१७ पञ्चषष्ठिरध्यायः

हत्वा नरकमत्युग्रं दानवं दानवान्तकः

॥ अथ पञ्चषष्ठिरध्यायः ॥

श्रीशुक उवाच —

हत्वा नरकमत्युग्रं दानवं दानवान्तकः ।

आरुह्य गरुडं प्रायात् प्राग्ज्योतिषपुरान्नृप ॥ १ ॥

सत्यधर्मीया

दानवान्तकोऽत्युग्रं नरकं हत्वैवं कृत्वाऽऽगत इत्याह ॥ नरकमिति ॥ नरकमत्युग्रं हत्वा प्रापयित्वा तमआदिकम् । हन हिंसागत्योरिति स्मरणात् । अन्तर्णीतण्यर्थश्च

॥ १ ॥

स गच्छन् गगने विष्णुर्वन्दितुं देवमातरम् ।

जगाम त्रिदशावासं सहितः सत्यभामया ॥ २ ॥

सत्यधर्मीया

देवमातरमदितिं सहितो युक्तो भाविकुण्डलमण्डलनहितसमेत इति च ॥

स्वर्गद्वारं गतो विष्णुर्दध्मौ शङ्खं महास्वनम् ।

उपाजग्मुस्तदाकर्ण्य सार्घ्यपाद्या दिवौकसः ॥ ३ ॥

सत्यधर्मीया

सार्घ्यपाद्याः पादाघ्य•भ्यां चेति यत् । दिवौकसो दिवोकस इति द्वावपि शब्दावद्वन्द्वार्थावुपपादितं च प्राक् ॥ ३ ॥

पूजितस्तैः सुरैः कृष्णो भक्तिनम्रैर्गतज्वरैः ।

सुरेन्द्रभवनं दिव्यं प्रविवेश मनोरमम् ॥ ४ ॥

सत्यधर्मीया

हत्वा नरकमत्युग्रं दानवं दानवान्तकः । आरुह्य गरुडं प्रायात् प्राग्ज्योतिषपुरागतः । ज्वरो नरकासुररूप उपतापो येषां तैस्तत्कृत इति वा । दिव्यं तल्लोकम् ॥ ४ ॥

तत्र शक्रः समं शच्या पूजयामास केशवम् ।

रत्नैराभरणैर्दिव्यैर्गन्धमाल्यैश्च शोभनैः ॥ ५ ॥

सत्यधर्मीया

दिव्यैरिति सर्वान्वयि ॥ ५ ॥

ततः प्रायात् पुरीं मातुरदित्याः सह भार्यया ।

दृष्ट्वोपतस्थे तं देवी पुत्रमायान्तमच्युतम् ॥ ६ ॥

पदरत्नावली

उपतस्थे समीपे तस्थौ ॥ ६ ॥

सत्यधर्मीया

पुरीममरावतीगतभवनविशेषाम् । तं पुत्रमायान्तं दृष्ट्वा । उपतस्थे गतम् ॥ ६ ॥

**ववन्दे तां हरिस्तं सा पूजयामास भामिनी । **

आशीर्भिः परमप्रीता चिरदृष्टं यदूत्तमम् ॥ ७ ॥

पदरत्नावली

भाम तेजो ऽस्या अस्तीति भामिनी । चिरकालदृष्टम् ॥ ७ ॥

दुर्घटभावदीपिका

चिरं दृष्टमित्यस्य चिरं बहुकालस्यानन्तरं दृष्टमित्यर्थः । एतेन बहुकालस्यानन्तरं दृष्टमिति वक्तव्यं चिरं दृष्टमिति कथनमयुक्तमिति दूषणं परिहृतम् । अन्यसर्वविभक्तिषु सादृश्याच्चिरमित्यस्य षष्ठ्यन्तत्वमनन्तरमित्यस्य शेषं चाभ्युपेत्य चिरं दृष्टमित्यस्य बहुकालस्यानन्तरं दृष्टमित्यर्थ इत्युक्तत्वात् ॥ ७ ॥

