापि शीतलो जात इवेत्येव समये उपकारं विस्मृत्यायात इति हास इति ज्ञेयम् । न्यायसंयुक्तयोर्युक्तमिति यादवः ॥ ५ ॥

भूयोऽपि बाणान् दश देवराजः सन्धाय चापे भुजगेन्द्रकल्पे ।

आकर्णपूर्णं विनिकृष्य कृष्णे मुमोच चक्रेऽसहसिंहनादम् ॥ ६ ॥

सत्यधर्मीया

भुजगेन्द्रकल्पे मासृण्येनाकारेण च सर्पसमेे । असहो दुस्सहो यो सिंहनादस्तम् । स इन्द्रः सिंहनादं च चक्रे हेत्यन्वयो वा ॥ ६ ॥

पदरत्नावली

सः ह इति पदच्छेदः । स शक्रः ह युद्धमारभे ॥ ६–७ ॥

तानन्तरे कंसरिपुर्महात्मा छित्त्वा त्रिधैकेन शरेण बाणान् ।

विव्याध बाणैर्दशभिः सुधौतैः पुरन्दरं भारत लीलयैव ॥ ७ ॥

सत्यधर्मीया

सुधौतैर्निशितैः ॥ ७ ॥

ते शरा देवराजस्य गात्रं निर्भिद्य सावृति ।

शोणिताक्ताः प्रदृश्यन्ते भूयो वेगेन निर्गताः ॥ ८ ॥

पदरत्नावली

गात्रं गात्राण्यवयवान् । सावृतीति क्रियाविशेषणम् । सकवचं निर्भिद्य

॥ ८–९ ॥

सत्यधर्मीया

सावृति । आवृत्या तद्रूपेण वर्मणा सहितं तद्गात्रं निर्र्भिद्य भूयोवेगेन बहुवेगेन शोणिताक्ता वेगेन विनिर्गता भूयः पुनः प्रदर्श्यन्त इति वा ॥ ८ ॥

पुनश्च शक्रः कोदण्डे शरान् सन्धाय षोडश ।

मुमोचाकृष्य गोविन्दस्तांश्चकर्त शरैस्त्रिभिः ॥ ९ ॥

सत्यधर्मीया

तान् षोडश शरांस्त्रिभिः पतत्त्रिभिरेकेन षट् द्वाभ्यां पञ्चकं पञ्चकमिति विवेकः ॥ ९ ॥

भूयोऽपि बाणैस्त्रिंशद्भिः सुरराजानमाहवे ।

अयोधयद्धरिस्ते च ममज्जुः शक्रवक्षसि ॥ १० ॥

पदरत्नावली

आहवे युद्धे ॥ १० ॥

सत्यधर्मीया

सुरराजानं त्रिंशत्सङ्ख्या बाणाः ॥ १० ॥

ततश्चुकोप देवेन्द्रो दण्डाहत इवोरगः ।

प्रेषयामास तोत्रेण तार्क्ष्यं प्रति महागजम् ॥ ११ ॥

पदरत्नावली

तोत्रेण गजताडनचर्मणा ॥ ११ ॥

सत्यधर्मीया

तोत्रेणाङ्कुशेन ॥ ११ ॥

स राजः प्राप्य गरुडं पाकशासनचोदितः ।

चतुभिर्घट्टयामास दन्तैर्बाहुयुगान्तरे ॥ १२ ॥

पदरत्नावली

बाहुयुगान्तरे वक्षसि ॥ १२–१४ ॥

सत्यधर्मीया

बाहुयुगान्तरे उरसि ॥ १२ ॥

ततस्तुण्डेन गरुडः पक्षाभ्यां च तथा नखैः ।

मर्दयामास कौरव्य गजमैरावताह्वयम् ॥ १३ ॥

सत्यधर्मीया

तुण्डेन चञ्चुना ॥ १३ ॥

शक्रस्तु वज्रमुद्यम्य घोरं दानवभीषणम् ।

पश्यतां सर्वभूतानां प्रजहार वृषाकपिम् ॥ १४ ॥

सत्यधर्मीया

वृषाकपिं हरिम् । वृषा इन्द्रः प्राक् हनुमन्तं प्रतीव प्रजहारेति लुप्तोपमा च । वासवो वृत्रहा वृषेत्यमरः ॥ १४ ॥

