१८ षट्षष्ठिरध्यायः

सुरानभिद्रुतान् दृष्ट्वा सत्यामाह जगत्पतिः

॥ अथ षट्षष्ठिरध्यायः ॥

श्रीशुक उवाच—

सुरानभिद्रुतान् दृष्ट्वा सत्यामाह जगत्पतिः ।

इमे प्राहुणिकाः प्राप्तास्तव वृन्दारका इति ॥ १ ॥

पदरत्नावली

प्राहुणिकाः सम्भावनया भोजयितव्याः । वृन्दारका देवाः ॥१–३॥

सत्यधर्मीया

प्राहुणिका आमन्त्र्य भोजयितव्याः । तव ॥ १ ॥

तथा ब्रुवाणे देवेशे प्रेषिता देवसैनिकाः ।

नदन्तो मुमुचुः कृष्णे शरवृष्टिं कुुरूद्वह ॥ २ ॥

सत्यधर्मीया

प्रेषिता इन्द्रेण ॥ २ ॥

ततः शार्ङ्गं समादाय सत्या व्यसनविक्लवा ।

मुक्तांश्चिच्छेद बाणौघैस्ताञ्छरान् देवसैनिकैः ॥ ३ ॥

सत्यधर्मीया

अव्यसनविक्लवा व्यसनः खेदो विक्लवो विह्वलता ताभ्यां रहिता देवसैनिकैर्मुक्तान् बाणौघैस्ताञ्छरांश्चिच्छेद ॥ ३ ॥

ततो वैश्रवणः श्रीमान् बहुभिर्गुह्यकैर्वृतः ।

विष्फारयंस्तालमात्रं कार्मुकं कनकाटवि ॥ ४ ॥

पदरत्नावली

कनकाविद्धाऽटविः कोटिर्यस्य तत्तथा ॥ ४–५ ॥

सत्यधर्मीया

तालमात्रं तालस्य मात्रं प्रमाणं यस्य तत् कार्मुकम् । कनकाटवि कनकमयाटविः कोटिर्यस्य तत् । अटघटिभ्यां विरित्यविः ॥ ४ ॥

स्वर्णपुङ्खान् शरान् मुञ्चन् सिंहवच्च नदन् मुहुः ।

अभिदुद्राव समरे तिष्ठ तिष्ठेति चाब्रवीत् ॥ ५ ॥

सत्यधर्मीया

रे समसमरे तिष्ठ तिष्ठेति चाब्रवीत् ॥ ५ ॥

तं पञ्चभिः शरैः सत्या निशितैर्मर्मभेदिभिः ।

अर्पयामास वेगेन विशाले जठरे नृप ॥ ६ ॥

पदरत्नावली

विशाले जठरे विस्तृतोन्नतोदरे, ओदनमिवेति शेषः ॥ ६–७ ॥

सत्यधर्मीया

विशाले विस्तृते जठरे उदरे ॥ ६ ॥

सोऽतिविद्धो रणे बाणैस्त्रिभिर् भल्लैर्हरिप्रियाम् ।

अयोधयद् धनपतिः सिंहनादं व्यनीनदत् ॥ ७ ॥

सत्यधर्मीया

स धनपतिः ॥ ७ ॥

दुर्घटभावदीपिका

स धनपतिः रणे बाणैरतिविद्धः सन् त्रिभिर्भल्लैर्हरिप्रियाम् अयोध-यद्योधयामास । अनन्तरं सिंहनादं व्यनीनददिति । एतेन त्रिभिर्भल्लैर्हरिप्रियां विव्याधेति वक्तव्यं हरिप्रियामयोधयदिति कथनमयुक्तमिति चोद्यं निराकृतम् । भल्लैस्ताडने कृते पुनर्हरि-प्रियाया युद्धे प्रवृत्तिर्जातेत्यत्र तात्पर्यात् ॥ ७ ॥