सत्यधर्मीया

तां मातरमाशीर्भिः पूजयामास ॥ ७ ॥

सत्यभामाऽपि कौरव्य श्वश्व्राः कृष्णेन चोदिता ।

पादयोः कुण्डले तस्या निधाय प्रणनाम वै ॥ ८ ॥

पदरत्नावली

श्वश्व्रा भर्तुर्मातुः ॥ ८–९ ॥

सत्यधर्मीया

श्वश्व्राः पत्युर्मातुः कुण्डले नरकं हत्वा नीते ॥ ८ ॥

स्नुषामाश्लिष्य सन्तुष्टा सा पुनर्लब्धकुण्डला ।

आनन्दबाष्पप्रचुरा प्राहेदं कश्यपप्रिया ॥ ९ ॥

सत्यधर्मीया

कश्यपप्रिया तद्भार्या ॥ ९ ॥

न ते जरा न वैरूप्यं कान्तेन सह विप्रियम् ।

भूयात् कल्याणि सुव्यक्तं मत्प्रसादात् कदाचन ॥ १० ॥

पदरत्नावली

सत्यभामामाशिषा योजयति– न ते जरेति ॥ वैरूप्यं सौन्दर्याभावः । विप्रियं कलहः ॥ १०–११ ॥

दुर्घटभावदीपिका

हे कल्याणि । मत्प्रसादात्कदाचन ते जरा न भूयाद्वैरूप्यं न भूयात् । कान्तेन सह विप्रियं कलहो न भूयात् । मत्प्रसादात्ते सर्वदा सुव्यक्तं सर्वसौभाग्यं च भूयादिति । एतेन सुव्यक्तं जरादिकं न भूयादित्युक्ते किञ्चिव्द्यक्तं जरादिकं भूयादिति प्रतीयते । अतः सुव्यक्तमित्येतदनुपपन्नमिति चोद्यं पराकृतम् । सुव्यक्तमित्यस्य जरेत्यादि-नाऽन्वयमनङ्गीकृत्याध्याहृतेन सर्वसौभाग्यमित्यनेनान्वय इत्यूरीकरणात् ॥ १० ॥

॥ इति श्रीसत्याभिनवतीर्थविरचितायां दुर्घटभावदीपिके उत्तरार्धे पञ्चषष्ठितमोऽध्यायः ॥ १०–६५ ॥

सत्यधर्मीया

विप्रियम् । अव्ययं विभक्तीत्यर्थाभाव्येऽव्ययं विरोध इति यावत् । सुव्यक्तं यथा भवति तथा । मत्प्रसादं प्राप्य स्थितायास्त इत्यन्वयः ॥ १० ॥

ततोऽनुज्ञाप्य तां देवीं त्रिदशानपि केशवः ।

आरुह्य प्रययौ तार्क्ष्यं सहितः सत्यभामया ॥ ११ ॥

सत्यधर्मीया

देवीमदितिम् ॥ ११ ॥

महात्मना गगने देवदेव्यौ गरुत्मता नीयमाने विचित्रम् ।

अपश्यतां नन्दनं चारगुप्तं शचीभर्तुर्दयितं हृद्यगन्धम् ॥ १२ ॥

पदरत्नावली

हृद्यगन्धम् । हृदयप्रियगन्धम् ॥ १२ ॥

सत्यधर्मीया

देवदेव्यौ । नैकशेषः परवल्लिङ्गता च । नीयमाने ऊह्यमाने सत्यामनोऽनुसारिणी हरिप्रवृत्तिरिति द्योतयितुमेवं निर्दिदेशेति ज्ञेयम् । चारा इन्द्रभटाः । चार्विति पाठे वनविशेषणम् । गुप्तं दूतैरिति शेषः ॥ १२ ॥

वनं दृष्ट्वा दिव्यगन्धं सुपुष्पं कृष्णं सत्या प्राह पाणौ गृहीत्वा ।

प्रविश्यास्मिन् साधुचित्तं विहर्तंु मुहूर्तं मे कामयते केशवेति ॥ १३ ॥

पदरत्नावली

काम्यते, वनसम्पदिति शेषः । काम्यतो इति वा ॥ १३–१४ ॥

सत्यधर्मीया

पाणौ गृहीत्वा गतम् । मुहूर्तं मे चित्तं विहर्तुं कामयते । कामय इति पाठे चित्रमिति । मुहूर्तमित्यत्यन्तसंयोगे द्वितीया ॥ १३ ॥

अथावरुह्य गरुडात् तस्या वचनगौरवात् ।

प्रविवेश वनं कृष्णः पालितं शक्रकिङ्करैः ॥ १४ ॥

सत्यधर्मीया

तस्याः सत्यभामाया वचनगौरवात्तद्गुरुत्वात् । आन्तरङ्गिको भावस्तु तस्या यद्वचनं दातास्म्यहं पारिजातं तरुं त इति स्ववचनं तद्गौरवादिति ॥ १४ ॥