तमागतं मधुरिपुर्वज्रं दुश्च्यवनायुधम् ।

वामेन पाणिना विष्णुर्जग्राह प्रजहास च ॥ १५ ॥

पदरत्नावली

दुश्च्यवनायुधम् इन्द्रायुधम् । अजेयप्रहारार्थमायुधं सम्प्राप्तमिति दर्शयितुं पुनर्वचनमिति ज्ञातव्यम् ॥ १५–१७ ॥

सत्यधर्मीया

मधुरिपुर्मधुसूदनः । इदानीं मधुर्मनोहरः सन्नेव रिपुः । न क्रौर्ये पुरस्तिष्ठेच्छक्र इति भावः । आगतं स्वसमीपं वज्रं वामेन करेण जग्राह । हे दुश्च्यवन । आगतं त आयुधं किलेति जहास चेत्यन्वयः ॥ १५ ॥

निरायुधः सुरपतिर्गरुडार्दितवाहनः ।

व्यावर्तत रणाद् राजन् व्रीडावनतकन्धरः ॥ १६ ॥

सत्यधर्मीया

निरायुधः क्षुरप्रादिवज्रान्तानामयुधानां विसर्जनाद्वर्जितायुधस्तथा गरुडार्दितवाहनश्च व्रीडया व्रीडेन वाऽऽनता कन्धरा यस्य स सन् व्यावर्ततापासर्पदिति यावत् । व्रीडा व्रीडश्चेति द्विरूपकोशः ॥ १६ ॥

तं दृष्ट्वा भ्रष्टसङ्कल्पं पलायनपरायणम् ।

सत्यभामा सुरपतिं प्रहसन्तीदमब्रवीत् ॥ १७ ॥

सत्यधर्मीया

प्रहसन्ती भर्तृभ्रातृत्वादपहसन्ती ॥ १७ ॥

सत्यभामोवाच—

एहि शक्र निवर्तस्व मा याहि कुलिशायुध ।

पलायनमयुक्तं हि पौलोभ्या वल्लभस्य ते ॥ १८ ॥

पदरत्नावली

निवर्तस्य पुनरागच्छ । मा याहि मा गच्छ प्रहसन्तीत्यस्य तात्पर्यं दर्शयति– पौलोम्येति ॥ १८ ॥

सत्यधर्मीया

हे शक्र । एहि निवर्तस्व । हे कुलिशायुधेति बह्वप्रतिष्ठां सूचयतीति मन्तव्यम् । अधुना मधुनाथहृतत्वात्तस्य । पौलोम्या वल्लभस्य पत्युस्ते पलायनं न युक्तं योग्यं न । पौलोम्या वल्लभस्येति स्वतदवमाननेर्ष्यामाविश्चकार सत्यभामेति ज्ञेयम् ॥ १८ ॥

ऐश्वर्यमत्ता पौलोमी भर्तृपौरुषगर्विता ।

अवमंस्यति सद्यस्त्वां भार्या रणपराजितम् ॥ १९ ॥

पदरत्नावली

अवमंस्यति अवज्ञास्यति ॥ १९–२० ॥

सत्यधर्मीया

ऐश्वर्यमत्ता भर्तृपौरुषगर्विता पौलोमी भार्या रणपराजितं त्वां सा त्वामवमंस्यत्यवमानयति ॥ १९ ॥

श्रीशुक उवाच—

इत्थं देव्या गिरं शक्रः सोपालम्भमुदीरिताम् ।

निशम्याभिमुखो भूत्वा प्राह देवीं शुचिस्मिताम् ॥ २० ॥

सत्यधर्मीया

सोपलम्भं सापहासमुदीरितां गिरं शक्रो निशम्याभिमुखो भूत्वा शुचिस्मितां देवीं प्राह ॥ २० ॥