तानप्राप्तानर्धचन्दै्रस्त्रिभिश्चिच्छेद सा शरैः ।

भूयोऽष्टभिः शरैर्देवी वत्सदन्तैर्मनोजवैः ॥ ८ ॥

पदरत्नावली

वत्सदन्तैः शरविशेषैः ॥ ८–९ ॥

सत्यधर्मीया

सा सत्या ॥ ८ ॥

विव्याध गुह्यकपतेर्ललाटे कुरुपुङ्गव ।

पीडितस्तैर्भृशं बाणैः पौलस्त्यः क्रोधमूर्च्छितः ॥ ९ ॥

सत्यधर्मीया

गुह्यकपतेर् गुह्यकेश्वरस्य ॥ ९ ॥

सन्दधे निशितान् बाणानेकविंशतिसंयुगे ।

तानन्तरे सत्यभामा सायकैः सप्तभिर्नृप ॥ १० ॥

पदरत्नावली

अन्तरे मध्ये ॥ १०–१९ ॥

चिच्छेद निमिषार्धेन त्रिधैकैकं हरिप्रिया ।

सत्यभामा ततः क्रुद्धा पौलस्त्यस्य महद्धनुः ॥ ११ ॥

सत्यधर्मीया

एकैकं त्रिधा चिच्छेद ॥ १०,११ ॥

अर्धचन्द्रेण चिच्छेद मुष्टिदेशे द्विधा नृप ।

ततोऽन्यच्चापमादाय सज्जं कृत्वा धनेश्वरः ॥ १२ ॥

सत्यधर्मीया

अर्धचन्द्रेण तदाकृतिमता बाणेन मुष्टिप्रदेशे तद्धार्यप्रदेशे । सति स्वापथेये न दानं वैश्रवणस्येति तन्मुष्टिदेशे ताडनं युक्तमिति भावः । अत एवाभाणकं बद्धमुष्टिरिति । सज्जं ज्यासहितम् ॥ १२ ॥

ववर्ष शरजालानि क्रोधात् सर्प इव श्वसन् ।

सर्वांस्तान् सायकान् सङ्ख्ये शरैः सन्नतपर्वभिः ॥ १३ ॥

सत्यधर्मीया

सङ्ख्येे युद्धे सन्नतानि पर्वाणि येषां ते तैः ॥ १३ ॥

चिच्छेद लीलया देवी तदद्भुतमिवाभवत् ।

ततः क्रुद्धो वैश्रवणः सत्यभामां विलोक्य च ॥ १४ ॥

सत्यधर्मीया

तत्रापि नायताक्ष्या आयास इत्याह ॥ लीलयेति ॥ १४ ॥

प्राह पश्य हनिष्यामि त्वामद्य मम पौरुषम् ।

इत्युक्त्वा तालमात्रे तु चापे गुह्यकसत्तमः ॥ १५ ॥

सत्यधर्मीया

त्वमद्य मम पौरुषं पश्य त्वां हनिष्यामीत्युक्त्वा तालमात्रे तु चापे ॥ १५ ॥

पश्यतां सर्वदेवानां मार्ष्टुकामः पराभवम् ।

सन्दधे सूदितुं देवीमर्धचन्द्रं शरोत्तमम् ॥ १६ ॥

सत्यधर्मीया

पराभवं पराजयं मार्ष्टुकामः परिहर्तुकामः शरोत्तममर्धचन्द्रं सन्दधे

॥ १६ ॥

तदवेत्य मनस्तस्य क्षुरप्रेण हरिप्रिया ।

चिच्छेद कार्मुकं तस्य मुष्टिदेशे कुरूद्वह ॥ १७ ॥

सत्यधर्मीया

तत्स्वहननोद्योगकरणमवेत्य ज्ञात्वा ॥ १७ ॥

ततो मुद्गरमादाय घोरं दानवभीषणम् ।

भ्रामयित्वा शतगुणं देव्यै चिक्षेप वित्तपः ॥ १८ ॥

दुर्घटभावदीपिका

ततस्तदनन्तरं वित्तपः कुबेरः शतगुणमितरमुद्गरापेक्षया शत-गुणाधिकमत एव घोरं भयङ्करं दानवभीषणं न केवलं दानवेतरेषां भीषणं किन्तु दानवा-नामपि भीषणं मुद्गरमादाय भ्रामयित्वा देव्यै चिक्षेपेति । एतेन शतवारं भ्रामयित्वेति वक्तव्यं शतगुणं भ्रामयित्वेति कथनमयुक्तमिति चोद्यं परास्तम् । शतगुणमित्येतद्भ्रमणक्रियाविशेषण-मित्यनङ्गीकृत्य मुद्गरविशेषणमित्यभ्युपगमात् ॥ १८ ॥