तत्रापश्यत् तरून् दिव्यान् मत्तसारङ्गनादितान् ।

फलभारनतान् भूरिप्रसूनरजसाऽऽवृतान् ॥ १५ ॥

पदरत्नावली

सारङ्गनादितान् भृङ्गनादितान् ॥ १५–१६ ॥

सत्यधर्मीया

सारङ्गा भ्रमराः । रजसा परागेण ॥ १५ ॥

चलत्किसलयोपेतान् विहङ्गध्वनिशोभितान् ।

विचरन्ती तथा तत्र पारिजातं महाद्रुमम् ॥ १६ ॥

सत्यधर्मीया

चलद्भिः किसलयैरुपेतान् । तत्र नन्दने तथा यथा मनस्तथा ॥ १६ ॥

दृष्ट्वा पप्रच्छ गोविन्दं विस्मयाकुललोचना ।

किन्नामाऽयं तरुर्देव विचित्रो भुवनत्रये ॥ १७ ॥

पदरत्नावली

विविधं चित्रं मुख्यं मिश्रफलं यस्मिन् स विचित्रः । ‘चित्रमालेख्य-मिश्रयोः’ इति । ‘मिश्रमाविलमुख्ययोः’ इति च ॥ १७ ॥

सत्यधर्मीया

विस्मयेनाकुले लोचने यस्याः सा । नाम्ना को विचित्रो विशिष्ट-श्चित्रादिति विचित्रः । चित्रं स्यादद्भुतालेख्यतिलकेषु विहायसीति विश्वः । द्युलोके श्रेष्ठ इत्यर्थः ॥ १७ ॥

सत्यमेतस्य वृक्षस्य कृतार्थाः फलभागिनः ।

प्रवालमूलो विपुलो जातरूपमहातनुः ॥ १८ ॥

पदरत्नावली

एतस्य वृक्षस्य फलभागिनः कृतार्था इति सत्यमित्यन्वयः । वैचित्र्यं कथयति प्रवालेति । प्रवालो रत्नविशेष एव मूलं शिफा यस्य स तथा । विपुलो विस्तृतः । जातरूपं सुवर्णमेव महातनुर्यस्य स तथा ॥ १८ ॥

सत्यधर्मीया

एतस्य वृक्षस्य । फलभागिनः कृतार्था इति नोपचरितमितीरयति ॥ सत्यमिति ॥ प्रवाला विद्रुमास्तदात्मकं मूलं वा मूलो यस्य सः । विपुलो विशालो जातरूपमयी महती तनुर्यस्य सः ॥ १८ ॥

इन्द्रनीलच्छदच्छन्नो लसद्वैडूर्यवेदिकः ।

माणिक्यपुष्पो विविधमुक्ताफलफलान्वितः ॥ १९ ॥

पदरत्नावली

इन्द्रनीलमेव च्छदः पत्रम् इन्द्रनीलच्छदः, तेन छन्नः संवृतः । लसद् वैदूर्यरत्नमेव वेदिः परिष्कृता भूमिर्यस्य स लसद्वैदूर्यवेदिकः । माणिक्यरत्नान्येव पुष्पाणि यस्य स माणिक्यपुष्पः । विविधानि तारतम्योपेतानि मुक्ताफलान्येव फलानि विविधमुक्ता-फलफलानि तैरन्वितः ॥ १९ ॥

सत्यधर्मीया

इन्द्रनीलमहच्छदाः पत्राणि तैश्छन्नः । च्छदः पालाश इति विश्वः । लसन्ती वैडूर्यमयी वेदिका यस्य । माणिक्यान्येव पुष्पाणि यस्य सः । मुक्ताफलानि मुक्ता एव फलानि तैरन्वितः ॥ १९ ॥

गोमेदपक्वप्रकरो वज्रकिञ्जल्करञ्जितः ।

स्फुरन्मरकतस्थूलशाखाशतविराजितः ॥ २० ॥

पदरत्नावली

गोमेदरत्नान्येव पक्वानि तेषां प्रकरा यस्य सस् तथा । वज्ररत्नान्येव किञ्जल्कानि वज्रकिञ्जल्कानि तै रञ्जितोऽरुणीकृतः । स्थूलाः शाखाः । स्फुरन्ति मरकत-रत्नान्येव स्थूलशाखाः स्फुरन्मरकतस्थूलशाखाः, तासां शतेन विराजितः ॥ २०–२१ ॥