इन्द्र उवाच—

येनामरासुरमहोरगयक्षसिद्धगन्धर्वकिन्नरपिशाचनिशाचराद्याः ।

**सृष्टास्त्रिलोकगुरुणा रणमूर्ध्नि तेन को वा न याति परिभूतिमलं विरुद्ध्य **

॥ २१ ॥

पदरत्नावली

गतासुरावेश इन्द्रः प्रतिवक्ति– येनेति ॥ २१ ॥

सत्यधर्मीया

गतासुरावेशः शचीशो हरिगुणानुदीरयन् स्वस्वभावमाविर्भावयति ॥ येनेति । अमराद्या निशाचरान्ताः सृष्टा उत्पादितास्तेन त्रिलोकगुरुणा को वा पुमान् रणमूधर्ि्न विरुद्ध्यालं परिभूतिमतिपराभवं न याति । परिभूतिमलं तद्रूपं कलङ्कं न यातीति वा । अलं विरुद्ध्येति तु नान्वयः सरसः । तस्य च तमोहेतुत्वात् । वक्ष्यमाणगोवत्सन्यायोऽप्यननुगुणः स्यात् । अनयेनातिपरिभूतिमलमिति वा ॥ २१ ॥

वत्से यथा तनुबलः सकृदेत्य मातर्यूधस्यपानसमये कुरुते विरोधम् ।

तद्वद् वयं च निजशैशवमप्रमेये नाथे विरुद्ध्य पिशिताशनिदर्शयामः ॥२२॥

पदरत्नावली

तनुबलो ऽल्पबलः । मातर्यूधस्येति पाठ ऊधस्यमूधसि जातं क्षीरम् । मातरि विरोधम् । हे पिशिताशनि । ‘याज्ञियान्ने च मांसे च पिशितं देवभोजनम्’ इति ॥ २२ ॥

दुर्घटभावदीपिका

सकृदित्यस्य सहसेत्यर्थः । एतेन वत्सस्य क्षीरपानार्थं बहुवार-मागमनस्य विद्यमानत्वात् सकृदेत्येति कथनमयुक्तमिति चोद्यं निरस्तम् । सकृदित्यस्यैकवार-मित्यर्थ इत्यनङ्गीकारात् ॥ २२ ॥

सत्यधर्मीया

तनुबलोऽल्पं तनु बलं यस्य स वत्सस्तर्णकः सकृदेत्य झडित्युपागम्योधस्यमूधोभवं क्षीरं तस्य पानसमये मातरि गवि विरोधं मुखघट्टनादिकं कुरुते करोति । स्तन्याप्रदानसूचके कुरुते कुत्सिते शब्दे कृते सतीत्यप्यर्थः । तद्वद्वत्सवत् । अप्रमेये नाथे पत्यौ श्रीकृष्णे विरुद्ध्य किञ्चिद्विरोधम् । हे पिशिताशनि यज्ञीयान्नभोजने सत्येे निजशैशवमस्मद्बालभावं मौर्ख्यमिति यावद्दर्शयामः । हे अप्रमेये । नाथे स्वामिनि पिशिताशनि बहिर्मांसभक्षिणि स्त्रीराक्षसीत्युपहासः । त्वयि विरुद्ध्येव निजशैशवं दर्शयाम इति वा । यद्वा हे देवान्नाशिनि अमृतभोजने । अस्मल्लोकस्तु पारिजातेन तथामृतेन च विशिष्ट इति विशिष्टस्तत्रैकस्तु बलादबले गृहीत इदमन्नं मदीयमपि गृहाणेति वचनं दुश्च्यवनस्येति ज्ञेयम् । याज्ञीयान्ने च मांसे च पिशितं देवभोजनमिति यादवः । इदं सर्वं निजशैशवं तव शैशवमेव न केशवस्येत्युपाहसदित्यपि ज्ञेयम् ॥ २२ ॥

इति सत्राजितः पुत्रीमुक्त्वा भारतसत्तम ।

कृताञ्जलिः प्रणम्याह वासुदेवं पुरन्दरः ॥ २३ ॥

सत्यधर्मीया

सत्राजितः पुत्रीं प्रत्युक्त्वा कृताञ्जलिपुटः पुरन्दरो वासुदेवं प्रणम्याऽह ॥ २३ ॥