सत्यधर्मीया

शतगुणं शतवारं भ्रामयित्वा देव्यै चिक्षेप ॥ १८ ॥

तं मुद्गरं महाघोरमायान्तं कुरुपुङ्गव ।

वामेन पाणिना कृष्णो जग्राहोच्चैर्जहास च ॥ १९ ॥

सत्यधर्मीया

वामेन पाणिना जग्राहानन्तरमुच्चैर्जहास च । वामेनेत्यनेन भार्याभागो वाम इति प्रसिद्ध इत्युक्तेेस्तव भागहस्तेनैव धारणान्न तव पराजय इति ध्वनयामास ॥ १९ ॥

ततो निवृत्तसङ्ग्रामो विदुद्राव धनेश्वरः ।

शशंस देवीं कृष्णश्च समाश्लिष्याभिपूजयन् ॥ २० ॥

पदरत्नावली

निवृत्तसङ्ग्रामः निवृत्तयुद्धः ॥ २०–२३ ॥

सत्यधर्मीया

समाश्लिष्याभिपूजयन्देवीं शशंस ॥ २० ॥

पलायिते धनपतौ सङ्ग्रामे कंसवैरिणा ।

वरुणोऽभ्यद्रवत् कृष्णं पाशमुद्यम्य संयुगे ॥ २१ ॥

सत्यधर्मीया

पाशमुद्यम्य संयुगे कृष्णमभ्यद्रवत् ॥ २१ ॥

तमायान्तमभिप्रेक्ष्य तार्क्ष्यो मकरवाहनम् ।

अभ्यद्रवन्महासत्वः शार्दूल इव गोवृषम् ॥ २२ ॥

सत्यधर्मीया

गोवृषं शार्दूलो व्याघ्रः ॥ २२ ॥

तयोः समभवद् युद्धं घोरं तार्क्ष्यजलेशयोः ।

यथा देवासुरे युद्धे बलिवासवयोरिव ॥ २३ ॥

दुर्घटभावदीपिका

देवासुरयुद्धे देवासुरकृतयुद्धवेलायां यथा बलिवासवयोर्युद्धं समभवत्तथैव तयोः पूर्वप्रकृतयोस्तार्क्ष्यजलेशयोर्गरुडवरुणयोर्घोरं युद्धं समभवदिति । एतेन यथेत्यनेन पूर्णत्वादिवेत्येतव्द्यर्थमिति दूषणं परिहृतम् । तथेत्यध्याहारं कृत्वेवेत्यस्यैवार्थ-कत्वमङ्गीकृत्य तथैवेत्यर्थस्योक्तत्वात् ॥ २३ ॥

सत्यधर्मीया

देवासुरे युद्धे प्रसक्ते बलिवासवयोरिवैतद्युद्धं यथा तथा युद्धं समभवत् । यथा तथा सम्यगिति वा ॥ २३ ॥

तत्र काश्यपपुत्रस्य कण्ठे पाशं जलेश्वरः ।

क्रुद्धश्चकर्ष विन्यस्य सिंहः सिंहमिवौजसा ॥ २४ ॥

पदरत्नावली

काश्यपपुत्रस्य गरुडस्य ॥ २४–२६ ॥

सत्यधर्मीया

काश्यपपुत्रस्य गरुडस्य ॥ २४ ॥

तं पक्षकोट्या गरुडः समुद्धृत्य जलेश्वरम् ।

पद्भ्यां गृहीत्वा मकरं चिक्षेप वरुणालये ॥ २५ ॥

सत्यधर्मीया

गरुडस्तं वरुणं पक्षकोट्या समुद्धृत्य पद्भ्यां मकरं तद्वाहनं गृहीत्वा वरुणालये चिक्षेप ॥ २५ ॥