सत्यधर्मीया

गोमेदात्मा पक्वः । पचो व इति वः । स्वयं पातात्पक्वता । प्रकरो विकीर्णः कुसुमादिर्यस्य सः । प्रकरश्चोपकारे स्याद्विकीर्णकुसुमादिष्विति विश्वः । वज्रा एव किञ्जल्कास्तैरञ्जितः । स्फुरन्मरकतात्मिकाः स्थूलाः शाखास्तासां शतेन विराजितः ॥२०॥

तरुरेष जगन्नाथ मनो मे हरते भृशम् ।

नेतव्योऽयं पुरीं वृक्षो यद्यहं ते प्रिया प्रभो ॥ २१ ॥

सत्यधर्मीया

हे जगन्नाथ । एष तरुर्मे मनो भृशं हरते । आदरातिशयात्पुनर्वृक्ष इत्युक्तिः । यदि तेऽहं प्रिया तर्हि नेतव्यः । पुरीं द्वारावतीम् ॥ २१ ॥

छायायामुपविष्टां मामन्यपत्न्नयस्तवानघ ।

दृष्ट्वा मंस्यन्ति दयितां सर्वाभ्यो मां तवाच्युत ॥ २२ ॥

पदरत्नावली

मंस्यन्ति निरूपयन्ति ॥ २२–२४ ॥

सत्यधर्मीया

अन्याश्च ताः पत्न्यश्च ताः । हे अच्युत । सर्वाभ्यो मां दयितां मंस्यन्तीति जानते ॥ २२ ॥

इत्युक्तो देवकीपुत्रः सत्यया प्रियकान्तया ।

प्राह नायं तरुर्भद्रे नेतव्यो नन्दनाद् वनात् ॥ २३ ॥

सत्यधर्मीया

प्रिया च सा कान्ता च तया । नन्दनाद्वनात् । हे भद्रे । न नेतव्यः ॥ २३ ॥

पुरा क्षीराम्बुधेर्जातो मथ्यमानात् सुरासुरैः ।

शक्राय दत्तः सकलैस्तदा तत्फलभोक्तृभिः ॥ २४ ॥

सत्यधर्मीया

तज्जन्मोक्त्वा तन्मनः प्रसादयितुं यतते ॥ पुरेति ॥ सुरासुरै-र्मथ्यमानात् क्षीराम्बुधेर्जातस्तदा तत्फलं समुद्रजातं भोक्तृभिर्देवैः स्वं स्वं गृहीत्वाऽयमिन्द्राय दत्त इति भावः ॥ २४ ॥

तन्नाहार्यमनादृत्य मया मित्रं शतक्रतुम् ।

तरुरत्नं सरोजाक्षि धर्ममेवानुतिष्ठता ॥ २५ ॥

पदरत्नावली

तस्मात् समुद्राज्जातानां फलानां भोक्तृभिः ॥ २५ ॥

सत्यधर्मीया

मित्रं शक्रमनादृत्य मया नाहार्यम् । तदनाहरणे हेतुमाह ॥ धर्म-मेवानुतिष्ठितेति ॥ २५ ॥

नीयमाने च वृक्षेऽस्मिन् पारिजाते शुचिस्मिते ।

सङ्ग्रामो जायते घोरस्त्रिदशैर्जयकाङ्क्षिभिः ॥ २६ ॥

पदरत्नावली

जयकाङ्क्षिभिर् जयेच्छुभिः । जितयुद्धैर्वा ॥ २६ ॥

सत्यधर्मीया

हे शुचिस्मिते । पारिजाते वृक्षे नीयमाने जयकाङ्क्षिभिर्जयापेक्षावद्भि-स्त्रिदशैः सङ्ग्रामो जायते ॥ २६ ॥

इत्युक्तो देवदेवेन सत्यभामा पुनर्हरिम् ।

प्राह भीषयसे किं मां व्यलीकैः कंसमर्दन ॥ २७ ॥

पदरत्नावली

व्यलीकैः कपटवचनैः ॥ २७ ॥

सत्यधर्मीया

देवदेवेन इत्युक्ता सत्यभामा । हे कंसमर्दन व्यलीकैरनृतैः किं मां भीषयस इति प्राह । अलीकं त्वप्रियेऽनृत इति विश्वः । कंसमर्दनेत्यनेन समर्थतां वचोऽ-लीकतामूलं ध्वनयति ॥ २७ ॥