इन्द्र उवाच—

नमस्ते देवदेवेश पुण्डरीकाक्ष माधव ।

क्षमस्व मत्कृतं विश्वमपराधं जगत्पते ॥ २४ ॥

सत्यधर्मीया

विश्वं समस्तम् ॥ २४ ॥

न मां त्वदेकशरणं शरणागतवत्सलः ।

भूरिबालिशमक्षान्तं परित्यक्तुं त्वमर्हसि ॥ २५ ॥

पदरत्नावली

भूरिबालिशम् अधिकमूर्खम् ॥ २५–२७ ॥

सत्यधर्मीया

भूरिबालिशमतिमूर्खम् । सुवर्णदिवितरणकृत्तरुरिति भूरि भूरिप्रयुक्तं सुवर्णार्थं बालिश इति । भूरिर्ब्रह्माच्युतेषु भूरिप्राज्यसुवर्णयोरिति विश्वः । अक्षान्तं क्षमा-रहितम् । तथाऽपि त्वदेकशरणं त्वं मां त्यक्तुं नार्हसि । अहाने हेतुमाह ॥ शरणा-गतवत्सलेति ॥ २५ ॥

ऐरावतश्च कुलिशं पारिजातश्च पादपः ।

देवराज्यं च भगवन्नियं चाप्यमरावती ॥ २६ ॥

सत्यधर्मीया

सर्वं त्वदधीनमित्युक्त्वा कञ्चन विशेषं पुनः पारिजातप्रत्यर्पणविषयं तं मुखतो वादयितुं पीठमारचयति ॥ ऐरावत इति ॥ कुलिशं भिदुरम् ॥ २६ ॥

त्वदधीनमिदं विश्वमहमाज्ञाकरस्तव ।

अत्र यद् रोचते नेतुं नीयतां तद् यथेच्छया ॥ २७ ॥

सत्यधर्मीया

इदं सर्वं त्वदधीनमहं तवाज्ञाकरो ऽत्रैतन्मध्ये यत्तुभ्यं रोचते यथा सम्यगसन्देहेनेच्छया तदनुसारेण नीयताम् ॥ २७ ॥

किन्तु वक्ष्यामि गोविन्द मूलं त्वयि विरुद्ध्यतः ।

रमसे मानुषे लोके भगवंस्त्वमनन्यधीः ॥ २८ ॥

पदरत्नावली

मूलं निमित्तम् । अनन्यधीस् तत्रैव निरतबुद्धिः ॥ २८–३१ ॥

सत्यधर्मीया

इयन्मतिमता भवता कुतः कृतः कलह इत्यत आह ॥ किन्त्विति । त्वयि विरुद्ध्यतो मम मूलं निमित्तं वक्ष्यामि । अनन्यधीर्यदर्थमवतीर्णस्तत्कार्यादन्यत्र निर्गतमतिर्मानुषे लोके रमसे क्रीडसि ॥ २८ ॥

तत्र नीते पारिजाते भवता कल्पपादपे ।

तेन सा जायते स्वर्गान्निर्विशेषा वसुन्धरा ॥ २९ ॥

सत्यधर्मीया

तत्र पारिजाते नीते तेन सा वसुन्धरा भूः स्वर्गान्निर्विशेषा निर्गतो विशेषो यस्याः सा तथा जायते ॥ २९ ॥

तेनाहं यदुशार्दूल विरोधं कृतवांस्त्वयि ।

तत् क्षन्तव्यं त्वया देव कार्याकार्यं विजानता ॥ ३० ॥

सत्यधर्मीया

अस्मत्सदनवैशेष्यसाधनं भविष्यतीति कलहः कृत इति वक्ति ॥ तेनेति ॥ त्वं त्विदं कार्यं न कार्यं चेति विजानन्निति त्वया तन्मम मौर्ख्यं क्षन्तव्यम्

॥ ३० ॥

श्रीशुक उवाच—

इत्युक्तो देवराजेन देवदेवो जनार्दनः ।

पुरन्दरं कुुरुश्रेष्ठ प्राह प्रहसिताननः ॥ ३१ ॥

सत्यधर्मीया

प्रहसिताननो मम तावन्ममताविशेषं दर्शयित्वा मोहयिष्याम्येनमिति हासः ॥ ३१ ॥

श्रीभगवानुवाच—

अपराधस्त्वया शक्र न कश्चिदपि चेष्टितः ।

यत् कृतं तन्ममैवागस्त्वभेदादावयोः परम् ॥ ३२ ॥

पदरत्नावली

त्वया यत्कृतं तदागः मयैव कृतं विद्धि । आवयोः परं मत्यभेदात् त्वयि स्थित्वा त्वयैवापराधं कारयित्वा परिहरामीत्यर्थः ॥ ३२ ॥