कृच्छ्राद् गृहीतपाशस्तु वरुणो गतवाहनः ।

पदातिरेव सङ्ग्रामाद् विदुद्राव यथागतम् ॥ २६ ॥

सत्यधर्मीया

कृच्छ्त्कष्टाद्गृहीतो गरुडगलगतः प्रतिगृहीतः पाशो येन सः । यथाऽऽगतस्तथा विदुद्राव ॥ २६ ॥

तथा गते वार्धिपतौ सङ्ग्रामे वायुपावकौ ।

सममेवाभ्यवर्तेतां गोविन्दं कुरुसत्तम ॥ २७ ॥

पदरत्नावली

वार्धिपतौ वरुणे ॥ २७–२९ ॥

सत्यधर्मीया

वार्धिपतौ समुद्रनाथे वायुपावकौ समं युगपदेव मरुत्सखो हुताशन इति मैत्र्यात् ॥ २७ ॥

पावकः पञ्चभिर्बाणैर्मारुतश्च तथा त्रिभिः ।

अयोधयद् हृषीकेशं तदद्भुतमिवाभवत् ॥ २८ ॥

दुर्घटभावदीपिका

चतथाशब्दौ परस्परसमुच्चये । पावकश्च पञ्चभिर्बाणैर्निमित्तैस्तथा मारुतस्त्रिभिर्बाणैर्निमित्तैर्हृषीकेशमायोधयत्सम्यग्योधयामास । तद्बाणैस्ताडनं कृत्वा कृष्णस्य प्रवृत्त्युपपादनमद्भुतमिवाभूतमेवाभवदिति ॥ २८ ॥

॥ इति श्रीसत्याभिनवतीर्थविरचितायां दुर्घटभावदीपिके उत्तरार्धे षट्षष्ठितमोऽध्यायः ॥ १०–६६ ॥

सत्यधर्मीया

मारुतो वायुः ॥ २८ ॥

ततः प्रहस्य गोविन्दो बाणेनैकेन पावकम् ।

विव्याध सप्तभिश्चैव समीरणमरिन्दमः ॥ २९ ॥

एकेनाग्निः क्षुरप्रेण गाढं वक्षसि ताडितः ।

तमसाधारणं मत्वा विदुद्राव रणाद् द्रुतम् ॥ ३० ॥

पदरत्नावली

असाधारणं लोकोत्तरम् ॥ ३०–३३ ॥

सत्यधर्मीया

समीरणं समीरम् । तं कृष्णमसाधारणं स्वाशक्यं मत्वा ॥ ३० ॥

दृष्ट्वा समीरणो युद्धादपयातं हुताशनम् ।

सायकाचितसर्वाङ्गमात्मानं चातिविह्वलः ॥ ३१ ॥

सत्यधर्मीया

आत्मानं स्वं सायकैराचितं सर्वमङ्गं यस्य स तम् ॥ ३१ ॥

विदित्वा पुण्डरीकाक्षं सङ्ग्रामे प्रत्युपस्थितम् ।

न्यवर्तत कुरुश्रेष्ठ प्राणत्राणपरायणः ॥ ३२ ॥

सत्यधर्मीया

पुण्डरीकाक्षं साक्षान्नारायणं विदित्वा ज्ञात्वा ॥ ३२ ॥

ततो महिषमारुह्य दण्डमुद्यम्य भास्वरम् ।

कृष्णमभ्यद्रवद् युद्धे यमः क्रोधारुणेक्षणः ॥ ३३ ॥

सत्यधर्मीया

यमोऽयमोऽसदृश इति वा ॥ ३३ ॥

तमुद्यतमहादण्डं दृष्ट्वा कमललोचनः ।

गदां विसृज्य तद्धस्तात् पातयामास भूतले ॥ ३४ ॥

पदरत्नावली

सायकाचितसर्वाङ्गं शरसञ्चितसर्वावयवम् ॥ ३४ ॥

सत्यधर्मीया

विसृज्य मुक्त्वा तद्धस्ताद् यमकारान् महादण्डं भूतले पातयामास । अनेन वरं स मानयामास सारसासनस्येति ध्वनयति ॥ ३४ ॥