नाभ्यनन्दद् दुराचारा शची मां गृहमागताम् ।

हेतुर्हि वृक्षस्तस्यायं भर्तृपौरुषगर्विता ॥ २८ ॥

पदरत्नावली

तरून्नयने निमित्तमाह– नेति ॥ २८ ॥

सत्यधर्मीया

नलिननयन नयने तरोः कारणं किमित्यतः कथयति ॥ नेति ॥ दुराचारा शची मां गृहमागतां नाभ्यनन्दन्न चाभिनन्दितवती न च सच्चकारेति इति यावत् । तत्र निमित्तं किमित्यत इदमित्याह ॥ तस्येति ॥ तस्य मदनभिनन्दनस्य । अयं वृक्षो लोकविलक्षणो हेतुर्भर्तृपौरुषगर्वितेति । कृष्णेर्ष्याजननाय मुख्यः स हेतुरिति भावः ॥२८॥

नेतव्यः सर्वथा वृक्षः पारिजातोऽयमच्युत ।

प्रियाऽहं तव चेन्नाथ नोचेद् विरम साम्प्रतम् ॥ २९ ॥

पदरत्नावली

विरम प्रियभाषणादिति शेषः ॥ २९–३५ ॥

सत्यधर्मीया

अच्युत नाथ । अहं तव प्रिया चेत्सर्वथा सङ्ग्रामो वा किं वा भवतु भवताऽयं तरुः पारिजातो नेतव्यः । न प्रिया चेत्साम्प्रतं विरम तूष्णीमास्व । न व्यथाकर्त्र्या भाव्यमिति भावः । न चामरसमसमरे जयो नाप्यपजयो न वा मरणं तथा मरणं न निश्चितमिति । न राज्यादिचुत्यभावेनान्यथासिद्धमच्युतपदमिति च न वद तव न मृत्यु-रित्यप्याह ॥ यमच्युतेति ॥ यमाच्च्युतो यमवधातीतो विमृत्युरिति यावत् ॥ २९ ॥

इत्युक्तः सत्यया कृष्णस्ताननादृत्य रक्षकान् ।

उत्पाट्यारोपयामास पारिजातं गरुत्मति ॥ ३० ॥

सत्यधर्मीया

उत्पाट्य उत्कृत्य गरुत्मति गरुडे आरोपयामास गतम् ॥ ३० ॥

ततो निवारयामासुर्गोविन्दं वनपालकाः ।

केचिद् द्रुततरं जग्मुर्देवेन्द्राय निवेदितुम् ॥ ३१ ॥

सत्यधर्मीया

वनपालाः केचिद्द्रुततरं यथातथा केचिज्जग्मुः ॥ ३१ ॥

कृष्णकृष्ण न हर्त्तव्यस्तरुरेषोऽमरार्चितः ।

हरसे यदि तस्य त्वं फलं सद्योऽनुभोक्ष्यसि ॥ ३२ ॥

सत्यधर्मीया

हरसे चेत्सद्यस्तत्फलं हरणफलमनुभोक्ष्यसि ॥३२॥

प्राप्नोषि न पुरीं कृष्ण सहानेन महीरुहा ।

सद्यः पश्यसि देवेन्द्रं पृष्ठतोऽभ्युद्यतायुधम् ॥ ३३ ॥

सत्यधर्मीया

तदेव विविच्याहुः । अनेन महीरुहा सह पुरीं द्वारकां न प्राप्नोषि । किञ्च पृष्ठतोऽभ्युद्यतमायुधं वज्रं येन तं पश्यसीति ॥ ३३ ॥

सुरेन्द्रान्तिकमासाद्य द्रुतं ते वनरक्षकाः ।

उपविष्टं समं शच्या शक्रं दृष्ट्वाऽब्रुवन् नृप ॥ ३४ ॥

वनरक्षका ऊचुः—

अवज्ञायाखिलान् देवानिन्द्राणीं च त्वया सह ।

जहार कृष्णदयिता पारिजातं महाद्रुमम् ॥ ३५ ॥

सत्यधर्मीया

शच्या समं साकमेकासन उपविष्टं त्वया सहेन्द्राणीं चावज्ञाय धिक्कृत्य । कृष्णादयितेति वचनं तद्बोधितो जहार हरिरिति भावेनेति ज्ञेयम् ॥ ३४,३५ ॥