सत्यधर्मीया

हे शक्र त्वया न कश्चिदपराधश्चेष्टितः कृतः । यदागस्त्वया कृत-स्तन्मयैव कारितम् । तवास्वतन्त्रत्वात् । आवयोस्त्वदन्तर्गतस्य मम चेत्यावयोः परमत्यन्तमभेदात् । आवयोरभेदान्मत्यैक्यादिति व्याकुर्वते । पूर्वश्लोकात्पुरन्दरमित्यत्रत्य-मनुवर्तते । अथशब्दानुशासनं के ते शब्दा इतिवत् । आवयोः पुरं शरीरं यत्कृतं यन्निमित्तमेकं व्यक्तमेकमिति । तस्याभेदाद्भेदाभावादेकत्वादिति यावत् । एकपितृकत्वात्त्वया यदकारि साधु वाऽसाधु मयाऽकारि विचारणाऽत्रैतद्विषये न कार्या ॥ ३२ ॥

यत् त्वयाऽद्य सहस्राक्ष चेष्टितं साध्वसाधु वा ।

मयैव तत् कृतं सर्वं नात्र कार्या विचारणा ॥ ३३ ॥

पदरत्नावली

एतदेव निवृणोति– यत् त्वयेति ॥ ३३–३४ ॥

सत्यधर्मीया

हे सहस्राक्ष साध्वसाधु वा यत्कृतं तत् त्वयाऽनया शच्या कृतमेव । तदुद्बोधनेनागतत्वात्तव । अत्र यत्सर्वं कृतं तन्मया सत्ययैव कृतम् । एतयोर्मध्ये आर्या का द्वे अपि बालिशे बाले इति भावः । विचारणा नास्तीत्यप्यान्तरङ्गिको भावोऽवसेयः ॥३४॥

पारिजातस्तरुश्रेष्ठो मय्यारूढे तरुर्दिवम् ।

मन्निर्देशात् सहस्राक्ष स्वयमेष्यति नन्दनम् ॥ ३४ ॥

सत्यधर्मीया

निर्विशेष्यं परिहरति । मयि दिवमारूढे तरुश्रेष्ठः पारिजातो मन्निर्देशादाज्ञया नन्दनं वनं स्वयमेष्यति । अतरुर् अतो गतो रुः शब्दो यस्य स निश्शब्द एष्यतीति न तर्वतिरेकः । त्वया प्रेषणीयं मया प्रेेष्यत इति शब्दं विनेत्यर्थः ॥ ३४ ॥

इत्युक्त्वा वासुदेवेन देवराजः कुरूद्वह ।

गोविन्दं सत्यभामां च प्रसाद्य गरुडं तथा ॥ ३५ ॥

सत्यधर्मीया

गोविन्दं सत्यभामां च गरुडं च प्रसादयित्वा ॥ ३५ ॥

पुत्रो मे रक्षितव्यस्ते स्यालो बीभत्सुरित्यपि ।

भूयोभूयः प्रार्थयित्वा कृतानुज्ञः पुरन्दरः ॥ ३६ ॥

सत्यधर्मीया

मे पुत्रस्तव स्यालो बीभत्सुरर्जनो रक्षितव्य इत्यपि भूयोभूयः प्रार्थयित्वा कृता दत्ताऽनुज्ञा यस्य सः पुरन्दरः ॥ ३६ ॥