गदया ताडिते दण्डे त्रस्तहस्तः परेतराट् ।

विदुद्राव परावृत्य महिषेण कुरूद्वह ॥ ३५ ॥

पदरत्नावली

परेतराट् यमः ॥ ३५–३७ ॥

सत्यधर्मीया

त्रस्तहस्तः कम्पितकरः परेतराट् प्रेतपतिः ॥ ३५ ॥

वैवस्वतं गतं दृष्ट्वा निर्ऋतिर्भयविह्वलः ।

नाभ्यवर्तत गोविन्दं योद्धुं विदिततद्बलः ॥ ३६ ॥

सत्यधर्मीया

विदिततद्बलो विदितं तस्य कृष्णस्य बलं येन सः । योद्धुमेव नाभ्य-वर्तत नाभिससार ॥ ३६ ॥

शङ्करस्तु महातेजास्त्रिशूली वृषवाहनः ।

अनेकभूतसङ्घातैः कृष्णमभ्यद्रवद् रणे ॥ ३७ ॥

सत्यधर्मीया

त्रिशूली तद्वान् वृषो नन्दी ॥ ३७ ॥

तावुभौ लोकविख्यातौ बलिनौ वीर्यशालिनौ ।

चक्राते कदनं घोरं परस्परजयैषिणौ ॥ ३८ ॥

पदरत्नावली

कदनं युद्धम् ॥ ३८–४० ॥

सत्यधर्मीया

परस्परं जयैषिणौ तदिच्छू कदनं युद्धम् ॥ ३८ ॥

ईशानो दशभिर्बाणैः कृष्णं तार्क्ष्यं च पञ्चभिः ।

विव्याध समरे राजन् तिष्ठतिष्ठेति चाब्रवीत् ॥ ३९ ॥

सत्यधर्मीया

ईशानः शिवो दशभिर्बाणैः कृष्णं तार्क्ष्यं च गरुडं च पञ्चभिः शरैर्विव्याध । समरे युद्धे रे सम लक्ष्मीरमण । तिष्ठ तिष्ठ कृष्णेति चावदत् । अनुवादेन साकं पिनाकोऽपि तेनानीत इति वादे ऊह्यमिति सूच्यते । त्रिषु स्थानेषु नतं च तच्छूल-मायुधं धनुस्तदस्यास्तीति वाऽऽवृत्त्या पिनाकग्रहः । शूलं प्रहरण इति विश्वः । त्रयाणां लोकानां शूलं मृत्युर्येन सोऽस्यास्तीति वा । मृत्यो इति तत्रैवोक्तेः ॥ ३९ ॥

ततः शार्ङ्गं समादाय कृष्णः परपुरञ्जयः ।

त्रिंशद्भिर्युगपद् बाणैर्विव्याध वृषवाहनम् ॥ ४० ॥

सत्यधर्मीया

त्रिंशद्भिरेकस्य त्रिकं त्रिकमिति त्रिंशत्सङ्ख्यैः ॥ ४० ॥

गरुडः पन्नगरिपुः पद्भ्यां द्वाभ्यां च संयुगे ।

पक्षाभ्यां चञ्चुकोट््या च मर्दयामास तं वृषम् ॥ ४१ ॥

पदरत्नावली

चञ्चुकोट्या तुण्डकोट्या ॥ ४१–४२ ॥

सत्यधर्मीया

पन्नगरिपुरिति तदलङ्कृतिकृदिति ध्वन्यते । द्वाभ्यां पद्भ्यां पक्षाभ्यां च चञ्चुकोट्या तत्प्रान्तेन तं वृषं मर्दयामास ॥ ४१ ॥