उक्ताऽस्माभिर्भृशं देव वारयद्भिर्हरिप्रिया ।

उपालभ्याहरद् वृक्षं भर्तृपौरुषगर्विता ॥ ३६ ॥

सत्यधर्मीया

भर्तृपौरुषगर्विता हरिप्रियाऽस्माभिर्निवारयद्भिरुक्ताऽपि भृशमुपालभ्य भर्त्सयित्वा वृक्षमहरत् ॥ ३६ ॥

श्रीशुक उवाच—

इत्याकर्ण्याप्रियं शक्रो दण्डाहत इवोरगः ।

शचीं विलोक्य पार्श्वस्थां नामृष्यत् तत्पराभवम् ॥ ३७ ॥

सत्यधर्मीया

पार्श्वस्थां शचीं विलोक्य तत्पराभवं नामृष्यन्न सेहे । तरुणीपुरतोऽ-प्रतिष्ठा न सोढुं शक्येति शचीं पार्श्वस्थामित्यनेन ध्वनयति ॥ ३७ ॥

सन्नाहोद्योगमाघोष्य सन्निपात्य च सैनिकान् ।

लोकपालान् समाहूय निश्चक्राम सुरेश्वरः ॥ ३८ ॥

पदरत्नावली

सन्नाहो युद्धोद्योगार्थं विद्यमानं गोमुखम् । सन्निपात्य सम्मेलयित्वा सैनिकान् सेनानायकान् ॥ ३८–३९ ॥

सत्यधर्मीया

सन्निपात्य मेलयित्वा सैनिकान्सेनासमवेतांस्तथा लोकपालांश्च समाहूय तैः सह निर्जगाम ॥ ३८ ॥

ऐरावतं चतुर्दन्तमारुह्य वरवारणम् ।

गृहीतवज्रं गच्छन्तमनुजग्मुर्दिवौकसः ॥ ३९ ॥

सत्यधर्मीया

ऐरावतं वरवारणं यद्वा वारं तदणयति गमयतीति वरवारणं मदोदक-स्रावणमिति यावत् । वराः प्रतिभटास्तेषां वारणं निवारणं येनेति वा वरान् वारयतीति वा । आरुह्य गृहीतवज्रं गच्छन्तमिन्द्रं दिवौकसोऽनुजग्मुः ॥ ३९ ॥

वैश्वानरस्तु तुरगमारुह्य दृढदंशितः ।

घोरां शतघ्नीमादाय स्रुवपुच्छां ययौ रणम् ॥ ४० ॥

पदरत्नावली

स्रुवं पुच्छे यस्याः सा ताम् ॥ ४० ॥

सत्यधर्मीया

वैश्वानरोऽग्निः । तुरङ्गं तुरजो वाहमात्रेऽपि इत्युक्तेर्वाहनमुरणम् । मेषारूडं वरप्रदमित्युक्तेरारुह्य वैश्वानरोऽग्निः । वैश्वानरस्तूरणमिति च सरलः पाठः । विश्वे नरा अस्येति वैश्वानरः । नरे सञ्ज्ञायामिति विश्वशब्दस्य दीर्घः । स्रुवं पुच्छे यस्याः सा तां शतघ्नीमादाय रणं प्रति ययौ ॥ ४० ॥