सार्धं सकलदिक्पालैर्लब्धवज्रः पुरं ययौ ।

पुरन्दरं सदिक्पालं विसृज्य यदुनन्दनः ॥ ३७ ॥

सत्यधर्मीया

सकलदिक्पालैः सार्धं लब्धवज्रः कृष्णात्पुरममरावतीं ययौ ॥ ३७ ॥

गरुडं प्राह कौरव्य यास्यामो द्वारकामिति ।

गोविन्दं सत्यभामां च पारिजातं च पादपम् ॥ ३८ ॥

सत्यधर्मीया

गरुडो गोविन्दं सत्यभामां च पारिजातं पादपं च ॥ ३८ ॥

गरुडः पन्नगरिपुर्लीलयैव वहन् ययौ ।

सम्प्रविश्य पुरीं रम्यां द्वारतोरणभूषिताम् ॥ ३९ ॥

सत्यधर्मीया

पन्नगरिपुर्लीलयैव स्वान्तर्यामिभगवल्लीलयैव वहन् ययौ । न स्वतः पतत्त्रिणः समर्थता । उक्तं चोद्योगपर्वणि । विष्णुरुवाच । अहमेवात्मनाऽत्मानं वहामि त्वां च धारये । इमं तावन्ममैकं त्वं बाहुं सव्यतरं वह । स्वहस्तन्यस्तभारेऽभूद्वासवस्नेह-कारणात् । निपपातेत्यारभ्य क्षन्तुमर्हसीत्यन्तेन विश्वम्भरसर्वस्वादिकं सलघिमानं चकारेति लीलयैवेति वा ॥ ३९ ॥

पताकामालिनीं दिव्यां सिक्तसंमृष्टभूतलाम् ।

ऊढोपायनताम्बूलस्रग्गन्धकलशाक्षतैः ॥ ४० ॥

सत्यधर्मीया

ऊढा उपायनाक्षतान्ता यैस्तैः ॥ ४० ॥

उपस्थितैर्यदुश्रेष्ठैः पूजितश्चाभिवन्दितः ।

तूर्यमङ्गलनिर्घोषैर्वेदस्वाध्यायनिःस्वनैः ॥ ४१ ॥

सत्यधर्मीया

उपस्थितैर्यदुश्रेष्ठैः पूजितोऽभिवन्दितश्च ॥ ४१ ॥

प्रविवेश सभां दिव्यां सुधर्मां वृद्धसेविताम् ।

आहुकं वसुदेवं च बलभद्रं तथाऽग्रजम् ॥ ४२ ॥

सत्यधर्मीया

दिव्यां दिवि भवामेव अत्रायाताम् ॥ ४२ ॥

अभिवाद्य यथान्यायं पूजितस्तैर्यथोचितम् ।

उपविष्टः सभामध्ये काञ्चने परमासने ॥ ४३ ॥

दुर्घटभावदीपिका

पूजितस्तैर्यथोचितमित्यस्य तैर्यथोचितमनतिक्रम्य पूजित इत्यर्थः । एतेन यथोचितत्वमिति वक्तव्यं यथोचितमिति कथनमयुक्तमिति चोद्यं पराकृतम् । उचितमिति भावप्रधानो निर्देश इत्यङ्गीकारात् ॥ ४३ ॥

सत्यधर्मीया

यथान्यायमभिवाद्य तैर्यथोचितं स्वयं पूजितश्च ॥ ४३ ॥

रराज राजशार्दूल बृहस्पतिपुरोगमैः ।

लोकपालैरुपासीनैर्दिवि वज्रधरो यथा ॥ ४४ ॥

सत्यधर्मीया

बृहस्पतिः पुरोधाः । तत्पुरोगमैस्तदाद्यैर्लोकपालैरुपासीनैर्दिवि वज्रधर इन्द्रो यथा तथा सभामध्ये काञ्चने परमासने उपविष्टो रराज । ननु पुरोधसां च मुख्यं मां विद्धि पार्थ बृहस्पतिमिति गीतायां बृहस्पतेः पुरोधोऽग््रयत्वम् । तथाऽन्यत्र च वसिष्ठस्य पुरोहितवैशिष्ट्यमुच्यते । तत्र कथं समाधिरिति चेत् । दैवपुरोधसां मध्ये बृहस्पतिर्मानुष-पुरोधसां वसिष्ठ इति विवेकसम्भवात् । यथोक्तमेकादशतात्पर्ये । वसिष्ठोऽभ्यधिकस्तेषां मानुषाणां पुरोधसामिति त्रैकाल्य इति । प्र्रसङ्गादिदमुक्तमिति ज्ञेयम् ॥ ४४ ॥