भूयोऽपि कृष्णो नाराचैः पञ्चाशत्प्रमितैर्नृप ।

योधयामास समरे शङ्करं लोकशङ्करम् ॥ ४२ ॥

सत्यधर्मीया

पञ्चाशदिति प्रमितैर्गणितैः ॥ ४२ ॥

ततस् त्रिशूलमाविध्य निशितं घोरदर्शनम् ।

प्राहिणोद् वासुदेवाय कुपितो धूर्जटिर्नृप ॥ ४३ ॥

पदरत्नावली

धूर्जटिः शङ्करः ॥ ४३–४६ ॥

सत्यधर्मीया

निशितं सशाणीकृतम् ॥ ४३ ॥

दृष्ट्वा त्रिशूलमायान्तं केशवस्तं निवारितुम् ।

गदां कौमोदकीं गुर्वीं प्राहिणोद् दैत्यमर्दनीम् ॥ ४४ ॥

सत्यधर्मीया

आयान्तं त्रिशूलम् ॥ ४४ ॥

ते वै कौमोदकीशूले कृत्वा नभसि सङ्गरम् ।

ज्वलमाने महाघोरे पेततुः सममम्बुधौ ॥ ४५ ॥

सत्यधर्मीया

कौमोदकीशूले । अभ्यर्हितत्वादादौ कौमोदक्युक्तिः । अम्बुधौ समुद्रे ॥ ४५ ॥

निपात्याब्धौ त्रिशूलं तद्गदाकौमोदकी पुनः ।

आससाद करं विष्णोस्त्रिशूलमपि शूलिनः ॥ ४६ ॥

सत्यधर्मीया

तत्त्रिशूलं निपात्याब्धौ सा कौमोदकी विष्णोः करं तथा शङ्करकरं शूलं चाससाद ॥ ४६ ॥

तत उद्यम्य निशितं खड्गं पन्नगभूषणः ।

कृष्णमभ्यद्रवत् सङ्खे पार्ष्णिभ्यां चोदयन् वृषम् ॥ ४७ ॥

पदरत्नावली

पन्नगभूषणः सर्पालङ्कारः शिवः । पार्ष्णिभ्यामास्फालनेन चोदयन् प्रेरयन् ॥ ४७ ॥

सत्यधर्मीया

निशितं खड्गम् । इदमुप्युक्तगतिकम् । पार्ष्णिभ्यां पादपृष्ठभागाभ्यां वृषं चोदयन् । अनेन गरुडबाधितस्य गमनासामर्थ्यं द्योतयति ॥ ४७ ॥

तूर्णं गृहीत्वा पाणिभ्यां विषाणे तस्य नन्दिनः ।

सशूलपाणिं चिक्षेप वैनतेयो धनुश्शतम् ॥ ४८ ॥

पदरत्नावली

शूलपाणिना सहितं नन्दिनम् ॥ ४८ ॥

सत्यधर्मीया

तस्य नन्दिनो विषाणे । सप्तमी वा द्वितीयाद्विवचनं वा । बाहुभ्यां पद्भ्यां गृहीत्वा सशूलपाणिं सहहरं वैनतेयो धनुः शतं तत्परिमितं देशं प्रति चिक्षेप ॥४८॥

ततो विसृज्य सङ्ग्रामं त्रिशूली वृषवाहनः ।

प्रमथैः सहितः प्रायात् कुरुश्रेष्ठ यथागतम् ॥४९॥

॥ इति श्रीमद्भागवते दशमस्कन्धे षट्षष्टितमोऽध्यायः ॥

पदरत्नावली

त्रिशूलित्वं गणस्यापि सम्भवतीति वृषवाहन इति ॥ ४९ ॥

॥ इति श्रीमद्भागवतटीकायां श्रीविजयध्वजतीर्थकृतायां पदरत्नावल्यां

दशमस्कन्धे उत्तरार्धे षट्षष्टितमोऽध्यायः ॥

सत्यधर्मीया

ततः स्वपातानन्तरं वृषवाहनस्त्रिशूली शूलस्य मोघतां वृषस्य गमनासामर्थ्यतां ध्वनयितुमेवमुक्तिः । प्रमथैर्भूतगणैः पारिषदैः सहितो यथाऽऽगतं तथा प्रायात् । प्रेण स्वोपास्यं रामं किं राम समरः कर्तव्य इत्यप्राक्षीत् त्र्यक्ष इव तेन चाजित्यजनं क्षेम इत्युक्तमित्याभाणकमभिप्रैतीति मन्तव्यम् ॥ ४९ ॥

**॥ इति श्रीसत्यधर्मयतिकृतायां भागवतटिप्पण्यां दशमस्कन्ध उत्तरार्धे **

षट्षष्टितमोऽध्यायः ॥ १०–६६ ॥