यमस्त्वारुह्य महिषं दण्डमादाय वीर्यवान् ।

मृत्युकालादिभिर्युक्तो युद्धार्थी शक्रमन्वगात् ॥ ४१ ॥

पदरत्नावली

मृत्युकालादिभिः प्रभृतिभिः ॥ ४१–४३ ॥

सत्यधर्मीया

मृत्युकालावमात्यौ तदादिभिर्युक्तः ॥ ४१ ॥

निर्ऋतिश्च महातेजा घोरमारुह्य पौरुषम् ।

असिहस्तो महाबाहुर्युद्धाय प्रययौ नृप ॥ ४२ ॥

सत्यधर्मीया

पौरुषं स्वार्थेऽण् । पुरुषम् । असिहस्तः खड्गपाणिः ॥ ४२ ॥

मकरं भीषणाकारमारुह्य वरुणस्त्वरन् ।

पाशोद्यतकरः प्रायाद् युद्धायानुशचीपतिम् ॥ ४३ ॥

सत्यधर्मीया

भीषणाकारं मकरमारुह्य वरुणस्त्वरन् पाशोद्यतकरः शचीपतिमनु युद्धाय प्रायात् ॥ ४३ ॥

वायुः कृष्णमृगारूढो दंशितस्तोमरायुधः ।

सुरेश्वरमनुप्रायाद् योद्धुं चक्रभृता सह ॥ ४४ ॥

पदरत्नावली

चक्रभृता कृष्णेन ॥ ४४ ॥

सत्यधर्मीया

कृष्णमृगः सारङ्गः । तोमरमायुधं यस्य सः । चक्रभृता कृष्णेन ॥४४॥

ऊढां चतुर्भिः पुरुषैः शिबिकां नरवाहनः ।

योद्धुकामस्त्वरन् प्रायाद् विष्णुना मुद्गरायुधः ॥ ४५ ॥

पदरत्नावली

नरवाहनो वैश्रवणः ॥ ४५–४६ ॥

सत्यधर्मीया

नरवाहनः कुबेरः । चतुर्भिः पुरुषैरूढां शिबिकामारुह्येत्यन्वयः ॥ ४५ ॥

ईशानो वृषभं तुङ्गमारुह्य शितशूलभृत् ।

वासवेन समं प्रायाद् भूतकोटिसमन्वितः ॥ ४६ ॥

सत्यधर्मीया

ईशानः शिवो भूतानां कोटयस्ताभिः समन्वितः ॥ ४६ ॥

भेरीशङ्खमृदङ्गैश्च पणवानकगोमुखैः ।

सुवर्णसुषिरैर्दिव्यैः कांस्यतालैश्च भूरिभिः ॥ ४७ ॥

पदरत्नावली

सुवर्णसुषिरैः काहलैः ॥ ४७ ॥

रथनेमिनिनादैश्च हयानां खुरनिःस्वनैः ।

क्ष्वेलितास्फोटितैर्घ•रैः सङ्ग्रामाह्वानगर्जनैः ॥ ४८ ॥

पदरत्नावली

क्ष्वेलितैः सिंहनादैर् आस्फोटितैर् भुजास्फालैः ॥ ४८–५१ ॥

॥ इति श्रीमद्भागवतटीकायां श्रीविजयध्वजतीर्थकृतायां पदरत्नावल्यां

दशमस्कन्धे उत्तरार्धे पञ्चषष्टितमोऽध्यायः ॥

सत्यधर्मीया

सुवर्णसुषिरैः सुवर्णात्मकसरन्धै्रः काहिलीभिरित्यर्थः । सुषिरं विवरे वाद्ये सरन्ध्रे सुषिरोऽनिल इति विश्वः । भूरिभिर्बहुलैः ॥ खुराणां निःस्वनास्तैः । क्ष्वेलितैः सिंहनादैरास्फोटितैरुर्वाद्यास्फालनैः सङ्ग्रामार्थमाव्हानं तद्रूपैर्गर्जनैः ॥ ४७, ४८ ॥

तिष्ठतिष्ठेति मा याहि क्व यासीति पुनः पुनः ।

प्रवदद्भिः सुरगणैः शतशोऽथ सहस्रशः ॥ ४९ ॥

सत्यधर्मीया

तव मायेति प्रवदद्भिरिति वा । मा याहि न गच्छ । हि यस्मात्त्वया माया आश्रिता अतः ॥ ४९ ॥

**कम्पयद्भिश्च शस्त्रोघैः प्रेषयद्भिश्च वाहनम् । **

पुरोऽहमिति गच्छद्भिः शतशोऽथ सहस्रशः ॥ ५० ॥

सत्यधर्मीया

अहं पुरोऽहं पुर इति गच्छद्भिः ॥ ५० ॥

घोरैर्ज्याघातनिर्घोषैः सिंहनादैश्च भूरिभिः ।

अभिदुद्रुवुरुद्वृत्ताः सिंहं गोमायवो यथा ॥ ५१ ॥

॥ इति श्रीमद्भागवते दशमस्कन्धे पञ्चषष्ठिरध्यायः ॥

सत्यधर्मीया

सिंहं गोमायवः सृगालाः ॥ ५१ ॥

**॥ इति श्रीसत्यधर्मयतिकृतायां भागवतटिप्पण्यां दशमस्कन्ध उत्तरार्धे **

पञ्चषष्ठिरध्यायः ॥ १०–६५ ॥