प्राङ्गणे सत्यभामायाः पारिजातं महाद्रुमम् ।

स्थापयामास गोविन्दः सर्वतो मणिकुट्टिमे ॥ ४५ ॥

पदरत्नावली

मणिकुट्टिमे मणिबद्धस्थाने ॥ ४५ ॥

सत्यधर्मीया

सर्वतः परितो मणिकुट्टिमे मणिनिबद्धभूमौ ॥ ४५ ॥

आयान्तं देवकीपुत्रं योषित्सार्थेन भूरिणा ।

श्रुत्वा द्रष्टुमुपाजग्मुः सकला यादवस्त्रियः ॥ ४६ ॥

पदरत्नावली

योषित्सार्थेन, निरन्तरपत्न्या सहेति शेषः ॥ ४६–४९ ॥

दुर्घटभावदीपिका

योषित्स्वार्थ्येन भूरिणेत्यस्य भूरिणा महता योषित्स्वार्थ्येन योषितः सत्यभामायाः स्वार्थ्येन स्वार्थरूपेण पारिजातवृक्षेण सहेत्यर्थः । योषितोऽर्थेनैवोक्तेऽर्थस्य योषिदपेक्षितत्वस्य सिद्धावप्यत्यपेक्षितत्वज्ञापनार्थं स्वेत्युक्तम् । एतेन योषितेत्यनेन पूर्णत्वात् स्वार्थ्येन भूरिणेत्येतव्द्यर्थमिति दूषणं परिहृतम् । पारिजातवृक्षेण सहेत्यस्य शेषमङ्गीकृत्य योषित्स्वार्थ्येन महता योषितः स्वार्थरूपेण पारिजातवृक्षेण सहेत्यर्थ इत्युक्तत्वात् ॥ ४६ ॥

सत्यधर्मीया

औत्सुक्यातिशयेन पुरत एव हरिसदः स्थितिमिव स्थापनं सुरतरो-स्तरुण्या अङ्गण उक्त्वा तत्पूर्वरङ्गं सङ्गमयन्नाह ॥ आयान्तमिति । योषित्सार्थेन शतोत्तर-षोडशसहस्रस्त्रीसमूहेन भूरिणैवंरूपेण बहुलेन सुवर्णादिना सह वा । आयान्तमागच्छन्तं तथा । नरकासुरलाभविनाशकमिति आयस्यान्तो विनाशो येन तमित्यर्थः । आयास्यान्तो निवासः कोशस्तं वा । अन्तः स्थानं स्थलं वासः प्रवेश इति चोच्यत इति बृहद्भाष्योक्तेः । श्रुत्वा तं द्रष्टुं सकलयादवस्त्रिय उपाजग्मुः ॥ ४६ ॥

वसुदेवस्तु कौरव्य रोहिण्याद्याः स्त्रियोऽखिलाः ।

आजग्मुः केशवं द्रष्टुं जितशत्रुमनामयम् ॥ ४७ ॥

सत्यधर्मीया

रोहिण्याद्या रोहिणी बाल्हीकपुत्र्येवाद्या यासां ताः । यथोक्तं बृहद्भाष्ये । बाल्हीकस्तु कौरव्यः । बाल्हीकपुत्री रोहिणी । अतो बलभद्रः कौरव्यायणीपुत्र इति । स्त्रियो वसुदेवपत्न्यः ॥ ४७ ॥

स दृष्ट्वा मातरो विष्णुर्देवक्या सह सङ्गताः ।

चक्रे प्रणाममाशीर्भिस्ताश्च तं प्रत्यपूजयन् ॥ ४८ ॥

सत्यधर्मीया

देवक्या साक्षाज्जनन्या सह दृष्ट्वा ताभ्यः प्रणामं चक्रे ता मातरोऽ-प्याशीर्भिः प्रत्यपूजयन् ॥ ४८ ॥

रुग्मिण्याद्यास्तथा सप्त महिष्यः कृष्णवल्लभाः ।

प्रणेमुर्देवमभ्येत्य दिव्यरूपाः स्वलङ्कृताः ॥ ४९ ॥

सत्यधर्मीया

सप्तमहिष्यो नगरगा दिव्यरूपाः स्वभावतः ॥ ४९ ॥

रेवती रामदयिता त्रिवक्रा च यशस्विनी ।

एकाङ्गना च तन्वङ्गी चित्रा च वरवर्णिनी ॥ ५० ॥

पदरत्नावली

एकानङ्गा दुर्गा । सुभद्रा चित्रा तारेति च । ‘अनुत्पन्नरजा श्यामा तद्दृष्टा वरवर्णिनी । अप्रसूता भवेद् गौरी’ इति च ॥ ५० ॥

सत्यधर्मीया

रामदयिता बलाबला त्रिवक्रा । एकाङ्गनेति दुर्गानाम । तन्वङ्गी कोमलाङ्गी वा तन्नाम्नी काचना वा चित्रा सुभद्रा । सुभद्रा चित्रा तारेति विश्वः । अनुत्पन्न-रजाः श्यामा तद्दृष्टा वरवर्णिनीत्यभिधानाद्वरवर्णिनी सद्यो दृष्टरजस्का । काचित्तन्नाम्नीति केऽपि ॥ ५० ॥

अन्याश्च कुरुशार्दूल भोजवृष्ण्यन्धकस्त्रियः ।

आनीतप्रमदासार्थं जितशत्रुमनामयम् ॥ ५१ ॥

पदरत्नावली

आनीतः प्रमदानां सार्थो येन स तथा तम् ॥ ५१–५३ ॥

॥ इति श्रीमद्भागवतटीकायां श्रीविजयध्वजतीर्थकृतायां पदरत्नावल्यां

दशमस्कन्धे उत्तरार्धे सप्तषष्टितमोऽध्यायः ॥

सत्यधर्मीया

आनीतः प्रमदानां सार्थो येन तम् ॥ ५१ ॥

गोविन्दं सत्यभामां चाप्यानीतममरद्रुमम् ।

प्रीत्युत्फुल्लमुखाः सर्वे कौतुकाद् द्रष्टुमाययुः ॥ ५२ ॥

सत्यधर्मीया

गोविन्दं सत्यभामां चानीतममरद्रुममपि । चापिन्या आनीतम् । चापं धृत्वा समरं कृतवतीति विदितवृत्ताः प्रीत्युत्फुल्लमुखाः सर्वाश्च सर्वे च सर्वे कौतुकाद्द्रष्टु-माययुः ॥ ५२ ॥

ताः समेता यथाजोषं लाजप्रसवतण्डुलैः ।

स्पृष्ट्वा मूर्ध्नि मुकुन्दस्य जग्मुः स्वं स्वं निवेशनम् ॥ ५३ ॥

॥ इति श्रीमद्भागवते दशमस्कन्धे सप्तषष्ठितमोऽध्यायः ॥

दुर्घटभावदीपिका

सर्वे मुकुन्दस्य समीपं समेताः प्राप्ताः सन्तस्तं मुकुन्दं लाजा-प्रसवतण्डुलैर्मूधर्ि्न यथाजोषं स्पृष्ट्वा स्वं स्वं निवेशनं ययुरिति । एतेन मुकुन्दस्येत्येतद-नन्वितमिति दूषणं परास्तम् । समीपमित्यस्य शेषेणान्वयस्योक्तत्वात् । ननु मुकुन्दस्य मूधर्ि्न लाजाप्रसवतण्डुलान्स्थापयित्वेति वक्तव्यं मुकुन्दस्य लाजाप्रसवतण्डुलैर्मूधर्ि्न स्पृष्ट्वेति कथनम-युक्तमिति चेन्न । मुकुन्दस्य लाजाप्रसवतण्डुलैर्मूधर्ि्न स्पृष्ट्वेत्यस्य मुकुन्दस्य मूधर्ि्न लाजा-प्रसवतण्डुलान्स्थापयित्वेत्यर्थतात्पर्यात् ॥ ५३ ॥

॥ इति श्रीसत्याभिनवतीर्थविरचितायां दुर्घटभावदीपिके उत्तरार्धे सप्तषष्ठितमोऽध्यायः ॥ १०६७ ॥

सत्यधर्मीया

लाजाश्च भ्रष्टव्रीहयः । लाजाः स्युर्भ्रष्टधान्येषु लाजः स्यादार्द्र तण्डुलः । उशीरे लाजमुद्दिष्टमिति विश्वः । प्रसवाः पुष्पाणि फलानि च । प्रसवस्तु फले पुष्पम् इत्यमरः । तण्डुलैः कृष्णस्य मूधर्ि्न स्पृष्ट्वा विकीर्येति यावत् । स्वं स्वं निवेशनं गृहं जग्मुः ॥ ५३ ॥

॥ इति श्रीसत्यधर्मयतिकृतायां भागवतटिप्पण्यां दशमस्कन्ध उत्तरार्धे

सप्तषष्ठितमोऽध्यायः ॥ १०–६७ ॥